भारतकोश
संग्रह पर लौटें

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ५ च वेदः एकोऽपि महर्षिभिः पृथक् पृथक् समाम्नातोऽभ्यस्तः अनेकवर्त्मनैव ऋग्यजुःसामाथर्ववेदभेदेन चतुर्विध इव भवतीत्यर्थः । समाम्नान इत्यनेन वेदस्य महर्षिप्रणीतत्वनिरासः । इस अद्वितीय ब्रह्मकी प्राप्तिका साधन और उसकी प्रतिमा वेद है। यद्यपि वेद भी एक ही है तथापि महर्षियोंने अलग अलग अभ्यास किया है अतः (ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेदके रूपमें) अनेक प्रकारका दिखाई पड़ता है। या अध्ययन करनेवाले ऋषियोंके नामसे अनेक वेद मालूम पड़ते हैं। जैसे शाकल शाखा, बाष्कल शाखा आदि । प्राप्युपाय इति । ब्रह्मणः प्राप्तिः-ममाहमित्यहङ्कारग्रन्थिसमतिक्रममात्रम् । अहङ्कारचिदात्मनोस्तादात्म्याध्यास एव ग्रन्थिः तन्निवृत्तिश्च ग्रन्थिसमतिक्रमः । इस कारिकामें प्राप्युपायमें दो पद हैं एक प्राप्ति और दूसरा उपाय । 'मेरा' और 'मैं

has a vertical stroke! But is that the stroke of प, or aa-matra? प has its own right vertical stroke!). Then after , there is ? No, it's with a vertical stroke (या)? Wait, look at line 24: शाखाध्याप then what? In Shabara Bhashya: "एकशाखाध्यापिन्यां" or "एकशाखाध्यापिन्या"? In line 24: शाखाध्यापन्त्यां or शाखाध्यापन्यां? Look at line 24: शाखाध्याप then न् = शाखाध्यापन्यां! Wait, is there a ? It looks like त् + = त्य or न् + = न्य! Wait, look at असाधारणमुपपद्यते: अ - स - ा - ध - ा - र - ण - म - ु - प - प - द्य - त - े In line 25: कठशाखेति' इति आख्या प्रवचनादिति सूत्रे ॥ ५ ॥

Let's re-verify line 26: इदानीं ब्रह्मप्राप्युपायस्य वेदस्य स्वरूपकथनेन माहात्म्यमाह—

Line 27 (Karika line

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११ पठितानामङ्गानां 'सर्वशाखाप्रत्यय'न्यायेनोपसंहारेण उपकारकत्वं चेत्यर्थः । ननु यदि सर्वशाखानामेककर्मबोधकत्वं तर्हि शाखाभेदः किंनिबन्धन इत्यत आह—शब्दा- नामिति । तस्य वेदस्य शाखासु शब्दानां यतशक्तित्वं यता नियता शक्तिः बोधजनकता अभ्युदयहेतुता वा येषां तेषां भावस्तत्त्वं दृश्यते । येन रूपेण स्वरेण च युक्तो यस्यां शाखायामुक्तो यः शब्दः स तथैवोच्चरितः तत्रैवार्थमभिधत्ते पुण्यजनकश्च नान्यथा न शाखान्तरेऽतोऽर्थक्रियानियमेन शक्तिनियमस्तत्प्रयुक्तश्च शाखाभेद इति भावः । यथा 'सिमस्याथर्वणेऽन्त उदात्तः' 'देवसुम्नयोर्यजुषि काटके' इत्यादिः । वस्तुतस्तु—तस्य वेदस्य भेदानां तत्तद्वेदगतशाखानां बहुमार्गत्त्वं बहवः पदक्रमजटामालादयो मार्गा अभ्यासोपाया येषा

े-" Wait, is it "विवक्षे-" or "विवक्षि-"? Look at L3 end: "वि" "व" "क्षे-" or "तं"? Wait! Look at L4 start: "ति स्वैः" So: "विवक्षितमिति"? Let's look at end of L3: "वि" "व" then what letter? It has 'क्षि'? Wait, the 'ि' mātrā is on the left of 'त'? Ah! "विवक्षि-" at end of L3, then "-तत्वात्" or "-ति"? Wait, L4 starts with: "ति स्वैः पितृपितामहादिभिरधीयते..." Wait! "विवक्षि-" at end of L3? Look at the top of the character at the end of L3: It has an 'े' mātrā! Wait, could it be "विवक्षे-" and then "ति" -> "विवक्षेति"? "स्वत्वस्यैकत्वस्य च विवक्षेति" -> "विवक्षा इति" = "विवक्षेति"! विवक्षा + इति = विवक्षेति! YES! "विवक्षा" (feminine) + "इति" = "विवक्षेति"! Just like in L1: "एकत्वविवक्षा"! Here: "स्वत्वस्यैकत्वस्य च विवक्षेति"! Brilliant!

Line 4: "ति स्वैः पितृपितामहादि

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १३ च श्रुतिमूलकस्मृतिकर्तृकत्वसामान्यात् असंप्रतिपन्नश्रुतिमूलकस्मृतीनां मूलं श्रुतिरनु- मेया, तदुक्तम्—'अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात्' इतिसूत्रेण जैमिनिना। स्मृतयो बहुरूपाश्चेति । स्मृतीनां पञ्चविधत्वमुक्तं भविष्यपुराणे— दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथाऽपरा । दृष्टादृष्टार्थरूपाऽन्या न्यायमूला तथाऽपरा ॥ अनुवादस्मृतिश्चान्या शिष्टैर्दृष्टा तु पञ्चमा । एतासामुदाहरणानि तत्रैव— षड्गुणस्य प्रयोज्यस्य प्रयोगः कार्यगौरवात् । सामादीनामुपायानां योगो व्याससमासतः ॥ अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् । दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडात्मज ॥ सन्ध्योपास्या सदा कार्या श्रुतौ मांसं न भक्षयेत् । अदृष्टार्था स्मृतिः प्रोक्ता ऋषिभिर्ज्ञानकोविदैः ॥ पलाशं धारयेद्दण्डमुभयार्था विदुर्बुधाः । न्यायमूला विकल्पः स्याज्जपहोमश्रुतौ यथा ॥ श्रुतौ दृष्टं यथा कार्यं स्मृतौ तत्तादृशं यदि । अनुक्तवादिनी सा तु परिव्रज्यं यथा गृहात् ॥ षड्गुणाः—सन्धिर्विग्रहो यानासनद्वैधीभावसमाश्रयाख्याः १। सामादीनां २ कार्य- गौरवाद्व्याससमासाभ्यां योगः प्रयोगः कर्तव्य इत्यर्थः । जपहोमश्रुताविति । सूर्यो- दयावधि सावित्रीजपोऽनुदितहोमविषयः । अनुक्तवादिनी = अनूदितवादिनी । यथा 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा' इत्यनयाऽनूदितं 'ब्राह्मणः प्रव्रजेद् गृहात्' इति मनुस्मृतिर्वदति विधत्त इत्यर्थः ॥ इति । ननु 'वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति' इत्येवंभूताः स्मृतयो लोभमूलाः 'औदु- म्बरी सर्वा वेष्टयितव्या' 'अष्टाचत्वारिंशद्वर्षं वेदब्रह्मचर्यम्' इत्येवंभूताश्च स्मृतयः 'औदुम्बरीं स्पृष्ट्वोद्गायेत्' 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यादि श्रुतिविरुद्धाः, तासां कथं वेदमूलकत्वसम्भव इति चेद्रोच्यते, वैसर्जनहोमीयस्मृतेः—'स्मृतीनां श्रुतिमूलत्वे ऽपि पूर्वनिरूपिते । विरोधे सत्यपि ज्ञानं शक्यं मूलान्तरं कथम् ॥' इत्यनेन लोभ- मूलकत्वं निराकृत्य श्रुतिमूलकत्वस्य, औदुम्बरीवेष्टनस्मृतेः— १. अरिविजिगीष्वोर्मध्यस्थाकारकमैक्यं सन्धिः । विरोधो विग्रहः । विजिगीषोररिं प्रति यात्रा यानम् । तयोर्मिथः प्रतिबद्धावस्थयोः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलशत्र्वोर्बलवच्छिक- मारम्भसंसर्गो द्वैधीभावः । अरिणा पीड्यमानस्य बलवदाश्रयणं संश्रयः । २. सामदानदण्डभेदाः । सामदाने दण्डभेदौ विदुषापयचतुष्टयमित्यमरान् । साम मान्त्वम् । दानं प्रसिद्धम् । दण्डो दमः । भेद उपजापः ।

