भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

१०८ | वेणीसंहारं नाटकं

सूतः—कुमार, अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव । अश्वत्थामा—( अश्रूणि विमुच्य । ) आर्य, कथय कथय कथं तादृग्भुज- वीर्यसागरस्तातोऽपि नामास्तमुपगतः । किं शिष्यात् गुरुदक्षिणां गुरुगदां भीमप्रियः प्राप्तवान् । सूतः — शान्तं पापम् । अश्वत्थामा अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना । वीरपुरुषोचितां = शूरपुरुषयोग्यां, विपत्ति=मृत्युम् । तादृग्भुजवीर्यसागरः = तादृक् सर्वलोकवेद्यं भुजवीर्यं बाहुपराक्रमः सागर इव यस्य सः । अन्वयः—भीमप्रियः शिष्यात् , गुरुगदाम्, गुरुदक्षिणाम्, किम्, प्राप्तवान् , उज्झितनयेन, जिष्णुना, अन्तेवासिदयालुः, आसादितः, किम् , गोविन्देन, सुदर्श- नस्य, निशितम्, धारापथम्, प्रापितः, ( किम् ) एभ्यः, चतुर्भ्यति, गुरोः आपदम्, अहं न शङ्के । श्लोकरूपेण अश्वत्थामा पितृघातविषयकप्रश्नमाह—किं शिष्यादिति । भीमप्रियः = भीमः प्रियो यस्य सः द्रोण इत्यर्थः । शिष्यात् = भीमात् , गुरु- गदां = भीषणगदाम्, गुरुदक्षिणां = गुरुगदारूपां गुरुदक्षिणामित्यर्थः । किं प्राप्तवान् , किमिति प्रश्ने । शान्तं पापमिति — इदम् अवक्तव्ये उच्यते । इदन्न वक्तव्यमित्यर्थः । भीमगदा न प्राप्तेति भावः । उज्झितनयेन—उज्झितः त्यक्तः, नयः नीतिः येन तेन, जिष्णुना—अर्जुनेन, पुत्रप्रिय, हा त्रिलोक में एकमात्र धनुर्धर, हा परशुराम के साङ्गोपाङ्गशस्त्रविद्याऽध्ययनकर्ता., कहाँ हैं ? मुझे उत्तर दीजिये । सूत—चिरंजीविन् , अधिक शोक न करें । पिता के शूरवरोयुक्तगति प्राप्त कर लेने पर आप भी उन्हीं के सदृश पराक्रम से शोकसिन्धु का उल्लंधन कर सुख प्राप्त कीजिए । अश्वत्थामा—(आँसू पोंछकर) आर्य ! कहिए किस प्रकार वैसे बाहुपराक्रम के सिन्धु पिता अस्त हो गए ? क्या भीमप्रिय (तात) ने शिष्य से गुरुदक्षिणा में भीषण गदाप्रहार प्राप्त किया है ! सूत—शान्त, शान्त पाप की चरचा न कीजिए (अर्थात् ऐसा नहीं हो सकता) । अश्वत्थामा—क्या शिष्य पर दया रखनेवाले पिता पर अर्जुन ने नीति का विचार न करके आक्रमण कर दिया !

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १०६ सूतः - कथमेवं भविष्यति । नियतं अश्वत्थामा-गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः । सूतः--एतदपि नास्ति । अश्वत्थामा--शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादिहम् ॥ ९ ॥ सूतः--कुमार, एतेऽपि तस्य कुपितस्य महास्त्रपाणेः किं धूर्जटेरिव तुलामपयान्ति सङ्ख्ये । अन्तेवासिदयालुः = अन्तेवासिनः दयाकर्त्ता, एतेन अर्जुनस्योपरि दयया शस्त्रप्रहारो न कृतः अत एव तस्य प्राणस्य मृत्युरित्याशयः । आसादितः किमिति अत्रापि सम्बध्यते । एवम् = अर्जुनेन मृत्युः, कथ भविष्यति । अर्जुनो न हन्तेति भावः । गोविन्देन=कृष्णेन, सुदर्शनस्य=तन्नामकचक्रस्य, निशितं = तीक्ष्णम्, धारापथम्= शस्त्रस्याग्रभागम् ( धार ) इति प्रसिद्धम् । प्रापितः = गमितः, मारित इत्यर्थः । इदमपि नेत्याह-एतदपीति । एभ्यः = गोविन्दभीमार्जुनभ्यः, चतुर्थात्, अन्यतः = परस्मात्, गुरोः = द्रोणस्य आपदं = मृत्युम्, अहं न, शङ्के=सन्देह्मि, खलु, एभ्योऽतिरिक्तः तस्य हन्ता न कोऽपि सम्भवति तथा च कथं मृत्युरिति भावः । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ अन्वय-संख्ये, धूर्जटेः, इव, महास्त्रपाणेः कुपितस्य तस्य, एते, अपि किम्, तुलाम् उपयान्ति । यदा, तु, शोकोपसद्धहृदयेन, शस्त्रम्, त्यक्तम् तदा, अस्य, रिपुणा, अतिघोरम्, विहितम् ॥ १० ॥ गृहीतशस्त्रस्य तस्य एतेऽपि हन्तारः न सम्भवन्तीत्याह-एतेऽपीति । संख्ये = सङ्ग्रामे, धूर्जटेः = महादेवस्य, इव, महास्त्रपाणेः = महास्त्रं पाणौ यस्य तस्य, कुपितस्य = क्रुद्धस्य, तस्य = द्रोणस्य, एते = कृष्णभीमार्जुनः, अपि, किं तुलां= सादृश्यम्, उपयान्ति = प्राप्स्यन्ति । तु = किन्तु । यदा, शोकोपसद्धहृदयेन= सूत-यह कैसे सम्भव है । अश्वत्थामा-क्या भगवान् वासुदेव ने सुदर्शन चक्र की धार के घाट पर उतारा है । सूत-यह भी नहीं । अश्वत्थामा-इन तीनों के अतिरिक्त किसी चौथे व्यक्ति से मेरे पिता के वध की आशङ्का मुझे होती ही नहीं ॥ ९ ॥ सूत-कुमार, ये तीनों भी एक साथ मिलकर क्रुद्ध महास्त्रापाणि शङ्कर भगवान की तरह युद्ध में उनकी

११० वेणीसंहारं नाटकं

शोकोपरुद्धहृदयेन यदा तु शस्त्र
त्यक्तं तदाऽस्य विहितं रिपुणाऽतिघोरम् ॥ १० ॥
अश्वत्थामा-किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ।
सूतः- ननु कुमार एव कारणम् ।
अश्वत्थामा-कथमहमेव नाम ।
सूतः-श्रूयताम् । (अश्रूणि विमुच्य ।)
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः
--------------------------------------------------
शोकेन उपरुद्ध हृदयं यस्य तेन द्रोणेन, शस्त्रं, त्यक्तं, तदा, अस्य=द्रोणस्य, रिपुणा=
शत्रुना, अतिघोरं = विनाशम्, विहितं = सम्पादितम्, अस्त्रपरित्यागे कृते रिपुणा
हतो द्रोण इति भावः । अत्रोपमालङ्कारः । वसन्ततिलका छन्दः ॥ १० ॥
अश्रूणि = नेत्राम्बूनि, विमुच्य=प्रोञ्छ्य ।
अन्वयः—सत्यवाचा, पृथासूनुना, अश्वत्थामा हत इति, स्पष्टम्, उक्त्वा, शेषे,
गज इति, स्वैरम्, व्याहृतम् किल, तत्, श्रुत्वा, तस्य राज्ञः, प्रत्ययात्, दयिततनयः,
असौ, आजौ, शस्त्राणि, नयनसलिलम् च, अपि तुल्यम्, मुमोच ॥ ११ ॥
शस्त्रत्यागकारणमाह - अश्वत्थामा हत इति ।
सत्यवाचा = तथ्यवचसा पृथासूनुना = युधिष्ठिरेण अश्वत्थामा हत इति, स्पष्टं=
परश्रवणयोग्यम्, इदं वचनक्रियाविशेषणम् । उक्त्वा = कथयित्वा, शेषे = वचनस-
माप्तौ, गज इति, इति शब्दः शब्दस्वरूपनिर्देशार्थः । स्वैरं = मन्दम् परश्रवणाऽयो-
ग्यमित्यर्थः, व्याहृतम् = उक्तम्, किल = निश्चयेन, तद् = अश्वत्थामा हत इति,
श्रुत्वा -आकर्ण्य, तस्य = सत्यवाचः, राज्ञः, प्रत्ययात्=विश्वासात्, दयिततनयः
--------------------------------------------------
समानता नहीं कर सकते । जब उनका हृदय शोक से पूर्ण हो गया और उन्होंने शस्त्रपरित्याग
कर दिया तब शत्रु ने यह अकार्य कार्य किया अर्थात् उन्हें मारा ॥ १०॥
अश्वत्थामा-तो शोक का और शस्त्र परित्याग का कारण क्या है ?
सूत-कुमार ही इसके कारण हैं ।
अश्वत्थामा-मै कैसे ।
सूत-(अश्रु गिरा कर ) सुनिए :-
पृथापुत्र [युधिष्ठिर] 'अश्वत्थामा मारा गया यह स्पष्टरूप से कहकर फिर सत्यवादी ने
धीरे से अवशिष्ट वाक्य को पूर्ति के लिये 'गज=हाथी' यह शब्द कहा । उसे सुनकर

शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ ११ ॥ अश्वत्थामा-हा तात, हा सुतवत्सल, हा वृथामदर्थपरित्यक्तजीवित, हा शौर्यराशे, हा शिष्यप्रिय, हा युधिष्ठिरपक्षपातिन् । ( इति रोदिति ) सूतः-कुमार, अलमत्यन्तपरिदेवनया कार्पण्येन । अश्वत्थामा- श्रुत्वा वधं मम मृषा सुतवत्सलेन तात त्वया सह शरैरसवो विमुक्ताः । = दयितः प्रियः, तनयः यस्य सः, असौ = द्रोणः, आजौ=सङ्ग्रामे, शस्त्राणि, नयन- सलिलम्=नेत्रजलम्, चापि, तुल्यम् = समकालम्, मुमोच = तत्याज । अयं भावः- भीमेन समराद्वेगेन निःसारितेऽश्वत्थाम्नि समरेऽश्वत्थामा मृत इति कलकले सति चिरजीविनस्तस्य मरणासम्भवात् द्रोणेन पृष्टः सत्यवक्ता युधिष्ठिरः कृष्णमन्त्रणया अश्वत्थामानामकगजमरणव्याजेनावोचत् अश्वत्थामा हत इति ततः पुत्रशोकसन्तप्तद्रोणः शस्त्रं तत्याजेति । मन्दाक्रान्ता छन्दः ॥ ११ ॥ वृथामदर्थपरित्यक्तजीवित = व्यर्थं परित्यक्तं जीवितम् प्राणाः येन । युधिष्ठिर- पक्षपातिन् = युधिष्ठिरे विश्वस्त । परिदेवनया = विलापेन, कार्पण्येन=कादर्येण, विलापहेतुकं कार्पण्यमिति भावः । अन्वयः- ( हे ) तात ! मम, मृषा, वधम्, श्रुत्वा, सुतवत्सलेन, त्वया, शरैः, सह, असवः, विमुक्ताः, अहो, अहम्, पुनः, भवता, विना, अपि, जीवामि, तत्, क्रूरे, अपि, मयि, तव, मुधा, पक्षपातः ॥ १२ ॥ नाहं स्नेहपात्रमित्याह-श्रुत्वेति । हे तात = पितः, मम, मृषा = मिथ्या, वधं = हननम्, श्रुत्वा, सुतवत्सलेन= पुत्रस्निग्धेन, 'स्निग्धस्तु वत्सलः' इत्यमरः । त्वया = द्रोणेन, शरैः = बाणैः, सह, पुत्रवत्सल उन्होंने उस राजा युधिष्ठिर में विश्वास के कारण रण में अश्रुपात के साथ शस्त्रों का परित्याग कर दिया ॥ ११ ॥ अश्वत्थामा-हा पितः, हा पुत्रवत्सल ! मेरे लिये आपने व्यर्थ प्राण परित्याग किया ? हा पराक्रम के सागर, हा शिष्य के प्रेमी, हा युधिष्ठिर के पक्षपाती !........(रोता है) सूत-अब अधिक विलाप करके रोने की आवश्यकता नहीं । अश्वत्थामा-ऐ पितः, पुत्रवत्सल आपने मेरे मरण के विषय में असत्य संवाद सुनकर बाणों के साथ साथ अपने प्राणों का भी परित्याग कर दिया और मैं आप की अनुपस्थिति में भी जीवित हूँ, मुझ कुटिल में आपका इतना पक्षपात [मोह] व्यर्थ है ।

११२ वेणीसंहारं नाटकं जीवाम्यहं पुनरीह भवता विनाऽपि- क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥ १२ ॥ ( इति मोहमुपगतः ) सूतः—समाश्वसितु समाश्वसितु कुमारः । ( ततः प्रविशति कृपः ) कृपः—( सोद्वेगं निःश्वस्य ) धिक्सानुजं कुरुपतिं धिगजातशत्रुं धिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् । असवः = प्राणाः, विमुक्ताः = त्यक्ताः, अहो इति खेदे अहम् पुनः, भवता, विनापि= अन्तरेणाऽपि, जीवामि, तत्=तस्मात्, क्रूरेऽपि = निर्दयेऽपि, तव सत्यमृत्युश्रवणादप्यहं न मृत इति निर्दयोऽहमिति भावः । मयि = अश्वत्थाम्नि, तव, मुधा = व्यर्थम्, पक्षपातः । अहं क्रूरः त्वं सदय इति भावः । अत्र द्वितीयचरणे सहोक्तिरलङ्कारः । वसन्ततिलका छन्दः ॥ १२ ॥ निःश्वस्येति—अधिकदुःखसूचको निःश्वासः । अन्वयः—सानुजम्, कुरुपतिम्, धिक् , अजातशत्रुम्, धिक् , विफलशस्त्रभृतः, भूपतीन्, धिक् , अस्मान्, धिक् , खलु, येः, तदा द्रुपदात्मजायाः, अद्य, द्रोणस्य, च, केशग्रहः, लिखितैः, इव वीक्षितः ॥ १३ ॥ तत्रत्याः सर्वे धिक्कारयोग्या इत्याह—धिगिति । सानुजम् = अवरजसहितम् , कुरुपति=दुर्योधनम् , धिक् = धिक्कारः, 'उभसर्व तसो कार्या धिगुपर्यादिषु त्रिष्वि'ति धिद्योगे द्वितीया । अजातशत्रु = युधिष्ठिरम्, धिक्, विफलशस्त्रभृतः = विफलञ्च तत् शस्त्रमिति विफलशस्त्रं तद् विगर्ति, विफल• अर्थात् वस्तुतः मेरा वध नहीं हुआ था उसे सुनकर आपने प्राण विसर्जित कर दिया और मैं सत्य ही आपका मरण सुन रहा हूँ और फिर भी जीवित हूँ मुझसे बढ़कर दूसरा कौन दुष्ट हृदय का व्यक्ति होगा ॥ १२ ॥ ( यह कहकर चेतनाहीन हो जाता है ) सूत—कुमार धैर्य धारण करें, धैर्य धारण करें । ( इसके अन्तर कृपाचार्य का प्रवेश कृप—( उद्विग्नतापूर्वक दीर्घश्वास लेकर ) समस्त भ्राताओं के साथ कौरवनरेश को धिक्कार है, जिसका आज तक कोई शत्रु नहीं उस युधिष्ठिर को धिक्कार है, निष्प्रयोजन शस्त्रधारण करनेवाले राजाओं को तथा हम लोगों

