भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

२६४ वेणीसंहारं नाटकं द्रौपदी—(सवाष्पम् ।) जद्देवो तिहुअणणाहो भणादित कहं अण्णहा वविस्सदि । ( यद्देवस्त्रिभुवननाथो भणति तत्कथमन्धया भविष्यसि । ) पाञ्चालकः—न केवलमियमाशीः, असुरनिषूदनस्यादेशोऽपि । युधिष्ठिरः—को ही नाम भगवता सन्दिष्टं विकल्पमपि ? कः कोऽत्र भोः । ( प्रविश्य । ) कञ्चुकी—आज्ञापयतु देवः । युधिष्ठिरः—देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुदिताः समारम्भाः । सति, संशयः = शङ्का, कुतः = कस्माद्धेतोः जये इति शेषः, विजये संशयो नास्तीति भावः । यथा परशुरामेण स्वप्रतिज्ञापूर्तिरवश्यं कृता तथा तत्सदृशो भीमोऽपि प्रतिज्ञा- पूर्तिं करिष्यत्येवेति गूढाभिप्रायः । दीपकमलङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ अन्यथेति — वासुदेवसन्देशस्यान्यथाभवनासम्भवमित्यर्थः । असुरनिषूदनस्य = असुरात्रिषूदयतीत्यसुरनिषूदनः 'नन्दिग्रहिपचादिभ्य' इति कर्तरि ल्युट् प्रत्ययः । तस्य, आदेशः = आज्ञा । नामशब्दोऽभ्युपगमे, अभ्युपगच्छामि यत् भगवत्सन्देशविकलना न भवितुमर्हतीति भावः । विकल्पयति = विरुद्धं कल्पयति विपरीतसङ्गच्छतीत्यर्थः । देवस्य = भगवतः देवकीनन्दनस्य = देवकीपुत्रस्य कृष्णस्येत्यर्थः । बहुमानात् = काल से मुक्त किए हुए केशकलाप को क्षणमात्र में बाँध लें। क्रोधोन्मत्त परशुरामके, जिनका हाथ तीक्ष्ण परशु के कारण तेजस्वी है, तथा जो क्षत्रियरूप वृक्षों के काट डालने वाले हैं, और भीमसेन के क्रोधोन्मत्त होकर संग्राम में उतर पड़ने पर सन्देह कहाँ । अर्थात् विजयलक्ष्मी प्राप्त हो ही जायगी ॥ १२ ॥ द्रौपदी—( डबडबाए हुए नेत्रों से ) त्रिलोक के स्वामी महाराज जो कहते हैं वह अन्यथा कैसे होगा । पाञ्चालक—इसे केवल आशीर्वाद ही नहीं, किन्तु राक्षसों के दमनकर्ता कृष्णजी की आज्ञा भी समझनी चाहिए । युधिष्ठिर—भगवान् नारायण के सन्देश की कौन अवहेलना कर सकता है ? कौन यहाँ पर हैं । कञ्चुकी—आज्ञा प्रदान कीजिए महाराज । युधिष्ठिर—देवकीपुत्र भगवान् वासुदेव की आज्ञा का स्वागत करने के लिए मेरे प्रिय सहोदर के विजयमङ्गलार्थ अनुकूल महोत्सव प्रारम्भ कर दिए जाँय ।

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६५ कञ्चुकी—यथाऽऽज्ञापयति देवः । ( सोत्साहं परिक्रम्य ) भो भोः संवि- धातृणां पुरस्सराः, यथास्थानमन्तर्वैशिका दौवारिकाश्च, एष खलु भुजब- लपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधना- नुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननरसिंहस्य दुर्योधनोरु- स्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपा- तिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः । ( आकाशे । ) अतिसम्माननीयत्वाद् एतस्य वचनमन्यथाकर्तुं न योग्यमिति भावः । वत्सस्य = भीम- सेनस्य, विजयमङ्गलाशंसया = रिपुजयलपशिवेच्छाया, तदुचिता = मङ्गलयोग्याः, समारम्भाः = सुक्रियाः, प्रवर्त्यन्ताम् = क्रियन्ताम् । सोत्साहं = साध्यवसायम् 'उत्साहोऽध्यवसायः स्यादि'त्यमरः । संविधातृणाम् = अधिकारिणाम्, पुरःसराः = मुख्याः, भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य = परिक्षिप्यते सन्तार्यतेऽनेनेति परिक्षेपो जलयानम् ( जहाज ) इति प्रसिद्धः । भुजबलमेव परिक्षेपः तेनोत्तीर्णः कौरव एव परिभवसागरः दुःखसमुद्रो येन तस्य, निर्व्यूढदुर्वह- प्रतिज्ञाभारस्य = निर्व्यूढः निःशेषेण गृहीतो दुर्वहः प्रतिज्ञाभारः दुर्योधनोरुभङ्गरूपः येन तस्य, पूर्णप्रतिज्ञतायस्येत्यर्थः । सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य = सुयोधनस्य यदनुजशतं तस्य उन्मूलने विनाशन प्रभाञ्जनः महावायुरिव तस्य, बलिनः = बलवतः, प्राभञ्जनेः = मरुत्तनयस्य, वृकोदरस्य, स्नेहपक्षपातिना = स्नेहेन प्रेम्णा पक्षे साहाय्ये पतितुं शीलमस्य तेन, मनसा = चित्तेन, मङ्गलानि = शुभानि, कर्तुम् आज्ञापयति = आदिशति । आकाश इति-पात्राभावेऽपि श्रुत्वेवानुक्तमप्यर्थं किं ब्रवीषीत्याद्यर्थकं वाक्यं यत् प्रयुज्यते तत्राकाश इत्युच्यते । तदुक्तं दर्पणे — 'किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाश- भाषितम् ।' इति । कञ्चुकी—अच्छा महाराज की आज्ञा सिर पर (उत्साह से चलकर) भो विधि- विधानों के आचार्य, श्रेष्ठता के क्रम से अन्तःपुर [ रनिवास ] के अधिकारियो तथा द्वार- रक्षको ! यह महाराज युधिष्ठिर अपने पराक्रमी भ्राता पवनपुत्र भीमसेन का पक्षपात मन में रखकर विजय महोत्सव के लिए आज्ञा दे रहे हैं क्योंकि भीमसेन अपनी भुजाओं के पराक्रम का प्रदर्शन करके कौरवों के द्वारा किए गए अपमानरूपी समुद्र के पार पहुँच गए हैं, वहन करने के अयोग्य प्रतिज्ञा के भार को वहन कर लिए हैं, सुयोधन के सौ भ्राता- रूपी वृक्षों को उखाड़ कर फेंक देने में आँधी के समान हैं, और दुःशासन का हृदय विदीर्ण करने में साक्षात् नृसिंह भगवान् हैं तथा दुर्योधन के जंघारूप विशाल स्तम्भ [ खम्भ ] के चूर-चूर कर देने पर विजय की प्राप्ति भी अवश्यम्भावी है । (आकाश की ओर) क्या

