भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

१५० वेणीसंहारं नाटकं कर्णः—आः, का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य छाया- मप्याक्रमितुम् । युवराज, न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि । ( इति निष्क्रान्तः । ) अश्वत्थामा—राजन् कौरवनाथ, अभीष्मद्रोणं सम्प्रति कौरवबलमालो- डयन्तौ भीमार्जुनौ राधेयेनैवविधेनान्येन वा न शक्यते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव । दुर्योधनः—आः, शक्तिरस्ति दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य छायामप्याक्रमितुम् । वत्स, न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः रथमुपनय (इति निष्क्रान्तः ।) ( नेपथ्ये कलकलः । ) अश्वत्थामा—(ससम्भ्रमं) मातुल, कष्टं कष्टम् । एष भ्रातुः प्रतिज्ञा- भङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैरभिद्रवति । सर्वथा पीतं कौरवबलं = कुरुराजसैन्यम्, आलोडयन्तौ = मर्दयन्तौ, राधेयेन = राधाऽपत्य- कर्णेन, प्रतीकारपरः = उपायतत्परः । मातुल = कृपाचार्य, प्रतिज्ञाभङ्गभीरुरिति-यद्यहं दुर्योधनकर्णौ शरैराच्छादयामि तदा ताभ्यां निवा- कर्ण—अरे ! भीम में क्या सामर्थ्य है कि मेरे जीवित रहते हुए दुःशासन की छाया तक का स्पर्श करे । युवराज ! भय न करें, मैं आ ही पहुंचा (यह कहकर चल पड़ता है)। अश्वत्थामा—राजन्, कौरवेश्वर ! इस समय भीष्म और द्रोण से शून्य कौरवीय सेना का मन्थन करते हुए भीम और अर्जुन का प्रतिकार करने में कर्ण अथवा उसी प्रकार के किसी अन्य वीर में सामर्थ्य कहाँ ? अतः आप स्वयं भाई की रक्षा के लिए तत्पर हो जाइए । दुर्योधन—अरे ! दुष्ट वायुपुत्र भीम में अथवा अन्य किसी में क्या शक्ति है कि मेरे जीवित रहते हुए और हाथ में शस्त्र होते हुए अनुज दुःशासन की छाया का भी स्पर्श करे । भ्रातः ! न डरो, न डरो । अरे यहाँ कौन है ! मेरा रथ उपस्थित कर (यह कहकर चल देता है) । (नेपथ्य में कोलाहल) अश्वत्थामा—(सामने देखकर व्याकुलाहट के साथ) मामा ! हाय बड़े दुःख की बात है कि अर्जुन अपने भीम की प्रतिज्ञाभग्न हो जाने के भय से अमोघ शर की वर्षा करते हुए दुर्योधन और कर्ण की ओर दौड़ रहा है । हाय ! दुःख !! दुःख !!! अरे यह तो

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५१

दुःशासनशोणितं भीमसेनेन । न खलु विषये दुर्योधनानुजस्यैतां विपत्तिम-
वलोकयितुम् । अनृतमनुमतं नाम । मातुल, शस्त्रं शस्त्रम् ।
सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरकोऽस्तु मे ।
भीमाद् दुःशासनं त्रातुं त्यक्तमप्यक्तमायुधम् ॥ ४८ ॥
( इति खड्गं ग्रहीतुमिच्छति । )
( नेपथ्ये । )
महात्मन्, भरद्वाजसूनो, न खलु सत्यवचनमुल्लङ्घयितुमर्हसि ।
कृपः-वत्स, अशरीरिणी भारती भवन्तममृतादाभिरक्षति ।
रितो भीमः कदाचिद् दुःशासनरुधिरपानेनापूर्णप्रतिज्ञः स्यादिति भावः । अनृत-
मनुमतमिति = यन्मयोक्तं कर्णे जीवति अहं शस्त्रं न ग्रहीष्यामीति तन्मिथ्या भव-
द्विति भावः ।
अन्वयः-सत्यात्, अपि, अनृतम्, श्रेयः, (भवतु) स्वर्गम्, धिक्, नरकः, अस्तु
भ मात्, दुःशासनम्, त्रातुम्, त्यक्तम्, आयुधम्, अत्यक्तम् ॥ ४८ ॥
साम्प्रतं शस्त्रं ग्राह्यमित्याह सत्यादप्यनृतमिति । अनृतं = मिथ्या, श्रेयः =
श्रेष्ठम्, शस्त्रग्रहणजन्यमिथ्यादोषान्नरकः श्रेयानेवेति भावः । दुःशासनं = दुर्योधना-
नुजम्, त्रातुं = रक्षितुम्, अत्यक्तं = अत्यक्ततुल्यम्, शस्त्रं गृह्यते मयेति भावः ।
पथ्यावक्त्रं छन्दः ॥ ४८ ॥
अशरीरिणी = देहिनाऽनुक्ता, देववाणीत्यर्थः ।
भीम ने दुःशासन का रक्तपान कर ही लिया । दुर्योधन के कनिष्ठ भ्राता की यह दुरवस्था
मुझ से देखी नहीं जा सकती । मेरी प्रतिज्ञा असत्य ही सही मामा ! शस्त्र !! शस्त्र !!!
मैं सत्य की अपेक्षा मिथ्यावादिता को कल्याण की जननी समझता हूँ । स्वर्ग को
धिक्कार है, मुझे नरक भले ही क्यों न हो; मैंने शस्त्र का परित्याग कर दिया है तथापि
भीमसेन से दुःशासन की रक्षा के लिए शस्त्र का परित्याग मैं नहीं करता अर्थात् उसे फिर
ग्रहण करता हूँ ॥ ४८ ॥
( यह कहकर खड्ग उठाना चाहता है )
( नेपथ्य में )
महानुभाव ! भारद्वाजद्रोणकुमार !! अब तक कभी सत्य से विचलित नहीं हुए हो अब
भी विचलित नहीं होना चाहिए ।
कृप-वत्स ! आकाशवाणी तुम्हें भ्रष्टप्रतिज्ञ होने से बचा रही है ।

१५२ वेणीसंहारं नाटकं अश्वत्थामा—कथमियममानुषी वाङ्नानुमनुते सङ्ग्रामावतरणं मम। सर्वथा पाण्डवपक्षपातिनो देवाः। भोः कष्ट कष्टम्। दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम्। दुर्योधनस्य कर्ताऽस्मि किमन्यत्प्रियमाहवे ॥ ४९ ॥ मातुल, राधेयक्रोधवशादनार्यमस्माभिराचरितम्। अतस्त्वमपि ताव- दस्य राज्ञः पार्श्ववर्ती भव। कृपः गच्छाम्यहमत्र प्रतिविधातुम्। भवानपि शिविरसन्निवेशमेव प्रतिष्ठताम्। (परिक्रम्य निष्क्रान्तौ।) इति तृतीयोऽङ्कः। अन्वयः— दुःशासनस्य, रुधिरे, पीयमाने, अपि, उदासितम् ( मया ) ( तदा ) आहवे, दुर्योधनस्य, प्रियम्, अन्यत्, किम्, कर्त्ता, अस्मि ॥ ४९ ॥ साम्प्रतमुदस्ततोऽग्रे कि कारिष्यामीत्याह = दुःशासनस्येति । पीयमाने, भीमनेति शेषः । उदासितम् मयेति शेषः । आहवे = सङ्ग्रामे, प्रियम् = इष्टम्, कर्ता-तृन्प्रत्य- यान्तमिदम् अतो 'न लोकाव्ययं'ति निषेधान्न कृद्योगे षष्ठी अस्मि, न किमपीत्यर्थः । यदि साम्प्रतं भीमाद् दुःशासनस्य रक्षा न कृता तदाऽग्रे दुर्योधनस्य क उपकारो विधास्यते मयेति भावः । अनुष्टुप् छन्दः ॥ ४९ ॥ अनार्य = शस्त्रपरित्यागरूपम् । इति प्रबोधिनी-व्याख्यायां तृतीयोऽङ्कः । अश्वत्थामा—क्यों दैवी वाणी को यह मेरा युद्धक्षेत्र में उतरना अभीष्ट नहीं है ? कष्ट की बात है ! हाय देवता लोग भी पाण्डवों के ही समर्थक हैं। अब भीम के द्वारा दुःशासन का रक्तपान किया गया ही समझना चाहिए। हाय ! दुःख !! दुःख !!! दुःशासन का रक्तपान होते हुए भी तटस्थ हूं, तब संग्राम की आपत्तिकाल में इससे बढकर प्रिय और दूसरा कार्य दुर्योधन का कौनसा है जिसे मैं सम्पादन करूँ ॥ ४९ ॥ मामा ! कर्ण के प्रति किये गये क्रोध के आवेश में पड़कर मैंने अच्छा नहीं किया, अच्छा, अब आप भी इस राजा की रक्षा के लिये तैयार रहिये। कृप—अच्छा मैं सहायतार्थ जा रहा हूँ तुम शिविर के लिए प्रस्थान कर दो । (दोनों घूमकर चले जाते हैं) ॥ तीसरा अङ्क समाप्त ॥