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११३ केशग्रहः खलु तदा द्रुपदात्मजायाः द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ १३ ॥ तत्कथं नु खलु वत्समद्य द्रक्ष्याम्यश्वत्थामानम् । अथवा हिमवत्सार- गुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किन्तु पितुः परिभवमसद्दशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथवा— एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताः प्रजाः ॥ १४ ॥ शस्त्रभृत तान्, शस्त्रे वैफल्यं चानुचितकार्यनिवारणात् । भूपतीन् = राज्ञः धिक्, अस्मान् = माम् धिक्, एते सर्वे निन्दनीया इत्यर्थः । खलु धिक्कारे हेतुमाह— तदेति । यैः = एतैः, पूर्वोक्तैः, तदा, द्रुपदात्मजायाः = द्रौपद्याः, केशग्रहः = कचाकर्षणम् अद्य, द्रोणस्य च केशग्रहः, लिखितैः = चित्रस्थैः, इव, वीक्षितः = दृष्टः । द्रौपदीकेशा- कर्षणे प्रधानहेतोरतिनिन्दनीयत्वात् कुरुपतेः प्राथम्येन निर्देशः । द्रोणस्य केशग्रहे अजातशत्रोः हेतुत्वात् ततः परोऽजातशत्रोनिर्देशः । दृष्ट्वापि भूपतिभिरनिवारणात् तेषामपि निन्दनीयत्वात् ततः परो निर्देशः । अत्र काव्यलिङ्गमलङ्कारः । वसन्त- तिलका छन्दः ॥ १३ ॥ हिमवत्सारगुरुचेतसि = हिमवतः सारमिव गुरु महत् दृढम् चेतः यस्य तस्मिन्, ज्ञातलोकस्थितौ = विदितजगन्मर्यादे, तस्मिन् = अश्वत्थाम्नि, शोकावेगम् = अधिक- शोकोद्वेगम्, अहम् न खलु, आशङ्के = सन्देह्नि । किन्तु, पितुः, असद्दशम् = अनुचितम्, परिभवम् = मृत्युम्, उपश्रुत्य = ज्ञात्वा किं, व्यवस्यतीति न जात इत्यन्वयः । अन्वयः—एकस्य, अयम् दारुणः, पाकः, तावद्, भुवि, वर्तते, द्वितीये, अस्मिन्, केशग्रहे ( सति ), प्रजाः, नूनम्, निःशेषिताः ॥ १४ ॥ द्रोणस्य पराभवे सति किं स्यादित्याह—एकस्य तावदिति । एकस्य = द्रौपद्याः केशग्रहस्य, अयं = युद्धरूपः, दारुणः = उत्कटः, पाकः = फलम् तावत्, भुवि = को धिक्कार है । जिन्होंने चित्र बनकर उस समय पाञ्चाली के केशकर्षण को देखा और आज द्रोणाचार्य के भी केशकर्षण को देखा ॥ १३ ॥ तो फिर पुत्र अश्वत्थामा को कैसे देख सकूँगा अथवा हिमालय के सदृश सारगर्भित उसका अन्तःकरण है तथा संसार की परिस्थिति से वह भली भाँति परिचित है अतः उसमें मुझे सन्ताप के वेग की शङ्का नहीं होती परन्तु अन्यायपूर्वक पिता के मरण को सुनकर न मालूम क्या कर डाले ? अथवा— एक केशग्रह का यह भीषण फल इस वसुन्धरा पर दृष्टिगोचर हो रहा है, अब उस = द्वे०

११४ वेणीसंहारं नाटकं ( विलोक्य । ) तदयं वत्सस्तिष्ठति । यावदुपसर्पामि ( उपसृत्य ससम्भ्र- मम् । ) वत्स समाश्वसिहि समाश्वसिहि । अश्वत्थामा—( संज्ञां लब्ध्वा । सास्रम् ) हा तात, सकलभुवनैकगुरो, ( आकाशे । ) युधिष्ठिर, युधिष्ठिर, आजन्मनो न वितथं भवता किलोक्तं मिथ्या न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः । ताते गुरौ द्विजवरे मम भाग्यदोषात् संसारे, वर्तसे, द्वितीय, अस्मिन्, केशग्रहे द्रोणस्येति शेषः । प्रजाः = जनाः, नूनं = निश्चयेन, 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । निःशेषिताः= विनष्टाः, भविष्यन्तीत्यध्या- हारः । महाऽनिष्टस्य महानेव परिणामः स्यादिति भावः । पथ्यावक्त्रं छन्दः ॥१४॥ संज्ञां = चैतन्यम् लब्ध्वा = प्राप्य, सास्रम् = अश्रुसहितम्, आकाश इति । युधिष्ठिराभावेऽपि युधिष्ठिर प्रति कथयतीति भावः । अन्वयः—भवता, आजन्मनः, वितथम्, न उक्तम्, किल, यत्, जनम्, न द्वेक्षि, अतः, त्वम्, अजातशत्रुः, तत् सर्वम् मम, भाग्यदोषात्, द्विजवरे, गुरौ, ( मम ) ताते, एकपदे, एवं, कथं, निरस्तम् ॥ १५ ॥ अश्वत्थामा, आजन्मन इति । भवता = युधिष्ठिरेण । आजन्मनः = जन्मप्रभृति, वितथम् = असत्यम् न, उक्तम् किल, यत् = यस्मात्, त्वम्, जनम् = लोकम् न, द्वेक्षि = द्वेषं करोषि, अतः त्वम् अजातशत्रुः, इत्युच्यस इति शेषः, । तत् = मिथ्यावदनाभावादि, सर्वम् मम = अश्वत्थाम्नः भाग्यदोषात् = दैवदोषात्, द्विजवरे = ब्राह्मणे, गुरौ = आचार्ये, ताते = दूसरे केशग्रह में समस्त प्रजा का सर्वनाश अवश्यमावी है, अर्थात् एक द्रौपदी के बाल खींचने के कारण यह दशा उपस्थित हुई अब दूसरे द्रोणके केशग्रह के बाद क्या दशा होगी । ( भली प्रकार विचार कर ) यह पुत्र अश्वत्थामा बैठा हुआ है। समीप में चलूँ । ( समीप जाकर व्याकुलाहट के साथ ) पुत्र, धैर्य धारण करो, धैर्य धारण करो । अश्वत्थामा—( चैतन्य होकर अश्रुपूर्ण नेत्रों से ) हा पिता समस्तलोक के एक मात्र आचार्य ( आकाश की ओर देखकर ) युधिष्ठिर, युधिष्ठिर । जन्म से लेकर आपने असत्य भाषण कभी नहीं किया। आप किसी के प्रति द्वेषबुद्धि नहीं रखते हैं इसलिए आप अजातशत्रु कहे जाते हैं। मेरे भाग्यदोष के कारण आपने

तीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११५ सर्वं तदेकपद् एव कथं निरस्तम् ॥ १५ ॥ सूतः—कुमार, एष ते मातुलः पार्श्वे शारद्वतस्तिष्ठति । अश्वत्थामा—(पार्श्वे विलोक्य । सवाष्पम् ) मातुल, गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना य एकः शूराणां गुरुसमरकण्डूनिकषणः । परीहासाश्चित्राः सततमभवन्त्येन भवतः स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ॥ १६ ॥ रं, एकपदे = एकस्थाने, एव, कथं = कस्माद्धेतोः, निरस्तं = त्यक्तम् । ब्राह्मणे एतादृशकरणं मम भाग्यदोषादेव, नान्यथा सम्भवतीति भावः । अत्र तृतीयचरण- विशेषणानां साभिप्रायकत्वात्परिकरालंकारः । वसन्ततिलका छन्दः ॥ १५ ॥ मातुलः = मातृभ्राता । सवाष्पम् = ऊष्माश्श्रुसहितम् । अन्वयः—येन, सैन्यपतिना, सह अद्य, त्वम् रणभुवम्, गतः, यः शूराणाम्, गुरुसमरकण्डूनिकषणः, सततम्, चित्राः, परीहासाः, भवतः, येन, अभवन्, मातुल ? ते, सः, श्लाघ्यः, स्वसुः, भर्ता, क्व, नु खलु गतः ॥ १६ ॥ तवातिप्रियः स्वसृपतिस्त्वाम् विहायेकाकी क्व गत इत्याह—गत इति । येन सैन्यपतिना = सेनानायकेन, सह = साकम् अद्य, त्वं, रणभुवं = सङ्ग्राम- निम्, गतः, यः शूराणाम्=वीराणाम्, एकः गुरुसमरकण्डूनिकषणः=महा- ग्रामकण्डूतिनिवारकः, येन, सततम्=अनारतम्, चित्राः=अनेकरूपाः, परी- हासाः = गालिदानादयः, भवतः = कृपस्य, अभवन्, हे मातुल, ते = तव, श्लाघ्यः= मिनीयः, स्वसुः= भगिन्याः, भर्त्ता = पतिः, भगिनीपतिरित्यर्थः । सः=द्रोणः, = क्व नु खलु नु गतः । अत्रैकस्यैव द्रोणस्य विषयभेदेन सैन्यपतित्वादनानेक- उल्लेखनादुल्लेखनामाऽलङ्कारः । शिखरिणी छन्दः ॥ १६ ॥ के विषय में जो उपाध्याय तथा ब्राह्मण-श्रेष्ठ हैं एक ही पद में क्यों अपने सम्पूर्ण तों पर पानी फेर दिया ? ॥ १५ ॥ सूत—कुमार, यह तुम्हारे मामा शारद्वत समीप में उपस्थित हैं। अश्वत्थामा— ( बगल में देखकर अश्रु त्याग करते हुए ) मामा, मामा । जिस सेनानायक के साथ आज आप समरभूमि में पधारे थे, जो वीरों के महान् रणकण्डू के कण्डूयन में समर्थ एक मात्र वीर थे और जिनके साथ आपका अनेक प्रकार मनोविनोद हुआ करता था, मामा ! बतलाइये, वही आप की बहिन के पूज्य पतिदेव हीं चले गये ? ॥ १६ ॥