१४ वाक्यपदीयम्

ततश्च श्रुतिमूलत्वाद्भाष्योदाहरणं न तत् । विरुद्धत्वे च बाधः स्यान्न चेहास्ति विरुद्धता ॥ न हि वेष्टनमात्रं हि स्पर्शश्रुत्या विरुध्यते । यदि द्वित्राङ्गुलं मध्ये विमुच्योत्तरभागतः ॥ वेष्टयेतौदुम्बरीं तत्र किं नाम न कृतं भवेत् । सर्वां वेष्टयितव्येति न ह्येषं सूत्रकृद्वचः ॥ प्राक् च लोभादिह स्पर्शः कुशैरेवान्तरीयने । वेष्टितैषा कुशैः पूर्वं वाससा परिवेष्ट्यते ॥ इति ग्रन्थेन श्रुतिविरुद्धार्थं निराकृत्य शाब्यानिमांसागतश्रुतिमूलकत्वस्य तन्त्र- वार्तिके स्थापनात् । 'अष्टाचत्वारिंशद्वर्षम्' इति स्मृतिरपि अन्धपङ्ग्वादिविषया नैष्ठिकब्रह्मचारिविषया वेति न जातपुत्रश्रुतिविरुद्धा । तदुक्तं तन्त्रवार्तिके— तत्रैवं शक्यते वक्तुं येऽन्धपङ्ग्वादयो नराः । गृहस्थत्वं न दाक्ष्यन्ति कर्तुं तेषामयं विधिः ॥ नैष्ठिकब्रह्मचर्यं वा परिव्राजकताऽपि वा । तैरवश्यं ग्रहीतव्या तेनादोषैतदुच्यते ॥ इति । ननु सर्वासाम् वेदविकल्पितस्मृतीनां श्रुतिमूलकत्वात्प्रामाण्याङ्गीकारे 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' 'हेतुदर्शनाच्च' इति सूत्राभ्यां कस्याः स्मृतेरप्रामाण्य- मुच्यते इति चेत् वेदबाह्यबौद्धादिकल्पितायाः स्मृतेरिति गृहाणेत्यलम् ॥ ७ ॥ जैसे 'गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनयनम्' यह स्मृति 'अष्टवर्षं ब्राह्मणमुपनयीत' इस प्रत्यक्ष श्रुतिसे बनाई गई है। कुछ 'अन्वष्टका कर्तव्या' यह स्मृति शिष्टाचारसे ही बनाई गई है और इनका मूल 'अष्टकासु राधसे स्वाहा' मन्त्र है। इसी तरह 'गुरुरनुगन्तव्यः' यह स्मृति 'तस्मात् श्रेयासं यन्तं पापीयान् पश्चादन्वेति' इस श्रुतिको देखकर रची गई है। इनमें 'अष्टका' स्मृतिका प्रयोजन केवल अदृष्ट है और 'गुरुरनुगन्तव्यः' स्मृतिका प्रयोजन गुरुजीको प्रसन्न रखना दृष्ट प्रयोजन भी है ॥ ७ ॥ दर्शनभेदा अपि वेदादेवेत्याह— इसी तरह दर्शन भी वेदमूलक होनेके कारण ही प्रमाण है। जो दर्शन वेद-मूलक नहीं वे प्रमाण नहीं और उनसे मङ्गलकी प्राप्ति भी नहीं हो सकती है। दर्शनोंमें भी जो भेद दिखाई पड़ते हैं वे भी वेदसे ही हैं। भेद कहीं बीचमें नहीं बन गया है। भेद होनेमें कारण यह है कि— तस्यार्थवादरूपाणि निश्चित्य स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः ॥ ८ ॥ तस्य वेदस्य अर्थवादरूपाणि अर्थवादानर्थवादरूपाणि वाक्यानि निश्चित्य आश्रित्य स्वविकल्पजाः स्वस्वबुद्धिप्रभवाः, विकल्पो बुद्धिभेदः तदुक्तं 'रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषाम्' इति, एकत्विनां द्वैतिनां च बहुधा भिन्नभिन्न-

रूपेण, ममैव दर्शनं सत्यमित्येवंरूपः प्रकृष्टो वादो येषु ते प्रवादाः अनल्पाश्चा दर्शनभेदाः, मता अभिमता इत्यर्थः। वेदके ही मन्त्रोंमें जहाँ अर्थ परस्पर विरुद्ध दिखाई पडते हैं वहाँ (भिन्न भिन्न दर्शनाचार्योने) उनमें एकको अर्थवाद (प्रशंसा करनेवाला) और दूसरेको सिद्धान्त मानकर अपनी अपनी रुचिके अनुसार एकत्ववाद या द्वैतवाद मान लिया है और अपने अपने आग्रह पर अपने-अपने पक्षका समर्थन करते हैं। अर्थवादाश्चानर्थवादाश्चार्थादानर्थवादौ रूपं येषां तानि अर्थवादरूपाणि शाकपार्थिवा- दित्वादुत्तरपदलोपः। अर्थवादाश्चानर्थवादरूपाणि च अर्थवादरूपाणीति यद् च यल्लुक् च यल्लुकोरित्येकशेषो वा। केषाञ्चिद्वादाः अर्थवादमूलाः, केषाञ्चिच्च श्रुतितात्पर्यविषया इति तद्भावः। एकत्विनः—अद्वैतिनः 'एकमेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' 'ऐतदात्म्यमिदं सर्वम्' 'तत्त्वमसि' 'नेह नानास्ति किञ्चन' 'वाचारम्भणं विकारो नामधेयं मृत्तिके- त्येव सत्यम्' 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इत्यादिश्रुतिबलेन जीव- ब्रह्मणोरैक्यं ब्रह्मव्यतिरेकेण जगतोऽभावं चातिष्ठमानाः 'द्वा सुपर्णा' 'य आत्मनि तिष्ठन्' 'अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' इत्यादिद्वैत- बोधकश्श्रुतीनां प्रत्यक्षसिद्धभेदानुवादकत्वेन हीनबलत्वाद्बाध्यत्वमाचक्षते। द्वैतिनस्तु—प्रत्यक्षविरोधेनाद्वैतश्रुतय उपचारितार्था जगदास्थाविवृत्तये वैरा- ग्योपष्टम्भार्थाः। द्वैतश्रुतयस्तु प्रत्यक्षसंवादेन सत्यार्था इति मन्यन्ते। एवं चार्वाकादयोऽपि 'अहं गौरः' 'अहं स्थूलः' इति प्रत्यक्षाभासमाश्रित्य 'स वा एष पुरुषोऽन्नरसमयः' इति वाक्यं 'आत्मैव देहमयः' इति वैरोचनसिद्धान्तप्रति- पादवाक्यं च स्वमतोपष्टम्भाय स्वीकृत्य स्वमतमपि श्रौतीकर्तुं प्रतिपेदिरे। तदुक्तं विद्यारण्यस्वामिभिः— कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः। लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः॥ श्रौतीकर्तुं स्वपक्षं ते कोशमन्नमयं तथा। वैरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे॥ इत्यादिना— एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा। मन्त्रार्थवादकृत्स्नादीनाश्रित्य प्रतिपेदिरे॥ इत्यन्तेन ग्रन्थजातेन। उदयनाचार्या-अपि आत्मतत्त्वविवेकशेषे—'प्रथमं बहिरर्थ एव भासते यमाश्रित्य धर्ममीमांसोपसंहारः चार्वाकसमुत्थानं च तत्प्रतिपादनार्थं 'पराञ्चि खानि' इत्यादिः 'तद्धानार्थं परं कर्मभ्य' इत्यादि। अथार्थाकारः यमाश्रित्य वैदण्डिकमतोप- संहारः योगाचारसमुत्थानं च तत्प्रतिपादनार्थम् 'आत्मैवेदं सर्वम्' इत्यादि, तद्धा- नार्थम् 'अगन्धमरसम्' इत्यादि। अथार्थाभावः यमाश्रित्य वेदान्तद्वारमात्रोपसंहारः शून्यत्वनैरात्म्यसमुत्थानं च तत्प्रतिपादनार्थम् 'असदेवेदमग्र आसीत्' इत्यादि,

