भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥१११॥

प्र० सं० अ० १६१

मानुष्ये च परां ऋद्धिमृच्छत्याप्नोत्यसंशयम् ॥ वनादाहृत्य कुसुमैः कर्तव्यं देवतार्चनम् ॥ १६ ॥ पत्रं पुष्पं फलं तोयं दूर्वाङ्कुरमथापि वा ॥ निवेदयित्वा कृष्णाय भोक्ता नाकमवाप्नुयात् ॥ अक्षमैस्तूपवासान्सां तथा धनविवर्जितैः ॥ १७ ॥ वनादाहृत्य कुसुमैः कर्तव्यं देवतार्चनम् ॥ अरण्यादाहृतैः पुष्पैः सम्पूज्य मधुसूदनम् ॥ १८ ॥ पूर्वजन्मनि सम्प्राप्तं राज्यं शृणु नराधिप ॥ द्रुहो ययातिर्नहुषो विबभ्रुष्वः करन्धमः ॥ १९ ॥ दिलीपो यवनाश्वश्च ऋतुपर्णो भगीरथः ॥ सोमकरः सहदेवश्च महामालो महाद्युतिः ॥ २० ॥ रेवकः कालकाख्यश्च कृतवीर्यो गुणाकरः ॥ देवरातः कङ्कु- -स्त्यश्च विनीतो विक्रमे रघुः ॥ २१ ॥ महोत्साहो वीतभयो निरमित्रः प्रभाकरः ॥ कपोतोरोमा पर्जन्यश्चन्द्रसेनः परात्मकः ॥ २२ ॥ भीमसेनो दृढरथः कुशनामः प्रभञ्जनकः ॥ एते चान्ये च बहवः पूर्वजन्मनि केशवम् ॥ २३ ॥ पूजयित्वा सितावत्यां प्रापु राज्यमकण्टकम् ॥ यत्नत्वमथ दैवत्वं गन्धर्वत्वं तथैव च ॥ २४ ॥ विद्याधरत्वं नागत्वं ये गता मनुजोत्तम ॥ बहुत्वात्ते कथं शक्या मया वक्तुं तवानघ ॥ २५ ॥ तस्माद्यत्नः सदा कार्यः पुष्पैः कुसुमार्चने ॥ २६ ॥ अरण्यजातैः कुसुमैः सदैव संपूजयित्वा स्वयमाहृतैस्तु ॥ संवेधरत्वं फलमाप्नुवन्ति राजेन्द्र तद्वर्णयितुं न शक्यम् ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुष्पाहरणफलवर्णनं नामाष्टषष्ट्यधिकशततमोऽध्यायः ॥ १६८ ॥

वज्र उवाच ॥ अटव्यो दारुणा ब्रह्मन् सिंहव्याघ्रनिषेविताः ॥ तस्करैराचिता घोराः सरीसृपविमिश्रिताः ॥ १ ॥ नित्यौचित्यस्य चाध्वानं दाहूय करं परम् ॥ अतः स्वल्पतरं कर्म ब्रूहि मे केशवार्चने ॥ २ ॥ मार्कण्डेय उवाच ॥ अतः स्वल्पतरं राजेन्द्र वेश्ममार्जनलेपनम् ॥ महाफलं विनिर्दिष्टं शास्त्रज्ञैर्वेदपारगैः ॥ ३ ॥ सम्मार्जनं तु यः कुर्यात्पुरुषः केशवालये ॥ रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः ॥ ४ ॥ पांसूनां यावतां सङ्ख्यां कु- -र्यात्सम्मार्जने नरः ॥ तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते ॥ ५ ॥ अभ्युक्षणं तु यः कुर्यादपनीतेन सुरालये ॥ स शान्तपापो भवति नात्र कार्या विचारणा ॥ ६ ॥ कृतवोपलेपनं विष्णोर्निरस्तयायतेने सदा ॥ गोमयेन शुभैर्लोकानन्यान्लोकाद्गच्छति ॥ ७ ॥ हस्तप्रमाणं भूभागमुपलिप्य नराधिप ॥ देवरामाश्रतं नाकं लभेत सततं नरः ॥ ८ ॥ ततोऽनुसारेण फलं विस्तृतायां क्षितौ स्मृतम् ॥ नित्यासम्प्रभ्रन्तू तथा देववेश्मोपलेप- -ने ॥ ९ ॥ त्रिः पक्षस्य तु कुर्वीत देववेश्मोपलेपनम् ॥ पञ्चमीं दशमीं चैव तथा पञ्चदशीं नृप ॥ १० ॥ त्रिः पक्षस्य सदा कृत्वा देववेश्मोपलेप- -नम् ॥ संवत्सरात्तदाप्नोति यत्फलं तन्निबोध मे ॥ ११ ॥ जन्मान्तरमथासाद्य गृहं प्राप्नोत्यनुत्तमम् ॥ सर्वोपभोगसंयुक्तं गृहाप्तासङ्कुलम् ॥ १२॥ वृक्षोद्यानलतातल्पतोयवापीविभूषितम् ॥ गवांश्वधनधान्याढ्यं सर्वापकरणैर्युतम् ॥ १३ ॥ प्रियंवदामिष्टहासिंः स्वरूपाभिश्च पार्थिव ॥ वृतं च

॥१११॥

बहुभिः स्त्रीभिश्चांशुरश्मिरेव च ॥ १४ ॥ गार्हस्थ्यं च दृढं तत्र स चाप्नोति महीतले ॥ न च प्रच्यवनं तस्यार्जितान्नापि कर्हिचित् ॥ १५ ॥ तस्य ये बान्धवास्तत्र सर्वे ते दीर्घजीविनः ॥ भवन्ति न भवन्त्यस्य आधयो व्याधयस्तथा ॥ १६ ॥ न तस्य मृतनिक्क्रान्तिर्गृहे भवति कर्हिचित् ॥ यावज्जीवत्यसौ तत्र गृहे श्रीमान्सुतायुतः ॥ १७ ॥ चौरेभ्यो न भयं तस्य न च व्याधिकृतं भयम् ॥ व्यालभूपादिजं वापि न क्व तस्य फलं भवेत् ॥ १८ ॥ स्वरूपः सर्वसिद्धार्थो दीर्घायुर्धैर्यवर्जितः ॥ आज्ञाविधेयभृत्यश्च ध्रुवं स्यान्मनुजेश्वर ॥ १९ ॥ भुङ्क्ते यः सदा कुर्यात्तस्यैतत् कथितं फलम् ॥ भक्तभोजी तथा कृत्वा द्विगुणं फलमाप्नुयात् ॥ २० ॥ उपोषितस्तु रिक्तासु पूर्णेषु तु हरेर्गृहे ॥ कृत्वोपलेपनं नित्यं चानन्त्यं फलमश्नुते ॥ २१ ॥ उपलेपनकृच्चस्तु कृष्णापायतने भवेत् ॥ पापसंमार्जनं तस्य शीघ्रमेव भविष्यति ॥ २२ ॥ निष्पापद्यमेतत्सुरवं नरेन्द्र आराधनं देववरस्य विष्णोः ॥ प्रोक्तं मया ते धनवर्जितानां धनान्यन्वितानां सफलं विशेषम् ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उपलेपनफलप्रशंसनो नामैकोनसप्तत्यधिकशततमोऽध्यायः ॥ १६९ ॥

मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ फलमासाद्य गृहीतं देववेश्मोपलेपने ॥ १ ॥ बभूव शूद्रजातीयः कश्चिदङ्गाद्यविवर्जितः ॥ कृतवान्स तु वाणिज्यं धनलोपेन केनचित् ॥ २ ॥ तस्मिन्विपन्ने स कृषिं चकार नृपसत्तम ॥ तस्यामपि विपन्नायां चक्रे सेवां पुनःपुनः ॥ ३ ॥ ततोऽप्यनासाद्य फलं सिद्धिं तीरमुपाश्रितः ॥ गङ्गायाः सप्तमो भागः सिन्धुर्नेरनरोत्तम ॥ ४ ॥ शीतलामलपानीयः स्वर्गलोकप्रदायकः ॥ यत्र स्नात्वा गतिं यान्ति ब्राह्मणाश्च तपस्विनः ॥ ५ ॥ तस्य तीरे वराहचर्चा पुराणाविधिनिर्मिता ॥ तां समासाद्य शूद्रस्तु नित्यं भैक्ष्यपरायणः ॥ ६ ॥ नित्योपलेपनपरस्तद्देवोदेववेश्मनि ॥ उवास भार्यया सार्धं तत्र नित्यानुरक्तया ॥ ७ ॥ एतस्मिन्नेव काले तु वराहाच्चांदिदृक्षया ॥ सौवीरराजः सम्प्राप्तस्तं देशं चित्रवाहनः ॥ ८ ॥ सिन्धौ स्नानं समासाद्य पूजयित्वा जगत्पतिम् ॥ सभार्यः पृथिवीपालः प्रायाद्राजन्यथागतः ॥ ९ ॥ श्वित्त्य तस्य तु तां दृष्ट्वा स शूद्रो भार्यया सह ॥ भूपाळत्वस्पृहां कृत्वा कालकालवशङ्गतः ॥ १० ॥ वनात्काष्ठान्युपाहृत्य कृत्वा भर्त्तुस्तथाऽग्निचितिम् ॥ अन्वारुरोह तं भार्या शूद्रं पञ्चत्वमागतम् ॥ ११ ॥ स शूद्रो भार्यया सार्धं नाकपृष्ठमितो गतः ॥ सततं धर्मशीलस्तु देववेश्मोपलेपनात् ॥ १२ ॥ एतस्मिन्नेव काले तु युवनाश्वो महीपतिः ॥ विष्णुं सम्पूजयामास पुत्रीयेण व्रतेन तु ॥ १३ ॥ राज्ञस्तस्य व्रतस्यान्ते स्वप्ने प्राह जनार्दनः ॥ भार्गवं च्यवनं गच्छ ततः पुत्रमवाप्स्यसि ॥ १४ ॥ युवनाश्वस्तथोत्थाय स्वप्ने दैवेन चक्रिणा ॥ प्रातः पद्भ्यां ययौ तस्य च्यवनस्याश्रमं शुभम् ॥ १५ ॥ सम्पूज

