विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० ॥ १०७॥ प्र० खं० अ० १५५
चरणौ मया ॥ श्रेयः प्रसूतिवृक्षस्य पुरोदस्तव दर्शनम् ॥ १५ ॥ सर्वपापान्तकरणं सर्वकल्याणकारणम् ॥ किं वा न लभ्यमस्तीह तेषां द्विजवरो- त्तम ॥ १६ ॥ अमोघदर्शने दृष्टे मय्यप्रतिमतेजसि ॥ एवमुक्तस्तदा राज्ञा सुप्रसन्नो जगाद तम् ॥ १७ ॥ शृणु राजन्वचो मह्यं यत्ते वक्ष्यामि सुव्रत ॥ देवदेवसमादेशादिदं ते दर्शनं मया ॥ १८ ॥ सुप्रसन्नो हि भगवान्देवस्ते मधुसूदनः ॥ द्वादशीषु सदा राजन्सोपवासेन नित्यशः ॥१९॥ पूजितो भगवान्विष्णुस्त्वयातीते तु जन्मनि ॥ २१ ॥ राजसेन तु भावेन त्वया देवः समर्चितः ॥ २० ॥ अयं काममाश्रित्य राजविहतकण्टकम् ॥ सात्त्विकेन तु भावेन पूजयित्वा जनार्दनम् ॥ २१ ॥ राज्यं मदद्य संप्राप्तं निष्कण्टकमरिन्दम ॥ द्वादश्यामुपवासैस्त्वं देवदेवं चक्रिणा ॥ २२ ॥ प्रदर्शितमिदं स्थानं मदीयं स्वर्गसन्निभम् ॥ इह राजंस्तपस्तप्त्वा देवदेवं जनार्दनम् ॥२३॥ आगत्य दृष्टवानस्मि पुरा वर्षगणान्वहून् ॥ प्राप्या पूजां हृषीकेशात्तात्कृते विवरे शुभे ॥२४॥ नित्यं मन्निहिता राजंस्त्वस्यार्चा विनिर्मिता ॥ नियोगोद्देवदेवस्य पूज्यते सिद्धसत्तमैः ॥ २५ ॥ नेयं दृष्टा मनुष्येन्द्र मनुष्येन च राक्षसैः ॥ पिशिताशैरितश्चैवान्यैर्हेतुपूर्वा कथञ्चन ॥ २६ ॥ अस्मिन्स्थानेऽपि देशे त्वयालोल्येन कर्मणा ॥ आराधितो जगन्नाथो देवश्चक्रागदाधरः ॥ २७ ॥ आसन्नफलमूलेऽपि बहुगौरवसंयुते ॥ क्षोद्युक्तिशक्तिप्राये नमक्तिकफलेयुते ॥ २८ ॥ केवलन्माभिना ततं यत्तवया परमं तपः ॥ तेन तेऽहं वरं दद्मि यदभीष्टं तवानघ ॥ २९ ॥ अचिरेणैव कालेन त्वया राजन्कृतं तपः ॥ रूपार्थं रूपलाभाय प्राप्तं मे गदतः शृणु ॥ ३० ॥ तद्धतं ये करिष्यन्ति मनुजेश्वर मानवाः ॥ स्त्रियो वापि नरश्चैव प्राप्स्यन्ते रूपमुत्तमम् ॥ ३१ ॥ सौभाग्यमतुलं लोके लावण्यमपि चोत्तमम् ॥ धर्मिष्ठतां तथारोग्यं कुले जन्म तथोत्तमे ॥ ३२ ॥ जन्मान्तरमथासाद्य स्वर्गलोकं तथाविधम् ॥ स्वर्गलोकात्तथाभ्रेष्टा मानुष्ये गुणसंयुताः ॥ ३३ ॥ ब्राह्मणा धनसम्पन्ना भविष्यन्त्यथवा नृपाः ॥ जन्मान्तरमथासाद्य भवेद्येव फलप्रदाः ॥ ३४ ॥ नृपवन्तो महाराज दृष्टा सुत्र च तेऽनघाः ॥ यस्मात्त्वया तपस्तप्तं केशवश्चाप्य पूजितः ॥३५॥ मया समागतश्चापि गंधर्वेश्च महेश्वरः ॥ इहैव कृत्वा धर्मज्ञ रूपमत्र महाफलम् ॥ दिव्यरूपधरो भूत्वा स्वर्गारूं गन्तुमर्हसि ॥ ३६ ॥ एतावदुक्तः स तु मञ्जुनाथो महात्माना तेन नरेन्द्रसिंह ॥ पप्रच्छ तं धर्मसुतन्त्वविद्रुतः नम्रस्य तस्याशुशयं विधानम् ॥ ३७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरूवाऽदितिदर्शनं नाम चतुःपञ्चाशद्विशततमोऽ- ध्यायः ॥ १५४॥ पुरूरवा उवाच ॥ श्रोतुमिच्छामि भगवन्त्रूपसत्रं महाफलम् ॥ यत्समातं भविष्यामि दिव्यरूपधरेण सुते ॥ १ ॥ ॥१०७॥
१ 'पुष्टं' इति ख० ।
अग्निरुवाच ॥ तत्सत्रं कर्तुकामेन चान्वेष्टव्यो ब्राह्मणो गुरुः ॥ ज्योतिषं यो विजानाति इतिहासांश्च कृत्स्नशः ॥ २ ॥ तत्प्रदिष्टेन विधिना पादक्षात्प्रभृति क्रमात् ॥ उपोषितव्यं नक्षत्रं प्रत्येकं तन्निबोध मे ॥ ३ ॥ फाल्गुन्यां समतीतायां कृष्णपक्षाष्टमी तु या ॥ समुत्पन्नां तां तु सम्प्राप्य व्रतं गृह्णीत मानवः ॥ ४ ॥ उपोषितव्यं नक्षत्रं नक्षत्रस्य च दैवतम् ॥ वरुणं च तथा चन्द्रं पूजयेद्विधिना नरः ॥ ५ ॥ पूजयेद्देवदेवेशं भगवन्तं जनार्द्दनम् ॥ उपोष्य शङ्कं देवस्य प्रयत्नेन च पूजयेत् ॥ ६ ॥ ततोऽभिप्लवनं कृत्वा पूजयित्वा तथा गुरुम् ॥ उपवासस्तु कर्त्तव्यो द्वितीयेऽहनि पार्थिव ॥ ७ ॥ उपोष्य ऋक्षे विगते स्नात्वा सम्पूज्य केशवम् ॥ कृत्वाऽन्हिकमहं भक्त्या पूजयित्वा द्विजोत्तमात् ॥ ८ ॥ हविष्यमन्त्रं भोक्तव्यं शृणु चाङ्गक्रमं मम ॥ पादयोः कथितं मूलं प्राजापत्यं तु जङ्घयोः ॥ ९ ॥ आश्विनं जानुयुगलं चोरुयुग्मं च पार्थिव ॥ सहिते द्वे तथाषाढे गुह्यं च सहिते स्मृते ॥ १० ॥ पूर्वोत्तरे च फाल्गुन्यौ कृत्तिकासु कटिर्भवेत् ॥ पार्श्वयोः कुक्षियुक्तान्येषु नक्षत्रनिश्चितं मतम् ॥ ११ ॥ उदरे प्रौष्ठपदे राजन्नेत्रती च तथा भवेत् ॥ उरोऽनुराधासु तथा पृष्ठं निष्ठायासु कीर्तितम् ॥ १२ ॥ भुजौ ज्ञेयौ विशाखासु हस्तौ प्रोक्तौ तथा करौ ॥ अङ्गुल्यश्च तथा प्रोक्ता राजसिंह पुनर्वसौ ॥ १३ ॥ आश्लेषायां तथा प्रोक्ता ज्येष्ठायां नृप कन्धरा ॥ श्रवणौ श्रवणौ ज्ञेय मुखं पुष्ये प्रकीर्तितम् ॥ १४ ॥ दन्ताः स्वातौ शतभिषा हनू प्रोक्तौ तथा नृप ॥ मघायां नासिका प्रोक्ता मृगशीर्षे च लोचने ॥ १५ ॥ चित्रा ललाटे विज्ञेया भरण्यश्च तथा शिरः ॥ शिरोरुहास्तथाऽऽर्द्रासु व्रतस्यान्ते नराधिप ॥ १६ ॥ मधुशुक्लावसाने तु सत्रं परिसमाप्यते ॥ यद्यन्तरायं न भवत्किंचिच्छौचनिमित्तजम् ॥ १७ ॥ अन्तरायं महाराज यदि शौचनिमित्तजम् ॥ उपोष्यमेवोपावसेत्सर्वसत्रसमम्परं पुनः ॥ १८ ॥ क्रमप्राप्तं हि नक्षत्रं चाशुद्ध्यामपवर्जितम् ॥ उच्छूद्यन्न्महीपाल प्रत्यवायं समश्नुते ॥ १९ ॥ अङ्गक्रमेण संक्कोलैलर्वङ्गकुसुमैस्तथा ॥ २१ ॥ व्रतान्ते प्रयततः स्नात्वा पूजयेन्मधुसूदनम् ॥ २० ॥ चन्दनागुरुकर्पूरमृगदर्पै
वि० ध० ॥१०२॥
प्र०खं० अ० १५५ ॥३॥
रूपैव ॥ सर्वबीजानि राजेन्द्र भूषणानि च शक्तितः ॥ २६ ॥ महार्हाणि च वस्त्राणि भक्त्या प्रयतमानसः ॥ तद्विष्णोः परममिति होमः कार्यो ह्यनन्तरम् ॥ २७ ॥ द्वादशाक्षरकं मन्त्रं क्षीरवृक्षेषु विधीयते ॥ घृतं माक्षिकसंयुक्तं जुहुयात्तिलतण्डुलम् ॥ २८ ॥ ततस्तु दक्षिणा देया गुरवे नृपसत्तम ॥ नागाश्च मदमत्ता वै ग्रामाश्च विविधास्तथा ॥ २९ ॥ तुरगाश्च तथा मुख्या रत्नानि विविधानि च ॥ ब्राह्मणश्च पिता ज्ञेयो रूपसत्प्रप्रदर्शकः ॥ ३० ॥ रूपसौभाग्यलावण्यजन्मभोगप्रदायकः ॥ राज्यस्य वा द्विजत्वस्य बहुवित्तस्य दायकः ॥ ॥ ३१ ॥ न तस्य निष्कृतिः शक्या गन्तुं दानेन भूरिणा ॥ गुरुप्रसाद एवात्र दक्षिणानां तु कारणम् ॥ ३२ ॥ तस्मात्तस्मादकाङ्क्षीद्रूपमत्र प्रदर्शकात ॥ अवश्यं तस्य दातव्यं घृतपूर्णं तु भाजनम् ॥ ३३ ॥ चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥ ततः पुनः भोजनीयाः स्वशक्त्या द्विजपुङ्गवाः ॥३४॥ लवणक्षीरस्र्वाज्यक्षुद्रभक्ष्यसितोदकम् ॥ भोजनं पानकोपेतं पक्षाद्द्या च दक्षिणा ॥ ३५ ॥ वस्त्रयुग्मं प्रदातव्यं ब्राह्मणाम् नवं शुभम् ॥ ब्राह्मणार्य च दातव्यं महाराजतरङ्गिनम् ॥ ३६ ॥ सप्तबीजानि देयानि लवणं रूप्यमेव च ॥ गृहाद्यदष्टमंहन्याच्छ्रो- पानत्कमथैव च ॥ ३७ ॥ वित्तशाठ्यं न कर्तव्यं सत्तदाने महीपते ॥ अवश्यदेयं सद्गेहेस्मिन्घृतपूर्णं च भाजनम् ॥ ३८ ॥ चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥ व्रतेनानेन चीर्णेन देहत्यागे दिवं गतः ॥३९॥ तत्रोष्य सुचिरं कालं मानुष्ये यदि जायते ॥ राजा भवति धर्मात्मा ब्राह्मणा वा धनान्वितः ॥ ४० ॥ कुले महति सम्भूतो रूपेणाप्रतिमौ भुवि ॥ आरोग्यं महदाप्नोति सौभाग्यमपि चोत्तमम् ॥ ४१ ॥ लावण्यं बुद्धिर्मेध्यं च मति धर्मे च शाश्वतीम् ॥ सम्पूर्णचन्द्रप्रतिमः सर्वसत्त्ववशाङ्गजः ॥ ४२ ॥ नरो भवति राजेन्द्र नारी चाप्सरसोपमा ॥ सुभगा दर्शनीया च लावण्यगुणसंयुता ॥ ४३ ॥ बहुधान्या बहुधना बहुपुत्रपौत्रसंयुता ॥ भर्तुश्चात्यन्तदयिता लोके स्यात्तथा नृपः ॥ नित्यारोग्यवती कान्ता सर्वदोषविवर्जिता ॥४४॥ चन्द्रानना नीलसरोरुहानेत्रा त्रैलोक्यकान्ता पतिवल्लभा च ॥४५॥ भवत्यवश्यं सुभगा सुशीला लावण्ययुक्ता यशसा श्रिया च ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रूपसत्रवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥ ॥ पुरूरवा उवाच ॥ भगवन्सर्वधर्मज्ञ पितामह महाद्युते ॥ गुरुत्वं मे व्रते तस्मिन्वक्तुमर्हसि मानद ॥ १ ॥ कृतवन्तं च मां तत्र लाभार्थं द्विज- पुङ्गव ॥ एवं शक्त्योस्यरूपेणस्मिन्कर्तुं ब्रह्मन्महद्धनुम् ॥ २ ॥ अत्रिरुवाच ॥ तत्र प्रमादं भगवान्सन्वात्मा मुनुमूर्द्धनः ॥ कुरुष्वेदं करिष्यामि