चतुर्थोऽङ्कः ( ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । ) ( सूतः ससम्भ्रमं परिक्रामति । ) ( नेपथ्ये ) भो भोः, बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणी- कृतप्राणद्रविणसंचया नरपतयः ! संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासन- पीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि उमाहृदानन्दकरं शिवस्य नेत्रोत्सवं भूतलोकभूतिम् । बहिर्मुखानामपि पूजनीयं सिद्धिप्रदं विघ्नपतिं नमामः ॥ १ ॥ अपहरन् = नयन्, ससम्भ्रमम् = सोद्वेगम्, बाहुबलावलेपप्रवर्तितमहासमरदोहदाः = बाहुबलस्य भुजपराक्रमस्य योऽवलेपः गर्वः तेन प्रवर्त्तितो यो महासमरः तस्य दोहदम् इच्छा येषामिति व्यधिकरणपद- बहुव्रीहिः । 'तत्सम्बोधने' अथ दोहदम् इच्छा काङ्क्षा' इत्यमरः । कौरवपक्षपात- पणीकृतप्राणद्रविणसञ्चयाः = कौरवपक्षपातेन दुर्योधनसाहाय्येन पणीकृताः प्राणा एव द्रविणसञ्चयः यैः, यथा द्यूते द्रविणं पणीक्रियते तथा रणे नरपतिभिः प्राणा एव पणीकृता इति भावः । संस्तभ्यन्तान् = अवरुध्यन्ताम्, इदं बलानीत्यनेनान्वेति । निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि = निहतो यो दुःशासनः तस्य पीतावशेषं यत् शोणितं तेन स्नपितः आच्छा- दितः अतएव बीभत्सः भयानकः यो वृकोदरः भीमः तस्य दर्शनाद् यद् भयं तेन परिस्खलन्ति पतन्ति प्रहरणानि अस्त्राणि येषां तानि, प्रद्रवन्ति = धावन्ति इदं (आहत अतएव चेतनारहित दुर्योधन को रथ पर बिठा कर अपहरण करता हुआ सारथि प्रवेश करता है) (सारथि व्याकुल होकर इधर-उधर घूमता है) (नेपथ्य में) अरे अरे बाहुबल के दर्प से महासंग्रामरूप महोत्सव के प्रवर्त्तकों तथा कुरुवंश के लिये अपने प्राणों तथा धनराशि को न्योछावर कर देने वाले राजाओ ! भीमसेन ने दुःशासन का वध करके रक्तपान किया है और बचे हुये रक्त का विलेप अपने अङ्गों में किया है अतएव उसकी भयावह आकृति को देखकर त्रस्त हो शस्त्रों का परित्याग करके समरविमुख

१५४ वेणीसंहारं नाटकं रणात्प्रद्रवन्ति बलानि । सूतः ( विलोक्य । ) कथमेष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिरनकलेवरसहस्रसम्मर्दविषमो- द्धातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरचक्रपराक्रम- प्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त, जातमस्मद्बलानामवलम्बनम् । ( नेपथ्ये कलकलानन्तरम् । ) शत्रुप्रत्ययास्तम्, बलानि–अवरुध्यन्तामित्यर्थः । धवलचपलचामरचुम्बितकनककमण्डलुना = स्वच्छं यच्चञ्चलचामरं तेन चुम्बितः कनकरुकमण्डलुः यत्र तेन, शिखरावबद्धवैजयन्तीसूचितेन=शिखरे अग्रभागे अवबद्धा या वैजयन्ती पताका तया सूचितेन, ज्ञातेन, हतगजवाजिरनकलेवरसहस्रसम्मर्द- कलेवराणि शरीराणि तेषां सम्मर्दनेन यो विषमोद्धातः तेन करणभूतेन कृतः कल- कलः महाध्वनिः येन किङ्किणीजालेन तन्माला यस्य तेन, इदं विशेषणत्रयं रथस्य, रथेनेत्यस्य करणत्वेन अनुसरणक्रियायामन्वयः । शरवर्षस्तम्भितपरचक्रपराक्रम- प्रसरः = बाणवर्षणेन स्तम्भितः शत्रुसमूहपराक्रमप्रसरः येन सः, प्रद्रुतं = धावितम्, आत्मबलं = स्वसैन्यम्, आश्वासयन् = सन्तोलयन्, कृपः = कृपाचार्यः, किरीटिना = अर्जुनेन अभियुक्तं = हननाथं लक्ष्यीकृतम्, अङ्गराजं = कर्णम्, अनुसरति = पश्चाद् गच्छति । हन्त इति हर्षे 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः'रित्यमरः । होकर सेनायें तितर-बितर हो रही हैं उन्हें रोक रखिये । सूत—( देखकर ) जिस रथ के ऊपर सुवर्णकलश के साथ श्वेतवर्ण के सुन्दर चमर फरफरा रहे हैं, जिसके शिखराग्र भाग पर पताकायें फहरा रही हैं तथा युद्ध में मारे गये हाथी, घोड़े और मनुष्यों के असंख्य लोथों के ढेर से ऊँची-नीची भूमि पर टक्कर खाने से जिस रथ में बँधी हुई छोटी-छोटी घंटिकायें झङ्कृत होती रहती हैं इस प्रकार के रथ पर आरूढ होकर ये कृपाचार्य बाणों की वर्षा से शत्रुसैन्य की पराक्रमपूर्ण गति को जड़तुल्य बना देते हुए तथा भागती हुई अपनी सेना को धैर्य बँधाते हुए अर्जुन के साथ युद्ध करते हुए कर्ण की सहायता के लिये जा रहे हैं । प्रसन्नता की बात है कि हम लोगों की सेना के लिए कुछ आधार हो गया । ( नेपथ्य में कलकल ध्वनि के पश्चात् ) ।

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५५ भो भोः, अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः, कौरवच- मूभटाः पाण्डवपक्षपातिनश्च योधाः, न भेतव्यं न भेतव्यम् । अयमहं निहत- दुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्ट- प्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् - राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः

अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः = अस्माकं विलोकनाद् यद् भयं तेन स्खलिताः कार्मुककृपाणतोमरशक्तयः चापखड्गशर्वलाशक्तिनामकास्त्राणि, येषां तत्सम्बोधने, कौरवचमूभटाः = दुर्योधनसैन्ययोद्धारः, 'भटा योधाश्च योद्धारः' इत्यमरः । निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतः = निहतो यो दुःशा- सनः तस्य पीवरं मांसलम् उरःस्थलं तस्य यत् क्षतजं रुधिरं तदेवासवः मद्यं तस्य पानेन मदोद्धतः, रभसगामी = त्वरितगन्ता, स्तोकावशिष्टप्रतिज्ञामहोत्सवः स्तोकम् अल्पम् अवशिष्टः प्रतिज्ञामहोत्सवः यस्य । भीमस्य प्रतिज्ञासीद् यत् दुःशासनस्य रुधिरं पास्यामि, दुर्योधनस्य च जघनं त्रोटयिष्यामि शतं भ्रातृंश्च हनिष्यामि तत्र केवलं दुर्योधनस्य जघनत्रोटनं शिष्यते अत उच्यते-स्तोकावशिष्टप्रतिज्ञेति । द्यूत- निर्जितो दास इत्यनेन दासत्वेन दुर्योधनेन यो भीम उपहसितः स एव सम्प्रति तद्वधार्थं तं गवेषत इति सूच्यते । अन्वयः - मानधनस्य कार्मुकभृतः दुर्योधनस्य, अग्रतः, कुरुबान्धवस्य, नृपतः, कर्णस्य, शल्यस्य, च प्रत्यक्षम्, पाण्डववधूकेशावमर्षापिनः, जीवतः, एव, तस्य, तं दण्डकरजक्षुण्णात, वक्षसः, कोष्णम्, असृक्, वद्य, मया, पीतम् !१ ॥ १ ॥ स दुराचारी दुःशासनो मया दण्डित इत्याह - राज्ञो मानधनस्येति । मानध- नस्य = मानिनः, कार्मुकभृतः = चापधारिणः, राजः, अनेन विशेषणेन क्षत्रियस्य

