वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१५ दुर्योधनः — ( श्रुत्वा । साशङ्कम् ।) आः, केनेदमविस्पष्टमशनिपातदारुण- मुद्घोषितम् । कः कोऽत्र भोः । ( प्रविश्य संभ्रान्तः । ) सूतः —हा, हताः स्मः ( इत्यात्मानं पातयति ।) दुर्योधनः —अयि, कथय । धृतराष्ट्रसंजयौ —कथ्यतां कथ्यताम् । सूतः —आयुष्मन्, किमन्यत् । शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघोऽयम् । शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ११ ॥ अशनिपातदारुणम् = वज्रनिपातवद्भयावहम्, दारुणो 'रसभेदे ना त्रिषु तु स्याद्भयावहे' इति विश्वः । उद्घोषितम् = शब्दितम् । अन्वयः—शल्येन, प्रविशता, यथा, जनौघः, मूर्च्छितः ( भवति ) ( तथा ) मनोरथम् इव, शून्यम्, कर्णस्य, रथम्, अधिरूढेन, शल्येन, अयम्, जनौघः, मूर्च्छितः, ( अस्ति ) ॥ ११ ॥ शल्येनेति । शल्येन = शङ्कुनामकास्त्रविशेषेण 'वर्छा' इति ख्यातेन, प्रविशता । जनौघोऽयमित्यादिः । यथा, जनौघो मूर्च्छितः, भवतीति शेषः । तथा मनोरथम्, इव, शून्यम्, कर्णस्य रथम्, अधिरूढेन = आरूढेन शल्येन = शल्यनामकनृपेण सारथीभूतेन, अयम्, जनौघः = मदीयसैन्यम्, मूर्च्छितः, अस्तीति शेषः । यमकं पूर्णोपमा चालङ्कारः । आर्या छन्दः ॥ ११ ॥ दुर्योधन—( सुनकर शङ्का के साथ ) अरे ! यह वज्रपात सदृश दुःसह उद्घोष अव्यक्त रूप से किसने किया है ? कौन है; कोई यहाँ पर है ? ( प्रवेश करके व्याकुलाहट के साथ ) सूत—हाय ! हम लोग मर गए !! ( यह कह कर अपने को गिरा देता है ) . दुर्योधन—अरे ! कहो ! कहो । धृतराष्ट्र और संजय—कहो ! कहो ? सूत—चिरञ्जीविन् ! दूसरा क्या......? जिस प्रकार प्रविष्ट होने वाले बाणों की नोक से जनसमूह मूर्च्छित हो जाता है उसी प्रकार मनोरथ की भाँति शून्य कर्ण के रथ पर बैठकर प्रवेश करते हुए शल्य ने जनसमूह को मूर्च्छित कर दिया है अर्थात् शल्य को अकेला कर्ण के रथ पर बैठकर आते हुए देख कर लोग कर्ण की मृत्यु की शङ्का करके व्याकुल हो रहे हैं ॥ ११ ॥
२१६ वेणीसंहारं नाटकं दुर्योधनः- हा वयस्य कर्ण ( इति मोहमुपगतः । ) गान्धारी-जाद, समस्सस समस्सस । (जात, समाश्वसिहि । समाश्वसिहि ।) संजयः- समाश्वसितु देवः । धृतराष्ट्रः- भो कष्टं कष्टम्- भीष्मे द्रोणे च निहते य आसीदवलम्बनम् । वत्सस्य च सुहृच्छूरो राधेयः सोऽप्ययं गतः ॥ १२ ॥ वत्स, समाश्वसिहि समाश्वसिहि । ननु भो हतविधे, अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः सह भार्ययाऽहम् । अन्वयः - भीष्मे, द्रोणे, च निहते, यः, वत्सस्य, सुहृद् शूरः च, अवलम्बनम्, आसीत्, सः, राधेयः, अप्ययम् गतः ॥ १२ ॥ भीष्म इति । भीष्मे, द्रोणे, च, निहते, एतादृशवीरयोर्निपातेऽपि आसीदाशा यत् कर्णो विजेत्ता स्यात्सोऽपि नास्तीत्याह-य आसीदिति । यः, वत्सस्य = पुत्रस्य सुहृत् शूरः, च राधेयः = कर्णः, अवलम्बनम् = आश्रयः आसीत्, स. = कर्णः, अप्ययम् = विनाशम् गतः । अनुष्टुप् छन्दः ॥ १२ ॥ हतविधे = दुर्देव, 'विधिर्विधाने दैवेऽपि' इत्यमरः । अन्वयः - अनुभूतशतपुत्रविपत्तिदुखः, अन्धः, अहम्, भार्यया, सह, शोच्याम्, दशाम्, उपगतः, अशेषितसुहृद्गुरुबन्धुवर्गे, अस्मिन्, दुर्योधने, अपि, भवता, हि, निराशः, कृतः ॥ १३ ॥ अन्धोऽनुभूतेति । अनुभूतशतपुत्रविपत्तिदुःखः = अनुभूतं शतपुत्राणां विपत्ति- दुःखं विनाशजन्यशोको येन सः, भार्यया = स्त्रिया गान्धार्या, सह, अन्धः अहम्, शोच्याम् = शोचनीयाम् दशाम्, उपगतः = प्राप्तः । तथापि तव सन्तोषो न जातो दुर्योधन-हाय ! मित्र कर्ण ! (ऐसा कहकर मूर्च्छित हो जाता है) गान्धारी-बेटा ! धैर्य धारण करो, धैर्य धारण करो । संजय-महाराज ! धैर्य रखिये, धैर्य रखिये । धृतराष्ट्र-विपत्ति ! विपत्ति !! भीष्म और द्रोण के मारे जाने के पश्चात् मेरे पुत्र का परम मित्र, वीर कर्ण जो सहायक था वह भी अब समाप्त हो गया ॥ १२ ॥ पुत्र ! धैर्य धारण करो । अरे क्रूर विधाता ! तुमने मुझ अन्धे को, जो सौ पुत्रों के नाश से दुःखित है तथा धर्मपत्नी के साथ
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१७ तस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे दुर्योधनेऽपि कृतो भवता निराशः ॥ १३ ॥ वत्स दुर्योधन, समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च । दुर्योधनः- ( लब्धसंज्ञः । ) अयि कर्ण कर्णसुखदां प्रयच्छ मे गिरमुद्गिरन्निव मुदं मयि स्थिराम् । सत्तताऽवियुक्तमकृताऽप्रियं प्रिय वृषसेनवत्सले ! विहाय यासि माम् ॥ १४ ॥ हे हतविधे इत्याह - अस्मिन्निति । अशेषितसुहृद्गुरुबन्धुवर्गे = अशेषितः अनवशिष्टः सुहृद्गुरुबन्धूनां वर्गः समुदायः यस्य तस्मिन्, सर्वेषां विनाशादिति भावः । अस्मिन्, दुर्योधनेऽपि, भवता = हतविधिना, हि = निश्चयेन निराशः = आशारहितः अनाश्रयः, कृतः अत्र काव्यलिङ्गमलङ्कारः । वसन्ततिलका छन्दः ॥ १३ ॥ लब्धसञ्ज्ञः - प्राप्तचेतन्यः विगतमूर्च्छ इत्यर्थः । अन्वयः - अयि, कर्ण, मयि, स्थिराम्, मुदम्, उद्गिरन्, इव, कर्णसुखदाम्, गिरम् मे प्रयच्छ, (हे) प्रिय, वृषसेनवत्सल, सततावियुक्तम्, अकृताप्रियम्, माम्, विहाय, यासि ॥ १४ ॥ अयि कर्ण मे = मह्यम्, गिरम् = वाणीम्, प्रयच्छ = देहि, कीदृशीं गिरमित्याह- कर्णसुखदाम् = श्रवणप्रीतिजनिकां, क इव, मयि = दुर्योधने, स्थिराम्, मुदम् = प्रीतिम्, उद्गिरन् = उद्बमन्, हे प्रिय = मित्र, सततावियुक्तम् = सततम् अवि- युक्तम्, सर्वदा, एकत्र स्थितम् । एतेन मम त्यागस्त्वानुचित इति ध्वनितम् । एकत्र स्थितावपि कृतानिष्टोऽहमित्यपि नेत्याह = अकृताप्रियमिति । अकृताप्रियम् = अस- म्पादिनानिष्टम्, तया चैतादृशमित्रस्य परित्यागे स्वयमेव सम्बोधनद्वारा बीजमाह- वृषसेनवत्सलेति । यतस्त्वं वृषसेने स्निग्धः वृषसेनस्तु स्वर्गंतोऽस्तस्त्वमपि तत्रैव दयनीय दशा को प्राप्त हुआ है, मित्र, गुरु और कुटुम्बियों के वर्ग के समाप्त हो जाने पर [ अवशिष्ट ] इस दुर्योधन के विषय में हताश कर दिया है ॥ १३ ॥ बेटा दुर्योधन ! धैर्य रखो, और तपस्विनी माता को धैर्य प्रदान करो ! दुर्योधन - ( चेतना को प्राप्त होकर ) अये कर्ण ! चिरस्थायी आनन्द की वर्षा करते हुए मुझे श्रुतिमधुर उत्तर दो । सर्वदा मुझ से भिन्न न रहने वाले तथा अहित न करने वाले ऐ वृषसेनप्रिय ! मेरा परित्याग कर क्यों जा रहे हो ? अर्थात् सर्वदा मेरे साथ रहकर मधुर भाषण करते हुए मेरे उपकार में लीन रहा करते थे अब पुत्र के स्नेह के कारण मुझे छोड़कर क्यों जा रहे हो ? ॥ १४ ॥
२१८ . वेणीसंहारं नाटकं ( पुनर्मोहमुपगतः । सर्वे समाश्वासयन्ति । ) दुर्योधनः— मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते । उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात ! का कथा ? ॥ १५ ॥ अपि च । शोचामि शोच्यमपि शत्रुहतं न वत्सं दुःशासनं तमधुना न च बन्धुवर्गम् । गच्छसीति भावः । माम् = एतादृशं दुर्योधनम्, विहाय = त्यक्त्वा, यासि । अत्र प्रथमे यमकं द्वितीये उपमा चतुर्थे पदार्थगतकाव्यलिङ्गमलङ्कारः । मञ्जुभाषिणी छन्दः ॥ अन्वयः—मम, प्राणाधिके, तस्मिन्, अङ्गानाम्, अधिपे हते ( सति ) अहम्, उच्छ्वसन्, अपि, लज्जे, ( हे ) तात, आश्वासे, का कथा ॥ १५ ॥ कर्णाभावेऽहं जीवामीत्यपि महदाश्चर्यमित्याह—ममेति । मम, प्राणाधिके=प्राणेभ्योऽपि श्रेष्ठे, तस्मिन्, अङ्गानाम्=अङ्गदेशानाम्, ‘अङ्गं- गात्रे प्रतीकोपाययोः पुंस्यम्नि नीवृति’ इति मेदिनी । नीवृत् देशः तदुक्तममरे- ‘नीवृज्जनपदो देशः ।’ अधिपे, हते ( सति ) अहम्, उच्छ्वसन् = श्वासं गृह्णन्, अपि, लज्जे ( तया च हे ) तात आश्वासे = धैर्यधारणे, का, कथा = चर्चा, आश्वा- सस्तु नैव सम्भवतीत्याशयः । अनुष्टुप् छन्दः ॥ १५ ॥ अन्वयः—शोच्यम्, अपि शत्रुहतम् वत्सम्, दुःशासनम्, न शोचामि, अधुना न च, तम्, बन्धुवर्गम्, ( शोचामि ) येन, कर्ण, अतिदुःश्रवम्, असाधु, कृतम्, तस्य, कुलस्य, निधनम्, समरे, कर्ता, अस्मि, ॥ १६ ॥ कर्णघातिनः कुलं विनाशयिष्यामीत्याह—शोचामीति । शोच्यम् = अवश्यशोचनीयम्, अपि अनुजत्वादवश्यशोचनीयत्वात् । शत्रुह- तम्, वत्सम् = अनुजम्, दुःशासनम्, न शोचामि, अधुना, न च, बन्धुवर्गम्, ( यह कहकर फिर चेतनारहित हो जाता है और सब लोग धैर्य प्रदान करते हैं ) दुर्योधन—मेरे प्राणों से बढकर उस अङ्गनरेश [ कर्ण ] के मर जाने पर जीवित रहने में भी मुझे लज्जा मालूम पड़ती है, धैर्य की बात तो दूर रही ॥ १५ ॥ और भी— इस समय न तो शोक करने के योग्य शत्रु के द्वारा मारे गए, प्रिय दुःशासन का शोक और न अपने बन्धु तथा गुरुवर्गों का शोक करता हूँ किन्तु जिसने कर्ण के विषय में
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१९ येनातिदुःश्रवमसाधु कृतं तु कर्णे कर्ताऽस्मि तस्य निधनं समरे कुलस्य ॥ १६ ॥ गान्धारी—जाद, सिढिलेहि दाव क्खणमेत्तं वाष्पमोक्खम् । (जात, शिथिलय तावत्क्षणमात्रं वाष्पमोक्षम् ।) धृतराष्ट्रः—वत्स, क्षणमात्रं परिमार्जयाश्रूणि । दुर्योधनः— मामुद्दिश्य त्यजन्प्राणान् केनचिन्न निवारितः । तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥ १७ ॥ सूत, केनैतदसंभावनीयमस्मत्कुलान्तरं कर्म कृतं स्यात् । शोचामि, इत्यनेनान्वयः । येन कर्त्रा, कर्णे, अतिदुःश्रवम् = अश्रवणार्हम्, असाधु = अनुचितम् हननमित्यर्थः । कृतम्, तस्य, कुलस्य = वंशस्य, निधनं = हननम् विनाश- मित्यर्थ । समरे, कर्ता, कृधातोस्तृन् प्रत्ययः अतो, 'न लोकाव्यये'ति षष्ठीनिषेधाद् द्वितीया । अस्मि, पाण्डवक्षयमन्तरा किमपि न करिष्यामीति भावः । वसन्ततिलका छन्दः ॥ १६ ॥ अन्वयः—माम्, उद्दिश्य, प्राणान्, त्यजन्, (यः,) केनचित्, न, निवारितः, तत्कृते, वाष्पम्, त्यजतः, दीनस्य, मे, किम् वार्यते ॥ १७ ॥ मामिति । माम् = दुर्योधनम्, उद्दिश्य = अभिलक्षीकृत्य, प्राणान्, त्यजन्, य , इति शेषः । केनचित्, न, निवारितः, तत्कृते = तस्य कर्णस्यार्थम्, वाष्पम् = अश्रु, त्यजतः, दीनस्य = दुर्गतस्य, मे = मम, किम् = कथम्, वार्यते त्वयेति शेषः । अनुष्टुप् छन्दः ॥ १७ ॥ असम्भावनीयम् = कर्णवधरूपम्, अस्मत्कुलान्तरम् = कौरववंशविनाशकम्, अनिष्ट आचरण, जो कानों के लिए अत्यन्त दुःखद है, किया है, सङ्ग्राम में मैं उसके कुल का विनाश करनेवाला हूँ अर्थात् कर्ण के वध करनेवाले के कुल में किसी को जीवित न छोड़ूँगा ॥ १६ ॥ गान्धारी—पुत्र ! क्षण मात्र के लिये अश्रुपात को अवकाश दे दो । धृतराष्ट्र—पुत्र ! क्षण मात्र के लिए आँसुओं को पोंछ लो । दुर्योधन—मेरे लिये प्राणोत्सर्ग करते हुए (कर्ण को) किसी ने निषेध नहीं किया ; उसके लिए (कर्ण के लिए) अश्रुपात करते हुए मुझ बेचारे को क्यों निवारण किया जाता है ? ॥ १७ ॥ ऐ सूत ! मेरे कुल की समाप्ति करने वाला यह कार्य, जिसकी कभी सम्भावना नहीं की जाती थी, किसने किया होगा ?