०१६ वाक्यपदीयम् तद्धानाय 'अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः' इत्यादि। ततो विवेक- यमाश्रित्य सांख्यमतोपसंहारः शक्तिसत्त्वसमुद्भवं च। तत्प्रतिपादनार्थं च, 'प्रकृतेः परस्तात्' इत्यादि, तद्धानाय 'नान्यत् सत्' इत्यादि। ततः केवल आत्मा प्रकाशते यमाश्रित्याद्वैतमतोपसंहारः तत्प्रतिपादनार्थं 'न पश्यन्तीत्याहुरेकीभवती'त्यादि, तद्धानाथं 'नाद्वैतं नापि च द्वैतम्' इत्यादि। ततः समस्तसंस्काराभिभवात् केवल्योऽपि न विकल्पते यमाश्रित्य चरमवेदान्तोपसंहारः तत्प्रतिपादनार्थं 'यतो वाचो निव- र्तन्ते अप्राप्य मनसा सह' इत्यादि। सा चावस्था न हेया मोक्षनगरगोपुरायमाण- त्वात्। निर्वाणं तु तस्याः स्वयमेव यदाश्रित्य न्यायदर्शनोपसंहारः तत्प्रतिपादनार्थम् 'अथ यो निष्काम आत्मकाम आप्तकामः स ब्रह्मैव सन् ब्रह्माप्येति न तस्य प्राणा उत्क्रामन्ति तत्रैव समवलीयन्ते' इति प्राहुः ॥ इति ॥ ८ ॥ एकत्ववादी—(अद्वैतवादी) 'एकमेवाद्वितीयं ब्रह्म, आत्मैवेदं सर्वम्, ऐतदात्म्यमिदं सर्वम्, तत्त्वमसि, नेह नानास्ति किञ्चन' इत्यादि श्रुतियोंके आधारपर जीव-ब्रह्मकी एकता और ब्रह्मसे अलग जगत्‌की सत्ताका अभाव मानते हैं तथा 'द्वा सुपर्णा, य आत्मनि तिष्ठति, अजो ह्येको जुषमाणोऽनुशेते इत्यादि द्वैतको बतानेवाली श्रुतियोंको प्रत्यक्ष वस्तु कहनेके कारण हीनबल मानकर एकत्ववादिनी श्रुतियोंसे इनका बाध कर देते हैं और अपने एकत्ववादका समर्थन करते हैं। द्वैतवादी—प्रत्यक्ष वस्तुके विरुद्ध होनेके कारण अद्वैत श्रुतियाँ केवल संसारमें विश्वास हटानेके लिए हैं और द्वैत श्रुतियाँ प्रत्यक्ष सिद्ध सत्य अर्थका बोध कराती हैं अतः द्वैतको ही उचित मानते हैं। चार्वाक भी—'आत्मैव देहमयः' इस श्रुतिको प्रमाण मानकर अपने पक्षको वेदसम्मत बतानेका साहस कर सकता है। अतः जितने पक्ष हो सकते हैं, सबके मूलमें वेद ही है ॥ ८ ॥ ननु यदि एते दर्शनभेदाः आप्तैकशरणपुरुषबुद्धिप्रभवा अन्यथा योज्यमानश्रुति- मूलाः परस्परविरुद्धाश्च तर्हि असत्या एव वस्तुनि विकल्पासम्भवात् अतः सत्यं किं तत्त्वमत आह— अब शङ्का यह उठती है कि दर्शनोंके वेदमूलक होनेपर भी सबमें आग्रह के कारण एकता न होनेसे यह कैसे जाना जा सकता है कि ब्रह्मप्राप्तिका सच्चा मार्ग कौन है ? सत्या विशुद्धिस्तत्रोक्ता विद्यैवैकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिनी ॥ ९ ॥ य एते दर्शनविकल्पा भिन्नरूपानुगताः ( भेदमाश्रिताः ) ते भ्रमकारणरागद्वेष- मूलत्वादसत्या इति न वेदतात्पर्यविषयाः किन्तु अभिन्नरूपत्वाद् विशुद्धिः विशिष्टा शुद्धिः रागद्वेपादिरहित्यं यस्यां सा, एकपदागमा एकं पदं प्रणवरूपमागमो बोधकं यस्याः सा, तथा च श्रुतिः—ओमित्येकाक्षरमुद्गीथमुपासीतेति, एकस्मिन्पदे विषये आगमः समन्वयो यस्याः सा वा, विद्या ब्रह्मरूपा एकत्वबोधकश्रुतिर्वा एव न द्वैतं द्वैतश्रुतियाँ सत्या अतः तत्र वेदे उक्ता—वेदतात्पर्यविषयः, सत्यार्थप्रति-

