विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० ॥ १२३॥
प्र० खं० अ० १९६
दृशीं रक्षां स चकार द्विजोत्तमः ॥ यथा निर्धूतवीर्योऽसौ निस्तरो रजनीचरः ॥ १ ॥ मार्कण्डेय उवाच ॥ एकाग्रचित्तो गोविन्दे तज्जपँस्त-
त्परायणः ॥ सर्वदोषोपशमनं प्रविष्टो विष्णुपञ्जरम् ॥ २ ॥ वज्र उवाच ॥ विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर ॥ सदा सर्वभयेभ्यस्तु रक्षा
यां परमा भवेत् ॥ ३ ॥ मार्कण्डेय उवाच ॥ त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् ॥ शङ्करस्य यदुक्तंञ्च रक्षणाय निशामितम् ॥ ४ ॥ वागीशेन
तु शक्रस्य बलं हन्तुं प्रयास्यतः ॥ तस्य स्वरूपं वक्ष्यामि तन्निबोध महीपते ॥ ५ ॥ विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ॥
प्रतीच्यां शार्ङ्गधृग्विष्णुः खड्गी ममोत्तरे ॥ ६ ॥ हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ॥ क्रोडरूपी हरिश्चैव हन्तुं प्रेतनिशा-
चरान् ॥ ७ ॥ गदा चेयं सहस्रांशुरुद्ध्यता पावकोल्वणा ॥ रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥ ८ ॥ शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य
मद्विषून् ॥ तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः ॥ ९ ॥ खड्गधारामलज्योत्स्ना निर्धूता ये समाहिताः ॥ ते यान्तु सौम्यतां सद्यो
गरुडेनेव पन्नगाः ॥ १० ॥ (ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः ॥ प्रेता विनायकाः क्रूरा मनुष्या जम्बुकाः खगाः ॥
॥ ११ ॥ सिंहाद्यो ये पशवो दन्दशूकाश्च पन्नगाः ॥) सर्वे भवन्तु ते सौम्याः कृष्णशार्ङ्गानिवाहताः ॥ १२ ॥ चित्तवृत्तिहरा ये मे
ये जनाः स्मृतिहारकाः ॥ बलौजसां च हर्तारश्छायाविध्वंशकाश्च ये ॥ १३ ॥ ये चोपभोगहर्तारो ये च लक्षणनाशकाः ॥
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्रक्षताहताः ॥ १४ ॥ बुद्धेस्स्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमिन्द्रियकं तथा ॥ ममास्तु देवदेवस्य वासुदेवस्य
कीर्तनात् ॥ १५ ॥ पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ॥ समीड्यमीशानमनन्तशक्तिमेकं जनार्दनं प्रणिपतितो न सीदति
॥ १६ ॥ यथा पन्नगहस्तस्य हस्तस्था परं जगत्स्वरूपं न स एव केशवः ॥ सत्येन तेनाच्युतनामकीर्तनात्प्रणामतश्च त्रिविधं ममाशुभम् ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विष्णुपञ्जरस्तोत्रवर्णनं नाम पञ्चनवनवत्यधिकशततमोऽध्यायः ॥ १९६ ॥ वज्र उवाच ॥
आत्मरक्षा त्वयोक्ता मे सर्वबाधाविनाशिनी ॥ कृपान्वितः कथं कार्या पररक्षा भृगूत्तम ॥ १ ॥ एतन्मे संशयं छिन्धि त्वं हि ज्ञानमयो निधिः ॥
वैष्णवानि रहस्यानि सर्वाणि विदितानि ते ॥ २ ॥ मार्कण्डेय उवाच ॥ स्तोत्राणान्तेन धर्मज्ञ कुशाग्रैर्यन्त्रमुत्तमम् ॥ उपस्पृश्य शुचिः कुर्याद्रक्षां
पार्थिवसत्तम ॥ ३ ॥ सोपवासेन सम्पूज्य देवदेवं जनार्दनम् ॥ अमोघैषा भवेद्रक्षा कृता नास्त्यत्र संशयः ॥ ४ ॥ यथा कश्चित्कृतैर्वनं नरो मोच्यते ॥ १२४ ॥
१ कोष्ठान्तर्गतपाठः कपुस्तके नोपलभ्यते ।
रुजः ॥ आधिव्याधिगृहीतानां रक्षेषा भेषजं परम् ॥ ६ ॥ ॐ नमः परमार्थाय पुरुषाय महात्मने ॥ ६ ॥ अरूपबहुरूपाय व्यापिने परमात्मने ॥
निष्कल्मषाय शुद्धाय ध्यातापपहरहृाय च॥७॥ नमस्कृत्य प्रवक्ष्यामि यत्तत्तिष्ठतु मे वचः ॥ वाराहनारसिंहाय वामनाय महात्मने ॥ ८ ॥ वक्ष्यामि
त्वां नमस्कृत्य यत्तत्तिष्ठतु मे वचः ॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ॥९॥ वक्ष्यामि त्वां नमस्कृत्य यत्तत्तिष्ठतु मे वचः ॥ १० ॥
वराह नरसिंहेण वामनेश त्रिविक्रम ॥ ११ ॥ हयग्रीवेश सर्वेश हृषीकेश हराऽशुभम् ॥ अपराजित चक्राद्यैश्चतुर्भिः परमाणुभिः ॥ १२ ॥
अखण्डितानुभावैस्त्वं सर्वदुःखहरो भव ॥ हराऽसुकस्य दुरितं दुष्कृतं दुरूपोषितम् ॥ १३ ॥ मृत्युवन्धार्त्तिभयं दुरिष्टस्य च यत्फलम् ॥
परापध्यानसहितं प्रयुक्तं चाभिचारिकम् ॥ १४॥ गरस्पर्शमहाघोरप्रयोगं जरयाजर ॥ ॐ नमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे ॥ १५ ॥ नमः
पुष्करनेत्राय केशवायादिचक्रिणे ॥ नमः कमलकिञ्जल्कपीतनिर्मलवाससे ॥ १६ ॥ महाहवेविपुष्करच्छत्रपृष्ठचक्राय चक्रिणे ॥ दंष्ट्रोद्धृतासितसितेन
त्रयीमूर्तिमते नमः ॥ १७ ॥ महायज्ञवराहाय शेषभोगेशशायिने ॥ तप्तहाटककेशाय ज्वलत्पावकलोचन ॥ १८ ॥ वज्राधिकनखस्पर्श
दिव्यसिंह नमोऽस्तु ते ॥ काश्यपायातिह्रस्वाय ऋग्यजुःसामरूपिणे ॥ १९ ॥ तुभ्यं वामनरूपाय क्रमते गां नमोन्मः ॥ वराहाऽशेषदुष्टानि
सर्वपापफलानि वै ॥ २० ॥ मर्दमर्द महादंष्ट्र मर्दमर्द च यत्फलम् ॥ नारसिंह करालस्य दन्तप्रान्तानलोज्ज्वल ॥ २१ ॥ भञ्जभञ्ज निनादेन
दुष्टान्वक्तांर्तिनाशन ॥ ऋग्यजुःसामगर्भोभिर्वाग्भिर्वामनरूपधृक् ॥ २२ ॥ प्रशमं सर्वदुःखानि नयैतस्य जनार्दन ॥ एकाहिकं व्याह्निकं च
तथा त्रिदिवसज्वरम् ॥ २३ ॥ चातुर्थिकं तथायुग्रं तथैव सततज्वरम् ॥ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ॥ २४ ॥ शमं नयतु
गोविन्दश्छिन्त्वाच्छित्त्वाऽस्य वेदनाम् ॥ नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् ॥ २५ ॥ अनुच्छासमतिश्वासं परितापं च वेपथुम् ॥
गुदघ्राणादिरोगांश्च कुष्ठरोगं तथा क्षयम् ॥ २६ ॥ कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥ भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम् ॥ २७॥
अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ॥ २८ ॥ कफोद्भवाश्च ये केचिद्ये चचित्सन्निपातिकाः ॥
आगन्तवश्च ये रोगा लूताविस्फोटकादयः ॥ २९॥ ते सर्वे प्रशमं यान्तु वासुदेवप्रमार्जिताः ॥ विलयं यान्तु ते सर्व विष्णुोच्चारणेन चा॥३०॥
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः॥ अच्युतानन्तगोविन्दनामोच्चारणभेषजात ॥ ३१ ॥ नश्यन्ति सकला रोगाः सत्यंसत्यं वदाम्यहम् ॥
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ३२ ॥ दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥ लूतादिप्रभवं यच्च विषमन्त्यन्तुः खदम् ॥ ३३ ॥
वि० ध०
प्र० खं०
अ० १९६
॥१२२॥
शमं नयतु तत्सर्वं कीर्तितो हि जनार्दनः । ग्रहान्प्रेत्यग्रहांश्चैव तथा चैवार्कयक्षहान् ॥ ३४ ॥ मुखमण्डलिकान्क्रूरान्वेत्रीं बुद्धेरवर्तिम् ॥ वृद्धिं
$^१$कान्व्याधिक्षेत्रांश्चांस्तथा मातृग्रहानपि ॥ ३५ ॥ बालस्य विष्णोरार्तिं हन्तु बाल्यह्रतिनामान्बालवृद्धानां ये ग्रहाः केचिच्च व बालग्रहाः क्वचित् ॥ ३६ ॥
नरसिंहस्य दृष्ट्वा ते दग्धा ये चापि यौवते ॥ सटाकरालवदनो नरसिंहो महारवः ॥ ३७ ॥ महानशेषाञ्निश्शेषान्करोतु जगतो हितः ॥
नरसिंह महासिंह जिह्वाज्वालोल्लज्वलानन ॥ ३८ ॥ ग्रहानशेषाञ्निश्शेषं बाडबडामिलोचन ॥ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ॥ ३९ ॥
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ शमस्तेषु ये दोषा ज्वालागर्भाग्रिकादयः ॥ ४० ॥ तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन ॥
कञ्चिद्रूपं समास्थाय वासुदेवाशु नाशय ॥ ४१ ॥ क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् ॥ सर्वदुष्टोपशमनं कुरु देववराऽच्युत ॥ ४२ ॥