१ बहुवित्तस्य' इति ख० । २ 'स प्रमादो' इति ख० । ३ बुद्धिमत्कालीकी स्थितिः इति ख० । ४ मेधा धारणावती धीः । ५ 'दक्षताय' इति ख० ।
गुरुत्वमपराजितः ॥ ३ ॥ व्रतावसाने च तथा साम्रग्यं द्विजपुङ्गवैः ॥ कामास्तत्सन्निहिताश्चान्यैर्देशैदस्मिन्नृप सर्वदा ॥ ४ ॥ मार्कण्डेय उवाच ॥ एवमुक्तः स धर्मात्मा सप्तमे च दिने तदा ॥ ज्येष्ठगुंयां सतप्तमीयोगे ग्राहयामास तं व्रतम् ॥ ५ ॥ पादशौचं प्रभृत्येषवृक्षक्षेत्रज्ञे नराधिपः ॥ कारयामास देवस्य कथिताङ्गादिपूजनम् ॥ ६ ॥ स्नानं नक्षत्रनिर्दिष्टं नक्षत्रस्य च पूजनम् ॥ नक्षत्रदैवतस्यापि सोमस्य वरुणस्य च ॥ ७ ॥ पूजनं च तथा विष्णोर्देवदेवस्य चक्रिणः ॥ होमं तथैव सर्वषां यथावन्मनुजेश्वर ॥ ८ ॥ माघशुक्लमुभां प्राप्य द्वादशीं च तथा तिथिम ॥ अत्रिब्रतावसाने तमागते ब्राह्मणैः सह ॥ ९ ॥ व्रतावसाने संपूज्य केशवाङ्गांश्चिसोमजान् ॥ राज्यं निवेदयामास सोऽद्रेः सकलमव हि ॥ १० ॥ प्रतिगृह्य च तद्राज्यं तस्माद्दे मन्त्रिविन्नृप ॥ भूयः प्रादात्स तस्यैव वचनंचदमब्रवीत ॥ ११ ॥ न मे राज्येन कर्तव्यं किञ्चिदवास्ति पार्थिव ॥ न धनेन न कामेन याजिता ध्रुववाञ्छियाः ॥ १२ ॥ समत्वं राजशार्दूल स्वस्ति गच्छ गृहान्प्रति ॥ एवमुक्ता ययावत्रिरन्तर्धानमथेश्वरः ॥ १३ ॥ सर्वैर्द्विजगणैः सार्धं तदा गत्वा सं पार्थिवः ॥ देवपुष्करिणीतीये स्नातमात्रो वभूव ह ॥ १४ ॥ ततस्ताम्बूनदकारो नीलकुञ्चितमूर्धजः ॥ पृथुवक्षा महाबाहुस्तप्तकुङ्किमसंकाटिः ॥ १५ ॥ गन्धर्वराजप्रतिमः सर्वसत्त्ववशङ्करः ॥ रूपं तु तादृशं तस्य दृष्ट्वा गन्धर्वसत्तमाः ॥ १६ ॥ तथैवाप्सरसो मुख्या दिष्ट्या दिष्ट्येति तेऽब्रुवन् ॥ सभाज्य पार्थिवं तेन पूजिताः प्रययुः सुखम् ॥ १७ ॥ नीत्वा संवत्सरं तत्र पूर्णं संवत्सरे नृपः ॥ देवतांश्चाप्यथामन्त्र्य पूजयित्वा यथाविधि ॥ १८ ॥ तथा पुष्करिणीं पुण्यां गुहां पद्मरस्तथा ॥ आश्रमं शैलमुख्यं च तथैव च वनस्पतिम् ॥ १९ ॥ गन्धर्वाप्सरसश्चैव प्रययौ स्वपुरं ततः ॥ उग्रसङ्गमसम्प्राप्तौ दृष्टो वर्षायिकैस्ततः ॥ २० ॥ स्तुतो देवप्रसादाच्च भक्त्या तैश्चाभिनन्दितः ॥ सत्त्वैश्च तथा कैश्चिदमात्यानां निवेदितः ॥ २१ ॥ अमात्याश्चागतं श्रुत्वा लब्धकामं नराधिपम् ॥ निर्ययुर्नगरात्तस्माच्चतुरङ्गबलान्विताः ॥ २२॥ राज्ञः प्रतिग्रहाथं ते गणमुख्यापुरःसराः ॥ तैः समेत्य स राजर्षिर्यथान्वमनुजेश्वर ॥२३॥ कल्पितेन गजेन्द्रेण पताकाध्वजशोभिना ॥ प्रविवेश पुरं हृष्टः शाकलं नाम नामतः ॥ २४ ॥ राज्ञः प्रवेशे तत्पौरैः सितचन्दनवारिणा ॥ बहुवर्णस्तथा पुष्पैर्यथास्थाने विरूषितम् ॥ २५॥ चन्दनागुरुसाराणां धूपैः सुरभीकृतम् ॥ महोच्छ्रितपताकाढ्यं माल्यदामपरिष्कृतम्॥ २६ ॥ माल्यमोदकहस्तैश्च पौरजानपदैर्युतम् ॥ अतीव जनसंबाधमतीव सुमनोहरम् ॥ २७ ॥ प्रासादवरसंस्थाश्च गवाक्षगतास्तथा ॥ वेदिकास्थाश्च
१ 'दध्वाश्च' इति क० । 'द्याच्च' इति ख० । २ 'देवतांश्चाप्यथामन्त्र्य' इति ख० । ३ 'अप्यशङ्गलसमाप्राप्तौ' इति क० ।
१८
वि० ध० ॥१०३॥ प्र० खं० अ० १५७
पश्यन्ति स्त्रियस्तं मन्मथार्दिताः ॥ २८ ॥ स मुष्णन्योषितां चित्तं दृशश्च मनुजाधिपः ॥ लाजैरर्चन्दनचूर्णैश्च कीर्यमाणः समन्ततः ॥ २९ ॥ पुष्पैश्च स्त्रीकरोत्सृष्टैः पूर्यमाणो नराधिपः ॥ अभिगम्य च तत्रासौ देवतायतनांस्ततः ॥ ३० ॥ प्रविवेश गृहं श्रीमच्छारदाभ्रचयोपमम् ॥ तत्राभिगमनं कृत्वा देवतानां यथाविधि ॥ ३१ ॥ संपूज्य ब्राह्मणान्भक्त्या विविधैर्धनसञ्चयैः ॥ सभास्थं सान्त्वयामास पौरजानपदं जनम् ॥ ३२ ॥ आश्वास्य प्रेषयामास गृहान्योधजनं तथा ॥ जनानुरागसंयुक्तस्ततः प्रभृति पार्थिवः ॥ ३३ ॥ राजशास्त्रोपदेशेन पालयामास मेदिनीम् ॥ रेमे च सह रामाभिर्गन्धर्वप्रतिमौ युवा ॥ ३४ ॥ स तु कालेन महता राजा पञ्चत्वमागतः ॥ उवास सुचिरं काले पूज्यमानः सुरोत्तमैः ॥ ३५ ॥ मन्वन्तरे व्यतीते तु चाक्षुषस्य महात्मनः ॥ वैवस्वतेऽथ सम्प्राप्ते बुधपुत्रत्वमागतः ॥ ३६ ॥ तत्र तस्य तु यद्रूपं सौभाग्यादेव विश्रुतम् ॥ सशरीरस्य च तथा स्वर्लोके गमनं नृप ॥ ३७ ॥ स्वर्गेतोऽपि स राजर्षिः क्षीणे वैवस्वतेऽन्तरे ॥ प्रविश्यातिपुरं विष्णोश्चन्द्रमण्डलमध्यगम् ॥ ३८ ॥ एतत्सर्वमवाप्तं कर्मणा येन पार्थिवः ॥ अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ ३९ ॥ ^१पूजयन्ति हरिं देवं सात्त्विकास्तु निराशिषः ॥ राजसाः कामकामाश्च क्रूरकामाश्च तामसाः ॥ ४० ॥ हरिं सम्पूज्य मनसा राजसेन पुरूरवाः ॥ सततैदंप्रसङ्गेनायं पृथिव्यामेकराड् बभौ ॥ ४१ ॥ स्वर्गं सुदुर्लभं प्राप्य स्थानं प्राप्स्यति शाश्वतम् ॥ नास्ति विष्णुसमो नाथो नास्ति विष्णुसमा गतिः ॥ ४२ ॥ नास्ति विष्णुसमं त्राणं नरस्यार्तस्य भेषजम् ॥ सत्कृतं पूजनं येन कृतं देवस्य चक्रिणः ॥ ४३ ॥ आरात्रिकं कृतं तेन सम्प्राप्तं परमं पदम् ॥ येन संकीर्तितं राजन्रहिरित्यक्षरद्वयम् ॥ ४४ ॥ बद्धः परिकरेनानेन मोक्षाय गमनं प्रति ॥ एतत्त्वे बुधपुत्रस्य त्रिषु जन्मसु पार्थिव ॥ चरितं सकलं प्रोक्तं येन सम्पूजितो हरिः ॥ ४५ ॥ धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं वृद्धिविवर्धनं च ॥ श्रोतव्यमेतन्नियतेन च सद्भिश्छायानसूनोर्जुनसंस्मृद्धिकामैः ॥ ४६ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरूरवसस्वरूपगमनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥
॥ वज्र उवाच ॥ द्वादशीषु कथं विष्णुः सोपवासेन पूजितः ॥ स्याद्गङ्गे मे तन्मे त्वं ब्रूहि तत्त्वतः ॥ १ ॥ पश्य गङ्गमस्य माहात्म्यं यत्र धर्मसमावृभौ ॥ श्रुणु तस्य च धर्मस्य फलभागार्थिको नृपः ॥ २ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ॥ गङ्गा मंगक्षिताः सर्वे भक्त्या धर्मं निषेवितुम् ॥ ३ ॥ मानुषेण शरीरेण राजा देववपुर्धरः ॥ क्षत्रियोऽपि सदा पूज्यो ब्राह्मणानां महात्मनाम् ॥ ४ ॥ विना गज्यं हि या लक्ष्मीः
॥१०३॥
^१ "राजा" इति क० । ^२ 'सतां' इति ख० ।