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १७ पाठरूपेण पठिता वा। अद्वैतवादे कुतो न रागद्वेषायत आह—प्रणवेति । यतः सा विद्या प्रणवरूपेण सर्ववादाविरोधिनी अतो युक्ता परमार्थो नान्येत्यर्थः ॥ (जो रागद्वेष आदि दोषोंसे रहित) विशिष्ट बुद्धिशाली है और एक प्रणव (ॐकार) ही जिसे व्यक्त कर सकता है वह ब्रह्मरूपा एकत्वबोधिका विद्या ही सत्य है। यह ही विद्या सत्य अर्थ प्रकाशित करनेके कारण वेदमें वर्णित है। क्योंकि जितने (परमाणुकारणवाद, प्रधानकारणवाद आदि) वाद हैं इन सबसे कोई विरोध भी नहीं है। अतः वही वेदका परम सिद्धान्त है। परमाणुकारणवादो हि प्रधानकारणवादिविरुद्धो नाद्वैतवादः कल्पनयाऽद्वितीय- ब्रह्मण एव प्रधानपरमाणुरूपत्वात् यद्रूपं दर्शनभेदा ब्रह्मणः कल्पयन्ति तत्प्रणव एतत्तस्य रूपमित्यभ्यनुजानाति । तद्यथा तार्किकेन परमाणुर्जगत्कारणं, सांख्येन प्रकृतिर्जगत्कारणमित्युक्तेऽद्वैतिना ओमिति वक्तुं शक्यते परमाणुप्रकृत्यादीनां ब्रह्मा- नन्यत्वादिति सर्ववादाविरुद्धत्वं ब्रह्मणः । यद्वा प्रकर्षेण नौति स्तौतीति प्रणवः, प्रणवो हि ब्रह्म स्तौति इति प्रणवेन ब्रह्मणस्तादात्म्यात् प्रणव एव ब्रह्म तदेव सत्यं तद्विवर्त्तांश्चान्ये मिथ्या इति न मिथ्याभूतेन द्वैतेन सत्यस्याद्वैतस्य विरोध इति भावः । एतदेवाभिप्रेत्य गौडपादाचार्यैरुक्तम्— स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ कपिलकणादबुद्धार्हतादिदृष्ट्यनुसारिणो द्वैतिनो रागद्वेषोपेताः स्वसिद्धान्तदर्शन- निमित्तं परस्परं द्विषन्ति अद्वैतिनो हि सर्वात्म्यत्वात् यथा कदाचित् हस्तपदा- दिभिराहतोऽपि कश्चिन्न विरुध्यते तथा तैनं विरुध्यन्त इति तदर्थः । यतः अद्वैतं परमार्थः द्वैतं च तद्भेदः-तत्कार्यम् तद्विवर्तं इति यावत्, एकमेवाद्वितीयं तत्तेजो- ऽसृजत इति श्रुतेः । अतो न मिथ्याभूतेन द्वैतेन विरोधः। यथा मत्तगजस्थः उन्मत्तं भूमिष्ठं प्रति वाहय मां प्रतीति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वत् द्वैतिनां तु उभयथा परमार्थतोऽपरमार्थतश्च द्वैतमेवातो विरोध इति । अत एव परमार्थसारे पतञ्जलिः— यद्यत्सिद्धान्तगमतर्कादिषु भ्रमन्ति रागाम्धाः । अनुमोदामस्तत्तत्तेषां सर्वात्मवाद्धिया ॥ इति । इदमत्र तत्त्वम्—कणादादयो हि मायिकत्वेन मिथ्याभूतत्वेन ब्रह्मरूपत्वेन च ज्ञातमपि प्रपञ्चं बोधनीयशिष्याधिकारानुसारेण तदीयमायिकस्याध्यवलम्ब्य ब्रह्मरूपत्वेन ज्ञातपरमाण्वादिभ्यः सृष्टिमाहुः । यदाहुः—'न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्' इति अतो न ऋषीणां परस्परं मतभेद इति ॥ ९ ॥ तात्पर्य यह है कि वे दर्शन जो परस्पर भिन्न हैं और एक पक्षपर आग्रह किए हैं। जैसे परमाणुकारणवाद और प्रधानकारणवाद । परमाणुकारणवादी कणाद जगत्की सृष्टि परमाणुसे मानते हैं। वहीं प्रधानकारणवादी कपिल जगत्का कारण प्रधानको (प्रकृतिको) ३-

मानते हैं इनमें परस्पर मत भेद है किन्तु जो सत्य है उससे दोनोंसे कोई मतभेद नहीं है।
क्योंकि प्रधान या परमाणु ब्रह्मसे अन्य है ही नहीं। अतः ब्रह्मको कारण मानने वाले
अद्वैतियोंकी दृष्टिमें दोनोंमें कोई विरोध नहीं है। अतः ब्रह्म ही सत्य है। अथवा ब्रह्मकी प्रवृ-
त्ति करने वाले प्रणवसे ब्रह्ममें तादात्म्य है अतः ब्रह्म होनेके कारण प्रणव सत्य है उसके
विवर्त जो अन्य हैं वे असत्य (मिथ्या) हैं। मिथ्या द्वैतसे सत्य अद्वैतका कोई विरोध नहीं
है। यहाँ वास्तवितकता यह है कि बोधनीय शिष्यकी शक्तिके अनुसार ही विषयका ज्ञान कराना
चाहिए। बोद्धा परमाणुको ब्रह्म समझता है अतः उसे वही जगत्का कर्ता बताया गया है ॥५॥
किं बहुना सर्वेऽपि विद्याभेदा वेदादैवेत्याह—
विधातुस्तस्य लोकानामङ्गोपाङ्गनिवन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ॥ १०॥
लोकानां विधातुः—उपदेष्टृत्वेन सर्वव्यवस्थापकस्य सर्वशब्दार्थप्रकृतिरूपत्वेन
सर्वस्रष्टुश्च तस्य प्रणवरूपस्य वेदस्य अङ्गोपाङ्गनिवन्धना

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १६ कादोङ्कार एवेदं सर्वम्' इति । ननु शब्दातिरिक्कार्थाभावे शब्दस्यार्थवाचकत्वानुप- पत्तिः एकत्र विषयविषयित्वायोगात्, तथा च निर्विकल्पकं वाच्यवाचकविभागरून्यं सन्मात्रं वस्तु प्राप्नोति इति चेदिष्टमेवैतत् कार्यस्य सर्वस्य मिथ्यात्वादित्यवेहि । तथाच श्रुतिः-'वाचारम्भणं विकारो नामधेयम्' इति । 'वाचया केवलमारभ्यते विकारजातं न तु तत्त्वतोऽस्ति यतो नामधेयमात्रम्' इति तदर्थं भामतीकारा आहुः । ननु वाच्यं च वाचकं च सर्वमोङ्कार एवेत्यभ्युपगमेऽपि परं ब्रह्म पृथगेव स्थास्यति इति चेन्न यदि परं कारणं ब्रह्म सञ्चेन्नवगम्यते किञ्चिदभिधानं तेनेदमभिधे- यमित्येवमात्मककोशायपूर्वक्रमेव तदधिगमः । अभिधेयं च स्वाभिधानाव्यतिरिक्तं तत्तु ङ- रोङ्कारमात्रमिति वाच्यं ब्रह्मापि वाचकाभिन्नं तन्मात्र