११६ वेणीसंहारं नाटकं कृपः—परिगतपरिगन्तव्य एव भवान्। तदलमत्यन्तशोकावेगेन। अश्वत्थामा—मातुल, परित्यक्तमेव मया परिदेवितम्। एषोऽहं सुत- वत्सलं तातमेवानुगच्छामि। कृपः—वत्स अनुपपन्नमीदृशं व्यवसितं भवद्विधानाम्। सूतः—कुमार, अलमतिसाहसेन। अश्वत्थामा—आर्य शारद्वत, यद्वियोगभयात्तातः परलोकमितो गतः। करोम्यविरहं तस्य वत्सलस्य सदा पितुः ॥ १७॥ परिगतपरिगन्तव्यः—परिगतः अवगतः परिगन्तव्यः ज्ञातव्यः येन सः। परिदेवितं = प्रलापः, सुतवत्सलं = पुत्रस्नेहिनम्, तातं = पितरम्, अनुगच्छामिः अनुव्रजामि, अहमपि प्राणत्यागं करोमीति भावः। ईदृशम् = त्वया चिन्तितम् व्यवसितं = व्यवसायः अनुपपन्नम् = अयुक्तम्, भ- द्विधानाम् = वीराणाम्, वीराणामात्मघातो न युक्तः किन्तु प्रतिक्रियेवेति भावः। अन्वयः—तातः, मद्वियोगभयात्, इतः, परलोकम्, गतः, तस्य, वत्सलस्य पितुः, सदा, अविरहम्, करोमि ॥ १७॥ तद्वियोगे मयाऽपि न जीवितव्यमित्याह--मद्वियोगेति। तातः = पिता, मद्वियोगभयात् = मया सह विरहभीतेः, इतः = अस्माल्लोकात् परलोकम् = स्वर्गम्, गतः, तस्य वत्सलस्य पितुः, सदा = जीवनपर्यन्तम्, अविर- हम् = वियोगाभावम् करोमि, मम प्राणत्याग एव श्रेष्ठः। क्वचित्सहित्ये विरहमिति पाठः। अत्र पूर्वार्द्धं उत्तरार्द्धो हेतुरिति वाक्यार्थगतकाव्यलिङ्गमलङ्कारः। पथ्यावक्त्रं छन्दः ॥ १७॥ कृप—ज्ञातव्य विषय तो आपको विदित हो ही गया। अब अधिक विलाप करने कोई लाभ नहीं। अश्वत्थामा—मामा, मैने विलाप करना छोड़ ही दिया। मैं पुत्रप्राण पिता ही अनुसरण करने जा रहा हूँ। कृप—आप सदृश व्यक्ति के लिए इस प्रकार के विचार सर्वथा अनुचित हैं। सूत—कुमार, साहस की यह चरमसीमा है। अश्वत्थामा—आर्य, शारद्वत, आप क्या कहते हैं ? मुझसे वियुक्त हो जाने के भय से मेरे पिता इस लोक से अन्यलोक में प्रस्थान कर गये। उन आदरणीय पिता का वियोग भला मैं किस प्रकार सहन कर सक .. हूँ॥ १७॥

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११७ कृपः-वत्स, यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वयेऽप्यनुवर्तनीया इति । पश्य— निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः । तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ १८ ॥ सूतः-आयुष्मन्, यथैव मातुलस्ते शारद्वतः कथयति तत्तथा । अश्वत्थामा-आर्य, सत्यमेवेदम् । किन्त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारयितुम् । यद्गच्छामि तमेवो- द्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि । ( उत्तिष्ठन्खड्गमालोक्य, विचिन्त्य ) कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवन् शस्त्र ? लोकयात्रा = लोकाचारः, लोकद्वयेऽपि एतल्लोकपरलोकयोरपि, अनुवर्तनीयाः= अनुसरणीयाः । अन्वयः—निवापाञ्जलिदानेन केतनैः, श्राद्धकर्मभिः, तस्य, उपकारे, त्वम्, किम्, जीवन्, शक्तः, किम्, उत, अन्यथा, ( शक्तः ) ॥ १८ ॥ त्वयि जीवत्येव तस्योपकारः स्यादित्याह—निवापेति । निवापाञ्जलिदानेन = निवापस्य पितृदानस्य यः अञ्जलिः तस्य दानेन, केतनैः= तमुद्दिश्य गृहदानादिभिः, श्राद्धकर्मभिः = प्रेतत्वविनाशकवेदोक्तक्रियाभिः, तस्य, पितुः, उपकारे, त्वम्, किमिति प्रश्ने, जीवन् = प्राणन्, शक्तः = समर्थः, किम्, उतेति वितर्के, अन्यथा = जीवनं विना । जीवन्नेवोपकर्तुं शक्नोषि न तु मरणेनातः प्राण- त्यागो न कार्य इति भावः । पथ्यावक्त्रं छन्दः ॥ १८ ॥ इममेवार्थं सूतोऽनुमोदयति—आयुष्मन्निति । कृप—पुत्र, जबतक यह संसार वर्तमान है तब तक यह लौकिक व्यवहार प्रसिद्ध ही है कि पुत्रों का कर्तव्य है कि पितरों का हितसाधक दोनों लोक में बनें । देखिए— तिलाञ्जलिप्रदान, स्मारक तथा पितरों के उद्देश्य से श्राद्धकर्मों के द्वारा उस [दिवङ्गत] पिता का उपकार करने में तुम समर्थ हो जब तक कि जीवित हो । प्राणपरित्याग करके क्या कर सकते हो ? ॥ १८ ॥ सूत—चिरञ्जीविनू, तुम्हारे मामा शारद्वत जैसा चाहते हैं वैसा ही है । अश्वत्थामा—आर्य, यह सत्य ही है परन्तु—इस शोकभार का वहन करना मेरे लिए असह्य है, मैं पिता से वियुक्त होकर क्षण भर भी जीवन धारण नहीं कर सकता, अतः उसी स्थान पर जा रहा हूँ जहाँ उस दशा में भी पिता का दर्शन, करूँगा । (उठकर कृपाण की ओर देखता है फिर कुछ विचार कर ) अब भी शस्त्र की आवश्यकता ? अर्थात् कोई आवश्य- कता नहीं ( अश्रुकलुषिता नेत्रों से हाथ जोड़कर 'भगवन्, शस्त्र !