(भीम)-अरे अरे कौरवसेना के शूरवीरो तथा पाण्डवों के सहायको ! मुझे देखकर ही भय के कारण आप लोगों के हाथ से धनुष तलवार, गड़ासे तथा बर्छियाँ छूटकर गिरी जा रही हैं आप लोग भयभीत न हों, भयभीत न हों। संहार किए गए दुःशासन के विशाल वक्षःस्थल के रुधिररूपी मदिरा के छकने से मदोन्मत्त (पागल) होकर वेग से गमन करता हुआ वह जो मैं भीमसेन पाण्डवों में मंझला तथा कौरवनरेश की द्यूतक्रीड़ा से जीतकर दास बनाया हुआ तथा जिसके प्रतिज्ञामहोत्सव की पूर्ति बहुत थोड़े अंशों में अवशिष्ट है, आप सबलोगों को साक्षी बनाकर कहता हूँ। ध्यान दीजिए- अभिमानैकधन तण सशस्त्र राजा दुर्योधन के, उसी प्रकार कौरव सहायक श ० २३०

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

१५६ वेणीसंहारं नाटकं. प्रत्यक्षं कुरुबान्धवस्य नृपतेः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ १ ॥ सूतः - (श्रुत्वा । सभयम् ।) कथमासन्न एव दुरात्मा कौरवराजपुत्र- महावनोत्पातमारुतो मारुतिः । अनुपलब्धसञ्ज्ञश्च महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिद् दुःशासन इवास्मिन्नप्यनार्योऽ- धर्मोऽयं यत् परस्त्रातव्यः तत्रापि च स्वबन्धुरवश्यं तच्च त्वया न कृतमित्यतीवा पमानं तवेति, चापधारित्वेन च रक्षणयोग्यतास्तीति, मानधनस्य च मानहानिरतीव लज्जाजनकेति च सूच्यते । अग्रतः = अग्रे, न तु परोक्षम्, कुरुबान्धवस्य = कर्णपक्षे कुरुमित्रस्य शल्यपक्षे कुरुबन्धोः मातुलस्येत्यर्थः । 'बान्धवा बन्धुमित्रयोरि'ति हेमः । नृपतः = सहिष्णोः शल्यस्य मातुलस्य च प्रत्यक्षम्, अद्य = इदानीम्, 'इदानीमद्ये'ति कलापसूत्रम् । पाण्डववधूकेशाम्बराकर्षिणः = द्रौपदीकेशवस्त्राकर्षकस्य, जीवतः = प्राणान् धारयतः, एतेन स्वस्मिन्नतिपराक्रमः सूचितः । तस्य = दुःशासनस्य, तीक्ष्ण- करजक्षुण्णात् = निशितनखविदारितात्, वक्षसः = हृदयात्, कोष्णं = ईषदुष्णम्, असृक् = रुधिरम्, मया = भीमेन पीतम् । अत्र प्रथमचरणे परिकरालंकारः । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ आसन्नः = समीपवर्ती, कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः = धृतराष्ट्र- पुत्रा एव महावनं तस्य य उत्पातमारुतः वायुः तद्वत् मरुतः अपत्यं भीमः । अनुप- लब्धसंज्ञः = अप्राप्तचैतन्यः मूर्च्छित इत्यर्थः । महाराजः = दुर्योधनः । स्यन्दनं=रथम् । कर्ण के देखते आज मैंने पाण्डवों की धर्मपत्नी [द्रौपदी] के केश और वस्त्र के आकर्षण करने वाले दुरात्मा के जीवित रहते हुए ही उसके वक्षःस्थल से तीक्ष्ण नखप्रहार के द्वारा ताजा रक्त निकाल कर पी लिया अर्थात् मैने दुःशासन के रक्तपान की जो प्रतिज्ञा की थी वह आज पूर्ण हो गई यद्यपि वह स्वयं एक वीर, धनुर्धर तथा मानी है; उसका बड़ा भाई भी वीर है । वह भी नहीं कि उनकी अनुपस्थिति में किन्तु उनके देखते देखते । इसके अतिरिक्त उसके सहायक शल्य और कर्ण जैसे वीर भी उपस्थित थे इतना ही नहीं कि उसे मारकर उसका रक्तपान किया हो, उसके जीते रहते हुए ही उसका रक्त निकाल कर पान किया हू ॥ १ ॥ सूत - (सुनकर भय से) अरे ! कौरवनरेश के पुत्ररूपी विशाल वन को निर्मूल करने के लिए भयङ्कर आँधी की भाँति यह दुष्ट भीमसेन समीप में ही वर्तमान है। महाराज को अभी चेतना नहीं आई, अच्छा, मैं अब रथ को दूर भगाये लिये जा रहा हूँ क्योंकि कदाचित्

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५७ नायमाचरिष्यति । ( त्वरितं परिक्रम्यावलोक्य च । ) अये ! अयमसौ सर- सीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपा- दपः । उचिता विश्रामभूरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा दशा- परिणामयोग्येन सरसीसमीरेणामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथोऽनिवारित एव प्रवेक्ष्यति छायामिति । (प्रवेशं रूपयित्वा ।) कः कोऽत्र भोः । ( समन्तादवलोक्य । ) कथं न कश्चिदत्र परिजनः । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसन्नि- अनार्यम् = अनुचितम् । सरसीसरोजविलोलसुरभिशीतलमातरिश्वसंवाहितसान्द्र- किसलयः = सरसीनां सरोजानाञ्च विलोलनेन सञ्चालनेन शीतलः सुरभिः सुग- न्धिश्च यो मातरिश्वा वायुः तेन संवाहितम् संचालितं किसलयं पल्लवः यस्मिन्,. सः, न्यग्रोधपादपः = वटवृक्षः अस्तीति शेषः । समरव्यापारखिन्नस्य = सङ्ग्राम- करणेन श्रान्तस्य, विश्रामभूः = श्रमनिवारणस्थानम्, इयम्, उचिता = योग्या । अयाचिततालवृन्तेन = स्वयं प्राप्तव्यजनेन, हरिचन्दनच्छटाशीतलेन = श्रीखण्डशीत- लेन, अप्रयत्नसुरभिणा = अनायासोत्तमगन्धवता, दशापरिणामयोग्येन = मूर्च्छानिवा- रणसमर्थेन, सरसीसमीरेण = सरोवरस्यवायुना, अमुना = उपस्थितेन, गतक्लमः = विरतग्लानिः श्रमरहितः । लूनकेतुः = छिन्नध्वजः, अनिवारितः अनवरुद्धः स्वयमेवे- त्यर्थः । प्रवेक्ष्यति = प्रवेशं करिष्यति । परिजनः । दुःशासन की तरह इन पर भी यह नीच नीचता कर जाय (शीघ्र ही घूमकर और देखकर) अहा ! यह एक वटवृक्ष (बड़ का पेड़) हैं । सरोवर के कमलों का प्रकम्पन करने के कारण शीतल और सुगन्ध पूर्ण वायु के झकोरों से इसकी घनी और सुकोमल पत्तियाँ मन्द-मन्द हिल रही हैं । समराङ्गण में युद्ध करते-करते श्रान्त वीरपुरुष के विश्राम करने योग्य यह सुन्दर भूमि है। यहाँ रहकर बिना किसी आयास के तालपत्रों के उपवीज ( पंखा ) द्वारा तथा हरिचन्दन के वृक्षों की शीतलता से और अप्रयत्नलभ्य सुगन्ध से तथा भाग्यवश सरोवरों के इस सुखकर वायु के सेवन से महाराज की खिन्नता दूर हो जायगी । (ऊपर की ओर देखकर) रथ की पताका भी कट कर गिर गई है अतः यह (रथ) बिना किसी अवरोध के छाया में चला जायगा । ( छाया में रथ ले जाने का अभिनय करता है ) कोई है ? [ महाराज के छत्र-चामर और पंखों को शीघ्र उपस्थित करो ] । (चारों ओर देखकर) क्यों क्या कारण है यहाँ कोई अनुचर नहीं है ? निश्चय भीम को उस भीषण वेश में देख और महाराज की भी यह दशा देखकर सभी नौकर-चाकर डर गये हैं और पड़ाव पर तम्बुओं