१२ वा. १ । २ अभिन्नात् संहृतक्रमात् अन्तःसन्निविष्टात् पश्यन्तीरूपात् शब्दतत्त्वात्-प्राप्तो वर्णपदवाक्यलक्षणो रूपविभागो यया, यद्वा अभिधेयत्वेन प्राप्तः रूपविभागः अर्थ- विशेषः गवादियया, यद्वा प्राप्तः रूपविभागः गवादिरर्थः कार्यकारणभावेन यया, शब्दो हि गवादिरूपेण परिणमते ते च गवादयस्तत्रैव लीनाः वाग्रूपेण व्यवतिष्ठन्ते यदाहुः- 'नामैवेदं रूपत्वेन यवृते रूपं चेदं नामभावेऽवतस्थे । एके तदेकमविभक्तं विभेजुः प्रागिवान्ये भेदरूपं वदन्ति' इति, सा तस्याः प्राप्तरूपविभागायाः सूक्ष्- मायाः वाचः वाचकत्वादभ्युदयहेतुत्वाच्च यः परमो रसः सारः व्यवस्थितसाधु- भावः शब्दसमूहः, यदाहुः 'ऋषीपमेतद्वाचो य. संस्कारहीनः शब्दः' इति 'निष्पीडि- तरसस्याग्रे रसः सारः यदन्वकिष्टं स ऋषीषः' इति यत्तत् श्रुतिप्रसिद्धं पुण्यतमम् प्रकाशाप्रकाशयोः प्रकाशकं ज्योतिः शब्दाख्यम्, यथाहुः- 'इह त्रीणि ज्योतींषि त्रयः प्रकाशाः स्वरूपपररूपयोरवद्योतकाः 'योऽयं जातवेदाः यश्च पुरुषेष्वन्तरः प्रकाशो यश्च प्रकाशाप्रकाशयोः प्रकाशयिता शब्दाख्यः तत्रैतत्सर्वमुपनिबद्धं यावत्स्थाणु चरिष्णु च' इति तस्य साधुशब्दसमूहस्य ज्ञाने अयं सामान्यविशेषलक्षणवान् व्याकरणरूपः आञ्जसः सरलो मार्ग उपाय इत्यर्थः । प्रतिपदोक्तशब्दपारायणरूपस्तु अत्यन्तकृच्छ्रो मार्गः तथा च श्रूयते 'बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्द- पारायणं प्रोवाच न चान्तं जगाम' इति । तथा च लाघवार्थं व्याकरणम् इति भावः॥१२॥ और जिसने एक और क्रम रहित पश्यन्ती वाक् रूपी शब्दतत्त्वसे वर्ण-पद-वाक्य रूपी रूपविभाग प्राप्त किया है । अथवा वाच्यरूपमें रूपविभाग (अर्थ विशेष) प्राप्त किया है । अथवा कार्य-कारणके रूपमें जिसने अर्थरूप धारण किया है और जो क्रमवती वाणीका (वैखरी) वाचक या अभ्युदयका कारण होनेके नाते परमसार है, जो श्रुति प्रसिद्ध पुण्यतम आलोक और तमको प्रकाशित करने वाली शब्दानामक़ी ज्योति है उसके साधुत्व ज्ञानके लिए यह व्याकरण शास्त्र ही सरल मार्ग है । क्योंकि शब्द अनन्त हैं । उनका ज्ञान कोषके द्वारा होना असम्भव है । एक बार इन्द्रजी- को इच्छा हुई थी कि सब शब्दोंको पढ़ लिया जाय । उन्होंने देवगुरु बृहस्पति को बुलाया और पढ़ने लगे । एक हजार वर्ष बीत गए किन्तु शब्द राशिका अन्त नही हुआ । आजकल तो जो बड़ा दीर्घायु होगा वह सौ वर्ष जी सकेगा फिर उसे इस शब्द राशिका ज्ञान कैसे हो सकता है । इसलिए शब्दोंके ज्ञानके लिए कुछ नियम बना लेना चाहिए । जो नियम कुछ सामान्य नियम हों और कुछ विशेष नियम हों । विशेष नियमोंसे सामान्य नियमोंका बाध हुआ करेगा । इस प्रकार थोड़ेसे समय और परिश्रमसे बड़े शब्द सागरको पार किया जा सकता है । अतः व्याकरण नामके इस शास्त्रका निर्माण हुआ जो थोड़ेसे परिश्रममें शब्द राशिका ज्ञान कराता है । अतः यह व्याकरण शब्द-जगतके ज्ञानमें लाघव (शीघ्रता) करने वाला है अर्थात् थोडे परिश्रममें अधिक शब्दोंका ज्ञान कराता है ॥ १२ ॥ सर्वव्यवहारसम्पादकज्ञात्यादिबोधकशब्दस्वरूपबोधकत्वादपि व्याकरणं प्रशंसन् भाष्योक्तं संदेहाभावरूपं पञ्चमं व्याकरणप्रयोजनमाह— अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।

... ... ... त्म् २४ तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ १३ ॥ अर्थप्रवृत्तितत्त्वानाम् अर्थस्य घटादेः प्रवृत्तौ व्यवहारे-जलाहरणादिरूप- र्थक्रियाकारित्वे, अयं घट इत्यादिशब्दप्रयोगे वा, निमित्तानि जातिगुणक्रियासंज्ञाः तेषां, तथा च भाष्यम् 'चतुष्टयी शब्दानां प्रवृत्तिः जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाः' इति। अत्र-'शब्दानामर्थे या प्रवृत्तिः ( प्रयोगः ) सा प्रवृत्तिनिमित्त- भेदात्प्रकारचतुष्टयवतीत्यर्थः' इत्युद्योतः। यावद्व्यक्तयो जात्यादिभिर्नोपलक्ष्यन्ते तावदिदं तदित्येवं व्यवहार्या न भवन्तीति भवति तेषां व्यवहारे निमित्तत्वम्। शब्दा एव निबन्धनं बोधकाः, सर्वो हि व्यवहारः शब्दमूलः न हि शब्दमनुच्चार्यकश्चिद्व्यवहर्तुं शक्नोतीति भावः। निबन्धनमिति वेदः प्रमाणमितिवन्निर्देशः। नन्वेतावता किमा- यातं व्याकरणस्य, शब्दस्वरूपबोधस्य श्रोत्रेन्द्रियादेव सत्त्वादत आह—तत्त्वेति। शब्दानां तत्त्वावबोधः तत्त्वम्-अवैक्लव्यं साधुत्वं, यथार्थबोधकत्वं, वा तस्य अव- बोधः निश्चयः, स्थूलपृषतीमित्यत्रार्थनिर्णयस्य व्याकरणाधीनत्वात्। देवदत्तस्य गुरु- कुलमित्यत्र नित्यसापेक्षत्वात् समासः। व्याकरणादृते नास्ति व्याकरणादेव भवति न श्रोत्रादिभ्य इति भावः। शब्दस्यैतदेव वैक्लव्यं-यदपगतसंस्कारत्वम्, अन्यार्थबो- धकत्वं वा। अनेन सन्देहाभावरूपं व्याकरणप्रयोजनमुक्तम्। और किसी भी अर्थके ( घट, पट आदिके ) प्रवृत्ति ( व्यवहार, जैसे पानी भरना ), और घट शब्दके प्रयोगमें ( उच्चारणमें जातिशब्द गुणशब्द और क्रिया ) शब्द ही बोधक है। क्योंकि जितने व्यवहार हैं सब शब्दसे ही चलते हैं। उन शब्दोंके तत्त्वका ( निःशेष साधुत्व, या यथार्थबोधकत्वका ) ज्ञान विना व्याकरणके नहीं हो सकता। अयं भावः-शब्दस्य द्वे रूपे शब्दत्वं साधुत्वं च तत्राद्यस्य श्रोत्रेन्द्रियग्राह्यत्वेऽपि द्वितीयं व्याकरणादेव गृह्यते न श्रोत्रादन्यथाऽनधीतव्याकरणा अपि प्रतिपद्येरन्। एतेन 'तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते' इति कुमारिलभट्टोक्तमपास्तम्। यथाऽऽहुः— शब्दार्थसम्बन्धनिमित्ततत्त्वं वाच्याविशेषेऽपि च साध्वसाधून्। साधुप्रयोगानुमितांश्च शिष्टान् वेद यो व्याकरणं न वेद ॥ इति। वाच्याविशेषेऽपि—एकस्मिन्नेव गोरूपेऽर्थे गोत्वजातिनिमित्तेन गोणीशब्दोऽसाधुः आवपनसादृश्यात्प्रयुक्तः साधुः इत्येवंभूतं—शब्दार्थसम्बन्धस्य निमित्तं प्रवृत्तिनि- मित्तं तस्य तत्त्वमविपरीतत्वं, साध्वसाधून् शब्दान्, अयं शिष्टः साधुशब्दप्रयोक्तृत्वा- दित्येवमनुमितान् शिष्टांश्चावैयाकरणो न वेदेत्यर्थः ॥ १२ ॥ शब्दके दो रूप हैं । एक तो शब्दत्व और दूसरा साधुत्व । जिसमें शब्दत्वका ज्ञान तो श्रवणेन्द्रियसे भी हो सकता है । क्योंकि यह नियम है कि 'जो वस्तु जिस इन्द्रियसे ज्ञान होता है उसकी जाति और अभाव भी उसी इन्द्रियसे ज्ञान होता है।' अतः शब्दके श्रवणेन्द्रियसे ग्राह्य होनेके कारण उसमें रहने वाली शब्दत्व जाति भी श्रवणेन्द्रियसे ही जानी जायगी । किन्तु जो दूसरा रूप साधुत्व है, वह तो व्याकरणके बिना जाना ही नहीं जा सकता।