परतन्त्रा हि सा मता ॥ तस्माद्राज्यं प्रशंसन्ति तत्राज्ञा न विहन्यते ॥ ५ ॥ तुल्यधातुशरीराणां तुल्यावयवजीविनाम् ॥ नरेन्द्रणां नरैर्बह्वैर्नृ- ववद्दुर्भिवि मन्यते ॥ ६ ॥ राज्यदां द्वादशीं तस्मात्कर्त्तुमर्हसि मे भवान् ॥ यामुपोष्य महद्राज्यं प्राप्तुपालस्तु वै द्विजः ॥ ७ ॥ मार्कण्डेय उवाच ॥ शृणुष्वावहितो राजन्द्रादशों शुभां ॥ यामुपोष्य नरो लोके राज्यमाप्नोत्यकण्टकम् ॥ ८ ॥ मार्गशीर्षस्य मासस्य शुक्लपक्षे नराधिप ॥ दशम्यां प्रयतंः कृत्वा स्नानमभ्यङ्गपूर्वकम् ॥ ९ ॥ उपवासस्य संकल्पं शोभतस्तु तु कारयेत् ॥ देवागारे कुशास्तीर्णेामिकत्वोचोत्तर च्छदाम् ॥१०॥ अध्यासीत महीं तत्र तां रात्रिं प्रयतो नयेत् ॥ द्वितीयेऽह्नि ततः कुर्याद्विद्विः स्नानमतन्द्रितः ॥ ११ ॥ पूजनं देवदेवस्य सर्वं शुक्लेन कारयेत् ॥ कर्पूरं चन्दनं देयं मल्लिका श्वेतयूथिका ॥ १२॥ जात्या च शुक्ला राजेन्द्र धूपे कर्पूरमेव च ॥ घृतेन दीपा दातव्या शुक्लबर्त्तिसमन्विताः ॥ ॥ १३ ॥ घृतोदनं दधि क्षीरं परमान्नं तथैव च ॥ इक्षुर्मिक्षुविकारांश्च देवदेवं निवेदयेत् ॥ १४ ॥ कालोद्भवं मूलफलं वर्णं तत्र न चिन्तयेत् ॥ यथालाभेन तद्देयं शुक्लं चेत्स्याद्विशेषतः ॥ १५ ॥ हवनं च ततः कार्यं परमान्नेन पार्थिव ॥ तद्विष्णोः परं इत्येव होममन्त्रो विधीयते ॥ १६ ॥ द्वादशाक्षरकं मन्त्रं श्रीशूद्रस्य विधीयते ॥ ततोऽग्निहवनं कृत्वा शक्त्या सम्पूज्य च द्विजान् ॥ १७ ॥ सितेनेन कर्तव्या भूमिशोभा सुरालये ॥ रात्रौ जागरणं कार्यं गीतं नृत्यं च पार्थिव ॥ १८ ॥ कर्मणा चैव देवस्य कर्तव्यं श्रवणं तथा ॥ द्वादश्यां विधिनानेन भूयः पूज्यो जनार्दनः ॥ ॥ १९ ॥ राजलिङ्गं प्रदातव्यमेकं विधाय दक्षिणा ॥ ततस्तु पश्चाद्भोक्तव्यं हविष्यं पार्थिवोत्तम ॥ २० ॥ एकादशी यथा मध्ये स्नानयोरन्तरे नृप ॥ कष्टं मौनं तु कर्तव्यं जप्यं कार्यं तु मानसम् ॥ २१ ॥ द्वादशीष्वेव सर्वासु सर्वस्वंवाविशेषतः ॥ विधिमन्तत्त्वयं निर्दिष्टः कृष्णास्वेवं च कारयेत् ॥ २२ ॥ विशेषं ते प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ रक्तवर्णेन कर्तव्या देवपूजा यथाविधि ॥ २३ ॥ रक्तं च देयं नैवेद्यं पुष्पगन्धानुलेपनम् ॥ तिलतैलेन दीपाश्च महारजनरञ्जिताः ॥ २४ ॥ दीपैषु वर्तयो देया होमः कार्यस्तथा तिलैः ॥ भूमिशोभा च कर्तव्या रक्तैश्चैवालवर्णकैः ॥ २५ ॥ अनेन विधिना कृत्वा राजन्संवत्सरं ततः ॥ कार्तिक्यां समतीतायां कृष्णा या द्वादशी भवेत् ॥ २६ ॥ व्रतावसाने तस्यां तु महावर्त्तिं तु दापयेत् ॥ वाससा च समग्रेण तुलया च घृतस्य वै ॥ २७ ॥ ब्राह्मणाय प्रदातव्या धेनुः कांस्योपदोहना ॥ हेमशृङ्गी रौप्यखुरा मुक्तालांगूलभूषिता ॥ २८ ॥ वस्त्रोत्तरीया दातव्या शक्त्या द्रविणसंयुता ॥ संवत्सरेण राजा स्यान्नरः
१ ‘बहु’ इति ख० । २ ‘वर्णं’ इति क० । ३ ‘परमं पदम्’ इति क० । ४ ‘रात्रि’ इति ख० । ५ ‘खुरे रौप्यैः’ इति ख० ।
| वि० ध० | प्र० खं० |
|---|---|
| अ० १५९ |
पर्वतगह्वरे ॥ २९ ॥ त्रिभिः संवत्सरैः पूर्णैर्जायते सफलं ततः ॥ तथा द्वादशभिः पूर्णै राजा भवति पार्थिवः ॥ ३० ॥ राज्यप्रदा तेऽभिहिता मयैषा शुद्धादशी पापहरा वरेण्या ॥ उपोष्य यां भूमितले नरेन्द्रो भवेज्जयेश्च रणदरिसंघैः ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राज्यप्रदद्वादशीविधिनार्म सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ १५७ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ मार्गशीर्षस्य मासस्य शुक्लपक्षाजनाधिप ॥ आरभ्याभ्यर्चयेद्देवं द्वादशीषु सदैव तु ॥ १ ॥ पक्षयोरुभयोर्नित्यं सोपवासो जितेन्द्रियः ॥ फलैः¹ पुष्पैर्यथाकामं नैवेद्यैर्होमकर्मणा ॥ २ ॥ पूजने ब्राह्मणानां च शक्त्या दानं च पार्थिव ॥ अभीष्टनामनामर्च्यन पूर्णत्संवत्सरान्नरः ॥ ३ ॥ तदेवाप्नोति राजेन्द्र यत्र गत्वा न शोचति ॥ अकामाः सात्त्विका देवं पूजयन्ति जनार्दनम् ॥ ४ ॥ तस्मादकामेन नरेन्द्रचन्द्र संपूजनीयो भुवनस्य गोप्ता ॥ त्यक्त्वा वणिज्यं नरदेव लोके देवेश्वरो विष्णुरुपासनीयः ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कामद्वादशीवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ अकामास्ते प्रवर्तन्ते देवदेवार्चने नराः ॥ २ ॥ मार्कण्डेय उवाच ॥ उपोष्य किं फलं लोके शुक्लपक्षे विधीयते ॥ १ ॥ अनेकजन्मसाहस्रैर्यत् पापं क्षयं गतम् ॥ अकामास्ते प्रवर्तन्ते देवदेवार्चने नराः ॥ २ ॥ मार्कण्डेय उवाच ॥ द्वादश्यां मार्गशीर्षस्य शुक्लपक्षे उपोषितः ॥ नाम्ना केशवमभ्यर्च्य वह्निष्टोमफलं लभेत् ॥ ३ ॥ नारायणं तथाभ्यर्च्य पौषे मासे जगत्पतिम् ॥ अत्यग्निष्टोममाप्नोति नात्र कार्या विचारणा ॥ ४ ॥ माघे माधवमभ्यर्च्य द्वादशाहफलं लभेत् ॥ गोविन्दं फाल्गुने मासि पूजयित्वा महीधर ॥ ५ ॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ चैत्रे विष्णुमथाभ्यर्च्य वाजपेयफलं लभेत् ॥ ६ ॥ द्वादश्यां मासि वैशाखे सम्पूज्य मधुसूदनम् ॥ गोसवस्य तु यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ ७ ॥ ज्येष्ठे मासे तथाभ्यर्च्य देवदेवं त्रिविक्रमम् ॥ पुण्डरीकस्य यज्ञस्य फलं विन्दति मानवः ॥ ८ ॥ आषाढे वामनं देवं पूजयित्वा जगत्पतिम् ॥ क्षिप्रमेव समाप्नोति यज्ञं बहुसुवर्णकम् ॥ ९ ॥ श्रीधरं श्रावणे मासि पूजयित्वा महेश्वरम् ॥ वैष्णवस्य तु यज्ञस्य फलं विन्दत्यसंशयम् ॥ १० ॥ मासे भाद्रपदे देवं हृषीकेशं समर्चयन् ॥ अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ११ ॥ आश्विने मासि सम्प्राप्ते पद्मनाभं समर्चयन् ॥ गोसहस्रमवाप्नोति नात्र कार्या विचारणा ॥ १२ ॥ दामोदरमथाभ्यर्च्य कार्तिके मासि यादव ॥ सर्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ १३ ॥ मासांस्तत सदा नाम्ना शुक्लपक्षे ह्युपोषितः ॥ द्वादशीषु सदा कुर्या
¹ 'सफलैः' इति क० 'सकलैः' इति ख० ।
| ॥१०४॥ | ॥१०४॥ |
|---|
जप्यहोमान्समाहितः ॥ १४ ॥ संवत्सरान्ते दातव्यं घृतपूर्णं च भाजनम् ॥ कांस्यस्य वैनतेयं च रुक्मपत्रनिवेशितम् ॥ १५ ॥ क्रमो- पवासस्त्वेते प्रोक्ता यज्ञफला नृप ॥ पूर्णं संवत्सरं कृत्वा व्रतमेतन्नराधिप ॥ १६ ॥ स्वर्गलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ देवरामागणाकीर्णे वीणाशुकनिनादिना ॥ १७ ॥ हंससारसयुक्तेन विमानेनार्कवर्चसा ॥ किङ्किणीशतघोषण विहरत्यमरप्रभः ॥ १८ ॥ यावज्जीवं नरः कुर्याद्व्रतमेतत्स माहितः ॥ श्वेतद्वीपमवाप्नोति यत्र चन्द्रप्रभा नराः ॥ १९ ॥ चतुर्भुजा महासत्वा नित्यतृप्ताः सुगन्धिनः ॥ अनिबन्धा निराहाराः सर्वज्ञाः सर्वदर्शिनः ॥ २० ॥ तत्रोष्य कालं सुचिरं नरेन्द्र भित्त्वार्कबिम्बं सहसा प्रयाति ॥ स्थानं पुरो देववरस्य विष्णोर्नित्यस्य तस्यानघ सर्वगम्य ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शुक्लपक्षद्वादशीविधिर्नामैकोनषष्ट्यधिक- शततमोऽध्यायः ॥ १५९ ॥ वज्र उवाच ॥ केवलं कृष्णपक्षस्य द्वादशीषु जनार्दनम् ॥ कदाप्रभृति धर्मज्ञ विधिना केन चार्चयेत् ॥ १ ॥ मार्कण्डेय उवाच ॥ मार्ग्यां तु समतीतायां द्वादशी या भवेन्नृप ॥ ततः प्रभृति कर्तव्यं व्रतमेतद्यशोप्सितः ॥ २ ॥ द्वादशीषु च कृष्णासु नाम कृष्णस्य कीर्तयेत् ॥ तेनेव नाम्ना कर्तव्यौ जपहोमौ तथैव च ॥ ३ ॥ तिलैर्निवेदनं कार्यं होमः कार्यस्तथा तिलैः ॥ पौष्यां तु समतीतायां कृष्णा या द्वादशी भवेत् ॥ ४ ॥ तस्यां व्रतावसाने तु तिलान्दद्याद्विजातिषु ॥ सुवर्णं च महीपाल रक्तवस्त्रं तथैव च ॥ ५ ॥ संवत्सरमिदं कृत्वा व्रतं मनुजपुङ्गव ॥ तिर्यग्योनिं न चाप्नोति स्वर्गलोकं च गच्छति ॥ ६ ॥ यावज्जीवं व्रतमिदं यः करोति समाहितः ॥ न स दुःखं समाप्नोति नरकं न नराधिप ॥ ७ ॥ यत्र वैतरणी दुर्गा क्षुरधाराश्च पर्वताः ॥ पापानां यातना यत्र तत्रासौ न गमिष्यति ॥ ८ ॥ यस्यां गणाः भीमबला महाघ्रा दंष्ट्राकराला विकटोग्रवेषाः ॥ विद्रावणाः पापकृतां नराणां न येन तस्या नृप यान्ति मार्गम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिकृष्णपक्षद्वादशीविधिर्नाम षष्ठ्यधिकशततमोऽध्यायः ॥ १६० ॥ वज्र उवाच ॥ उपवासा- समर्थानां शुक्लपक्षे द्विजोत्तम ॥ एका या द्वादशी पुण्या तां वदस्व ममानघ ॥ १ ॥ मार्कण्डेय उवाच ॥ मासि भाद्रपदे¹ शुक्ला द्वादशी श्रवणान्विता ॥ महती द्वादशी ज्ञेया उपवासे महाफला ॥ २ ॥ सङ्गमे सरितोः पुण्ये द्वादशीं तामुपोषितः ॥ अयत्नादेकमवाप्नोति द्वादशद्वादशीफलम् ॥ ३ ॥ बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् ॥ अत्यन्तमहती यस्यां सर्वं कृतमथाक्षयम् ॥ ४ ॥ द्वादशी श्रवणोपेता यदा भवति पार्थिव ॥