सुदर्शन महाज्वाल $^२$च्छिन्धिच्छिन्धि च मारय ॥ सर्वाणि दुष्टरक्षांसि क्षपयाऽऽशुतिविभीषण ॥ ४३ ॥ प्राच्यां प्रतीच्यां दिशि दक्षिणे
ततस्तथा ॥ रक्षां करोतु सर्वेश्मावरसिंहः स्वगाजितैः ॥ ४४ ॥ भुव्यन्तरिक्षे च दिवि पाश्वतः पृष्ठतोऽग्रतः ॥ रक्षां करोतु भगवान्बहुरूपी
जनार्दनः ॥ ४५ ॥ यस्माद्विष्णुर्जगत्सत्यं सहैवासुरमानुषम् ॥ तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै ॥ ४६ ॥ यथा विष्णुस्मृतौ सद्यः संक्षयं
याति पातकम् ॥ सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥ ४७ ॥ परमात्मा यथा विष्णुर्वेदान्तेष्वभिगीयते ॥ तेन सत्येन सकलं यन्मयोक्तं
तथाऽस्तु तत् ॥ ४८ ॥ शान्तिरस्तु शिवं चास्तु प्रणश्यन्त्वसुखं च यत् ॥ वासुदेवशरीरोत्थैः कुशैः संमार्जितो मया ॥ ४९ ॥ अपामार्जिता
गोविन्दो नरो नारायणस्तथा ॥ तथास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ॥ ५० ॥ शान्ताः समग्रा रोगास्ते ग्रहाः सर्वे विषाणि च ॥ भूतानि च
प्रशान्तानि संस्मृते मधुसूदने ॥ ५१ ॥ एतत्स मस्तरोगाणां सर्वोपद्रवेषु च ॥ अपामार्जनकं शस्त्रं विष्णुनामाभिमन्त्रितम् ॥ ५२ ॥ शान्तिरस्तु
शिवं चास्तु दुष्टमस्य प्रशाम्यतु ॥ यदस्य दुरितं किंचित्तत्क्षान्तं लवणाम्भसि ॥ ५३ ॥ स्वास्थ्यमस्य सदैवास्तु ह्यपकिल्मषकीर्तनात् ॥ यत
एवाऽऽगतं पापं तत्रैव प्रतिगच्छतु ॥ ५४ ॥ एतद्रोगादिपीडासु जन्तूनां हितमिच्छता ॥ विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् ॥ ५५ ॥
अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयम् ॥ सर्वभूतहितार्थाय कुर्यात्तस्मात्सदेव $^३$हि ॥ ५६ ॥ नाद्यन्तवन्तः कवयः पुराणास्सूक्ष्मा बृहन्तो
ह्यनुशासितारः ॥ सर्वज्वरान्घ्नन्तु तवानिरुद्धप्रद्युम्न संकर्षणवासुदेवाः ॥ ५७ ॥ एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमत्र चागतः ॥ ॥१२२॥
$^१$ 'वृश्चिकाख्यान्' इ क० ।
$^२$ति 'मध्यग्रहदानवि' इति ख० ।
$^३$ 'कुर्याच्छान्तिममां शुभाग्' इति ख० ।
हृते मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सत्वबाधाप्रशमनं नाम षण्णवत्यधिकशततमोऽध्यायः ॥ १९६॥ वज्र उवाच ॥ जगत्सृष्टिप्रसंगेन चोर्वीसंम्भवस्त्वया ॥ कथितस्तु महाभाग तत्प्रसङ्गेन चापराः॥ १॥ कथिताश्च कथा ब्रह्मन्विर्मुक्ता मनोहराः ॥ विष्णुमाहात्म्यसंयुक्ताः सर्वपापभयापहाः ॥२॥ कश्यपस्य तु या पत्नी खशानाम्नी त्वयोदिता ॥ यस्याः पुत्रौ महात्मानौ कथितौ यक्षराक्षसौ ॥ ३ ॥ तयोरुत्पत्तिमिच्छामि श्रोतुं वंशं तथैव च ॥ प्रस्तुता जगदुत्पत्तिं निखिलेन प्रकीर्तय ॥४॥ मार्कण्डेय उवाच ॥ राक्षसं पूर्वसन्ध्यायां जनयामास सा खशा ॥ दंष्ट्राकरालवदनं पिङ्गलोद्वेक्षलोचनम् ॥ ५ ॥ आकर्णदारितास्यं च स्थूलनासायसुलवणम् ॥ विकचं विकटाटोपं शङ्कुकर्णं विभीषणम् ॥ ६॥ तथैवापरसन्ध्यायां सैव यक्षं व्यजायत ॥ तादृशेनैव रूपेण यादृशेनैव राक्षसम् ॥ ७ ॥ क्षिणोमि मातरं यक्षः क्षुधितस्तामभाषत ॥ रक्षेति मातरं तां तु यक्षं वै रक्षसोऽब्रवीत् ॥ ८ ॥ रक्षणाद्राक्षसः प्रोक्तः क्षणाद्यक्षः स उच्यते ॥ भार्या बभूव यक्षस्य देवरामा कृतस्थला ॥ ९ ॥ यक्षो राजननाभाख्यस्तस्यास्तस्य सुतः स्मृतः ॥ अनुह्लादसुता भार्या तस्यासीन्नृपगुह्यका ॥१०॥ वीरो मणिचरश्चैव वीरभद्रस्तथैव च ॥ तस्याः पुत्रावुभौ ख्यातौ देवतुल्यौ मनीषिणौ ॥११॥ ककुत्स्थतनये भार्ये तयोरास्तां नराधिप॥ राजन्पुण्यजनीनाम प्रथमस्य बभूव सा ॥१२॥ तथा देवजनीनाम द्वितीयस्याऽपि यादव ॥ तस्याः पुण्यजना यक्षा देवं देवजनास्तथा ॥ कथिता बहुसाहस्रा महाबलपराक्रमाः ॥ १३ ॥ शुभावाप्तैर्वहंस्तूप यक्षवंशैवशास्तु जाता बहुशीलयुक्ताः ॥ धर्मस्थिताः सत्यपरा विनीता महासुभावा वरदा वरेण्याः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यक्षोत्पत्तिर्नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७ ॥ मार्कण्डेय उवाच ॥ अजः षण्डः पिशाचौ द्वौ सुपाल कपिशासुतौ ॥ पिशाची ब्रह्मयानाख्या तत्राजस्य सुता मता ॥ १॥ पिशाची यातुधानाख्या षण्डस्य तनया मता ॥ अजश्च राजषण्डश्च निशीथे क्षुचितावुभौ ॥२॥ बहिर्भूत्यौ तु सहितौ दृष्टवन्तौ नरेश्वर ॥ राक्षसं क्षुधितकारं पतन्तं क्षुधितं निशि ॥३॥ गृहीतः स पिशाचाभ्यां क्षुधितभ्यां यदा बली ॥ पृष्टः स ताभ्यां यत्नेन दृष्ट्वा तस्य तदा बलम् ॥ ४ ॥ जगाद भूमिपश्चेष्ट चोमयोर्जन्मकारणम् ॥ जन्म कर्म च तौ तस्य श्रुत्वा पिशितभोजनौ ॥ ५ ॥ ददतुः कन्यके तस्य राक्षसस्य नराशिनः ॥ भार्याद्वयस्य वंशौ द्वौ राक्ष सत्य प्रकीर्तितौ ॥ ६ ॥ ब्रह्मज्ञानान्वये तस्य ब्रह्मधाना निशाचराः ॥ यातुधानान्वये तस्य यातुधानाः प्रकीर्तिताः ॥ ७ ॥
१ 'वरो' इति क० ।
वि० ध० | प्र० खं० ॥१२३॥ | अ० ११९
ब्रह्मानन्वये जातानादौ वक्ष्यामि राक्षसान् ॥ यन्नष्टा निर्धनेशेन ब्रह्मणस्तोद्य निश्ववान् ॥ ८ ॥ श्वानकुङ्कुतलैः सर्पौ ब्रह्मनानात्मजाः स्मृताः ॥ तेषामन्वयसम्भूताः शतशोऽथ सहस्रशः ॥ ९ ॥ श्लेष्मातकवनस्थानाः कथिता ब्रह्मराक्षसाः ॥ हेतिः प्रहेतिश्च पौरुषादो वधस्तथा ॥ १० ॥ विद्युत्स्फूर्जश्च वातश्च नमो व्याघ्रस्तथैव च ॥ सुसूक्ष्म करालक्षं यातुधानात्मजा दश ॥ ११ ॥ सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति वै ॥ तेषामन्वयसम्भूता यातुधानाः प्रकीर्तिताः ॥ १२ ॥ हेतिमहेतिवंशौ द्वौ तव वक्ष्यामि यादव ॥ हेतुपुत्रः स्मृतो लङ्केयस्य सालकटङ्कट्याः ॥ १३ ॥ सन्ध्यासुता स्मृता भार्या सुकेशस्तत्सुतः स्मृतः ॥ माली सुमाली च तथा माल्यवांश्च महाबलः ॥ १४ ॥ सुकेशतनया ह्येते देवासुरभयङ्कराः ॥ तपसा तैः समाराध्य देवदेवं जनार्द्दनम् ॥ १५ ॥ वीर्यमप्रतिमं प्राप्तं लङ्कां चैव महापुरी ॥ सुमालितनया तत्र कैकसी नाम राक्षसी ॥ १६ ॥ भार्या विश्रवसः पुत्रो यस्या रावणसंज्ञकः ॥ त्रैलोक्यविजयी तस्य रावणस्य दुरात्मनः ॥ १७ ॥ सुमाली वसुना युद्धे धरेण विनिपातितः ॥ माली च देवदेवेन केशवेन निपातितः ॥ १८ ॥ माल्यवांस्तत्र वर्षात्मा जीवत्याद्यापि यादव ॥ श्रुत्वैतौ भ्रातरौ येन पुरा देवरणोत्सुकौ ॥ १९ ॥ हितं धन्यं शुभं वाक्यं न च तौ तस्य चक्रतुः ॥ तेन तौ निधनं प्राप्तौ राक्षसौ समरेद्वये ॥ २० ॥ संश्रावितस्तेन तथैव वाक्यं स रावणो नाम विरोधकाले ॥ उल्लंघ्य वाक्यं निधनं जगाम धर्मे स्थितस्त्वया प्रतिप्रभावः ॥ २१॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हेतिवंशवर्णनं नामानवत्यधिकशततमोऽध्यायः ॥ ११९॥ मार्कण्डेय उवाच ॥ प्रहेतितनयो राजन्पुलोमा नाम विश्रुतः ॥ क्रोधदृष्ट्या तु यः शीघ्रं च्यवनेन विनाशितः ॥ १ ॥ वज्र उवाच ॥ च्यवनेनं किमर्थं वै पुलो- मा राक्षसो हतः ॥ कथं च भृगुशार्दूल तन्ममाचक्ष्व पृच्छतः ॥ २ ॥ मार्कण्डेय उवाच ॥ पुलोम्नो दानवेन्द्रस्य द्वे कन्ये भुवि विश्रुते ॥ पुलोमा मृगवे दत्ता शची दत्ता च वासवे ॥ ३ ॥ कन्याभावे रुदन्ती तु कदाचिच्चारुलोचना ॥ पुलोमासुतत्रात्रातन्दानवेन्द्रो दानवेश्वरः ॥ ४ ॥ हे रक्षः कन्याकामेतां गृहीत्वा रुदतीं वलात् ॥ एतस्मिन्नेव काले तु पुलोम्नो भवनान्निजैः ॥ ५ ॥ छिद्रान्वेषी दुरात्मा पुलोमा स व्यतिष्ठत ॥ अनुसृत्य च जग्राह तां कन्यां चारुलोचनाम् ॥ ६ ॥ निर्भर्त्स्य तं दुराचारं पुलोमा दानवोत्तमः ॥ कालेन प्रददौ कन्यां भृगवे तां सुमध्य- ॥१२३॥