२२० वेणीसंहारं नाटकं सूतः -आयुष्मन्, एवं किल जनः कथयति । भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य । निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ १८ ॥ दुर्योधनः— कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः । वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ १९ ॥ तात, अम्ब प्रसीदतम् । यदि कर्णो हतस्तदा तद्वियोगस्यासह्यत्वादहमपि न जीवितुं शक्नोमि अथवा कर्ण- हन्तारं हन्तुं महासङ्ग्रामप्रवृत्तत्वान्ममापि प्राणसंशय इति भावः । अन्वयः—चक्रायुधसारथेः, अस्मत्सेनाकृतान्तस्य, तस्य, इन्द्रसूनोः, शरैः, भूमौ, निमग्नचक्रः ( कर्णः ) निहतः, किल ॥ १८ ॥ अर्जुनः कर्णं हतवानित्याह - भूमाविति । चक्रायुधसारथेः = चक्रम् आयुधम् यस्य स सारथिः यस्य, अस्मत्सेनाकृतान्तस्य = अस्मत्सैन्यस्य कृतान्तः यमराजः तस्य, तस्य = प्रसिद्धस्य, इन्द्रसूनोः = अर्जुनस्य, शरैः, भूमौ, निमग्नचक्रः = निमग्नं चक्रं रथाङ्गं यस्य सः 'चक्रः कोके पुमान् क्लीवं व्रजे सैन्यग्थाङ्गयोः' इति मेदिनी । कर्णः, इति शेषः । निहतः, किल । अर्जुनस्तस्य हन्तेति भावः । कर्णस्याभिशाप आसीद् यदासन्नमरणे तव रथाङ्गं भूमौ निमग्नः स्यादिति भूमौ चक्रं निमग्नम् । आर्या छन्दः । अन्वयः— कर्णाननेन्दुस्मरणात्, क्षुभितः, शोकसागरः, वाडवेन, इव मे, क्रोध- जेन, शिखिना, पीयते ॥ १९ ॥ कर्णेति । कर्णाननेन्दुस्मरणात् = कर्णमुखचन्द्रस्मृतेः क्षुभितः = उद्वेलितः, शोक- सागरः इव, मे = मम, क्रोधजेन, वाडवेन = वाडवानलेन इव शिखिना = अग्निना, पीयते = शोष्यते, अत्रोपमालङ्कारः । अनुष्टुप् छन्दः ॥ १९ ॥ सूत—महाराज ! लोग तो इस प्रकार कहते हैं— भूमि के भीतर रथ के चक्के ( पहिया ) के धँस जाने पर मेरी सेना के लिए अन्तक (यम) इन्द्रपुत्र अर्जुन के, जिनके सारथी चक्ररूपशस्त्रधारी भगवान् वासुदेव हैं बाणों से मारा गया ॥ १८ ॥ दुर्योधन—कर्ण के मुखचन्द्र का स्मरण करके शोकसमुद्र विक्षुब्धित हो उठा है । मेरे क्रोध से उत्पन्न ज्वाला वाडवाग्नि की भाँति उसका पान कर रही है ॥ १९ ॥ पिताजी और माता जी ! आप लोग क्षमा करें ।
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२१ ज्वलनः शोकजन्मा मामयं दहति दुःसहः । समानायां विपत्तौ मे वरं संशयितो रणः ॥ २० ॥ धृतराष्ट्रः—( दुर्योधनं परिष्वज्य रुदन् । ) भवति तनय लक्ष्मीः साहसेष्वीदृशेषु द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् । अन्वयः – दुःसहः, शोकजन्मा, अयम्, ज्वलनः, माम्, दहति, ( एवं ) समा- नायाम्, विपत्तौ, मे, संशयितः, रणः, वरम् ॥ २० ॥ ज्वलन इति । दुःसहः, शोकजन्मा = शोकाज्जन्म यस्य सः, अयम्, ज्वलनः = अग्निः, माम् दहति = भस्मीकरोति, ( एवं सति ) समानायाम् = तुल्यायाम्, यदि सङ्ग्राममपि न करिष्यामि तदापि दाहान्मम मृत्युः स्यादेवातः सङ्ग्रामकरणाकरण- योस्तुल्यत्वम् । विपत्तौ, मे संशयितः = प्राणसंशयस्थानम्, रणः = समरः, वरम् = श्रेष्ठ । रणगमनं युक्तमस्माकं कदाचिज्जयोऽपि स्यादिति भावः । अनुष्टुप् छन्दः ॥ अन्वयः—( हे ) तनय, ईदृशेषु, साहसेषु लक्ष्मीः भवति, ( परम् ) भीमम्, भीमम्, उत्प्रेक्ष्य, एतत्, हृदयम्, द्रवति ( हे ) मानशौण्ड, ते चेष्टितम् अनिकृति- निपुणम्, अरीणाम् सङ्गरम् छलवहुलम्, ( अतः ) हा, हतः अस्मि ॥ २१ ॥ त्वं निश्छलः पाण्डवाश्छलीति कथं तव विजयः स्यादित्याह-भवतीति । तनय= हे पुत्र । ईदृशेषु = सहायकाभावेऽपि युद्धगमनरूपेषु, साहसेषु लक्ष्मीः, भवति । सत्यं संशयः साहसेष्विति पाठे साहसेषु = युद्धगमनरूपेषु सत्यम् संशयः = जया- जयविषयकसन्देहः, भवति, पूर्वपाठे परिमितव्यवहारः । उत्तरपाठे संशये हेतु माह—द्रवतीति । भीमम् भीषणम् भीमम् = भीमसेनम् उत्प्रेक्ष्य = विज्ञाय, एतत्, हृदयम्, द्रवति = भयाच्छिथिलीभवति, हे मानशौण्ड- मानमत्त 'शौण्डौ मत्ते च विख्याते' इति विश्वः । ते=तव, चेष्टितम् = व्यापारः, अतिकृतिनिपुणम् = शोक से उत्पन्न असह्य यह शोकाग्नि मुझे भस्म कर रहा है यदि दोनों प्रकार की विपत्तियाँ [ युद्ध में मृत्यु पाना, शोकाग्नि में भस्म होना ] एक ही प्रकार की हैं तो संशय- ग्रस्त युद्ध श्रेयस्कर होगा । अर्थात् शोक की ज्वाला से जलना ही पड़ेगा । युद्ध में तो मृत्यु. निश्चित नहीं है कदाचित् मैं विजयी बन जाऊँ तो मृत्यु से बच जाऊँगा ऐसी अवस्था में शोक- की ज्वाला में जलने की अपेक्षा युद्ध में जाना मेरे लिये अच्छा होगा ॥ २० ॥ धृतराष्ट्र—दुर्योधन का आलिङ्गन करके रोते हैं । पुत्र ! इस प्रकार के उत्साह से लक्ष्मी की प्राप्ति [ अवश्य ] होती है, [ परन्तु ] इस भयङ्कर भीम को देखकर मेरा हृदय विदीर्ण हो रहा है । हे मानियों में अग्रगण्य ! तुम्हारा