वि० ध० ॥११२॥

प्र० खं० अ० १७० ॥११३॥

स्थित्वा च्यवनं च्यवनेन च पूजितः ॥ ऋतस्तमाश्रमे तस्य जगाद नृपसत्तमः ॥ १६ ॥ ऋषिसङ्घमुपादाय च्यवनोऽपि महातपाः ॥ अविज्ञातं नरेन्द्रेण पुत्रीयं कृतवाञ्जलम् ॥ १७ ॥ कलशस्थं जलं तच्च स्थापयामास भार्गवः ॥ ततो निशीथे संप्राप्ते तृषार्त्तः स महीपतिः ॥ १८ ॥ ऋषिमध्ये तु स सुप्तांस्तानावम्यैवाऽब्रवीत् ॥ तृषातोर्त्तस्य भृशं विप्राः पानीयं मे प्रयच्छत ॥ १९ ॥ ऋषिरतस्य न शुश्राव कश्चिद्ध्वार्थचोदितः ॥ ततः स्विन्नो महीपालः कलशस्थं जलं पपौ ॥ २० ॥ पीत्वा सुष्वाप ऋषयः प्रातः सर्वं समुत्थिताः ॥ अपश्यन्सालाः कलशं पप्रच्छुस्ते परस्परम् ॥ २१ ॥ पुत्रीयं कलशं राज्ञः कृतं गत्तद्गतं क्व नु ॥ तदोवाच स राजेन्द्रस्तांस्तृषेणांसितव्रतान् ॥ २२ ॥ तृषार्तेन मया पीतः कलशस्तवपाहितः ॥ ते होचुस्ते नृपश्रेष्ठं भाव्यं कर्म कृतं त्वया ॥ २३ ॥ भार्या पीत्वैव तत्तोयं पुत्रं ते जनयिष्यति ॥ इत्येवं मन्त्रकलशः सोऽस्माभिर्भूयते कृतः ॥ २४ ॥ पुत्रीयमुदकं तच्च त्वया पीतमबुद्धिना ॥ तस्मात्त्वमेव तनयं स्वकुक्षौ जनयिष्यसि ॥ २५ ॥ नावाप्स्यसि तथा मृत्युं वरदानाद्द्विजन्मनाम् ॥ एवमुक्तस्तु संपूज्य ब्राह्मणान्स्वगृहङ्गतः ॥ २६ ॥ राज्ञः कुक्षिं विनिर्भिद्य जज्ञे स बालकः कनकप्रभः ॥ द्युत्याऽसौ नाकविद्युतः ॥ २७ ॥ जातमात्रस्य तस्येन्द्रो ददौ प्रादेशिनीं मुखे ॥ आस्वाद्य तां स बालत्वं शिशुस्तत्याज तत्क्षणात् ॥ २८ ॥ कुक्षिं पस्पर्श राज्ञस्तु राजसिंहशतक्रतुः ॥ राजा शक्रकृपादृष्ट्या विशल्यश्चाभवत्क्षणात् ॥ २९ ॥ युवनाश्वः स तस्यापि नाम चक्रे शतक्रतुः ॥ मां धास्यतीति मान्धाता ख्यातिं त्रिभुवने गतः ॥ ३० ॥ तमाविवेश भगवांस्तेजसा स्वेन माधवः ॥ सापि सर्वाङ्गशुभा भार्या तस्य गुणान्विता ॥ ३१ ॥ काशिराजसुता जाता भीमवेगस्य मानद ॥ नाम्ना प्रभावती सुभ्रूस्त्रैलोक्यैकसुन्दरी ॥ ३२ ॥ युवनाश्वस्तु तां वत्रे भार्या तुल्यलक्षणान्विताम् ॥ स राजा प्रददौ तां तु मान्धातुर्विश्वभावनः ॥ ३३ ॥ एकैव भार्या सा तस्य बभूवात्यन्तसुन्दरी ॥ रूपयौवनसम्पन्ना प्राणभ्योऽपि गरीयसी ॥ कृत्वा विवाहं तस्यां चाप्यभिषिच्य च तं नृपम् ॥ ३४ ॥ युवनाश्वो वनं प्रायाज्जगामाऽथ त्रिविष्टपम् ॥ गतेऽथ ताते मान्धाता त्रैलोक्यं सप्तभिर्दिनैः ॥ ३५ ॥ रथेनैकेन वशगं चकार खड्गपाणिमान् ॥ पाताले गगने शैले समुद्रे च महात्मनः ॥ ३६ ॥ आसीत्तस्याप्रतिहता गतिश्चक्रस्य पार्थिव ॥ चक्रवर्ती स धर्मात्मा वैष्णवश्च तथाऽभवत् ॥ ३७ ॥ समा ह्ययुतानां दुर्गेह न गता दश मानद ॥ ब्रह्माण्डमण्डपं यावत्सूर्यस्तपति रश्मिभिः ॥ तावत्सर्वं महीभर्तुर्यौवनाश्वस्य कीर्त्यते ॥ ३८ ॥ एवं स राजा विजिताखिलारिर्गन्धर्वयक्षासुरपन्नगेन्द्रैः ॥ भार्या च सा तस्य बभूव भार्या लोके वरिष्ठा प्रमदावराभ्यः ॥ ३९ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मान्धात्रुपाख्यानं

नाम सप्तत्यधिकशततमोऽध्यायः ॥ १७० ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ स तु राजा मया ब्रह्मन्मान्धाता भुवनेश्वरः ॥ माहेश्वरेण
शूलेन लवणेन हतः श्रुतः ॥ १ ॥ मार्कण्डेय उवाच ॥ अजेयं वैष्णवं तेजस्तच्च नित्यं च जन्तुषु ॥ नाशमायान्ति ते सर्वे हीना वैष्णव-
तेजसा ॥ २ ॥ अविनाशि जगत्यस्मिन्न किञ्चिद्य विधीयते ॥ ऋते तु महतस्तस्मात्तेजसो नृप वैष्णवात् ॥ ३ ॥ तेजस्तस्य सुदुर्ग्राह्यं देहि-
भिर्नृप सर्वदा ॥ तस्मात्तेन विहीनास्ते क्षयं गच्छन्ति मानद ॥ ४ ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ॥ ब्रह्मा शम्भुस्तथैवार्कश्चन्द्र-
माश्च शतक्रतुः ॥ ५ ॥ एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥ गजच्छायानुमानेनं¹ वियुज्यन्ते च तेजसा ॥ ६ ॥ वितेजसश्च ते सर्वे वश्यत्वं
मुपयान्ति च ॥ पञ्चभूतात्मकं स्थूलं यत्किञ्चिज्जगतीगतम् ॥ ७ ॥ सर्वं विनाशि तज्ज्ञेयं त्वया पार्थिवसत्तम ॥ अविनाशि तु तद्विद्धि येन
विश्वमिदं ततम् ॥ ८ ॥ यत्तु गन्धगुणैर्हीनं रूपस्पर्शविवर्जितम् ॥ शब्दहीनं च विरसं सर्वेशं सर्वगं च यत् ॥ ९ ॥ निर्गुणं तद्गुणातीतमनन्तं
कथ्यं च दूरगम् ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ १० ॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥ सर्वैन्द्रियगुणं देवं सर्वतः परमे-
श्वरम् ॥ ११॥ अविनाशि तदेवैकं यस्योद्गतं जगत् ॥ सदाशिवेति तं केचिदाहुर्देवं जगत्पतिम् ॥ १२॥ वासुदेवेति चाप्यन्ये कालमित्येव चापरे ॥
दैवमित्यपरे तं च स्वभावमिति चापरे ॥ १३ ॥ कर्मेति चापरे प्राहुः पुरुषेति तथा परे ॥ प्रणवाख्यं तथा तं च विदुर्वेदाविदो जनाः ॥ १४ ॥
तदेकमजमव्यक्तमविनाशं नराधिप ॥ ऋते तमेकमीशानमंतवत्सकलं जगत् ॥ १५ ॥ एतत्त्वेतोक्तं भुवनस्य पत्युर्मया स्वरूपं यदुवंशचन्द्र ॥
भक्तिं विना बुद्धिमतापि यस्य शक्यं न वक्तुं ग्रहणं नरेण ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरुष-
स्वरूपवर्णनं नामैकसप्तत्यधिकशततमोऽध्यायः ॥ १७१ ॥ ॥ वज्र उवाच ॥ प्रादुर्भावा वराहाद्याः शर्वस्यास्यामितात्मनः ॥ महाभूतचयाः सर्वे
जन्ममृत्युयुताश्च ये ॥ १ ॥ यद्येवं प्राणिभिस्तेषां को विशेषो भृगूत्तम ॥ एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ २ ॥ मार्कण्डेय उवाच ॥
सर्वे जीवा महीपाल कर्मबन्धनबन्धनाः ॥ जायन्ते च म्रियन्ते च परतन्त्राः सदैव च ॥ ३ ॥ ईश्वरप्रेरितैर्नित्यं कर्मबन्धैः शुभाशुभैः ॥
जन्मान्तरकृतैर्नृप सुखदुःखसमन्विताः ॥ ४ ॥ वासुदेवस्तु धर्मात्मा प्रादुर्भावेषु यादव ॥ आत्मनः स्वेच्छया जन्म क्रियते मरणं तथा ॥ ५ ॥
कर्माणि न च लिम्पन्ति प्रादुर्भावेष्वपि प्रभुम ॥ कर्मस्वपि सदा सक्तं पद्मपत्रमिवाम्भसा ॥ ६ ॥ फलानां कर्मजातानां भोगं तत्रापि यादव ॥


¹ 'जगत्कार्यानुमानेन' इति क० ।

वि० ध० प्र० खं० अ० १७२

नृणां दृश्येते मिथ्या मर्यादाभेदभीतृषु ॥ ७ ॥ यदायदा हि धर्मस्य ग्लानिर्भवति यादव ॥ अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ॥ ८ ॥ देवतिर्यङ्मनुष्येषु गन्धर्वापगपिण्डिषु ॥ योनिष्वन्येष्वपि तथा बुद्ध्वा कार्यबलाबलम् ॥ ९ ॥ यस्यांप्यस्यां यदा योनौ प्रादुर्भवति कारणात् ॥ तद्योनिसदृशं तत्तस्तदा लोके विचेष्टते ॥ १० ॥ संहर्तुं जगदीशानः समर्थोऽपि तदा नृप ॥ तयोन्निग्रहसोपायैश्चर्यादिहसति यादव ॥ ११ ॥ ह्रादं तमस्तया नैशं सूर्तं च पुरुषोत्तमः ॥ एक एव स लोकानां नाशयत्यप्रबुद्धिभिः ॥ १२ ॥ ह्रादं ध्वस्तं तमस्तेन जगतो देवभूतये। ज्योतिरूपेण च ध्वस्तं तमो नैशं सुदारुणम् ॥ १३ ॥ तमो नाशयितुं मूर्तं प्रादुर्भावगतः सदा ॥ मूर्तं तमश्च राजेन्द्र दैत्यदानवराक्षसाः ॥ १४ ॥ वन्ध्यानामपि दैत्यानां देहस्थोऽपि जनार्दनः ॥ न तु विबुध्यते देहीति युक्त्या तांश्च जिघांसिति ॥ १५ ॥ देवतानां गुरूणां च द्विजानां च गुरुप्रियः ॥ शास्त्रदृष्टेन विधिना भक्त्याराधन रतः ॥ १६ ॥ न च तस्यास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ॥ नैवानाप्तमवाप्तव्यं वर्ततेऽथ च कर्मसु ॥ १७ ॥ सर्वज्ञः सर्वदर्शी च सर्वशक्तिरपि प्रभुः ॥ तथाप्यधीते यजते तपस्तप्यति पार्थिव ॥ १८ ॥ मर्यादास्थापनार्थाय जगतो हितकाम्यया ॥ करोति राजन्कर्माणि कीनाश इव दुर्बलः ॥ १९ ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते ॥ २० ॥ एतत्कारणमाश्रत्याय सदा कर्मसु वर्तते ॥ प्रादुर्भावकृतो विष्णुरन्यान्यः प्राकृतस्तथा ॥ २१ ॥ देवेभ्यश्च ऋषिभ्यश्च वरान्प्रार्थयते सदा ॥ वरांश्र वरदस्तंपां मान्यत्यपि पाण्डव ॥ २२ ॥ प्रादुर्भावगतन्मन्वान्मातङ्गोऽयमिति मानवाः ॥ पुरुषं नाभिगच्छन्ति मोहितास्तस्य मायया ॥ २३ ॥ प्रादुर्भावं गतोऽप्येवं संहर्तुं स जगच्चरम् ॥ निमेषान्तरमात्रेण शक्तिमात्राग्रतः प्रभुः ॥ २४ ॥ प्रादुर्भावगतस्यापि तस्य सर्वगता स्मृता ॥ स्वतन्त्रता च सर्वत्र नात्र कार्या विचारणा ॥ २५ ॥ महद्विशेषेणतते प्राणिभिः प्राणिनां पतेः ॥ प्रभोरुक्तं तस्य देवस्य सर्वगत्य स्वयम्भुवः ॥ २६ ॥ अक्षिताः कर्मभिः पुण्यैः केचिद्बहुगुणोत्तराः ॥ तेषामाविशते स्वेन तेजसा तेन सर्वेशः ॥ २७ ॥ आविष्ठस्तेजसा, तेन देवेन परमेष्ठिना ॥ तद्धकर्माणि कुर्वन्ति पूज्यमाना महर्षिभिः ॥ २८ ॥ तथा तु काले संप्राप्तेस्तन्मर्त्यांस्त्यजत्यसौ ॥ दिध्नन्तवशमायान्ति तस्यैव रुचिनं यथा ॥ २९ ॥ ये च केचन लोकेऽस्मिन्दृश्यन्ते तेजसान्विताः ॥ तेषां तद्वैष्णवं तेजस्त्वया ज्ञेयं महीपते ॥ ३० ॥ यच्चन्द्रमसि यत्सूर्यो यच्च सूर्ये जगत्पतौ ॥ तेजः पश्यति तत्सर्वं वैष्णवं विद्धि पार्थिव ॥ ३१ ॥ अगस्त्यप्रमुखानां च या च शक्तिरतीन्द्रिया ॥ तत्तस्य राजन्सा ज्ञेया त्वया वैष्णवतेजसा ॥ ३२ ॥ यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा ॥ तत्तदेवावगच्छ त्वं मम