११८ वेणीसंहारं नाटकं गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्नविषयः । परित्यक्तं येन त्वमसि सुतशोकान्नतु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ १९ ॥ ( इत्युत्सृजति । ) ( नेपथ्ये । ) अन्वयः—येन, परिभवभयात्, नोचितम्, अपि, गृहीतम्, आसीः, यस्य प्रभावात्, कश्चित् तव, नविषयः न, खलु, आसीत्, तेन, सुतशोकात्, नतु, भयात् त्वम्, परित्यक्तम्, असि, ( हे ) शस्त्र !, अहम्, अपि, त्वाम्, विमोक्ष्ये, यतः, भवते स्वस्ति, अस्तु ॥ १९ ॥ शस्त्रग्रहणं न कार्यं मयेत्याह—गृहीतं येनासीरिति । येन = द्रोणेन, परिभव भयात् = पराजयभयात्, नोचितम् = अनुचितम्, निषेधार्थक न शब्देन समासः, तेन नलोपो न । ब्राह्मणेन शस्त्रं न ग्राह्यमित्यनौचित्यम् । गृहीतम् = शात्तम्, आसीः, त्वमिति शेषः । यस्य = द्रोणस्य, प्रभावाद् = माहात्म्यात्, कश्चित्, तव = शस्त्रस्य, नविषयः = अगोचरः न, खलु, आसीत्, सर्वो विषय एवासीदित्यर्थः । तेन, सुतशो- कात् = पुत्रमरणजन्यदुःखात्, तु = किन्तु, भयात्, न, त्वम् = शस्त्रम्, परित्यक्तम् = उज्जितम्, असि, हे शस्त्र, अहमपि, त्वाम्, विमोक्ष्ये = त्यजामि, यतः, भवते = शस्त्राय, स्वस्ति = शुभम्, अस्तु इति शेषः । तव कल्याणार्थं मयाऽपि त्यक्तमिति भावः । शस्त्रत्यागं नाटयतीत्यर्थः । अत्र तृतीयचरणे परिसङ्ख्यालङ्कारः । शिखरिणी छन्दः ॥ १९ ॥ नेपथ्ये = जवनिकान्तर्भूतौ । ब्राह्मणजाति के लिये 'शस्त्रग्रहण' आपद्धर्म माना गया है अतः अनुचित होते हुए भी जिन्होंने (द्रोणाचार्य ने) अपने पराभव की आशङ्का से शस्त्र ग्रहण किया था और जिसके प्रभाव से कोई ऐसा देव, दानव और मनुष्यों में नहीं हुआ जो तुम्हारा लक्ष्य न बना हो। उनके [ पिताजी ] द्वारा पुत्रशोक के कारण न कि किसी प्रकार के भय के कारण तुम परित्यक्त हुए हो मैं भी तुम्हारा त्याग कर रहा हूँ अर आपका कुशल हो ॥ १९ ॥ ( शस्त्रत्याग करता है ) ( नेपथ्य में )

तृतीयोऽङ्कः ]     प्रबोधिनी-प्रकाशद्वयोपेतम्     ११९ भो भो राजानः कथमिव भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते । अश्वत्थामा — ( आकर्ण्य, शनैः शनैः शस्त्रं स्पृशन् ) किं गुरोर्भारद्वाजस्य परिभवः । ( पुनर्नेपथ्ये । ) आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोकाद् द्रोणस्याजौ नयनसलिलक्षालिताद्राननस्य । मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं धृष्टद्युम्नः स्वशिविरमयं याति सर्वे सहध्वम् ॥ २० ॥ सर्वे = राजानः, गुरोः, भारद्वाजस्य = भरद्वाजकुलोत्पन्नस्य, परिभवं = मृत्युम्, अमुना=धृष्टद्युम्नेन, नृशंसेन=घातुकेन; प्रयुक्तम्=सम्पादितम्, उपेक्षन्ते=तिरस्कुर्वन्ति ।

  • शस्त्रम् = चायुधम् स्पृशन्, परिभवः मृत्युरित्यर्थः । अन्वयः-आजौ, न्यस्तशस्त्रस्य, त्रिभुवनगुरोः, शोकात् , नयनसलिलक्षालिता- र्द्राननस्य, आचार्यस्य, द्रोणस्य, पलितधवले, मौलौ, पाणिम्, न्यस्य, नृशंसम्, कृत्वा, अयम् धृष्टद्युम्नः, स्वशिविरम्, याति, ( तत् ) सर्वे, सहध्वम् ॥ २० ॥ आततायी धृष्टद्युम्नो याति परं कोऽपि किमपि न कथयतीत्याह-आचार्यस्येति । आजौ=संग्रामे, न्यस्तशस्त्रस्य = त्यक्तास्त्रस्य, त्रिभुवनगुरोः=त्रैलोक्यश्रेष्ठस्य, शोकात्, नयनसलिलक्षालिताद्राननस्य=नयनसलिलेन करणभूतेन क्षालितम् आर्द्राननं येन तस्य, आचार्यस्य, द्रोणस्य, पलितधवले = जरया शुक्लकेशेन स्वच्छे, मौलौ = मस्तके, पाणि = हस्तम्, न्यस्य = संस्थाप्य, नृशंसं = हननम्, कृत्वा, अयं धृष्टद्युम्नः = द्रुपदपुत्रः, स्वशिविरं = स्वसैन्यनिवासस्थानम्, तदित्यध्याहारः । सर्वे = अरे राजाओं, क्षत्रियवंश के आचार्य भरद्वाजकुलोत्पन्न श्रीसम्पन्न द्रोणाचार्य जी के इस अनुचित वध को ( केशकर्षणपूर्वक वध को ) जो इस हत्यारे धृष्टद्युम्न के द्वारा किया गया है, किस प्रकार आप लोग उपेक्षा कर रहे हैं ? अश्वत्थामा-(सुनकर क्रोध के आवेश में होकर धीरे-धीरे शस्त्र का स्पर्श करता हुआ) क्यों, क्या आचार्य द्रोण का वध ? ( फिर नेपथ्य में ) पुत्रशोक के कारण निरस्त्र, त्रिलोक के उपाध्याय आचार्य द्रोण के, जिनका मुखमण्डल अश्रुजल से प्रक्षालित होकर भीग गया था, बुढ़ापे से धवलित केशयुक्त शिर पर हाथ लगा कर यह धृष्टद्युम्न क्रूरकर्म करके अपने शिविर (पड़ाव) को चला जा रहा है और तुम लोग देख रहे हो ॥ २० ॥

३. तृतीय अङ्क: द्रोण-वध, अश्वत्थामा क्रोध एवं कर्ण-कलह

१२० वेणीसंहारं नाटकं (सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा ।) किं नामेदम् । प्रत्यक्षमात्तधनुषां मनुजेश्वराणां प्रायोपवेशसदृशं व्रतमास्थितस्य । तातस्य मे पलितमौलिनिरस्तकाशे व्यापारितं सिरसि शस्त्रमशस्त्रपाणेः ॥ कृपः-वत्स एवं किल जनः कथयति । अश्वत्थामा-किं तातस्त दुरात्मना परिमृष्टमभूच्छिरः । सैनिकाः सहध्वम्, एतादृशोज्याचारी धृष्टद्युम्नो याति परं केऽपि किमपि न कुर्व- न्तीतिभावः । मन्दाक्रान्ता छन्दः ॥ २० ॥ अन्वयः -आत्तधनुषाम्, मनुजेश्वराणाम्, प्रत्यक्षम्, प्रायोपवेशसदृशम्, व्रतम्, आस्थितस्य, मे, तातस्य, अशस्त्रपाणेः, पलितमौलिनिरस्तकाशे, शिरसि, शस्त्रम्, व्यापारितम् ॥ २१ ॥ किं त्यक्तशस्त्रस्य पितुरुपरि प्रहारः कृत इत्याह-प्रत्यक्षमिति । आत्तधनुषां=गृहीतचापानाम्, मनुजेश्वराणां = राज्ञाम्, प्रत्यक्षम् = साक्षात्, प्रायोपवेशसदृशम् = प्रायः अनशनं तदर्थम् उपवेशः तत्सदृशम्, 'प्रायस्थानशने मृत्यौ प्रायो बाहुल्यतुल्ययोरिति' विश्वः व्रतं=नियमम्, आस्थितस्य = गृहीतस्य, इदं तातस्य विशेषणम् । मे = मम, तातस्य = पितुः, अशस्त्रपाणेः=शस्त्रशून्यहस्तस्य, एतेन शस्त्रप्रहारस्य योग्यता नास्तीति सूचितम् । पलितमौलिनिरस्तकाशे = पलितैः शुक्लैः, मौलिभिः बद्धकेशैः निरस्तः तिरस्कृतः काशः स्वच्छतृणविशेषः येन तस्मिन्, शिरसि=मूर्द्धनि, शस्त्रम्, व्यापारितम्=प्रहारः कृतः । शस्त्रधारिणां राज्ञां समीपे त्यक्तशस्त्रस्य पितुरुपरि यत् प्रहारः कृतः तदनुचितम् । राज्ञो च रक्षणं समुचितम्, तदपि तेनं कृतमितिभावः । अत्र तृतीयचरणे आर्थोपमाऽलङ्कारः । वसन्ततिलका छन्दः ॥ प्रश्नोत्तरमाह-एवं किल जनः कथयतीति । दुरात्मना=दुष्टेन, धृष्टद्युम्नेन, तातस्य शिरः, परिमृष्टं = स्पृष्टं, किमभूत् , किमिति प्रश्ने । (क्रोध और कम्प के साथ कृप और सूत को देखकर) क्यों यह बात ? धनुर्धर नरेशों के देखते देखते जो आमरण अनशन व्रत के अनुरूप व्रतधारी, मेरे पिता थे, जिनके हाथ में कोई भी शस्त्र नहीं था, शिर पर, जिनके केश-पाश कुसुम के सदृश धवल थे, शस्त्र प्रहार किया है ॥ २१ ॥ कृप-पुत्र, लोग इस प्रकार कहते हैं । अश्वत्थामा-(सूत से) क्या पिता का शिर उस दुरात्मा के द्वारा पकड़ा गया था !