१५८ | वेणीसंहार नाटकं वेश्मैव प्रविष्टः । कष्टं भोः, कष्टम् । दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः क्रूरं दुःशासनेऽस्मिन्हरिण इव कृतं भीमसेनेन कर्म । दुःसाध्यामप्यरीणां लघुमिव समरे पूरयित्वा प्रतिज्ञां नाहं मन्ये सकामं कुरुकुलविमुखं दैवमेतावतापि ॥ २ ॥ ( राजानमवलोक्य । ) कथमद्यापि चेतनतां न लभते महाराजः ? भोः, अन्वयः- द्रोणेन, पार्थात्, अभयम् दत्त्वा, अपि, सिन्धुराजः, न संरक्षितः, भीमसेनेन, अरीणाम्, दुःसाध्याम्, अपि, लघुमिव, प्रतिज्ञाम्, समरे, पूरयित्वा, अस्मिन्, दुःशासने, हरिणे, इव, क्रूरम्, कर्म, कृतम्, एतावता, अपि, अहम्, कुरुकुल- विमुखम्, दैवम्, सकामम्, न मन्ये ॥ २ ॥ सिन्धुराजादीनां वधेऽपि कुरुकुलविपरीतभाग्यस्य सन्तोषो न जातोऽत एव दुर्योधनश्चैतन्यं न लभत इत्याह - दत्त्वेति । पार्थात् अभयं = भयाभावम, दत्त्वा, अपि, सिन्धुराजः, न संरक्षितः, भीमसेनेन, अरीणां = शत्रूणांः, दुःसाध्यां = दुःखेन सम्पादनीयाम्, 'कृत्यानामि'ति कर्तरि षष्ठी । प्रतिज्ञां = शोणितपानरूपाम्, पूरयित्वा = निष्पाद्य, हरिणे = मृगे, इव क्रूरं = निर्दयम्, कर्म, कृतम् एतावता = एकोनशतधृतराष्ट्रपुत्रादिवधेन, अपि अहं = सूतः, दैवं = भाग्यम् सकामं = पूर्णमनोर- थम्, न मन्ये = स्वीकरोमि । अतः परमपि किमपि भावीत्यर्थः । अत्रोपमालङ्कारः । स्रग्धरा छन्दः ॥ २ ॥ चेतनतां = चैतन्यम्, विगतमूर्च्छत्वमित्यर्थः । के भीतर प्रवेश कर गए हैं । बड़े कष्ट की बात है । द्रोणाचार्य ने अर्जुन से जयद्रथ की रक्षा के लिये अभयदान दिया था तथापि रक्षा नहीं किया । भीमसेन ने हरिण के सदृश दुश्शासन का वधरूप नीच कर्म किया । जिस प्रतिज्ञा की पूर्ति शत्रुओं के लिये असंभव बात थी उसकी बड़ी सरलता से पूर्ति कराके-मेरा जहाँ तक विचार है-कुरुवंश के विपरीत विधाता इतने पर भी सन्तुष्ट नहीं है अर्थात द्रोणाचार्य जैसे वीर जयद्रथ की रक्षा का भार लिए हुए थे और अर्जुन ने उसका वध कर ही डाला । दुश्शासन वीर था तो भी भीमसेन ने उसका इस प्रकार से वध किया जैसे कोई भोले-भाले हरिण का वध करे और वह चूँ तक न बोले । पाण्डवों की भीषण से भीषण प्रतिज्ञायें बड़ी सुगमता से पूरी होती दीख पड़ती हैं इससे तो यही विचार में आता है कि विधाता सर्वथा कौरववंश के प्रतिकूल है और इतना सब कुछ कराके भी तृप्त नहीं है भविष्य में न मालूम क्या करावेगा ॥ २ ॥ (राजा को देखकर) क्यों अब भी महाराज की मूर्च्छा दूर नहीं हो रही है ? बड़े

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १५६ कष्टम् ( निश्वस्य । ) मदकलितकरेणुभज्यमाने विपिन इव प्रकटैकशालशेषे । हतसकलकुमारके कुलेऽस्मिस्त्वमपि विधेरपलोकितः कटाक्षैः ॥ ३ ॥ ( आकाशे लक्ष्यं बद्ध्वा ) ननु भो हतविधे, भरतकुलविमुख, अक्षतस्य गदापाणेरना रूढस्य संशयम् । अन्वयः - मदकलितकरेणुभज्यमाने, प्रकटैकशालशेषे, विपिने, इव, हतसकल- कुमारके, अस्मिन्, कुले, त्वम्, अपि, विधेः, कटाक्षैः अवलोकितः ॥ ३ ॥ मदकलितकरेणुभज्यमाने = मदेन कलितः व्याप्तो यः करेणुः हस्ती तेन भज्य- माने संमृद्यमाने, प्रकटैकशालशेषे = प्रकटः एकशालः एकमात्रवृक्षः शेषः अवशिष्टः यत्र तस्मिन्, विपिने = वने, इव । कुरुकुले एक एव दुर्योधनोऽवशिष्टः सर्वे च भीमेन विनाशिता इति भावः । हतसकलकुमारके = व्यापादितसकलराजपुत्रे, अस्मिन् कुले त्वं = महाराजदुर्योधनः, विधेः = दैवस्य, कटाक्षैः = भ्रूभङ्गैः, अवलो- कितः, किं त्वमपि चेतनतां न लप्स्यस इति भावः । अत्र पूर्णोपमाऽलङ्कार पुष्पि- ताग्रा छन्दः ॥ ३ ॥ हतविधे हतभाग्य दुर्भाग्येत्यर्थः । अन्वयः - गदापाणेः, अक्षतस्य, संशयम्, अनारूढस्य, भीमसेनस्य, एषा, अपि, प्रतिज्ञा, त्वया, पूर्यते ॥ ४ ॥ दुर्योधनस्य मूर्च्छा विलोक्य तस्य मरणं सन्दिहान आह - अक्षतस्येति । गदा- पाणेः = गदाधारिणः, अक्षतस्य = प्रहारानभिहतस्य संशयं = प्रतिज्ञापूर्त्यर्थं प्रवृत्ते युद्धे गदायुद्धकुशलो दुर्योधनो मां हनिष्यति अथवा मम प्रतिज्ञा पूर्णा भविष्यती- दुःख की बात है ! ( आह भरकर ) मदोन्मत्त गजराज के द्वारा जङ्गल के ध्वस्त कर देने पर जिस प्रकार एक दो वृक्ष ही कहीं पर अवशिष्ट दिखलाई पड़े उसी प्रकार इस कुरुवंश के सम्पूर्ण राजकुमारों के नाश हो जाने पर एक मात्र अवशिष्ट आप [दुर्योधन] दुर्देव के नेत्रों से देखे जा रहे हैं । अर्थात् जिस प्रकार एक पागल हाथी विशाल और गम्भीर वन में घुस कर उसके सभी वृक्षों को तोड़ कर नष्ट कर डाले और बड़ी कठिनाई से एक दो वृक्ष बच जायें उसी प्रकार इस मतवाले भीम के द्वारा कुरुवंश के सभी राजकुमारों का संहार हो चुका और केवल आप [ दुर्योधन ] जीते हुए बच गये हैं दुर्देव की दृष्टि आप पर भी पड़ रही है कदाचित् आपको भी न समाप्त कर दे ॥ ३ ॥ ( आकाश की ओर देखकर ) ऐ भरतवंश के रुष्ट और क्रूर विधाता ? भीमसेन के हाथ में गदा है। इनको कोई क्षति भी नहीं हुई। इन्हें किसी प्रकार के