२६६ वेणीसंहारं नाटकं

किं ब्रूय—'सर्वतोऽधिकतरमपि प्रवृत्तं किं नालोकयसि' इति। साधु पुत्रकाः
साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।
युधिष्ठिरः—आर्य जयन्धर !
कञ्चुकी—आज्ञापयतु देवः ।
युधिष्ठिरः—गच्छ, प्रियख्यापकं पाञ्चालकं पारितोषिकेण परितोषय ।
कञ्चुकी—यदाज्ञापयति देवः ( इति पाञ्चालकेन सह निष्क्रान्तः । )
द्रौपदी—महाराअ, किणिमित्तं उण णाहभीमसेणेण सो दुराआरो
भणिदो—'पञ्चाणं वि अम्हाणं मज्झे जेण दे रोअदि तेण सह दे संगामो
होदु'त्ति । जह मद्दीसुदाणं एक्कदरेण सह संगामो तेण पत्थिदो भवे तदो
अच्चाहिदं भवे । ( महाराज, किन्निमित्तं पुनर्नार्थभीमसेनेन स दुराचारो भणितः—
अत्र सर्वतोऽधिकेत्याद्यनुक्तमपि श्रुत्वेवाह—किं ब्रूथ सर्वत इति । सर्वतः =
सर्वत्र, सार्वविभक्तिकस्तसिल्प्रत्ययः । अधिकतरम् = अत्यधिकम्, प्रवृत्तम् = समारब्धम्,
मङ्गलमिति शेषः । न, अवलोकयसि = पश्यसि, स्वार्थे णिच्प्रत्ययः । अथवा राजेति
शेषः, राजानं न दर्शयति किमित्यर्थः । साधु = भद्रम्, पुत्रका इति । अनुकम्पाया-
मिति कन्प्रत्ययः । अनुक्तहितकारिता = स्वच्छन्दयैव शुभसम्पादित्वम्, स्वामिभक्तिम् =
अधिपविषु प्रीतिम् ।
जयन्धरः—एतन्नामकञ्चुकी ।
प्रियख्यापकम् = इष्टनिवेदकम्, पाञ्चालकम् = एतन्नामकम्, पाञ्चालदेशोत्पन्नं वा,
पारितोषिकेण = धनदानपुरस्कारेण, परितोषय संतुष्टं कुरु ।
नकुलसहदेवयोर्बलानभिज्ञा द्रौपद्याह-महाराज किन्निमित्तमिति । सः = दुर्योधनः,
कहते हो—'सब दिशाओं में प्रवृत्त मङ्गल-महोत्सव मनाया जा रहा है, क्या देख नहीं
रहे हो ?' धन्य मेरे प्रिय पुत्रो ! धन्य बिना आज्ञा के पाये ही यदि हितोपयुक्त कार्य
किया जाय तो मन में स्थित स्वामिभक्ति का द्योतक होता है
युधिष्ठिर—आर्य जयन्धर !
कञ्चुकी—आज्ञा दीजिए महाराज !
युधिष्ठिर—जाओ, अभीष्ट संवाददाता पाञ्चालक को पारितोषिक प्रदान से सन्तुष्ट
करो ।
कञ्चुकी—अच्छा, महाराज की जो आज्ञा । ( यह कह कर पाञ्चालक के साथ चल
पड़ता है । )
द्रौपदी—महाराज ! फिर किसलिए स्वामी भीमसेन ने उस दुरात्मा से कहा—'हम
पाँचों भाइयों में से किसी एक से जिससे तुम्हारी इच्छा हो युद्ध कर सकते हो।' यदि वह

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६७ पञ्चानामप्यस्माकं मध्ये येन ते रोचते तेन सह ते सङ्ग्रामो भवतु' इति। यदि माद्रीसुतयोरेकतरेण सह सङ्ग्रामस्तेन प्रार्थितो भवेत्ततोऽत्याहितं भवेत् । ) युधिष्ठिरः - कृष्णे, एवं मन्यते जरासन्धघाती । हतसकलसुहृद्बन्धु- वीरातुजराजन्यासुकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरी- रमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्सन्धिं वा पितृमुखेन याचेत, एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयेति । समरं प्रतिपत्तुं पञ्चानामपि पाण्ड- भणितः = उक्तः, 'गौणे कर्मणि दुह्यादेर्'त्यभियुक्तोक्त्या गौणे कर्मणि क्तप्रत्ययः । ते = तुभ्यम्, रोचते = रुचिर्भवति, अभिलष्यतीत्यर्थः । ने = तव । भणित इत्यस्य मुख्यं कर्म इति पर्यन्तम् । माद्रीसुतयोः = नकुलसहदेवयोः, एकतरेण = अन्यतरेण, प्रार्थितः = याचितः, अत्याहितं = महाभयम्, अत्याहितं महाभीतिरित्यर्थः । यदि भवेत्तवाऽत्याहितं भवेदित्यर्थः । एवं = हतसकलेत्याद्युक्तम्, जरासन्धघाती = जरासन्धनामकनृपस्य हन्ता, हत- सकलसुहृद्बन्धुवीरानुजराजन्यासु = हताः सकलसुहृद्बन्धुवीरानुजराजन्या यासु, तासु, कृपकृतवर्माश्वत्थामशेषासु = कृपः द्रोणश्यालः, कृतवर्मा वीरविशेषः, अश्वत्थामा द्रोणपुत्र एतेषां द्वन्द्वः, ते शेषां अवशिष्टा जीविता यासु ता, इदं द्वयमक्षौहिणी- विशेषणम् । अतएव, अबान्धव = बन्धुरहितः, शरीरमात्रविभवः = शरीरमात्रमेव विभव ऐश्वर्यम् यस्य सः उत्सृष्टनिजाभिमानः = उत्सृष्टो त्यक्तो निजाभिमानः स्वाह- ङ्कारो येन सः, धार्तराष्ट्रः = दुर्योधनः, आयुधं, परित्यजेत् कदाचिदित्यस्यात्र व्रजने चान्वयः । सकलरिपुजयस्य, प्रतिज्ञाभारः, सुदूरम्, अतिक्रान्तः, भवेदित्यन्वयः । एतदपि = पञ्चानां मध्ये कस्यापीत्यर्थः । समरं = सङ्ग्रामम्, प्रतिपत्तुं = कर्तुम्, माद्रीपुत्र नकुल और सहदेव में से किसी एक से युद्ध करने के लिए अभिप्राय व्यक्त करता, तब तो महान् अनर्थ हो जाता । युधिष्ठिर - द्रौपदी ! जरासंध के मारनेवाले भीमसेन इस प्रकार सोचते हैं, 'समग्र मित्र, कुटुम्ब, सैनिक छोटे भाई तथा राजाओं के समाप्त हो जाने पर तथा ग्यारह अक्षौहिणी सेना में से केवल कृप, कृतवर्मा और अश्वत्थामा के शेष रह जाने पर कदाचित् बान्धवरहित, शरीरमात्र से ऐश्वर्यवान् दुर्योधन अपने अहंकार का परित्याग करके शस्त्र फेंक दे, और तपोवन में चला जाय अथवा अपने पिता के मुख से सन्धि की याचना करे । ऐसी परिस्थिति में सम्पूर्ण शत्रु पर विजय प्राप्त कर लेने की प्रतिज्ञा का भार बहुत दूर पड़ जायगा । सुयोधन पाँच पाण्डवों में से किसी एक के साथ भी युद्ध करके सफलता नहीं

२६८ वेणीसंहार नाटकं वानामेकस्यापि नैव क्षमः सुयोधनः शङ्के बाहं गदायुद्धं वृकोदरस्यैवानेन । अयि सुक्षत्रिये, पश्य— क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि । स्वस्त्यस्तूदधतधार्तराष्ट्रनलिनीनागाय वत्साय मे शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम् ॥१३॥ सुयोधनः, नैव, क्षमः = समर्थ इत्यन्वयः । अनेन = दुर्योधनेन, ( सह ) शङ्के = सन्देह्मि, गदायुद्धं वृकोदरो विजयी स्यान्न वेति सन्देह इति भावः । अन्वयः—रणे, क्रोधोद्गूर्णगदस्य, मारुतेः, सदृशः ( अन्यः ) न, अस्ति, सत्यम् पुनः, देवे, सीरिणि, यथा, कृतहस्ता ( तथा ) इयम्, कौरव्ये, मे, उद्धतधार्तराष्ट्र नलिनीनागाय, वत्साय, स्वस्ति, अस्तु, अहम्, तस्य, सुयोधनेन, समरम्, शङ्के इतरेषाम् न, एव, ( शङ्के ) ॥ १३ ॥ सन्देहमेवाह—क्रोधोद्गूर्णेति । रणे = सङ्ग्रामे, क्रोधोद्गूर्णगदस्य = क्रोधेन उद्गूर्णा उद्यता गदा येन तस्य, मारुतेः = भीमस्य, सदृशः = तुल्य ( अन्यः ) नास्ति ( इति ) सत्यम्, सत्यमित्यर्थस्वीकारे प्रयुज्यते : पुनः = यद्यप्येवं तथापि, देवे = भगवति, सीरिणि = सीरः हलमस्यास्ति सीरी वलभद्रः 'अत इनठनावि'तीन्प्रत्ययः । यथा, कृतहस्तता = हस्तकौशलम् ( तथा ) इयं = कृतहस्तता, कौरव्ये = दुर्योधने अस्तीति शेषः । अतएव संशय इति भावः । मे = मम, उद्धतधार्तराष्ट्रनलिनीनागाय= उद्धतः उत्कटो यो धार्तराष्ट्रः स एव नलिनी कमलिनी तस्याः नागाय हस्तिन इव, वत्साय = भीमाय, स्वस्ति = मङ्गलम्, अस्तु । नलिन्या विध्वंसकहस्तीव धार्तराष्ट्र विध्वंसको भीमो भवत्विति भावः : अहम्, तस्य = भीमस्य, सुयोधनेन, सह, समरं = सङ्ग्रामम्, शङ्के, इतरेषाम् = अस्मदादीनां समरं नैव शङ्के अन्यस्य विजये संशय एव नास्तीत्यर्थः । अत्र द्वितीये पूर्णोपमा, तृतीये रूपकम्, चतुर्थे उत्प्रेक्षाबोधकशङ्के=शब्दप्रयोगेऽपि नास्ति तस्याः सम्भवः । अत्र सम्भावनाया अभावात् वस्तुनो वास्तविकत्वात् । शार्दूलविक्रीडितं छन्दः ॥ १३ ॥ प्राप्त कर सकता मुझे आशङ्का होती है—गदायुद्ध भीम का ही इसके साथ चल रहा है। अयि क्षत्रियवंशसमुद्भवे ! देखिए— यह सत्य है कि क्रोध से गदा उठा लेने पर युद्धस्थल में वायुपुत्र भीमसेन के समान कोई नहीं है परन्तु भगवान् रेवतीरमण [बलराम] की तरह दुर्योधन भी गदायुद्ध मे सिद्ध- हस्त हैं। असंभ्य कौरवरूपी कमलिनी के लिए गजराज मेरे प्रिय अनुज का कल्याण हो ।

