वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
( उपसृत्य सूतं संज्ञया पृच्छति । ) सूतः—( दृष्ट्वा ) अये, कथं सङ्ग्रामात्सुन्दरकः प्राप्तः । सुन्दरकः—( उपगम्य ) जअदु जअदु महाराओ । ( जयतु जयतु महाराजः । ) दुर्योधनः—( विलोक्य । ) अये सुन्दरक, कच्चित्कुशलमङ्गराजस्य । सुन्दरकः—देव, कुशलं सरीरमेत्तकेण ( देव, कुशलं शरीरमात्रकेण । ) दुर्योधनः—किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः ? सुन्दरकः—देव, ण भग्नो रहो । से मणोरहो । ( देव, न भग्नो रथः । अस्य मनोरथः । ) दुर्योधनः—किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयम् ? तदलं संभ्रमेण । अशेषतो विस्पष्टं कथ्यताम् । सुन्दरकः—जं देवो आणवेदि । देवस्स मउडमणिप्पहावेण अवणीदा सञ्ज्ञया = संकेतेन । धौरेयाः = धुरीणा अश्वाः । मनोरथ इति—कर्णस्य यो मनोरथः, अर्जुनं हनिष्यामीति स भग्न इत्यर्थः । न हन्तुं तं शक्नोमीति मनसि सञ्जात इति भावः । अविस्पष्टकथितैः = अव्यक्तवचनैः, मे = मम, आकुलम्, अपि, हृदयम् = मनः, पर्याकुलयसि = समन्तात् व्याकुलं करोषि, किमित्यन्वयः । ( समीप जाकर सूत को संकेत करता है ) सूत—( देखकर ) अरे ! क्यों समराङ्गण से सुन्दरक आया है ! सुन्दरक—( समीप जाकर ) विजय, विजय, महाराज की । दुर्योधन—सुन्दरक ! अङ्गनरेश [ कर्ण ] का कुशल तो है । सुन्दरक—महाराज ! [ वे ] जीवित हैं यही कुशल समझिए । दुर्योधन—( व्याकुल होकर ) सुन्दरक ! क्या अर्जुन ने इनके घोड़ों को तथा सारथि को भी मार डाला ? और रथ को भी तोड़ डाला क्या ? सुन्दरक—महाराज ! केवल रथ ही नहीं भग्न किया किन्तु साथ-साथ इनका मनोरथ भी [ पुत्र भी ] । दुर्योधन—( क्रोधपूर्वक ) अरे ! क्यों इस प्रकार के अव्यक्त वचनों से मेरे व्याकुल मन को अधिक सन्तप्त कर रहा है ? सम्पूर्ण बातें स्पष्ट रूप से कहो न । सुन्दरक—अच्छा जो महाराज की आज्ञा । अहा ! महाराज के मुकुट में जड़े हुए
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
१७२ वेणीसंहारं नाटकं मे रणप्पहारवेअणा (इति साटोपं परिक्रम्य ।) सुणादु देव । अत्थिदाणीं कुमालदुस्सासणवह- (इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति । यद्देव आज्ञाप- यति । देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्ती- दाणीं कुमारदुःशासनवध - ) सूतः -सुन्दरक, कथय । कथितमेव देवेन । दुर्योधनः -कथ्यताम् । श्रुतमस्माभिः । सुन्दरकः-(स्वगतम् ।) कथं दुस्सासणवहो सुदो देवेण । (प्रका- शम् ।) सुणादुदेवो । अज्ज दाव कुमालदुस्सासणवहामरिंसिदेण सामिणा अङ्गराएण किदचुडिलभिउडीभङ्कभोषणललाढवट्टेण अविण्णादसंधाणती- क्खमोक्खणिक्खित्तसरधारावरिसिणा अभिजुत्तो सो दुराआरा दुस्सास- णवेरिओ मज्झमपण्डवो । (कथं दुःशासनवधः श्रुतो देवेन । शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनाङ्गराजेन कृतकुटिलभ्रुकुटीभङ्गभीषणललाट- अपनीता = दूरीकृता, रणप्रहारवेदना = रणे यो प्रहारः तेन या वेदना दुःखम् । कुमारदुःशासनवधेति-अप्रियं भ्रातृवधं कथयितुमशक्नुवन् वाक्यसमाप्तिमकृत्वा एव विरराम सुन्दरकः । विज्ञातवृत्तान्तः सूतोऽवोचत् - सुन्दरकेति । कुमारदुःशासनवधामर्षितेन = कुमारदुःशासनस्य वधेन आमर्षितः क्रुद्धो यः तेन, अङ्गराजेन=कर्णेन, कृतकुटिलभ्रुकुटीभङ्गभीषणललाटपट्टेन = कुटिलः वक्री यो भ्रुकुटीभङ्गः क्रोधेन ललाटसङ्कोचकरणं तेन भीषणः ललाटपट्टः मस्तकस्थितोष्णीषः कृतः येन, अविज्ञातसन्धानतीक्ष्णमोक्षनिशितशरधारावर्षिणा = अविज्ञातो सन्धान- तीक्ष्णमोक्षौ येन स चासौ निशितशरधारावर्षी तेन, अभियुक्तः = अधिगृहीतः, रत्नों की महिमा से युद्ध के प्रहार की पीड़ा शान्त हो गई [गर्व के साथ आगे बढ़कर] सुनिए महाराज ! आज तो कुमार दुःशासन का वध........ (आधी बात कह कर मुख ढँक लेता है) सूत-सुन्दरक ! कहो । दुर्योधन ने तो कह दिया है । दुर्योधन-कहो । मैं सुन चुका हूँ । सुन्दरक-(मन ही मन) महाराज ने दुःशासन का वध नीचे सुन लिया ? (प्रकट रूप से) सुनिये राजाधिराज ! आज कुमार दुःशासन के वध से क्रुद्ध स्वामी अङ्गाधिपराज [कर्ण] ने अपनी कुटिल भौंहें चढ़ाकर ललाट प्रदेश को भयानक बना लिया ! उनके बाणों के
चतुर्थोऽङ्कः ] \qquad\qquad प्रबोधिनी-प्रकाश-द्वयोपेतम् \qquad\qquad १७३ पट्टेनविन्नांतसंधानतीक्ष्णमोक्षनिक्षिप्तशरधारावर्षिणाभियुक्तः स दुराचारो दुःशासन- वैरी मध्यमपाण्डवः ।) उभी-ततस्ततः । सुन्दरकः-तदो देव, उहअबलंमिलन्तदीप्पन्तक रितुरअपदादिसमुद्भूद- धूलिणिअरेण पल्लत्थगजघडासंघादेण अ वित्थन्तेण अन्धआरेण अन्धीकिदं उहअवलम् । ण हु गगणतलं अवलीअदि । (ततो देव, उभय वलमिलद्दीप्यमान- करितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्तगजघटासंघातेन च विस्तीर्यमाणेनान्धका- रेणान्धीकृतमुभयवलम् । न खलु गगनतलं लक्ष्यते ।) उभी - ततस्ततः । सुन्दरकः-तदो देव, दूराकट्टिअधणुगुणाच्छोडनटङ्कारेण गम्भीरभी- सणेण जाणाअदि गज्जिदं पलअजलहरेण त्ति । (ततो देव, दूराकृष्टधनुर्गुणा- युद्धार्थं लक्ष्मोकृतः, दुराचारः = दुष्टः, मध्यमपाण्डवः = भीमः, कर्णो भीमेन सह युद्धार्थं सन्नद्ध इत्यर्थः । उभयवलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण = उभयसैन्ययोः मिलन्तो ये दीप्यमानहस्तिघोटकचरणगन्तारः तैः समुद्भूतः सञ्जातो यो धूलिनिकरः रजःसमूहः तेन, पर्यस्तगजघटासङ्घातेन = पर्यस्ता व्याप्ता या गजघटा हस्ति समूहः तस्याः सङ्घातेन, च विस्तीर्यमाणेने = विततेन, अन्धकारेण = तमसा, उभयवलं= कौरवपाण्डवसैन्यमन्धीकृतम्, गगनतलम् = आकाशमण्डलम् । दूराकृष्टधनुर्गुणाच्छोटनटङ्कारेण = दूरं यथा स्यात्तथा आकृष्टो यो धनुर्गुणः चाप- आदान और मोक्ष का पता नहीं चलता था । उन्होंने अगणित बाणों की झड़ी लगाते हुए उस दुष्ट मझले पाण्डव भीमसेन पर आक्रमण कर दिया । दोनों-तो फिर क्या हुआ ? सुन्दरक-तो फिर महाराज ! दोनों पक्षों की सेनाओं के हाथी, घोड़े और पैदल सैनिकों के भिड़ जाने के कारण उठी हुई धूलराशि में और इधर-उधर फैले हुए हाथियों के झुण्ड से सर्वत्र विस्तृत अन्धकार से दोनों पक्ष की सेना अन्धी सी हो गई, पृथ्वी और आकाश का पता नहीं चलता था । दोनों-तो फिर ? सुन्दरक-जब धनुष की प्रत्यञ्चा [ डोरी ] पूरी तरह खींचकर छोड़ दी जाती थी तब उसकी गम्भीर ध्वनि के कारण त्रासजनक अन्धकार से विदित होता था कि प्रलयकालीन