१६० वेणीसंहारं नाटकं एषापि भीमसेनस्य प्रतिज्ञा पूर्यते त्वया ॥ ४ ॥ दुर्योधनः — (शनैरुलब्धसंज्ञः ।) आः, शक्तिरस्ति दुरात्मनो वृकोदर- हतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुम् । वत्स दुःशासन, न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि ननु । सूत, प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः । सूतः —आयुष्मन्, अक्षमाः सम्प्रति वाहास्ते रथमुद्वोढुम् (अपवार्य ।) मनोरथं च । दुर्योधनः—( रथादवतीर्य सगर्वं साकूतंच ।) कृतं स्यन्दनगमनकाला- तिपातेन । सूतः —( सवैलक्ष्यं सकरुणं च ।) मर्षयतु-मर्षयतु देव । त्याकारकविपवम्, अनारूढस्य = अप्राप्तस्य, यदि अचेतनता न विनष्टा स्यात्तदा- स्वयमेव भीम स्यादिति भावः । एषा = दुर्योधनोरुभङ्गजन्यवधरूपा, प्रतिज्ञा = प्रतिश्रुतिः, त्वया = हतविधिना, पूर्यते = सम्पूर्णीक्रियते । अनुष्टुब्छन्दः ॥ उपलब्धसंज्ञ. = प्राप्तचैतन्यः । अनपगतदुःशासनवधो दुर्योधनेदुः शासनत्राणं चिकीर्षुराह् = काः शक्तिरिति । अक्षमा = असमर्था, वाहाः = अश्वाः, मनोरथं = दुःशासनत्राणरूपम् । स्यन्दनगमनकालातिपातेन = रथगमनकालयापनेन । संशयरूप दोले पर भी नहीं झूलना पड़ा तो भी इस भीमसेन की प्रतिज्ञा की पूर्ति करने जा रहे हो ॥ ४ ॥ दुर्योधन — (धीरे धीरे चैतन्य होकर) ओह ! वायुपुत्र दुष्ट अभागे भीमसेन की क्या शक्ति है जो मुझ दुर्योधन के जीवित रहते हुए अपनी प्रतिज्ञा को पूर्ति करे । वत्स दुश्शासन ! भ्रत न हो [डरो न] यह लो, अब में आ ही गया !! सूत, मेरे रथ को उसी स्थान पर ले चलो जहाँ मेरा प्यारा दुश्शासन है । सूत — महाराज ! इस समय आपके घोड़े इस रथ को खींचने में असमर्थ हैं (छिपा- कर) और मनोरथ को अर्थात् आपकी इच्छापूर्ण करने में भी असमर्थ हैं ) दुर्योधन — (रथ से उतर कर अभिमान के साथ व्यङ्ग्यपूर्वक) समय बिताकर रथ पर चलने की कोई आवश्यकता नहीं । सूत — (लज्जित होकर कातर स्वर में) क्षमा कीजिए । क्षमा कीजिए । महाराज ?

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६१ दुर्योधनः- धिक्सूत, किं रथेन । केवलमरातिविमर्दसंघट्टसञ्चारी दुर्योधनः खल्वहम् तद्गदामात्रसहायः समरभुवमवतरामि । सूतः - देव, एवमेतत् । दुर्योधनः- यद्येवं किमेवं भाषसे । पश्य- बालस्य मे प्रकृतिदुर्ललितस्य पापः पापं व्यवस्यति समक्षमुदायुधोऽसौ । अस्मिन्निवारयसि किं व्यवसायिनं मां धिक् सूत = हे सूत त्वां धिक् । अन्वय - प्रकृतिदुर्ललितस्य बालस्य, पापम्, मे समक्षम्, पापः, उदायुधः, असौ, व्यवस्यति, अस्मिन्, व्यवसायिनम्, माम्, किम् निवारयसि, ते क्रोधः, न, नापि, करुणा, न च, लज्जा, अस्ति ॥ ५ ॥ बालस्येति । प्रकृतिदुर्ललितस्य = स्वभावतः चपलस्य, बालस्य = अल्पवय- स्कस्य, पापं = मरणम्, मे = मम, समक्षम्, पापः = पापी, उदायुधः = उद्यतशस्त्रः, असौ = भीमः, व्यवस्यति, अस्मिन् = भीमविषये, व्यवसायिनम् = उद्योगिनम् भीमहननार्थमिति भावः । मां = दुर्योधनम्, निवारयसि = अवहणत्सि, किम्, ते दुर्योधन-सूत ! तुझे धिक्कार है ! रथ ने क्या ? शत्रुओं की ठसाठस भीड़ के भीतर मैं [ दुर्योधन ] अकेला भ्रमण करने वाला हूँ । केवल गदा हाथ में लेकर मैं रणक्षेत्र में उतरने जा रहा हूँ । सूत-महाराज, आप ऐसे ही हैं [ इसमें सन्देह ही क्या ? ] दुर्योधन-यदि यही बात है तो फिर इस प्रकार की बात-चीत क्यों कर रहे हो ? अर्थात् जब तुम्हें मेरे पराक्रम के विषय में ज्ञान है तो फिर क्यों कह रहे हो कि घोड़े रथ नहीं खींच सकते । देखो- यह नीच [ भीमसेन ] हाथ में शस्त्र लेकर शैशवकाल से मेरे, आँखों के सामने लालित इस बालक (दुःशासन) के वध की चेष्टा कर रहा है। इस पापी का प्रतिकार करते हुए मुझे क्यों निषेध कर रहे हो। क्या तुम्हें (शत्रु पर) क्रोध नहीं आता ? क्या [बालक पर] दया का सञ्चार भी नहीं होता ? अथवा क्या तुम्हें [अपने कार्य पर] लज्जा भी नहीं लगती ? तात्पर्य यह कि दुश्शासन मेरा छोटा भाई है, अभी बच्चा है, लड़कपन से दुलारा गया है अतः लड़कपन के कारण द्रौपदी के केश और वस्त्रों को इसने खींचा है । फिर भी उसका बदला चुकाने के लिए यह भीमसेन शस्त्र लेकर उद्यत है । मैं उसका प्रतिकार करने के लिए तय्यार हूँ । तुम रोक रहे हो इसमें ऐसे दुरात्मा शत्रु पर तुम्हारे क्रोध की ज्वाला नहीं भड़कती है और न तुम्हें लड़के पर दया आती है और ११ वे०

१६२ वेणीसंहारं नाटकं क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥ ५ ॥ सूतः - (सकरुणं पादयोर्निपत्य ।) एतद्विज्ञापयामि । आयुष्मन्, सम्पूर्ण- प्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि । दुर्योधनः- ( सहसा भूमौ पतन् ।) हा वत्स दुश्शासन, हा मदाज्ञा विरोधितपाण्डव, हा विक्रमैकरस, हा मत्सङ्‌गदुर्ललित, हा अरातिकुलराज- घटामृगेन्द्र, हा युवराज, क्वासि । प्रयच्छ मे प्रतिवचनम् । (इति निःश्वस्य मोहमुपगतः ।) सूतः- राजन्, समाश्वसिहि समाश्वसिहि । 'क्रोधो न, राजबन्धुवधकाले त्वयाऽवश्यं क्रोधः कार्यः । नापि, करुणा = दया, पर- विनाशकालेऽवश्यं दया कार्या । न च लज्जा अस्ति । मम समक्षं यच्छत्रुणा प्रतिज्ञा पूर्यते तदतीव लज्जाकरमिति भावः । वसन्ततिलका छन्दः ॥ ५ ॥ विज्ञापनमेवाह - आयुष्मन्निति । सम्पूर्णप्रतिज्ञेन = पीतदुःशासनशोणितेन अत- एव निवृत्तेन, दुरात्मना वृकोदरहतकेन = दुष्टभीमेन, भवितव्यम्, इदानीमित्यन्वयः । एवं = मपर्यतु आयुष्मन्निति, युद्धे न गन्तव्यमित्यर्थः । मदाज्ञाविरोधितपाण्डव = ममाज्ञया विरोधितः पाण्डवः येन तत्सम्बोधने ममाज्ञयैव द्रौपदीकेशाम्बराकर्षणं कृतं ततश्च तस्य पाण्डवेन विरोधो जात इति भावः । विक्रमैकरसः = विक्रमः एकरसः अद्वितीयगुणः यस्य तत्संबोधने 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । अरातिः = शत्रुः, घटा = समूहः, मृगेन्द्रः = सिंहः, मोहं = मूर्च्छाम्, उपगतः=प्राप्तः । ऐसे व्यसन के समय में मेरे घोड़े रथ खींचने में असमर्थ हैं। यह बात कहने में तुम्हें लज्जा भी नहीं आती ॥ ५ ॥ सूत-(करुणा के साथ चरणों पर गिरकर) विनम्र निवेदन है- 'महाराज ! इस समय तक दुरात्मा नीच भीमसेन अपनी प्रतिज्ञा को पूर्ण कर चुका होगा' इसीलिए मैं इस प्रकार कह रहा हूँ । दुर्योधन-(एकाएक पृथ्वी पर गिरता हुआ) हा प्रिय दुश्शासन ! हाय मेरी आज्ञा से पाण्डव-विरोधी !! हाय पराक्रमपरायण !!! हाय मेरी गोदी के खेलने वाले ! हाय शत्रुकुल रूपी हाथियों के झुण्ड के लिए सिंह ! हाय युवराज ! तुम कहाँ हो ? मुझे उत्तर दो । (ठंडी श्वास लेकर मूर्च्छित हो जाता है) सूत-महाराज ! धैर्य धारण कीजिए, धैर्य धारण कीजिए ।