॥ १३ ॥ ॥ ११३ ॥

वैष्णवेन तेजसा ॥ ३३ ॥ ब्राह्मणानां सुराणां च साध्वीनां च तथा गवाम् ॥ जगतां धारिणीं शक्तिं विद्धि तां वैष्णवीं विभो ॥३४॥ राजानस्तेजसा युक्ता वैष्णवेन वसुन्धराम् ॥ पालयन्ति महीपाल वीर्योदग्रा यशस्विनः ॥ ३५ ॥ ऋषयश्च तथा विप्रा वेदवेदाङ्गपारगाः ॥ पालयन्ति जग- त्कृत्स्नं युक्ता वैष्णवतेजसा ॥३६॥ ये त्वानुभावाद्ये केचिज्जायन्ते चक्रवर्तिनः ॥ गुरुणा विद्धि तान्सर्वान्संयुक्तान्विष्णुतेजसा ॥३७॥ आजानुबाहवः सर्वे न्यग्रोधपरिमण्डलाः ॥ जिह्वया सकलं वक्त्रं परिमार्जयन्ति ते तथा ॥३८॥ षष्ट्या दन्तैश्च संयुक्ता दंष्ट्राभिश्च तथाशुभैः ॥ ओजेयं च शुभं तेषां भवत्यन्तर्भुवेर्नृपा ॥ ३९॥ चक्राङ्कितैः पादतलेः करैश्चापि शराङ्कितैः ॥ जालपादकराश्चैव तथा तुरगमेहनाः ॥४०॥ रूपवन्तः प्रभावन्तो वपुष्मन्तश्च यादव ॥ अतीन्द्रियज्ञानबलाः पृथिव्यां चक्रवर्तिनः ॥४१॥ तेषां तु सप्त रत्नानि भवन्तीह महीतले॥हस्त्यश्वरत्नभार्यारत्नं तथैव च ॥४२॥ तथैवायुधरत्नं च मणिरत्ननिधिस्तथा ॥ चतस्रश्चाप्रतिहतास्तेषां तु गतयस्तथा॥४३॥पाताले गगने शैले समुद्रे च महीपते। स्तम्भितजलैः प्रयाणे चक्रवर्तिनाम् ॥ ४४ ॥ भूम्यश्च तथा शैला मार्गे तेषां भवन्ति तु ॥ भूमिर्ददाति विवरं पातालमुपयातताम ॥ ४५ ॥ न विषीदन्ति गगने तथा तेषां तुरङ्गमाः ॥ श्रुतेन तपसा यज्ञैर्वीर्येणाथाबलेन च ॥ ४६ ॥ सर्वेभ्यस्तेऽतिरिक्ष्यन्ते प्राणिभ्यो मनुजेश्वर ॥ आराधितजगन्नाथा ये प्राप्नुवन्तीह तत्पदम् ॥ ४७ ॥ वर्षायुतानि जीवन्ति षड्वै सप्त वा नृप ॥ तेषां च तेजसा विष्णुः करोत्याप्यायनं सदा ॥ ४८ ॥ येन ते कथितं सर्वं प्राप्नुवन्ति गुणोदयम् ॥ स्थानान्तरगतेनापि तेऽपि वैष्णवतेजसा ॥ ४९ ॥ संहारमुपगच्छन्ति क्षयकाल उपस्थिते ॥ क्षयकाले च मान्धातु- स्तेजस्तदतिदुःसहम् ॥ ५० ॥ वैष्णवं शूलिशूलमथाभ्यगात् ॥ स यादव ॥ अर्जुनस्य नरेन्द्रस्य युक्तस्य हरितेजसा ॥ ५१ ॥ हरेरेवान्तकृच्छास्ता रामो भृगुकुलोद्वहः ॥ भार्गवस्य च रामस्य तेजस्तदतिदुःसहम् ॥ ५२ ॥ आदत्ते वैष्णवं घोरं रामो दशरथात्मजः ॥ काश्चित्कलामधिष्ठाय तेन घोरेण तेजसा ॥ ५३ ॥ करोति देवकार्याणि कृतकर्मा ततः प्रभुः ॥ आदाने तेजसस्तस्य ध्रियते स स्वतेजसा ॥ ५४ ॥ नान्यः शमयिता लोके नृप वैष्णवतेजसः ॥५५॥ तस्यावतारेषु मया स्वरूपमेतत्तवोक्तं भुवनस्य पत्युः ॥ रहस्यमेतत्परमं मुनीनां ज्ञानामृतं कल्मषनाशकारि ॥ ५६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे प्रादुर्भावस्वरूपवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ १७२ ॥ वज्र उवाच ॥ भुवना- र्थेन यद्राज्ञा पुत्त्रीयं तु कृतं व्रतम् ॥ तमहं श्रोतुमिच्छामि जनानां हितकाम्यया ॥ १ ॥ मार्कण्डेय उवाच ॥ पुत्त्रीयं ते प्रवक्ष्यामि व्रतं भूपाल- सत्तम ॥ अनन्तव्रतमित्युक्तं सेवतां पुत्रजन्मदम् ॥ २ ॥ मासिमासि तु नक्षत्रे मासनाम्ना तु चिह्नितम् ॥ सम्प्राप्य पूजयेद्देवं सोपवासो नरो

वि० ध०
॥११४॥

पृ० सं०
अ० १६३

तम् ॥ ३ ॥ एकैकमङ्गं देवस्य प्रतिमासं विशेषतः शुङ्खः शृणु चाङ्गकर्म मम ॥ ४ ॥ मार्गशीर्षोदारभ्य व्रतमेतत्समासतः॥
देवस्य मार्गशीर्षे तु वामं जानु समर्चयेत् ॥ ५ ॥ कटिभागं तथा वामं पौषे मासि समर्चयेत् ॥ माघे मघासु वामं च भुजं देवस्य पूजयेत् ॥६॥
उत्तराफल्गुनीऋक्षे स्कन्धं वामं प्रपूजयेत् ॥ चतुर्ष्वेतेषु वामेषु गोमूत्रस्नानमाचरेत् ॥ ७ ॥ पूजनं देवदेवस्य रक्तैः पुष्पादिभिस्तथा ॥ होमो
घृतेन कर्तव्यस्तिलदानं द्विजातिषु ॥ ८ ॥ ताम्रस्य च तथा दानं गोमूत्रप्राशनं ततः ॥ हविष्याशीन चाहारं ततः कार्य विजानता ॥ ९ ॥
देवस्य दक्षिणं स्कन्धे चैत्रे चित्रासु पूजयेत् ॥ वैशाखे च विशाखासु बाहुं देवस्य दक्षिणम् ॥ १० ॥ दक्षिणं कटिभागं च ज्येष्ठे ज्येष्ठासु पूज-
येत् ॥ दक्षिणं च तथा जानुमाषाढे वैश्वदेवके ॥ ११॥ चतुर्ष्वेतेषु मासेषु क्षीरस्नानं विधीयते ॥ पीतपुष्पादिपूजा च देवदेवस्य चक्रिणः ॥ १२ ॥
होमं च शालिभिः कुर्याद्गवा देया द्विजातिषु ॥ रजतं च तथा देयं यथाशक्त प्रतिक्रिया ॥ १३॥तथा कार्या मनुष्येन्द्र श्रावणे श्रवणे ततः ॥ पादाङ्गु-
पूजयतस्य यत्स्यंदं सकलं जगत ॥ १४ ॥ शृते भाद्रपदे मासि आश्विने हृदयं ततः ॥ शिरसः पूजनं कार्यं कार्त्तिके कृत्तिकासु च ॥ १५ ॥ चतु-
र्ष्वेतेषु मासेषु दध्ना स्नानं विधीयते ॥ पूजनं देवदेवस्य शुक्लैः पुष्पादिभिस्तथा ॥ १६ ॥ क्षीरेण होमः कर्त्तव्यो घृतं देयं द्विजातिषु ॥
सुवर्णं च तथा राजन्दद्या कार्या मुजिक्रिया ॥ १७ ॥ अनन्तनाम जनयन् सर्वमासेषु पार्थिव ॥ तेनैव नाम्ना देवस्य होमकर्मोपि निर्दिशेत् ॥ १८ ॥
व्रतावसाने दातव्यं ब्राह्मणेभ्यस्तु भोजनम् ॥ दानं शक्त्या च दातव्यं ब्राह्मणेभ्यो नराधिप ॥ १९ ॥ संवत्सरमुपाह्नोति सर्वान्नेव मनोरथान् ॥
पुत्रार्थीभिश्चैतिकामैश्चैत्यादगधेनपुंसुभिः ॥ २० ॥ प्रार्थयद्भिश्च कर्त्तव्यं बलमारोग्यसम्पदम् ॥ एतद्व्रतं महागज पुष्यं स्वमन्ययनं परम् ॥ २१ ॥
अनन्तव्रतमित्युक्तं सर्वकल्मषनाशनम् ॥ व्रतमेतत्पुरा कृत्वा युवनाश्वो महीपतिः ॥२२ ॥ मान्धातारं सुतं लेभे गजान्तं चक्रवर्त्तिनम् ॥ इतत्प्रौर्वचम्च्च
राजेन्द्र भार्या शीलधरा तथा ॥ २३ ॥ व्रतेनानेन मा लेभे पुत्रं बाहुसहस्रिणम् ॥ कार्तवीर्यार्जुनं नाम गजान्तं चक्रवर्त्तिनम् ॥ २४ ॥ यमावविवंश
भगवांस्तेजसा स्वेन माधवः ॥ नमस्तं कार्तवीर्याय अर्जुनाय महात्मने ॥ २५ ॥ मनट्टोपिनसमुद्रायों मंदिन्यग्मीर्भगवांश्च ॥ एतावदुक्ता पृच्छन्
तिलप्रस्थस्य युज्यते ॥२६॥ राजन्दस्तस्य विविधद्वद्वाणाय यनामने ॥ यम्य वै जातमात्रम्य प्रववावनिलेः शुभः ॥ २७ ॥ नीजशक्रम्वृड्थ्याम
मुदं प्रापाखिलं जगत्॥तस्माश्चर्य नृपतिं देत्या मातृव्यतां गताः ॥२८॥ आश्रयामासुरव्याप्रश्शातशोऽथ महर्षयः ॥ द्यस्मन्मन्जन्मवतीवार्ता भूमिर्मा
रावपीडिता ॥ दधार कृच्छ्रात्तात्मानं जलाक्लिववृत्तृपं ॥२९॥ पुत्रियमेतत्त्वराजसिंह मया व्रतं ते कथितं पुराणम् ॥ कर्त्तव्यमेतद्भुवि पुत्रकामः पापा-