२२२ वेणीसंहारं नाटकं अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड छलबहुलमरीणां सङ्गरं हा हतोऽस्मि ॥ २१ ॥ गान्धारी—जाद, तेण एव सुदसडकन्दन्तेण विओदलेण समं समलं अग्गसि । ( जात, तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे । ) दुर्योधनः —तिष्ठतु तावद् वृकोदरः । पापेन येन हृदयस्य मनोरथो मे सर्वाङ्गचन्दनरसो नयनामलेन्दुः । पुत्रस्तवाम्ब तव तात नयैकशिष्यः निकृतौ क्षेपे निपुणम् निकृतिनिपुणम् न निकृतिनिपुणम् अनिकृतिनिपुणम् क्षेपाकुशलम्, छलरहितमित्यर्थः । अरीणाम् सङ्गरम् = सङ्ग्रामम्, छलवहुलम् = बहुस्खलितम्, युद्धमर्यादारहितमित्यर्थः । 'अथ स्खलितं छद्म'त्यमरः ( अतः ) हा=दुःखम् 'हा विषादे च शोके च कुत्सादुःखार्थयोरपि' इति मेदिनी । हतः, अस्मि, पाण्डवयुद्धं द्रोण- भीष्मयोश्छलेन हतत्वात् छलवहुलम् । अतस्तव जयाऽसम्भव इति युद्धगमनं न वर- मिति भावः । मालिनी छन्दः ॥ २१ ॥ वृकोदरेण = भीमेन, समरम्, मार्गयसे = अन्वेषयसि । अन्वयः—येन, पापेन मे, हृदयस्य, मनोरथः, सर्वाङ्गचन्दनरसः, नयनाम- लेन्दुः, ( हे ) अम्ब, तव पुत्रः, ( हे ) तात, तव, नयैकशिष्यः, कर्णः, हतः, तत्र, शराः, संपदि, पतन्तु ॥ २२ ॥ साम्प्रतमर्जुन एव हन्तव्य इत्याह—पापेनेति । येन, पापेन = पापिना, भूमौ निमग्नचक्रस्य कर्णस्य, वधादिति भावः । मे=मम, हृदयस्य, मनोरथः, सर्वाङ्गचन्दन- रसः = सर्वशरीरानन्दजनकत्वाच्चन्दनरसतुल्यः, नयनामलेन्दुः = नेत्रानन्दजनकत्वा- त्स्वच्छचन्द्रतुल्यः, हे अम्ब=मातः, तव, पुत्रः, अतिप्रियत्वात्पुत्रतुल्यः हे तात, तव चेष्टित ( युद्ध ) छलछिद्रों से रहित होता है और शत्रुओं का साँग्रामिक व्यापार कूटनीतिपूर्ण रहता है । हाय मेरा सर्वनाश हो गया ॥ २१ ॥ गान्धारी—पुत्र ! क्या मेरे सौ कुमारों के लिए यमराज भीमसेन से युद्ध का अवसर खोज रहे हो । दुर्योधन—भीम बैठा रहे । जिस दुरात्मा ने मेरे मनोऽभिलाष, सम्पूर्ण शरीर के लिए चन्दनरस और नेत्रों के लिये विशद चन्द्र के सदृश कर्ण को, जो हे माताजी ! तुम्हारा पुत्र और हे पिताजी ! नीति-
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२३ कर्णो हतः सपदि तत्र शराः पतन्तु ॥ २२ ॥ सूत, अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवे- भ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि । सूतः-अलमन्यथा संभावितेन । अयमहमागत एव । (इति निष्क्रान्तः ।) धृतराष्ट्रः-वत्स, दुर्योधन, यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसाय- स्तत्सन्निहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् । दुर्योधनः-नन्वभिषिक्त एव । गान्धारी-जाद, कदरो उण सो जस्सि आसं ओलम्बिस्सम् । (जात, कतरः पुनः स यस्मिन्नाशामवलम्बिष्ये ।) नयैकशिष्यः = नये नीतौ एकशिष्यः प्रधानच्छात्रः, कर्णः, हतः, तत्र = अर्जुने, शराः सपदि = शीघ्रम्, पतन्तु । सम्प्रति भीमसेनं विहायार्जुनमेव हनिष्यामीति भावः । अत्र रूपकमलङ्कारः । वसन्ततिलका छन्दः ॥ २२ ॥ कालातिपातेन = समययापनेन समयस्य व्यर्थविनाशनेनेत्यर्थः । उपाहर = आनय । गदामात्रसहायः = गदामात्रं सहायः सहाय्यकर्ता यस्य सः । अन्यथा = पाण्डवेभ्यः भयं चेदिति, सम्भावितेन = सम्भावनया भावे क्तः । अभिषिच्यताम् = नियुज्यताम् । शास्त्र में आपका शिष्य था, मारा है शीघ्र ही उस पर वाणवृष्टि हो अर्थात् कर्ण के वध करने वाले पर शीघ्र ही प्रहार करूँगा ॥ २२ ॥ सूत ! अब समय व्यतीत करना नहीं चाहिए । मेरा रथ तैयार कर लाओ । यदि पाण्डुपुत्रों से डर लगता हो तो रहने दो । केवल गदा को सहायक बनाकर युद्धस्थल में जा रहा हूँ । सूत-प्रतिकूल विचार मत कीजिए । यह मैं आ ही पहुँचा (यह कह कर चला जाता है)। धृतराष्ट्र-पुत्र दुर्योधन ! यह तुम्हारा विचार यदि हम लोगों को संतप्त करने के लिए निश्चय हो चुका हो तो समीपवर्ती योद्धाओं में से किसी को सेनानायक पद पर अभिषिक्त कर दो (अर्थात् सेनापति बना दो) । दुर्योधन-अभिषिक्त कर लिया हूँ । गान्धारी-पुत्र ! वह कौन है जिस पर अपनी आशा को अवलम्बन करूँ अर्थात् जिसके आश्रित रहूँ ?
२२४ वेणीसंहारं नाटकं
धृतराष्ट्रः—किं वा शल्य उत वाऽश्वत्थामा । संजयः—हा कष्टम् । गते भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजञ्छल्यो जेष्यति पाण्डवान् ॥ २३ ॥ दुर्योधनः—किं वा शल्येनोत वाऽश्वत्थाम्ना । कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा । शल्य = मद्रपतिः, अश्वत्थामा = द्रोणपुत्रः । उतशब्दो विकल्पे 'आहो उताहो किमुत विकल्पे' इत्यमरः । अन्वयः—भीष्मे, गते, द्रोणे, हते, कर्णे, च, विनिपातिते (हे) राजन्, शल्यः, पाण्डवान्, जेष्यति, आशा, बलवती, ( भवति ) ॥ २३ ॥ एतादृशेषु वीरेषु सेनापतिषु सत्सु यदि विजयो न जातः तदा शल्येन विजय- स्याशा व्यर्थेत्याह—गते—भीष्म इति । भीष्मे, गते = शरशय्यां प्राप्ते, द्रोणे हते, कर्णे च विनिपातिते = हठाद् व्यापादिते ( सति ) हे राजन् शल्यः पाण्डवान् जेष्यति, न जेष्यतीति भावः । आशा = तृष्णा, बलवती, भवतीति शेषः । केवलमाशेव न तु जयः स्यादिति भावः, अनुष्टुप् छन्दः ॥ २३ ॥ अन्वयः—कर्णालिङ्गनदायी, वा, पार्थप्राणहरः, अपि, वा, अयम्, आत्मौ, अनि- वारितसम्पातैः, अश्रुवारिभिः, ( अभिषिक्तः ) ॥ २४ ॥ स्वयमेवाभिषिक्त इत्याह—कर्णालिङ्गनेति । कर्णालिङ्गनदायी = कर्णालिङ्गनं राधासुतपरिष्वजं दातु शीलमस्य, स्वर्गन् कर्णं मृत्वा आलिङ्गयिष्यामीत्यर्थः । मृतः स्यामिति यावत् । वा = अथवा, पार्थप्राणहरः=अर्जुनस्य विनाशकः, वा, अयम् = धृतराष्ट्र—शल्य को अथवा अश्वत्थामा को (सेनापति अभिषिक्त किए हो) ? संजय—हाय ! दुःख !! भीष्म के संहार होने पर, द्रोणाचार्य के वध होने पर तथा कर्ण की जीवनयात्रा समाप्त होने पर शल्य पांडवों पर विजयी होगा । महाराज ! (कदा नहीं) आशा अतीव प्रबल होती है । अभिप्राय यह है—भीष्मपितामह ऐसे वीर जो संसार में अद्वितीय थे और द्रोणाचार्य के समान भी कोई दूसरा वीर नहीं था । वही दशा कर्ण की भी समझिये । जब ये सब वीर इस संग्राम में तलवार के घाट उतारे गये तो फिर क्या आशा की जाय कि शल्य पाण्डवों को युद्ध में जीतेगा ? केवल आशा बलवती है जो कभी नहीं मरती ॥ २३ ॥ दुर्योधन—शल्य अथवा अश्वत्थामा से क्या प्रयोजन । या तो मैं कर्ण का आलिङ्गन करूँगा या अर्जुन के प्राण का हरणकर्त्ता बनूँगा । निरन्तर