१७४ वेणीसंहारं नाटकं -च्छोटनटङ्कारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति ।) दुर्योधनः—ततस्ततः । सुन्दरकः—तदो देव, दाहिणं वि ताणं अण्णोण्णसिंहणादगज्जिदपिसुणं विविहपरिमुक्कप्पहरणाहदकवअसंगलिदजलनविज्जच्छडाभासुरं गम्भीर- त्थणिअचापजलहर प्पसरन्तसरधारासहस्सवरिस जाद समरदुद्दिणं । (ततो देव, द्वयोरपि तयोरन्योन्यसिंहनादगर्जितपिशुनं विविधपरिमुक्तप्रहरणाहतकव- चसङ्गलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनम् ) दुर्योधनः—ततस्ततः । सुन्दरकः—तदो देव, एदस्स अन्तरे जेट्ठस्स भादुणो परिभवसङ्किणा।
ज्या तस्याच्छोटनेन आस्फालनेन यः टङ्कारः धनुशब्दः तेन, गम्भीरभीषणेन = धीर- भयावहेन, प्रलयजलधरेण = प्रलयकालिकमेघेन, गर्जितं = स्तनितमिति ज्ञायते । तयोः—भीमकर्णयोः अन्योन्यसिंहनादगर्जितपिशुनं = परस्परं सिंहनाद इव गर्जितं तस्य पिशुनं सूचकम्, विविधपरिमुक्तप्रहरणाहतकवचसङ्गलितज्व- लनविद्युच्छटाभासुरं = विविधैः अनेकविधैः परिमुक्तप्रहरणैः त्यक्तशस्त्रैः आहतं यत् कवचं तस्मात् सङ्गलितः निःसृतो यो ज्वलनः अग्निः विद्युच्छटा इव तथा भासुरं प्रकाशमानम्, गम्भीरस्तनितचापजलधरं = गम्भीरं स्तनितं शब्दः स चासौ चापः स एव जलधरः मेघो यत्र, इदं सर्वसमरदुर्दिनस्य विशेषणम् । प्रसरच्छरधारामहत्व-
मेघ गर्जन कर रहे हैं अर्थात् अन्धकार प्रलय-काल के मेघों का भाँति और धनुष की टङ्कार उनकी गड़गड़ाहट के साथ गर्जन की भाँति प्रतीत होती थी । दुर्योधन—फिर क्या हुआ ? सुन्दरक—इसके अनन्तर महाराज ! उन दोनों [ कर्ण और भीमसेन ] का परस्पर हुङ्कारनाद मेघगर्जन का सूचक था । अनेक प्रकार के प्रक्षिप्त शस्त्रों से सन्ताड़ित कवच से निकले हुए स्फुलिङ्ग (चिनगारियाँ) बिजली के सदृश थे ! प्रचुर परिमाण में रक्त की विन्दुएँ जुगूनू के सदृश चमक रही थीं । निर्घोषकारी धनुरूपी मेघ से छूटते हुए वे असंख्य बाण जल की धारायें थीं जो अत्यन्त भयोत्पादक दिखलाई पड़ती थीं । वर्षा के दिन की तरह दोनों में युद्ध प्रारम्भ हो गया ! दुर्योधन—तो फिर क्या हुआ ? सुन्दरक—तो फिर महाराज इसी अवसर पर ज्येष्ठ भ्राता [ भीम के ] पराजय की
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १७५ धणं जएण वज्जणिग्घादणिग्घोसविसमरसिदधवअगठिदमहावाणरो तुर- ङ्गमसंवहणवापिदवासुदेवसंखचक्कअसिगदालच्छिदचउव्वबाहुदण्डो आपूरि- अवञ्चजण्णदेवअत्ताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तं उद्देसं रहवरो । (ततो देव, एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः परिभवशङ्किना धन- ञ्जयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरङ्गमसंवाहनव्यापृत- वासुदेवशङ्खचक्रासिगदालाञ्छितचतुर्बाहुदण्ड आपूरितपाञ्चजन्यदेवदत्ताररसितप्रतिर- वभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः । ) दुर्योधनः- ततस्ततः । वर्षि = प्रसरन्ती या शरधारा बाणप्रचारः तस्याः सहत्वं तदर्पणशीलम्, समर- दुर्दिनं = दुर्दिनमिव समरः सङ्ग्रामः, मेघाच्छन्नं हि दिनं दुर्दिनमुच्यते जातं, दुर्दित- मिव सङ्ग्रामोऽभूदिति भावः । ज्येष्ठस्य = अग्रजस्य, भ्रातुः=भीमस्य, परिभवशङ्किना=पराजयशङ्केन, धनञ्ज- येन = अर्जुनेन, वज्रनिर्घातेति - वज्रनिर्घातः अशनिशब्दः तद्वत् यो निर्घोषः शब्दः तद्वद् रसितं यत्र, ध्वजाग्रस्थितः महावानरः यत्र, अश्वसंवाहने व्यापृतो या वासुदेवः तस्य शंखचक्रखड्गादिभिः लाञ्छितः अङ्कितः दण्ड इव चत्वारो वाहव इति चतुर्बाहु- दण्ड म यत्र । यद्यपि कृष्णस्य चतुर्भुजरूपेणोत्पत्तौ सत्यामपि जन्मकाल तरमेव भुजद्वयस्य विलोप इति चतुर्बाहुदण्ड इति कथनमसङ्गतम् तथापि महाभारतसङ्ग्राम- काले कृष्ण. शत्रुत्रासार्थं चतुर्भुजो बभूव अत एवोक्तं गीतायां- तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते' इति । कथमन्धथा, चतुर्भुजत्वं रूपं तदा यदासीत् तदेव रूपं प्राप्नुहीत्यर्थकगीता वचनं सङ्गतं स्यात् पूर्वमपि चतुर्भुजत्वप्राप्तिकथनस्यायुक्तः, अत एवोक्तमत्र-चतुर्बाहुदण्डेति। पाञ्चजन्यं कृष्णस्य शंखः देवदत्तमर्जुनस्य । आशङ्का से अर्जुन [ अपने ] उत्तम रथ को उस स्थान तक [ जहाँ भीम और कर्ण का युद्ध हो रहा था ] दौड़ाया ! उसकी पताका पर वज्रपात के सदृश भीषण किलकार करते हुए वानरराज [ हनुमान् ] बैठे हुए थे । घोड़ों की शुश्रूषा में संलग्न भगवान् वासुदेव की शंख चक्र, करवाख और गदा से युक्त भुजायें उस रथ पर दण्डाकार थीं । उस रथ पर बजाये जाते हुए पाञ्चजन्य तथा देवदत्त [ श्रीकृष्णचन्द्र के शङ्ख तथा अर्जुन के शङ्ख का नाम ] नामक शङ्खों के तुमुल निनाद से सम्पूर्ण दिशाओं का मुखविवर गूंज रहा था । दुर्योधन-इसके अनन्तर क्या हुआ ?