षष्ठोऽङ्कः ] - प्रबोधिनी-प्रकाश-द्वयोपेतम् २६६ ( नेपथ्ये ) तृषितोऽस्मि भोस्तृषितोऽस्मि सम्भावयतु कश्चित्सलिलच्छायासम्प्र- दानेन माम् । युधिष्ठिरः-- ( आकर्ण्य ।) कः कोऽत्र भोः । ( प्रविश्य ।) कञ्चुकी - आज्ञापयतु देवः युधिष्ठिरः- ज्ञायतां किमेतत् । कञ्चुकी - यदाज्ञापयति देवः । ( इति निष्क्रम्य, पुनः प्रविश्य ।) देव, क्षुण्मानांतथिरुपस्थितः । युधिष्ठिरः- शीघ्रं प्रवेशय । नेपथ्ये - जवनिकान्तर्भूमी । तृषितः = पिपासितः, सलिलच्छायाप्रदानेन = सलिलञ्च छाया चेत्यनयोर्द्वन्द्वः इति सलिलच्छाये तयोः प्रदानेन, अत्र 'जातिरप्राणिनामि'त्येकवद्भावस्तु न, तस्य द्रव्यजातीयानामेव द्वन्द्वे प्रवृत्तेः, अत्र च्छायाया अद्रव्यत्वाद् । माम् = मुनिम्, सम्भा- वयतु = सान्त्वयतु । अत्र = द्वारे, कः कः, अस्तीति शेषः । एतत् = भोः तृषितोऽस्मीत्यादिवचनम्, क्षुण्मान् = बुभुक्षितः, अतिथिः = प्राघुणः, ( पाहुन ) इति प्रसिद्धः 'प्राघुणस्त्व- तिथिर्रद्वयो'रिति त्रिकाण्डशेषः । मेरा अनुमान है—'सुयोधन के साथ उसी का संग्राम हो रहा है किसी दूसरे व्यक्ति का नहीं' ॥ १३ ॥ [ नेपथ्य में ] प्यासा हूँ । अरे भाई मैं प्यासा हूँ । कोई जल और छाया ( आश्रय ) प्रदान करके मुझे सन्तुष्ट करे । युधिष्ठिर -- ( सुनकर ) कौन, कोई यहाँ है ! ( प्रवेशकर ) कञ्चुकी - आज्ञा दीजिए, महाराज ! युधिष्ठिर - देखो, यह क्या बात है ? कञ्चुकी - महाराज की आज्ञा शिरोधार्य । (चला जाता है और फिर लौट आता है) महाराज, बुभुक्षित [ भूखा हुआ ] अभ्यागत आया है । युधिष्ठिर - शीघ्र ही बुला लाओ ।

२७० वेणीसंहारं नाटक कञ्चुकी—यदाज्ञापयति (इति निष्क्रान्तः ।) (ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः । राक्षसः—(आत्मगतम् ।) एषोऽपि चार्वाको नाम राक्षस, सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि । (प्रकाशम् ।) तृषितोऽस्मि । सम्भावयतु मां कश्चिज्जलच्छायाप्रदानेन । (इति राज्ञः समीपमुपसर्पति ।) (सर्वे उत्तिष्ठन्ति ।) युधिष्ठिर—मुने अभिवादये । राक्षसः—अकालोऽयं समुदाचारस्य जलप्रदानेन सम्भावयतु माम् । युधिष्ठिरः—मुने इदमासनम् । उपविश्यताम् । राक्षसः—(उपविश्य ।) ननु भवताऽपि क्रियतामासनपरिग्रहः । युधिष्ठिर—(उपविश्य ।) कः कोऽत्र भोः, सलिलमुपनय । (प्रविश्य गृहीतभृङ्गारः ।) आत्मगतम् = अश्राव्यम् । वञ्चयितुं = प्रतारयितुम्, प्रकाशं = सर्वश्राव्यम्, उपसर्पति = गच्छति । समुदाचारस्य=सत्कारव्यवहारस्य, अकालः = असमयः, तत्र हेतुगर्मवावयमाह= जलप्रदानेनेति । यतः पिपासुरस्म्यतः पिपासाशान्तिरेव कर्तव्येति भावः । आसनपरिग्रहः = आसनग्रहणम्, आसन उपविश्यतामित्यर्थः उपनय = आनय कञ्चुकी—अच्छा जो आज्ञा महाराज ! (जला जाता है) (इसके अनन्तर मुनि के स्वरूप में चार्वाक राक्षस का प्रवेश) राक्षस—(मन ही मन) वह भी मैं सुयोधन का अभिन्न हृदय [मित्र] चार्वाक नाम का राक्षस पाण्डवों को प्रतारित [ठगना] करने के लिए घूम रहा हूँ। (प्रकट रूप से) मुझे प्यास लगी है कोई जल और आश्रयस्थान देकर मुझे शान्ति दे ! (यह कहकर राजा के समीप जाता है) (सब लोग उठ खड़े होते हैं) युधिष्ठिर—तपस्विन् ! नमस्कार । राक्षस—इस प्रकार के व्यवहार का समय नहीं है । जल पिलाकर ही मुझे सन्तुष्ट कीजिए । युधिष्ठिर—महात्मन् ! यह आसन है बैठ जाइए । राक्षस—(बैठकर) अच्छा आप भी आसन पर बैठ जाइए । युधिष्ठिर—(बैठकर) कोई ? जल लाओ । (जलपात्र लेकर प्रवेश करता है)

