विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
तं वीरं रमयन्ते स्मन्ति च ॥ वराप्सरःसहस्राणि शूरमायोधने हतम् ॥ ३२ ॥ त्वरितास्त्वभिधावन्ति मम भर्ता ममेति च ॥ हतस्या भिमुखस्याजौ पतितस्यानिवर्तिनः ॥ ३३ ॥ हियते यत्परैर्द्रव्यं नग्नमेषफलं तु तत् ॥ शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः ॥ ३४ ॥ आत्मदेहं तु संग्रामे त्यक्तं विप्राः सुदुष्करम् ॥ यां यज्ञसंस्थस्तपसा च विप्राः स्वर्गैषिणः सत्त्वचयैः प्रयान्ति ॥ क्षणेन तामेव गतिं प्रयान्ति महा हवे स्वां तनुमुत्सृजन्तः ॥ ३५ ॥ सर्वे च वेदाः सह षड्भिरंगैः सांख्यं च योगं च वने च वासः ॥ एतान्यगुणानैक एवातिदेशेत्संग्रामधन्वा स्वतनूं त्यजेद्यः ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु शूरगुणवर्णनो नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥ ॥ २६७ ॥ हंस उवाच ॥ अहिंसा सर्वधर्माणां धर्मः पर इहोच्यते ॥ अहिंसया तदाप्नोति यत्किञ्चिन्मनसेप्सितम् ॥ १ ॥ कीर्तिंश्च धनांश्चैव धर्मं प्राणिहिंसा तथैव च ॥ त्रिविद्यां वर्जयँल्लोकां ब्रह्मलोकं प्रपद्यते ॥ २ ॥ दाक्षिण्यं रूपलावण्यं सौभाग्यमपि चोत्तमम् ॥ धनं धान्यमथारोग्यं धर्मं विद्यां तथा श्रियः ॥ ३ ॥ राज्यं भोगांश्च विपुलांन्ब्राह्मण्यमपि चेप्सितम् ॥ अष्टौ चैव गुणान्वापि दीर्घ जीवितमेव च ॥४॥ अहिंसकाः प्रपद्यंते यदन्यदपि दुर्लभम्॥अहिंसकस्तथा जन्तुर्मांसवर्ज्यापि भवेत्तथा॥मासि मास्यश्वमेधेन यो यजेत शतं समाः।मांसानि च न खादेद्यः समं वा स्यान्न वा समम्॥ ५॥सदा यजति सत्रेण सदा दानं प्रयच्छति ॥ सदा तपस्वी भवति मधुमांसस्य वर्जनात्॥ ६॥सर्वदा न तत्कुर्युः सर्वदानानि चैव हि ॥ यो मांसमस्मान्मासाद्य सर्वमांसानि वर्जयेत् ॥ ८ ॥ दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् ॥ चतुर्व्रतमितन्निदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ॥ ९ ॥ तदा भवति लोकेऽस्मिन्प्राणिनां जीवितेषिणाम् ॥ विश्वास्यश्चोपगम्यश्च नहि हिंसारुचिर्यथा ॥ १० ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥ आत्मौपम्येन गन्तव्यमात्मविद्भिर्महात्मभिः ॥ ११ ॥ अहिंसा परमो धर्मः सत्यमेव द्विजोत्तमाः ॥ लोभाद्वा मोहतो वापि यो मांसा न्यत्ति मानवः ॥ १२ ॥ निर्गुणः स तु मन्तव्यः सर्वधर्मविवर्जितः ॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति ॥ १३ ॥ उद्विग्नवांश्च वसति यत्रयत्राभिभाज्यते ॥ धनेन क्रयिको हन्ति उपभोगेन खादकः ॥ १४ ॥ घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ भक्षयित्वा तु यो मांसं पश्चादपि निवर्त्तते ॥ १५ ॥ तस्यापि सुमहत्पुण्यं यः पापाद्विनिवर्त्तते ॥ राक्षसैर्वा पिशाचैर्वा डाकिनीभिर्निशाचरैः ॥ १६ ॥ तथान्यैर्नो भिभूयेत यो मांसं परिवर्जयेत् ॥ खेचराश्चावगच्छन्ति जीवतोऽस्य मृतस्य वा ॥ १७ ॥ पृष्ठतो द्विजशार्दूल यो मांसं परिवर्जयेत् ॥ तथान्यै र्नाभिभूयेत यो मांसं परिवर्जयेत् ॥ १८ ॥ चिताधूमस्य गन्धेऽपि मृतस्यापि निशाचराः ॥ क्रव्यादं विप्रणश्यन्ति यो मांसं परिवर्जयेत् ॥१९॥