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६३ दुर्योधनः—( संज्ञां लब्ध्वा । निःश्वस्य ) युक्तो यथेष्टमुपभोगसुखेषु नैव त्वं लालितोऽपि हि मया न वृथाग्रजेन । अस्यास्तु वत्स तव हेतुरहं विपत्ते- र्यत्कारितोऽस्यविनयं न च रक्षितोऽसि ॥ ६ ॥ ( इति पतति । ) सूतः-आयुष्मन्, समाश्वसिहि समाश्वसिहि । दुर्योधनः-धिक् सूत, किमनुष्ठितं भवता । अन्वयः – ( हे ) वत्स, त्वम्, उपभोगसुखेषु, यथेष्टम्, नैव, युक्तः, वृथाग्रजेन, मया, त्वम् हि, न, लालितः, तव, अस्याः, विपत्तेः, हेतुः, अहम्, तु, अविनयम् यत् कारितः, असि, नच, रक्षितः, असि ॥ ६ ॥ दुर्योधनो विलपति – युक्तो यथेष्टमिति । उपभोगसुखेषु = उत्तमभोजनादिजन्य- सुखेषु, यथेष्टम् = इच्छानुरूपम्, नैव, युक्तः-सम्मिलितः, सर्वदा मदर्थमेव व्यापृतत्वात् । वृथाग्रजेन = व्यर्थज्येष्ठेन मया लालितः = विलासिनः, अस्याः = हृदयविदारण- रूपायाः, विपत्तेः = आपत्तेः, तु-तु शब्दः पूर्वव्यवच्छेदकः । अविनयं केशाम्बरा- कर्षणम्, कारित इत्यत्र प्रयोज्ये कर्मणि क्तप्रत्ययः । असि त्वमित्यस्यात्राप्यन्वयः । नच, रक्षितोऽसि भीमादिति शेषः । अविनये यदि नियोजितस्तदा तत्प्रयुक्तापत्तौ रक्षणीयोऽसि मयेति भावः । अत्र चतुर्थचरणे विशेषोक्तिरलङ्कारः । वसन्ततिलका छन्दः ॥ ६ ॥ दुर्योधन-( चैतन्य होकर आह भर कर ) हे वत्स ! मैंने तुम्हें इच्छा के अनुकूल भोजन-वस्त्रादिरूप उपभोगसामग्री के उपभोग में नहीं लगाया । तुम्हारा मैंने कभी प्यार भी नहीं किया । मैं व्यर्थ ही ज्येष्ठ भ्राता हुआ । तुम्हारी इस विपत्ति का कारण मैं ही हूँ क्योंकि मैने चापल्य की शिक्षा ,तो दी परन्तु तुम्हारी रक्षा न कर सका अर्थात् मेरी ही आज्ञा से द्रौपदी के वस्त्र और केश का आकर्षण तूने किया जिसके कारण यह विपत्ति तुम्हारे सिर पर घहराई है परन्तु इस विपत्ति से तुम्हारी रक्षा करने में मै समर्थ न हो सका ॥ ६ ॥ ( फिर गिर पड़ता है ।) सूत-महाराज ! धैर्य धारण कीजिए । धैर्य धारण कीजिए । दुर्योधन - सूत ! धिक्कार है । यह आपने क्या कर डाला ?

१६४ वेणीसंहारं नाटकं रक्षणीयेन सतत बालेनाज्ञानुवर्तिना । दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥ ७ ॥ सूतः—महाराज, मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहत- चेतनत्वान्निश्चेतनः कृतो महाराज इत्यपहृतो मया रथः । दुर्योधनः—सूत, विरूपं कृतवानसि । तस्यैव पाण्डवपशोरनुजद्विषो मे क्षोभैर्गदाशनिकृतैर्न विबोधितोऽस्मि । अन्वयः — सततम् आज्ञानुवर्तिना, बालेन, रक्षणीयेन, भ्रात्रा, दुःशासनेन, उपहारेण, अहम्, रक्षितः ( त्वया ) ॥ ७ ॥ रक्षणीयेनेति । सततं = निरन्तरम्, आज्ञानुवर्तिना = आदेशानुसारिणा, बालेन = अल्पवयस्केन, अत एव, रक्षणीयेन = रक्षायोग्येन, भ्रात्रा = दुःशासनेन उपहारेण = बलिना, अहं = दुर्योधनः, रक्षितः, त्वयेति शेषः । मद्रक्षणार्थं दुःशासनो बलिरूपेण प्रदत्तः किं त्वया । यथा देवेभ्यः स्वरक्षार्थं बलिर्दीयते तथेति भावः । अत्र पदार्थगत- काव्यलिङ्गमलङ्कारः । अनुष्टुप् छन्दः ॥ ७ ॥ मर्मभेदिभिः = अन्तःकरणभेदकैः, इषुतोमरशक्तिप्रासवर्षैः = बाणशर्वलाशक्ति- नामकास्त्रविशेषकुन्तवर्षैः, महारथानां = दशसहस्रवीरयोधितॄणाम्, अपहतचेतनत्वात् = निश्चेतनत्वात्, महाराजः = भवान्, निश्चेतनः = मूर्च्छितः, कृतः, इति = ततः, रथः = स्यन्दनः, अपहृतः, मया । विरूपं = विपरीतम् । अन्वयः—पाण्डवपशोः मे, अनुजद्विषः तस्य एव, गदाशनिकृतैः, क्षोभैः, न विबोधितः, अस्मि ( अत एव ) ताम् एव, दौःशासनीम् रुधिरांशय्याम्, अहम्, न, अधिशयितः, आशु, वृकोदरः वा, न (अधिशयितः) ॥ ८ ॥ कथं विरूपं कृतमित्याह—तस्यैवेति । पाण्डवपशोः = पाण्डवः पशुरिव तस्य, मे = मम्, अनुजद्विप = कनिष्ठभ्रातृ- सर्वदा आज्ञा पालन करने में तत्पर कनिष्ठ भ्राता दुश्शासन की, जो निरा बालक था; रक्षा करनी चाहिए थी । उसे बलि देकर [ आपने ] मेरी रक्षा की है अर्थात् बच्चे की रक्षा चाहे जैसे होती करते परन्तु रक्षा न करके प्रत्युत उसका वध कराके मुझे बचाया है आपने यह काम अच्छा नहीं किया ॥ ७ ॥ सूत — राजाधिराज ! महारथियों के मर्मच्छेदी बाण, भाले, बर्छे और गदाओं के प्रहार से महाराज मूर्च्छित कर दिये गए अतः मैंने [ वहाँ से ] रथ हटा लिया । दुर्योधन — सूत ! प्रतिकूल [ अनुचित ] कार्य कर डाले हो । मेरे कनिष्ठ भ्राता के विघाती असभ्य पाण्डुपुत्र ( भीम ) के वज्रसदृश गदा के प्रहारों से