॥१३४॥

पहं धर्मविवर्धनं च ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽनन्तव्रतमाहात्म्यवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ १७३ ॥ ॥ मार्कण्डेय उवाच ॥ इदमप्यन्यद्वक्ष्यामि मासनक्षत्रपूजनम् ॥ यत्फलं देवदेवस्य पुरुषः समवाप्नुते ॥ १ ॥ आरभ्य कार्तिकादेतद्व्रतं कार्यं विजानता ॥ पारणत्रितयेनैतद्व्रतं परिसमाप्यते ॥ २ ॥ चातुर्मास्यं तथैवान्न पारणं नृप कीर्तितम् ॥ पारेणोपारेणे राजन्नत्रितमासविधिं शृणु ॥ ३ ॥ पञ्चगव्यजलस्नानं सदैव च समाचरेत् ॥ पुष्पादिपूजा कर्तव्या यथालाभमुपाहृतैः ॥ ४ ॥ नैवेद्यं कृसरं पूर्वमत्र मासचतुष्टयम् ॥ यावकेन तथा कार्यं मध्यमं च चतुष्टयम् ॥ ५ ॥ चतुष्टये तृतीये च नैवेद्यं पायसं भवेत् ॥ तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बहुन् ॥ ६ ॥ नक्तं नैवेद्यमश्नीयाद्द्यान्म्यतः सुसमाहितः ॥ संयतस्तां भवेद्रात्रिं तथा स्थण्डिलशायकः ॥ ७ ॥ एवं कुर्यात्पुनस्तावद्यावत्कार्त्तिककृत्तिका ॥ तत्र सम्पूज्य देवेशमारभ्य विधिना नृप ॥ ८ ॥ भाजनं घृतसंयुक्तं सहिरण्यं द्विजातये ॥ दातव्यं भोजनं कार्यं ब्राह्मणानां विशेषतः ॥ ९ ॥ संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तमः ॥ लब्ध्वा स्थानं च मोदेत तथा नारी च यादव ॥ १० ॥ स्थिरां श्रियं धर्ममतिं बलं च सौभाग्यमोजः स्थिरसत्त्वतां च ॥ आस्थायं सुदीर्घा त्रिदिवे च कुर्याद्व्रतं नृणामेतदतीव पुण्यम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मासनक्षत्रपूजनं नाम चतुरसप्तत्यधिकशततमोऽध्यायः ॥ १७४ ॥

॥ मार्कण्डेय उवाच ॥ अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥ स्वर्गे वृत्तां समाश्रित्य मासनक्षत्रपूजनम् ॥ १ ॥ पूर्वैस्तूक्तं चरितं शक्र नाहं जानामि किञ्चन ॥ भवतः समकालीनं वद मां सुसत्तम ॥ २ ॥ इयं सिद्धा विजानाति प्रख्याता शाम्बरायणी ॥ एवमुक्तस्ततः शक्रः पप्रच्छ बलसूदनः ॥ ३ ॥ जगाद सा च शक्रस्य पूर्ववृत्तं चरितं महत् ॥ शक्राणां सा व्यतीतानां शतशोऽथ सहस्रशः ॥ ४ ॥ जगाद तत्र चरितं कल्पेष्वन्येष्वपि प्रभो ॥ शाम्बरायण्युवाच ॥ सर्वेषामपि शक्राणां ये तु दायादबान्धवाः ॥ ५ ॥ सर्वे विनाशितास्तेन विष्णुना प्रभविष्णुना ॥ सर्वे शक्रास्तथा युक्तास्तेन वैष्णवतेजसा ॥ ६ ॥ भूतेभ्यस्त्वतिरिक्तास्ते तेन ते गुणसम्पदः ॥ दानेन यज्ञैः शौर्येण तपसा च बलेन च ॥ ७ ॥ श्रुतेन चाविष्टतया देवदैत्यमहोरगान् ॥ ऋषयश्च महाभागास्त्वपि पार्थिवसत्तम ॥ ८ ॥ वरं सम्पावनं¹ तैश्च कृतं सर्वै³ स्वयंभुवा ॥ पराजयं यतः प्राप्ता दायादेभ्यः पुनःपुनः ॥ ९ ॥ सर्वेश्वरा वीर्यबलोपपन्ना धर्मे निविष्टा जगतः प्रधानाः ॥ त्यक्ताधिकाराश्च ततः क्रमेण सर्वे गता विष्णुसहायतां च ॥ १० ॥ इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे² शक्रचरिताख्यानं नाम पञ्चसप्तत्यधिकशततमो


¹ 'पाननम्' इति ख० ।
² अत्र सन्दर्भशुद्धया कश्चित्पाठो भ्रष्ट इति भाति ।
³ 'सर्वः' इति ख० ।

वि० ध० ॥११६॥

पृ० सं० अ० १७८ ॥११७॥

ध्यायः ॥ १७६ ॥ ॥ इन्द्र उवाच ॥ यस्मिन्काले व्यतीता ये षडिन्द्रा भूरितेजसः ॥ तेषां चरितमिच्छामि श्रोतुं विस्तरशः शुभे ॥ १ ॥ प्रति शक्रं मनुं मनुपुत्रांस्तथैव च ॥ देवान्सप्त ऋषींश्चैव तथा दायादबांधवान् ॥ २ ॥ शक्रस्य तेषां च वधं तथा देवाज्जनाद॑नात् ॥ त्वत्तोऽहं श्रोतु मिच्छामि सर्वं त्वं वेत्सि सुन्दरि ॥३॥ शाम्बरायण्युवाच॥ ब्रह्मणो मानसः पुत्रः प्रथमोत्तु मनुः स्मृतः ॥ दश पुत्राश्च तस्येमे ख्यातास्त्रिभुवनेश्वराः ॥ ॥४॥ अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वपुः ॥ ज्योतिष्मान्द्युतिमान्धन्वः सवनः सप्त एव च ॥५॥ मरीचिरत्रिर्गिरसो पुलस्त्यः पुलहः क्रतुः ॥ वसिष्ठश्च महातेजा ऋषयः सप्त कीर्तिताः ॥६॥ जयाख्याश्चाजिताख्याश्च शुक्रयामास्तथैव च ॥ गणा द्वादशका एते चत्वारः सोमपायिनः ॥ ७ ॥ विश्वसूदनाम देवानां तेषामिन्द्रो बभूव ह ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ ८ ॥ बभूव नृपतिर्येषां बाष्कलो नाम नामतः ॥ यस्य हस्तादुभौ लोकौ वामनेन हतौ पुरा ॥ ९ ॥ क्रमद्वयेन तु हतं पातालं च सुरेश्वर ॥ यस्य पुत्रस्त्वसाविक्षीर्नाम बलोत्कटः ॥ १० ॥ जहार भूयस्त्रैलोक्यं शक्रस्याक्रुध्य दुर्मतिः ॥ तमाहूय रणे विष्णुस्तार्क्ष्येप्रवरवाहनः॥ ११॥ द्विधा चकार चक्रेण त्रैलोक्याहितकाम्यया ॥ १२॥ एवं हतस्तेन पुरारिसुख्या महात्मना कालसमप्रभावः ॥ शक्रप्रियार्थं जगतां हितार्थं देवेन्द्रमप्राप्तनिमेन तेन ॥१३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शाम्बरायणीवाक्ये प्रथममन्वन्तरवर्णनं नाम स्तसप्तत्यधिकशततमोऽध्यायः ॥ १७६ ॥ ॥ छ ॥ ॥ शाम्बरायण्युवाच ॥ मनुः स्वारोचिषो नाम बभूव तदनन्तरम् ॥ गयप्रसान्सुमहाभागाः पुत्रा भूपमण्डलेश्वराः ॥ १ ॥ चैत्रः कविरथोध्वं कृतान्तो विद्युतो गविः ॥ बृहद्धूती नभश्चैव महाबलपराक्रमः ॥ २ ॥ ऊर्जस्तस्य तथा प्राण ऋषभो निश्चलस्तथा ॥ दन्तोभिः शाकिरावांश्च ऋषयः सप्त कीर्तिताः ॥ ३ ॥ भूपिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥ तेषामिन्द्रो विपश्चिच्च महात्मा लोकविश्रुतः ॥ ४ ॥ आसंस्तस्यासुरा घोरगन्तङ्गा दायादबान्धवाः ॥ तेषामासीत्तदा राजा पुरुहूतो बलोधिकः ॥ ५ ॥ शक्रस्य विप्रियासक्तो मृगयायै वनङ्गतः ॥ व्यधमन्कुञ्जारुन्मात्तान्दुर्वार्यसममाश्रयः ॥ हन्ती भूपालसीचवः स जघान हरीन्वने ॥ ६ ॥ जघान सः शैल इवातिवप्णों नीलाञ्जनाभो रुचितारुणहन्तः ॥ जघान तं दैत्यवरं प्रसह्य देवासुगाणां समरेऽव्वध्यम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रमतिशाम्बरायण्याख्याने द्वितीयमन्वन्तरकथावर्णनन्नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७ ॥ ॥ छ ॥ ॥ शाम्बरायण्युवाच ॥ ॥ औत्तमस्य मनोः पुत्रांन्तृतीयान्म्य निबोध मे ॥ अजश्च परशुश्चैव देवदेवो वृषो नयः ॥ १ ॥ देवायृवश्चाप्रतिमौ महोत्साहो गजस्तथा ॥ विनीतिश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ॥ २ ॥

अतः परं प्रवक्ष्यामि ऋषयः सप्त वै तदा ॥ रजोबाहुर्ध्वबाहु च सवनश्चानघश्च यः ॥ ३ ॥ सुतपाः शक्तिरित्येते ऋषयः सप्त कीर्तिताः ॥ वशवर्तिनः स्वधासानो वशा सत्याहा मतादिनांः ॥ ४ ॥ पञ्च देवगणाः प्रोक्ताः सर्वे द्वादशकास्तु ते ॥ तेषां सुचित्तिर्नामाऽभूच्छक्रः परमपूरुषयः ॥ ५ ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ येषामासीद्बली राजा प्रलम्बो नाम नामतः ॥ ६ ॥ शक्रस्य विप्रियासक्तं तं सबहुऽम्बुवाहनम् ॥ मत्स्यरूपधरो विष्णुर्जघ्नेत्वान्बलवत्तरम् ॥ ७ ॥ कालानलोभं तु विदेशशत्रुं रूपेण मात्स्येन जगतप्रचारः ॥ जघान तं पर्वतकूटमात्रं समुद्र मध्ये शरदानतप्तम् ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीयमन्वन्तरवर्णनन्नामाष्टसप्तत्यधिकशततमो ऽध्यायः ॥ १७८ ॥ ॥ छ ॥ ॥ शाम्बरायणउवाच ॥ ॥ तामसस्य मनोः पुत्रांश्चतुर्थम्य निबोध मे ॥ जानुजङ्घः शान्तभयो नरः ख्याति नैरुत्था³ ॥ १ ॥ प्रियभृत्यो ह्यविविक्षश्च प्रस्थिलश्च दृढेषुधिः ॥ कृतश्च कृतगन्धश्च तामसस्य मनोः सुताः ॥ २ ॥ ऋर्षिवन्तः कठीयान्वै गात्र श्वेत्रोऽग्निरव च ॥ ज्योतिर्वासाः पृथुः काव्य ऋषयः सप्त कीर्तिताः ॥ ३ ॥ सत्याः सुपादाः सुरिहा हरश्चेति प्रकीर्तिताः ॥ देवतानां गणा एते चत्वारः पञ्चविंशकाः ॥ ४ ॥ सत्यानामपि भेदौ द्वौ सत्या विश्वाश्च कीर्तिताः ॥ मत्या द्वादश निर्दिष्टा विश्वाः प्रोक्तास्त्रयोदश ॥ ५ ॥ तेषामासीन्महातेजा शिबिरिन्द्रः प्रताप वान् ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ ६ ॥ येषामासीन्महातेजा राजा भीमस्थः प्रभुः ॥ प्रसाय येन ब्रह्माणमध्यक्षं स्थलेवृतम ॥ ॥ ७ ॥ जलंस वर्जयामास ततः प्रभृति दुर्पतिः ॥ स ददर्श मरौ कूर्म पर्वताकारदर्शनम् ॥ ८ ॥ तमारुरोह दुर्बुद्धिः कौतूहलसमन्वितः ॥ समारूढं महाकायमादाय भगवान्हरिः ॥ ९ ॥ कूर्मरूपधरो वेगात्पातालजलमाविशत् ॥ पातालजलमानीय मज्जयित्वा जघान तम् ॥ आक्रम्य तं महाकायं महता कूर्मवर्मणा ॥ १० ॥ एवं स कूर्पेण जले प्रसङ्गा देवेश्वरस्याप्रतिमस्य शत्रुः ॥ निपातितः सर्वसुरप्रधानः सर्वेश्वरेणा प्रतिमेन तेन ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्थतामसमन्वन्तरवर्णनन्नामैकोनाशीत्यधिकशततमोऽ ध्यायः ॥ १७९ ॥ शाम्बरायणउवाच ॥ रैवतस्य मनोः पुत्रान्पञ्चमस्य निबोध मे ॥ महापराणः सम्भाव्यः प्रत्यङ्गः परहा शुचिः ॥ १ ॥ चलेन्द्रिन्निरमित्रः केतुशृङ्गो दृढव्रतः ॥ रैवतस्य मनोः पुत्रा ऋषय स्तस्य वच्मि ते ॥ २ ॥ वेदश्रुतिर्वेदबाहूरूध्वबाहुर्यजुस्तथा ॥ हिरण्योरोमा पर्जन्यः सत्यनेत्रस्तथैव च ॥ ३ ॥ आभूतराजसश्चैव तथा देवाः सुमेधसः ॥ वैकुण्ठाश्चामृतांश्चैव चत्वारो देवतगणाः ॥ ४ ॥ एकैकस्मिन्गणे