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२५ निवारितसम्पातैरयमात्माऽश्रुवारिभिः ॥ २४ ॥ ( नेपथ्ये कलकलं कृत्वा । ) भो भोः कौरवबलप्रधानयोधाः, अलमस्मन्नवलोक्य भयादितो गन्तुम् । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठतीति । ( सर्वे ससंभ्रममाकर्णयन्ति । ) ( प्रविश्य संभ्रान्तः । ) सूतः—आयुष्मन्, प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । सर्वे—कश्च कश्च । मदीयः, आत्मा, अनिवार्यसम्पातैः = अनवरुद्धधाराभिः, अश्रुवारिभिः = अश्रु ने- त्राम्बु एव वारीणि तैः, अभिषिक्त इति पूर्वोक्तस्यानुकर्षः, तथा च यथाभिषेकः, जलेन भवति तथैव जलस्थानीयाश्रुभिर्मम सेनापत्येऽभिषेको जात इति भावः । अत्र रूपकम् अनुष्टुप् छन्दः ॥ २४ ॥ अलम् = दैन्यम्, सुयोधनः = दुर्योधनः । अन्वयः—इतस्ततः, त्वाम्, पृच्छन्तौ, एकरथारूढौ, प्राप्तौ, सः, कर्णारिः स च, वृत्तकर्मा, क्रूरः, वृकोदरः ॥ २५ ॥ प्राप्ताविति । इतस्ततः = यत्र कुत्र, त्वां पृच्छन्तौ = कस्मिन्नुद्देशे सुयोधनस्ति- ष्ठती-त्यद्विषयकप्रश्नं कुर्वन्तौ, एकरथारूढौ = एकरथोयविष्टौ, प्राप्तौ, तौ द्वौ कौ इति धारापात से गिरने वाले अश्रु जलों से स्वयं मैने इस सेनापति का अभिषेक कर लिया है ॥२४॥ ( नेपथ्य में कोलाहल करते हुए ) अरे अरे ! कौरव सैन्य के प्रधान वीरो, हम लोगों को देखकर भय के कारण इधर- उधर पलायन की कोई आवश्यकता नहीं । आप लोग बतलाइए—किस स्थान पर दुर्योधन वर्त्तमान है ! ( सभी व्याकुल होकर सुनते हैं ) ( प्रवेश कर व्याकुलाहट के साथ ) सूत—चिरञ्जीविन् ! एक रथ पर बैठ कर महाराज को पूछते हुए पहुँच गए ! सब लोग—कौन, कौन ! १५ वे०
२२६ वेणीसंहारं नाटकं
सूतः—
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ २५ ॥
गान्धारी—(सभयम् ।) जाद किं एत्थ पडिवज्जिदव्वं ? (जात, किमत्र
प्रतिकर्तव्यम् ।)
दुर्योधनः—ननु सन्निहितैवेयं गदा ।
गान्धारी—हा हदम्हि मन्दभाइणी । (हा हतास्मि मन्दभागिनी ।)
दुर्योधनः—अम्ब, अलमिदानीं कार्पण्येन । संजय, रथमारोप्यं पितरौ
शिविरं प्रतिष्ठस्व । समागतोऽस्माकं शोकापनोदी जनः ।
धृतराष्ट्रः—वत्स, क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।
दुर्योधनः—तात, किमनेनोपलब्धेन ।
(ततः प्रविशति भीमार्जुनौ ।)
पृच्छन्ति—कश्च कश्चेति । ततश्च सारथिराह—स कर्णारिरिति । सः, कर्णारिः =
अर्जुनः, स च, वृककर्मा = वृकः, हुडार इति ख्यातः । तद्वत्कर्म हननादिरूपं यस्य
सः, (अत एव) क्रूरः वृकोदरः = भीमः । अनुष्टुप् छन्दः ॥ २५ ॥
कार्पण्येन = कदर्यतया । शोकापनोदीति = एतस्य विनाशने मम शोकक्षयः
स्यादिति भावः ।
भावम् = अभिप्रायम् । उपलभे = जानामि ।
सूत—
यह कर्ण का शत्रु, अर्जुन और हुड़ार के समान कार्य करने वाला दुरात्मा भीम ॥२५॥
गान्धारी—(भयभीत होती हुई) बेटा ! इसका क्या प्रतिकार करना चाहिये ?
दुर्योधन—यह गदा तो समीप में है ही ।
गान्धारी—हाय ! मैं अभागिनी मरी ।
दुर्योधन—माँ, इस समय भीरुता की आवश्यकता नहीं । संजय ! माता और पिताजी
को रथ पर बैठाकर शिविर में पहुँचा दो । हमलोगों के शोक का अपहरण करने वाला व्यक्ति
उपस्थित हो गया ।
धृतराष्ट्र—बेटा ! क्षणभर के लिये प्रतीक्षा करो तब तक मैं इन दोनों के मनोगत भाव
को समझता हूँ ।
दुर्योधन—पिता जी ! इसके समझने से क्या लाभ ?
(अनन्तर भीम और अर्जुन का प्रवेश)
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२७ भीमः—भो भो सुयोधनानुजीविनः, किमिति सम्भ्रमादयथार्थं चरन्ति भवन्तः ! कथयत तावदिदमावयोरगमनं स्वामिनस्तस्य कुरुपतेः । अल- मावयोः शङ्कया । कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥२६॥ अन्वयः—द्यूतच्छलानाम्, कर्त्ता, जतुमयशरणोद्दीपनः, कृष्णाकेशोत्तरीयव्यप- नयनमरुत्, अभिमानी, यस्य, पाण्डवाः, दासाः, सः, दुःशासनादेः, अनुजशतस्य, गुरुः, अङ्गराजस्य, मित्रम्, राजा, असौ, दुर्योधनः, क्व, आस्ते, ( यूयम् ) कथयत, रुषा, द्रष्टुम्, न अभ्यागतौ, स्वः ॥ २६ ॥ अन्येषां शङ्काभावे कारणमाह-कर्ता द्यूतेति । द्यूतच्छलानां = द्यूतम् अक्षैः क्रीडा तदेव छलानि तेषाम्, कर्ता, जतुमयशरणोद्दीपनः=लाक्षामयगृहप्रज्वालन- हेतुः, लाक्षागृहे वसतां पाण्डवानां दाहार्थं तद्गृहं पुरोचनद्वारा दुर्योधनः, प्रजज्वाल । अभिमानी = अहङ्कारी, कृष्णाकेशोत्तरीयव्यपनयनमरुत् = द्रौपदीकेशाम्बरपृथक्करणेन मरुत् वायुरिव, यस्य, पाण्डवाः, दासाः, सः दुःशासनादेः, अनुजशतस्य, गुरुः = श्रेष्ठः । एतेन यस्य साहाय्येन दीभत्समारितं स तु विनष्ट इति सूचितम् । अङ्ग- राजस्य = कर्णस्य, मित्रम्, राजा = नृपाभिमानी असौ, दुर्योधनः क्व, आस्ते, कथयत, यूयमिति शेषः । अस्य कर्मवाक्यं पूर्वोक्तमस्ति इत्यन्तम् । रुषा = क्रोधेन, ( तम् ) द्रष्टुम्, न, अभ्यागतौ = सम्प्राप्तौ स्वः = विद्वावहे अस्-धातोलंटि वसि, 'श्नसोर- ल्लोपः' इत्यकारस्य लोपः । आवामिति शेषः । इह छलनामकं नाट्याङ्गम् । 'प्रियाभे- दप्रियेर्वाक्यैर्विलोभ्य छलनाच्छलम् ।' इति दर्पणकारवचनात् । स्रग्धरा छन्दः ॥२५॥ भीम—अरे अरे सुयोधन के अनुचरो ! भय से क्यों खड़बड़ा रहे हो ? अपने स्वामी कुरुराज तक हम लोगों के आने के इस सन्देश को पहुँचा दो । हम लोगों के विषय में किसी प्रकार का सन्देह न करो । जुआरूपी कपटों का विधाता, लाक्षानिर्मित भवन का दाहकर्त्ता वह अहङ्कारी राजा दुर्योधन, जो द्रौपदी के केश और वस्त्रों के अपहरण करने में वायु के समान है, पाण्डव लोग जिसके सेवक हैं, दुःशासन प्रभृति सौ भाइयों का जो ज्येष्ठ भ्राता है और कर्ण का परम मित्र है, कहाँ है ? बतलाओ । क्रोध से नहीं, किन्तु केवल उनसे मिलने के लिए हम दोनों आये हुए हैं ॥ २६ ॥