१७६ वेणीसंहारं नाटकं सुन्दरकः—तदो भीमसेणधणञ्जएहिं अभिजुत्तं पिदरं पेक्खिअ ससंभमं विअलिअं अवधूणिअ अणसीसं आकण्णाकट्ठिदकठिणकोदण्डजीओ दाहिणहत्थुक्खित्तसरपुंखविघट्टणतुवराइदसारहीओ तं देसं उवगदो कुलालविस्ससेणो । (ततो भीमसेनधनञ्जयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससम्भ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवो दक्षिणहस्तोक्षिप्तशरपुङ्ख- विघट्टनत्वरायितसारथिकस्तं देशमुपगतः कुमारवृषसेनः ।) दुर्योधनः—(सावष्टम्भम् ।) ततस्ततः । सुन्दरकः—तदो अ देव, तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं कठिणकङ्कवत्तेहिं किसणवण्णेहि साणसिलणिसिदसामलसल्लबन्धेहि कुसुमिदो विअ तरू मुहुत्तएण सिली- मुहेहिं पच्छादिदो धणंजअस्स रहवरो । (ततश्च देव, तेनागच्छतैव कुमार- वृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकङ्कपत्रैः कृष्णवर्णैः शालशिला- विगलितं =यथास्थानमप्राप्तं, किञ्चित् पतितमित्यर्थः । रत्नशीर्षकं = मण्यादिनि- र्मतशिरःस्थम्, उष्णीषमिति । यावत् । आकर्णाकृष्टकठिनकोदण्डजीवः = कर्णपर्यन्तम् आकृष्टं कठोरचापस्य जीवो गुणः येन सः, दक्षिणहस्तोक्षिप्तशरपुङ्खविघट्टनत्वरायित- सारथिकः = दक्षिणहस्ते उत्क्षिप्तः स्थापितः शरपुङ्खः बाणमूलप्रदेशः येन सः, विघट्टने सञ्चालने त्वरायितः शीघ्रकारितायां नियुक्तः सारथिर्येन सः, बहुव्रीह्युत्तरं द्वयोः कर्मधारयः । कुमारवृषसेनः = कर्णपुत्रः, तं देशम् उपगत इत्यन्वयः । विदलितासिलताश्यामलस्निग्धपुङ्खैः = विद्लिता मर्दिता या असिलता खड्गः तद्वत् श्यामलाः स्निग्धाः पुङ्खाः शरमूलानि येषां तैः, शल्यबन्धैरित्यन्तस्य शिली- मुखैरित्यनेनान्वयः । कठिनकङ्कपत्रैः=कठिनं कठोरं कङ्कपत्रं कङ्कनामकपक्षि पक्षा येषु, सुन्दरक—इसके पश्चात् भीमसेन और अर्जुन से युद्ध करते हुए अपने पिता को देखकर राजकुमार वृषसेन व्याकुल होकर शीघ्रता के कारण गिरे हुए रत्नजटित उष्णीष [साफा या पगड़ी] को अवहेलना करते हुए, कान तक सारगर्भित धनुष की प्रत्यञ्चा [डोरी] को आकृष्ट करते हुए तथा दाहिने हाथ मे तरकश से निकाले गए बाणों के मूल में लगे हुए पुङ्ख से सारथि को शीघ्रता के लिए प्रेरित करते हुए उस प्रदेश तक पहुंच गए । दुर्योधन—(गर्व के साथ) फिर क्या हुआ ? सुन्दरक—पुनः इसके अनन्तर महाराज ! पहुँचते ही उस कुमार वृषसेन ने सञ्चूर्णित तलवार की तरह चमचमाते हुए नीलवर्ण के पुङ्ख से युक्त कठोर कङ्कपत्र सम्पन्न अतएव
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १७७ निशितश्यामशल्यबन्धैः कुसुमित इव तरुर्मुहूर्तेन शिलीमुखैः प्रच्छादितो धनञ्जयस्य रथवरः । उभौ—( सहर्षम् । ) ततस्ततः । सुन्दरकः—तदो देव, तीक्खविविखत्तणिसिदभल्लवाणवरिसिणा धणं- जएण ईसि विहसिअ भणिदम्—'अरे रे विससेण, पिदुणो वि दाव दे ण जुत्तं मह कुविदस्स अभिमुहं ठादुम् । किं उण भवदो बालस्स । ता गच्छ । अवरेहिं कुमारेहिं सह गदुअ आआधेहि ।' एव्वं वाअं णिसमिअ गुरुअणाधिक्खेवेण उद्दीविअकोवोवरत्तमुहमण्डलविअम्भिअभिउडिभङ्ग- भीसणेण चावधारिणा कुमालविससेणण सम्मभेदएहिं परुसविसमेहिं सुदिव्हकिदप्पणेहि णिव्भच्छिदो गण्डीवी वाणेहिं ण उण दुट्ठवअणेहि । ( ततो देव, तीक्ष्णविधिक्षिप्तनिशितभल्लबाणवर्षिणा धनञ्जयेनेषद्विहस्य भणितम्— 'अरे रे वृषसेन, पितुरपि, तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुम् किं पुन- र्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैः सह गत्वा युध्यस्व ।' एवं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटिभङ्गभीषणेन चापधारिणा कृष्णमुखैः = श्यामलाग्रभागैः, शाणशिलानिशितश्यामशल्यबन्धैः = शाणे कृत्तती- क्षणाग्रैरित्यर्थः । शिलीमुखैः = वाणैः, मुहूर्तेन, कुसुमितः = पुष्पितः तरुरिव धनञ्जयस्य, रथवरः, प्रच्छादित इत्यन्वयः । तीक्ष्णनिशितभल्लबाणवर्षिणा = तीक्ष्णं यथा स्यादेवं निशिता शाणादिना तेजिता भल्लाः कुन्ताः येन स चासौ बाणवर्षी तेन, धनञ्जयेन = अर्जुनेन, ईषद् = अल्पं, विहस्य, भणितम्— उक्तम्, किमुक्तमित्याह अरे रे इति । गुरुजनाधिक्षेपेण = पितृनिन्दया, उद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटी- नील वर्ण के बाणों से जिनके फल सान पर चढ़ा देने के कारण चमक-दमक से पूर्ण थे, फूले हुए वृक्षको भ्रमरों की भाँति अर्जुनके प्रशस्त रथको क्षण भर में आच्छादित कर दिया। दोनों—[ दुर्योधन और सूत ]—[ प्रसन्नतापूर्वक ) उसके पश्चात् ? सुन्दरक—तो फिर, राजाधिराज ! वेग के साथ छोड़े गए तीक्ष्ण [ तेज ] भालों के सदृश बाणों की वृष्टि करते हुए अर्जुन ने ईषत् स्मित करके [ थोड़ा हँसकर ] कहा—'अरे ए वृषसेन, तुम्हारे पिता भी क्रुद्ध हो जाने पर मेरे समक्ष नहीं ठहर सकते फिर तुम तो बच्चे हो तुम्हारा कहना ही क्या ? अतः जाओ और किसी दूसरे बच्चों के साथ युद्ध करो'। इस प्रकार की बात को सुनकर गुरुजनों की निन्दा से जागे हुए क्रोध से तमतमाते १२ वे०
कुमारवृषसेनेन मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भर्त्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः । ) दुर्योधनः — साधु वृषसेन, साधु ! सुन्दरक, ततस्ततः । सुन्दरकः — तदो देव, णिसिदसराभिघादवेअणोपजादमण्णुणा किरी- टिणा चण्डगण्डीवजीआसद्दिणिज्जिदवज्जणिघादघोसेण बाणणिपडणपडि- सिद्धदंसणप्पसरेण पत्थुद सिक्खावलावणुरुवं किं वि अच्चरिअम् । (ततो देव निशितशराभिघातवेदनोपजातमन्युनाकिरीटिना चण्डगाण्डीवजीवाशब्दर्निर्जितवज्रनि- घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् । ) भङ्गोभीषणेन = उद्दीपितो यः कोपः तेनोपरक्तं यन्मुखमण्डलं यश्च विजृम्भितः सम्पादितः भृकुटीभङ्गः ताभ्यां भीषणेन भयावहेन, चापधारिणा = धनुर्धरेण, कुमार- वृषसेनेन = कर्णपुत्रेण, मर्मभेदकैः = अन्तःकरणविदारकैः, परुषविषमैः = परुषैः कठो- रैरत एव विषमैः, श्रुतिपथकृतप्रणयैः = कर्णमार्गपर्यन्ताकृष्टैः, बाणै = शरैः, गाण्डीवी = अर्जुनः, निर्भर्त्सितः = सन्तर्जितः, दुष्टवचनैः = दुःखकरवाक्यैः, न, पुनः, भर्त्सिसत इत्यस्यात्राप्यन्वयः । यथाऽर्जुनेन अरे रे पितुरित्यादिना दुष्टवचनेन वृषसेनो भर्त्सित- स्तथा वृषसेनेन दुष्टवचनै. न भर्त्सितः किन्तु बाणैरेवेति समुदितार्थः । निशितशराभिघातवेदनोपनीतमन्युना = तीक्ष्णबाणप्रहारदुःखजातक्रोधेन, 'मन्यु- र्दैन्ये क्रतौ क्रुधीति विश्वः । किरीटिना, चण्डगाण्डीवजीवाशब्दर्निर्जितवज्रनिर्घात- घोषेण = चण्डः प्रचण्डो यो गाण्डीव जीवाशब्दः अर्जुनचापमौर्वीजन्यशब्दः तेन निर्जितः वज्रनिर्घातघोषः येन, बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण = शरवर्षणेन प्रतिषिद्धः दर्शनप्रसरः दृष्टिश्चाञ्चल्यं येन तेन, शिक्षाबलानुरूपं = शस्त्राभ्यासयोग्यम्, किमपि, आश्चर्यम् = अद्भुतम्, प्रस्तुतम् = आरब्धम् । हुए मुखमण्डल से जंभाई लेने के कारण तनी हुई भौंह से भयङ्कर कुमार वृषसेन ने धनुष धारण करके मर्मच्छेदी विकराल तथा कान तक आकृष्ट बाणों से न कि कटुवचनोंसे अर्जुन का उत्तर दिया। दुर्योधन — साधु वृषसेन, साधु ! सुन्दरक ! फिर क्या हुआ ? सुन्दरक — इसके अनन्तर महाराज ! तीक्ष्ण बाणों के प्रहार से क्रोधावेश में आकर अर्जुन के कर्कश गाण्डीव धनुष की प्रत्यञ्चा के टङ्कार से वज्रपात की गर्जन को लज्जित करते हुए, तथा बाणों की वर्षा से दृष्टि की गति का अवरोध करते हुए अपनी शिक्षा और पराक्रम के अनुरूप आश्चर्यजनक कुछ कार्य करने लगे ।