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६५ तामेव नाधिशयितो रुधिरार्द्रशय्यां दौःशासनीं यदहमाशु वृकोदरो वा ॥ ८ ॥ (निःश्वस्य नभो विलोक्य ।) ननु भो हतविधे, कृपाविरहित, भरत- कुलविमुख, अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः । सूतः — शान्तं पापं शान्तं पापम् । महाराज, किमिदम् । शत्रोः, तस्य = भीमस्य, एव, गदाशनिकृतैः गदा अशनिः वज्र इव तत्कृतैः, क्षोभैः= प्रहारैः, विबोधितः = प्राप्तचैतन्यः, अस्मि भवामीत्यर्थः । यदि तस्य गदाभिघातैः विगतमूर्च्छः स्याम् तदेति भावः । अत एव ताम् एव, दौःशासनी = दुःशासन- सम्बन्धिनीम्, रुधिरार्द्रशय्यां = शोणितक्लिन्नशयनीयम्, अहम्, न अधिशयितः, न सुतः, आशु = शीघ्रम्, वृकोदरः = भीमः, वा नाधिशयितः । यदि तस्य गदयोत्थितः तदा द्वन्द्वयुद्धे सति वृकोदरस्य घातमहं कुर्याम् अथवा मां भीमो हन्यादिति भावः । वसन्ततिलका छन्दः ॥ ८ ॥ अन्वयः—मृत्युः, अपि, भवेत्, वृकोदरः, न च, हन्ता, (भवेत्) घाति- ताशेषबन्धोः, ये राज्येन, किम्, वा जयेन, किम् ॥ ९ ॥ स्वयमेव मृत्युर्भवतु भीमो न हन्यादित्याह—अपि नामेति । अपि, नामेति सम्भावनायाम् । वृकोदरः च न हन्ता = हिंसकः । मृत्युर्भवतु न च वृकोदरो हन्ता भवतु इति भावः । अनिष्टश्रवणात् सूतः वचनसमाप्तिमन्य एवाह—शान्तं पापमिति । इत्थं न वाच्यमित्यर्थः । मेरी मूर्च्छा दूर न की गई क्योंकि दुःशासन के रक्त से पङ्किल [ कीचह से युक्त ] शय्या पर न तो मैंने शयन किया और न भीम को शीघ्र ही शयन कराया अर्थात् मुझे वहीं पर चेतनाविहीन होकर पड़े रहने देते, मुझपर भीम के गदाप्रहार पड़ने देते जिससे मुझ में चेतना का सञ्चार होता और मैं फिर युद्ध करके या तो जहाँ दुःशासन का शव है वहाँ मैं भी सर्वदा के लिए सो जाता अथवा भीम को ही शयन करा देता । मुझे रणक्षेत्र से दूर हटाकर महान् अनुचित तू ने किया ॥ ८ ॥ ( लम्बी श्वास लेकर और ऊपर देखकर ) अरे निर्दयी भरतवंश से रुष्ट विधाता ! यदि मेरी मृत्यु भी हो तो भीम घातक न हो [ यही प्रार्थना है ] सूत — अमङ्गल का नाश हो । महाराज ! यह क्या !

Here is the complete text transcription from the image:

१६६ वेणीसंहार नाटकं

दुर्योधनः-
घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ॥ ९ ॥
(ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालङ्कृतकायः सुन्दरकः ।)
सुन्दरकः-अज्जा, अवि णाम इमस्सि उद्देसे सारहिदुइओ दिट्ठो
तुम्मेहिं महाराजदुज्जोहणो ण वोत्त (निरूप्य।) कहं ण कोवि मन्तेदि।
होदु। एदाण बद्धपरिअराण पुरीसाण समूहो दीसइ। एत्थ गदुअ पुच्छि-
स्सम्। (परिक्रम्य विलोक्य च।) कहं एदेवखु सामिणो गाढप्पहारहदस्स
घणसण्णाहजालदुब्भेज्जमुद्देहि कङ्कवत्तेहि हिअआदो सल्लाइं उद्धरन्ति।
ता ण क्खु एदे जाणन्ति। होदु। अण्णदो विचिणिइस्सम्। (अग्रतोऽव-
लोक्य, किञ्चित्परिक्रम्य।) इमे वखु अवरं प्पहददरा सङ्कदा वीरमणुस्सा
दीसन्ति। ता एत्थ गदुअ पुच्छिस्सम् (उपगम्य।) हंहा, जाणह तुम्हे
कस्सि उद्देसे कुरुणाहो वट्टइत्ति। कहं एदे वि म पेक्खिअ अहिअदरं
रोअन्दि। (दृष्ट्वा।) ता ण क्खु एदे वि जाणान्ति। हा अदिकरुण वखु
एत्थ वट्टइ। एसा बीलमादा समलविणिहद पुत्तं सुणिअ रत्तसुमणि-
वसणाए समगभूषणाए वहूए सह अणुमरदि। (सश्लाघम्।) साहु वीर-
मादे, साहु, अण्णस्सि वि जम्मन्तरे अणहदमुत्तआ हुविस्ससि। होदु।
अण्णदो पुच्छिस्सम्। (अन्यतो विलोक्य।) अअं अवरो बहुप्पहारजिह्-
दकाओ अंकिदव्रणवन्धो यव्व जाहसमूहो इमं सुण्णासणं तुलङ्गम उवा-
लहिअ रोइडि। णूण एदाणं एत्थ एत्थ सामी वावादितो ता ण क्खु
एदे वि जानन्दि। होदु। अण्णदो गदुअ पुच्छिस्सम। (सर्वतो विलोक्य।)
कहं सव्वो एव्व अवत्यागुरुवं व्यसणं अणुभवन्तो भाअधेअविसमसील-
दाए पज्जाउलो जणो। ता कं दाणीं एत्थ पुच्छिस्सम्। कं वा उवालहि-
घातिताशेषबन्धोः = हिंसितनिखिलवान्धवस्य, मे राज्येन किम्, वा = अथवा,
जयेन किम्, राज्यजययोः न किमपि प्रयोजनमित्याशयः। अनुष्टुब्छन्दः ॥ ९ ॥
शरप्रहारव्रणबद्धपट्टिकालङ्कृतकायः = शरप्रहारेण यद्व्रणम् तत्र बद्धा या
दुर्योधन-जब मेरे सभी परिवार की समाप्ति हो गई तो फिर राज्य और विजयलाभ में
क्या प्रयोजन ?॥ ९॥
(इसके अनन्तर बाणों के द्वारा छत अङ्गों पर पट्टी बाँधे हुए सुन्दरक का प्रवेश)।
सुन्दरक-हे भद्रपुरुषो ! क्या आप लोगों ने इस स्थान पर सारथि के साथ महाराज

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६७ स्सम्। होदु। अअं एव्व एत्थ विचिणिइस्सम्। (परिक्रम्य) होदु। देव्वं दाणीं उवालहिस्सम्। हंहो देव्व, एआदसाणं अक्खोहिणीणं णाधो जेट्ठो भादुसदस्स भत्ता गङ्गामहणअङ्कराअसल्लकिर्वकिववम्मअस्सत्थामप्पमु- हस्स राअचक्कस्स सअलप्पुहवीमण्डलेक्कगाहो महाराअ दुज्जोहणो वि अण्णेसीअदि। अण्णेसीअन्तो वि ण जाणीअदि कस्सि उद्देसे वट्ट- इत्ति। (विचिन्त्य निःश्वस्य च।) अहवा किं एत्थ देव उवालम्हामि। जदो तस्स क्खु एदं णिब्भच्छिअविउरव्वणीअस्स अवधोरिदपिदामहहिदोवदे- सङ्कुरस्स सउणिप्पोच्छाहाणादिविरूढमूलस्स जगुगेहङ्कद्विविसाहिणो संभूदचिरआलसंवद्धवेरालवालस्स पञ्चालीकेसग्गहणकुसुमस्स फलं परि- णमदि। (अन्यतो विलोक्य) जहा एत्थ एसा विविहरदिणप्पहासंबलिसूर- किरणप्पसूदसकचावसहस्सपूरिददसदिसासुहो लूणकेदुवसो रहो दीसइ, ता अहं तक्केमि अवस्सं एदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वम्। याव निरूपेमि। (उपगम्य दृष्ट्वा निःश्वस्य च।) कथं एआद हाण अक्खोहिणीणं णाअको भविअ महार.ओ दुज्जोहणो पइदपुरिसा विज असलाडणीए भूमीए उवविठ्ठो चिट्ठदि। अध वा तस्स क्खु एवं पञ्चालीकेसग्गहकुसुमस्स फलं परिणमदि। (आर्याः, अपि नामस्मि- न्नुद्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति। कथं न कोऽपि मन्यते। भवतु। एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते अत्र गत्वा प्रक्ष्यामि। कयमेते खलु स्वामिनो गाढप्रहाराहतस्य घनसंन्नाहजालदुर्भेदमुखैः कङ्क- पट्टिका व्रणाच्छादनवस्त्रविशेषः तया अलङ्कृतः कायः शरीरं यस्य सः। उद्देशे = स्थाने, सारथिद्वितीयः = सूतसहितः, महाराजदुर्योधनः, युष्माभिः दृष्टो न वेति पृच्छति मन्दरकस्तत्रत्यजनम्। कोऽपि, कथं, न, मन्यते = कथयति। ततोऽन्यत्र गत्वा पृच्छति। एतेऽपि न जानन्तीत्याह-कयमेते खलु स्वामिन इति। गाढप्रहारहतस्य - गाढं भृशं यथा स्यात्तथा यः प्रहारः तेन हतस्य मूर्च्छितस्य, घन- सन्नाहजालदुर्भेदमुखैः = निविडकवचसमूह इव दुर्भेद्यं मुखम् अग्रं येषां तैः, दुर्योधन को देखा है अथवा नहीं ? (देखकर) क्यों क्या कारण है कोई उत्तर नहीं देता ? अच्छा ! यह कवचधारण किए हुए सैनिकों का समूह दृष्टिगोचर हो रहा है। यहाँ चलकर पूछता हूँ (इधर-उधर घूमकर और देखकर) अरे, ये तो अपने-अपने स्वामी के, जो प्रखर प्रहार से व्यथित हैं, हृदय से बाण को गाँसियों को कङ्कपत्र के द्वारा निकालने में तल्लीन हैं।