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७१ कञ्चुकी-(उपसृत्य ।) महाराज शिशिरसुरभिसलिलसम्पूर्णोऽयं भृङ्गारः पानभाजनं चेदम् । युधिष्ठिरः-मुने, निर्वर्त्यतामुदन्याप्रतीकारः । राक्षसः ( पादौ प्रक्षाल्योपस्पृशन्विचिन्त्यः ) भोः, क्षत्रियस्त्वमिति मन्ये युधिष्ठिरः-सम्यग्वेदी भवान् । राक्षसः-सुलभश्च स्वजनविनाशः सङ्ग्रामेषु प्रतिदिनमतो नादेयं भव- द्भ्यो जलादिकम् । भवतु । छाययैवानया सरस्वती शिशिरतरङ्गस्पृशा मरुता चानेन । विगतक्लमो भविष्यामि । गृहीतभृङ्गारः = गृहीतः भृङ्गारः- सुवर्णकृतजलपात्रविशेषः येन सः, शिशिरसुरभिसलिलसम्पूर्णः = शीतलसुगन्धिजलभरितः, पानभाजनं = लघुजल- पात्रम् इदम् अस्तीति शेषः । मुने = ऋषे । राक्षसं राक्षसत्वेनानवगच्छन् युधिष्ठिरः तं मुनिशब्देन सम्बोधयति । उदन्या- प्रतीकारः = पिपासानिवारणम् । उदकस्येच्छेति उदन्या 'अशनायोदन्याधनाया' इति सूत्रेण निपातनात्क्यच्, उदकस्योदन्नादेशश्च । प्रक्षाल्य = जलेन संशोध्य, उदस्पृशन्=आचामन्, आचमनं, कुर्वन्नित्यर्थः । मन्ये= अवगच्छामि, सम्यग्वेदी = यथार्थज्ञाता प्रतिदिनसुलभस्वजनविनाशः = प्रतिदिनं दिने दिने सुलभः स्वजनस्य निजबन्धोः विनाशः हननं संग्रामेषु = समरेषु, भवद्भ्यः = युष्मत्तः, न आदेयम् = ग्राह्यम् । बन्धुविनाशेनाशौच्याद्याप्तत्वादाशौचिनो जलग्रहणस्य शास्त्रे निषिद्धत्वादिति भावः । सरस्वती शिशिरतरङ्गस्पृशा=सरस्वत्याः तन्नामकनद्या यः शिशिरतरङ्गः शीतलवीचिः कञ्चुकी-(समीप आकर) महाराज, ठण्डे और सुगन्धित जल से भरा हुआ स्वर्ण- पात्र है और यह गिलास भी है । युधिष्ठिर - विप्रगिन् ! प्यास शान्त कीजिए । राक्षस-(पैर धोकर और आचमन करता हुआ सोचकर) भो ! मैं समझता हूँ- तुम क्षत्रिय हो । युधिष्ठिर - आप ठीक समझते हैं । राक्षस-युद्ध में प्रतिदिन स्वजनों का मरण तो स्वाभाविक है, अतः आप लोगों का

२७२ वेणीसंहारं नाटकं द्रौपदी - बुद्धिमदिए, वीएहि महेसि इमिणा तालविन्तेण ( बुद्धिमत्तिके, वीजय महर्षिमेतेन तालवृन्तेन । ) (चेटी तथा करोति ) राक्षसः - भवति, अनुचितोऽयमस्मासु समुदाचारः । युधिष्ठिरः - मुने, कथय कथमयं भवान्परिश्रान्तः । राक्षसः - मुनिजनसुलभेन कौतूहलेन तत्रभवता महाक्षत्रियाणां द्वन्द्व- युद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातप- स्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतोऽस्मि । स्पृशतीति सरस्वती शिशिरतरङ्गस्पृक् 'स्पृशोऽनुदके क्विन्नि'ति क्विन्प्रत्ययः । 'शिशिरः स्यादृतोर्भेदे तुपारे शीतलेऽन्यवदि'ति विश्वः । मरुता = वायुना विगत- क्लमः = त्यक्तश्रमः । तालवृन्तेन = तालस्येव वृन्तमस्येति तालवृन्तम्, तेन, व्यजनेनेत्यर्थः । महर्षिम् = तपस्विनम्, वीजय = वायुमन्तं कुरु । तथा करोति = वीजयति । भवति = चेदि !, अस्मासु = मुनिजनेषु, समुदाचारः = व्यजनचालनादिव्यापारः । परिश्रान्तः = सवलमः । मुनिजनसुलभेन = ऋषिजनसाधारणेन, कौतूहलेन = कौतुकेन, कौतूहलं कौतु- कन्चे'त्यमरः । तत्रभवतां = वीरश्रेष्ठनाम्, द्वन्द्वयुद्धं = युग्मसंग्रामम्, 'द्वन्द्वं कलह- युग्मयो'रित्यमरः । पर्यटामि = भ्रमामि, समन्तपञ्चकम् = देशविशेषम्, शरदातपस्य = शरदि अश्विनकार्तिकाभ्यामृतौ स आतपः रौद्रः ( धूप ) इति प्रसिद्धः । तस्य, बल- वत्तया = तीक्ष्णतया, अपर्याप्तम् = अपूर्णम्, गदायुद्धम् = गदया संग्रामम्, अर्जुनसुयो- धनयोः = किरीटिदुर्योधनयोः । जल ग्राह्य नहीं । अच्छा, छाया से और सरस्वती की शीतल लहरों का स्पर्श किए हुए इस वायु से ही थकावट दूर करूँगा । द्रौपदी- बुद्धिमत्तिके ! इस पंखे से महात्माजी को हवा कर दो । (चेटी वैसा ही करती हैं) राक्षस- हम लोगों का इस तरह का स्वागत (स्त्रियों के द्वारा तपस्वियों की सेवा सुश्रूषा ) उचित नहीं । युधिष्ठिर - महर्षे ! कहिए, क्यों आप इतना थक गए हैं ? राक्षस- तपस्वियों के लिए कौतूहल का होना स्वाभाविक है अतएव मैं शूरवीर क्षत्रियों का मलयुद्ध देखने के लिए समन्तपञ्चक के चारों ओर घूम रहा हूँ । आज शरदऋतु के

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७३ ( सर्वे विषादं नाटयन्ति । ) कञ्चुकी—मुने, न खल्वेवम् । भीमसुयोधनयोरिति कथय । राक्षसः—आः, अविदितवृत्तान्त एव कथं मामाक्षिपसि । युधिष्ठिरः—महर्षे, कथय कथय । राक्षसः—क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो न पुनरस्य वृद्धस्य । युधिष्ठिरः—कथय किमर्जुनसुयोधनयोरिति । राक्षसः—पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमर्जुनसुयोधनयोरिति । युधिष्ठिरः—न भीमसुयोधनयोरिति । एवम् वक्तव्यमिति शेषः किं, वक्तव्यमिति कञ्चुकी स्वयमेवाह—भीमेति । आ इति कोपे 'आः स्यात्कोपपीडयोर्'त्यमरः । अविदितवृत्तान्तः=अज्ञातवार्त्तः, आक्षिपसि = विपरीतवादिनं कथयसि । विश्रम्य = विश्रामं कृत्वा, भवतः = तव, अत्र 'अकथितञ्चे'ति कर्मत्वेन द्वितीया युक्ता तथापि सम्बन्धविवक्षया षष्ठी, इदं द्वितीयाबहुवचनान्तरूपन्तु न सम्भाव्यम्, अस्य वृद्धस्येति वाक्यशेषात् । अस्य = कञ्चुकितः । अर्जुनसुयोधनयोरिति, गदायुद्धं प्रवृत्तमिति शेषः । किमिति प्रश्ने । नेति—अर्जुनमुयोधनयोर्गदायुद्धं न प्रवृत्तमित्यर्थः । तदा कयोरित्याह—भीम- सुयोधनयोरिति । प्रखर धूप के कारण अर्जुन और सुयोधन के गदायुद्ध की समाप्ति पर्यन्त तक न देखकर ही चला आया हूँ । ( सभी लोग विषाद का अभिनय करते हैं ) कंचुकी—तपस्विन् ! यह बात नहीं है । 'भीम और सुयोधन' इस प्रकार कहिए । राक्षस—आः ? जो तुम्हें ठीक समाचार नहीं ज्ञात है तो फिर मुझे झूठा क्यों बनाते हो ? युधिष्ठिर—ऋषिवर्य ! कहिए, कहिए । राक्षस—थोड़े समय तक विश्राम करके आपसे सभी बातें सुना दूँगा परन्तु इस बुड्ढे से नहीं कहूँगा । युधिष्ठिर—कहिये, अर्जुन और सुयोधन के विषय में क्या है ? राक्षस—पहिले ही मैंने कहा कि अर्जुन और सुयोधर्न में गदायुद्ध हो रहा था । युधिष्ठिर—भीम और सुयोधन में नहीं [ गदायुद्ध हो रहा । १८ वे०