१ 'नभो' इति ख० । २ 'सर्वक्ष दिक्वारब्ध' इति ख० । ३ 'प्रकरणेऽस्मिन् सर्वत्र हेतिप्रस्थाने हेतुं' इति पद लभ्यते कपुस्तके परञ्च बाल्मीकिना लङ्काख्यं हेतिः प्रहेतिरेवोक्तम् ।
माम् ॥ ७ ॥ अन्तर्वत्नीं तु रहितां भृगुणा तामनिन्दिताम् ॥ अग्निहोत्रगतां दृष्ट्वा पुलोमार्भिमथाब्रवीत् ॥ ८ ॥ पौलोमी यदि मत्पूर्वा सेयं
पावक शंस मे ॥ तामभिब्रवीत्तस्य सेयं पत्नी भृगोः शुभा ॥ ९ ॥ एवमग्नेर्भृगोः श्रुत्वा तां जहार स राक्षसः ॥ तस्यां तु दृश्यमानायां गर्भः
कुक्षेस्तदा च्युतः ॥ १० ॥ च्यवनाच्च्यवनो नाम बभूव स महातपाः ॥ दृष्टमात्रस्तु तेनाऽसौ पुलोमा भस्मसात्कृतः ॥ ११ ॥ पुलोमाऽश्रुनिपातेन
नदी जाता वधूसरा ॥ वह्निश्च सर्वभक्ष्यत्वं भृगुशापादुपङ्गतः ॥ १२ ॥ हुताशनस्तु संक्रुद्धश्शापं प्राप्य द्विजातितः ॥ लोकात्कार्यैरतिद्वेलां
स्वयं वचनमब्रवीत् ॥ १३ ॥ वहे तवार्चिभिः स्पृष्टं शुचि सर्वं भविष्यति ॥ शुचिभूतं ततः पश्चाद्गङ्गेशिष्यत्यसंशयम् ॥ १४ ॥ एतत्तेऽभिहितं
च्यवनस्य जन्म नाशस्तथा राक्षसपुङ्गवस्य ॥ वह्नेः शुचित्वं च तथार्चिषां वै वंशं पुलोम्नोऽथ निबोध राजन् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे च्यवनोत्पत्तिवर्णनो नाम नवनवत्यधिकशततमोऽध्यायः ॥ १९९ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥
पुलोमस्तनयः श्रीमान्बभूवाऽथ निशाचरः ॥ विनिष्कृष्य स्वकाच्छूलाच्छूलं प्रादादाद्ध्वजः ॥ १ ॥ तपसा तोषितो यस्य सपुत्रस्य महात्मनः ॥
त्रैलोक्यविजयासक्ते तेन राजेन्द्र रावणे ॥ २ ॥ दीक्षिते मेघनादे च तथा याते निकुम्भिलाम् ॥ अन्तर्जलंगते वीरे तथैव च विभीषणे ॥ ३ ॥
निद्रावशगते राजन्कुम्भकर्णे सुरद्विषि ॥ मालिनस्तनया तेन रावणस्य स्वसा हता ॥ ४ ॥ कुम्भीनसी महाभागा रूपद्रविणसंयुता ॥ यस्या
मस्य सुतो जज्ञे लवणो¹ नाम राक्षसः ॥ ५ ॥ येन शूलप्रभावेण मान्धाता विनिपातितः ॥ न तस्य पुत्रो भार्या वा बभूवातिदुरात्मनः ॥ ६ ॥
प्राणिनां पुरुषादानां सहस्रैर्द्दशभिर्नृप ॥ आहारमाह्निकं तस्य भवत्यैतद्दिकस्य तु ॥ ७ ॥ रामाज्ञया तस्य वभूव राजन्नामानुजो शत्रुदरर्द्दनस्तत्त्वः ॥
शत्रुघ्नामा भुवनस्य वीरो महान्तरस्थो हरिरप्रमेयः ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रहेतिवंशानुकीर्तनं नाम
द्विशततमोऽध्यायः ॥ २०० ॥ मार्कण्डेय उवाच ॥ यक्षेन राक्षसे जाते ततः कालेन केनचित् ॥ एषा सुषाव गन्धर्वं शैलूषमिति विश्रुतम् ॥ १ ॥
कोट्यस्तिस्रस्तु पुत्राणां तस्यासन्सुरदारुणाम् ॥ एतस्मिन्नेव काले तु विसृष्ट्यासु प्रजासु च ॥ २ ॥ ब्रह्मादिदेश राज्यानि जायंजात्यां यथाक्र
मम् ॥ गन्धर्वाणामथाधिपतिं चक्रे चित्ररथं तथा ॥ ३ ॥ शैलूषपुत्रा गन्धर्वा संशशः कृतनिश्चयाः ॥ शासनेनैव तिष्ठन्ति तस्य चित्ररथस्य
तु ॥ ४ ॥ सिन्धोरुभयकूलेषु देशेषूत्साद्य ते तदा ॥ हत्वा च मनुजांस्तत्र निवसन्ति गतव्यथाः ॥ ५ ॥ उत्साद्यन्तो राष्ट्राणि राज्ञो विप्रियका
१ 'पावकोऽब्रवीत्' इति क० । पाक्कोऽभवत्' इति ख० । २ 'रतो' इति ख० ।
वि० ध० ॥१२४॥ प्र० खं० अ० २०२ ॥१२४॥
रकाः ॥ ताञ्शशाप स गन्धर्वोराजोश्विरथः प्रभुः ॥ ६ ॥ अधर्मनिरताः सर्वे मातृपादधमाप्स्यथ ॥७॥ शापेन तस्याप्रतिमिन गजन्त्यन्यवराञ्जाति बलस्य संख्ये ॥ बभूव मृत्युर्भरतस्तु तेषां देशन्तरस्थो हरिरप्रमेयः ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपवंशावर्णनं नामैकाधिकद्विशततमोऽध्यायः ॥ २०१ ॥ वज्र उवाच ॥ शैलूषपुत्रा गन्धर्वा भरतेन कथं हताः॥किम्भू तु महाभाग तन्ममाचक्ष्व पृच्छतः ॥ १॥ मार्कण्डेय उवाच ॥ अयोध्यायामथोध्यायां रामे दशरथात्मजे ॥ कैकेय्याधिपतिः श्रीमान्युधाजिन्नाम पार्थिवः ॥ २॥ रामाय प्रेषयामास दूतं भरत मातुलः ॥ वृद्धं पुरोहितं गार्ग्यं येन कार्येण तच्छृणु ॥३॥ सिन्धोरुभयकुलेषु रामदेशो मनोहरः ॥ हत्वा गणे मनुष्येन्द्रान्गन्धर्वावनिर्विशतः॥४॥ गन्धर्वास्ते च राजेन्द्र राज्ञां विप्रियकारकाः ॥ लक्ष्मणं भरतं वापि शत्रुघ्नमथवा नृप ॥ ५ ॥ विसर्जयित्वा गन्धर्वान्निहन्त्वानिन्दिताशय राघव ॥ राजानो निर्भयाः सन्तु देशांश्चास्तु तथा तव ॥ ६ ॥ दूतस्य वचनं श्रुत्वा चिन्तयामास राघवः ॥ मेदनाद्वध्य कर्मे लक्ष्मणेन महत्कृतम् ॥ ७ ॥ शत्रुघ्नेन कृतं कर्म लवणं च विनिघ्नता ॥ प्रेषयिष्यामि भरतं गन्धर्वेभ्यश्च निर्ग्रहे ॥८॥ इत्येवं मनसि ध्यात्वा रामो भरतमब्रवीत् ॥ गच्छ गार्ग्यं पुरस्कृत्य वत्स राज्यगृहं स्वयम् ॥९॥ मातुलेन समायुक्तः कैकेयेन्द्रगृहात्ततः ॥ जहि शैलूषतनयानन्धान्विषयलिप्सयान् ॥ १० ॥ एवमुक्तः स धर्मात्मा भरतो भ्रातृवत्सलः ॥ रामस्य पादौ शिरसा चाभिवन्द्य कृताञ्जलिः ॥ ११ ॥ गृहं गत्वा चकाराय सर्वं प्राम्थानिंकं विधिम् ॥ ओषधीनां कषायेण तदोत्साहिविताविधैः ॥ १२ ॥ मांसपर्षफलैकेन प्रसादीनिभोगहृद्भाः ॥ तीर्थानामग्रजनोदयैः सलिलैश्च स मार्गैः ॥ १३ ॥ चन्दनवालवसम्मिश्रैः कुंकुमालोदसंयुतैः ॥ सर्वोषधिसमायुक्तैः सर्वगन्धसमन्वितैः ॥ १४ ॥ मन्त्रपूतैर्महातेजाः स्नातो गन्धववर्चसः ॥ शङ्खभेरी निनादेन पणवानां स्वनेन च ॥ १५ ॥ आनकानां च शब्देन निनितेन च वन्दिनाम् ॥ सूनमागधशब्देन जयशंकरप्रभवेन च ॥ १६ ॥ तुष्टुवुः स्नानकाले तं स्तवैर्मङ्गलपाठकाः ॥ तथोपतम्प्रणुगीतं गन्धर्वाप्सरणां गणाः ॥ १७ ॥ स्नान्तः स भगत्नो लक्ष्म्या ज्वलन्निविसृष्टपाः ॥ विलिप्य चारुसर्वाङ्गं चन्दनेन सुगन्धिना ॥ १८ ॥ अहनामयगन्धर्वांतः श्वेतमाल्यविभूषणः ॥ कुण्डली नाङ्गदो मौली सर्वगन्धविभूषितः ॥ १९ ॥ अन्तस्थं पूजयामास देवदेवं त्रिविक्रमम् ॥ गन्धमाल्येनधन्काग्रधूपदीपादिकर्मणा॥२०॥ पूजयित्वा जगन्नाथमुपहृत्य हुताशनम् ॥ मुहुतं ब्राह्मण न्दून् राघवाणां पुरोधसा ॥ २१ ॥ गोभिविक्वोहिरण्येश्च तुष्टअंग्निपुडुवैः ॥ मोदकैः सफलैर्हृद्या गन्धमाल्यसमन्विर्तैः ॥ २२ ॥ स्वस्तिवाचाद्यतांस्तथा विप्रान्महात्मा भूरिदक्षिणः ॥ व्याश्रमचतिरे रम्ये सुप्रविष्टो वरासने ॥ २३ ॥ आयुधनानन्तं चक्रे ध्वजच्छत्राभिपूजनम् ॥ स्वस्तिकान्वर्धमानांश्च
नन्द्यावर्तैस्तथैव च ॥ २४ ॥ नवः काञ्चनविन्यस्ताः शङ्खः सत्कमलाञ्जनम् ॥ पूर्णकुम्भं गजमदं दूर्वाः सार्द्रं च गोमयम् ॥ २५ ॥ रत्नान्य- दाय बिल्वं च चापमादाय सत्वरः ॥ सशनं राघवश्रेष्ठः पद्धत्यांनिरकं ययौ ॥ २६ ॥ श्रेष्ठमश्वं सुचन्द्राभं हेमभाण्डपरिच्छदम् ॥ आरूह्य निर्ययौ श्रीमाञ्जयकाराभिपूजितः ॥ २७ ॥ पौरजानपदामात्यैर्वाद्यघोषेण भूरिणा ॥ ह्रदेन गजघण्टानां बृंहितेन पुनःपुनः ॥ २८॥ हेषितैन तुरङ्गाणां नराणां हर्षितेन च ॥ द्विजपुण्याहघोषेण प्रयातो भूरिदक्षिणः ॥ २९ ॥ भरतस्य प्रयाणे तु देवाः शक्रपुरोगमाः ॥ मुमुचुः पुष्पवर्षाणि वाच ऊचुः शुभास्तथा ॥ ३० ॥ एष विग्रहवान्धर्म एष सत्यवतां वरः ॥ एष वीर्यवतां श्रेष्ठो रूपेणाप्रतिमो भुवि ॥ ३१ ॥ अनेन यत्कृतं कर्म रामे वनमुपागते ॥ न तस्य कर्ता लोकेऽस्मिन्दिवि वा, विद्यते क्वचित् ॥ ३२ ॥ अनेन राज्यं सन्त्यक्तं गृहं दुग्धमिवाग्निना ॥ अनेन् दुःवशश्यासु शयितं सुमहात्मना ॥ ३३ ॥ नित्यमासन्नभोगेन जटावल्कलधारिणा ॥ फलमूलाशि- नानेन रामराज्यं हि पालितम् ॥ ३४ ॥ शृण्वन्सुवाक्यानि सुरेरितानि रामानुजो रामगृहं जगाम ॥ शूरार्यविद्भूतुरपोपकीर्णं रन्तेयथा सागरम् प्रमेयम् ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतप्रस्थानवर्णनं नाम द्वयधिकद्विशततमोऽध्यायः ॥ २०२ ॥