१६८ वेणीसंहारं नाटकं पत्रैर्हृदयाच्छल्यान्युद्धरन्ति । तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः सङ्गता वीरमनुष्या दृश्यन्ते । तदत्र गत्वा प्रक्ष्यामि । हंहो, जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति । कथमेतेऽपि मां प्रेक्ष्या- धिकतरं रुदन्ति । तन्न खल्वेतेऽपि जानन्ति । हा, अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभूषणया वध्वा सहानुम्रियते । साधु वीरमातः, साधु । अन्यस्मिन्नपि जन्मान्तरेऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतः प्रक्ष्यामि । अयमपरो बहुप्रहारनिहतकायोऽकृतव्रण- कङ्कपत्रैः=शल्योद्धारकवस्तुविशेषैः, शल्यानि = शङ्कन्, उद्धरन्ति = निःसारयन्ति । विचेष्यामि = निश्चिनोमि । सङ्गताः = सम्मिलिताः, प्रभूततराः = अत्यधिकाः, अपरे= अन्ये, इमे, वीरमनुष्याः, दृश्यन्ते खलु इत्यन्वयः । कस्मिन् उद्देशे = स्थाने, कुरुनाथः = दुर्योधनः वर्तत इति जानीयेत्यन्वयः । प्रेक्ष्य = दृष्ट्वा, रुदन्तीति- यद्यत्र महाराजोऽभविष्यत्तदा मामकथयिष्यदत्र ते महाराजः, नचाकथयन् किन्तु अधिक- तरमेव रुदन्तीत्यनुमीयते नात्र महाराज इति भावः । वीरमाता = वीरस्य जननी, समरविनिहतं = सङ्ग्रामे व्यापादितम्, पुत्रकमिति अनुकम्पार्थे कप्रत्ययः । रक्तां- शुकनिवसनया = रक्तांशुकं रक्तवस्त्रं निवसनं परिधानं यस्याः तया, समग्रभूषणया = समग्रं सर्वाङ्गन्यासं भूषणम् अलङ्कारः यस्याः तया, वध्वा = पुत्रस्त्रिया, सह, अनु- म्रियते = पश्चात्प्राणत्यागं करोति, वीरमाता, अत्रैवान्वेति । अनिहतपुत्रका - जीव- दृढ कवचों के जाल के भीतर इस शल्योद्धारक (कङ्कपत्र) यन्त्र के मुख महान् प्रयत्न से प्रविष्ट किए जा रहे हैं। ये लोग क्या जानें ! [ अर्थात् ये लोग अपने कार्य में संलग्न हैं ये क्या जानें कि महाराज कहाँ है ] अच्छा [ चलूँ ] अन्य किसी स्थान में अन्वेषण करूँ । (सामने देखकर, थोड़ा इधर-उधर घूमकर) ये और भी बहुत से शूरवीर एकत्रित दिखलाई पड़ रहे हैं अतः वहाँ चलकर पूछूँगा। क्यों, क्या आप लोग जानते हैं ! कौरवों के अधिराज [ दुर्योधन ] किस स्थान पर हैं ? क्यों ? ये मुझे देखकर परिमाण में अधिक अश्रुपात कर रहे हैं, अतः ये भी नहीं जानते हैं (देखकर) हाय ! यहाँ तो महान् दुष्कर कार्य हो रहा है । यह वीरमाता युद्ध में अपने पुत्र की मृत्यु सुनकर अरुण वस्त्र धारण किये हुई तथा सम्पूर्ण अलङ्कारों से अलंकृत पुत्रवधू के साथ प्राण परित्याग कर रही है (श्लाघापूर्वक) धन्य ! वीरजननी धन्य !! दूसरे जन्म में तुम्हें पुत्र की मृत्यु न देखना पड़ेगा । अच्छा, अब यहाँ से दूसरे स्थान पर चलकर अन्वेषण करूँगा । (दूसरे स्थान में देखकर) यह एक अन्य शूरवीरों का दल, जिसके शरीर अनेक शस्त्रों के

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६९ अद्य एव योधसमूह इमं शून्यासनं तुरङ्गममुपालभ्य रोदिति । नूनमेतेषामत्रैव स्वामी व्यापादितः तन्न खल्वेतेऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्द्भागधेयविपमशीलतया पर्याकुलो जनः । तत्किमिदानीमत्र प्रक्ष्यामि । क वोपालप्स्ये ! भवतु, स्वयमेवात्र विचेष्यामि । भवतु । देवमिदानीमुपालप्स्ये । हंहो देव, एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलेकनाथो महाराजदुर्योधनोऽप्यन्विष्यते । अन्विष्यमाणोऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति !! अथवा किमत्र दैवमुपालभे । यतस्तस्य खल्विदं निर्मत्सित त्युक्तम् । अकृतव्रणबन्धः = अकृतपट्टिकः । शून्यासनम् = शून्यम् आरोहरहितम् = आसनं पीठं यस्य तम्, तुरङ्गम = अश्वम् । अवस्यानुरूपं = दशायोग्यम्, व्यसनं = दुःखम् । भागधेयविपमशीलतया = विपरीतभाग्यतया, पर्याकुलः = समन्तादाकुलः । उपालप्स्ये = साक्षेपं कथयिष्यामि । अक्षौहिणीनां = संख्याविशेषविशिष्टसेनानाम् । नाथः, भ्रातृशतस्य ज्येष्ठः, निर्धारणेऽत्र षष्ठी । गाङ्गेयः = भीष्मः, अङ्गराजः = कर्णः । राजचक्रस्य = राजसमूहस्य भर्तेत्यन्वयः । अन्विष्यत इति य एतादृशः स स्वय- मेव विदितो भवेद् न चान्वेषणापेक्षा परन्तु अन्विष्यत इति महदाश्चर्यम् निखिल सेवकानां विनाशादन्विष्यमाणोऽपि न ज्ञायत इति गूढाभिप्रायः । निर्मत्सितविदुरवचनवोजस्य = निर्मत्सितं तिरस्कृतं विदुरवचनरूपं बीजं यस्य आघात से जर्जर हो रहे हैं, तथा व्रण बिना किसी उपचार ( अर्थात् औषध पट्टी के बिना ) यों ही पडे, हुए हैं, आसन-रहित अश्व को पकड़कर बिलख रहे हैं, निश्चय इन लोगों के स्वामी यहीं मारे गये हैं । अतः वे भी [ महाराज को ] नहीं जानते । अच्छा दूसरे स्थान पर चलकर पूछूं । [ चारों तरफ देखकर ] अरे यहाँ तो सभी लोग अपनी-अपनी दशा के अनुरूप विपत्ति का अनुभव करते हुए भाग्य के विपरीत होने के कारण [ विधाता के बाम होने के कारण ] व्याकुल हो रहे हैं । अतः यहाँ किससे पूछूँ ? और किसे दोषी ठहराऊ । अच्छा, स्वयं ही मैं [ महाराज को ] अन्वेषण करता हूँ । अच्छा अब मैं विधाता को ही दोषी मानता हूँ । अये विधातः ! एकादश ( ग्यारह ) अक्षौहिणी सेना के स्वामी, सौ भाइयों के बड़े भाई, भीष्म, जयद्रथ, द्रोण, कर्ण, शल्य, कृप, कृतवर्मा तथा अश्वत्थामा इत्यादि राजाधिराजों के स्वामी अखण्ड भूमण्डल के एकच्छत्र राजाधिराज दुर्योधन का भी अन्वेषण करना पड़ता है और अन्वेषण करने पर भी नहीं जाना जाता कि महाराज किस स्थान में हैं ? अथवा इसमें भाग्य को दोष क्यों दूँ । क्योंकि विदुर के वचनों की अव-