, अपभ्रंशप्रयोगाभावाय अपे-" Wait, "स्वीक्रियते": "स्वी क्रि य ते" -> "स्वीक्रियते". Line 25: "क्ष्यते इति यावत् ॥ १४ ॥"

Line 26 (Hindi): "और वही व्याकरण अपवर्गका (मोक्षका) उपाय है, पापको उत्पन्न करने वाले अपशब्दरूपी" Line 27: "वाणीके मलोंकी चिकित्सा (औषध) करने वाला है, सब विद्याओंमें पवित्र और साधुशब्दोंकी" Line 28: "द्योतनिके कारण सब विद्याओंसे आदृत भी है ॥ १४ ॥" Wait, "द्योतनिके": Let's check: "द्योतनिके" or "द्योतनेके"? It has an 'ि' matra on 'न': "द्योतनिके".

Line 29: "ननु 'श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः' इति स्मरणाच्छ्रुतिवाक्यश्र-" Line 30: "वणजन्यमेव शब्दब्रह्मज्ञानमपवर्गायलं१ न व्याकरणजन्यम्, न च शब्दशक्तिग्रहाय" (Note: '१' is the footnote callout).

Footnote divider. Line 31: "१. इदं च मतं 'वेदान्तमुद्दिश्याप्रवृत्तानामपीषदप्रवृत्ता

तदपेक्षा, कोशकाव्यादित एव तदुपपत्तेर्न व्याकरणस्यापवर्गद्वारत्वमुपपादयन् लौकि- क शब्दानुशासनरूपं प्रयोजनमाह— यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धनाः । तथैव लोके विद्यानामेषा विद्या परायणम् ॥ १५ ॥ यथा सर्वा अर्थजातयः घटादिसमवेता घटत्वादिजातयः शब्दाकृतिनिबन्ध- नाः शब्दानां घटादिशब्दानामाकृतयो घटशब्दत्वादयो निबन्धनं बोधकं यासां ताः अर्थगतजातीनां वाच्यत्वं शब्दगतजातीनां च वाचकत्वमिति भावः । अर्थगतजातीनां बोधः शब्दादेवेति यावत् । तथैव एषा विद्या व्याकरणं लोके सर्वविद्यानां कोश- काव्यादीनां परायणम् स्वघटकपदशक्तिग्रहाय अपेक्षणीयम् । ततश्च-'लोकावगत- सामर्थ्यः शब्दो वेदेऽपि बोधकः' इति न्यायाल्लोके शब्दशक्तिग्रहस्य व्याकरणाधीन- त्वाल्लौकिकशब्दशक्तिग्रहस्यापि तदधीनत्वमिति धियापि तदपेक्षणीयमिति भवत्यप- वर्गद्वार

२६ वाक्यपदीयम् है। पश्यन्ती ही परा रूपमें ¹ ब्रह्म है। अतः ब्रह्मज्ञानका कारण व्याकरण भी है ॥ १६ ॥ ननु 'आत्मा वारे द्रष्टव्यो मन्तव्यो निदिध्यासितव्य' इति श्रुत्या प्रत्यगात्मसा- क्षात्कारस्यैव मोक्षहेतुत्वश्रवणाच्छब्दसाक्षात्कारसाधकस्य व्याकरणस्य कथं मोक्षहेतु- त्वमित्याशङ्क्य शब्दस्यैव प्रत्यगात्मरूपत्वप्रदर्शनेन व्याकरणस्य मोक्षहेतुतामाह— यहाँ यह शङ्का उठ जाना स्वाभाविक है कि मोक्ष आत्मसाक्षात्कारसे होता है शब्द- साक्षात्कारसे नहीं। व्याकरण शास्त्रसे शब्दका साक्षात्कार भले ही हो किन्तु ब्रह्मसाधन न होनेके कारण मोक्षका कारण नहीं माना जा सकता, किन्तु यह शङ्का उचित नहीं— अत्रातीतविपर्यासः केवलामनुपश्यति । छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ॥१७॥ अत्र व्याकरणेऽतीतविपर्यासः अतीतो नष्टो विपर्यासो-भ्रमो यस्य स सम्य- ग्ज्ञानवान् शब्दविपर्यासपूर्वको हि अर्थविपर्यासः 'स्थूलपृषतीमि'त्यादौ दृष्टः तं च शब्दविपर्यासमतिङ्क्रामति उदात्तादिज्ञानेन व्याकरणम्, इतः व्याकरणादपगत- शब्दार्थविपर्यासः सन् छन्दस्यः-छन्दसे वेदाय हितः वेदग्रहणसमर्थः आत्मा छन्दसां वेदानां योनिं छन्दोमयीं छन्दोरूपां केवलां शुद्धाम् अपभ्रंशविविक्ता- मिति यावत् । तनुं सूक्ष्मां स्वस्वरूपभूतां वा प्रणवरूपां पश्यति । शब्दब्रह्म एव विवर्तो जीवः—"स एव जीवो विवरप्रसूतिः" इति भागवतात् , तथा च शब्द- साक्षात्कार एव आत्मसाक्षात्कारः । ततश्च व्याकरणस्य मोक्षहेतुत्वमुपपन्नमिति भावः॥ क्योंकि इस व्याकरणके ज्ञान हो जानेसे शब्दके बारेमें बुद्धिभ्रम दूर हो जाता है और मनुष्यको साधुशब्दोंका पता लग जाता है । उस समय आत्मा वेदोंके ज्ञानमें समर्थ हो जाता है और वेदोंकी छन्दरूपी योनिको जो शुद्ध है ( अपभ्रंशसे अलग है ) उस सूक्ष्म प्रणवरूपी तनुको देख लेता है । यह प्रथम कारिका की व्याख्यामें ही बता चुका हूँ कि पश्यन्तीरूप ही किसी अवस्थामें जीव है । इसलिए पश्यन्तीका साक्षात्कार और आत्मसाक्षात्कारमें कोई भेद नहीं है । अतः शब्दसाक्षात्कारके द्वारा व्याकरण मोक्ष देता है ॥ १७ ॥ ननु 'आत्मा वाऽरे द्रष्टव्यः' इति श्रुत्या आत्मसाक्षात्कारस्यैव 'तमेव² विदित्वाऽतिमृत्युमेति' इतिश्रुत्या ब्रह्मसाक्षात्कारस्यापि बन्धनिवृत्ति ( मोक्ष ) हेतुता प्रतिपादिता । एवं च शब्दविवर्तस्य प्रत्यगात्मनो व्याकरणवेद्यत्वेऽपि परब्रह्मणो व्याकरणावेद्यतया कथं व्याकरणस्याध्ययनान्मोक्ष इत्याशङ्क्य निराचिकीर्षुः परब्रह्मणो व्याकरणवेद्यत्वोपपादनाय शब्दब्रह्मरूपतां पञ्चभिः श्लोकैराह— १. वैयाकरण वाणीके पश्यन्ती, मध्यमा और वैखरी नामके तीन भेद ही मानते हैं वाणीका परा नामका भेद शैवसिद्धान्तके आधार पर नागेशने वैयाकरणोंका माना है इसकी विवेचना आगे १४३ वीं कारिकामें पढ़िए । २. तमेवेत्यत्र एवकारो भिन्नक्रमः विदित्वेत्यस्यानन्तरं द्रष्टव्यः यद्यश्रुतं तु न युक्तम् आत्मसाक्षात्कारस्य मोक्षहेतुत्वबोधकश्रुतिविरोधापत्तेः ।