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १७९ दुर्योधनः—(साकूतम् ।) ततस्ततः । सुन्दरकः—तदा देव, तं तारिसं पेक्खिअ सत्तुणो समरव्वावारचउर- त्तणं। अविभाविअतूणीरमुहधणुग्गुणगमणागमणसरसंघाणमावखचदुलकर- अलेण कुमालविससेणेण वि सविसेसं पत्थुदं समलकम्म। (ततो देव, तत्तादृशं प्रेक्ष्य शत्रोः, समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसंधानगो- ष्ठवचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म ।) दुर्योधनः—ततस्ततः । सुन्दरकः—तदो देवं, एत्थन्तरे, विमुक्कसमरव्वावारो मुहुत्तविस्सामिद वैराणुबन्धो दोण्णं वि कुरुराअपण्डवबलाणं 'साहु कुमालविससेण, साहु' त्ति किदकलअलो वीरलोओ अवलोइदु पडत्तो । (ततो देव, अत्रान्तरे विमुक्त- समरव्यापारो मुहूर्तविश्रामितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः 'साधु कुमार- वृषसेन, साधु' इति कृतकलकलो वीरलोकोऽवलोकयितुं प्रवृत्तः ।) दुर्योधनः—(सविस्मयम् ।) ततस्ततः । अविभाविततूणीरमुखगमनागमनशरसंधानमोक्षवटुलकरतलेन=अविदितयोः निष- ङ्गमुखधनुर्गुणगमनागमनयोः शरग्रहणत्यागयोश्च चटुलं चपलं करतलं हस्तं यस्य तेन, सविशेषं = विशिष्टम्, समरकर्म = सङ्ग्रामव्यापारः, प्रस्तुतं = प्रारब्धम् । विमुक्तसमरव्यापारः = त्यक्तसङ्ग्रामक्रियः, मुहूर्तविश्रामितवैरानुबन्धः=मुहूर्तं विश्रामितः त्यक्तः वैरानुबन्धः शत्रुत्वप्रक्रिया येन सः । दुर्योधन—(उत्कण्ठापूर्वक) तो फिर ...... ? सुन्दरक—इसके अनन्तर महाराज ! शत्रु की इस प्रकार की युद्धक्रियापटुता को देखकर कुमार वृषसेन ने भी अपने चपल करों के द्वारा, जिनका तरकश के मुख तक जाना और फिर धनुष तक पहुँच जाना तथा बाणों को वेग के साथ फेंकना और उन्हें लौटा लेना प्रत्यक्ष दृष्टिगोचर नहीं हो रहा था, विशेष रूप से संग्राम करना प्रारम्भ कर दिया । दुर्योधन—तो फिर ......? सुन्दरक—इसके अनन्तर इसी अवसर में संग्राम कार्य से पृथक् होकर क्षण मात्र के लिए शत्रुता को विश्राम देकर दोनों कौरव और पाण्डवों की सेना का सैनिकवर्ग शाबाश वृषसेन शाबाश ! इस प्रकार का कोलाहल करता हुआ देखने लगा । दुर्योधन—(आश्चर्य के साथ) अच्छा फिर क्या हुआ ?
१८० वेणीसंहारं नाटकं सुन्दरकः—तदो अ देव, अवहीरिदसअलराअधाणुक्कचक्कपरावकमसा- लिणो सुदस्स तहाविहेण समरकम्मालम्भेण हरिसरोसकरुणासङ्कड़े वट्टमा- णस्स सामिणो अङ्कराअस्स णिवडिआ सरपद्धइ भीमसेणे बोप्पपञ्जाउला दिट्ठी कुमालविससेणे । ( ततश्च देव, अवधीरितसकलराजधानुष्कचक्रपराक्रम- शालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वा- मिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने । ) दुर्योधनः—( सभयम् ।) ततस्ततः । सुन्दरकः—तदो अ देव, उभअवलप्पउत्तसाहुकारामरिसिदेण गण्डी- विणा तुरगेसु सारहिं पि रहवरे धनु पि जीआइ पि णलिन्दलञ्छणे सिदादवत्त अ व्वावारिदो समं सिलीमुहासारो । (ततश्च देव, उभयबलप्रवृत्त- साधुकारामर्षितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रे च व्यापारितः समं शिलीमुखासारः ।) अवधीरितसकलराजधानुष्कचक्रपराक्रमशालिनः = अवधीरितं सकलराजधानुष्क- चक्रं येन स चासौ पराक्रमशाली तस्य, सुतस्य, तथाविधेन = आश्चर्यप्रयोजकेन समरकर्मारम्भेण = सङ्ग्रामप्रक्रियारम्भेण, हर्षरोषकरुणासङ्कटे=पुत्रकर्तृकतादृशयुद्ध- दर्शनेन हर्षः, अल्पवयस्केन सह शत्रुकर्तृकयुद्धस्य दर्शनेन क्रोधः, महाबलेन सह बालकर्तृकयुद्धस्य दर्शनेन करुणा, एतत्रितयसमुदाय एव सङ्कटम् तत्र वर्तमानस्य स्वामिनः, अङ्गराजस्य = कर्णस्य शरपद्धतिः = बाणसमूहः, भीमसेने, निपतिता, बाष्पपर्याकुला = अश्रुव्याप्ता दृष्टिः = नेत्रम्, अङ्गराजस्येत्यस्यात्राप्यन्वयः । कुमार- वृषसेने निपतितेत्यस्यात्रापि सम्बन्धः । उभयबलप्रवृत्तसाधुकारामर्षितेन = उभयबलेन कौरवपाण्डवसैन्येन प्रवृत्तो यः साधुकारः तेनामर्षितः क्रुद्धः तेन, जीवायां = धनुर्गुणे, नरेन्द्रलाञ्छने=राजचिह्ने, सितातपत्रे = श्वेतच्छत्रे, शिलीमुखासारः = बाणधारा । सुन्दरक—पुनः हे महाराज ! सभी धनुर्धर राजाओं के समूह को तिरस्कृत करनेवाले पराक्रम से युक्त पुत्र के इस प्रकार के युद्धकर्म से प्रसन्नता; क्रोध और दया की विपत्ति से उपस्थित कर्ण के बाणों की वर्षा भीमसेन पर तथा अश्रुपूर्ण दृष्टि कुमार वृषसेन पर पड़ी । दुर्योधन—( भयपूर्वक ) तो फिर...... ! सुन्दरक—फिर भी महाराज ! दोनों पक्ष से उठे हुए 'साधु' शब्द से क्रुद्ध होकर अर्जुन ने [ कुमार के ] घोड़ों पर, सारथि पर, दिव्य रथ पर, धनुष पर, प्रत्यञ्चा पर और · राजचिह्न श्वेत छत्र पर भी एक ही समय में बाणों की वर्षा करना आरम्भ कर दिया । ·
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १८१
दुर्योधनः—( सभयम् । ) ततस्ततः ।
सुन्दरकः—तदो देव, विरहो लूणगुणकोदण्डो परिव्भमणमेत्तव्वावारो
मण्डलागेण विअरिदुं पउत्तो कुमालविससेणो । ( ततो देव, विरथो लूनगुण-
कोदण्डः परिभ्रमणमात्रव्यापारो मण्डलाग्रेण विचरितुं प्रवृत्तः कुमारवृषसेनः । )
दुर्योधनः—( साशङ्कम् । ) ततस्ततः ।
सुन्दरकः—तदो देव, सुदरहविद्धंसणामरिसिदेण सामिणा अङ्गराएण
अगणिअभीमसेणाभिओएण पडिमुक्को धणंञअस्स उवरि सिलीमुहासारो
कुमालो वि परिजणोवणीदं अण्णं रहं आरुहिअ पुणो वि पउत्तो धणंञएण
सह आआधेदुम् । (ततो देव, सुतरथविध्वंसनामर्षितेन स्वामिनाङ्गराजेनागणित-
भीमसेनाभियोगेन परियुक्तो धनञ्जयस्योपरि शिलीमुखसारः । कुमारोऽपि परिजनो-
पनीतमम्यं रथमारुह्य पुनरपि प्रवृत्तो धनञ्जयेन सहायोधितुम् ।)
उभौ—साधु वृषसेन, साधु । ततस्ततः ।
विरथः=विगतः रथः यस्य सः विनरथय इत्यर्थः । लूनगुणकोदण्डः = गुणश्च
कोदण्डश्च तौ गुणकोदण्डौ मौर्वीचापौ तौ लूनौ यस्य सः, परिभ्रमणमात्रव्यापारः,
मण्डलाग्रेण = खड्गेन 'खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्र'
इत्यमरः ।
सुतरथविध्वंसनामर्षितेन = पुत्रस्यन्दनविनाशक्रुद्धेन, स्वामिना, अङ्गराजेन,
अगणितभीमसेनाभियोगेन = अगणितः अनपेक्षितः भीमसेनाभियोगः भीमकर्तृका
भिग्रहः येन, धनञ्जयस्य = अर्जुनस्य, उपरि, शिलीमुखसारः = शरधारा परियुक्त
इत्यन्वयः ।
दुर्योधन—( त्रस्त होता हुआ ) तो फिर......!