¹ 'भाद्रवेन' इति ख० ।
॥१०५॥
प्र० खं०
अ० १६२
सङ्गे तु तदा ज्ञात्वा सतीर्थस्नानजं फलम् ॥६॥ सोपवासः समाप्नोति नात्र कार्या विचारणा ॥ वारिधानौं तदा दत्त्वा जलपूर्णां द्विजातये ॥६॥
छत्त्रं वस्त्रयुतं राजञ्छ्रोपानहसंयुताम् ॥ स्वर्गलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ७ ॥ स्वर्गं समासाद्य चिरं च भोगान्सुक्ता महेंद्रोपम
देववत्तुल्यान् ॥ मानुष्यमासाद्य भवेन्नरारोगो धनानन्विंतो धर्मपरो मनस्वी ॥८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रावणीद्वाद
शीप्रशंसावर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः ॥ १६१ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ महत्यरण्ये यहूत्तं
भूमिपाल पुरातनम् ॥१॥ देशा दाशेरका नाम तेषां भागे तु पश्चिमे ॥ अस्ति राजन्मरुद्देशः सर्वसत्त्वभयङ्करः ॥२॥ सुतप्तसिकता भूमियंत्र दुष्ट
महोरगा ॥ स्वल्पच्छायासमाकीर्णा मृतप्राणिसमाकुला॥३॥ शमीखदिरफुल्लासकरीरैः पेलुभिः सह ॥ तत्र भीमा द्रुमागणाः कण्टकैरवृताः समाः॥४॥
चण्डाश्मणिगणाकीर्णा तत्र भूमिरतथा कचित् ॥ अत्यन्ततापविपमा निस्तृणा परुषोपला ॥ ५ ॥ नाश्वस्तत्र नहारो ज्वलिताग्निसमे भृशम् ॥
तथापि तत्र जीवन्ति जनाः कर्मनिवन्धनात ॥ ६ ॥ नोदकं नोदकधरा राजनंस्तत्र वलाहकाः ॥ कदाचिदपि दृश्यन्ते देशे निरपसभ्रिमे ॥ ७ ॥
तत्र पक्षान्तरेगोस्तृषितैः शिशुभिः सह ॥ उत्क्रान्तजीविता राजन्दृश्यन्तेऽथ विहङ्गमाः ॥ ८ ॥ उत्प्लुत्योत्प्लुत्य सहसा मृगाः सैकतमाल
यात ॥ सैकतेष्वेव नश्यन्ति जले सैकतसेतुवत् ॥९॥ तस्मिंस्तथाविधे देशे कश्चिद्वैश्यो दशाणिकू ॥ वनमातपविक्षुब्धः प्रविष्टस्तु परिभ्रमन ॥ १०॥
स तत्र ददृशे प्रेतान्क्षुत्तृष्णाव्याकुलेन्द्रियान् ॥ उत्कृन्वान्नलिनिभ्रांतिम्रांसान्निभोमदर्शनान् ॥ ११ ॥ स्नायुवद्धस्थिशकयान्धावमानानितस्ततः ॥
कश्चित्समांसं तंत्प्रेतं प्रेतस्कन्धगतं तदा ॥ १२ ॥ ददर्श बहुभिः प्रेतैः समन्तात्परिवारितम् ॥ तस्तस्कन्धादपरं स्कंधं नीयमानं क्रमात्क्रमात् ॥१३॥
प्रेतोऽपि दृष्ट्वा तां वोरामटवीं नरमागतम् ॥ प्रेतस्कन्धान्महीं गत्वा तस्यांतिकमुपागमत ॥ १४ ॥ सोऽभिवाद्य वणिक्श्रेष्ठमिदं वचनमब्रवीत ॥
अस्मिन्घोरे महारण्ये प्रवेशो भवतः कथम् ॥ १५ ॥ तमुवाच वणिर्द्धामान्मासाथाभ्रष्टस्य मे वने ॥ प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ॥ १६॥
तृष्णा मे बाधतेऽत्यर्थं क्षुत्क्षामश्च भृशं तथा ॥ प्राणाः कण्ठमनुप्राप्ता वदनं श्रूयते च मे ॥ १७ ॥ अत्रोपायं न पश्यामि म्रियेऽहं यत फंल
वित् ॥ इत्येवमुक्तः प्रेतस्तु वणिजं वाक्यमब्रवीत् ॥ १८ ॥ प्रभागमिममाश्रित्य प्रतीक्षस्व क्षणं मम ॥ कृतनित्यो मया यावद्गिष्मदद्भिर्मयि यथा
सुखम् ॥ १९ ॥ एवमुक्तस्तदा चेके स वणिक्तुष्णयान्वितः ॥ मध्याह्नसमये प्राते प्रतस्तं देशमागमत् ॥ २० ॥ प्रभांगवृक्षाच्छीतोदं वारि
धार्ता मनोरमाम् ॥ दध्यानसूत्रेकेन वर्धमानेन संयुताम् ॥ २१ ॥ अवतार्थ ततस्त्वत्रं प्रददाति च यत्तदा ॥ ततोऽमृतात्रेण वणिक्परां
॥१०५॥
तृप्तिमुपागतः ॥ २२ ॥ वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ॥ ततः प्रेतेषु सर्वेषु क्रमाद्भागं तदा ददौ ॥ २३ ॥ दध्योदनस्तत्पानीयंतदैते तृप्तिं परां ययुः ॥ अथ सन्तर्पयित्वा तु प्रेतांस्तान्स तु सर्वशः ॥ २४ ॥ प्रेताधिपः स बुभुजे पश्चादन्नं यथासुखम् ॥ तस्य भुक्तवतस्त्वन्नं पानीयं च क्षयं ययौ ॥ २५ ॥ प्रेताधिपं ततस्तृप्तं वणिग्वचनमब्रवीत् ॥ आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ॥ २६ ॥ अन्नपानस्य सम्प्राप्तिः परमस्य कुतस्तव ॥ स्तोकेन च तथानेन बिभर्षि च बहुन्कथम् ॥ २७ ॥ तृप्ता अपि कथं सर्वे निर्मांसा भिन्नकुक्षयः ॥ कश्चित्त्वमस्यां घोरयामाटव्यां तु कृतालयः ॥ २८ ॥ एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् ॥ २९ ॥ वाणिज्यासक्तस्य पुरा कालोऽतीतो ममानघ ॥ शाकले नगरे रम्ये नास्तिकस्य दुरात्मनः ॥ ३० ॥ धनलोभान्मया तत्र न कदाचिदपि प्रभो ॥ दत्तासीद्भिक्षवे भिक्षा कृपणेन कथञ्चन ॥ ३१ ॥ प्रतिवेश्यश्च तत्रासीद्ब्राह्मणो गुणवान्मम ॥ श्रवणद्वादशीयोगे मासि भाद्रपदे तदा ॥ ३२ ॥ स कदाचिन्मया सार्धं तीर्थे नाम नदीं ययौ॥तस्याश्च सङ्गमः पुण्यो यत्रासीच्चन्द्रभागया ॥३३॥ चन्द्रभागा सरिच्छ्रेष्ठा यत्र शीतजलोदका ॥ महादेवजटाजूटाद्गङ्गानिपतिता पुरा ॥३४॥ चन्द्रेण भागती न्यस्ता चन्द्रभागा स्मृता ततः ॥ तत्कालतप्तसलिले तोये तत्रार्कनन्दिनी ॥ ३५ ॥ शीतोष्णे चोदके तस्मिन्संगमे सुमनोहरे॥तं स देशं समासाद्य प्रातिवेश्यमसौ द्विजः ॥३६॥ श्रवणद्वादशीयोगे स्नात्वार्चन उपोषितः ॥चान्द्रभागस्य तोयस्य वारिधानी नवा दृढा ॥३७॥ दध्योदनयुतैः सार्धं सम्पूर्णगन्धमाल्यैः ॥ छत्रैश्चोपानहै रम्यैर्वस्त्रैश्च विविधैर्युता ॥३८॥ प्रददौ विप्रमुख्येभ्यो रहस्यज्ञो महीपतिः ॥चित्तसंरक्षणार्थाय तस्यापि च तदा मया ॥३९॥सोपवासेन दत्तैका वारधानी नवा दृढा ॥चान्द्रभागस्य तोयस्य दध्योदनयुता तदा॥४०॥गत्वा गृहमनुप्राप्य ततः कालेन केनचित्॥पश्चात्त्वहमासाद्य नास्तिक्यात्प्रेततां गतः॥४१॥ अस्यामटव्यां घोरायां यो वा ह्यकुशलस्तदा ॥ श्रवणद्वादशीयोगे दत्ता यासौ मयानघ॥ ॥४२॥दध्योदनयुतारम्या वारिधानी नवा दृढा॥ सेयं मध्याह्नसमये दिवसे दिवसे मम॥४३॥ उपतिष्ठत्यसंदेहं यथा दृष्टा त्वयानघ ॥ ब्रह्मस्वहारिणस्तेवै ते पापाः प्रेतत्वमागताः ॥४४॥ परदाररताः केचित्स्वामिद्रोहकराः परे॥ मित्रद्रोहकराः केचिद्देशेऽस्मिन्पुरुषदारुणे॥४५॥ ममाप्युद्दानं कुर्वन्ति अन्नपान कृतेऽनघ ॥ अक्षयो भगवान्विष्णुः परमात्मा सनातनः ॥४६॥ तद्बुद्धिस्तु यु ददत्तं तदक्षयं प्रकीर्तितम् ॥ अक्षयेन तथाऽन्नेन तृप्ता अपि हि मानद ॥ ४७ ॥ प्रेतभावेन दौर्बल्यं न विमुञ्चन्ति कर्हिचित् ॥ अहं च पूजयित्वा त्वामतिथिं समुपस्थितम् ॥ ४८ ॥ प्रेतभावाद्विनिर्मुक्तो यास्यामि
^१ 'प्रतिवेश्यश्च' इति क० । किंवात्र प्रकरणे सर्वत्रैव कपुस्तके प्रातिवेश्यस्थाने प्रतिवेश्य इत्येव लभ्यते ।
वि० ध० ॥१०६॥
वै० पृ० अ० १६३