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् २७ यद्यपि जैसे 'आत्मा वा अरे द्रष्टव्यः' इस श्रुतिसे आत्मसाक्षात्कार मोक्षका कारण माना गया है। वैसे 'तमेव विदित्वाऽतिमृत्युमेति-' इत्यादि श्रुतिसे ब्रह्मसाक्षात्कारको भी मोक्षके प्रति कारण माना गया है। जिसमें आत्मा शब्द ब्रह्मका विवर्त है। व्याकरण द्वारा शब्दके ज्ञानसे आत्माका ज्ञान हो सकता है। किन्तु ब्रह्म तो शब्दसे अलग है, इसलिए शब्द ज्ञानसे ब्रह्मज्ञान नहीं हो सकता। तब व्याकरण मोक्षका कारण कैसे मान लिया जाय यह शङ्का उठती है। तथापि यह समझ लेना चाहिए कि शब्द ही ब्रह्म है। शब्दज्ञान ही ब्रह्मज्ञान है ब्रह्मज्ञान ही मोक्षका कारण है। क्योंकि प्रत्यस्तमितभेदाया यद्वाचो रूपमुत्तमम् । तदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते ॥ १८ ॥ प्रत्यस्तमितभेदाया उपसंहृतक्रमाया वाचो यदुत्तमम् अविकृतं रूपं पर- ब्रह्माख्यं शुद्धं मायोपप्लवरहितं ज्योतिः प्रकाशाप्रकाशयोः प्रकाशकं शब्दाद्वयं तत् अस्मिन्नेव वैकृतध्वनिरूपे तमसि अन्धकारे विवर्तते आच्छादितं वर्तते इत्यर्थः ॥ १८ ॥ जो क्रम रहित वाचाका उत्तम और शुद्ध ( मायाके प्रपञ्चोस परे ) आलोक और तमका भी प्रकाशक शब्दब्रह्मरूपी ज्योति है। वह इसी वैकृतध्वनि रूपी अन्धकारमें छिपी है ॥ १८ ॥ प्राकृतवैकृतध्वनिभिन्नं स्फोटं व्यवस्थापयन् पूर्वोक्तमेव रूपं स्पृशति— वैकृतं समतिक्रान्ता मूर्तिव्यापार वर्जितम् । व्यतीत्यालोकतमसी प्रकाशं यमुपासते ॥ १९ ॥ इदमत्र बोध्यम्—ध्वनिर्द्विविधः प्राकृतो वैकृतश्च। प्रकृतौ स्फोटे भवः प्राकृतः स्फोटाभिव्यञ्जक इति यावत् । ध्वनिस्फोटयोः पृथक्त्वेनानुपलम्भात् स्फोटं ध्वनेः प्रकृतिमिव मन्यन्ते। तत्र स्फोटस्य प्राकृतध्वनेर्भेदाग्रहाद् वर्णोत्पत्तिक्रमाभिव्यक्तिजनकय- त्नीयकालोपरागेणैव भानम्। अत एव तस्य प्राकृतत्वेन व्यवहारः। वैकृतः प्राकृता- ज्जातो विकृतिविशिष्टश्चिरस्थायी स्फोटानभिव्यञ्जकः स्फोटोपलब्धिधाराजनकः । प्राकृतेन ध्वनिना स्फोटेऽभिव्यक्ते, तदुत्तरकालभावी ध्वनिःस्फोटाद्विलक्षण उपलभ्यते इति विकारापत्तिरिव स्फोटस्येति वैकृत उच्यते। यथा उद्यन्नेव प्रकाशो घटमवभा- सयति तदनन्तरं चावतिष्ठमानः घटोपलब्धिधारां जनयन्नपि न घटे कञ्चिद्विशेषमा- दधाति, एवं प्राकृतध्वनिनाऽभिव्यक्ते शब्दे उत्तरकालमनुवर्तमानो वैकृतध्वनिः शब्दविषयां बुद्धिधारां जनयन्नपि न शब्दं प्रकाशयति । अतो वैकृतध्वनिसंसृष्टमपि स्फोटं वैकृतध्वनिभिरुपलभ्यन्तो वैकृतध्वनिगतं देशकालभेदं स्फोटे चाध्यारोपयन्ति। ध्वनि भी दो प्रकार की है। प्राकृत और वैकृत। प्राकृत ध्वनि 'प्रकृतौ स्फोटे भवः प्राकृतः' अर्थात् 'स्फोटको व्यक्त करने वाली ध्वनि'। क्योंकि स्फोट और ध्वनिमें कोई पार्थक्य प्रतीत नहीं होता। अतः स्फोटको ध्वनिकी प्रकृतिकी तरह लोग मानते हैं और वर्णकी अभिव्यक्तिके प्रयत्नमें लगने वाले कालके द्वारा ही स्फोट में प्राकृत ध्वनि का बोध होता है। इसीलिए उसे 'प्राकृतध्वनि' कहते हैं ।

: त्ति (tti) - wait, does it have an i-matra? Yes, the vertical line on the left goes up and curves over. Then what is under it? त् + य ? Wait! Look at "वृत्त्युपलब्धीनां": Could it be: वृ - त्ति - य् - प - ल - ब्धी - नां? Wait, look at वृत्तिपुपलव्धीनां? Let's look at the characters: वृ (vṛ) त्ति (tti) Then: a character that looks like ? No, it has a flat top, vertical line on the right, curved left... that's ! Wait, look at the top of that letter: does it have a matra? No. Look below it: does it have ? Yes, it curves down and left. So it's पु! Then next letter: it has a flat top, vertical line on right, curved middle... wait, that's another ? No, it's ? Wait, look at : in this font, has a loop on the left and a vertical line on the right (Devanagari ल). Wait! In वृत्ति[..]लब्धीनां, is it वृत्त्युपलब्धीनां? Let's look at other occurrences of त्त्यु: In Sanskrit printing, `त्