सुन्दरक—तो फिर महाराज ! कुमार वृषसेन रथ से रहित होकर तथा प्रत्यञ्चा
(डोरी) के साथ धनुप के कट जाने पर हाथ में कृपाण लेकर केवल पैंतरा बदलते हुए
इधर-उधर विचरने लगे ।
दुर्योधन—( भयपूर्वक ) तो फिर क्या हुआ ?
सुन्दरक—फिर महाराज ! अङ्गाधिराज स्वामी ( कर्ण ) पुत्ररथ के भग्न हो जाने के
कारण कुपित होकर भीमसेन की सेना के प्रहार का ध्यान न देकर अर्जुन पर शरवर्षण
करने लगे । [ वृषसेन ] भी भृत्यों के द्वारा लाए हुए अन्य रथ पर बैठकर अर्जुन के साथ
युद्ध करने लगे ।
दोनों—[ दुर्योधन और सूत ] शाबाश ! वृषसेन, शाबाश !! फिर क्या हुआ ?
—
१८२ \t\t\t\t\tवेणीसंहारं नाटकं
सुन्दरकः-तदो देव, भणिदं स कुमालेन—'रे रे तादाहिक्खेवमुहल-
मज्झमपण्डव, मह सरा तुह सरीरं उज्झिअं अण्णस्सि ण णिवडन्ति' त्ति
भणिअ सरसहस्सेहि पण्डवसरीरं पच्छादिअ सिंहणादेण गज्जिदुं पउत्तो।
(ततो देव, भणितं स कुमारेण—'रे रे ताताधिक्षेपमुखर मध्यमपाण्डव, मम शरा-
स्तव शरीरानुज्झित्वान्यस्मिन्न निपन्ति' इति भणित्वा शरसहस्रैः पाण्डवशरीरं
प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः ।)
दुर्योधनः- (सविस्मयम् ।) अहो, बालस्य पराक्रमो मुग्धस्वभावेऽपि ।
ततस्ततः ।
सुन्दरकः - तदो अ देव, तं सरसंपादं समवधूनिअ णिसिदसराभिवाद-
जातमण्णुणा किरीटिना गहिदा रहुच्छङ्गादो क्वणन्तकणककिङ्किणी जालझ-
ङ्कारविरािणी मेहोवरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्ध-
मुही विविहरणप्पहाभासुरभीसणरणिज्जदंसणा सत्ती विमुक्का कुमाला--
हिमुही । (ततश्च देव, तं शरसम्पातं समवधूय निशितशराभिघातजातमन्युना
'ताताधिक्षेपमुखर = ताताधिक्षेपेण पितृनिन्दया मुखर दुर्मुख, 'दुर्मुखे मुखरावद्ध-
मुखौ शक्लः प्रियंवदे' इत्यमरः । मध्यमपाण्डवः = अर्जुनः, युधिष्ठिरभीमयोरर्जुन,
स्याग्रजत्वात् नकुलसहदेवोश्चार्जुनो मध्यमपाण्डव उच्यते ।
शरसम्पातं = शरपतनम्, समवधूय=तिरस्कृत्य, निशितशराभिघातजातमन्युना=
तीक्ष्णबाणप्रहारोत्पन्नकोपेन किरीटिना, गृहीता = आत्ता अस्य शक्तिरित्यनेनान्वयः ।
रथोत्सङ्गात्=रथक्रोडात् रथमध्यादित्यर्थः । क्वणत्कनककिङ्किणीजालङ्कारविराविणी
क्वणन्ति शब्दायमानानि यानि कनककिङ्किणीजालानि सुवर्णघण्टिकासमूहः तेषां
झङ्कारेण विराविणी शब्दयित्री मेधोपरोधविमुक्तनभस्तलनिर्मला=मेघावरणरहि-
------------------------------------------------------------------------------------------
सुन्दरक-इसके पश्चात महाराज ! कुमार [वृषसेन] ने कहा, 'अरे रे मेरे पिता की
निन्दा में रत मझला पाण्डुकुमार ! मेरे बाण तुम्हारे अङ्गों के अतिरिक्त अन्यत्र कहीं नहीं
गिरेंगे' इस प्रकार कह कर अगणित बाणों से अर्जुन के शरीर को आच्छादित करते हुए
कुमार ने सिंह के गर्जन के सदृश गर्जन प्रारम्भ कर दिया ।
दुर्योधन-(आश्चर्य्य के साथ) भोले भाले बालक का पराक्रम भी कैसा प्रशंसनीय है।
सुन्दरक-इसके अनन्तर महाराज ! उन बाणों की झटियों को सहन कर के तीक्ष्ण
बाणों के प्रहार के कारण क्रुद्ध अर्जुन के द्वारा रथ के बीच से बजते सुवर्णनिर्मित घुंघुरुओं
की राशि के झङ्कार से झङ्कृत होती हुई, मेघों के अवरोध से रहित आकाशमण्डल की
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १८३ किरीटिना गृहीता रथोत्सङ्गात्क्वणत्कनककिङ्किणीजालझङ्कारविराविणी मेघोपरोधवि- मुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीय- दर्शना शक्तिविमुक्ता कुमाराभिमुखी । ) दुर्योधनः- (सविषादम्) - अहह । ततस्ततः । सुन्दरकः - तदो देव, पज्ज्वलन्तीं सत्तिं पेक्खिअ विगलिअं अङ्गराअस्स हत्थादो ससरं धणुं हअआदो वीरसुलहो उच्छाहो णअणादो बाष्पसलिलं वि । रसिदं अ सिंहणादं विओदरेण । दुक्करं दुक्करं ति आक्कन्दिदं कुरुबलेण । ( ततो देव, प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमङ्गराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्वाष्पसलिलमपि । रसितं च सिंहनादं वृकोदरेण । दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन । ) दुर्योधनः - ( सविषादम् ) ततस्ततः । सुन्दरकः - तदो देव, कुमालविसंसेणेण आकण्णपूरिदेहिं णिसिदवखु- तारागणतुल्यस्वच्छा । निशितश्यामलस्निग्धमुखी = निशितं श्यामस्निग्धं मुखम् यस्याः सा । अनेकपदबहुव्रीहिः । विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना = विविधानि यानि रत्नानि तेषां प्रभाभिः भासुरा दीप्यमाना सा चासौ भीषणरमणी- यदर्शना, शक्तिः = अस्त्रविशेषा, कुमाराभिमुखी = वृषसेन सम्मुखी, विमुक्ता । वृषसेन विनाशार्थं शक्तिः निक्षिप्तेति भावः । प्रज्वलन्ती = दीप्यमानाम्, शक्तिम्, प्रेक्ष्य = दृष्ट्वा, सशरम् - बाणसहितम्, विगलितम् = पतितम्, अनया शक्त्या मम पुत्रस्य विनाशः स्यादेवेति हेतोरितिभावः । वाष्पसलिलं = नेत्राम्बु । रसितं = शब्दितम्, वृकोदरेण = भीमसेनेन । भाँति स्वच्छ शक्ति, जो अनेक प्रकारके रत्नों की कान्ति से दीप्त हो रही थी अतएव देखने में भयावनी और मनोहर भी प्रतीत होती थी, कुमार वृषसेन के सम्मुख छोड़ी गई ! दुर्योधन - (विषाद के साथ) हाय ! फिर क्या हुआ ? सुन्दरक - इसके बाद महाराज ! प्रज्वलन्त शक्ति को देखकर अङ्गनरेश [कर्ण] के हाथ से बाण और धनुष, अन्तःकरण से वीरों के लिए सुलप्राप्य उत्साह और नेत्रों से अश्रुजल गिर पड़े। भीमसेन ने सिंहगर्जन किया । 'दुष्कर, दुष्कर' कहकर कौरवीय सेना चिल्लाने लगी । दुर्योधन - (विषाद के साथ) फिर क्या हुआ ? सुन्दरक - तो फिर महाराज ! कुमार वृषसेन ने कान तक खींचकर तीक्ष्ण बाणवाले