२७४ वेणीसंहारं नाटकं

राक्षसः—वृत्तं तत् ।
( युधिष्ठिरो द्रौपदी च मोहमुपगतौ । )
कञ्चुकी—( सलिलेनासिच्य ) समाश्वसितु देवो देवी च ।
चेटी—समस्ससदु समस्ससदु देवी । ( समाश्वसितु समाश्वसितु देवी । )
( उभौ संज्ञां लभेते )
युधिष्ठिरः—किं कथयसि मुने वृत्तं भीमसुयोधनयोर्गदायुद्धमिति ।
द्रौपदीः—भअवं, कहेहि किं वृत्तं त्ति । ( भगवन्, कथय कथय किं
वृत्तमिति । )
राक्षसः—कञ्चुकिन्, कौ पुनरेतौ ।
कञ्चुकी—एष देवो युधिष्ठिरः । इयमपि पाञ्चालत नया ।
________________________________________________________________
तत् = भीमसुयोधनयोर्गदायुद्धम् वृत्तं=निष्पन्नम्, समाप्तमित्यर्थः ।
मोहम् = मूर्च्छाम्, उपगतौ = प्राप्तौ । राक्षसेन वृत्तं तदित्युक्ते भीमो यदि
विजयी स्यात्तदाऽर्जुनेन युद्धं स्यादेव नहीति विज्ञायते । भीमस्यावसानान्तरं गदायु-
द्धेऽर्जुनः प्रवृत्तः । तथा च भीमो मृत इति विज्ञाय द्रौपदीयुधिष्ठिरौ मूर्च्छां प्राप्तौ,
इत्याशयः ।
आसिच्य—समन्तात्सिक्त्वा, समाश्वसितु = मूर्च्छां त्यजतु । देवः = युधिष्ठिरः,
देवी = द्रौपदी ।
सन्देहनिवारणार्थं पुनः पृच्छति—किमिति ।
एतौ = प्रष्टारौ ।
________________________________________________________________
राक्षस—वह तो समाप्त हो गया ।
( युधिष्ठिर और द्रौपदी दोनों चेतनाशून्य हो जाते हैं )
कंचुकी—( जल छिड़ककर ) धैर्य धारण करें महाराज और महारानी !
चेटी—महारानी ! धैर्य धारण कीजिए ।
( दोनों की मूर्च्छा चली जाती है )
युधिष्ठिर—क्या कह रहे हैं महात्माजी,—'भीम' और सुयोधन का गदायुद्ध समाप्त
हो गया ?'
द्रौपदी—भगवन् कहिये क्या हुआ ?
राक्षस—कन्चुकी ! वे दोनों कौन हैं ?
कंचुकी—यह महाराज युधिष्ठिर हैं और ये पाञ्चालनरेश की दुहिता [ पुत्री ] हैं ।

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७५ राक्षसः--आः, दारुणमुपक्रान्तं मया नृशंसेन । द्रौपदी-हा णाह भीमसेण ! ( इति मोहमुपगता । ) (हा नाथ भीमसेन !) कञ्चुकी-किं नाम कथितम् । चेटी-समस्ससदु समस्ससदु देवी । ( समाश्वसितु समाश्वसितु देवी । ) युधिष्ठिरः--( सास्रम् । ) ब्रह्मन्, पदे सन्दिग्ध एवास्मिन्द्दुःखमास्ते युधिष्ठिरः । वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥ १४ ॥ अत्र आ इति पीडायाम् । नृशंसेन=घातकेन, परदुःखप्रदायिनेत्यर्थः । दारुणम्= भीषणम्, उपक्रान्तम् = समारब्धम्, कृतमित्यर्थः । किन्नामेति=एतावदेव भवत्कथनमुतावशिष्टमप्यस्तीत्यर्थः । अथवा किंशब्दः कुत्सायाम्, नामशब्दो विस्मये, तयोश्च कुत्सितं विस्मितञ्च कथितमित्यर्थः । विस्मये कारणं च न भीमस्य पराजयः सम्भवतीति । 'किं कुत्सायां वितर्के चे'ति, 'नाम कामेऽभ्युपगमे विस्मये स्मरणेऽपि च' इति च मेदिन्यौ । अन्वयः-अस्मिन्, सन्दिग्धे, एव पदे युधिष्ठिरः, दुःखम्, आस्ते, वत्सस्य, तत्त्वे, निश्चिते ( सति ) अहम्, प्राणत्यागात्, सुखी ॥ १४ ॥ यावत्सन्देहस्तावदेव दुःखं सन्देहनिवृत्त्यनन्तरन्तु प्राणानैव त्यक्ष्यामीत्याह - पदे सन्दिग्ध इति । अस्मिन् = त्वदुक्ते, सन्दिग्धे = सन्देहाक्रान्ते, एव, पदे=सत्यं भीमो मृत इति वस्तुनि सति, युधिष्ठिरः, दुःखम् = पीडाम्, आस्ते = तिष्ठति 'अक- र्मकधातुभिरि'ति कर्मत्वम् । वत्सस्य-अनुजस्य, तत्त्वे = सत्यवस्तुनि, निर्णोते = निश्चिते, सति, अहम् = युधिष्ठिरः, प्राणत्यागात् = मरणात्, सुखी = दुःखरहितः, तस्य मरणनिश्चये सति नाहं जीवितुं शक्नोमीति भावः । पथ्यावक्त्रं छन्दः ॥ १४ ॥ राक्षस-ओह ! मैंने तो महान् अनर्थ कर दिया। अर्थात् जो इस वृत्तान्त को इनसे कह दिया । द्रौपदी-हा ! नाथ !! भीमसेन !! ( मूच्छित हो जाती है ) कंचुकी-क्या कहा ? चेटी-महारानी ! धैर्य धारण करें । युधिष्ठिर-, आँसू भर कर ) ब्रह्मन् ! इस सन्देहग्रस्त पद में ( वार्ता में ) युधिष्ठिर को कष्ट होना है । यदि मेरे प्रिय भ्राता ( भीमसेन ) की मृत्यु निश्चय हो गई हो तो यह ( युधिष्ठिर ) प्राण छोड़ कर सुखी हो जाय ॥ १४ ॥

२७६ वेणीसंहारं नाटकं राक्षसः—( सानन्दमात्मगतम् । ) अयमेव मे यत्नः । ( प्रकाशम् । ) यदि त्ववश्यं कथनीयं तदा संक्षेपेण कथयामि न युक्तं बन्धुव्यसनं विस्तरेणा- वेदयितुम् । युधिष्ठिर—( अश्रूणि मुञ्चन् । ) सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा । वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ १५ ॥ राक्षसः—श्रूयताम् । तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे अयम्=त्वदीयप्राणत्यागजनकः, यत्नः = कृतिः व्यापार इत्यर्थः । संक्षेपेण = समासत:, बन्धुव्यसनम्=स्वजनविनाशः, आवेदितुम् = कथयितुम् । मुञ्चन् = प्रोञ्छन् । अन्वयः—( हे ) ब्रह्मन्, संक्षेपात्, विस्तरेण वा, सर्वथा, कथय, वत्सस्य किमपि, श्रोतुम्, मया, एषः, क्षणः, दत्तः ॥ १५ ॥ सर्वथेति । हे ब्रह्मन् = मुने, संक्षेपात् = स्वल्पवचसा, विस्तरेण=अधिकवचसा, विपूर्वकस्तुधातोः प्रथने वाक्शब्दे, इति शब्दे घञोऽभावे ऋदोरप्'त्यप्प्रत्ययः । वा, सर्वथा = सर्वप्रकारेण, कथय = ब्रूहि, वत्सस्य = अनुजस्य, किमपि = इष्टमनिष्टं वा श्रोतुम् = आकर्णितुम्, मया एषः=अव्यवहितोत्तरवस्तुपाधिकः, क्षणः=काल- विशेषः 'कालविशेषोत्सवयोः क्षणः' इत्यमरः । दत्तः । त्वद्वचनश्रवणार्थं दत्तमना अभूवमित्यभिप्रायः । पथ्यावक्त्रं छन्दः ॥ १५ ॥ अन्वयः—तस्मिन्, कौरवभीमयोः, गुरुगदाघोरध्वनौ, संयुगे 'सति' सौरी, राक्षस—( आनन्दपूर्वक मन ही मन ) इसीलिए तो उपाय कर रहा हूँ । ( प्रकट रूप से ) यदि मुझे अवश्य कहना पड़ रहा है तो संक्षेप में कह रहा हूँ, भाई के दुःख को विस्तार- पूर्वक कहना उचित नहीं । युधिष्ठिर—( आँसू पोंछता हुआ ) सब तरह से कहिए भगवन् ! संक्षेप या विस्तारपूर्वक । प्रिय भ्राता के विषय में कुछ भी सुनने के लिए यह समय मैं दे रहा हूँ ॥ १५ ॥ राक्षस—सुनिये— दुर्योधन और भीम की भीषण गदाध्वनिपूर्ण उस रणभूमि में......।