२२८ वेणीसंहारं नाटकं धृतराष्ट्रः—संजय, दारुणः खलूक्षेपः पापस्य । संजयः—तात, कर्मणा कृतनिःशेषविप्रियाः सम्प्रति वाचा व्यवस्यन्ति । दुर्योधनः—सूत, कथय गत्वोभयो 'रयं तिष्ठती'ति । सूतः —यथाऽऽज्ञापयति देवः (तानुपसृत्य ) ननु भो वृकोदराऽर्जुनौ, एष महाराजस्तातेनाऽम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । अर्जुनः—आर्य, प्रसीद । न युक्तं पुत्रशोकोपपीडितौ पितरौ पुनरस्मद्- दर्शनेन भृशमुद्वेलयितुम् । तद्गच्छावः । भीमः—मूढ, अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून् गन्तुम् ( उपसृत्य ।) संजय, पित्रोर्नमस्कृतिं श्रावय । अथवा तिष्ठ स्वयं दारुणः = भीषणम्, उपक्षेपः = फलम् । अथवा भयप्रदर्शनम् । पूर्वपक्षे पाप- स्यर्थः, अघः, उत्तरपक्षे पापिनः भीमस्येत्यर्थः । कर्मणा = क्रियया, कृतनिःशेषविप्रियाः = कृताः निःशेषविप्रियाः सकलापकारा यैः ते, सम्प्रति, वाचा = वाङ्मात्रेण व्यवस्यन्ति = कीर्तयन्ति । तथा च पूर्वमपकारं कृत्वा सम्प्रति कथयति दारुण इति अथवा भीमः पूर्वं दुःशासनादीन् हत्वा साम्प्रतं वाचा दुःखाकरोतीत्यर्थः । उभयोः = भीमार्जुनयोः, अयं = दुर्योधनः । न्यग्रोधच्छायायां = वटच्छायायाम् । सदाचारः = शिष्टव्यवहारः, गुरुजनस्य प्रणामादिरूपस्तदाह—न युक्तमिति । धृतराष्ट्र—संजय ! इस दुरात्मा का दोषारोप तो असह्य है । संजय—पिता जी, कार्य से तो अनिष्ट सीमा तक पहुँचा चुके हैं अब वचन से भी अनिष्ट करने की चेष्टा कर रहे हैं । दुर्योधन—दोनों से जाकर कह दो—'यह बैठे हुए हैं' । सूत—महाराज की जो आज्ञा । (पहले समीप जाकर ) अयि भीमसेन और धनञ्जय ! यह महाराज पिता और माता के साथ वट ( बरगद ) की छाया में बैठे हुए हैं । अर्जुन—आर्य ! क्षमा कीजिए । पुत्रशोक से सन्तप्त माता और पिताजी (गान्धारी और धृतराष्ट्र ) को अपनी आकृति दिखला कर अत्यन्त व्यग्र करना उचित नहीं । अतः [ यहाँ से ] चल दें । भीम—मूर्ख ! सदाचार का उल्लंघन नहीं करना चाहिए ! गुरुजनों को प्रणाम किए बिना जाना उचित नहीं । (समीप जाकर) संजय ! जाकर माता और पिताजी को हम
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२९ विधाव्य नामकर्मणी वन्दनीया गुरवः । ( इति रथादवतरतः ) अर्जुनः - ( उपगम्य । ) तात ! अम्ब, सकलरिरुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ २७ ॥ भीमः - चूर्णिताशेषकौरव्यः क्षीबो दुःशासनाऽसृजा । अन्वयः- यत्र, ते, सुतैः, सकलरिपुजयाशाः बद्धा, यस्य, गर्वेण, लोकः, तृण- मिव परिभूतः, तस्य, राधासुतस्य, रणशिरसि, निहन्ता, अयम्, मध्यमः, पाण्डवः, वाम्, पितरौ, प्रणमति ॥ २७ ॥ सकलेति । यत्र = कर्णे ते = तव, सुतैः, सकलरिपुजयाशा = निखिलशत्रूणां जयाशा जयस्य तृष्णा, बद्धा = स्थापिता, यस्य, गर्वेण, लोकः = जगत् , तृणमिव, परिभूतः = तिरस्कृतः, तस्य राधासुतस्य = कर्णस्य, रणशिरसि = रणः शिर इव तस्मिन्, निहन्ता = विनाशयिता, अयम्, मध्यमः, पाण्डवः = पाण्डुपुत्रः, अर्जुनः, वाम् - युवाम्, पितरौ = मातापितृसदृशौ, 'पिता मात्रा' इत्येकशेषः । प्रणमति = नमस्करोति । मालिनी छन्दः ॥ २७ ॥ अन्वयः - चूर्णिताशेषकौरव्यः, दुःशासनासृजा, क्षीवः, सुयोधनस्य, ऊर्वोः, भङ्क्त्ता, अयम्, भीमः, शिरसा, वन्दति ॥ २८ ॥ तव पुत्रस्य विनाशकोऽहं प्रणमामीत्याह - चूर्णितेति । चूर्णिताशेषकौरव्यः = दोनों का नमस्कार सुना दीजिए। अथवा रहिए स्वयं नाम और कर्म सुनाकर गुरुजनों का अभिवादन करना चाहिये ।
- ( यह कहकर रथ से उतर पड़ते हैं ) अर्जुन- ( समीप आकर ) पिता जी और माता जी ! आपके पुत्र जिसके आधार पर समग्र शत्रुओं पर विजय प्राप्त करने की आशा लगाए हुए थे और जिसके अहङ्कार से संसार तिनके के सदृश तिरस्कृत हुआ उसी रथकार के पुत्र का संग्राम के शीर्ष दलनकारी यह मँझला पाण्डव अर्जुन आप गुरुजनों को प्रणाम करता हैं ॥ भीम- सम्पूर्ण कौरवों का मर्दनकारी दुःशासन के रक्तपान से मत्त यह भीम, जो