१८४ वेणीसंहारं नाटकं रप्पवाणेहिं चिरं णिज्झइअ अद्धपहे एव्व भाईरही विअ आगच्छन्ती जहा भववदा विसमलोअणेण तथा तिधा किदा सत्ती । ( ततो देव, कुमारवृष- सेनेनाकर्णपूरितैनिशितक्षुरप्रबाणैश्चिरं निर्धार्यार्धपथ एव भागीरथीवागच्छन्ती यथा भगवता विषमलोचनेन तथा त्रिधा कृता शक्तिः । ) दुर्योधनः -- साधु वृषसेन, साधु । ततस्ततः । सुन्दरकः - तदो अ देव एदस्सि अन्तले कलमुखरेण वीरलोअसाहुवा- देण अन्तरिदो समरतूरणिग्घोसो । सिद्धवालणगणविमुक्ककुसुमप्पअरेण पच्छादिदं समलङ्गणम् । भणिअं अ सामिणा अङ्गराएण-- 'भो वीर विकोदल, असमत्तो तुह मह वि संसलब्बवारो । ता अणुमण्ण अ मृदु- त्तअम् । पेक्खामहे दाव वस्सस्स तुह भादुणो अ धणुव्वेदसिक्खाचउर- त्तणम् । तुह वि एदं पेक्खणिज्जम्' त्ति । ( ततश्च देव, एतस्मिन्नन्तरे कलमुख- रेण वीरलोकसाधुवादेनान्तरितः समरतूर्यनिर्घोषः । सिद्धचारणगणविमुक्तकुसुमप्रकरेण आकर्णपूरितैः = कर्णमभिव्याप्य पूरितः कर्णपर्यन्ताकृष्टैरित्यर्थः । क्षुरप्रवाणैः = क्षुरप्रनामकबाणविशेषैः, निर्धार्य निश्चित्य, अर्धपथे= यथोऽधं 'अर्धं नपुंसकमिति तत्पुरुषः । एव आगच्छन्ती स्वर्गादित्यर्थः । भागीरथी = भगीरथस्येयम् 'तस्येदमि'- त्यण् डीप् च, भगीरथेनानीता गङ्गा, विषमविलोचनेन = शिवेन, यथा त्रिधा कृता अतएव 'गङ्गा त्रिपथगा' इत्युच्यते तथा शक्तिः त्रिधा कृता अर्धपथ एव । कुमारवृषसेनेन शक्तिखण्डनात्तस्य पराक्रमेण प्रसन्नेः वीरजनैः साधु, साधु इति कृतं तदाह एतस्मिन्नन्तरे इति । कलमुखरेण = शब्देन तत्परमुखेन, यद्यपि वीर- लोकसाधुवादस्य मुखरत्वं न सम्भवति तथापि औपचारिकं तत् । अन्तरितः = प्रच्छादितः समरतूर्यनिर्घोष सङ्ग्रामस्य वाद्यविशेषशब्दः । सिद्धचारणगणविमुक्त- कुसुमप्रकरेण=सिद्धः देवयोनिविशेषः, चारणः कुशीलवः ताभ्यां विमुक्तेन कुसुम- प्रकरेण पुष्पसमूहेन, 'सिद्धो व्यासादिके देवयोनौ निष्पन्नमुक्तयोरि'ति कःपः। चार- क्षुरप्र बाणों से भली भाँति निर्धारित करके आधे मार्ग में ही उस शक्ति को तीन भागों से इस तरह विच्छिन्न कर डाला जिस प्रकार [ स्वर्ग से जाती हुई ] जाह्नवी [ गङ्गा ] को शङ्कर भगवान् ने बीच मार्ग में ही तीन भागों से विभक्त कर दिया था । दुर्योधन - धन्य ! वृषसेन !! तो फिर क्या हुआ ? सुन्दरक - इसके पश्चात् महाराज ! इसी अवसर में वीरों के धन्य धन्य की पुकार के कोलाहल से रणभेरी का शब्द छिप गया । सिद्ध और चारणों के द्वारा की गई पुष्पवर्षा से रणाङ्गण [ युद्धस्थल ] आच्छन्न हो गया और स्वामी कर्ण ने कहा, 'ऐ वीर भीमसेन
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १८५ प्रच्छादितं समराङ्गणम्। भणितं च स्वामिनाङ्गराजेन - 'भो वीर वृकोदर, असमा- प्तस्तव ममापि समरव्यापारः। तदनुमन्यस्व मां मुहूर्तम्। प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षाचातुर्य्यम्' । तवाप्येतत्प्रेक्षणीयम् इति । ) दुर्योधनः-ततस्ततः । सुन्दरकः-तदा देव, विस्समिदाओधनव्वावारा मुहुत्तविस्समिदणि- जवेराणुबन्धा दुवे वि पेक्खआ जादा भीमसेणङ्कराआ। (ततो देव, विश्रमि- तायोधनव्यापारौ मुहुर्विश्रामितनिजवैरानुबन्धौ द्वावपि प्रेक्षकौ जातौ भीमसेना- ङ्गराजौ । ) दुर्योधनः-( साभिप्रायम् ) ततस्ततः । सुन्दरकः-तदो देव, सत्तिखण्डणामरिसिदेण गण्डीविणा भणिअम्- अरे रे दुज्जोहणप्पमुहा-( इत्यर्धोक्तौ लज्जां नाटयति ।) (ततश्च देव शक्ति- खण्डनामर्षितेन गाण्डीविना भणितम् - अरे रे दुर्योधनप्रमुखाः -) दुर्योधनः-सुन्दरक, कथ्यताम् । परवचनमेतत् । णास्तु कुशीलवा' इत्यमरः । समराङ्गणं = सङ्ग्रामस्थानम् । अनुमन्यस्वेति मुहूर्तं सङ्ग्रामं त्यजेत्यर्थः, । वत्सस्य = कुमारवृषसेनस्य, तव भ्रातुः=अर्जुनस्य च धनुर्वेद- शिक्षाचातुर्य्यं = धनुर्विद्याशिक्षणनिपुणत्वम् । विश्रामितायोधनव्यापारौ = विश्रान्तैः आयोधनव्यापारः युद्धक्रिया याभ्यां तौ द्वौ = भीमकणौ । मेरा और तुम्हारा संग्राम अभी समाप्त नहीं हुआ है तो क्षणमात्र के लिए विश्राम लेने दो। जिससे हमलोग क्षणमात्र तक अपने पुत्र [ वृषसेन ] और तुम्हारे भ्राता [ अर्जुन ] की धनुर्वेदशिक्षा निपुणता को देख लें। तुम्हें भी यह देखना ही है।' दुर्योधन-इसके पश्चात् ? सुन्दरक-तो फिर महाराज ! दोनों ही कर्ण और भीम युद्ध को स्थगित करके क्षण मात्र के लिए अपनी शत्रुता को विश्राम देकर [ उस वृषसेन और अर्जुन के युद्ध के ] दर्शक बन गए। दुर्योधन-[ उत्कट इच्छा के साथ ] तो फिर ! सुन्दरक-इसके बाद महाराज ! शक्ति के छिन्न-भिन्न करने के कारण कुपित अर्जुन ने कहा, 'अरे, दुर्योधन प्रभृति......' (आधा कहकर लज्जा का अभिनय करता है)। दुर्योधन-कहो सुन्दरक ! यह तो दूसरे के मुख की बात है।