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १२१ सूतः—( सभयम् । ) कुमार, आसीदयं तस्य तेजोरार्शेर्देवस्य नवः परिभवावतारः । अश्वत्थामा—हा तात, हा पुत्रप्रिय, मम मन्दभागधेयस्य कृते शस्त्र- परित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथवा— परित्यक्ते देहे रणशिरसि शोकान्धमनसा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् । असंख्यातास्त्रौघद्रविणमदमत्तस्य च रिपो- र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ २२ ॥ परिभवावतारः = अनादरोत्पत्तिः । अन्वयः—शोकान्धमनसा, रणशिरसि, देहे, परित्यक्ते, श्वा, काकः, वा, द्रुपद- तनयः, वा, शिरः, परिमृशेत्, असंख्यातास्त्रौघद्रविणमदमत्तस्य, रिपोः, च, मम, एव शिरसि, अयम्, पादः, निहितः, तस्य करः, न ॥ २२ ॥ न तस्यानादरः कृतः किन्तु ममैवेत्याह—परित्यक्ते देहे रणशिरसीति । शोकान्धमनसा = शोकेन अन्धम् उद्विग्नं कृत्याकृत्यविवेकशून्यमित्यर्थः, मनः यस्य तेन रणशिरसि = प्रधानसंग्रामे, देहे, परित्यक्ते=परित्यक्तुमारेम्भे 'आदिकर्मणि' इति क्तप्रत्ययः । श्वा==कुक्कुरः, काकः = ध्वाङ्क्षः, वा, द्रुपदतनयः = धृष्टद्युम्नः वा, शिरः = मस्तकम्, परिमृशेत्, कोऽपि परिमृशत्वित्यर्थः । असंख्यातास्त्रौघद्रविणमद- मत्तस्य = असंख्यातः अगणितः अस्त्रौघः शस्त्रसमूहः स इव द्रविणं तज्जन्यो यो मदः तेन मत्तस्य, रिपोः = शत्रोः, च, ममैव, शिरसि अयं पादः=चरणः, निहितः=दत्तः, तस्य करः न । तस्य करो द्रोणस्य शिरसि न तेन निहितः किन्तु मम शिरसि तस्य सूत—( डरता हुआ ) कुमार, शौर्यराशि आपके पिता के तिरस्कार का सर्वप्रथम यह अवसर था । अश्वत्थामा—हा पिता, सुतवत्सल, मुझ हतभाग्य के निमित्त शस्त्रपरित्याग के कारण उस दुरात्मा द्वारा आप अपमानित हुए है ( सोचकर ) अथवा— शोक से सन्तप्तहृदय होकर समराङ्गण के बीच शरीर का परित्याग करने पर शिर को चाहे कुत्ता, कौवा अथवा द्रुपदपुत्र धृष्टद्युम्न स्पर्श करे । अगणित शस्त्रास्त्रराशि के धन से मदोन्मत्त शत्रु के मस्तक पर मेरा यह चरण बिना किसी बात के सोचे-विचारे रक्खा हुआ ही है अर्थात् पिता के शोकविह्वल हो जाने के कारण निश्शस्त्र दशा में वध कर देने पर चाहे शिर को जो छुए और द्रुपदपुत्र ने तो केवल हाथ से स्पर्श किया है किन्तु अब मैं असंख- य्य शस्त्रास्त्रों से सुसज्जित शत्रु के शिर पर पादप्रहार करके ही प्रतिशोध करूँगा ॥२२॥

१२२ वेणीसंहारं नाटकं आः दुरात्मन्पाञ्चालापसद ? तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे । अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना- तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ॥ २३ ॥ युधिष्ठिर, युधिष्ठिर, अजातशत्रो, अमिथ्यावादिन्, धर्मपुत्र, सानुजस्य पादः पतितः, मम जीवितत्वात् पितुश्च मृतत्वादिति भावः । अत्र तृतीयचरणे रूपक- मलङ्कारः । शिखरिणी छन्दः ॥ २२ ॥ पाञ्चालापसद = पाञ्चालकुलाधम । आः, इति खेदे । अन्वयः—शस्त्रग्रहणविमुखम्, तातम्, निश्चयेन उपलभ्य, शङ्काम्, त्यक्त्वा, अस्य, उत्तमाङ्गे, पाणिम् विदधतः, ते पाण्डुपाञ्चालसेनातूलोत्क्षेपप्रलयपवनः, कर- धृतधनुः, अश्वत्थामा, स्मृतिम्, किं न, यातः, खलु ॥ २३ ॥ वीरोऽहं त्वया किं न स्मृत इत्याह—तातं शस्त्रग्रहणेति । शस्त्रग्रहणविमुखं = शस्त्रग्रहणे पराङ्मुखम् तातं निश्चयेन = ध्रुवेण । उपलभ्य= प्राप्य, शङ्काम् = मां हनिष्यतीति सन्देहं, त्यक्त्वा=विहाय, अस्य = अशस्त्रस्य, उत्त- माङ्गे = शिरसि, उत्तमाङ्ग इत्यनेन महाननर्थः कृत इति सूचितम् । पाणि = हस्तम्, विदधतः=कुर्वतः स्थापयत इत्यर्थः । ते=तव, पाण्डुपाञ्चालसेनातूलोत्क्षेपप्रलयपवनः= पाण्डुपाञ्चालनृपाणां या सेना सैव तूलानि तेषाम्, उत्क्षेपे उत्क्षेपणे प्रलयपवनः प्रलयकालिको वायुः, करधृतधनुः = हस्तधृतचापः अश्वत्थामा, स्मृति = स्मरणम्, किं न, यातः, खलु अश्वत्थाम्नः स्मृतिस्त्वया कार्येति भावः । युष्माकं सर्वेषां हननं विधास्यामीत्याकूतम् । अत्र परम्परितरूपकमलङ्कारः । मन्दाक्रान्ता छन्दः ॥२३॥ अमिथ्यावादिन् = सत्यवक्तः, सानुजस्य = सावरजस्य, ते, अनेन = मतपित्रा, किम्, अपकृतम् । अनेन = युधिष्ठिरेण, अलीकप्रकृतिजिह्मचेतसा = अलीकप्रकृतिः अरे ! दुष्ट, पामर धृष्टद्युम्न ! 'पिताजी निःशस्त्र हैं' इस बात को पूर्णतया निश्चय करके निःशङ्क भाव से उनके शिर पर हाथ लगाते हुए तुझे क्या हाथ में धनुष धारण किए हुए अश्वत्थामा, जो पाण्डव और तुम्हारी सेनारूपी कार्पास (रुई) राशि को उड़ा देने में प्रलयकालीन झञ्झावात के अनुरूप है, स्मरण में नहीं आया ! अर्थात् जिस समय यह निन्दित कार्य तूने किया उस समय तुझे मेरी शक्ति याद नहीं आई क्या ! ॥ २३ ॥ युधिष्ठिर ! युधिष्ठिर ! अजातशत्रु, सत्यवादी और धर्मराज के पुत्र ! उन्होंने (मेरे