१ 'बहुवर्तिः सुवामानः वशाः सत्याः प्रर्दनाः' इति ख० । २, ३ 'नय' इति ख० । ४ 'म्रियन्तो' इति ख० । ५ 'आभूतजरस' इति ख० ।

वि० ध० ॥११६॥

प्र० सं० अ० १८२ ॥११६॥

देवाः कथितास्तु चतुर्दश ॥ तेषामिन्द्रो विभुर्नाम लोके विख्याताविक्रमः ॥ ५ ॥ आसंस्तस्यासुरा घोरस्तदा दायादबान्धवाः ॥ तेषामासीन्महातेजाः शंभुर्नार्मा महेश्वरः ॥ ६॥ ब्रह्मलोकेन मरणं वृतं येन पितामहात् ॥ स कदाचिन्महाकायं समुद्रजलचारिणम् ॥ ७ ॥ हंसं दृष्ट्व जगाह तञ्चारोहेति दुर्मतिः ॥ आरूढमात्रमादाय ब्रह्मलोकं जगाम सः ॥ हंसरूपेण तत्रैव जघान भगवान्हरिः ॥ ८ ॥ एवं स हंसेन हतो महात्मा सर्वेश्वरेणाप्रतिमेन तेन ॥ महाबलः पर्वतमात्रकायः पुरान्तकारी समरेऽवजेयः ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इन्द्रशाम्बरणीयसंवादे पञ्चमवतमन्वन्तरवर्णनंनामाशत्यधिकशततमोऽध्यायः ॥ १८० ॥ ॥ शाम्ब उवाच ॥ चाक्षुषस्य मनोः पुत्रान्प्रब्रूष्य शृणु वासव ॥ ऊरुः पूरुः शतद्युम्नः तपस्वी सत्यवान्धृतिः ॥ १ ॥ अग्निष्टुदतिरात्रश्च सुद्युम्नश्च तथानघ ॥ हविष्माञ्छ्रुतः श्रीमान् सुधन्मा विजयस्तथा ॥ २ ॥ अभिमानः सहिष्णुश्च मधुरिश्चैकरूपपः स्मृताः ॥ आद्याः प्रसूता भाव्याश्च लेखाश्च पृथुकास्तथा ॥ ३ ॥ अष्टकाश्च गणाः पञ्च तदा प्रोक्ता दिवौकसाम् ॥ तेषां मनोजवो नाम वभूवेन्द्रः प्रतापवान् ॥ ४ ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ येषां बभूव नृपतिर्महामालो वलाधिकः ॥ ५ ॥ स कदाचिद्धनं यातो मृगायां पापनिश्चयः ॥ तत्र चन्द्रोगुसं- काशं ददर्शार्थं मनोहरम् ॥ ६ ॥ तमारुरोह दुर्बुद्धिर्मृगाचातकचोपया ॥ तमारूढं समादाय तदा वेगात्तुरङ्गमः ॥ ७ ॥ गत्वा पारे समुद्रस्य चिक्षेपोपारे दुर्मतिम् ॥ क्षितमात्रः स दुर्बुद्धिः पवनेनापवाहितः ॥ ८ ॥ अनासादितदेवोश्च पवनेन स तूह्यते ॥ अद्यापि सुमहातेजा लोका- लोकस्य बाह्यतः ॥ ९ ॥ अमुत्युक्वदानेन स तु पापः स्वयम्भुवः ॥ वायुमार्गं समाश्रित्य न तु प्राणैर्विमुच्यते ॥ १० ॥ एवं स घोरो वरदानदर्पा- दृप्त्युरस्तित्ति कृतापराधः ॥ देवद्विजानां हयरूपधारी चिक्षेप विष्णुः पवनप्रवाहे ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र- संवादे षष्ठचाक्षुषमन्वन्तरवर्णनंनामैकाशीत्यधिकशततमोऽध्यायः ॥ १८१ ॥ ॥ शाम्बउवाचपुनरुवाच ॥ अथाऽन्यस्य भविष्यस्य मनोर्वैवस्वतस्य च ॥ सप्तमस्य प्रवक्ष्यामि तव पुत्रान्स्यंस्त्वितः ॥ १॥ इक्ष्वाकुरथ नाभागो विष्णुः शर्यातिरेव च ॥ अभूद्धृष्टस्तथा भ्रांगुर्महात्मा दिष्ट एव च ॥ २ ॥ करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः ॥ अत्रिवसिष्ठो भगवान्जमदग्निश्च कश्यपः ॥ ३ ॥ गौतमश्च भरद्वाजो विश्वामित्रोऽथ सप्तमः ॥ देवा ह्येकोनपञ्चाशन्मरुतः परिकीर्तिताः ॥ ४ ॥ द्वावश्विनौ विनिद्दिष्टौ विश्वेदेवास्तथा दश ॥ दर्शवादित्यसो देवा ह्यं देवगणा नव ॥ ५ ॥ येषां शक्रस्तु मोजवी नाम्ना शत्रुक्षयङ्करः ॥ घोरास्तथापि ये त्वासन्देत्या दायादबान्धवाः ॥ ६ ॥ तेषां वभूव नृपतिहिरण्याक्षो महावलः ॥ न्वराहेण

वपुषा तं जघान हरिः पुरा ॥७॥ दैत्येश्वरं तंसुसंरब्धंभीमं महाबलं पर्वतमात्रकायम् ॥ जघान चक्रेण हरिः प्रसह्म रूपं समास्थाय वराहशीर्षम्॥८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सप्तमवैवस्वतमनवन्तरवर्णनन्नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥ १८२ ॥ शक्र उवाच ॥ अस्मिन्कल्पे महाभागे भविष्या मनवस्तु ये ॥ तेषां पुत्रान्नृपीन्द्रेन्द्राञ्छक्रदायादान्वदान्वन् ॥ १ ॥ तस्य घातं तथा कृष्णात्सर्वमेतत्प्रकीर्तय ॥ सर्वज्ञकल्पा भवती दिव्यज्ञाना मता मम ॥ २ ॥ शाम्बरायण्युवाच ॥ अष्टमस्य भविष्यस्य सावर्णस्य मनोः सुतान् ॥ कथयिष्यामि ते शक्र महाबलपराक्रमान् ॥ ३ ॥ विजयश्चावरीवांश्च निर्दोषस्तस्यचाककृतिः ॥ चरिष्णुश्चाप्यधृष्णुश्च वाचः समातिरेव च ॥ ४ ॥ सावर्णस्य मनोः पुत्रानृषींश्चैव निबोध मे ॥ अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ ॥ ५ ॥ ऋष्यशृङ्गस्तथा राम ऋषयः परिकीर्तिताः ॥ सुतपा अमृता भाश्च आत्रेयाश्च गणास्त्रयः ॥ ६ ॥ सर्वे विंशतिभिर्देवगणैर्युक्ता महात्मनाम ॥ येषामिन्द्रो भविष्यस्तु बलिर्दानवसत्तमः ॥ ७॥ त्वत्कृते देवदेवेन बद्धो यश्चिन्द्रेश्वरः ॥ दायादा बान्धवास्तस्य न भविष्यन्ति वासव ॥ ८ ॥ शक्रत्वं तेन कर्तव्यं मन्वन्तरमकण्टकम् ॥ देवदेवकरन्यस्तं दानमेत न्महामुरः ॥ ९ ॥ त्रैलोक्यराजा भवति सावर्णस्यान्तरे मनोः ॥ १० ॥ तस्मिन्मन्वन्तरे प्राप्ते हिमशैलालयो बली ॥ १० ॥ भविष्यति दुराचारो नानोली नाम राक्षसः ॥ ब्रह्मलब्धवरो रौद्रस्त्रैलोक्योत्साहने रतः ॥ ११ ॥ तं वधिष्यति धर्मात्मा विष्णुर्गरुडवाहनः ॥ चक्रेण शतधारेण जगतां हितकाम्यया ॥ १२ ॥ दंष्ट्राकरालं विकटोद्यमेवं नीलाञ्जनाभं भयदं त्रिलोके ॥ चक्रेण देवः प्रविदार्य कर्ता लोकं समग्रं भयविप्रयुक्तम् ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्बरायणीसंवादेऽष्टमसावर्णमन्वन्तरवर्णनन्नाम त्र्यशीत्यधिकशततमोऽध्यायः ॥ १८३ ॥ शाम्बरायण्युवाच ॥ ब्रह्मपुत्रस्य तु मनोर्नवमस्य सुताञ्छृणु ॥ धृतिकेतुरुतिकेतः पञ्चहस्तो निराकृतिः ॥ १ ॥ पृथुश्रवा बृहद्द्युम्न ऋचीको बृहतं गणः ॥ ब्रह्मपुत्रस्य ते पुत्रा ऋषयश्च निबोध मे ॥ २ ॥ मेधातिथिर्द्युतिश्चैव सवनो वपुरेव च ॥ ज्योतिष्मान्द्युत्स्यलौ च ऋषयः परिकीर्तिताः ॥ ३ ॥ पारा मरीचिगर्भाश्च स्वधर्माणश्च ते त्रयः ॥ गणा द्वादशकाः प्रोक्ता येषामिन्द्रो भविष्यति ॥ ४ ॥ विसुर्नाम महातेजाः सर्वदेवेश्वरो बली ॥ दायादा बान्धवास्तस्य ये भविष्यन्ति धार्मिकाः ॥ ५ ॥ कालकश्च इति ख्यातास्तेषां राजा भविष्यति ॥ तस्मिन्मन्वन्तरे राजा वसुनाभो भविष्यति ॥ ६ ॥ पुत्रस्तु भविता तस्य वासुदेवो महीपतिः ॥ चक्रवर्ती महातेजाः पद्मनाभ इति श्रुतः ॥ ७ ॥ देवासुरे तु