ब्रह्मकाण्डम् ] संस्कृत हिन्दी व्याख्योपेतम् २६ ननु यद् युगपद्विरुद्धसंसर्गवत् तन्नाना यथा द्विशफैकशफवान् गवाश्वादिः युगपत्कत्वगत्वादिधर्मवांश्च स्फोट, तस्मान्नानेति कथं स्फोटरूपस्य शब्दब्रह्मण एकत्व- मत आह— यद्यपि जो एक समयमें अनेक परस्पर विरुद्ध वस्तुओंसे सम्बद्ध हो वह एक नहीं हो सकता। जैसे एकशफत्व और द्विशफत्व ये दोनों धर्म न तो गौमें ही हैं न अश्वमें ही। किन्तु ये दोनों धर्म अलग अलग दो पशुओं में रहते हैं। वैसे कत्व गत्व रूपी विरुद्धधर्म एक स्फोटमें नहीं रह सकते। तथापि— यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ २० ॥ यत्र स्फोटाख्ये शब्दब्रह्मणि अक्षरस्मृतेश्चिह्नानीव लिपय इव वाचो वागभि- व्यञ्जकस्य प्राकृतध्वनेः निमित्तानि, वागभिव्यक्तिनिमित्तध्वनिगताः कत्वादिजातयः शब्दपूर्वेण शब्दाभिव्यक्तिपूर्वभाविध्वनिना योगेन सम्बन्धेन भेदाग्रहणेति यावत् यद्वा शब्दपूर्वेण साधुशब्दानाम्प्रयोगपूर्वेण योगेन क्रमसंहाररूपेण, प्रतिबिम्बवत् प्रतिबिम्बे इव भासन्ते इत्यर्थः । 'तत्र तस्येव' इति वतिः ॥ जैसे—जिस स्फोट शब्दब्रह्ममें अक्षरोंके स्मृति चिह्न ( लिपियाँ ) वाणी ( प्राकृतध्वनि ) का कारण मानी जाती हैं। वैसे शब्दको व्यक्त करने वाली कत्व, गत्व जातियां भी शब्दोच्चारणके पूर्वमें होने वाली ध्वनियों से अभिन्न होने के कारण प्रतिबिम्बकी तरह मानते हैं। अथवा— शब्दको व्यक्त करने वाली कत्व, गत्व जातियां साधुशब्दका ज्ञानपूर्वक अक्रम प्रयोगके रूपमें प्रतिबिम्ब की तरह प्रतीत होती हैं। जपाकुसुमादिगतलौहित्यादिव्यञ्जकोपरागवशात् लोहितः स्फटिक इतिभानवत् व्यञ्जकध्वनिगतकत्वगत्वादयः स्फोटे भासन्ते प्रतिबिम्बगतधर्मवैशिष्टयेनैव बिम्बस्य लोकेऽवधारणादिति न वस्तुतः स्फोटे कत्वादयो येन भेदः स्यादिति भावः ॥२०॥ तात्पर्य यह है कि जैसे जपाकुसुमका रक्त स्फटिकमणि पर पड़ता है और श्वेत भी स्फटिक मणि लाल मालूम पड़ने लगता है। वैसे व्यञ्जकध्वनिके ही धर्म कत्व गत्वादि स्फोटमें भासित होते हैं। वस्तुतः वे स्फोटके धर्म नहीं हैं। अतः स्फोट एक है ॥ २० ॥ स्फोटेऽव्यक्तकत्वाद्यवभासवदन्यगतवर्णांशोदात्तादेरवभासोऽतो नोदात्तादि- विरुद्धधर्मसंसर्गकृतोऽपि स्फोटभेद इत्याह— अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च । यस्मिन्नुच्चावचा वर्णा पृथक्स्थितिपरीग्रहाः ॥ २१ ॥ यस्मिन् स्फोटाख्ये शब्दब्रह्मणि अथर्वणामङ्गिरसां साम्नाम् ऋग्यजुषस्य च ऋग्यजुःसामाथर्वणाम्, उच्चावचाः उदात्तानुदात्तादयो वर्णाः-वर्णधर्माः वर्णधर्म- त्वेन भासमानाः पृथक्स्थितिपरीग्रहाः पृथक् स्फोटाद्भिन्ने तदभिव्यञ्जके ध्वनौ वायुसंयोगे वा स्थितेः परिग्रहः स्वीकारो येषां ते स्फोटाभिव्यञ्जकनिष्ठा तादृश-

३० वाक्यपदीयम् ध्वन्यभिव्यञ्जकवायुसंयोगनिष्ठा वा भासन्ते इति पूर्वान्वयि । तथा च न कश्चित्- विरुद्धधर्माध्यासात् स्फोटनानात्वमिति भावः। ऋग्यजुःष्वेति 'अचतुरविचतुर......' त्यादिनाच् ॥ २१ ॥ और जिस स्फोट शब्दब्रह्ममें ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेदके जो उदात्त, अनुदात्त और स्वरित आदि वर्णोंके धर्म हैं वा धर्मकी तरह प्रतीत होते हैं वे भी स्फोटके धर्म नहीं हैं। किन्तु स्फोटकी व्यञ्जक ध्वनिमें अथवा वायु संयोग (अभिघात) में रहते हैं। अतः जैसे अन्यगण कत्वादिधर्मोंका स्फोटमें अवभास होता है वैसे उदात्त आदि विरुद्ध धर्मके सम्बन्ध होनेसे भी स्फोटका एकत्व बना रहेगा ॥ २१ ॥ यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद्व्याकरणमागम्य परं ब्रह्माधिगम्यते ॥ २२ ॥ यदेकं ब्रह्म प्रक्रियाभेदैर्न्यायसांख्यवेदान्तादिदर्शनैः कालापादिव्याकरणभेदैर्वा- र्बहुधा भिन्नभिन्नेन प्रकारेण कर्तृत्वोदासीनत्वविवर्तोपादानत्वादिनो वर्णपदवाक्या- दिभेदेन वा प्रविभज्यते निरूप्यते तत्परं ब्रह्म भान्तरप्रणवरूपं व्याकरणमा- गम्य प्राप्य मध्यमादिवाग्ज्ञानद्वारा अधिगम्यते प्राप्यत इत्यर्थः ॥ २२ ॥ यही स्फोट रूप एक ब्रह्म जिसे न्याय, सांख्य और वेदान्त आदि दर्शनोंके विद्वानगण कर्त्ता उदासीन और विवर्तका उपादान आदि अनेक रूपसे कहते हैं तथा जिसे कालाप, ऐन्द्र और चान्द्र आदि व्याकरणोंके आचार्य, वर्ण, पद और वाक्य आदि अनेक रूपसे कहते हैं व विभाग बनाते हैं। वह ही आन्तर प्रणवरूपी पर-ब्रह्म मध्यमा, वैखरी आदि वाणीके द्वार व्याकरणसे जाना जाता है । अत्रायं निष्कर्षः—जगत्कारणस्य-‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ इत्यादि श्रुतिभिः सत्त्वमेकत्वं ब्रह्मत्वमात्मत्वं च यथा प्रतिपाद्यते तथा ‘वागेवार्थं पश्यति वागेवार्थं ब्रवीति वागेवार्थं निहितं सन्तनो- ति । वाग्येव विश्वं बहुरूपं निबद्धं तदेतदेकं प्रविभज्योपभुङ्क्ते’ ‘ओमित्येतदक्षरमि- सर्वम्’ ‘ओमिति ब्रह्म’ ‘ओमितीदं सर्वम्’ ‘वाचो ह वाक्’ इत्यादि श्रुतिभिः शब्दरूप- तापि प्रतिपाद्यते इति शब्दब्रह्मैव जगत्कारणम् । तच्च ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुत्या स्वप्रकाशमपि। अत एव ‘इह त्रीणि ज्योतींषि त्रयः प्रकाशाः स्वरूपपररूपयोरवद्यो- तकाः तद्यथा-योऽयं जातवेदा यश्च पुरुषेष्वन्तरः प्रकाशः यश्च प्रकाशाप्रकाश्ययो प्रकाशयिता शब्दाख्यः प्रकाशः तत्रैतत्सर्वमुपनिबद्धं यावत्स्थास्नु चरिष्णु च’ इति हेलाराजीयस्याभियुक्तोक्तिः। तथा च वक्ष्यति-‘ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते’ इति । जैसे 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, ब्रह्मैवेदं सर्वम्, आत्मैवेदं सर्वम्' इन श्रुतियोंके आधार पर जगत्के कर्त्ताको सत्य, एक, ब्रह्म और आत्मारूप मानते हैं। वैसे