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १२३ ते किमनेनापकृतम् । अथवा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन, सात्यके, बाहुशालिन्वृकोदर, माधव, युक्तं नाम भवतां सुरासुरमनुजलो- कैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुर मुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गममुपेतम् । अथवा सर्व एवैते पातकिनः । किमेतैः - कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । मिथ्यास्वभावः तथा जिह्मं कुटिलं चेतः यस्य तेन, बाहुशालिन् = बृहद्भुजवन्, वृकोदर = भीम, सुरेति सुराश्च असुराश्च मनुजाश्च तेषां लोकाः तत्रैको यो धनुर्धरः तस्य सर्वलोकश्रेष्ठवीरस्येत्यर्थः । द्विजन्मनः = ब्राह्मणस्य, परिणतवयसः = वृद्धस्य । मनुजपशुना = मनुजः पशुरिव तेन । 'उपमितं व्याघ्रादिभिरिति' समासः । उत्त- माङ्गं = शिरः, उपेतम् = उपेक्षितम् । सर्वे = अर्जुनादय , पातकिनः = पापवन्तः । तेषां द्रष्टृत्वादिति भावः । अन्वयः -यैः, मनुजपशुभिः, निर्मर्यादैः, उदायुधैः, भवद्भिः इदम्, गुरुपात- कम्, कृतम्, अनुमतम्, दृष्टम् वा, नरकरिपुणा, सार्द्धम्, सभीमकिरीटिनाम् असृङ्मे- दोमांसैः, अयमहम् दिशाम्, बलिम्, करोमि ॥ २४ ॥ पातककारणमेवाह । कृतमनुमतमिति । यैः मनुजपशुभिः = पशुतुल्यमनुष्यैः, उपमितसमासः । निर्मर्यादैः = युद्धमर्या- दामतिक्रान्तैः, युद्धे हि मर्यादा यच्छस्त्रधारिणैव सह योद्धव्यं तच्चाद्य नास्ति । यद्य- पिता ने ) तुम्हारे भाइयों का और तुम्हारा क्या अपकार किया है ? अथवा असत्यप्रकृति के कारण कुटिल चित्तवाले से क्या प्रयोजन ! अर्जुन ! अर्जुन ! सात्यकि ! सात्यकि !!, ऐ प्रचण्डभुजशाली वृकोदर ! ( भीम ) माधव ! ( श्री कृष्ण ) क्या आप लोगों को उचित था कि-'देव, दानव, और मानवों के बीच एक मात्र धनुर्धर, ब्राह्मण, वृद्ध तथा सबके आचार्य ( गुरु ) मेरे पिता का शिर इस द्रुपदवंश के कलङ्क, मनुष्य के रूप में साक्षात् पशु धृष्टद्युम्न के द्वारा स्पर्श किये जाते समय उपेक्षा करें । अथवा ये सब के सब पापमूर्ति हैं । इन सबों से कहना ही क्या ? जिन मनुष्यपशुओं ने मर्यादा की सीमा का विच्छेद करके इस ब्रह्महत्यारूप ( १ ) महापातक को स्वयं सम्पादित किया है, अथवा उसके लिए अनुमति प्रदान की है, (१) ब्राह्मण, गुरु, स्त्री, बालक, गोत्र तथा निरस्त्र पुरुषों के वध को महापातक कहते हैं ।

१२४ • वेणीसंहारं नाटकं नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ २४ ॥ कृपः - वत्स, किं न सम्भाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्या- स्त्रग्रामकोविदे भवति । अश्वत्थामा - भो भोः पाण्डवमत्स्यसोमकमागधेयाः क्षत्रियापसदाः, पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुनो- प्येवं कृतं धृष्टद्युम्नेनं तथापि अनुमत्यादिनेषामपि निम॑न्द्यदित्वमिति भावः । उदा- युधैः = उत्थितशस्त्रैः, एतेन वधनिवारणसामर्थ्यं दर्शितम् । भवद्भिः धृष्टद्युम्नादिभिः, इदं = सम्प्रति विहितम्, पातकम् = ब्राह्मणगुरुवधजन्यब्रह्महत्यारूपं महापातकम्, कृतम्, अनुमतम् = अभिप्रेतम् दृष्टं वा, नरकरिपुणा = कृष्णेन, सार्धं सभीमकि- रीटीनाम् = भीमाार्जुनसहितानाम्, तेषाम् असृङ्मेदोमांसैः=रुधिरवसाऽमिषैः अयमहम्, दिशां = दिग्देवतानाम्, बलिम् उपहारम् 'करोपहारयोः पुंसि बलिः प्राण्युपङ्गजे स्त्रियामित्यमरः, करोमि । युद्धे सर्वान्निहनिष्यामीत्यर्थः । हरिणी छन्दः ॥ दिव्यास्त्रग्रामकोविदे = दिव्यास्त्रस्य ग्रामः समूहः तत्र कोविदः प्राज्ञः तस्मिन् क्षत्रियापसदाः = राजन्याधमाः । अन्वय-पितुः मूर्ध्नि, स्पृष्टे, ज्वलदनलभास्वत्परशुना, रामेण, यत्, कृतम्, तत्, भवताम्, श्रुतिम् न, उपगतम् किम्, क्रोधान्धः अश्वत्थामा, अद्य, अरिरुधिरा- सारविघसम्, तत्, कर्म, रणमुखे, विधातुम् किम्, न प्रभवति ॥ २५ ॥ क्षत्रियेण पितृशिरश्छेदने ब्राह्मणपरशुरामेण त्रिःसप्तकृत्वः पृथ्वी क्षत्रियरहिताऽ- कारीति किं त्वया न श्रुतं तथैव चाहं करिष्यामीत्याह - पितुरिति । अथवा शस्त्र-सम्पन्न होते हुए भी प्रत्यक्ष अवलोकन किया है, वासुदेव, भीम और अर्जुन के साथ-साथ उनके मांस, मज्जा और रुधिरादिक से मैं दिक्पालों को बलि वितरण कर दूंगा ॥ कृप - हे वत्स, महाराज (आचार्य द्रोण) के अनुरूप भुजावाले तथा दिव्यास्त्रों के समुदायों के विशेषज्ञ आपके लिए क्या सम्भावना नहीं की जा सकती । अश्वत्थामा - अरे, अरे पाण्डव, मत्स्य, सोमक, मागधादि क्षत्रियापमरो ? प्रज्वलन्त अग्नि की ज्वाला सदृश, प्रकाशमान परशुअस्त्रधारी राम ने अर्थात् (१) जमदग्निकुमार ने अपने पिता के शिरःस्पर्श करने पर अर्थात् शिरश्छेदन के अनन्तर जो (१) परशुराम जमदग्नि ऋषि के पुत्र भगवान् नारायण के अवतार थे । इनकी माता का नाम रेणुका था । गाजीपुर जिले के अभ्यन्तर जमानिया इनकी जन्मभूमि है । एक बार सहस्रार्जुन नाम का राजा आखेट के उपरान्त इनके पिता के आश्रम का अतिथि

तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १२५ कृतं यद्रामेण श्रुतिमुपगतं तन्न भवताम् । किमद्याश्वत्थामा तदरिरुधिरासारविघसं न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ॥ २५ ॥ सूत ! गच्छ त्वं सर्वोपकरणैः साङ्ग्रामिकैः सर्वायुधैरुपेतं महाधवलक्षणं नामास्मत्स्यन्दनमुपनय । सूतः-यदाज्ञापयति कुमारः ( इति निष्क्रान्तः । ) पितुः = परशुरामस्य पितुः जमदग्नेः, मूर्ध्नि-उत्तमाङ्गे स्पृष्टेः हैहयवंशजेति- शेषः । ज्वलदनलभास्वत्परशुना=ज्वलन् योऽनलः अग्निः स इव परशुः तेन, करणेन, रामेण=परशुरामेण यत्, कृतम्, तत् भवताम् = क्षत्रियाणाम्, श्रुतिम् = कर्णम्, न, उपगतम्=प्राप्तम्, किम् । क्रोधान्धः=कोपनः, अश्वत्थामा=द्रोणपुत्रः, सद्यः, अरिरु- धिरासारविघसं = अरीणां रुधिरस्य य आसारः धारासंपातः महावृष्टिरित्यर्थः स विघस इव भोजनशेषसदृशः तृप्तिकरः, तत् कर्म = सर्वक्षत्रियहननरूपम्, रणमुखे = प्रधानसङ्ग्रामे, विधातुम् = कर्तुम् किं न, प्रभवति । परशुरामेण पितृविनाशेन यथा सर्वक्षत्रियवधः कृतः तथाऽहमपि पितृविनाशेन सर्व्वां पाण्डवचमूं वधं करि- ष्यामीत्यर्थः । शिखरिणी छन्दः ॥ २५ ॥ साङ्ग्रामिकः=सङ्ग्रामे साधुः । स्यन्दनम् = रथम् । कुछ कर डाला है वह आप लोगों को श्रुतिगोचर नहीं हुआ है क्या ? अर्थात् सुन ही चुके होंगे । आज क्या वह अश्वत्थामा क्रोध के आवेश में होकर समरस्थली में उन शत्रुओं के रक्तधार से तर्पणरूप कार्यसम्पादन करने में समर्थ नहीं हो सकता ! अर्थात् अवश्य समर्थ हो सकता है ॥ २५ ॥ ऐ सूत, जाओ युद्धसम्बन्धी सभी सामग्रियों से युक्त 'महाधवलक्षण' नामक मेरा रथ लाओ । सूत-जो कुमार की आज्ञा । ( चला जाता है । ) हुआ । इनके पिता ने कामधेनु के प्रसाद से उसका राजोचित सत्कार किया । आश्चर्य चकित होकर सहस्रबाहु ने इस प्रकार के ऐश्वर्य्य का कारण पूछा, उन्होंने कामधेनु को बतलाया । उसने कामधेनु को लेना चाहा परन्तु ऋषि ने नहीं दिया, अत एव उस राज ने उनका वध कर डाला । उस समय परशुराम आश्रम में नहीं थे । उनकी माता रेणुका ने २१ बार छाती पीट कर उन्हें बुलाया था अतः उन्होंने २१ बार क्षत्रियों के नाश की प्रतिज्ञा करके हैहयवंश के क्षत्रियों का वध किया था ।

१२६ वेणीसंहारं नाटकं कृपः—वत्स, अवश्यप्रतिकर्तव्येऽस्मिन्दारुणे निकाराग्नौ सर्वेषामस्माकं कोऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किन्तु । अश्वत्थामा—किमतः परम् । कृपः—सेनापत्येऽभिषिच्य भवन्तमिच्छामि समरभुवमवतारयितुम् । अश्वत्थामा -- मातुल, परतन्त्रमिदमकिञ्चित्करं च । कृपः—वत्स, न खलु परतन्त्रं नाकिञ्चित्करं पश्य— भवेदभीष्ममद्रोणं धार्तराष्ट्रबलं कथम् । यदि तत्तुल्यकक्षोऽत्र भवान्धुरि न युज्यते ॥ २६ ॥ अवश्यप्रतिकर्तव्ये = अवश्यं प्रतिक्रियायोग्ये, निकाराग्नौ=परिभवाग्नौ, त्वामन्त- रेण = त्वद्विना प्रतिकर्तुम् = प्रतिक्रियां कर्तुम् । अकिञ्चित्करम् = शून्यप्रयोजनम्, सेनापत्येऽभिषेचनं व्यर्थमिति भावः । अन्वयः—यदि, तत्तुल्यकक्षः भवान् अत्र, धुरि, न युज्यते ( तदा ) अभीष्मम्, अद्रोणम्, धार्तराष्ट्रबलम् कथम् ( समर्थम्, भवेत् ) ॥ २६ ॥ वीर त्वयि सति कथं वीरसेनापतिशून्यं सैन्यं स्यादित्याह भवेदिति । यदि, तत्तुल्यकक्षः = ताभ्यां भीष्मद्रोणाभ्यां तुल्या कक्षा यस्य सः, भवान्, अत्र, धुरि = सेनापत्यरूपधुरायाम् न, युज्यते = युक्तो भवति, यत्तदोनित्यसाकाङ्क्षत्वात् तदा, अभीष्मम्, अद्रोणम्, धार्तराष्ट्रबलम् = कौरवसैन्यम् समर्थम्, कथम्, भवेत् न कथमपि युद्धयोग्यं भवेदित्यर्थः । त्वं सेनापत्येऽवश्यमभिषेक्तव्य इति भावः । पथ्यावक्त्रं छन्दः ॥ २६ ॥ कृप—हे पुत्र, हम सब लोगों के इस दारुण परिभव (अपमान) रूप अग्नि का प्रतीकार करना तो अत्यावश्यक था परन्तु तुम्हारे सिवा और कौन व्यक्ति प्रतिशोध करने में समर्थ हो सकता है ? किन्तु । अश्वत्थामा—तो फिर 'किन्तु' क्या ? कृप—सेनानायक के पद पर तुम्हारा अभिषेक करके तुम्हें रणभूमि में ले जाना चाहता हूँ । अश्वत्थामा—मामा यह अपने अधिकार से बाहर है और कोई लाभ भी नहीं । कृप—पुत्र, न तो यह अपने अधिकार के बाहर है और न व्यर्थ है । देखो— भीष्म और द्रोणाचार्य के अभाव में यह कौरवीय सेना कैसे रह सकती है यदि उनके पराक्रमसदृश पराक्रमशाली तुम उस सैन्यसञ्चालन के भार में नियुक्त न किए जाओ ॥२६॥

[Page Header] तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १२७

कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्युधिष्ठिरबलम् । तदेव मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो नचिरात्वामेवाभ्यपेक्षमाणस्तिष्ठतीति । अश्वत्थामा - यद्येवं त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रती- कारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सेनाप- त्यस्वयंग्रहणप्रणयसमाश्वासनया मन्दसन्तापं करोमि । कृपः-वत्स, एवमिदम् । अतस्तमेवोद्देशं गच्छावः । ( इति परिक्रामतः । ) ( ततः प्रविशतः कर्णदुर्योधनौ । ) दुर्योधनः--अङ्गराज,

परिपन्थीभवितुम्=शत्रुर्भवितुम् 'दस्युशात्रवशत्रवः अभिघातिपरारातिप्रत्य- थिपरिपन्थिन' इत्यमरः । परिकल्पिताभिषेकोपकरणः=परिकल्पितं सङ्गृहीतं अभिषेकोपकारणं येन सः, कौरवराजः = दुर्योधनः, नचिरात् = शीघ्रम्, अभ्यपेक्ष- माणः = प्रतीक्षमाणः । सेनापत्यस्वयंग्रहणप्रणयसमाश्वासनया =सेनापत्यस्य यत्स्वयमेव ग्रहणम् तद्रू- पप्रणयः तेन यः समाश्वासना, आश्वासः तया । अङ्गराजः - अङ्गदेशानां राजा कर्णः । 'राजाऽहःसखिभ्यष्टच्'ति टच्प्रत्ययः ।

आप सदृश पुरुष के कवचादि के धारण कर लेने पर तीनों लोक भी शत्रु बनने में समर्थ नहीं हो सकता फिर पाण्डवीय सेना की क्या कथा ! अत एव ऐसा समझकर अभि- षेकसामग्री एकत्रित करके कौरवनरेश (सुयोधन) कब से आपकी प्रतीक्षा कर रहे हैं ? अश्वत्थामा-यदि यह बात है तो अपमान की ज्वाला से भस्म होता हुआ मेरा चित्त उसके प्रतिकार (बदला) रूप जल में प्रवेश करने के लिए व्याकुल हो रहा है । अतः मैं जाकर पिता के वध से खिन्नमन हुए कुरुराज के शोक को सेनानायक के पद को स्वयं ग्रहण करने की याचना रूप आश्वासन से, न्यून करूँगा अर्थात् स्वयं जाकर सेनापति का भार ग्रहण करूँगा और उन्हें कहना न पड़ेगा इससे उनका शोक कम हो जायगा । कृप-वत्स, बहुत ठीक । अतः उस स्थान पर चलना चाहिये । ( दोनों चल पड़ते हैं ) ( इसके अनन्तर कर्ण और दुर्योधन का प्रवेश ) दुर्योधन-अङ्गराज !