मार्कण्डेय उवाच ॥ गृहात्प्रयाते भरते प्रस्थानार्थिनि यादवे ॥ प्रागेव लक्ष्मणं रामो नित्योयुक्तमभाषत ॥ १ ॥ अनुयानं कुमारस्य भरतस्य महात्मनः ॥ प्रेषयाश्वसहस्राणां शतानि त्रीणि राघव ॥ २ ॥ दश दन्तिसहस्राणि रथानां षड्गुणानि च ॥ कोट्यः पञ्च पदातीनां समर्पयन्वि- वर्तिनाम ॥ ३ ॥ धनाध्यक्षस्तथा वत्समनुगच्छन्तु लक्ष्मण ॥ गोरथैश्च तथा पृष्ठैर्गोभिरूष्टैस्तथैव च ॥ ४ ॥ व्यायतैः पुरुषैर्व्यङ्गैर्देभैश्च तथा वरैः ॥ वस्त्रैरुत्सुसुवर्णानां मणीनामपि भागशः ॥ ५ ॥ विसर्गाय कुमारस्य परिपूर्णा यथासुखम् ॥ ब्राह्मणाः कथया मुख्यास्तथैव नटनर्तकाः ॥ ६ ॥ गीते नृत्ते तथा लास्ये प्रवीणाश्च वराङ्गनाः ॥ प्रास्थानिकाश्च ये केचित्पानिकेश्चियिन्ध्व ये ॥ ७ ॥ रूपार्जीवाश्च वणिजो नानापण्योपजीविनः ॥ नानारूपसुपादाय बहुपण्यं व्रजन्तु वै ॥ ८ ॥ ^१विप्रवैद्याः शल्यवैद्यास्तथा कार्यचिकित्सकाः ॥ कर्मन्तिका स्थपतयो मागिणो वृक्षरोपकाः ॥ ९ ॥ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा ॥ वाणिकाराश्च ये केचित्कुचकाराश्च शोभनाः ॥ १० ॥ परिकर्मकृतश्चैव तथा वस्त्रोपजीविनः ॥ मायूरिकास्तैित्तरिकाश्चेतका भेदकाश्च ये ॥ ११ ॥ रक्षका दन्तकाराश्च तथा दन्तोपजीविनः ॥ एरण्डवनकाराश्च
^१ 'प्रप्रथमम्' इति क० । ^२ 'कोटयश्च' इति ख० ।
वि० ध० | प्र० खं० ॥१२६॥ | अ० २०४
कटकराश्च शोभनाः ॥ १२ ॥ आरकूटकृतश्चैव ताम्रकूटस्तथैव च ॥ भूर्जकूटाः खड्गकाग गुडसीधुप्रपाचकाः ॥ १३ ॥ आरक्षका माहिष-
कास्ततुवायाश्च लक्ष्मण ॥ ये चामिषाधकाः $^१$केचित्स्तृतमागधबन्दिनः ॥ १४ ॥ वेलिनौगजकाश्चैव चर्मकारास्तथैव च ॥ अङ्गारकोशश्च तथा
लुब्धका ये च धीवराः ॥ १५ ॥ कवचन्धायिणो ये च ये च काष्ठमपाटयन्॥ वस्त्रसीवनसक्ताश्च गृहकाराश्च ये नराः ॥ १६ ॥ कुम्भकाराश्च
ये केचिच्चूर्णवर्तिकिनश्च ये ॥ लेखका गणका ये च तथा तण्डुलकारकाः ॥ १७ ॥ सक्तुकाराश्च ये केचिच्छक्रोपायोपजीविनः ॥ तैलिका
गान्धिकाश्चैव तीर्थसंशुद्धिकारकाः ॥१८॥ चित्रकर्मविदो ये च ये च लाङ्गलिका जनाः ॥ सूताः पारेगताश्चैव संविद्दद्याश्च लक्ष्मण ॥ १९ ॥
गोपा वनचरा ये च नदीतीरविचारणाः ॥ गोसंवर्धनहर्षांश्चैवतस्त्युद्यान्तु यथासुखम् ॥ २० ॥ श्रेणीमहत्तरा ये च ग्रामघोपमहत्तराः ॥
तथैवाटविका ये च ये च शैलविचारिणः ॥ २१ ॥ योजिते सर्वे एवैते सुवृत्ताश्च सुपूजिताः ॥ अनुयान्तु कुमारं मे भरतं भ्रातृवत्सलम् ॥ २२ ॥
इत्येवमुक्तः स तु तान्समस्तानाज्ञापयामास नरेन्द्रवाक्यात् ॥ आमन्त्र्य रामं शिरसा च मर्वं विनिर्ययुस्ते नगरात्प्रहृष्टाः ॥२३॥ इति श्रीविष्णु-
धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आतुर्यात्रिकवर्णनन्नाम त्र्यधिकद्विशततमोऽध्यायः ॥ २०३ ॥ ॥ मार्कण्डेय उवाच ॥ एतस्मिन्नेव
कालेतु रामः शुश्राव तन्महत्॥ शङ्खावाद्यरवन्मिश्रं भरतस्यायुधात्रिकम् ॥ १ ॥ गङ्गाङ्गमपागम्य भरतोऽपि महायशाः ॥ पद्भ्यां जगाम गजाननम
वतीर्य तुरङ्गमात् ॥२॥ स ददर्श तदा रामं रत्नसिंहासनम्स्थितम् ॥ अनुक्षिप्तं चन्दनेन चन्दनन्त सुगन्धिना ॥ ३॥ मूर्द्धनं वमानं मवंसंपूर्णपिन्वसम्॥
तेजसा भास्कराकारं सौन्दर्येणोडुपोपमम् ॥ ४ ॥ क्षमया पृथिवींतुल्यं क्रोधे कालानलोपमम् ॥ बृहस्पतिसमं बुद्ध्या विष्णुंतुल्यं पराक्रमैः ॥५॥
सत्ये दानेऽप्यनोपम्यं दमे शीले च राघवम् ॥ पुरोहितममात्यञ्च पुत्रं प्रकृतिमन्त्रिणः ॥ ६ ॥ दृष्ट्वा तं भरतः श्रीमा न्प्रणाम शिरसा महीम् ॥
भरतं युवराजानं गमाय विदितात्मने ॥ ७ ॥ न्यवेदयन्त धर्मात्मा प्रतीहारः सलक्ष्मणम् ॥ उत्थाय कण्ठे जग्राह रामोऽपि भरतं तदा ॥ ८ ॥
मूर्धि चैनमुपाघ्राय आदिदेशाथ शासनम् ॥ भरतं तु सुखासीनं रामो वचनमब्रवीत् ॥ ९ ॥ गन्धर्वपुत्रान्नाशन्त्या कर्तव्यं नगरद्वयम् ॥ मन्वयो
रभयरूपार्थं तु पुत्रयोरुभयोः कृते ॥ १० ॥ अभिषिच्य तदा वत्स पुत्रौ नगरयोरृतयोः ॥ प्रत्राजिति परियाय क्षिप्रमागन्तुमर्हसि ॥ ११॥ त्वया
विना नरव्याघ्र नाहं जीवितुमुत्सहे ॥ क्षत्रधर्म पुरस्कृत्य तत्र त्वं प्रेषितो मया ॥१२॥ स त्वं गच्छ महाभाग मा ते कालात्ययो भवेत् ॥ स्वस्त्य ॥१२३॥
$^१$ 'चामिषवशा' इति ख० ।
स्तु तेऽन्तरिक्षेभ्यः पार्थिवेभ्यश्च गच्छतः ॥ १३ ॥ दिव्येश्चैव भूतेभ्यः समरे च तथातव ॥ १४ ॥ स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्तिम- जसः ॥ पालयन्तु सदा तुभ्यं दीप्तिविद्योद्यहारिणः ॥ १५ ॥ ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥ आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ ॥ १६ ॥ भृग्वादिरिसयश्चैव कालस्यावयवास्तथा ॥ सरितः सागराः शैलाः समुद्राश्च सरांसि च ॥ १७ ॥ दैत्यदानवगन्धर्वा पिशाचा रगराक्षसाः ॥ देवपत्न्यस्तथा सर्वा देवमातर एव च ॥ १८ ॥ शास्त्राण्यस्त्राणि शास्त्राणि मङ्गलाय भवन्तु ते ॥ विजयं दीर्घमायुश्च भोगांश्चा- न्यान्दिशन्तु ते ॥ १९ ॥ इति स्वस्त्ययनं श्रुत्वा राज्ञा स समुदीरितम् ॥ रामस्य पादौ शिरसा त्वभिवन्द्य धनुर्धरः ॥ २० ॥ निर्गत्य राजभ- वनादाज्ञामाज्ञाल्पितं जगत ॥ हिमाद्रिकूटसङ्काशं चारुकुंदोज्ज्वलाननम् ॥ २१ ॥ मदेन सिञ्चमानं च नृपवेश्माऽजिरं नृप ॥ समाक्रान्तकटं चापि पानलुब्धशिलिमुखैः ॥ २२ ॥ स्तब्धचारुमहाकर्णं मधुपक्कृपथेयवै तु ॥ दीर्घाग्रमध्वक्षकृतैं कृतशृङ्गावतंसकम् ॥ २३ ॥ स्वासनं व्यूढकुम्भं च तथार्द्धमं महाबलम् ॥ नक्षमालां शिरसा धारयानं तु काञ्चनीम् ॥ २४ ॥ पटुस्वने तथा घण्टे दर्शनीये मनोहरै ॥ कुथं विचित्रं रम्यं च कवि- द्वारं महाध्वजम् ॥ २५ ॥ वैजयन्त्यः पताकाश्च किङ्किणीजालमालिताः ॥ समारूढं नयोविद्वा महामात्रेण धीमता ॥ २६ ॥ वैदूर्यदुण्डतीक्ष्णाग्र काञ्चनाङ्कुशधारिणा ॥ जघनस्थेन चान्येन वरचामरधारिणा ॥ २७ ॥ तथा वैजयिकैर्मन्त्रैर्देवज्ञेनाभिमन्त्रितम् ॥ आरुरोह महातेजा जयत्का राभिनन्दितः ॥ २८॥ पूर्णेन्दुमण्डलाकारं रुक्मदण्डं मनोहरम् ॥ छत्रमादाय तं प्रेम्णा चारुरोह स लक्ष्मणः ॥ २९ ॥ चामरौ द्वौ समादाय चन्द्ररश्मिसमप्रभौ ॥ आरूढं योषितोर्युग्मं रूपेणाऽप्रतिमं भुवि ॥ ३० ॥ तं समालम्ब नागेन्द्रं मद्लेखाभिगामिनम् ॥ जगाम सह गाङ्गेयेण रथारूढेन यादव ॥ ३१ ॥ तन्वन्वयौ महाभाग चतुरङ्गमहद्बलम् ॥ पताकाध्वजसन्नाधं कल्पयन्तं वसुन्धराम् ॥ ३२ ॥ श्येनाः काकवहाः कङ्काः पिशाचा यक्षराक्षसाः ॥ ययुः पुरःसरातस्य भरतस्य महात्मन ॥ ३३ ॥ गन्धर्वपुत्रमांसानां लुब्धा मांसोपजीविनः ॥ तूर्यघोषेण महता वन्दिनों निःस्वनेन च ॥ ३४ ॥ वायुना चानुलोमेन सेव्यमानः सुगन्धिना ॥ मङ्गलानां च मुख्यानां दर्शनाद्धृष्टमानसः ॥ ३५ ॥ निर्ययौ राजमार्गेण जनसम्बवाशालिना ॥ तेजस्विनां च तेजांसि हृदयानि च योषि- ताम् ॥ ३६ ॥ आददानो महातेजा नगरत्स विनिययौ ॥ क्रोशमात्रं ततो गत्वा समे देशे च सोदके ॥ ३७ ॥ प्रशस्तमदुमसंकीर्ण शिबिरं