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७७ द्रौपदी—( स्वगतम् ।) तदो तदो । (ततस्ततः ।) राक्षसः—(स्वगतम् ।) कथं पुनरनयोर्लब्धसंज्ञतामपनयामि । (प्रकाशम् ।) सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः सङ्गरः । आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता यामासाद्य कुरुत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥ १५ ॥ युधिष्ठिरः—हा वत्स, वृकोदर ! ( इति मोहमुपगतः ।) द्रौपदी—हा णाह भीमसेण, हा महं परिभवपडोआरपरिच्चत्तजीव्विज, सत्वरम्, आगतः, तस्य, अग्रतः, सङ्गरः चिरम्, अभूत्, तु, हलिना, प्रियशिष्यताम्, आलम्ब्य, रहसि, संज्ञा, आहिता, कुरुत्तमः, याम्, आसाद्य, दुःशासनारौ प्रतिकृतिम्, गतः ॥ १५ ॥ बलरामसाहाय्येन दुर्योधनो विजयमृदित्याह—तस्मिन्निति । तस्मिन्—अति विकटे, कौरवभीमयोः, गुरुगदाघोरध्वनौ = गुर्वी महती चासौ गदा तस्य घोरध्वनिः विकटशब्दो यत्र तस्मिन्, संयुगे = संग्रामे, सति, श्लोकस्य मध्य एव द्रौपदीवचनं ततस्ततः राक्षसचनं कथमिति । सीरी = बलभद्रः, सत्वरम् = शीघ्रम्, आगतः । युद्धात्पूर्वमेव तीर्थयात्रार्थं गतो बलभद्रस्तस्मिन्नेव काले दैवात्कुरुक्षेत्र आगत इति भावः । तस्य = बलभद्रस्य अग्रतः = पुरस्तात्, चिरम्, सङ्गरः = युद्धम् 'सङ्गरो युधि चापदि इति मेदिनी । अभूत्, तु = किन्तु, हलिना = बलभद्रेण, प्रियशिष्य- ताम् = प्रियः शिष्यो यस्य, अथवा प्रियश्चासौ शिष्यः, तस्य भावः, ताम्, दुर्योधनो बलरामस्य प्रधानशिष्य आसीदित्याधिकः स्नेहस्तत्रेति भावः । आलम्ब्य= संगृह्य, रहसि=विविक्ते, संज्ञा=सङ्केतः, आहिता=दत्ता, कुरुत्तमः=कुरुषु श्रेष्ठः, याम्=संज्ञां, सङ्केतम्, आसाद्य=प्राप्य, दुःशासनारौ = दुःशासनशत्रौ, भीम इत्यर्थः । प्रतिकृतिम् प्रतिक्रियां, दुःशासनहननस्येत्यादिः गतः = प्राप्तः । दुःशासनाव्रजेन भीमो हत इति भावः शार्दूलविक्रीडितं छन्दः ॥ १५ ॥ द्रौपदी— शीघ्र ही उठकर) कहो फिर क्या हुआ ! राक्षस—( मन ही मन ) किस प्रकार इन दोनों को मूर्च्छित करूँगा (प्रकटरूप से) शीघ्र ही बलराम पहुँच गये । उनके समक्ष प्रभूतकाल तक संग्राम होता रहा । हलधर ने शिष्य का पक्षपात करके एकान्त में संकेत किया । जिसे प्राप्त करके कौरवेश्वर (दुर्योधन) दुःशासन के शत्रु का प्रतीकार (बदला लेना ] करने के लिए कटिबद्ध हो गए ॥ १५ ॥ युधिष्ठिर—हा ! वत्स भीम !! ( कह कर मूर्च्छित हो जाते हैं ) द्रौपदी—हा ! नाथ !! भीमसेन !!! हाय, मेरे अरमान का बदला लेने में अपने प्राण के

२७८ वेणीसंहारं नाटकं जडासुरवहडिम्बकिम्मीरकीचअजरासंघणिसूढण, सोअन्धिआहरणचाडु- आर, देहि मे पडिवअणम् । ( इति मोहमुपगता । ) ( हा नाथ भीमसेन, हा मम परिभवप्रतीकारपरित्यक्तजीवित, जटासुरवकहिडिम्बकिर्मीरकीचकजरासन्धनिषूदन, सौगन्धिकाहरणचाटुकार, देहि मे प्रतिवचनम् । ) कञ्चुकी—( सास्त्रम् । ) हा कुमार भीमसेन, धार्तराष्ट्रकुलकमलिनीप्रा- लेयवर्ष, (ससंभ्रमम् ।) समाश्वसितु महाराजः । भद्रे, समाश्वासय स्वामि- नीम् । महर्षे, त्वमपि तावदाश्वासय राजानम् । राक्षसः—(स्वगतम्।) आश्वासयामि प्राणान्परित्याजयितुम् । ( प्रकाशम् ) भो भीमाग्रज, क्षणमेकं चीयतां समाश्वासः । कथाऽशेषोऽस्ति । मम, परिभवप्रतीकारत्यक्तजीवित=परिभवस्य वस्त्रकेशाकर्षणजन्यतिरस्कारस्य यः प्रतीकारो प्रतिक्रिया तदर्थं परित्यक्तं जीवितं प्राणा येन सः तत्सम्बोधने, जटेति= जटासुरादयो राक्षसविशेषाः, कीचक विराटस्य श्यालः, जरासन्धो मगधराजः, एतेषामपि यो हन्ता सोऽपि दुर्योधनेन हत इत्याश्चर्यमिति गूढाभिप्रायः । सौगन्धिका- हरणचाटुकार=सौगन्धिकस्य शुक्लकह्लारस्य आहरणेन चाटु इष्टं करोति यस्त- त्सम्बोधने, प्रतिवचनम् = प्रत्युत्तरम् । धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष = धार्तराष्ट्रकुलमेव कमलिनी पद्मं तत्र प्राले- यस्य हिमस्य चप वर्षक ! पचादित्वादप्रत्ययः । धृतराष्ट्रकुलविनाशने कमलवनवि- नाशकतुषारतुल्यत्वमिति भावः । भद्रे = चेटि, तत्रभवतीम् = पूज्याम् । राक्षस्याभीष्टन्तु प्राणत्याजनमेवात आह — आश्वासयामीति । चीयताम् — संगृ- ह्यताम्, कथाविशेषः = कथनावशिष्टम् । छोड़ने वाले, हाय जटासुर, बक, हिडिम्ब, किर्मीर, कीचक और जरासन्ध के संहारक तथा सुगन्धित कमलपुष्पों को देकर प्रसन्न रखने वाले ! मुझे उत्तर दीजिए ( मूर्च्छित हो जाती है ) कंचुकी—( आँसू भरकर ) हाय कुमार भीमसेन ! धार्तराष्ट्र [ कौरव ] वंशकमलिनी के लिए हिमपात सदृश ! ( विह्वल होकर ) महाराज धैर्य धारण कीजिए । कल्याणि ! स्वामिनी को धैर्य धारण कराओ । तपस्विन् ! आप भी महाराज को सान्त्वना दीजिए । राक्षस—( मन ही मन ) प्राणों को परित्याग करा देने के लिए सान्त्वना दूँगा । ( प्रकटरूप से ) ऐ भीम के ज्येष्ठ भ्राता ! क्षण भर के लिए धैर्य धारण कीजिए । सन्देश का अन्त ही हो रहा है।