परमां गतिम् ॥ मया विहीनाः प्रेतास्तु वनेऽस्मिन्भृशदारुणे ॥ ४९ ॥ पीडामनुभविष्यन्ति दारुणां कर्मयोगजाम् ॥ एतषां त्वं महाभाग मदुक्तमह- काम्यया ॥ ५० ॥ प्रत्येकं गोत्रनामानि गृहीत्वा लिखितं च ॥ अस्ति कच्छागतेहैषा तव सा पुस्तिकामयी ॥ ५१ ॥ हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम् ॥ गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते ॥५२॥ एकैकं त्वमथोद्दिश्य प्रेतं प्रेतं यथासुखम् ॥ ततस्ते विमोक्ष्यन्ति प्रेत- भावमसंशयम् ॥ ५३ ॥ इत्येवं स वदंस्त्वेव ततश्चाम्बुनदप्रभः ॥ विमानवरमास्थाय स्वर्गलोकं ततो गतः ॥ ५४ ॥ संचिन्त्य प्रेतनाथे तु प्रेतानां स वणिक्क्रमात् ॥ नामगोत्राणि सङ्गृह्य प्रयातः स हिमालयम् ॥ ५५ ॥ तत्र प्राप्य निधिं गत्वा निक्षिप्य च तथा गृहे ॥ धनं किंचिदुपादाय गया- शीर्षं ततो ययौ ॥ ५६ ॥ प्रेतानां क्रमशतस्तत्र चक्रे श्राद्धं दिनेदिने ॥ यस्ययस्य यदा श्राद्धं करोति स महान्वणिक् ॥ ५७ ॥ स स तस्य तदा- स्वप्ने दर्शयत्यात्मनस्तनुम् ॥ ब्रवीति च महाभाग प्रसादेन तवानघ ॥ ५८ ॥ प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि त्रिदिवं ध्रुवम् ॥ कृत्वा स धन- दानेन प्रेतानां निष्कृतिं वणिक् ॥ ५९ ॥ जगाम स्वगृहं तत्र मासि भाद्रपदे तदा ॥ श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् ॥ ६० ॥ धनं च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ॥ पुण्येपु सततं राजन्नदीनां सङ्गमेषु च ॥६१॥ गङ्गासरय्वोर्योगज्ञायाः गोणस्य च महामतेः ॥ इक्षुमत्याश्च गङ्गाया गङ्गायमुनयोस्तथा ॥ ६२ ॥ गोमत्याश्च सरय्वाश्च कौशिकीगण्डकीस्तथा ॥ विपाशया देवहदा यत्र योगं प्रपद्यते ॥ ६३ ॥ विपाशा च तथा योगं यत्र याति शतद्रुणा ॥ इरावती तथा योगं यत्र व्रजति सिन्धुना ॥ ६४ ॥ चन्द्रभागा च व्रजति यत्र योगं वितस्तया ॥ महासिन्धुश्च संयोगं यत्र याति वितस्तया ॥ ६५ ॥ प्रत्यब्दं यावदेतेषु संगमेषु महावणिक् ॥ करोति विविधन्दानं यावद्दिष्टान्तमागतः ॥ ६६ ॥ अवाप परमं स्थानं दुर्लभं यत्तु जन्तुभिः ॥६७॥ पञ्चसङ्ख्या नद्यः पायसकर्द्दमाः ॥ ६७ ॥ शीतलामलपानीयाः पुष्करिण्यो मनोहराः ॥ सुवर्णसिकता राजन्मणिसोपानभूषिताः ॥६८॥ आनन्ताश्च न संयातो देशं तं भूरिदक्षिणः ॥ १ तं देशमासाद्य वणिङ्महात्मा सुतनजाम्बूनदभूषि- ताङ्गः ॥ कल्पं समग्रं मुदितो यदात्मा रमे स गङ्गाग्निसुतः कृतात्मा ॥ ६९ ॥ विमानेनार्कगर्भेण विभि रिन्द्रगन्धर्वसेवितः ॥ विष्णुलोकमवाप्नोति याव- दाभूतसंप्लवम्॥७०॥ राजसूयादिभिर्यज्ञैर्यत्फलं समवाप्यते ॥ श्रवणद्वादशीं कृत्वा तत्फलं लभते नरः॥७१॥ इति श्रीविष्णुधर्मामृते प्रथमखण्डे मार्क- ण्डेयवज्रसंवादे पिशाचमोक्षणे श्रवणद्वादशीमाहात्म्यवर्णनं नाम द्विषष्ट्यधिकशततमोऽध्यायः॥ १६२॥ वज्र उवाच॥ एकासुषाञ्च कृष्णां यां द्वादशीं
^१ 'चीलो' इति क० 'प्राप्य' इति ख०।
विधिना नरः ॥ महत्फलमवाप्नोति तां समाचक्ष्व भार्गव ॥ १ ॥ मार्कण्डेय उवाच ॥ पौष्यान्तु समतीतायां श्रवणेन तु संयुता ॥ द्वादशी या भवेत्कृष्णा प्रोक्ता सा तिलद्वादशी ॥ २ ॥ तिलैः स्नानं तिलैर्होमं नैवेद्यं तिलमोदकैः ॥ दीपाश्च तिलतैलेन तथा देयं तिलोदकम् ॥ ३ ॥ तिलाश्च देया विप्रभ्यस्तस्मिन्नहनि पार्थिव ॥ उपवासाद्दिनं राजन्होतव्याश्च तथा तिलाः ॥ ४ ॥ उपोषितेनापरेऽह्नि होतव्याश्च विशेषतः ॥ इन्धनं च प्रदातव्यं ब्राह्मणेभ्यस्तथाऽनघ ॥५॥ तिलप्रस्थं तदा हुत्वा सोपवासो जितेन्द्रियः ॥ न दुर्गतिमवाप्नोति नात्र कार्या विचारणा ॥६ ॥ तद्विष्णोः परमं पदं होममन्त्रः प्रकीर्तितः ॥ पौषधं च तथा सूक्तं श्रीमत्सूक्तेन च संयुतम्॥७॥होमः कार्योऽथ राजेन्द्र सविद्ध्या च यतात्मना ॥ एतत्सर्वं च द्विजातीनां स्त्रीशूद्रेषु तथा शृणु ॥ ८ ॥ द्वादशाष्टाक्षरो मन्त्रस्तेषां प्रोक्तो महात्मनाम् ॥ हितौ तौ च द्विजातीनां मन्त्रश्रेष्ठौ नराधिप ॥ ९ ॥ ताभ्यामभ्यधिको मन्त्रो विद्यते नेह कुत्रचित् ॥ वज्र उवाच ॥ द्वादशाष्टाक्षरौ मन्त्रौ कथयस्व ममानघ ॥ १० ॥ पुण्यौ पवित्रौ मङ्गल्यौ सर्वपापप्रणाशनौ ॥ मार्कण्डेय उवाच ॥ ॐ नमो भगवते वासुदेवाय॥ ॐ नमो नारायणाय ॥ ११॥ एतौ मया ते कथितौ पवित्रौ मन्त्रोत्तमौ पापहरौ वरेण्यौ ॥ पारायणौ सर्वतपस्विनां च रहस्यभूतौ भुवनेषु नित्यम् ॥ १२ ॥ यथा तिथिरते श्रवणेन युक्ता माघस्य मासस्य तथा तवोक्ता ॥ कार्या तथैयं नृपते विशेषाद्योगे पवित्रे सरितोऽर्दयस्य ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तिलद्वादशीप्रशंसावर्णनं नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥ १६३ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ मागधेषु तु यद्वृत्तं तच्छृणुष्व नराधिप ॥ १ ॥ बभूव मागधो राजा चण्डवेग इतिश्रुतः ॥ तस्यासीद्रूपसंपन्ना भार्या नयनसुन्दरी ॥ २ ॥ सर्वधर्मान्विरित्यज्य प्रतिसंवत्सरं तु सा ॥ तिलान्होममयेते विप्रैर्जुहोति च तथा स्वयम् ॥ ३॥ श्रवणद्वादशियोगे माघे मासि हुताशने ॥ देवस्य चैव नैवेद्यं करोति तिलमोदकैः ॥ ४ ॥ अर्चनेन च वासोभिः पूजयत्यपि माधवम् ॥ महारत्नैरनेकानि वासांसि विविधानि च ॥ ५ ॥ ब्राह्मणीनां च गेहेषु विसर्जयति तत्परा ॥ महावार्ताप्रदानं च विधत्ते केशवालये ॥ ६ ॥ तां कदाचित्सुवासिनीं ब्राह्मणीं तु वसन्तिका ॥ पप्रच्छ सखिभावेन रहस्यं निर्जने स्थिता ॥ ७॥ वसन्तिकोवाच ॥ सर्वधर्मान्परित्यज्य माघे मासि शुभानने ॥ द्वादश्यां कृष्णपक्षस्य कस्मादर्चयसे हरिम् ॥ ८ ॥ कस्मात्तथा बहुतिलं हावयस्यनले तथा ॥ एतन्मे संशयं छिन्धि रहस्यं चेन्न ते शुभे ॥ ९ ॥ नयनसुन्दर्युवाच ॥ रहस्यमेतत्परमं न रहस्यं तथा त्वयि ॥ त्वं मे सखीश्वरी प्राणसमं मे प्राणधनेश्वरी ॥ १० ॥ अस्ति वैतस्तिको नाम देशः परमधार्मिकः ॥ तत्र ग्रामवरे चासीदसतीर्थे सुशोभना ॥ ११ ॥
वि० ध० १७४
प्र० खं० अ० १७४
चण्डवेगश्च विप्रोऽभूद्रतौ मे पूर्वजन्मनि ॥ नास्तिको निरनुक्रोशोऽहस्तत्कर्मशास्त्रतः सदा ॥ १२॥ तत्रैव विषये राजा बभूव दधिवाहनः ॥ तस्य भार्या वयस्या मे बभूव कमला शुभा ॥ १३ ॥ सा कदाचिन्मामुवाच रहस्यं वरवर्णिनी ॥ नारी भर्तुःकृतादर्धं पुण्यं प्राप्नोति सुन्दरी ॥ १४ ॥ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥ पतिं शुश्रूषते या तु तेन स्वर्गे महीयते ॥ १५ ॥ कर्तव्यं योषिता पुण्यं पृथग्वापि तदिच्छया ॥ पति- स्ते नास्तिको भद्रे किञ्चिन्नाचरते शुभम् ॥ १६ ॥ न चाचरसि धर्मं त्वं तथा च तदनुज्ञया ॥ का गतिः परलोके ते भविष्यति शुभानने ॥ १७ ॥ इह यत्क्रियते कर्म प्रेत्य तत्राप्यनुज्यते ॥ येनोप्तं फलकाले तु स एवान्नाति भामिनि ॥ १८ ॥ मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ॥ नाचरन्ति शुभं ये तु तेषां जन्म निरर्थकम् ॥ १९ ॥ कदाचिदपि वामोरु योनिष्वथ परिभ्रमन् ॥ मानुष्यं नाम जायेत यन्नायत्तं शुभाशुभम् ॥ ॥ २० ॥ चण्डालत्वेऽपि मानुष्यं सर्वथा सवि दुर्लभम् ॥ आत्मा शक्यस्तया त्रातुं मानुष्यान्नान्यतः शुभे ॥ २१ ॥ तवोपरि तथा जाता सखी- भावेन मे कृपा ॥ कद्रूर्यस्यास्य भार्या त्वं सुस्वभावा पतिव्रता ॥ २२ ॥ तत्र तेऽनुग्रहं किञ्चित्करिष्यामि निबोध तत् ॥ हरस्य दयिता भार्या शैलेन्द्रतनया उमा ॥ २३ ॥ विस्तारितमहाकूला सा वितस्ता महा नदी ॥ अवृत्तिकर्पितः पापं कृत्वैव ऋतुपञ्चकम् ॥ २४ ॥ स्नानेनैकेन सकलं शेशिरेण व्यपोहति ॥ यस्यांन्यास्यां तिथौ स्नातः स्वर्गाग्नामोत्यसंशयम् ॥ २५ ॥ तस्यां सम्वत्सरं स्नात्वा मोक्षोपायं तु विन्दति ॥ या च सुम्बा- दुसलिता या च पापक्षयङ्करी ॥ २६ ॥ तस्यास्तीरे मया नित्यं प्रति संवत्सरं शुभे ॥ उपोष्य माघकृष्णस्य द्वादश्यां श्रवणे तथा ॥ २७ ॥ पूजितो भगवान्विष्णुर्ब्राह्मणाश्च हुताशनः ॥ तिलैस्तस्मात्तु ते ख्यातं ब्राह्मणैर्मतदुदं मम ॥ २८ ॥ तस्मात्स्तकं तिले यच्च यदन्नां पतितं न च ॥ ततः पुण्यफलं सर्वं त्वमाप्नुहि वरानने ॥ २९ ॥ इत्येवमुक्त्वा गत्वा भर्ता पृष्टस्तदा मया ॥ हसता तेन चाम्युक्ता गच्छ गह्णीष्व तत्फलम् ॥ ३० ॥ स्वयं कृत्वा शुभं कर्म कमला सा सखी मम ॥ सह भर्त्रा विशालानि विष्णोलोकमितो गता ॥ ३१ ॥ तल्लोकमक्षयं तस्याः श्रुतं वैवश्वतान्मया ॥ तस्मादृष्टफलं भद्रे करोमि तिलद्वादशीम् ॥ ३२ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि सुन्दरी ॥ मार्कण्डेय उवाच ॥ एतच्छ्रुत्वा शुभं वाक्यं ब्राह्मण्यापि वसन्तिका ॥ ३३ ॥ श्रवणाद्वादशीयोगे पूजयामास केशवम् ॥ माघकृष्णे महाभाग तिलैर्नियमतत्द्दुता ॥ ३४ ॥ पूजयित्वापि सा देवं श्वेतद्वीपमितो गता ॥ सापि राज्ञो महाभागा तथा नयनसुन्दरी ॥ ३५ ॥ अमलं स्थानमासाद्य विराज शशिप्रभा ॥ तस्मात्सर्वप्रयत्नेन तदा
॥ १७० ॥
१ 'रूपा' इति ख० । २ 'कटा' इति क० ।
पूज्यो जनार्दनः ॥ ३६ ॥ तिलैर्नित्यं महाभाग होतव्याश्च तथा तिलाः ॥ तिलाश्च देया विप्रेभ्यस्तिस्मन्नहनि पार्थिव ॥ ३७ ॥ एकैकस्मात्तिला द्धार्जितस्तैलबोजोद्भवे यथा ॥ सुकृष्टक्षेत्रजादृष्टं देवे कालप्रवर्षिणि ॥ ३८ ॥ एकैकस्मात्तिलात्तादृक्फलमक्ष्यमश्नुते ॥ स्वलोके विष्णुलोके वा मातृ ब्ये यदि वा नृप ॥ अक्षयं फलमाप्नोति एकैकस्मात्तिलात्तिलात् ॥ ३९ ॥ तस्मात्प्रयत्नेन नरेन्द्रचन्द्र तस्यां समभ्यर्चय वासुदेवम् ॥ उपोषितः प्रीतमना यथावत्राणं स देवः प्रथितो नराणाम् ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे चण्डवेगोपाख्याने तिलद्वाद शीमाहात्म्यवर्णनं नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥ १६४ ॥ ॥ वज्र उवाच ॥ होतव्ये विष्णुदैवत्ये सावित्री मे त्वयोदिता ॥ होमकर्मणि सन्देहो महान्मे भृगुनन्दन ॥ १ ॥ सविता दैवतं तस्याः सावित्रीत्युच्यते ततः ॥ तया कथं तु कर्तव्यं होमकर्म च वैष्णवम् ॥ २ ॥ प्रभावमशेषंश्च तथा तस्यास्त्वं मम कीर्तय ॥ वेदमाता तु सा प्रोक्ता सर्वपापप्रणाशिनी ॥ ३॥ मार्कण्डेय उवाच ॥ रवौमध्ये स्थितः सोमः सोममध्ये हुताशनः ॥ तेजोमध्ये स्थितं सत्त्वमथ्य स्थितोऽच्युतः ॥ ४ ॥ अंगुष्ठमात्रः पुरुषः पूर्वमेव मयेरितः ॥ शङ्करेण तदा दृष्टः प्रभवः सर्वतेजसाम् ॥ ५ ॥ स विष्णुर्भुवनाधारो यस्येदं सकलं जगत् ॥ वरेण्यं तच्च सावितुर्भर्गाख्यं तु योगिनाम् ॥ ६॥ ध्येयं परं तदुद्दिष्टं बहिरन्तश्च यादव ॥ धीशब्दवाच्यं ब्रह्माणं प्रचोदयति यः सदा ॥ ७ ॥ सृष्ट्यथं भगवान्विष्णुः सविता स प्रकीर्तितः ॥ सर्वलोकप्रसवनात्साविता सा तु कीर्त्यते ॥ ८ ॥ यतस्तद्देवदेव त्या सावित्रीत्युच्यते ततः ॥ गानाद्वा त्रायते यस्माद्गायत्री वा तदा स्मृता ॥ ९ ॥ एतस्मात्कारणाद्ब्रह्मन्साम्प्रिकी कीर्तिता मया ॥ तव धर्मभृतां श्रेष्ठ नित्यं वैष्णवकर्मसु ॥ १० ॥ सव्याहृतिकप्रणवां¹ गायत्रीं शिरसा सह ॥ ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ॥ ११ ॥ दशकृत्वः प्रजप्ता सा राज्यहा यत्कृतं लघु ॥ तत्पापं प्रणदुत्याशु नात्र कार्या विचारणा ॥ १२ ॥ शतं जप्ता तु सा देवी पापौघशमना स्मृता ॥ सहस्रजप्ता सा देवी चोपपातकनाशिनी ॥ १३ ॥ लक्षजापेन च तथा महापातकनाशिनी ॥ १३ ॥ कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ॥ १४ ॥ विद्याधरत्वं यक्षत्वं गन्धर्वत्वमथापि वा ॥ देवत्वमथवा राज्यं भूर्लोके हतकण्टकम् ॥ १५ ॥ कोटिसाहस्रजाप्येन निष्कामः पुरुषोत्तम ॥ विधिना राजशार्दूल प्राप्नोति परमं पदम् ॥ १६ ॥ यथा कथञ्चिज्जप्तेषा देवी परमपावनी ॥ सर्वकामप्रदा प्रोक्ता विधिना किम्पुनर्नृप ॥ १७ ॥ ॥ वज्र उवाच ॥ विधिना केन जप्तव्या गायत्री पापनाशिनी ॥ महावित्रा परमा सर्वकल्याणकारिणी ॥ १८ ॥ मार्कण्डेय उवाच ॥ कुश
¹ ‘सव्याहृत्युपप्रणवाम्’ इति ख० ।
शय्यां निविष्टस्तु कुशपाणिर्जितेन्द्रियः ॥ अर्कमध्यगतं ध्यायेत्पुरुषं तं महाद्युतिम् ॥ १९ ॥ अथवाकं महीपाल बहिः स्नातस्त्वतन्द्रितः ॥ अनन्यचित्तो मेधावी पूर्वाद्धे तु विशेषतः ॥ २० ॥ भैक्ष्यवाक्त्वावकाशो पर्णमूलशनोऽथवा ॥ फलपुष्पाशनो वापि नक्तं वापि हविष्य भुक् ॥ २१ ॥ अनेन विधिना जप्यं यः करोति महीपते ॥ स याति परमं स्थानं वायुभूतः खमूर्त्तिमान् ॥ २२ ॥ अकामः कामकामस्तु काममाप्नोत्यभीप्सितम् ॥ सव्याहृतिकप्रणवाः प्राणायामास्तु षोडश ॥ २३ ॥ अपि भ्रूणहणं पासात्पुनन्त्यन्वरहः कृताः ॥ सव्याहृतीकप्रणवां गायत्रीं शिरसा सह ॥ २४ ॥ त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ प्राणायाममयं कायं कल्पयित्वाय वै द्विजः ॥ २५ ॥ अहोरात्रकृतं त्यापात्तक्षणादेव मुच्यते ॥ सर्वेषामेह प्रोक्तं प्राणायामं द्विजन्मनाम् ॥ २६ ॥ ततस्त्वभ्यधिकं नास्ति गजनपरमापवनम् ॥ प्राणस्यायामं मांमं कुशाग्रेच्युतविन्दुना ॥ २७ ॥ यः कुर्यादम्भसां पानं प्राणायामं तु तत्समम् ॥ निरोधाज्जायते वायुस्तस्मादग्निश्चतित्तो जलम् ॥ २८ ॥ त्रिभिः शरीरं सकलं प्राणायामैश्च शुध्यति ॥ आर्केक्षायास्त्राक्षायाच तपस्तप्येत्स उत्तमम् ॥ २९ ॥ आत्मानं शोधयेद्यस्तु पणायामः पुनःपुनः ॥ श्रावण्यां पौर्णमास्यां तु सोपवासो जितेन्द्रियः ॥ ३० ॥ प्राणायामाश्रतं कृत्वा मुच्यते मर्वकिल्विषैः ॥ अन्तर्जले त्रिरावर्त्य गायत्रीं प्रयता जपन् ॥ ३१ ॥ मुच्यते पातकैः सर्वैर्याद न ब्रह्महा भवेत् ॥ नास्ति सत्यात्परो धर्मो नास्ति कृणसमा गतिः ॥ ३२ ॥ गायत्र्याश्च परं नास्ति दिवि चेह च पावनम् ॥ हुता च वरदा देवी सर्वकामफलप्रदा ॥ ३३ ॥ गायत्र्याः सत्तिलेहैामः मर्वपापप्रणाशनः ॥ शान्तिकामो यवैः कुर्या द्युकामो घृतेन च ॥ ३४ ॥ कर्मणां सिद्धिकामस्तु कुर्यात्तिलक्षीरैर्नरैः ॥ ब्रह्मवर्चसकामस्तु पयसा म ममाचरेत् ॥ ३५ ॥ पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥ श्रीवृक्षसमिद्भिश्च ग्रहपीडाप्रशान्तये ॥ ३६ ॥ धनकामस्तथा विल्वैः श्रीकामः कमलैस्तथा ॥ आग्नेयकामः क्षीरार्वैः कुर्याद्दूर्वाङ्कुरैः शुभैः ॥ ३७ ॥ देशोपमृगे मप्राप्ते तदेव च विधीयते ॥ गुग्गुलोर्गुलिकामिश्च कृत्वा हेममतेन्द्रियः ॥ ३८ ॥ मोभागार्यं महद्दोप्रीति नात्र कार्या विचारणा ॥ पायमेन तथा हुत्वा विद्यां समभिगच्छति ॥ यन्तून् तु कामन लभतेमं ममाचरेत् ॥ ३९ ॥ तदेव काममाप्नोति नात्र कार्या विचारणा ॥ कृच्छ्रेण शुद्धिसुतप्याच प्राणायामशतेन च ॥ ४० ॥ अन्तर्जलेन वा जत्वा वातो नित्यमर्तन्द्विनः ॥ प्राणायामास्ततः कृत्वा विधिनेव स षोडश ॥ ४१ ॥ पूर्वान्देऽभ्युदाद्दतौ समिद्भिर्यथाविधि ॥ भैक्ष्यावक्कावकाशाशी फलमूलाशनोऽथवा ॥ ॥ ४२ ॥ क्षीरसक्तुहारी भवेद्वा विचक्षणः ॥ आहरणां यथोक्तानामकाहारं समाश्रयेत् ॥ ४३ ॥ यावत्समाप्तिर्भवति लक्षहेमस्य पार्थिव ॥