१ 'क्षमयैव तु' इति ख० । २ 'दीर्घाप्रहस्तं मध्वक्षम्' इति ख० ।
वि० ध० | प्र० सं० अ० २०८ ॥१२६॥
प्राङ्निरूपितम् ॥ सेनाध्यक्षैः सुनिपुणैराविवेश भरतस्तदा ॥ ३८॥ स प्रविश्य महातेजाः शिविरं स्वं निवेशनम् ॥ मङ्गलैरालम्भनं कृत्वा वरासनगतः प्रभुः ॥ ३९॥ पौरजानपदं सर्वं प्रेषयामास यादव ॥ परिपूज्य ततः पश्चाल्लक्ष्मणं शुभलक्षणम् ॥ ४० ॥ मूर्ध्नि चैवमुपाघ्राय प्रेषयामास धर्मवित् ॥ प्रयाणकं च व्योभूते दुन्दुभिमित्ताब्रवीत् मम ॥ ४१ ॥ देशिकाः पुरतो यान्तु ये च वृक्षविशोधकाः ॥ आज्ञाप्य सकलं चैव शिविरं च तथाविधम् ॥ ४२ ॥ अवृक्षेषु तु देशेषु रोपयन्तु द्रुमाञ्जनाः ॥ द्रुमाः कण्टकिनश्चैव ये च मार्गप्ररोधकाः ॥ ४३ ॥ छिन्दन्तु गत्वा तानद्य तीक्ष्णैः शीघ्रं परश्वधैः ॥ तोयहीनेषु देशेषु कूपान्कुर्वन्तु मे तथा ॥ ४४ ॥ विषमांश्च तथा देशान्समान्कुर्वन्तु मे पथि ॥ तीराणि सरितां चैव कुर्वन्तु पुलिनानि च ॥ ४५ ॥ न भवेद्येन संबाधो जनस्य पथि यास्यतः ॥ पुरः प्रयान्तु सैन्येन विजयं मन्त्रिविचक्षणाः ॥ ४६ ॥ नीलश्च वक्रदेवश्च वसुमान्सुनयस्तथा ॥ मध्यप्रयाणे गान्धारो जयन्तानो रणोत्कटः ॥ ४७ ॥ सुशीलः कामपालश्च यान्तु सैन्येन दंशिताः ॥ जघने कटकस्याहं पालयानो यथासुखम् ॥ ४८ ॥ सैन्येन सह यास्यामि विजयाय नृपस्य तु ॥ पश्यन्तु देशिकाः स्थानं प्रभूतयवसेन्धनम् ॥ ४९ ॥ सोदकं च समं यत्र सेनावासो भवेन्मम ॥ एवमाज्ञाय भरतो विजहार यथासुखम् ॥ ५० ॥ सुष्वाप च निशां तत्र प्राप्तकाले सतां हराम् ॥ ५१॥ सुतस्य सा तत्र गूढहृस्य पुण्या यत्नां गिरिदर्शनमत्सवा ॥ सम्पूर्णचन्द्राभरणा प्रतीता व्युष्टाय चामन्त्र्य ष्णान्तसूक्तम् ॥ ५२॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतनिर्याणवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४॥
॥ मार्कण्डेय उवाच ॥
प्रभातायां तु शर्वर्यां दुन्दुभिः समहन्यत ॥ प्रयाणिको महागज मन्तम्य महास्वनः ॥ १ ॥ तस्य शब्देन महता विबुद्धः कटकै जनः ॥ अवश्यकरणीयानि कृत्वा राजंस्त्वरान्विताः ॥ २ ॥ त्वरिता गमनाथीय नमाहृत्यन्तगन्तम ॥ पटवेश्मानि रम्याणि संहन्तुमुपचक्रमुः ॥ ३ ॥ महान्ति सुसमाज्ञानि वतितोणीकृतानि ॥ ४ ॥ चक्रुस्तानि च गजेन्द्रे सुवस्त्राबान्धयनन्तः ॥ ४ ॥ ततस्त्वावापयान्युक्तैः क्रमेषु गवेषु च ॥ गोरथेषु तु मुख्येषु तथा दन्तिषु सत्वराः ॥ ५ ॥ भाण्डमुच्चावचं चैव शयनानि मृदूनि च ॥ आसनानि च मुख्यानि भाण्डं यच्च महा-नसे ॥ ६ ॥ पेयं च यवसं चैव शस्त्राणि विविधानि च ॥ कवचानि तुरङ्गाणां शिल्पभाण्डानि यानि च ॥ ७॥ धनं च विविधं राजनन्तःपुर-करणानि च ॥ आरोप्यमाणे भाण्डे तु करभाणां विक्षिप्यताम् ॥ ८ ॥ शुश्रुवे तुमुलः शब्दः खराणां च खरस्वनः ॥ गजानां युज्यमानानां
॥१२६॥
१ 'बाहु' इति ख० । २ 'सुतपा' इति ख० ।
तुरङ्गाणां रथैः सह ॥ ९ ॥ वाद्यानां हन्यमानानां शुश्रुवे तुमुलं स्वनम् ॥ नादेन गजघण्टानां बृंहितेन च पार्थिव ॥ १० ॥ ह्रेषितेन तुरङ्गाणां बभूव तुमुलः स्वनः ॥ प्रायाणिकमुपादाय ताड्यन्नेव दुन्दुभिम् ॥ ११ ॥ अग्रे प्रयाणमानर्च्ये ययौ दुन्दुभिभिः सह ॥ पण्यानि च समादाय वणिजस्त्वरिता ययुः ॥ १२ ॥ गृहीतकामाश्चान्यानि सोदकानि समानि च ॥ स्थानानि वरमुख्यानां ययुश्चाग्रेसरा नराः ॥ १३ ॥ महानसिकमुख्यास्तु त्वरितञ्च तथा ययुः ॥ सुखयानासु रम्यासु तथैवाश्वतरीषु च ॥ १४ ॥ आरोग्य योषितो जग्मुः प्रत्यूषे मुदिता जनाः ॥ आरुढश्वापरा नार्यः सवितानाः करेणवः ॥ १५॥ कञ्चुकोष्णीषिभिर्गुप्ता गता वर्षवरैस्तथा ॥ १६ ॥ ससैन्या राजेन्द्र गीतवाद्य पुरस्सराः ॥ १६ ॥ दीनान्धकृपणानांश्चातर्पयन्त्यो धनेन ताः ॥ नरेन्द्रयोषितो राज्ञा दिव्यालंकारभूषिताः ॥ १७ ॥ तथान्ये बह्वनिर्विंशाः पुरुषाश्च कलापिनः ॥ आदीप्य तृणवेश्मानि जग्मुस्त्वरितमानसाः ॥ १८ ॥ भरतोऽपि समारुह्य शिविकां रत्नभूषिताम् ॥ विनिर्ययौ महातेजा स्तूयमानोपुरःसरैः ॥ १९ ॥ शून्यं च शिबिरस्थानं गृहमण्डलसंकुलम् ॥ बहुकव्यादसङ्कीर्णं क्षणेन समपद्यत ॥ २० ॥ गजोष्ट्रगर्दभाश्वानां शरीरावयवैर्वृतम्॥ भग्नभाण्डसमाकीर्ण शरीरावयवैर्वृतम् ॥२१॥ बहुकव्यादसङ्कीर्णं करीषोत्करसंयुतम् ॥ खातैर्महानसस्थानैर्दग्धमृत्तिकया युतैः ॥ ॥२२॥समण्डकैर्मदापेतैर्मक्षिकासाहितेर्युतम् ॥ संत्यज्य निर्ययुः सर्वे भरतस्य तु सैनिकाः॥२३॥प्रयाणे तस्य सैन्यस्य बलीवर्दाम्श्चमानितान् ॥ नागानुत्थापयामासुरुपविष्टान्प्रयत्नतः ॥२४॥ केचिदुष्ट्रपवित्रंस्तान्तान्दण्डेन निपातितान् ॥ भाण्डभारेणाप्यशक्तूंश्च एव नरोत्तमाः ॥ २५ ॥ नद्युत्तारोषु महिषांन्केचित्त्वत्पांशुतापितान् ॥ निष्ण्णान्सह भारेण ताडयाञ्चक्रिरे जनाः ॥ २६ ॥ केचिदश्वतरोँस्तस्तारान्गबृंहितान्स्वैनैः ॥ आरुढोथपिंतो यत्नाज्जगृहुंश्च रश्मिषु ॥ २७ ॥ केचिद्दभैर्गजंस्त्रैरुत्तैराशिक्षता भुवि मानवाः ॥ जातुविश्रमणार्थाय वाजिग्रीवकृताङ्कनयः ॥ २८ ॥ तुरङ्गांश्च तदोद्भ्रान्तान्सस्तचर्मांश्च सादिनः ॥ केचिदाक्रम्य वेगेन जगृहस्तन यादव ॥ २९ ॥ विश्रत्रमुस्रतथा कोचेत्क्षवृक्षच्छायासु मानवाः ॥ केचिच्चोदकतीरेषु चक्रिरे भोजनक्रियाम् ॥ ३० ॥ केचित्सन्त्रस्ततुरगसन्निकृष्टसमुत्थितैः ॥ द्रुतान्कांपिक्षेलेयैर्लग्नान्पुङ्गुस्तांस्तुरङ्गमान् ॥ ३१ ॥ केचित्कटकसंस्त्रांस्तान्मुग्भूयान्प्रधावतः ॥ वेगानाक्रम्य विशिखैर्जघ्नुर्युद्धकुलोद्वह ॥ ३२ ॥ केचिन्न यवसं चक्रुः केचिच्चक्रूरथेन्धनम् ॥ तथान्योद्दिगुणीभूतं तथा दुन्दुभिनिस्वनम् ॥ ३३ ॥ प्रायाणिकं जहुः शीघ्रं श्रमं यदुकुलोद्वह ॥ केचिदापणवीथ्यग्रमहांवराससूच्छ्रितम् ॥३४॥
१ 'सैन्येन' इति ख० । २ 'बाध्याणि' इति ख० ।
वि० ध० ॥१२७॥ प्र० खं० अ० २०६
सपताकं नरा दृष्ट्वा प्राप्ताः स्म इति मेनिरे ॥ ३५ ॥ केचिच्च च्छन्दसि सहाय्यानां पुनःपुनः ॥३६॥ पुरोगतानां राजेन्द्र स्थानलिङ्ग्यिचिकीर्षया ॥ केचित्पङ्कुटीं दृष्ट्वा स्वकीयां त्वरिता ययुः ॥ ३६ ॥ ततितोपोत्कृतं दृष्ट्वा गृहञ्चान्ये ययुर्द्रुतम् ॥ केषाञ्चित्तत्र वेश्मानि तीर्णानि तृणस्तृप्तम् ॥ ३७ ॥ कृतानि क्रियमाणानि ददृशुस्तत्र मानवाः ॥ दुर्भोवविक्षाम्यमाणांश्च क्रियमाणैस्तथा कटैः ॥ ३८ ॥ गृहैरगोप्यमानेषु पटोणोतृणसंस्कृतैः ॥ शुशुभे तन्महाराज कटकं शुभकर्मणः ॥ ३९ ॥ शङ्खण संशोधयतां भुवं भूमिपते नृणाम् ॥ राजन्नाक्रान्तवृषभमप्रकाशं ववृषेभौ ॥ ४० ॥ पांशुस्थतोवसम्पूर्णहृतश्च तथा जनाः ॥ धावमानाः प्रदृश्यन्ते वर्धता गृहशोभने ॥ ४१ ॥ अभ्युक्षयन्ति चाप्यन्ये तृणवेश्मानि पार्थिव ॥ ततानां शीतकामानां हृतिक्रोडहितैर्जलैः ॥ ४२ ॥ अभिश्रयेण धूपेन समन्तादाकुलीकृतम् ॥ बभूव तस्य कटकं नीहारेणेव संवृतम् ॥ ४३ ॥ अवरोपितभाण्डानां दन्तानां यदुनन्दन ॥ पृष्टान्यभ्युक्ष्यमाणानिगोमयेन जलेन च ॥ ४४ ॥ खरोष्ट्रखुरलोर्तिवं चरणार्थे विनिर्गतम् ॥ ४५ ॥ दृष्ट्वा बहुसाहसं कटके भरतस्य तु ॥ रथेभ्यस्तुरगानान्ये विमुच्य हयकोविदाः ॥ ४६ ॥ अवगोपितभाण्डानि सान्त्वयाञ्चक्रिरे शनैः ॥ समुत्थाय रजो भौमं तुरङ्गैरितैर्नभैः ॥ ४७ ॥ समारुरोह राजेन्द्र कपोतारुणपाण्डुरम् ॥ स्थापयाञ्चक्रिरे चान्ये जलस्थाने च वाजिनः ॥ ४८ ॥ श्रणौ चक्रुस्तथैवान्ये कटच्छायास पार्थिव ॥ वितानान्यस्तथा केचित्स्थापयाञ्चक्रिरे हयान् ॥ ४९ ॥ हयेभ्यो यवसं दत्त्वा केचिद्भुञ्जिरे जनाः ॥ कटच्छायाश्च नागानां चक्रुश्चान्ये सहस्रशः ॥५०॥ वितानानि च मुख्यानि मूर्धतापत्रशान्तये ॥ खाताञ्जलाशये नागांल्छ्वैतयाञ्जनाधिप ॥ ५१॥ सच्छत्रान्म्बपर्णप्रधानकुम्भान्विरच्युः स्वमाल्यम् ॥ कटकाह्वनश्चक्रुर्गजानां नृपदन्तिनाम ॥ ५२ ॥ आलानानि महाराज महावृक्षेषु मानवाः ॥ आदाय गोपिनस्तत्र कटकांश्च विमुग्मः ॥ ५३ ॥ गोमण्डलाभिर्र्ष्यामांश्रक्रुरन्येन्ताथानुसाख्वन् ॥ कटके च तथा नित्युन्र्गोरसानि नराधिप ॥ ५४ ॥ कटकापणवार्थीं च मर्वपण्यविवर्धिपताम ॥ ददृशुः पुरुषामन्तश्च अर्धाय्यायामिव चापगाव ॥ ५५ ॥ स्थानानि सर्ववैद्यानां सञ्जानि नराधिप॥ सागदानि च दृश्यन्ते कटकं भरतस्य तु॥५६॥ समानान्तराध्यक्षान् वीक्ष्य विजयन् महात्मना॥ कृतं शास्त्रातुनारज स्कन्धावारनिवेशनम् ॥ ५७ ॥ विवेश भरतः श्रीमांश्चतुरङ्गबलान्वितः ॥ अर्च्यमानो वीराभ्यां पुत्राभ्यां यदुनन्दन ॥ ५८ ॥ पुष्करंण च वीरेण तक्षण सुमहात्मना ॥ बलमुख्यैस्तथैवान्यैः सृतमागधबन्दिभिः ॥ ५९ ॥ शङ्खवादिन्नघोषेण पटहानां स्वनेन च ॥ भरतस्य गृहद्वा स्तोरणान्तिकमागताः ॥ ६०॥ बभूवुर्बलमुख्यास्ते दिशु ये यदुनन्दन ॥ सन्त्यज्य मञ्चमां वीथीं प्रवशाय महामनाः ॥ ६१ ॥ बन्दिभिः
स्थाप्यमानांस्तान्मार्तण्डामार्तण्डवद्दानतः ॥ ६२ ॥ बलमुख्यन्निवेशाथ स्वगृहं सर्वऋद्धिमत् ॥ दिव्यो
जनाध्वना श्रान्ता भरतस्य तु सैनिकाः ॥ ६३ ॥ विविशुर्भवनान्यन्वान्स्वान्भोजिरे शयनानि च ॥ प्रविश्य वेश्मप्रवरं भरतोऽपि यथासुखम् ॥
॥ ६४ ॥ विजहार महाराज देवराजसमद्युतिः ॥ क्रमेणानेन धर्मात्मा भूमिपाल दिनेदिने ॥ आससाद व्रजंन्नेव गङ्गां त्रिपथगां नदीम् ॥ ६५ ॥
सुराङ्गनापीनपयोधरस्थसन्दन्मक्षालनलब्धलक्ष्मीरू ॥ ग्रीष्मार्कतप्ताङ्गुलुतपारिविबुद्धशीतोदपटीत्तरीयाम् ॥ ६६ ॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रयाणवर्णनो नाम पञ्चाधिकद्विशततमोऽध्यायः ॥ २०५ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ निवे-
शमकरोद्राजन् गङ्गातीरे स राघवः ॥ भरतस्य तदा चक्रुर्गङ्गायां जलमण्डपान् ॥ १ ॥ तथैव बलमुख्यानां प्राधान्येन नराधिप ॥ सैनिकञ्च
जनस्तस्य प्राप्य तां सुरनिम्नगाम् ॥ २ ॥ साफल्यं जन्मनी मेने तत्याज च तथा क्लमम् ॥ सस्नौ पपौ पयः कामं हर्षेण महता युतः ॥ ३ ॥
स्नापथाञ्चक्रिरे तत्र तुरगांस्तुरगप्रियाः ॥ कुञ्जरान्स्नापयमासुर्महामात्रास्तथैव च ॥ ४ ॥ मज्जद्भिर्बहुसाहस्रैः कुञ्जरैर्जोहवी नदी ॥
किरातविषयैः सैव विरराज यथोपलैः ॥ ५ ॥ समुत्थितमहामात्रानृद्बद्ध्यभूषणच्छन्ना ॥ चिक्रीडुर्हस्तिभिः केचिद्विद्वांसुबुद्धिमिस्तथा ॥ ६ ॥ गङ्गा-
मासाद्य संहृष्टा भरतस्य तु सैनिकाः ॥ भरतोऽपि तथा प्रातः कृतेदवत्प्रपूजनः ॥७॥ श्राद्धं चक्रे महातेजा ददौ दानं तथैव च ॥ दत्त्वा तत्र महादा-
नानाज्ञापयति यादव ॥८॥ शिल्पिनो मम कुर्वन्तु कूटगारान्मनोरमान् ॥ रात्रौ दीपनिवेशाथं शतशोऽथ सहस्रशः ॥९॥ आनयिन्तं तथा नावः
सैन्यस्य तरणाय मे ॥ क्रियन्तां चर्मनावश्च प्रवाश्च शतशस्तथा ॥ १०॥ उत्तरं पारमासाद्य निवेशः क्रियतां तथा ॥ परं पारं जना यान्तु उद्व्यास्त-
मयान्तरे ॥११॥ एवमाज्ञाप्य भरतो विजहार यथासुखम् ॥ प्रसारितकरो राजन्स्वैश्चैव दिवाकरः ॥ १२ ॥ ययावदर्शनं तत्र भरतस्यैव लज्जया ॥
पद्मपत्रदलाभाभा प्रतीचीं चामवत्क्षणात् ॥ १३॥ आदित्येऽस्तमनुप्राप्ते सन्ध्यारागविवर्जिता ॥ ततस्तु तमसा व्याप्ते न प्राज्ञायत किञ्चन ॥ १४ ॥
भरताज्ञाकृतान्पूर्वं कूटगारान्सदीधकान् ॥ ध्वजमालापरिक्षिप्तांश्चिक्रीपुर्जह्वीजले ॥ १५॥ सैनिकैश्च तथा मुख्यैर्भरतस्य पृथक्पृथक् ॥गङ्गाम्भसि
परिक्षिप्ता दीपवृक्षाः सहस्रशः ॥१६॥ सा दीपमालिनी गङ्गा तीरद्योतितविग्रहा ॥ जहास फेनहासेन जिह्वेव गगनप्रिया ॥ १७ ॥ जलान्तरांगते-
र्दीपैर्दीपवृक्षैर्मनोहरैः ॥ तथा कङ्कोलसंक्रान्तैर्गङ्गा दीतेव लक्ष्यते ॥ १८ ॥ एवं हि क्रीडतां तत्र गङ्गातीरे तथा नृणाम् ॥ रात्राववाससा जग्मुर्नावो
१ 'चन्दनाधिक्ष' इति ख० । २ 'जलत्वारंगतेः' इति ख० । 'जलानातायागतैः' इति क० ।
वि० ध० ॥ १२८॥
प्र० खं० अ० २०७ ॥ १२८॥
बहुविधा नृप ॥ १९ ॥ शशाङ्कराजेन दृष्टा स्वसरसीं जनाः ॥ आक्रम्यमाणा सुप्रणीशीर्षे निद्रयान्विताः ॥ २० ॥ शशाङ्कोऽप्यसंभृतबलं प्लवनेनोपमम् ॥ निबोधयामास तथा दिवाकरकरोत्करम् ॥ २१ ॥ चक्रुषुस्ते तदा नावः कर्णधारा यथा स्वकाः ॥ बलं च सकलं पारं तारयाञ्चक्रिरे तदा ॥ २२ ॥ नावस्तां किङ्किणीजालैः पताकाभिश्च राजिताः ॥ निन्युर्बलं परं पारं कर्णधारसिफाहताः ॥ २३ ॥ भाण्डैः पूर्णास्तथा काश्चित्काश्चित्पूर्णा जनेन च ॥ तुरङ्गैश्चस्तथा पूर्णा गोखरैरौष्ट्रैस्तथा पराः ॥ २४ ॥ काश्चित्सकुञ्जरा नावो ययुः पारं तदा परम् ॥ तथा पद्मदलाक्षाणां स्त्रीणां नावश्च पूरिताः ॥ २५ ॥ विमानाभाः प्रदृश्यन्ते गङ्गाम्भसि नरेश्वर ॥ कर्णधारवरोपेता दण्डिभिः पुरुषैर्वृताः ॥ २६ ॥ लोकसन्तारणार्थाय भूयो जग्मुस्तथा पराः ॥ चर्मनोभिस्तथा केचित्प्लवैः केचित्सुयन्त्रितैः ॥ २७ ॥ जग्मुरादाय भाण्डानि दृतिभिश्च तथा क्वचित् ॥ नरैर्दतिसमारूढैः क्षुप्यमाणास्तरङ्गमाः ॥ २८ ॥ जग्मुः केचित्परं पारं बाहुभिर्मनुजेश्वर ॥ जग्मुरन्ये परं पारं संगृहीताश्च रश्मिभिः ॥ २९ ॥ नौस्थैरेव परैः शीघ्रं तृणान्युत्पाद्यबाहुभिः ॥ महिषाणां च शृङ्गानि गवां च यदुनन्दन ॥ ३० ॥ जग्मुर्गोपालकैः सार्थं परं पारं च बाहुभिः ॥ उष्ट्राणांमंसधानि तार्यमाणानि बाहुभिः ॥ ३१ ॥ भूयोभूयो न्यवर्त्तन्त तत्र गावो महानभूत् ॥ तीर्णस्य तार्यमाणस्य नरस्य यदुसत्तम ॥ ३२ ॥ आसीत्कोलाहलो घोरस्तीरयोरुभयोरपि ॥ भरतोऽपि महातेजाः स्नातो हुतहुताशनः ॥ ३३ ॥ मत्स्यरूपधरं विष्णुं पटे सम्पूज्य यादव ॥ स्वस्तिवाच्यांस्ततो विप्रान्गोभिर्वस्त्रैर्धनेन च ॥ ३४ ॥ सम्पूज्य जाह्नवीं देवीं गन्धमाल्यानुलेपनैः ॥ सम्पूजयामास तदा भूय एव द्विजोत्तमान् ॥ ३५ ॥ गोभिरथैस्तथा निष्कैर्र्वस्त्रैर्गन्धेस्तथैव च ॥ आरूरोह तदा नावं पाण्डुकम्बलसंवृताम् ॥३६॥ किङ्किणीजालविततां पताकाध्वजमालिनीम् ॥ भरते तु समाहूढे कर्णधारसिफाहता ॥ ३७ ॥ जगाम सा परं पारं नौविमानापना नृप ॥ सम्प्राप्य स परं पारं सम्पूर्णकटकस्तदा ॥ उवास गङ्गामंतरेण दिवि देवेश्वरो यथा ॥ ३८ ॥ देवीं महादेवजटातटस्थां शशाङ्कसंसर्गविवृद्धशीताम् ॥ उत्तीर्य राजा भरतः स सेनां निन्ये क्षयं शत्रुसमग्रभावः ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरेणवर्णनो नाम पञ्चोत्तरद्विशततमोऽध्यायः ॥ २०६ ॥
॥ मार्कण्डेय उवाच ॥ भरते तु समुत्तीर्णे गङ्गां गगनमेखलाम् ॥ विवेश कटकं तस्य तमन्यः कौरवो नृप ॥ १ ॥ बलेन चतुरङ्गेण समुद्भास संयुतः ॥ ईश्वरश्च किरातानां दमनो नाम पार्थिवः ॥ २ ॥ गन्धिनां बहुसाहस्रैर्बलैर्युक्तो व्यदृश्यत ॥ यथार्हं पूजयित्वा तं भरतो धर्मवत्सलः ॥ ३॥ आसाद्यार्कतनयां यमुनां पापनाशिनीम् ॥ यमस्य भगिनीं पुण्यां नील-