^१ 'मानामो' इति ख०।

वि० ध० ॥११७॥ प्र० खं० अ० १८७

संग्रामे कालकाक्षं रणोत्कटम् ॥ नरवध्यं महातेजाः पञ्चानामो वधिष्यति ॥ ८॥ शरेण जाम्बूनदभूषितेन ब्रह्मास्त्रयुक्तेन रणप्रचण्डम् ॥ हत्त्वासुरं कालसमप्रभावं राजा स लोकस्य भयं निहन्ता ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशम्बरायणीसंवादे नवमब्रह्मपुत्रमन्वन्तरवर्णनन्नाम चतुरशीत्यधिकशततमोऽध्यायः॥ १८४॥ शाम्बरायण्युवाच ॥ धर्मपुत्रस्य तु मनोर्दशमस्य सुताञ्छृणु ॥ सुक्षेत्र उत्तमोऽजाश्च भूरिशेणश्च वीर्यवान् ॥ १ ॥ शतानिको निर्ममित्रो वृषसेनो जयद्रथः ॥ भूरिद्युम्नः सुवर्मा च धर्मपुत्रमनोः सुताः ॥ २ ॥ आपोमूर्त्तिहविष्मांश्च सुतिक्ष्णिाव्यस्तथा ॥ नामानः प्रमितश्चैव सौरभा ऋषयस्तथा ॥ ३ ॥ प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा ॥ भविता तस्य भविता शान्तिरिन्द्रः प्रतापवान् ॥ ४ ॥ दायादा वान्यथास्तस्य भविष्यन्त्यसुराश्च ये ॥ तेषां च भविता राजा बली नाम महासुरः ॥ ५ ॥ द्योतयिष्यति तं विष्णुर्गदया भीमवेगया ॥ देवासुरे तु संग्रामे देवानां हितकाम्यया ॥ ६ ॥ गदानिपाताभिहते सुरेन्द्रे महावले देववरेण तेन ॥ त्रैलोक्यमेतद्द्रविता समग्रं विनष्टदोषं सुरविप्रजुष्टम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशम्बरायणीसंवादे दशमधर्मपुत्रमन्वन्तरवर्णनं नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥ ॥ १८५ ॥ शाम्बरायण्युवाच ॥ रुद्रपुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ॥ धर्मनित्यान्महाभागान्त्रैलोक्यस्य परायणान् ॥ १ ॥ सर्वतुंगः सुशर्मा च सेनानीकः पुरोद्धतः ॥ क्षेमधन्वा दृढेश्चैव चादर्शः पुण्ड्रकस्तथा ॥२॥ मनुपुत्राः स्मृता ह्येते ऋषयश्च निबोध मे ॥ हविष्मांश्च वपुष्मांश्च वरुणास्थिश्च निस्तरः ॥३॥विष्णुश्चैवाभिताजाश्च ऋषयः सप्त कीर्तिताः ॥ निर्मथ्या श्चयश्चैव कामगाश्च गणाह्वयः ॥ ४ ॥ त्रिंशत्त्रिंशत्तथा देवा एकैकस्मिन्गणे स्मृताः ॥ तेषामिन्द्रो वृषो नाम भविष्यति महाबलः ॥ ५ ॥ दायादा बान्धवाश्चैव भविष्यन्ति सुराश्च ये ॥ तेषां तु भविता राजा दशग्रीवः प्रतापवान् ॥ ६ ॥ घातयिष्यति तं विष्णुर्ब्रह्मन् रूपमुपाश्रितः ॥ त्रैलोक्येण विनिर्जित्य रणे देवासुरे तदा ॥ ७ ॥ तमवध्यं दुराधर्षं पुरुषाणां स्वयम्भुवा ॥ गतं तपःप्रभावे सा विष्णुस्तं घातयिष्यति ॥ ८ ॥ नीलोत्पलाभं तपनीयवर्णं सुवृत्तजारूकुरुचं स्वरूपम् ॥ रूपं क्रियांश्चाशतरं स कृत्वा सुराधिगुमं सहसाऽद्विगन्ता ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशम्बरायणीसंवादे एकादशमन्वन्तरवर्णनन्नाम षडशीत्यधिकशततमोऽध्यायः ॥ १८६ ॥ शाम्बरायण्युवाच ॥ मनोस्त्वं दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ॥ देववानुपदेवश्च देवश्रेष्ठो विदूथः ॥ १ ॥ मित्रवान्मित्रदेवश्च मित्रसेनश्च वीर्यवान् ॥ मित्रबाहुः ॥११७॥


१ 'सपत्तिः' इति ख० । २ 'सौरभः' इति ख० । ३ 'वारि' इति ख० । ४ 'वरुणोष्णिश्च' इति ख० ।

सुवर्चाश्च दक्षपुत्रमनोः सुताः ॥ २ ॥ सत्तमोद्युतिश्चैव तपनः सुतपास्तथा ॥ तपोमतिस्तपस्वी च ऋषयः सप्त कीर्तिताः ॥ ३ ॥ सुशर्माणः सुतपसो हरिता रोहितास्तथा ॥ सुताराख्या गणाः पञ्च प्रत्येकं दशको गुणः ॥ ४ ॥ ऋतधामा च धर्मात्मा तेषामिन्द्रः प्रतापवान् ॥ दायादा बान्धवास्तस्य भविष्यन्त्यसुराश्च ये ॥ ५॥ तेषां च भविता राजा नरको नाम नामतः ॥ स्त्रीपुंसोः सत्त्वमध्यस्थ वरदानात्स्वयम्भुवः ॥६॥ हरिर्नपुं सको भूत्वा घातयिष्यति तं तदा ॥७॥ देवान्तकं कालसमप्रभावं महासुरं क्लीबवपुर्महात्मा ॥ निहत्य तं लोकमिदं समग्रं भीत्या विहीनं भगवान्स कर्ता ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वादशस्य दक्षपुत्रस्य मनोर्वंशानुकीर्तनन्नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥ १८७ ॥ शाम्बरायणउवाच ॥ त्रयोदशस्य रौच्यस्य मनोः पुत्रान्प्रबोध मे ॥ चित्रसेनो विचित्रश्च नयो धर्मधृतो धृतिः ॥ १ ॥ सुनेत्रो दृढवृद्धिश्च सुनयो धर्मधो दृढः ॥ रौच्यस्यैते मनोः पुत्राः शृणुष्व ऋषयो मम ॥२॥ धृतिमानव्ययश्चैव निःप्रकंपो निरुत्सुकः ॥ निर्मोहस्तत्त्वदर्शी च द्वयायत कीर्तिताः॥३॥ सुत्रामाणः सुधर्माणः सुकर्माण एव च ॥ एते शक्र तदा प्रोक्ता देवतानां गणास्त्रयः॥४॥ एकैकस्मिन्गुणे देवा एकादश तदा शुभाः॥ देवेन्द्रश्च तदा तेषां भविष्यति बृहस्पतिः ॥ ५ ॥ दायादा बान्धवास्तस्य ये भविष्यन्ति वासव ॥ टिट्टिभो नाम दुष्टात्मा तेषां राजा भविष्यति ॥ ६ ॥ तस्यापि भविता मृत्युर्देवदेवाज्जनार्दनात् ॥ मायूरेण च रूपेण सततं पन्नगाशिना ॥ ७ ॥ स तु देवासुरे युद्धे सर्परूपेण दुर्मतिः ॥ युद्धं कृत्वा निरुत्साहान्सर्वान्देवगणान्स्तथा ॥ ८ ॥ निष्प्रयत्नेषु देवेषु मायूरं रूपमाश्रितः॥ घातयिष्यति तं दुष्टं देवदेवो जनार्दनः ॥९॥ महाकल्पः सशिखी महात्मा प्रबुद्धनीलोत्पलचारुकण्ठः ॥ तं दानवं तत्र रणे प्रसह्य हत्वा त्रिलोकीं मुदितां हि कर्ता ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रयोदशरौच्यमन्वन्तरवर्णनो नामाष्टाशीत्यधिकशततमोऽध्यायः ॥ १८८ ॥ शाम्बरा यणउवाच ॥ चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम ॥ तरङ्गं भेदभिद्दृष्ट्यन्तरस्वाद्युन्न एव च ॥ १ ॥ अभिमानी प्रवीरश्च जिष्णुः संक्रन्दन स्तथा ॥ तेजस्वी सुलभेन्द्रैव भौत्यस्यैते मनोः सुताः ॥ २ ॥ अग्नीध्रश्चातिबाहुश्च मागधश्च तथा शुचिः ॥ अजितो युक्तगोराख्यं ऋषयः सप्त कीर्तिताः ॥ ३ ॥ चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ॥ वयोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ॥ ४ ॥ तेषामिन्द्रः शुचिर्नाम तस्य दायादबान्धवाः ॥ ये भविष्यन्ति भविता राजा तेषां महासुखः ॥ ५ ॥ दिव्यं वर्षसहस्रं तु युद्धं देवासुरं तदा ॥ भविष्यति महाघोरं तस्यान्ते


१ 'तरङ्गभीरुबिध्यो' इति ख० । २ 'युक्तगोश्व' इति क० ।

वि० ध० प्र० खं० अ० १९०

तं महासुरम् ॥ ६ ॥ आस्थितं तामसीं मायां घातयिष्यति केशवः ॥ आरूढः कुञ्जरं दिव्यं शतपर्वतसन्निभम् ॥ ७ ॥ उत्खातपर्वतसमं चक्रेण मधुसूदनः ॥ रथस्थं तं महादैत्यं घातयिष्यति दुर्मतिम् ॥ ८ ॥ तस्मिन्हते वासवेन्द्रेशत्रौ महाबले कालसमयभावे ॥ त्रैलोक्यमेतद्दितिजं समन्ततदा भविष्यत्यमलप्रतापम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्दशभौम्यामभुवनवर्णननाम नवाशीत्यधिकशततमोऽध्यायः ॥ १८९ ॥

शक्र उवाच ॥

अस्मिन्मन्वन्तरे भद्रे गरुडस्य च सम्भवः ॥ मया दृष्टमतीतेषु कथं गरुडवाहनः ॥ १ ॥ असुरान्घातयामास भविष्येषु तथैव च ॥ गरुडं तु समारुह्य घातयिष्यति तत्कथम् ॥ २ ॥ मन्वन्तरान्ते सर्वेषां क्षयो यस्मात्प्रकीर्तितः ॥ तस्मादेतन्ममाचक्ष्व कुशला ह्यसि धर्मिका ॥ ३ ॥