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७९ युधिष्ठिरः—( समाश्वस्य ) महर्षे, किमस्ति कथाशेषः ? द्रौपदी—( प्रतिबुद्धा । ) भयवं, कहेहि, कीदिसो कहासेसो त्ति ? ( भगवन्, कथय कीदृशः कथाशेष इति । ) कञ्चुकी—कथय कथय । राक्षसः—ततश्च हते तस्मिन्सुक्षत्रिये वीरसुलभां गतिमुपगते समग्र- सङ्गलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य प्रत्यग्रक्षतजच्छटाचर्चितां तामेव गदां भ्रातृहस्ताद् यत्नादाकृष्य निवार्यमाणोऽपि संधित्सुना वासुदेवेन आगच्छागच्छेति सोपहासं भ्रमितगदाझङ्कारमूर्च्छितगम्भीरवचनध्वनि- नाहूयमानः कौरवराजेन तृतीयोऽनुजस्ते किरीटी योद्धुमारब्धः । अकृति- नस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुर- तिप्रयत्नात् स्वरथमारोप्य द्वारकां नीतः । वीरसुलभाम्=वीरप्राप्याम्, सङ्ग्राममृत्युरुपामित्यर्थः । उपगते=प्राप्ते, समग्र- सङ्गलितम् = समग्रं निखिलं गलितं निःसृतम्, भ्रातृवधशोकजम् = अनुजविनाश- जन्यो यः शोकः तज्जन्यं यद् बाष्पं तद्बाष्पं तव, प्रमृज्य = सम्प्रोञ्छ्य प्रत्यग्रक्षतज- च्छटाचर्चिताम् = प्रत्यग्रम् अभिनवम् सद्यो निःसृतमित्यर्थः यत् क्षतजं रुधिरं तस्य या छटा समूहः तया चर्चितां व्याप्ताम् । यत्नादिति-यत्ने हेतुः मृतहस्ताद् गृहीत- त्वम् । निवार्यमाणः = निषिध्यमानः, सोपहासम् = निन्दावाचकशब्दसहितम्, भ्रमि- तगदाझङ्कारमूर्च्छितगम्भीरवचनध्वनिना = भ्रमितगदायाः झङ्कारेण करणभूतेन मूर्च्छितम् अधःकृतं गम्भीरवचनं धीरवाक्यं येन कर्त्रा स चासौ ध्वनिश्चतेन करण- भूतेन, केवलं गदाझङ्कार एव, श्रूयत इति भावः । तृतीय इति स्वमादाय तृतीय इत्यर्थः । किरीटी=अर्जुनः अकृतिनः = अनिपुणस्य, गदायुद्धेऽनभिज्ञस्येत्यर्थः निधनम् = मृत्युम्, उत्प्रेक्षमाणेन=सम्भावयता, कामपालेन = बलभद्रेण, देवकी- युधिष्ठिर—(चैतन्य होकर) भगवन् ! कहिए कथा का अवशिष्ट भाग क्या है ? द्रौपदी—भगवन् ! कहिए किम प्रकार कथा का अवशिष्टांश है । कंचुकी—कहिए कहिए । राक्षस—अनन्तर उस क्षत्रियोत्तम के मर कर वीरोचित गति को प्राप्त होने पर भ्रातृ- वध के शोक से निकली हुई सम्पूर्ण अश्रुधाराओं को पोंछकर ही शीघ्र के प्रहार से टूट-फूटे हुए अंगों से बहने वाले रक्त की छटा से रञ्जित उसी भीम की गदा को हाथ से खींच कर सन्धि करने के इच्छुक वासुदेव के द्वारा मना करने पर भी आपके तीसरे भाई अर्जुन ने

२८० वेणीसंहारं नाटकं

युधिष्ठिरः—साधुः ! भो अर्जुन, तदैव प्रतिपन्ना वृकोदरपदवी गाण्डीवं
परित्यजता । अह पुन: केनोपायेन प्राणापगमनमहोत्सवमुत्सहिष्ये ।
द्रौपदी—हा णार भीमसेण, ण जुत्तं दाणि दे कणीअसं भादरं असि-
क्खिदं गदाये, दारुणस्स, सत्तुणो अहिमुहं गच्छन्तं उवक्खिदुम् । (मोहमु-
पगता ।) ( हा नाथ भीमसेन, न युक्तमिदानी ते कनीयांसं भ्रातरमशिक्षितं गदायां
दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुम् । )
राक्षसः —ततश्चाहं...
युधिष्ठिरः —भवतु मुने, किमतः परश्रुतेन । हा तात भीमसेन, कान्ता-
रव्यसनवान्धव, हा मच्छरीरस्थितिविच्छेदेकातर, जतुगृहविपत्समुद्रतरण-
सूनुः=कृष्णः नीत इति मुख्ये कर्मणि क्तप्रत्ययात्कृष्ण इति प्रथमान्तम्, बलरामः कृष्णे
नीत्वा द्वारकां गत इति भावः ।
तदैव = गदाग्रहणसमय एव अथवा भ ममृत्यसमय एव, प्रतिपन्ना = प्राप्ता
वृकोदरपदवी = भीमवर्म स्वर्गमित्यर्थः गाण्डीवं परित्यजतेति-एतेन यदि त्वया,
गाण्डीवो न त्यक्तः स्यात्तदा तवैव विजयः स्यादतस्त्वमपि भीममरणजन्यदुःख देव
मृत इति ध्वनितम् । प्राणापगमनमहोत्सवं = प्राणापगमनं प्राणत्यागः तदेव महोत्सवः
तम्, उत्सहिष्ये = करिष्ये । उपेक्षितुम् = औदासीन्य दर्शयितुम् ।
'आओ आओ' इस प्रकार के उपहास के साथ घुमाये जाते हुए गदा की झङ्कार से विमिश्रित
गम्भीर वाणी में कुरुराज के द्वारा ललकारे जाने पर युद्ध करना प्रारम्भ कर दिया । गदायुद्ध
में अनभिज्ञ उम अर्जुन को गदाघात से मृत्यु की सम्भावना कर अर्जुन पक्षपाती श्रीकृष्ण
को बलराम प्रयत्नपूर्वक अपने रथ पर बैठाकर द्वारका ले गये ।
युधिष्ठिर—धन्य अर्जुन ! गाण्डीव का परित्याग करते हुए उसी क्षण वृकोदर की उपाधि
तूने प्राप्त कर ली और मैं किस उपाय से प्राण छोड़कर हृदय को धैर्य बँधाऊँगा ।
द्रौपदी—हाय नाथ भीमसेन ! प्रबल शत्रु के सम्मुख जाते हुए गदायुद्ध में अनभिज्ञ
अपने कनिष्ठ भ्राता की उपेक्षा करना तुम्हारे लिए उचित नहीं ।
( यह कह कर चेतनारहित हो जाती है )
राक्षस—उसके अनन्तर मैंने...
युधिष्ठिर—बस; तपस्विन् ! रहने दीजिए इसके आगे सुनने से क्या प्रयोजन ? हाय
भाई भीमसेन, हाय दुर्गम वनों के पथप्रदर्शक, हाय मेरे शरीर की स्थिति के भङ्ग के लिए
कायर, हाय लाक्षागृह के कष्टरूपी समुद्र से पार लगाने वाले जलयान [ जहाज ], हाय

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८१ यानपात्र, हा किर्मीरहिडिम्बासुरजरासन्धविजयमल्ल, हा कीचकसुयोध- नानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्, हा कौरववनदावानल, निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सीदता भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता। किं नामापकृतं मया तदधिकं त्वय्यद्य निर्वत्सलं त्यक्त्वाऽनाथमबान्धवं सपदि मां येनासि दूरं गतः ॥ १७॥ द्यूतपणप्रणयिन् = द्यूते अक्षक्रीडायाम् पणः उत्सृष्टधेनुतुल्यः अत एव प्रणयी स्नेहपात्रम् तत्सम्बोधने, द्यूते स्वीयमेव वस्तु पणीक्रियत इति भावः । कौरववनदावा- नल = कौरवा एव वनं तस्मिन्, दावानल वनाग्नितुल्य । अन्वयः—( हे ) वत्स !, दुरोदरव्यसनिनः, निर्लज्जस्य, मे, भक्त्या, समदद्वि- पायुतबलेन, सीदता, त्वया दासता, अङ्गीकृता, अद्य, त्वयि, तदधिकम्, मया, किं नाम, अपकृतम्, येन, निर्वत्सलम्, अबान्धवम्, अनाथम्, माम्, सपदि, त्यक्त्वा, दूरम्, गतः असि ॥ १७ ॥ इदानी कमपराधं मत्वा त्वं गत इत्याह—निर्लज्जस्येति । वत्स=प्रिय, दुरोदर- व्यसनिनः = दुरोदरे द्यूतव्यसने आसक्तः तस्य, 'द्यूते दुरोदरमि'त्यमरः । अत एव निर्लज्जस्य = त्रपारहितस्य मे = मम, भक्त्या = अतिश्रद्धया, समद्विपायुतबलेन = समदाः मत्ता ये द्विपाः हस्तिनः तेषाम्, अयुतं दशसहस्राणि, तस्य यद्वलं तत्तुल्यं बलं यस्य तेन, तथापि सीदता=क्लिश्यता, त्वया, दासता = भृत्यत्वम्, अङ्गीकृता, द्यूते हारितेन दुर्योधनस्य दासत्वमङ्गीकृतम्, अथवा गुप्तावाससमये विराटस्य, अद्य = इद नीम्, अस्मिन्नहनि वा, तदधिकम् = दासताऽधिकम्, त्वयि = भीमे, मया, किं नाम, अपकृतम्, न किमपीत्यर्थः । येन = यत्कारणेन, निर्वत्सलम् = भ्रातृस्नेहरहि- तम्, अबान्धवम् = बन्धुरहितम्, अत एव अनाथम्, माम्, सपदि=शीघ्रम्, त्यक्त्वा दूरम् = विप्रकृष्टम् गतः, असि । अत्र विशेषणस्य साभिप्रायकत्वात्परिकरोऽलङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ किर्मीर, हिडिम्बासुर और जरासन्ध पर विजय प्राप्त करने वाले योद्धा, हाय कीचक और सुयोधन के भ्रातारूपी कमलवन के मत्त मातङ्ग ! हे वत्स ! मतवाले दस हजार हाथियों के बल से सम्पन्न तूने उस समय जुए के व्यसन में रत अतएव निर्लज्ज मेरी दासता को आदर के साथ स्वीकार किया था उससे अधिक मैंने तुम्हारा आज क्या अपकार किया है कि अनाथ बन्धुहीन मुझको छोड़कर शीघ्र ही चले जा रहे हो। आज वह तुम्हारा प्रेम कहाँ है ? ॥ १७ ॥