मालां मनोहराम् ॥ ४ ॥ यत्र क्वचन नद्यां हि कृत्वा श्राद्धन्नराधिप ॥ अक्षय्यं फलमाप्नोति नाकपृष्ठे च मोदते ॥ ५ ॥ यत्र कृष्णचतुर्दश्यां स्नातः सम्पूज्य भानुजं ॥ मुच्यते पातकैः सर्वैर्नाकलोकं स गच्छति ॥ ६ ॥ अनर्काभ्युदिते काले माघकृष्णचतुर्दशीम् ॥ गङ्गायां स्नातस्तु सम्पूज्य धर्मराजं तिलाम्भसा ॥ ७ ॥ न दुर्गतिमवाप्नोति कुलं चैव समुद्धरेत् ॥ यत्र क्वचन नद्यां हि माघकृष्णचतुर्दशीम् ॥ ८ ॥ नादेयाम्भासि सर्वस्मिन्स्नातः पापौघैर्विमुच्यते ॥ यमुना तु विशेषेण यमस्य भगिनीति सा ॥ ९ ॥ स्नातश्च यामुने तोये सन्तर्प्य पितृदेवताः ॥ न दुर्गतिमवाप्नोति नाकलोकं च गच्छति ॥ १० ॥ तां समासाद्य यमुनां यथा गङ्गाजलं तथा ॥ विदधे भरतस्तद्वत्तार महानदीम् ॥ ११ ॥ समुत्तीर्णस्य यमुनां भरतस्य महात्मनः ॥ विवेश कटकं राजा मत्स्यानां सुरथस्तदा ॥ १२ ॥ वीरसेनश्च साल्वानां शिबीनां च प्रभद्रकः ॥ स तैर्नृपतिभिः सार्धं कुरुक्षेत्रमुपाययौ ॥ १३ ॥ यदर्थमेषा चरति लोके गाथा पुरातनी ॥ १ पांसवोऽपि कुरुक्षेत्रे वायुना सम्मीरिताः ॥ १४ ॥ अपि दुष्कृतकर्माणो नयन्ति परमां गतिम् ॥ समन्तपञ्चके पुण्ये वै मृता मनुजेश्वर ॥ १५ ॥ ते सर्वे नाकमासाद्य राजन्ते दिवि देववत् ॥ सन्निहत्यात्र राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ १६ ॥ तीर्थसन्निधानादेव सन्निहितिरिति विश्रुतम् ॥ पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ॥ १७ ॥ मासान्ते सततं तत्र नित्यमायान्ति यादव ॥ तत्र श्राद्धं तु यः कुर्याद्राहुग्रस्ते दिवाकरे ॥ १८ ॥ अश्वमेधशतस्यैव फलं विन्दति मानवः ॥ भरतस्तु समासाद्य तत्रोवास सुखी तदा ॥ १९ ॥ पप्रच्छ ब्राह्मणांस्तत्र तीर्थसंशीतिकारणम् ॥ पृष्टस्तु भरतेनाथ ब्राह्मणस्तु घटोदरः ॥ २० ॥ उवाच भरतं तत्र कथां पापप्रणाशिनीम् ॥ घटोदर उवाच ॥ शक्रो वृत्रवधाक्रान्ते त्रैलोक्ये दैत्यसाङ्गते ॥ २१ ॥ सन्त्रस्ताः सुराः सर्वे विष्णुं शरणमाययुः ॥ तानुवाच हरिर्देवं २ पश्यध्वं ह्यात्मसम्भवः ॥ २२ ॥ भार्गवो ब्राह्मणः श्रीमान्दधीच इति विश्रुतः ॥ अस्थिभिः क्रियतां तस्य देवेन्द्रस्य वरायुधम् ॥ २३ ॥ प्रविश्य देवांस्तत्स्नेहं हन्ता वृत्रमसंशयम् ॥ एवमुक्ताः सुराः सर्वे दधीच्याश्रमं ययुः ॥ २४ ॥ ददृशुश्च महाभागं दधीचं तपसां निधिम् ॥ पूजयित्वा महाभागं तमूचुः संहताः सुराः ॥ २५ ॥ त्वदस्थिभिः करिष्यामो वज्रं दैत्यनिबर्हणम् ॥ अन्यानि च तथास्त्राणि सुरकार्यप्रसिद्धये ॥ २६ ॥ तत्र त्वं देवकार्यार्थं सन्यासं द्विज रोचय ॥ एवमुक्तो दधीचस्तु प्रत्युवाच स तान्सुरान् ॥ २७ ॥ तीर्थयात्रा प्रतिज्ञाता सर्वतीर्थेषु वै मया ॥ तां तु कृत्वा करिष्यामि देहन्यासं सुरोत्तमाः ॥ २८ ॥ देवा ऊचुः ॥
१ 'नीलनीलम्' इति क० । २ 'केशवम्' इति ख० ।
वि० ध० ॥१२॥
प्र० खं० अ० २०७
शक्तस्त्वं सर्वतीर्थानामाह्वाने द्विजपुङ्गव ॥ इहाद्यैव समायान्तु सर्वतीर्थानि तेऽनघ ॥ २९ ॥ तेजसा च त्वदीयेन तथास्माकं च भार्गव ॥ घटो
दर उवाच ॥ एवमुक्तैः सुरैः सर्वैस्तीर्थानि सरितस्तथा ॥ ३० ॥ सरांसि च समुद्रांश्च तत्राजहुर्मुनीश्विधु ॥ काम्येन महता राजन्योगेन परमेण
च ॥ ३१ ॥ ज्ञात्वा च तेषां सांन्निध्यं तत्र स्नातो द्विजोत्तमः ॥ तर्पणं च तथा कृत्वा सुराणां पितृभिः सह ॥ ३२ ॥ उवाच देवांस्तत्रस्थानिदं
वचनमर्थवत् ॥ दधीच उवाच ॥ अद्य प्रभृति मासान्ते भवद्भिः सततं सुराः ॥ ३३ ॥ सांन्निध्यमिह कर्तव्यं तीर्थैश्चैव यथागतैः ॥ घटोदर
उवाच ॥ एवमुक्तैस्तथेत्युक्तो देवैस्तीर्थेश्च स त्वथ ॥ ३४ ॥ त्यक्त्वा देहं दिवं यातो दधीचः स्वेन तेजसा ॥ विश्वकर्मा च तस्यास्थ्नां भार्गवञ्चमथा
करोत् ॥ ३५ ॥ आयुधानि च देवानां तथैव च पृथक्पृथक् ॥ तेन वज्रेण महता वृत्रं हत्वा महासुरम् ॥ ३६ ॥ जघान दैत्यमुख्यानां नर्वनि
र्नवतिस्तथा ॥ ततः प्रभृति मासान्ते नित्यमेव रघूद्वह ॥ ३७ ॥ सांन्निध्यमिह तीर्थानां देवतानां च कल्पितम् ॥ मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा महातेजा दत्त्वा दानानि राघवः ॥ ३८ ॥ ययौ सैन्येन महता भरताश्रमदण्डकम् ॥ तत्र विष्णुपदं प्राप्य पूजयित्वा च राघवः ॥३९॥
आससाद नदीं गौरीं पुण्यां पापभयापहाम् ॥ विश्वामित्राज्ञया रक्षः प्रविवेश पुरा नृपम् ॥ ४० ॥ कशाहतेन मार्गेऽयं शतं भूपाल शक्तिना ॥
सौदासं स प्रविष्टस्तु भक्षयामास शक्तिनम् ॥ ४१ ॥ ततः पुत्रशतं राजन्नहिंसद्दृष्टसत्त्वरः ॥ हते पुत्रशते दुःखार्ताऽसिष्टो भगवानृषिः ॥ ४२ ॥
विवेश निम्नां गौरीं प्राणत्यागचिकीर्षया ॥ विब्रूय्य भूप चातस्य विद्दुता सा तदाभवत् ॥ ४३ ॥ ततः प्रभृति लोकेऽस्मिञ्छतुहुद्रिति
शब्दिता ॥ सर्वपापप्रशमनी सर्वकल्याणकारिणी ॥४४॥स्नातानां च तथा गजन्दशुधेयुफलप्रदा ॥ तां समासाद्य तत्रापि दत्त्वा दानं स राघवः॥४५॥
उत्तीर्य तां ययौ तत्र सा चान्या यत्र निम्नगा ॥ यस्यां स्नात्वा विशुद्ध्येत सर्वपापैर्भयेन्नरः ॥४६॥ यस्यां स्नानादवाप्नोति दशगोदानजं फलम् ॥
आपाहं च तथा कृत्वा गोसहस्रफलं लभेत् ॥ ४७ ॥ गॉर्गोतायाडिनिर्मुको वसिष्ठो भगवानृषिः ॥ पाशवन्ध्यभगंव्यां पपात महसा
नृप ॥४८॥ विपाशंश्च तथा कृत्वा तीरं विसजितः ॥ शक्तिपुत्रं ततो दृष्ट्वा वसिष्ठोऽपि पराशरम् ॥ ४९ ॥ अस्मिन् सन्तानमित्युक्त्वा
मरणाद्विनिवर्तत ॥ सा चान्या च तथा लोके विपाशेत्यभिधीयते ॥ ५० ॥ विपाशां च समुत्तीर्णे भरते धर्मवत्सले ॥ विवेश
कटकं तत्य कुणिदेशे महोदयः ॥ ५१ ॥ श्वेतौ वसुधानञ्च कुतूलाधिपतिर्जयः ॥ दशैकस्तथा गजा गोवाशन इति श्रुतः ॥ ५२ ॥
इरावतीं शीघ्रगमां भरतोऽपि तदा ययौ ॥ दर्शधेनुफलं यत्र स्नात एव समश्नुते ॥ ५३ ॥ षष्टितीर्थसहस्राणि वहत्येका इरावती ॥
॥१२३॥
अष्टम्यां तु विशेषेण यत्र युज्येत रेवती ॥ ५४ ॥ तत्र दत्त्वा बहुविधं दानं रघुकुलोद्वहः ॥ उत्तीर्य तां ययौ शीघ्रं देविकां पापनाशिनीम् ॥ ५५ ॥ दृष्टमात्रैव या देवी सर्वकल्मषनाशिनी ॥ शरीरबहुला सा तु हरस्य दयिता उमा ॥ ५६ ॥ तत्रापि दत्त्वा दानानि पूजयामास शङ्करम् ॥ भरते चाथ तत्रस्थे विविशुः पञ्च पार्थिवाः ॥ ५७ ॥ पार्व्वतीया महाराज पदातिगणसङ्कुलाः ॥ कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः ॥ ५८ ॥ मद्राजोऽङ्गामशैव तथैव च महाबलः ॥ पूजितो मद्रराजेन शाकलेन नरोत्तमः ॥ ५९ ॥ त्रिरात्रमुषितः श्रीमांश्चन्द्रभागां नदीं ययौ ॥ चन्द्रोग्रंशीतलजलां सर्वपापप्रणाशिनीम् ॥ ६० ॥ बहुतीर्थसमायुक्तां स्नानात्सर्वप्रदां नृणाम् ॥ विशेषेण महाराज माघपुष्यत्रयोदशीम् ॥ ६१ ॥ भरते तां समुत्तीर्णे विवेश कटकं ततः ॥ एतच्छ्रुत्वाजयः श्रीमानभिचारः कृतंजयः ॥ ६२ ॥ काश्मीरकश्च धर्मात्मा सुबाहुरिति विश्रुतः ॥ आससाद स तैः सार्द्धं वितस्तां तु महानदीम् ॥ ६३॥ स्वर्गलोकमदां स्नाने सर्वकल्मषनाशिनीम् ॥ प्रोष्ठपादस्य मासस्य शुक्लपक्षत्रयोदशीम् ॥ ६४ ॥ विशेषेण महाराज पुण्यां परमपावनीम् ॥ भरतस्तां समुत्तीर्य सुदामां चैव निम्नागाम् ॥ ६५ ॥ आससाद महातेजाः केकयानन्दनन्दन ॥ बलेन चतुरङ्गेण युधाजित्केकयाधिपः ॥ ६६ ॥ निर्ययौ भरतं प्राप्तं श्रुत्वा भरतमातुलः ॥ नागराश्च तथा मुख्या राजगृहनिवासिनः ॥ ६७ ॥ ब्राह्मणाः क्षत्रिया वैश्या ये च वर्णवरा जनाः ॥ यानैरुच्चावचैः सर्वे नगरात्तु विनिर्गताः ॥ ६८ ॥ वादिन्त्रानपुरतः कृत्वा गणिकाश्च विनिर्गताः ॥ प्रतिग्रहनिमित्तं तु राघवस्य महात्मनः ॥ ६९ ॥ भरतोऽपि महातेजाः सं समेत्य युधाजिता ॥ अभ्यधावत तच्छ्रीत्या मातुलं केकयाधिपम् ॥ ७० ॥ कण्ठे गृहीत्वा भरतं मूर्क्युपाघ्राय चासकृत् ॥ भरतोऽपि समादाय राजगृहेसमुपागमत् ॥ ७१ ॥ समे मनोरमे देशे प्रभूतयवसेन्धने ॥ शिबिरं भरतश्चक्रे नगरस्याविदूरतः ॥ ७२ ॥ पृथक्पृथक्तदा चक्रुः स्कन्दावारनिवेशनम् ॥ मनःप्रियेषु देशेषु नानादेश्या नराधिपाः ॥ ७३ ॥ कृत्वा निवेशनमनुज्ञेश्वरणामादिश्य भोगान्सकलान्म तेषाम् ॥ विवेश नागेन स मातुलस्य पुरं प्रहृष्टो रघुवंशचन्द्रः ॥ ७४ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राजगृहागमनो नाम सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २०७ ॥