शाम्बरावण्युरुवाच ॥

देवानामसुरणां च प्रतिमन्वन्तरं यथा ॥ सम्भवस्त्रिदशश्रेष्ठ गन्धर्वाणां तथा स्मृतः ॥ ४ ॥ नागानां राक्षसानां च यक्षाणामथ पक्षिणाम् ॥ सुपर्णानां तथा शक्र प्राणिनामप्यशेषतः ॥ ५ ॥ सुपर्णानां प्रधानस्तु तत्र मन्वन्तरे तदा ॥ सदैव राजन्भवति गरुडः पततां वरः ॥ ६ ॥ वाहनत्वं तथा तस्य देवस्य प्रपद्यते ॥ प्रादुर्भावान्प्रवक्ष्यामि यथा विष्णोर्मया तव ॥ ७ ॥ तथैव तस्य ज्ञेयानि गरुडस्य महात्मनः ॥ देवांस्तु कृतकर्माणः शक्र मन्वन्तरक्षये ॥ ८ ॥ त्यक्ताधिकारा गच्छन्ति परलोकमितः प्रभो ॥ तच्छिष्टाश्च तथा मन्वांस्तैरेव सहिताः सुरैः ॥ ९ ॥ समूहेनैव मनुष्याणां स्वर्गाद्गच्छन्ति तज्जितः ॥ स्वर्गे गतं ब्रह्मसदनं न ते नित्यः प्रकीर्तितः ॥ १० ॥ यावज्जीवति वै ब्रह्मा सर्वलोकनमस्कृतः ॥ तदा तु पुरुषं ब्रह्मा देवदेवं प्रपद्यते ॥ ११ ॥ त्यक्त्वा सर्गं ह्यसावपि पुरुषं प्रतिपद्यते ॥ पुरुषोऽपि महासृष्टिं महाभूतगणं तथा ॥ १२ ॥ करोति तदहस्त्वेव देवः प्राग्वच्छ्रुतिक्षतौ ॥ एवं सर्वमिदं नित्यं त्वनित्यं वा तवेरितम् ॥ १३ ॥ नासतो विद्यते भावो नाभावो विद्यते सतः ॥ उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १४ ॥ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ॥ विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १५ ॥ तस्यानित्यानि गात्राणि शक्र सूक्ष्मस्यापि महात्मनः ॥ प्रादुर्भावेषु महान्ति समतीतान्यनेकशः ॥ १६ ॥ भूयश्चैव भविष्यन्ति नात्र कार्या विचारणा ॥ वैवस्वतेऽस्मिन्मन्वन्तरे यथा मन्वन्तरे शुभे ॥ १७ ॥ प्रादुर्भावानि दृष्टानि मया तस्य महात्मनः ॥ वराहं वामनं चैव तथा शक्र त्रिविक्रमम् ॥ १८ ॥ नारसिंहं तथा मात्स्यं हंसं तथैव च ॥ नृवराहं तथा रामं रामं च सुरसत्तम ॥ १९ ॥ मान्धातारं पृथुं चैव कार्तवीर्यार्जुनं तथा ॥ धातारं च तथा मित्रं चांशुमन्तमथ तथा ॥ २० ॥ पूषणं च भवन्तं च वरुणं भगमेव च ॥ त्वष्टारं च विवस्वन्तं सवितारं तथैव च ॥ २१ ॥ विष्णुं चन्द्रमसं रुद्रं ब्रह्माणं यममेव च ॥ हुताशनं वैश्रवणं

॥११८॥ ॥११८॥

शेषं नागेश्वरं तथा ॥ २२ ॥ ग्रहसूर्य्यं बुधं चैव अपः खं पृथिवीं तथा ॥ वायुस्तेजश्च देवेश तथैवान्यानि वासव ॥ २३ ॥ प्रादुर्भावसह- स्राणि तस्य दृष्टानि यानि ते ॥ मन्वन्तरेष्वतीतेषु तस्यातीतान्यनेकशः ॥ २४ ॥ भविष्यन्ति भविष्येषु शतशोऽथ सहस्रशः ॥ मन्वन्तर- मथासाद्य चैकमेकं तथा तवारिहा प्रादुर्भावनिमिदं प्रोक्तं द्विगुणं द्विगुणं यतः ॥ प्रादुर्भावान्यशेषेण वासुदेवस्य चक्रिणः ॥ कः समर्थो भवद्वक्तुमिह वर्षशतैरपि ॥ २५ ॥ एकः स देवो भुवनस्य गोप्ता परः पुराणः पुरुषो महात्मा ॥ तस्यांशमात्रं भुवनं समग्रं भागसहस्रस्त- स्य न वर्णनीयाः ॥ २७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्बरायणीसंवादेऽनेकविष्णुप्रादुर्भाववर्णनं नाम नवत्यधिकशततमोऽध्यायः ॥ १९० ॥ ॥ छ ॥ ॥ शक्र उवाच ॥ ॥ केन कर्मविपाकेन स्वर्गता त्वं वरानने ॥ दीर्घकालमिहस्थासि तथा चैवाप्यनागतान् ॥ १ ॥ कथं मन्वन्तरांश्चेत्सि तन्ममाचक्ष्व पृच्छतः ॥ त्वत्समा दिवि नैवान्या काचिदस्ति चिरं- न्तनी ॥ २ ॥ एकरूपः कथं कर्ता त्वया दृष्टः सुरेश्वरौ ॥ मन्वन्तराणां जानासि भविष्याणां तथा गतिम् ॥ ३ ॥ शाम्बरायण्युवाच ॥ त्रिदिवं सप्तमः कल्पो ममायं त्रिदिवेश्वर ॥ देवदेवप्रसादेन वसन्त्या वर्ततेऽनघ ॥ ४ ॥ परार्धश्च तथा ब्राह्मयो जनलोके गतो मम ॥ एकरूपास्तथा कल्पा मया दृष्टाः सुरेश्वर ॥ ५ ॥ मन्वन्तराणां जानामि भविष्याणां तथा गतिम् ॥ मया मानुष्यमासाद्य मासनक्षत्रपूजनम् ॥ ६ ॥ प्रतिमासं कृतं विष्णोर्यावज्जीवं सुरेश्वर ॥ तेन कर्मविपाकेन त्रिदिवे वसतिश्चिरम् ॥ मयेयं समनुप्राप्ता देवदेवप्रसादजा ॥ ७ ॥ अस्मादपि महाभाग ब्रह्मलोकं नयत्युत ॥ ८ ॥ मार्कण्डेय उवाच ॥ एतदुक्त्वा महाभाग शक्रं सा शाम्बरायणी ॥ जगामादर्शनं राजंस्तत्रैव सुरपूजिता ॥ ९ ॥ मासर्क्षपूजामधिकृत्य विष्णोर्मया तवेदं कथितं समग्रम् ॥ तस्मात्प्रयत्नेन नरेन्द्रचन्द्र मासक्षपूजां प्रयतेत कर्तुम् ॥ १० ॥ श्रोतव्यमेतत्प्रयतेन वज्र पापापहं धर्मविवृ- द्धिदं च ॥ संवादमग्र्यं त्रिदशेश्वरस्य सिद्धाङ्गनायाश्च परं पवित्रम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्ब- रायणीकथानकं नामैकनवत्यधिकशततमोऽध्यायः ॥ १९१ ॥ ॥ वज्र उवाच ॥ श्रुतवानस्मि धर्मज्ञ देववेश्मोपलेपने ॥ फलं गदतो ते ब्रह्मञ्छ्रो- तुमिच्छाम्यहं पुनः ॥ १ ॥ लेपनादपि यत्स्वर्गफलं च यथा भवेत् ॥ तन्मे तथ्यं त्वमाचक्ष्व सर्वज्ञोऽसि भृगूत्तम ॥ २ ॥ मार्कण्डेय उवाच ॥ स्तोतुर्लेपकृतस्तस्य लेपनादपि यादृशी ॥ तथा बहुफला प्रोक्ता तां कुरुष्व यदीच्छसि ॥ ३ ॥ ये स्तुवन्ति महादेवं शङ्खचक्रगदाधरम् ॥ तेषां न


१ 'द्विगुणं तु यथार्थतः' इति ख० ।

वि० ध० ॥१११॥

प्र० खं० अ० ११४

दुर्लभं किञ्चिदिह लोके परत्र च ॥ ४ ॥ वासुदेवं स्तुवन्मर्त्यः सर्वपापं व्यपोहति ॥ स्वर्गं चानन्यमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥ धर्मार्थी
प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ॥ कामानाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाः ॥ ६ ॥ रोगात्तौ मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥
भयान्मुच्येत भीतश्च मुच्येदापन्न आपदः ॥ ७ ॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ॥ स्तुवन्मनुजशार्दूल नात्र कार्या विचारणा ॥ ८ ॥
तस्मात्सर्वप्रयत्नेन दिव्यैर्ऋषिकृतैः स्तवैः ॥ स्तूयान्नरेन्द्र सततं देवदेवं शुभमतिः ॥ ९ ॥ कमलपत्रशुभामलेलोचनं हरिमग्र्यमचिन्त्यपराक्रमम् ॥
शरणमेत्य महाभयपीडिता भुवि भवन्ति नरा भयवर्जिताः ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्तुतिमाहात्म्य-
वर्णनो नाम द्विनवत्यधिकशततमोऽध्यायः ॥ १९२ ॥ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ स्तुतेन देवदेवेन
गजेन्द्रस्य तु यत्कृतम् ॥ १ ॥ पुरा वज्र महाबाहू गन्धर्वौ यौ हाहा हूहू ॥ गीतिः परस्परं स्पर्धां चक्रतुस्तौ परन्तप ॥ २ ॥ स्पर्धमानौ परं
राजेन्द्रेकतरौ परस्परम् ॥ आवयोः प्राश्निकः साधुः कोऽस्मिंल्लोके भविष्यति ॥ ३ ॥ तयोरथाहुर्गन्धर्वा देवलोकेऽयं भविष्यति ॥ एवमुक्तौ
ततस्तौ तु नेच्छंतौ देवलं मुनिम् ॥ ४ ॥ नायं जानाति गीतस्य विशेषमिति मोहितौ ॥ तौ शशाप महाक्रुद्धो देवलः सुमहा-
तपाः ॥ ५ ॥ अवज्ञां जानतो यस्माद्भवद्भ्यां मम वै कृता ॥ तस्माच्छापं प्रदास्यामि युवयोर्देवगायनौ ॥ ६ ॥ हाहा भविष्यति करी
हूहू नक्रो भविष्यति ॥ नक्रं च देवदेवेशो गजाकर्षणतत्परम् ॥ ७ ॥ नागमन्तं तु चक्रेण द्विधा कर्ता तदा द्रुतम् ॥
उभौ स्वं लप्स्यथो रूपं शापस्यान्ते तु गायनौ ॥ ८ ॥ शापेन तौ तत्र ततस्तु जातौ मया यथोक्तौ तव गजसिंह ॥
गजस्तु तेनापि जनार्दनेन सम्मोचितो तौ द्विजवर्यशापात् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वयोर्गजनक्र-
करणं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥ १९३ ॥ ॥ वज्र उवाच ॥ ॥ भगवञ्छ्रोतुमिच्छामि गजेन्द्रस्य विमोक्षणम् ॥
विस्तरेण महाभाग शापान्नक्रस्य चोभयोः ॥ १ ॥ मार्कण्डेय उवाच ॥ अस्त्यस्मिञ्छृङ्गवान्नाम जम्बूद्वीपे कुलाचलः ॥ महाधातुसुसन्नद्धैर्युतः
शृङ्गैर्महद्भिः ॥ २ ॥ यस्य शृङ्गत्रयं मध्यं भाति गगन्निविशतत् ॥ ब्रह्मार्कसोमनिलयं मनोहारि दिवं गतम् ॥ ३ ॥ तेषामथैकं सौवर्णमपरं
राजतं महत् ॥ सर्वरत्नमयं चैकं मध्यमं ब्रह्मणः क्षयम् ॥ ४ ॥ काञ्चनं सूर्यनिलयं राजतं शशिनः क्षयम् ॥ त्रिकूटं शैलराजानं रत्नपङ्कद्रुमं


१ 'एवमुक्तौ गतौ तौ तु गच्छेताम्' इति क० 'एवमुक्तौ मतौ तौ तु गच्छताम्' इति छ०। २ 'गानवन्तौ' इति क०। ३ 'स्थानम्' इति ख०।