२३० वेणीसंहारं नाटकं भङ्क्त्वा सुयोधनस्योर्वोर्भीमोऽयं शिरसाऽञ्चति ॥ २८ ॥ धृतराष्ट्र – दुरात्मन्वृकोदर, न खल्विदं भवतेव केवलं सपत्नानामप- कृतम् यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि । भीमः – तात, अलं मन्युना । कृष्णा केशेषु कृष्टा तव सदसि पुरः पाण्डवानां नृपैर्यैः सर्वे ते क्रोधवह्नौ कृशशलभकुलावज्ञया येन दग्धाः । चूर्णिता अशेषकौरव्या येन सः दुःशासनाऽसृजा = दुःशासनवक्षोरुधिरेण, क्षीवः = मत्तः, सुयोधनस्य, ऊर्वोः = सक्थ्नोः, भङ्क्ता = त्रोटकः, अयम्, भीमः, शिरसा, अञ्चति = पूजयति, प्रणमतीत्यर्थः, अनुष्टुप् छन्दः ॥ २८ ॥ सपत्नानां = शत्रूणाम् । वीरा = समरविजयिनः, जिताः हताश्च, भवन्तीति शेषः । विकत्थनाभिः = प्रशंसाभिः । मन्युना = क्रोधेन । अन्वयः – पाण्डवानाम्, पुरः, तव, सदसि, यैः, नृपैः, केशेषु, कृष्णा, कृष्टा, ते सर्वे, येन, क्रोधवह्नौ, कृशशलभकुलावज्ञया, दग्धा, खलु, एतस्मात्, अहम्, श्रावये भुजबलाश्लाघया, न, नापि, दर्पात्, (श्रावये) तात, पुत्रैः पौत्रैः, च कृते, अतिगुरुणि कर्मणि, त्वमेव, साक्षी ॥ २९॥ महत् पापस्य फलमेतदिति बोधनायोक्तं नतु दर्पादित्याह – कृष्णा केशेष्विति । पाण्डवानाम् , पुरः = अग्रे, एतेन, वलवतः स्वामिनोऽग्र एवाकर्षणमतीव क्रोधहेतु- रिति ध्वनितम् । एकान्ते साधारणमनुष्यसमक्षकचाकर्षणमनर्थकरं किं पुनः राज सभायामित्याह – तव सदसीति । तव = राज्ञ , सदसि = सभायाम्, यैः कर्तृभिरनु- मन्तृभिर्दृष्टृभिर्वा । नृपैः । नतु साधारणमनुष्यैः । केशेषु = केशावच्छेदेन, कृष्णा = पाण्डववधूः, न तु साधारणस्त्री कृष्टा, ते, सर्वे, येन = पापाचरणरूपहेतुना, क्रोधवह्नौ, सुयोधन के जंघों को भग्न करने वाला है, सिर झुकाकर नमन करता है ॥ २८ ॥ धृतराष्ट्र – दुष्ट भीम ! यह शत्रुओं का अपकार केवल तुमने ही नहीं किया है किन्तु जब से क्षत्रिय है तब से कितने ही युद्ध में विजय प्राप्त करने वाले योद्धा बने और नाश को प्राप्त हो गये । तो फिर क्यों इस प्रकार से गाल बजाकर हम लोगों को व्यथित कर रहे हो ? भीम – पिता जी ? बस, क्रोध न कीजिए । जिन राजाओं के द्वारा आप [धृतराष्ट्र] की सभा में पाण्डवों की गृहिणी पाञ्चाली [द्रौपदी] केश ग्रहण करके आकृष्ट की गई है, जिस कारण वे सब क्षुद्र टिड्डियों के कुल की तरह अनायास ही क्रोधाग्नि में भस्म हो गए हैं । इसलिए मैं आपको सुनाता हूँ,
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३१ एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा- त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ २९ ॥ दुर्योधनः-अरे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्य- मारत्मकर्म श्लाघसे ? अपि च । कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी । अस्मिन्वैरा नुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा कृशशलभकुलावजया = क्षुद्रपतङ्गकुलतुल्यापमानेन दग्धाः, खलु = निश्चयेन, एत- स्मात् = इतो हेतोः, अहम् श्रावये, भुजबलश्लाघया न नापि, दर्पात् तात = पितृव्य, पुत्रैः, पौत्रैश्च, कृते, अतिगुरुणि, कर्मणि, त्वमेव, साक्षी = साक्षाद् द्रष्टा । न कपोल- कल्पितं कथयामीति भावः । स्रग्धरा छन्दः । २९ ॥ अन्वयः-मम, भुवनपतेः आज्ञया भूपतीनाम्, प्रत्यक्षम्, द्यूतदासी, तव, पशोः, तव, च तस्य, राज्ञः, तयोः, वा, भार्या, केशेषु कृष्टा, अस्मिन्, वैरानूबन्धे, ये, नरेन्द्राः, हताः, तैः, किम्, अपकृतम्, वद, बाह्वोः, वीर्यातिरेकद्रविणगुरुमदम्, माम्, अजिस्वा एव, दर्पः ॥ ३० ॥ निरपराधिनां तेषां हननाद्गर्वो वृथा तवेत्याह कृष्टेति । मम, भुवनपतेः = पृथवीशस्य, एतेनाज्ञापालकत्वं तेषां धर्म इति ध्वनितम्, आज्ञया, भूपतीनाम्, प्रत्यक्षम् द्यूतदासी = द्यूते निर्जितत्वाद् दासीकृता । अत एवापमानयोग्या । तव = अर्जुनस्य, पशोः, पशुतुल्यस्य, तव = भीमस्य, च भीमार्जुनयोः सम्बोध्यत्वात् तवद्वयस्य प्रयोगः । तस्य, राज्ञः = युधिष्ठिरस्य, तयोः = नकुलसहदेवयोः वा भार्या, केशेषु, कृष्टा, अस्मिन् = आकर्षणरूपे, वैरानूबन्धे = वैरजनके ये, नरेन्द्रा, हताः, तैः किम्, अपकृतम्, वद = कथय । अपकर्ता त्वहमेवेति भावः । बाह्वोः = भुजयोः, न कि बाहुबल की प्रशंसा से और न अभिमान के कारण सुनाता हूँ । पुत्र पौत्रों के द्वारा किए गए भीषण तथा दुष्कर कार्य के साक्षी पिताजी ! आप ही तो हैं ॥ २९ ॥ दुर्योधन-अरे रे ! वायुकुमार, क्यों अजर्जूर्ण महाराज ( पिता जी ) के समक्ष इस प्रकार से अपने कुत्सित कर्म की प्रशंसा कर रहे हो ? और भी- भीम और अर्जुन न । मूर्ख उस राजा युधिष्ठिर, नकुल, सहदेव और राजन्यमण्डलों के देखते हुए जुए में सेविका बनाई गई तुम्हारी भार्या द्रौपदी केश पकड कर विश्व के अधिपति मेरी आज्ञा से आकृष्ट की गई। इस शत्रुता के सम्बन्ध में (तुम्हीं लोग बतलाओ) उन राजाओं ने क्या अपराध किया था, जिनका संहार हुआ है ? भुजाओं के पराक्रमाति-
२३२ वेणीसंहारं नाटकं वाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वाैव दर्पः ॥ ३० ॥ ( भीमः क्रोधं नाटयति । ) अर्जुनः-आर्य, प्रसीद । किमत्र क्रोधेन । अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ ३१ ॥ भीमः-अरे रे भरतकुलकलङ्क, अत्रव किं न विशसेयमहं भवन्तं वीर्यातिरेकद्रविणम् = पराक्रमाधिक्यमेव द्रविणं धनं -तेन गुरुः अधिकः, मदः यस्य तम्, 'अतिरिक्तः समधिकः' इत्यमरः । माम् = दुर्योधनम्, अजित्वाैव = जयमप्राप्येव, दर्पः = अहंकारः, साम्प्रतं तेऽहंकारो न युक्त इति भावः । स्रग्धरा छन्दः ॥ ३० ॥ अन्वयः-हतभ्रातृशतः, दुःखी, एषः, वाचा, अप्रियाणि, करोति । ( यतः ) कर्मणा, न शक्तः, ( अतः ) अस्य, प्रलापैः, का व्यथा ॥ ३१ ॥ अस्य वचनाद्, क्रोधो न कार्य इत्याह-अप्रियाणीति । हतभ्रातृशतः=हताः भ्रातृशतं यस्य सः, अतएव, दुःखी, एषः=दुर्योधनः, वाचा, अप्रियाणि = अपकारान्, करोति, परुषवचनं वक्तीत्यर्थः, यतः कर्मणा न, शक्तः ऽऽ समर्थः ( अतएव ) अस्य, प्रलापैः = विरुद्धवचनैः, का, व्यथा = दुःखम् । एतद्वचनेन दु खं न कर्तव्यमतएव ते क्रोधो न युक्त इति भावः । अनुष्टुप् छन्दः ॥ अन्वयः-( हे ) कटुप्रलापिन्, ते, मद्गदाग्निनिभिद्यमानरणितास्थनि, शरीरे, विघ्नम्, यदि, गुरुः, न, कुरुते, तदा, दुःशासनानगमनाय, अहम्, भवन्तम्, अत्रैव, किं न, विशसेयम् ॥ ३२ ॥ अत्रैवेति । अहम्, भवन्तम् = दुर्योधनम्, अत्रैव = समरप्राङ्गणान् बहिरेव अथवा शयरूपद्रव्य के कारण महान् अहङ्कारशाली मुझ [ दुर्योधन ] पर विजय पाए बिना ही तुम्हें गर्व हो रहा है ॥ ३० ॥ [ भीम क्रोध की अभिव्यक्ति करता है ] अर्जुन-आर्य ! क्षमा कीजिए । इस पर क्रोध करने से क्या लाभ ? यह वचन से ही अहित करता है कर्म से अहित करने में समर्थ नहीं है । सौ भाइयों के विनाश से व्यथित इस दुर्योधन के बकबकाने से कष्ट ही क्या है ॥ ३१ ॥ भीम-अरे अरे ! भरतवंश के कलङ्क । ऐ क्रूरभाषिन् [ दुर्योधन ] दुःशासन का अनुसरण करने के लिए यहीं पर तुम्हें क्यों
२३४ वेणीसंहारं नाटकं दुर्योधनः—दुरात्मन्, भरतकुलापसद, पाण्डवपशो, नाहं भवानिव विकत्थनाप्रगल्भः । किन्तु— द्रक्ष्यन्ति नचिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे । मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ॥ ३४ ॥ भीमः—( विहस्य । ) यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि । पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसञ्चूर्णितोरोः - तीव्रवेदना, आसीत् । त्वत्कुलविनाशकमदीयक्रोधेन त्वयि तीव्रवेदनाप्रापिते साम्प्रतं वधस्य समय आगतः, पूर्वं वधे तु तव तीव्रवेदनानुभवो न स्यादिति भावः । मन्दाक्रान्ता छन्दः ॥ ३३ ॥ विकत्थनाप्रगल्भः = स्वप्रशंसायां धृष्टः । अन्वयः—बान्धवाः, रणाङ्गणे, मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् (अत एव ) सुप्तम्, त्वाम्, नचिरात्, द्रक्ष्यन्ति ॥ ३४ ॥ द्रक्ष्यन्तीति । पाण्डवाः, रणऽङ्कणे = समराङ्कणे, मद्गदाभिन्नवक्षोऽस्थिवेणिका- भीमभूषणम् = मद्गदया भिन्नानां वक्षोऽस्थ्नां या वेणिका प्रवाहः रुधिरधारा सैव भीमम् भयावहम् भूषणम् अलङ्कारः यस्य तम्, 'वेणी तु केशवेशे स्यात्प्रवाहेऽपि निगद्यते' इति धरणिः । ततः स्वार्थे कप्रत्यये ह्रस्वत्वे च वेणिकेतिनिष्पन्नम् । अतएव सुप्तम्=मृतम्, त्वाम् = भीमम्, नचिरात्=शीघ्रम्, निषेधार्थक नशब्देन सुप्सुपेति समासः । द्रक्ष्यन्ति अवलोकयिष्यन्ते । अनुष्टुप् छन्दः ॥ ३४ ॥ प्रत्यासन्नम् = अतिसमीपम् । अन्वयः - श्वः, प्रभाते, पश्यताम्, नृणाम्, (अग्रे) पीनाभ्याम्, मद्भुजाभ्याम्, भ्रमितगुरुगदाघातसञ्चूर्णितोरोः, क्रूरस्य, तव, शिरसि, पादम् आधाय, त्वन्मुख्य- भ्रातृचक्रोद्वलनगन्धतृप्तचन्देन, स्त्यानेन, आर्देण, च, आनखाग्रम् अक्तः, स्वयम्, ( अहम् ) भीमम् भूषणम्, अनुभविना, अस्मि ॥ ३५ ॥ ध्वस्य जघनत्रोटनं कविष्यामीति प्रतिजानाति भीमः - पीनाभ्यामिति । श्व.= दुर्योधन—दुष्ट, भरतवंश में नीच, पाण्डवपशु, तुम्हारी तरह मैं डींग नहीं मारता । किन्तु— शीघ्र ही तुम्हारे कुटुम्ब वाले समरभूमि के बीच मेरी गदा से भेदन की गई पसलियों केलुगदीरा भयानक आभूषण से विभूषित तुम्हें देखेंगे ॥ ३४ ॥ भीम— यदि इस प्रकार कह रहे हो तो फिर [ऊरुभङ्ग होना] समीप ही है कहता हूँ— कल प्रभातकाल होते ही अपने स्थूल भुजदण्डों से घुमाई हुई विशाल गदा के प्रहार से
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३५ क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते । त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनाऽऽनखाग्रं स्त्यानेनाद्रेण चाक्तः स्वयमनुभविता भीषणं भीममस्मि ॥३५॥ ( नेपथ्ये ) भो भो भीमार्जुनौ, एष खलु निहताशेषारातिचक्राक्रान्तपरशुरामाभि- रामयशाः, प्रतापतापितदिङ्मण्डलः स्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति । उभौ—किमाज्ञापयत्यार्यः । ( पुनर्नेपथ्ये । ) ‘वागामिदिने, अनागतेऽह्नि श्वः' इत्यमरः । प्रभाते, पश्यताम्, नृणाम्, अग्र इति शेषः । पीनाभ्याम् = परिपुष्टाभ्याम्, मदभुजाभ्याम्, भ्रमितगुरुगदाघातसञ्चूर्णितोरो = घूर्णितवृहद्गदाघातेन चूर्णिते जघने यस्य तस्य, क्रूरस्य तव, शिरसि, पादम् = चरणम्, आधाय = धृत्वा, त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेन = त्वं मुख्यं यस्य तच्च भ्रातृचक्रम् तस्योद्दल्लनेन गलत् असृक् तदेव चन्दनम् तेन, पुनः कीदृशेन स्त्यानेन = घनीभूतेन, आर्द्रण = क्लिन्नेन, च, अक्तः—व्याप्तः, स्वयम्, ( अहम् ) भीमम् = भयावहम् भूषणम् = अनुभविता, अस्मि । स्रग्धरा छन्दः ॥ निहताशेषारातिचक्राक्रान्तपरशुरामाभिरामयशाः = निहतानि यानि अशेपारा- तिचक्राणि = सकलशत्रुसमूहः तैः आक्रान्तम् परशुरामाभिरामयशः यस्य सः, यथा परशुरामेण सकलाः क्षत्रियादयो निहताः तथैव युधिष्ठिरेणापि शत्रवो निहता इति तत्तुल्ययशा युधिष्ठिर इति भावः । भग्नजङ्घ तुझ दुरात्मा के शिर पर चरण रख कर तथा जिन भ्रातृवर्ग के ज्येष्ठ तुम हो उनके संहार करने पर बहते हुए रक्तरूपी गाढ़े और गीले चन्दन से नख से शिर तक लिप्त होकर मैं स्वयं भीषण आभूषण धारण कर लूँगा ॥ ३५ ॥ ( नेपथ्य में ) अरे अरे भीमसेन और अर्जुन ! यह देवतारूप अजातशत्रु श्रीमान् युधिष्ठिर, जो सम्पूर्ण शत्रुसमूह का संहार करके परशुराम के शुभ यश को जीत लिये हैं तथा अपने प्रताप से दिशाओं को सन्तप्त कर दिए हैं, आज्ञा दे रहे हैं ? दोनों—[ भीम और अर्जुन ] श्रीमान् क्या आज्ञा दे रहे हैं ? ( फिर नेपथ्य में )