मार्कण्डेय उवाच ॥ ततः स्वल्पपरीवारो भरतो धर्मवत्सलः ॥ अभ्ययाथ ततः प्रीत्या मातुलः केकयाधिपः ॥ १ ॥ कण्ठे गृहीत्वा भरतं मूर्ध्न्युपाघ्राय चासकृत् ॥ भरतोऽपि समादाय राजन गृहमृपागतम् ॥ २ ॥ प्रविवेश पुरं हृष्टो मातुलस्य युधाजितः ॥ पताकाध्वजसवावं सिक्तं चन्दनवारिणा ॥ ३ ॥ धूपेनाऽगुरुसारेणां समन्तादाकुलीकृतम् ॥ कृतोपहारं सर्वत्र कुसुमैः पञ्चवर्णकैः ॥ ४ ॥ सर्वपण्यविसंयुक्तं समालंकृतबालकम् ॥
वि० ध०
॥ १३० ॥
प्र० खं०
अ० २०९
समुच्छ्रितैः प्रासादैः श्वेतमेघगणैर्युतम् ॥ ५ ॥
विन्यस्तबलिपूंजञ्च देवतायतनेषु च ॥
महावादित्रघोषेण समन्तात्कृतनिःस्वनम् ॥ ६ ॥
(१पौरोदैर्दृष्टभिः सर्वैराकीर्णपण्यवीथिकम् ॥
राजमार्गं महाराजं पिण्डीकृतमहाजनम् ॥ ७ ॥)
राजमार्गादपाकृष्टशून्यसंवेशनैर्जनम् ॥
गोपित्बृन्दसमाक्रान्तराजमार्गमहागृहम् ॥ ८ ॥
प्रविवेश पुरं श्रीमान्भरतो नागधुर्यगैः ॥
तस्य कामाभवत्पुत्रः प्रवेशे भरतस्य तु ॥ ९ ॥
गृहकार्याणि संत्यज्य युयुतयो गवाक्षकान् ॥
कश्चिदधोगलितांग्यः कश्चिदंकजितलक्षणाः ॥ १० ॥
केशः संयमितेकार्यः कश्चिदर्थनिवर्हितैः ॥
एकस्मिंश्चरणे कश्चिद्गृहीत्वा काष्ठपादुकाः ॥ ११ ॥
त्वरितंशा युयुतयो ययुः शीघ्रं संत्यक्त्वा चर्मपादुकाः ॥
तथा पराः समाक्षिप्य पूर्वाक्रान्तगवाक्षकाः ॥ १२ ॥
ब्रुवन्तीषु तथान्यासु काश्चिद्भार्यो गदाक्षकातू ॥
वेगवत्यो ययुः शीघ्रं संत्यक्त्वा चर्मपादुकाः ॥ १३ ॥
नार्यः स्ववदनैर्युक्तैः सुव्यक्तैर्गन्तानवाक्षकात् ॥
अथेय विवस्तकुन्तपाणिसंलिप्सितकुङ्कुमद्राः ॥ १४ ॥
द्वितीयापाणिसंदंशसमाक्रान्त्यैर्युतः करैः ॥
नीवीबन्धनाविश्लेषसमुत्कुलितेचेतनाः ॥ १५ ॥
युयुगंवा परास्तत्र पाणिसंलिप्तनोवयः ॥
कुसुमप्रकरें कश्चिद्रुह्यमानाः शिरोगतैः ॥ १६ ॥
ययुर्वेगाच्छंकैदीर्भ्रत्स्यमाना गवाक्षकात् ॥
स्मितास्मितेन गम्भाणं रमणयिन राघवः ॥ १७ ॥
ययौ दृष्टिनिपातेन रञ्जयमान इवांशुमान् ॥
म चक्रपे तदा तासां पतितैर्नेत्ररश्मिभिः ॥ १८ ॥
हृदयानिवृगृहीत्वेव गच्छमानः स राघवः ॥
स तु दृग्विषये यासां यासां तस्मात्पथागताः ॥ १९ ॥
न ता बुबुधिरे काश्चित्क्रियां चित्रगता इव ॥
भग्ने दृक्पातितोपि निश्चेयाः कश्चिदेव ताः ॥ २० ॥
आकृष्टास्ता ययुः क्षोणीं प्रीयमाणः सर्व्वजनैः ॥
प्रद्युम्नशंशुमत्पुत्रः प्रद्युम्नसमदर्शनः ॥ २१ ॥
आदाय तासां चेतांसि ययौ राजगृहं द्रुतम् ॥
तस्मिन्न्अजग्मुहे गजराथधवो गजमन्दिगम् ॥ २२ ॥
आससाद महातेजाः कैलासभिव चापरम् ॥
प्रविश्य मु गृहं मुख्यं प्रेषयामास भृत्यजनम् ॥ २३ ॥
पानभोजनवासार्थामि मेनिकान्तां च राघव ॥
उवास म सुखं तत्र पूजितश्च युवान्जिता ॥
जगाम चान्ते सवित्वा जपापुष्पोत्करप्रभः ॥ २४ ॥
जाम्बूनदं मन्महत्चित्रं म गजपुत्रः शयने विचित्र ॥
सुष्वाप गतां गत्रां भवनं विचित्र निदावगांत्रि पवने विचित्रे ॥ २५ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतस्य गजगृहमप्रबेशवर्णनो नामाष्टादशोत्तरशतमोऽध्यायः ॥ २०८ ॥
मार्कण्डेय उवाच ॥
तस्मिन्राज्यन्वमाने तु भूमिपानां पृथक्पृथक् ॥ १ ॥
कटकध्वजभन्त्यन्तं मंज्ञातूयाणि याहव ॥ १ ॥
बहूनां वलमुख्यानां नानालिङ्गानि भागशः ॥
तेषां कोलाहलः शब्दो वभूव गगनङ्गमः ॥ २ ॥
विक्रिकर्मतस्य पि ततः प्रावोलिक्का जनाः ॥
१ कोष्ठान्तर्गतः पाठः पुस्तके नास्ति ।
॥ १३० ॥
वेणिका गायना मुख्या वंशावाद्याविदश्च ये ॥ ३ ॥ मार्दङ्गिका पाणविकाः शङ्खवादनकाश्च ये ॥ रक्तकण्ठाः सुमधुरा ये च मङ्गलपाठकाः ॥ ४ ॥ सूतमागधमुख्याश्च वन्दिनश्च नराधिप ॥ तुष्टुवुर्भर्तृवीरं सुखसुप्तं महामतिम् ॥ ५ ॥ सुप्रभातं समुत्तिष्ठ प्रभाता रजनी शुभा ॥ दिक्प्राची रघुशार्दूल वर्ततेऽरुणरञ्जिता ॥ ६ ॥ तूनमस्यां हि वेलायां मातलिस्त्रिदशाधिपम् ॥ विबोधयति राजेन्द्र सुखाय जगतां विभुम् ॥ ७ ॥ त्वयि सुप्ते जगत्सुप्तं विबुद्धे च सुखान्वितम् ॥ तस्मादुत्तिष्ठ लोकानां शिवाय रघुनन्दन ॥ ८ ॥ त्वं हि सर्वगुणाराभो यथा रामो महीपतिः ॥ गुणैः शशाङ्करश्म्यामैस्त्वया वै रञ्जितं जगत् ॥९॥ अत्याश्चर्यं महाबाहो यशसा सुसितेन ते ॥ सुवान्त्यरागितवृन्दानी क्रियन्ते मलिनानि यत् ॥१०॥ कृपाणधारपानीयं दृष्ट्वाऽरातिगणस्तव ॥ तृष्णयेव भवतयाशु रञ्जितानिलयो भयात ॥ ११ ॥ अक्षोभ्यश्चातिगम्भीरो भवानन्तरस्तथा ॥ अग्राह्यात्वात्समुद्रेण न समः प्रतिभाति नः ॥१२॥ सौम्यः कलावांश्चैश्वर्यान्नयनानन्दकारकः ॥ (दोषकरेण क्षयिणा नोपम्यं ते नराधिप) ॥१३॥ बाहुभोज्यातिविस्तीर्णा सर्वश्रयवती दृढा ॥ नोपम्यं याति ते सम्यक् क्षोणी विन्ध्येन कम्पिना ॥ १४ ॥ यत्तेऽस्तित तद्वश्वं त्वं ददासि रिपु सूदन ॥ अविद्यमाना भीर्हन्ता भवतारिणो गुणेः ॥१५॥ निमेषमपि यो दृष्टस्त्वयापाङ्गेर्निरीक्षणैः ॥ समृद्ध्या यं दृष्टो नित्यमेवैक्षणैः श्रियः ॥ ॥ १६ ॥ क्षुरपर्यन्तरधारेण चक्रेणारिगणस्त्य ते ॥ शिरस्त्यपह्नरत्याजौ देवदेवो जनार्दनः ॥ १७ ॥ कपालमाली सङ्गाङ्गी खशाङ्काङ्कृतभूषणः ॥ वामार्धदयिताकारः शङ्करः शं करोतु ते ॥१८॥ पद्मासनः पद्मजन्मा सर्वलोकपितामहः ॥ ऋद्धिं मेधां धृतिं लक्ष्मीं बलं च विदधातु ते ॥ १९ ॥ नमश्रेशोऽम्बुजो देवो दिग्बन्धकपूरकः ॥ ब्रह्माण्डमण्डपे दीपः सुप्रभातं करोतु ते ॥ २० ॥ केशयश्केशदेशवेश्प्रेतश्वर्गनिवासचाराः ॥ सर्वदेवगणैः सार्धं सुप्रभातं दिशन्तु ते ॥ २१ ॥ ऋषयः सरितः शैलाः सागराश्च दिशो दश ॥ कालस्यावयवाश्चैव सुप्रभातं दिशन्तु ते ॥ २२ ॥ इति शृण्वन्गिरं पुण्यामेषां मङ्गल्वादिनाम् ॥ महापण्याहघोषण तत्याज शयनं तदा ॥२३॥ आयम्यत्वं स शुश्राव लेखकैर्गणकैः सह ॥ वेगोत्सर्गं ततः कृत्वा ययौ स्नानगृहं शुभम् ॥ २४ ॥ स्नानाम्भं ततश्चक्रे दन्तधावनपूर्वकम् ॥ उत्सादितः कषायेण बलवद्भिर्नरैस्तदा ॥ २५ ॥ सुखं भद्रासनासीनः सूक्ष्मा म्बरधरः प्रभुः ॥ सस्नौ स विविधैस्तोयैर्नददीनदसागरजैः शुभैः ॥ २६ ॥ कुम्भैः सुवर्णमाहेयस्ताम्रै रौप्यमयैस्तथा ॥ शताधिकैर्महाराज सर्वाधि समन्वितैः ॥ २७ ॥ क्षीरप्रवाहसंयुक्तेर्माल्यकण्ठैः सुपूजितैः ॥ आवर्जितैर्महीपाल सुस्नातालंकृतैर्नरैः ॥ २८ ॥ चन्दनस्रावसम्पूर्णैर्जहमन्त्रानु
१ कोष्ठान्तर्गतः पाठः खुपुस्तके नास्ति ।