४. चतुर्थ अङ्क: सुन्दरक वृत्तान्त एवं दुर्योधन रण-सन्नाह
१८६ वेणीसंहारं नाटकं सुन्दरकः—सुणादु देवो। 'अरे दुज्जोहणप्पमुहा कुरुबलसेणापहुणो अविणअगोकण्णधार कण्ण, तुम्हेहिं मह परोक्खं बहुहिं महारहेहिं पडि- वारिअ एआई कम पुत्तओ अहिम्मणू व्वावादिदो अह उण तुह्माण पेक्ख- न्ताणं एव्व एदं कुमालविससेणं सुमरिदव्वसेस करोमि त्ति भणिअ सगव्वं आप्फालिदं णेण वज्जणिग्घादभीसणजीआरवं गण्डोवम्। सामिणा वि सज्जकिदं कालपुट्ठम्। (शृणोतु देवः । अरे, दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः अविनयनौकर्णधारकणं, युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि' इति भणित्वा सगर्वमास्फालितमनेन वज्रनिर्घातघोषभीषणजीवारवं गाण्डी- वम् । स्वामिनापि सज्जीकृतं कालपृष्ठम् । दुर्योधनः—(सावहित्यम् ) ततस्ततः । सुन्दरकः—तदो अ देव, पडिसिद्धभीमसेणसमलकम्मारम्भेण गण्डी- विणा विरइदा अङ्कराअविससेणरहकूलंकसाओ दुवे बाणनदीओ । तेहिं वि दुवेहि अण्णोण्यदंसिदसिक्खाविसेसहि आभजुत्तो सो दुराआरो मज्झमपण्डवो (ततश्च देव, प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विर- परिवृत्य = मिलित्वा । व्यापादितः=हतः । स्मर्तव्यशेषं = स्मर्तव्यः स्मरणं शेषः यस्य तादृशं करोमि । भावे तव्यप्रत्ययः । स्मरणमात्रमेवावशिष्टं स्यात्, मया हननादिति भावः । गाण्डीवम् = अर्जुनधनुः । कालपृष्ठं = कर्णस्य धनुः । 'अथ कर्णस्य कालपृष्ठं शरासनम्' । 'कपिव्दजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ, इत्यमरः । सुन्दरक—सुनिए, महाराज ! 'अरे दुर्योधनप्रभृति कौरवसेनानायको और असभ्यता रूपी जलयान के कर्णधार कर्ण ! तुम सब बहुत से महारथियोंने मिलकर मेरी अनुपस्थिति में असहाय मेरे पुत्र अभिमन्यु का वध किया है और मैं तुम लोगों के समक्ष ही कुमार वृषसेन को स्मृतिमात्र शेष रक्खूँगा (अर्थात् उसकी जीवन-लीला समाप्त कर दूँगा)। इस प्रकार कहकर अहङ्कार के साथ गाण्डीव धनुष को, जिसकी प्रत्यञ्चा का शब्द वज्रपात के सदृश है, चढ़ाया । महाराज कर्ण ने भी 'कालपृष्ठ' नामक धनुष को खींचा । दुर्योधन—(आकृति छिपाकर) तो फिर क्या हुआ ? सुन्दरक—इसके अनन्तर महाराज ! भीमसेन के युद्ध को रोककर अर्जुन ने कर्ण और वृषसेन के रथरूपी तट को काटकर गिराने वाली दो बाणों की नदियाँ निर्माण कर
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १८७ चिते अङ्गराजवृषसेनरथकूलंकषे द्वे बाणनद्यौ । ताभ्यामपि द्वाभ्यामन्योन्यदर्शित- शिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः ।) दुर्योधनः—ततस्ततः । सुन्दरकः—तदो अ देव, गण्डीविणा ताररसिदजीआणिग्घोसमेत्तवि- ण्णादबाणवरिसेण तह आअरिद पत्तिहिं जह ण णहत्तलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण वलाइँ ण सारही ण तुरङ्गमा ण दिसाओ ण वीरलोओ अ लक्खीअदि । (ततश्च देव, गाण्डीविना ताररसित- ज्यानिर्घोषमात्रविज्ञातवाणवर्षेण तथा चरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिनं तुरङ्गमा न दिशो न वीरलोकश्च लक्ष्यते ।) दुर्योधनः—(सविस्मयम् ।) अङ्गराजवृषसेनरथकूलंकषे = कर्णवृषसेनरथावेव कूले कषे ते कर्षन्तः 'सर्वकूला- भ्रकरीषेषु कष' इति खच्प्रत्ययः । 'अरुर्वि'ति मुमागमः । बाणनद्यौ = बाणा एव नदी ते । ताभ्यां = कर्णवृषसेनाभ्याम् । ताररसितज्यानिर्घोषमात्रविज्ञातवाणवर्षेण = तारेण उच्चै रसिता शब्दिता या ज्या धनुर्गुणः तस्या निर्घोषमात्रेण विज्ञातः बाणवर्षः येन तेन, ज्याशब्दमात्रेणैव बाणवर्षणं ज्ञायते बाणवर्षणानामतिशीघ्रतया करणादिति भावः । गाण्डीविना कर्त्रा, पत्रिभिः = शरैः 'कलम्बमार्गगणशराः पत्री रोप इषुद्वयोर्'त्यमरः । तथा, चरितं = कृतम्, यथा, नभस्तलम् = आकाशमण्डलम्, स्वामी = कर्णः, धरणी=पृथ्वी, केतुः = ध्वजम्, सर्वाणि बाणेर्व्याप्तत्वान्न दृष्टानीति भावः । दीं । उन दोनों (कर्ण और वृषसेन) के साथ, जो एक दूसरे से अपनी-अपनी शिक्षा की कला का प्रदर्शन कर रहे थे, वह मझला पाण्डुकुमार भीमसेन भिड़ गया ! दुर्योधन—तो फिर••••••। सुन्दरक—इसके उपरान्त महाराज ! गाण्डीवधारी [अर्जुन] ने बाणों की वर्षा से,- जो केवल धनुष की प्रत्यञ्चा के गगनभेदी टङ्कार से प्रतीत हो रही थी, इस प्रकार बाणों के द्वारा कौशल प्रदर्शन किया कि आकाशमण्डल, स्वामी कर्ण, रथ, भूमि, कुमार वृषसेन, पताकादण्ड, सैन्य, सारथी, घोड़े दिशायें और सैनिक-वर्ग इनमें से कोई भी दृष्टि में नहीं आता था । दुर्योधन—(विस्मित होकर) उसके उपरान्त क्या हुआ ?