युक्तम् ॥ ५ ॥ न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ नातततपसः केचिन्नेव पापकृतो जनाः ॥ ६ ॥ तस्य सानुमतः पृष्ठे सरौ व्यकोशपङ्कजम् ॥ कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥७॥ सञ्चित्तमिव गम्भीरं सञ्चित्तमिव निर्मलम् ॥ वधूपयोग्यं च तथा सतानिकृति कृन्नृप ॥ ८॥ मीनिच्छत्राभ्रशकलैस्फुटकोहतारकम् ॥ महाकुमुदराशी द्वितीयमिव चाम्बरम् ॥ ९ ॥ उत्फुल्लपद्मरजसा मधुपैः परि पिञ्जरैः ॥ समन्ताद्व्याप्य सत्तप्तं तपनीयसमोखि ॥ १० ॥ च्युतेन पद्मार्जसा हंसैः केशरामन्यैः ॥ वायुना भ्राम्यमाणेन दुर्विभाव्योऽर्कोऽम्बु जन्म ॥ ११ ॥ महान्तः पद्मिनीपत्रा वायुभ्रस्ताभ्रशीकरैः ॥ युक्ता मुक्ताफलाकारैर्यन भान्ति सहस्रशः ॥ १२ ॥ नृत्यन्ति कमला यत्र शफरी स्फुरणाहताः ॥ अमरोद्गीतसंघेोषै रस्तालरसानादिकम् ॥ १३ ॥ हसन्तीमिव हंसौघैर्नृत्यन्तीमिव चोर्मिभिः ॥ उर्द्ध्वाग्रमिव कुर्वाणं कारण्डवरवैः शुभैः ॥ १४ ॥ मध्ये त्वगाधं चतुरः प्रतीहारैरिवोद्धतैः ॥ उत्सारयन्तं कल्लोलैर्वागुभिश्चाद्भूमोद्भवान् ॥ १५ ॥ भ्रमरान्तरसंलीनकण्ह्कारकुसुमा शुभिः ॥ पश्यन्तमिव शैलस्य शृङ्गाणां तनमहोध्दृष्ट्यम् ॥ १६ ॥ पत्रातिशीतलं तोयं लघु स्वादु सुधानिभम् ॥ अन्यच्च्चुद्दं मनोहारि भृङ्गनाद निनादितम् ॥ १७ ॥ तस्मिन्र्सारसि दुष्टात्मा विष्णुपान्तेनर्जलाशयः ॥ हूहून्नाम ग्राहत्वं शापाद् देवस्य तु ॥ १८ ॥ तस्मन्नेव तथा शैले हाहा गन्धर्वसत्तमः ॥ बभूव यूथपो हस्ती चलत्पर्वतसन्निभः ॥ १९ ॥ अथ दन्तोऽज्ज्वलवपुः कदाचिद्गजयूथपः ॥ आजगाम महीपाल चोत्फुल्ल कमलं सरः ॥ २० ॥ वंशदृण्डेः स कलभैर्वृतश्चैंव करेणुभिः ॥ वासयन्मदगन्धेन तं त्रिकूटं महीधरम् ॥ २१ ॥ स गजोऽअनसंकाशो मदा कुक्षितलोचनः ॥ सलीलं पङ्कजवने यूथमध्यगतो ब्रजम् ॥ २२ ॥ गृहीतस्तेन रौद्रेण ग्राहिणान्युक्तसूतिना ॥ पश्यतः सर्वयूथस्य क्रोशतश्चाति दारुणम् ॥ २३ ॥ स चकार महायत्नमात्मनः परिरोक्षणे ॥ ग्राहोऽपि यत्नमातिष्ठज्ज्र्कराकर्षणे महान् ॥ २४ ॥ ग्राहोऽपि बलिनं नागं न शशाक महाम्भसि ॥ आकृष्टं न च नागोऽपि तथात्मानं विमोक्षितुम् ॥ २५ ॥ विस्फूर्य्य च यथाशक्ति विक्षुभ्य च महाजवान् ॥ व्यथितः स निरुद्योगः पश्चिमामागतो दशाम् ॥२६॥ स तु नागवरः श्रीमान्नारायणपरायणः ॥ जगाम शरणं विष्णुं तुष्टाव च परन्तपः॥२७॥ गृहीत्वा स करेणायं सरसः कमलोत्तमम् ॥ निवेद्य भक्त्या कृष्णाय गजः स्तोत्रमुदीरयत् ॥२८॥ गज उवाच ॥ नमोनेमः कारणवामनाय नारायणायसुरदारणाय ॥ श्रीशाङ्गिचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २९ ॥ आद्याय वेदनिलयाय महोदगाय सिंहाय दैत्यनिलयाय चतुर्भुजाय ॥ ब्रहेन्द्र


१ 'मृगराज' इति ख० ।

वि० ध० ॥१२-०॥

प्र० खं० अ० १९४

रुद्भूतनिवारणायैतुत्तमाय देवोत्तमाय वरदाय नमोऽच्युताय ॥ ३० ॥ नागेन्द्रभोगशयनायसतुष्टिप्रियाय गौरीहरेषुमकनोल्छनेवोपयाय ॥ पीताम्बराय मधुकैटभनाशनाय भक्तिप्रियाय वरदीप्तसुदर्शनाय ॥ ३१ ॥ नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतशयोधधाय ॥ नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय विजयाय नमो नराय ॥ ३२ ॥ (विश्वोत्तमे परमकारणकारणाय फुल्लारविन्दविपुलायतलोचनाय ॥ देवेन्द्रभावनपरीक्षितपौरुषाय योगीश्वराय विजयाय नमो वराय ॥३३॥) लोकायनाय विहशायनाय ब्रह्माणयानायमुगुणायनाय ॥ धर्मायणीयज्वजनानायनाय महावराहाय सदा नतोऽस्मि॥३४॥ अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् ॥ युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥ ३५ ॥ अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मनिधिं सुरेशम् ॥ वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ॥ ३६ ॥ यमक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते ॥ तमीश्वरं दत्तमसूतमेर्गुणैः परायणं विष्णुपतिं शाश्वतम् ॥ ३७ ॥ कार्यकारणकारणमप्रमेयं हिरण्यनाभं कनकारविन्दम् ॥ महाबलं वेदनितिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ॥ ३८ ॥ विचित्रकेयूरमहार्सिनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम् ॥ पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ ३९ ॥ भवोद्भवं वेदविदां वरिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् ॥ आदित्यचन्द्राश्विसुखप्रभावे प्रसुं प्रपद्येऽच्युतमात्मभूतम् ॥ ४० ॥ श्रीवत्साङ्क महादेवं वेद्यमबुत्तमन्तमइ ॥ प्रपद्ये सूक्ष्मममलं भक्तानामभयप्रदम् ॥ ४१ ॥ प्रभवं सर्वलोकानां निर्गुणं च गुणात्मकम् ॥ प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ ४२ ॥ भगवन्तं सुगध्यक्षमक्षरं पुष्करेक्षणम् ॥ शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥ ४३ ॥ ब्रह्मेशं त्रिलोकेशामाद्यमेकमनामयम् ॥ भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥ ४४ ॥ क्षेत्रज्ञं पुरुषं विष्णुं त्रिगुणातीतमन्ययम् ॥ नारायणमणीयांसं प्रपद्ये शरणं हरिम् ॥ ४५ ॥ एकाय लोकनाथाय परतः परमात्मने ॥ नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ४६ ॥ वरेण्यमनघं देवमप्रमेयो वेदपारगाः ॥ कीर्त्तयन्त्यभवं सर्वं तं प्रपद्ये सनातनम् ॥ ४७ ॥ नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ॥ सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ४८ ॥ मार्कण्डेय उवाच ॥ भक्तिं तस्य तु सञ्चिन्त्य नागस्याऽमोघमन्तर्वः ॥ प्रीतिमानभवद्वाजंस्तस्यचक्रगदाधरः ॥ ४९ ॥ सन्निध्यं कल्पयामास ग्राहं चक्रेण माधवः ॥ मोक्षयामास च गजं पाशैभ्यः शरणागतम् ॥ ५० ॥ स हि देवलशापेन हाहा गन्धर्वसत्तमः ॥ गजत्वमभवच्चा मिक्षं प्राप्य दिवं गतः ॥५१॥ ग्राहोऽहिसुतः सद्यस्तु गजो गन्धर्वतां गतः ॥ ग्राहो


१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'निष्क्रम्य' इति क० ।

॥१२०॥

गन्धर्वतां प्राप्तो यः कृष्णेन निपातितः ॥ ५२ ॥ तस्यापि देववपुतः शापद्देषोऽभवत्पुरा ॥ प्रीतिंमाख्यायते विष्णुः सद्यः संसारसागरात् ॥ ॥ ५३ ॥ ऊर्द्धोऽपि निध्नन्द्वत्वमरातीनां प्रयच्छति ॥ तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ॥ ५४ ॥ गन्धर्वाधिपती शीघ्रं परां निर्वृतिमागत्तौ ॥ इदं चैव महाबाहो पुरा देवोऽभ्यभाषत ॥ ५५ ॥ दृष्ट्वा मुक्तौ गजग्राहौ भगवान्मधुसूदनः ॥ योऽमंग्राहेणरागरजं च मां चैव प्रणिधानवान् ॥ ५६ स्मारिष्यति सरंश्रेष्ठं युक्योमोक्षं तथा ॥ गुल्मं कीचकवेणूनामममं शैलवरं तथा ॥ ५७ ॥ अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥ प्रयागं ब्रह्मतीर्थं च दण्डकारण्यमेव च ॥ ५८ ॥ संस्मरिष्यन्ति ये मर्त्या सम्यक्छ्रोष्यन्ति चापि ये ॥ न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥ ५९ ॥ सर्वपापविमोक्ष्यान्ति कल्याणानां च भागिनः ॥ भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ॥ ६० ॥ दुःस्वप्नं च नृणां तेषां सुस्वप्नत्वं प्रयास्यति ॥ कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ॥ ६१ ॥ नारसिंहं तथा रूपं सृष्टिकल्याणकारकम् ॥ एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ॥ ६२ ॥ सर्वपापविशुद्धास्ते यास्यन्ति परमां गतिम् ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः ॥ ६३ ॥ अस्पृशद्गजगन्धर्वं ग्राहगन्धर्वमेव च ॥ तेन स्पृष्टौ तु तौ सद्यो दिव्यमाल्याम्बरान्वितौ ॥ ६४ ॥ विमानतेजस्विमते प्राते जगन्मूर्तिद्विशालयम् ॥ ६५ ॥ तत्र देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ॥ ६६ ॥ ऋषिभिस्तूयमानस्तु गुह्यैर्वेदपदाक्षरैः ॥ गतः स भगवान्विष्णुर्दुविज्ञेयगतिर्विभुः ॥ ६६ ॥ गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रापुरोगमाः ॥ ब्राह्मणानग्रतः कृत्वा सर्वं प्राञ्जलयोऽभवन् ॥ ६७ ॥ गजेन्द्रमोक्षणं पुण्यं सर्वपापविमोचनम् ॥ श्रावयन्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ६८ ॥ श्रद्धया हि यदुश्रेष्ठ स्मृतेन कथितेन च ॥ गजेन्द्र- मोक्षणेनेव दीर्घमायुश्चावाप्नुयात् ॥ ६९ ॥ मया ते कथितं दिव्यं पवित्रं पापनाशनम् ॥ ( १कीर्तयस्व महाबाहो महादुःखप्रनाशनम् ॥ ७० ॥ ) कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम् ॥७१॥ वरं वरेण्यं वरदनामृतं नारायणं पद्मनिधिं सुरेशम् ॥ तं देवगुह्यं पुरुषं पुराणं वरन्दिदं ब्रह्मविद्वां वरिष्ठाः ॥ ७२ ॥ एतत्पुण्यं यदुश्रेष्ठ नराणां पापकर्मणाम् ॥ दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते ॥ ७३ ॥ भक्तिमान्पुण्डरीकाक्षं गजो दुःखद्विमोचितः ॥ तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम् ॥ ७४ ॥ विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥७५॥ इति श्रीविष्णुध- र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गजेन्द्रमोक्षणं नाम चतुर्नवत्यधिकशततमोऽध्यायः ॥ १९४ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ भगवन्केो


१ कोष्ठान्तर्गतः पाठो नास्ति पुस्तके ।