लक्षहोमावसाने तु ब्राह्मणानां तु दक्षिणा ॥ ४४ ॥ देया भवति राजेन्द्र गावो वस्त्राणि काञ्चनम् ॥ सर्वोत्पातसमुत्पत्तौ ब्राह्मणैरुपपूजितैः ॥ ४५ ॥ पञ्चभिर्दशभिर्वापि लक्षहोमं समाचरेत् ॥ असङ्कीर्णैस्तथा होतृनृपतिस्तत्प्रशान्तये ॥ ४६ ॥ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥ मङ्गलं परमं नास्ति यत्तस्मादतिरिच्यते ॥ ४७ ॥ कोटिहोमं तु यो राजा कारयेत्पूर्ववद्विजैः ॥ न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ॥ ४८ ॥ न तस्य मरणं देशे न व्याधिर्जायते तथा ॥ अतिवृष्टिस्त्वनावृष्टिर्मूषकाः शलभाः शुकाः ॥ ४९ ॥ राक्षसाश्च प्रशाम्यन्ति सर्वास्तत्र तथेूतयः ॥ रसवान्ति च तोयानि सस्यानि स्वादुवन्ति च ॥ ५० ॥ जायन्ते तस्य देशे तु धार्मिकश्च जनो भवेत् ॥ कोटिहोमे तु वरयेद्ब्राह्मणान्द्विशतीन्नृप ॥ ५१ ॥ शतं वाथ सहस्रं वा य इच्छेद्भूतिमात्मनः ॥ कोटिहोमं स्वयं यस्तु कुर्याद्ब्राह्मणसत्तमः ॥ ५२ ॥ क्षत्रियो वाथवा वैश्यस्तस्य पुण्यफलं महत् ॥ यद्यदिच्छति कामानां तत्तदाप्नोत्यसंशयम् ॥ ५३ ॥ सशरीरोऽपि चेद्गन्तुं दिवमिच्छेद्वपुष्मान् ॥ सावित्री परमा देवी सावित्री पावनी परा ॥ ५४ ॥ सर्वकामप्रदा देवी सावित्री कथिता तथा ॥ अभिचारेषु तां देवीं विपरीतां प्रयोजयेत् ॥५५॥ कार्या व्याहृतयश्चात्र विपरीताक्षरास्तथा ॥ विपरीताक्षरं कार्यं शिरश्च मनुजेश्वर ॥ ५६ ॥ आदौ शिरः प्रयोक्तव्यं प्रणवान्ते च याद्द्व ॥ स्वाहास्थाने च फट्कारं साध्यनामसमन्वितम् ॥ ५७ ॥ गायत्रीं चिन्तयेत्तत्र दीप्तानलसमप्रभाम् ॥ घातयन्तीं च शूलेन केशष्वाकृष्य वैरिणम् ॥ ५८ ॥ निर्दहन्तीं च तं क्रोधाद्भ्रुकुटीभीषणाननाम् ॥ उच्चाटने च तां देवीं वायुभूतां विचिन्तयेत् ॥ ५९ ॥ वहमानां तथा साध्यं तस्माद्देशात्सुदूरतः ॥ अभिचारे च होतव्या राजिका विषमिश्रिताः ॥६० ॥ स्वरक्तमिश्रं होतव्यं कटुतैलमथापिवा ॥ तत्रापि च विषं देयं हेमकाले च यत्नतः॥६१॥ मध्ये जह्लादि क्रोघं ध्रुवं नश्येत्स एव तु ॥ अनागसि न कर्तव्यमभिचारमतो बुधैः ॥ अल्पामसि न कर्तव्यमभिचारं तथैव तु ॥ ६२ ॥ महापराधं बलिनं देवब्राह्मणकण्टकम् ॥ अभिचारेण यो हन्यान्न स दोषेण लिप्यते ॥ ६३ ॥ धर्मप्रधाने तु नरे अल्पागसि तथैव च ॥ अभिचारं न कुर्वीत बहुपायं विचक्षणः ॥ ६४ ॥ बहूनां कण्टकं यं तु पापात्मानं सुदुर्मतिम् ॥ हन्यात्खातापराधं तु तस्य पुण्यफलं लभेत ॥ ६५ ॥ ये भक्ताः पुण्डरीकाक्षं देवदेवं जनार्दनम् ॥ न तानभिचरेज्जातु तत्र तद्विफलं भवेत् ॥ ६६ ॥ न हि केशवभक्तानामभिचारेण कर्हिचित् ॥ विनाशमभिपेत् तस्मात्तत्र समाचरेत् ॥ ६७ ॥ सेयं धात्री विधात्री च सावित्र्यघविनाशिनी ॥ प्राणायामेन जपेन तथैवान्त र्जलेन च ॥ ६८ ॥ सव्याहृतिकप्रणवा जप्तव्या शिरसा सह ॥ प्रणवेन तथाऽभ्यस्ता वाच्या व्याहृतयः पृथक् ॥ ६९ ॥ दैवतं सविता त्वस्या
१९
वि० ध० प्र० खं० अ० १६६ ॥१०१॥
गायत्रं छन्द एव च ॥ विश्वामित्र ऋषिश्चैव प्रोच्यते वसुधाधिप ॥ ७० ॥ कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्द्रियाणि च ॥ पञ्चेन्द्रियार्थान्सं-
हर्ता भूतानां चैव पञ्चकम् ॥ ७१ ॥ मनो बुद्धिश्चतैवात्मा अव्यक्तं च यदुक्तम् ॥ चतुर्विंशत्यथैतानि गायत्र्या अक्षराणि तु ॥ ७२ ॥
प्रणवे पुरुषं विद्धि सर्वगं पञ्चविंशकम् ॥ सप्तलोकानि यानीह महाव्याहृतयस्तथा ॥ ७३ ॥ शिरस्तथा तथा वाच्यः पुरुषः परमेश्वरः ॥
एवंविधा सा सावित्री जप्तव्या सततं बुधैः ॥ ७४ ॥ होतव्या च तथा शक्त्या सर्वकामसमृद्धिदा ॥ गायत्रीमाश्रयाणो वरं
विप्रः प्रयत्नतः ॥ ७५ ॥ नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ गायत्रीं जपेद् यस्तु कल्यमुत्थाय वै द्विजः ॥ ७६ ॥
लिप्यते न स पापेभ्यः पद्मपत्रमिवाम्भसा ॥ कामकामो लभेत्कामं गतिकामस्तु सङ्गतिम् ॥ अकामस्तदवाप्नोति यद्विष्णोः परमं पदम् ॥ ७७ ॥
एवं प्रभावा वरदा पवित्रा गायत्र्यथोक्ता तव राजसिंह ॥ जपन्ति ये तां परमं प्रयान्ति स्थानं परस्याऽप्रतिमस्य पुंसः ॥ ७८ ॥ इति श्रीविष्णु-
धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गायत्रीमाहात्म्यवर्णनं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ १६६ ॥ छ ॥ ॥ वज्र उवाच ॥
महावर्तिप्रदानस्य यत्फलं भृगुनन्दन ॥ तन्ममाचक्ष्व तत्त्वेन विधिं कालं तथैव च ॥ १ ॥ मार्कण्डेय उवाच ॥ महावर्तिः सदा देया भूमिपाल
महाफला ॥ कृष्णपक्षे विशेषेण तथापि च विशेषतः ॥ २ ॥ अमावास्या च निर्दिष्टा द्वादशी च महाफला ॥ आश्वयुज्यामतीतायां कृष्णपक्षस्य
या भवेत् ॥ ३ ॥ अमावास्या तदा पुण्या तादृशी वा विशेषतः ॥ देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप ॥ ४ ॥ पलाकवृतां रक्तवर्तिं
तत्र तु दापयेत् ॥ महारजनरक्तेन समयेन तु वाससा ॥ ५ ॥ वामपार्श्वे च देवस्य देया घृततुला नृप ॥ पलाकयुक्तां शुक्लां वर्तिं तत्र तु
दापयेत् ॥ ६ ॥ वाससा तु समयेन सोपवासो जितेन्द्रियः ॥ महावर्तिद्वयमिदं सन्दत्त्वा महीपते ॥ ७ ॥ स्वलोके सुचिरं भुक्त्वा जायते भूतले
यदा ॥ तदा भवति लक्ष्मीवान्रूपसौभाग्यमाश्रितः ॥ ८ ॥ रात्रौ च जायते यस्मिन्देशे न नृपऽशुभम् ॥ कुले च गजशार्दूल तन्न स्याद्दीपाव-
त्यया ॥ ९ ॥ अत्युच्चलक्ष्यो भवति युद्धेषु कलहेषु न ॥ ख्यातिं याति तथा लोके सञ्जातानां च मूर्द्धनः ॥ १० ॥ एकाप्यथ यो दद्याद्
भीष्मपञ्चमयोर्द्वयोः ॥ मातृभ्ये सर्वमाप्नोति तदुक्तं ते मयाऽनघ ॥ ११ ॥ स्वर्गे तथाऽमवाप्नोति भागं कालं च याइव ॥ सामान्यस्य तु दीपस्य
राजन्दानं महत्फलम् ॥ १२ ॥ किं पुनर्महतो यस्य फलस्यान्तो न विद्यते ॥ दीपदानं परं पुण्यमन्यद्देवेष्वपि ध्रुवम् ॥ १३ ॥ किं पुनर्देव
१ 'दानम्' इति क० ख० ।
॥१०१॥
देवस्य त्वनन्तस्य महात्मनः ॥ गिरिश्शृङ्गेषु दातव्या नदीनां पुलिनेषु च ॥ १४ ॥ चतुष्पथेषु रथ्यासु ब्राह्मणानां गृहेषु च ॥ वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ १५ ॥ दीपदानेन सर्वत्र महत्फलमवाप्नुते ॥ यावन्त्यक्षिनिमेषाणि दीपः प्रज्वालितो नृप ॥ १६ ॥ तावन्त्येव स राजेन्द्र वर्षाणि दिवि मोदते ॥ दीपदानेन राजेन्द्र चक्षुष्मानिह जायते ॥ १७ ॥ रूपसौभाग्ययुक्तश्च धनवान्व्यसमान्वितः ॥ दीपमालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ॥ १८ ॥ भवन्ति ते चन्द्रसमाः स्वर्गमासाद्य मानवाः ॥ दीपागारं नरः कृत्वा कूटगारनिभं शुभम् ॥ १९ ॥ केशवालयमासाद्य नाके भाति स शक्रवत् ॥ यथोज्ज्वलः सदा दीपो दीपदातापि यादृव ॥ २० ॥ तथा नित्योज्ज्वलो लोके नाकभ्रष्टोऽभि जायते ॥ समीपे तु यथा लोके चक्षूंषि फलवन्ति हि ॥ २१ ॥ तथा दीपस्य दातारो भवन्ति सफलेक्षणाः ॥ यथैवोर्ध्वगतिर्नित्यं राजन्दीपे शिखा शुभा ॥ २२ ॥ दीपदातुस्तथैवोर्ध्वगतिर्भवति शोभना ॥ तस्मात्सर्वप्रयत्नेन दीपा देया नरेश्वर ॥ २३ ॥ आश्वयुज्यामतीतायां यावद्राजेन्द्र कार्तिकी ॥ तावद्दीपप्रदस्योक्तं फलं राजन्विशेषतः ॥ २४॥ तावत्कालं प्रयच्छन्ति ये तु दीपं सदा निशि ॥ तुंगे देशे महत्तेषां बहिः पुण्यफलं भवेत् ॥ ॥२५॥ पश्यान्धकारे गहने प्रकाशं तेन जायते ॥ प्रकाशे च यदुशार्दूल तेन यान्ति हि तत्सुखम् ॥२६॥ श्रवणे दीपकं दत्त्वा नदीद्वितयसंगमे ॥ तेजस्वी च यशस्वी च रूपवानभिजायते ॥ २७ ॥ दीपा नदीषु दातव्याः कार्त्तिक्यां च विशेषतः ॥ आश्वयुक्कृष्णपक्षस्य या तु पञ्चदशी भवेत् ॥ २८ ॥ बिल्वद्वारेषु दातव्यास्तथा दीपा यथाविधि ॥ अन्यत्रापि तदा दीपैर्महत्पुण्यफलं लभेत् ॥ २९ ॥ श्रवणद्वादशीयोगे कृष्णपक्षे तथैव च ॥ घृतेन दीपा दातव्यास्तिलैर्वा यदुनन्दन ॥ ३० ॥ वसामज्जादिभिर्देया न तु दीपाः कथञ्चन ॥ दत्त्वा दीपं न कर्तव्यं तेन कर्म विजानता ॥ ३१ ॥ निर्वापणं च दीपस्य हिंसनं च विगर्हितम् ॥ यः कुर्यात्तेन कर्माणि स्यादसौ दृष्टिपेतक्षणः ॥ ३२ ॥ दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ॥ दीपदानात्परं दानं न भूतं न भविष्यति ॥ ३३ ॥ दीपदानं तु कर्तव्यं विप्रवेश्मसु पण्डितैः ॥ द्विजवेश्मनि यो दद्यात्कार्तिके मासि दीपकम् ॥ ३४ ॥ अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥ प्राणिजां नीलरक्तां च दीपे वर्तिं विवर्जयेत् ॥ ३५ ॥ विशेषेण प्रदातव्या पद्मसूत्रभवा नृप ॥ पद्मसूत्रोद्भवां वर्तिं गन्धतैलेन दीपके ॥ ३६ ॥ वियोगः सुभगैश्चैव दत्त्वा भवति मानवः ॥ १दातव्यं देवदेवस्य कर्पूरेण च दीपकम् ॥ अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३७ ॥ एतन्मयोक्तं तव दीपदाने फलं समग्रं यदुवंशचन्द्र ॥
१ 'द्रष्टव्यम्' इति क० 'स्पृष्टव्यम्' इति ख० ।
श्रुत्वा यथावत्सततं तु देया दीपास्त्वनघ्रा विप्रसुरालयेषु ॥ ३८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दीपदानप्रशंसानाम षष्ट्यधिकशततमोऽध्यायः ॥ १६६ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ दीपदानाल्ललितिका यदवाप पुरा नृप ॥ १ ॥ आसीच्चित्ररथो नाम विदर्भेषु महीपतिः ॥ तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ॥ २ ॥ एकैव कन्या तस्यासील्ललिता नाम नामतः ॥ सर्वलक्षणसम्पूर्णा रूपेणाप्रतिमा भुवि ॥ ३ ॥ तां ददौ काशिराजाय स पिता चारुभाषिणी ॥ शतानि तस्य भार्याणां त्रीण्यासंश्च धर्मिणः ॥ ४ ॥ तासां मध्येऽभवन्महिषी ललितास्य तदाऽभवत् ॥ विष्णोरायतने तस्याः सहस्रं राजसत्तम ॥ ५ ॥ प्रदीपानां प्रज्वलति दिवारात्रमरिन्दम ॥ तामिश्रमाश्वयुक्कृष्णं शुक्लपक्षं च कार्तिकात् ॥ ६ ॥ तस्याः प्रज्वलितं दीपकुञ्जस्थानकृतं तथा ॥ तस्मिन्काले तथा नित्यं ब्राह्मणावसथेषु सा ॥७॥ नित्यं भवति सायाह्ने दीपप्रद्योततत्परा ॥ चतुष्पथेषु रथ्यासु देवतायतनेषु च ॥ ८ ॥ चैत्यवृक्षेषु गोष्ठेषु पर्वतानां च मूर्धसु ॥ पुलिनेषु नदीनां च कूपमूलेषु यादव ॥ ९ ॥ तस्मिन्भवति साकाले दीपदानपरायणा ॥ तां सपत्न्योऽथ संद्रक्ष्य पप्रच्छुरिदमार्हताः ॥ १०॥ सपत्न्य ऊचुः ॥ सर्वान्धर्मान्परित्यज्य ललिते त्वं सदैव तु ॥ विष्णोरायतने सुभ्रूदीपदानपरायणा ॥ ११ ॥ तदेतत्कथयस्वास्माकं ललिते कौतुकं परम् ॥ मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम् ॥ १२ ॥ ललितोक्तवाच ॥ नाहं मत्सरिणी भद्रा न च रागाद्दिदापिता ॥ एकपत्न्याश्रया याता भवत्यो मम मानदाः ॥ १३ ॥ अपृष्टधर्मग्रणाः शृण्वन्तु गदितं मम ॥ मयैतद्दीपदानस्य यथा वै भुज्यते फलम् ॥ १४ ॥ हरस्य दयिता भार्या शैलराजसुता वरा ॥ उमादेवेति मद्रेषु देविका या सरिद्वरा ॥ १५ ॥ नराणामनुकम्पार्थं ब्राह्मणैर्वतारिता ॥ तयोरुभयोस्तस्याः क्षेत्रं क्रोशचतुष्टयम् ॥ १६ ॥ तस्मिंस्तीर्थे तु पानीयं सर्वतीर्थप्रकल्पितम् ॥ तस्मिंस्तीर्थे मृता मर्त्याः प्राप्नुवन्ति शुभां गतिम् ॥ १७॥ अत्रामिलापिता दृष्टा देविका पापनाशिनी ॥ तन्त्यां स्नात्वा मुकुन्मर्त्यो गाणपत्यमवाप्युयाता ॥१८॥ तस्यास्तीर्थं तुसिंहारव्यं सर्वकल्मषनाशनम्॥ तुसिंहवपुषा स्नाने कृतं यत्र पुरा शुभा॥१९॥ सौवीर्वागराजस्य पुरा मन्त्र्याऽभूत्पुंगोहितः॥ तस्मिंस्तीर्थे तदा तेन विष्णोरायतनं कृतम् ॥ २० ॥ अहन्त्यहनि शुश्रापं पुष्पधूपादिलेंपनैः ॥ दीपदानादिभिर्भक्त्या चक्रे तत्र सु दै द्विजः ॥ २१ ॥ कार्तिके दीपकास्तत्र प्रदास्तंतेन चैकदा ॥ आसन्ननिर्वाणमुषिश्रो देवाच्चोग्रन्तो निशि ॥ २२ ॥ दूतायतने चासं तथाहमपि मूषिका ॥ प्रदीपं वर्तिहरणे कृत्बुद्धिर्रवरानना ॥ २३॥ गृहीता च मया वर्तिर्वृद्धेशो रुराव च ॥ नदा चाहं तदा तस्य मार्जारस्य भयात्तदा ॥ २४ ॥ वर्तिप्रान्तन्त
नश्यन्त्या दीपकः प्रेरितो मया ॥ प्रजज्वाल पूर्व्वदृष्ट्योत्या तस्मिन्नायतने पुनः ॥ २५ ॥ मृता चाहं तदा जाता विदर्भराजकन्यका ॥ जातिस्मरा
महीपस्य महिषी चारुधर्म्मिणः ॥ २६ ॥ एष प्रभावो दीपस्य कार्तिके मासि शोभनाः ॥ दत्तस्यायतने विष्णोर्य्यदयं व्युष्टिरुत्तमा ॥ २७ ॥
यदि वो नास्ति मात्सर्यं दीपो देयः सदा शुभाः ॥ असङ्कल्पितमप्येतत्प्रेरणं यत्कृतं मया ॥ २८ ॥ केशवस्यालयंदीपस्य तस्येदं भुज्यते फलम् ॥
एतस्मात्कारणाद्दीपानहमेतानहर्निशम् ॥ २९ ॥ प्रयच्छामि हरेश्चाग्नि ज्ञात्वाऽस्य च हि यत्फलम् ॥ मार्कण्डेय उवाच ॥ एवमुक्ताः सपत्न्यस्ता दीप-
दानपरायणाः ॥ ३० ॥ बभूवुर्देवदेवस्य केशवस्य सदा गृहे ॥ ततः कालेन महता तेन राज्ञा महात्मना ॥ विष्णुलोकमनुप्राप्ताः पश्चत्वं प्राप्य
मानद ॥ ३१ ॥ तं लोकमासाद्य नृपेण सार्धं सा राजपुत्री कमलाभरूपा ॥ रेमे महीपाल मुदा समेता दीपप्रदानाच्चवनादिसुक्ता ॥ ३२ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे दीपमाहात्म्ये ललितिकोपाख्यानं नाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥ १६७ ॥
वज्र उवाच ॥ उपवासानसमर्थानां हीनानां द्रविणेन च ॥ कर्म्मणा केन धर्मज्ञ तोषमायाति शङ्करः ॥ १ ॥ मार्कण्डेय उवाच ॥ सन्ति पुष्पाण्यारण्येषु
मूलानि च फलानि च ॥ स्वयंग्राह्याणि राजेन्द्र यैस्तुष्यति जनार्दनः ॥ २ ॥ चन्द्रः सामान्यदीपोऽयं विभवैः किमप्रयोजनम् ॥ यथालब्धेन
राजेन्द्र यैस्तुष्यति जनार्दनः ॥ ३ ॥ फलमूलाशनोऽरण्ये कुसुमैर्मधुसूदनम् ॥ सम्पूज्य सततं कामानभीष्टानधिगच्छति ॥ ४ ॥ अकामस्तदवाप्नोति
यद्विष्णोः परमं पदम् ॥ अरण्येषु नरः कृत्वा देवदेवस्य चार्चनम् ॥ ५ ॥ अतीवसुमहेन्द्रेणजलेन स शतं नृणाम् ॥ भविष्याणां शतं चैव नराणां
यदुनन्दन ॥ ६ ॥ नगरेऽपि वसन्त्यस्तु भैक्ष्याशी संशितव्रतः ॥ अरण्यादाहृतैः पुष्पैर्मूलपत्रफलाङ्कुरैः ॥ ७ ॥ यथोपपन्नैः सततमर्चयति केशवम्^१ ॥
सर्वकामप्रदो देवस्तस्य स्यान्मधुसूदनः ॥ ८ ॥ तस्याप्याकाम^२कामस्य परं स्थानं प्रकीर्त्तितम् ॥ यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ ९ ॥
स्वयमाहृत्य पुष्पादैर्भैक्ष्याशी केशवार्चनम् ॥ कृतं येन स राजेन्द्र [^३ वंशाननुद्धरेत् शतम् ॥ १० ॥ वंशानतीतानपश्चात्तावतश्चाप्यागतानथान् ॥
उद्धरेदात्मनो राजन्नात्र कार्या विचारणा ॥ ११ ॥ (गृहस्थोऽपि नरो राजन्यन्मार्गगतधनगमः ॥ अरण्यादाहृतैः पुष्पैर्यः कुर्यात्केशवार्चनम् ॥ १२ ॥
एतदेव समाप्नोति नात्र कार्या विचारणा ॥ १४ ॥ धर्मार्जितधनः क्रीत्वा यः कुर्व्वन्केशवार्चनम् ॥ १३ ॥ ) स्वयमुत्तैश्च कुसुमैर्यः कुर्यात्केशवार्चनम् ॥
उद्धरिष्यत्यसन्देंहं सप्तपूर्वापरानरान् ॥ १४ ॥ यथाकथंचिदाहृत्य कथञ्चित्पूजयेद्धरिम् ॥ नाकपृष्ठमवाप्नोति न मेऽत्रास्ति विचारणा ॥ १५ ॥
^१ 'केशवः' इति ख० । ^२ 'तस्यापि काम' इति ख० । ^३ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।