१८८ वेणीसंहारं नाटकं सुन्दरकः—तदो अ देव, अदिक्कन्ते सरवरिसे क्खणमेत्तं सिंहणादे पण्डववले विमुक्काक्कन्दे कोरवबले उत्थिदो महन्तो कलअलो हा हदो कुमालविससेणा हा हदो त्ति । ( ततश्च देव, अतिक्रान्ते शरवर्षे क्षणमात्रं ससिं- हनादे पाण्डवबले विमुक्ताक्रन्दे कौरवबल उत्थितो महान् कलकलो हा हतः कुमार- वृषसेनो हा हत इति । ) दुर्योधनः—( सवाष्पावरोधम् ) ततस्ततः । सुन्दरकः—तदो देव, महन्तीए वेलाए पेक्खिअ हदसारहितुरङ्गं लूणादवत्तकेदुवंसं सगाप्पब्भट्टं विअ सुलकुमालं एक्केण उज्जेव मम्म- भेदिणा सिलीमुहेण भिण्णभदेहं रहमज्झे परिट्ठिदं कुमालं आअदो । ( ततो देव, महत्या वेलया प्रेक्ष्य हतसारथितुरङ्गं लूनातपत्रकेतुवंशं स्वर्गप्रभ्रष्टमिव सुरकुमार- मेकेनैव मर्मभेदिना शिलीमुखेन भिन्नदेहं रथमध्ये परिस्थितं कुमारमागतः । ) दुर्योधनः—( सास्रम् । ) अहह कुमारवृषसेन, अलमतः परं श्रुत्वा । हा वत्स वृषसेन, हा मदङ्कदुर्ललित, हा गदायुद्धप्रिय, हा राधेयकुलप्ररोह, ससिंहनादे, पाण्डवबले, सतीत्यन्वयः । विमुक्ताक्रन्दे, कौरवबले सतीत्यन्वयः । वेलया = समयेन, अस्य प्रेक्ष्येत्यनेनान्वयः सुरकुमारं = देवपुत्रम्, इव, शिली- मुखेन = बाणेन, कुमारं = वृषसेनम्, प्रेक्ष्य = दृष्ट्वा, आगतोऽहमित्यन्वयः । वृषसेनवधश्रवणाद् विलपति दुर्योधनः— अहहेति । मदङ्कदुर्ललित = मम अङ्के क्रोडे दुर्ललितः यः, तत्सम्बोधने, कृच्छ्रविलासिर इत्यर्थः । सुन्दरक—इसके अनन्तर महाराज बाणवर्षा के समाप्त होने पर क्षणभर में ही सिंह- गर्जन करती हुई पाण्डव-सेना में और रोती हुई कौरव सेना में 'हाय ! कुमार वृषसेन मारा गया, हाय मारा गया' इस प्रकार का महान् कलकल होने लगा । दुर्योधन—( अश्रु रोककर ) तो फिर क्या हुआ ? सुन्दरक—तो फिर महाराज ! कुमार के घोड़े और सारथी मरे हुए पड़े थे । उनके ध्वजा और छाते का दण्ड खण्डित कर दिया गया था । वे स्वर्गच्युत देवकुमार की भाँति एक ही मर्मभेदी बाण से जर्जरित कलेवर होकर रथ के बीच में बैठे हुए थे । बहुत देर तक मैं वहाँ उसे देखकर चला आया । दुर्योधन—( आँसू भरकर ) हाय ! कुमार वृषसेन, इसके बाद सुनने की आवश्यकता नहीं । हाय बेटा वृषसेन ! हाय मेरी गोदी के प्यारे ! हाय गदायुद्ध के
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १८९ हा प्रियदर्शन, हा दुःशासननिर्विशेष, हा सर्वगुरुवत्सल, प्रयच्छ मे प्रति- वचनम् । पर्याप्तेनेत्रमचिरोदितचन्द्रकान्त- मुद्भिद्यमाननवयौवनरम्यशोभम् । प्राणापहारपरिवर्तितदृष्टि दृष्टं कर्णेन तत्कथमिवाननपङ्कजं ते ॥ १० ॥ सूतः—आयुष्मन्, अलमत्यन्तदुःखावेगेन । दुर्योधनः—सूत, पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः— प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना । अन्वयः—ते, पर्याप्तेनेत्रम्, अचिरोदितचन्द्रकान्तम्, उद्भिद्यमाननवयौवनरम्य- शोभम्, प्राणापहारपरिवर्तितदृष्टि, तव, आननपङ्कजम्, कथमिव, कर्णेन, दृष्टम्॥१०॥ पर्याप्तेति—ते = तव वृषसेनस्य, पर्याप्तेनेत्रं = पर्याप्तं नेत्रं यस्मिन् तत्, दीर्घ- नेत्रमित्यर्थः । पर्याप्तेनेत्रमित्यादि दृष्टमित्यन्तम् आननपङ्कजेन्वेति । अचिरोदित- चन्द्रकान्तं = त्वरितोदितेन्दुसदृशसुन्दरम, उद्भिद्यमाननवयौवनरम्यशोभम् = उद्भि- द्यमानं प्रादुर्भूयमानम् यन्नवयौवनं ( तरुणता ) तेन रम्या शोभा यस्य तत्, प्राणा- पहारपरिवर्तितदृष्टि = प्राणविनाशविपरीतदर्शनम्, आननपङ्कजं = पङ्कजं कमलमिव , आननं मुखम्, 'उपमितं व्याघ्रादिभिरि'ति समासः । कथमिव कर्णेन दृष्टम् तदा कर्णस्य कीदृशी व्यथाऽभूदिति भावः । अत्र चतुर्थचरणे लुप्तोपमालङ्कारः । वसन्त- तिलका छन्दः ॥ १० ॥ अन्वयः—प्रत्यक्षम्, हतबन्धूनाम्, ( अस्माकम् ), हृदयम्, परिभवाग्निना, अत्यर्थम, दह्यते, ( अतः ) कुतः, दुःखम्, कुतः, व्यथा ॥ ११ ॥ प्रत्यक्षं = समक्षं न तु परोक्षम्, हतबन्धूनां = व्यापादितबान्धवानाम्, अस्माकं प्रेमी ! हाय कर्णवंश के अङ्कुर ! हाय दुश्शासन के सदृश प्रिय ! हाय सब बड़े लोगों के दुलारे ! मुझे उत्तर दो । विशाललोचन, बालचन्द्रमा के सदृश रम्य, उमंगते हुए अभिनव यौवन की छटा से सुशोभित और प्राणान्त होनेके कारण विकृत दृष्टिसे युक्त तुम्हारे मुखकमलको कर्णने किस प्रकार से देखा अर्थात् इस तरह के हृदयविदारक दृश्य को किस प्रकार देखा होगा ॥१०॥ सूत—श्रीमन् ! अधिक दुःखावेश में पड़ने की आवश्यकता नहीं । दुर्योधन—सूत ! भाग्यवान् लोग ही दुःख के भागी होते हैं । हम लोगों का तो— जिनके कुटुम्बियों का वध हो गया है ऐसे व्यक्तियों का हृदय तो अपमान की ज्वाला से,
१६० वेणीसंहारं नाटकं
हृदयं दह्यतेऽत्यर्थं कुतो दुःखं कुतो व्यथा ॥ ११ ॥
(इति मोहमुपगतः ।)
सूतः—समाश्वसितु समाश्वसितु महाराजः । (इति पटान्तेन वीजयति ।)
दुर्योधनः—(लब्धसंज्ञः ।) भद्र सुन्दरक, ततो वयस्येन किं प्रतिपन्न-
मङ्गराजेन ।
सुन्दरकः —तदो अ देव, तथाविधस्स पुत्तस्सदसणेण संगलिदं अस्सु-
जादं उज्झिअ अणवेक्खिदवरप्पहरणालोएण सामिणा अभिजुत्तो धणं-
जओ । तं अ सुतवहामरसुरिद्दोविदपवककम तह परिवक्कमन्तं पेक्खिअ
णउलसहदेवपञ्चालप्पमुहेहि अन्तरिदो धणंजअस्स रहवरो । (ततश्च देव,
तथाविधस्य पुत्रस्य दर्शनेन संगलितमश्रुजातमुज्झित्वाऽनपेक्षितपरप्रहरणेन स्वामि-
-------------------------------------------------------------
हृदयम् = अन्तःकरणम् , परिभवाग्निना = परिभव एवाग्निः तेन, अत्यर्थं दह्यते =
भस्मसात्क्रियते, वेदान्तिमते अन्तःकरणस्य दुःखसमवायित्वेन अन्तःकरणरूपाधारस्य
दाहे सति आधारस्याभावेन आधेयदुःखस्याभावादुक्तं—‘कुतो दुःखं कुतो व्यथे’ति ।
यद्यपि ‘पीडा बाधा व्यथा दुःखमामनस्य प्रसृतिजम्’ इति कोशे व्यथादुःखयोः
पर्यायत्वेनोक्तेः पुनरुक्त्या कुतो दुःखं कुतो व्येत्युभयग्रहणमयुक्तं तथापि व्यथाशब्दः
शारीरिकदुःखे उपचर्यते । अत्र द्वितीयचरणे रूपकमलङ्कारः । पथ्यावक्त्रं
छन्दः ॥ ११ ॥
पटान्तेन = वस्त्रान्तेन, वीजयति = व्यजनक्रियां करोति ।
वयस्येन = मित्रेण, अङ्गराजेन, किम् प्रतिपन्नं = कृतम् ।
तथाविधस्य = मृत्युमुखं प्राप्तस्य, सङ्गलितं = प्रच्युतम्, उज्झित्वा = पृथक्कृत्य,
-------------------------------------------------------------
प्रत्यक्षरूप से ही जला करता है फिर उन्हें दुःख और वेदना कहाँ अर्थात् दुःख और सुख
का सम्बन्ध तो अन्तःकरण से हुआ करता है यदि अन्तःकरण ही जल गया तो दुःख और
सुख की प्रतीति किसको होगी ? ॥ ११ ॥
(चेतनारहित हो जाता है)
सूत—धैर्य धरें, महाराज धैर्य धरें । (वस्त्राञ्चल से पंखा करता है)
दुर्योधन—(चैतन्य होकर) भाई सुन्दरक ! तो फिर मित्र कर्ण ने क्या किया ?
सुन्दरक—इसके अनन्तर महाराज ! इस प्रकार की दुर्दशा में पड़े हुए पुत्र के देखने
से झरते हुए अश्रुजलों को रोककर शत्रुओं के प्रहार की उपेक्षा करके स्वामी कर्ण ने अर्जुन
को आक्रान्त कर लिया । और उन्हें [कर्ण को] पुत्रवध के क्रोध से उदीप्त पराक्रम के