६. षष्ठ अङ्क: दुर्योधन वध, भीम प्रतिज्ञा-पूर्ति एवं द्रौपदी वेणी-संहार

An exact line-by-line transcription of the text from the image into Devanagari script:

२८२ | वेणीसंहारं नाटकं द्रौपदी - ( संज्ञामुपलभ्योत्थाय च । ) महाराज किं एदं वह्ठइ । (महाराज, किमेतद्वर्तते । ) युधिष्ठिरः—कृष्णे, किमन्यत् ? स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः । गदापरिघशोभिना भुजयुगेन तेनान्वितः प्रियस्तव समानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥ १८ ॥ एतद्=मुनिभिरुक्तम्, किं वर्तते = किमर्थकमस्ति कोऽभिप्राय इत्यर्थः । अन्वयः—सः, कीचकनिषूदनः, बकहिडिम्बकिर्मीरहा, मदान्धमगधाधिपद्विरद- सन्धिभेदाशनिः, गदापरिघशोभिना, भुजयुगेन, तेन, अन्वितः, तव, प्रियः, मम, अनुजः, अर्जुनगुरुः, अस्तम्, गतः, किल ॥ १८ ॥ मुनिभिरुक्तस्याभिप्रायमेवाह = स कीचकेति । सः = सर्वजनवेद्य, कीचकनिषू- दनः = विराटश्यालस्य हन्ता, बकहिडिम्बकिर्मीरहा = बकासुरहिडिम्बासुरकिर्मीरना- मकराक्षसानां हन्ता, मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः = मदान्धो यो मगधा- धिपः जरासन्धः स द्विरदः हस्ती इव, उपमितसमासः । तस्य सन्धिभेदे जराराक्ष- सीकृतसंश्लेषस्य, भेदने अशनिः वज्र, इव । अनेन विशेषणत्रयेण महापराक्रमिणो वधो जात इत्येको महाखेदे हेतुः । गदापरिघशोभिना = गदा परिघ इव तेन शोभते इति तथा भूतेन, तेन = प्रसिद्धेन, भुजयुगेन=युगः रथाङ्गकाष्ठविशेष इव भुजः तेन, अथवा भुजयुग्मेन 'यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । अन्वितः, खेदे द्वितीयं हेतुमाह --तवेति । तव=स्त्रियाः, प्रियः=स्नेही तं विना त्वमपि जेवितुं न शक्नोषीति भावः । तृतीयमाह—ममेति । मम, अनुजः =कनिष्ठभ्राता, कनिष्ठभ्रा- तर्यतीव स्नेहो भवतीति तदभावेऽहमपि जीवितुं न शक्नोमीति भावः । चतुर्थहेतु- माह-अर्जुनेति । अर्जुनगुरुः=अर्जुनस्य गुरुः श्रेष्ठः । श्रेष्ठस्य विपत्तौ स्वयमपि विपन्ने एवेति भावः । एतेन नकुलसहदेवावपि न जीवितुं शक्नुत इति ध्वनितम् । अस्तम् = विनाशम्, गतः किल इति सम्भावनायाम् 'वार्तासम्भाव्ययो. किल' इत्यमरः । द्रौपदी—( चैतन्य होकर और उठकर ) महाराज यह क्या है ? युधिष्ठिर—कृष्णे ! और क्या है ?— वह कीचक-निहन्ता बक, हिडिम्ब और किर्मीर का घाती; मदोन्मत्त मगधराजरूप वारण [ हाथी ] की हड्डियों की सन्धियों को भग्न करने में वज्र के सदृश, गदा और मुद्गर से सुशोभित दोनों बाहुओं से युक्त; आपका प्रियतम, मेरा कनिष्ठ भ्राता तथा अर्जुन का ज्येष्ठ भ्राता [ भीम ] आज अस्त हो गया ॥ १८ ॥

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८३ द्रौपदी—णाह भीमसेण, तुए किल मे केसा संजमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुम् । ता पडिवालिहि मं जाव उवसप्पामि । ( पुनर्मोहमुपगता । ) ( नाथ, भीमसेन, त्वया किल मे केशाः संयमयितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय मां यावदुपसर्पामि । ) युधिष्ठिरः — ( आकाशे । ) अम्ब पृथे, श्रुतोऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासन्धशत्रो, किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथवा मयैव बहूपलब्धम् ! दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे । तया चैतद्वचसा सम्भावयामि भीमस्य मृत्युमित्याकूतम् । अत्र द्वितीयचरणे लुप्तोपमाऽ- लङ्कारः, चतुर्थे उल्लेखः । पृथ्वी छन्दः ॥ १८ ॥ संयमयितव्याः = बन्धनीयाः । शिथिलयितुम् = उपेक्षितुम्, एतेन प्रतिज्ञापूर्ति करिष्यस्येवेति ध्वनितम् । उपसर्पामि = समीपमागच्छामि । समुदाचारः = व्यवहारः, इत्थं न कर्तव्यं तेनेति भावः । अल्पायुषि = अल्पदिव- सजीविनि, वैपरीत्यम् = चिरायुष्ट्वविरुद्धसूचकम्, किं नाम, समालोकितं, जनेनेत्य- न्वयः । उपलब्धम् = प्राप्तं दृष्टमिति यावत् । अन्वयः — करदीकृताखिलनृपाम्, मेदिनीम्, मे, दत्त्वा, यत्, लज्जसे, मया, द्यूते, पणीकृतोऽपि, यच्च, न क्रुध्यसि, हि, प्रीयसे, मम, स्थित्यर्थम्, मत्स्यराजभवने यत्, सूदताम्, प्राप्तः, असि, ( हे ) वत्स !, ते, सहसा, विनश्वरस्य, एतानि, चिह्नानि, दृष्टानि ( मया ) ॥ १९ ॥ किमुपलब्धमित्याह—दत्त्वेति । करदीकृताखिलनृपाम् = करदीकृताः अखिलाः, द्रौपदी—स्वामिन् वृकोदर ! मेरी वेणी आपको बाँधना है । वीर क्षत्रिय के लिए प्रतिज्ञा ढीली करना उचित नहीं, अतः मैं आपके समीप आ रही हूँ आप अपनी प्रतिज्ञा पूर्ण कीजिए ( फिर मूर्च्छित हो जाती है ) युधिष्ठिर — ( आकाश को देखकर ) मातः पृथे ! ( कुन्ति ! ) यह अपने पुत्र का दुःखद वृत्तान्त सुनो ! मुझ असहाय को अकेला विलखते हुए छोड़कर वह न मालूम कहाँ चला गया ! हे तात जरासन्ध के शत्रु ! आपके इतने ही समय के अल्पायु में लोगों ने क्या उलटा विचारा था अथवा मैंने ही बहुत सा वैपरीत्य पाया था । कर न देने वाले समग्र भूमण्डल के राजाओं को करदाता बनाकर पृथ्वी को मुझे