वि० ध० तृ० खं० अ० २९० ॥४२३॥
शस्त्राग्निमृतुचौरैश्च सलिलाच्च तथा विषात् ॥ भयं न विद्यते तस्य तथान्यदपि किञ्चन ॥ २० ॥ न तैर्लोकान्नवाप्यंते ये लोका मांसवर्जिनाम् ॥ स दण्डी स च विक्रान्तः स यज्वा स तपस्यति ॥ २१ ॥ स सर्वलोकानाप्नोति यो मांसं परिवर्जयेत् ॥ न तस्य दुर्लभे किञ्चित्तथा लोकेऽथ भवेत् ॥ वरशापसमर्थश्च तथा स्यान्मांसवर्जकः ॥ २२ ॥ विमानमारुह्य शशाङ्कतुल्यं देवाङ्गनाभिः सहितो नृवीरः ॥ सुखानि भुक्त्वा सुचिरं हि नाके लोकानवाप्नोति पितामहस्य ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नामाष्टपृष्ट्यधिकद्विशततमोऽध्यायः ॥ २८८ ॥
हंस उवाच ॥ क्षमा धर्मः क्षमा सत्यं क्षमा शौचं क्षमा बलम् ॥ क्षमा यज्ञः क्षमा दानं क्षमा च परमं तपः ॥ १ ॥ आक्रुष्टस्ताडितो वापि परेषां यस्तितिक्षते ॥ तस्मात्सुकृतमादत्ते दुष्कृतं च प्रयच्छति ॥ २ ॥ यः क्षमावान्स धर्मात्मा शमयेच्च द्विजोत्तमाः ॥ आक्रोद्धारं निर्दहति स्वर्गलोकं च गच्छति ॥ ३ ॥ एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ॥ यदेनं क्षमया युक्तं त्वशक्तं मन्यते जनः ॥ ४ ॥ विज्ञेयः सोऽपि दोषोऽस्य द्विजेन्द्राः स महान् गुणः ॥ तस्मात्पुण्यसमादानाद् दुष्कृतस्य समर्पणात् ॥ ५ ॥ भूतः क्षमावान्पुरुषो ब्रह्मलोकं प्रपद्यते ॥ विमानेनार्कवर्णेन हंसयुक्तेन भस्वता ॥ ६ ॥ प्राप्नोति कामांस्त्विति चेह मुक्त्वा संवत्सराणां नियुतानि विप्राः ॥ सर्वसहः शान्तिपरो मनुष्यस्त्वन्तः क्षमावान्सततं नरः स्यात् ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्षमागुणवर्णनो नामैकोनसतत्यधिकद्विशततमोऽध्यायः ॥ २८९ ॥
हंस उवाच ॥ आनृशंस्यं परो धर्मो लोकेऽस्मिन्द्विजसत्तमाः ॥ तस्मादानृशम्यता भाव्यं कृतज्ञेन नरेण तु ॥ १ ॥ ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥ निष्कृति विर्हिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥ २ ॥ नरकान् विमुच्यन्ते ये कृतघ्ना नराधमाः ॥ आभूतसंप्लवं घोरा नात्र कार्या विचारणा ॥ ३ ॥ तिर्यग्योनौ हि जायन्ते दुःखवासं वसन्ति च ॥ लभन्ते न क्वचित्त्राणं तथा प्रेते नराः ॥ ४ ॥ एतावानेव पुरुषः कृते यस्मिन्न नश्यति ॥ कृतज्ञः स्वर्गमाप्नोति कृतघ्नो विन्दते महत् ॥ ५ ॥ प्रभुं वा यदि वा भृत्यं विप्रं गुरुमथापि वा ॥ आपन्ने न त्यजेद्यस्तु स तु नाके महीयते ॥ ६ ॥ समृद्धं यस्तु संसेव्य दरिद्रं यो विमुञ्चति ॥ स नृशंसतमो लोके नरो नरकभाजनम् ॥ ७ ॥ न त्यजेत नरो भृत्यं स्वर्गेह गतयौवनम् ॥ असमर्थं तु वार्धक्ये त्यक्त्वा नरकमाप्नुयात् ॥ ८ ॥ कुञ्जरन्तुन्नरं वृद्धं धेनुं दान्तमथापि वा ॥ यस्त्यजेत्स सुदुर्बुद्धिर्नरंकं प्रतिपद्यते ॥ ९ ॥ नाद्रियन्ते पशून्बद्धा यवसेनोदकेन वा ॥ यथावद् द्विजशार्दूलास्ते नरा निरयङ्गताः ॥ १० ॥ अचिकित्स्येन रोगेण गृहीतं स्वगृहे पशुम् ॥
चिकित्स्यं न त्यजेदेनं यावज्जीवं द्विजोत्तमः ॥ ११ ॥ तस्य त्यागादवाप्नोति मानवो नरकं ध्रुवम् ॥ समृद्धं स्वामिनं यस्तु सेवित्वा पुरुषाधमः ॥ असंवृद्धं त्यजेत्पश्चाद् ध्रुवं नरकमृच्छति ॥ १२ ॥ यो नरः क्लेशमाप्नोति हीनस्वामिसेवनात् ॥ तत्तत्पीडस्य विन्दितुं ब्रह्मलोकाय वै द्विजाः ॥ ॥ १३ ॥ कृतघ्नः पुरुषो लोके कृतज्ञः सर्वभाक्तथा ॥ कृतज्ञः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ १४ ॥ मातरं पितरं पुत्रं याज्यमृत्विज मेव च ॥ स्वामिनं च गुरुं भृत्यं बान्धवं पशुमेव च ॥ १५ ॥ भार्या वापि द्विजश्रेष्ठा न त्यजेन्मनसा क्वचित् ॥ एषां तु पतति त्यागे ध्रुवं नरकमृच्छति ॥ १६॥ न त्यजेत तथैवाग्निं नाभिसुप्तांस्तथैवच ॥ देवतानां तथा विप्रास्त्यक्त्वा नरकमृच्छति ॥ १७॥छायायां यस्य विश्रान्तो नरः स्यात्पादपस्य तु ॥ तस्मात्पत्रं न हिंसेत कृतज्ञत्वमनुस्मरन् ॥ १८ ॥ कृतज्ञो धृतिमाप्नोति कृतज्ञश्च तथा यशः ॥ कृतज्ञो नाकमाप्नोति ब्रह्मलो कमथापि वा ॥१९॥ कृतज्ञैर्वसुधा सर्वा धार्यते सुमहात्मभिः ॥ २० ॥ कृतज्ञ एव यजते कृतज्ञस्तप्यते तपः ॥ यज्वा दाता तथा शूरः कृतज्ञश्च तथा भवेत् ॥ कृतज्ञस्त्यजते प्राणान्मित्रकार्य्ये तथा ध्रुवम् ॥ २१ ॥ यो ब्रह्मलोकस्तपसा न शक्यः प्राप्तुं द्विजेन्द्रा महतः सुकृच्छ्रात् ॥ तं ब्रह्म लोकं हि नरः कृतज्ञः प्राप्नोति शीघ्रं न हि संशयोऽत्र ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीति प्रति हंसगीतासु कृतज्ञतागुणनिरूपणो नाम सप्तत्यधिकद्विशततमोऽध्यायः ॥२७०॥ हंस उवाच ॥ आचारः स्वर्गजनन आचारः कीर्तिवर्धनः ॥ आचारश्च तथायु ष्यो धन्यो लोकसुखावहः ॥ १ ॥ सर्वलक्षणहीनोऽपि स सदाचारवान्नरः ॥ सर्वलक्षणलक्षण्योविद्वेयः पुरुषो वरः ॥२॥ आचारशिक्षिदो लोके सेवितव्यो विचक्षणैः ॥ श्रुतिस्मृत्युदितश्चैव सदाचारस्तथा परः ॥ आचारप्रभवं सौख्यं धनं च द्विजसत्तमाः ॥३॥ आचारयुक्तोऽब्रह्मविद् प्रयाति आचारावान्न भवत्यरोगः ॥ आचारवानेव चिरन्तु जीवदाचारवानेव भुनक्ति लक्ष्मीम् ॥ ४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे सुनीति प्रति हंसगीतास्वाचारवर्णनो नामैकसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७१ ॥ हंस उवाच ॥ शौचं देवाः प्रशंसन्ति शौचं ब्रह्मर्षि यस्तथा ॥ शौचयुक्तेन यद्दत्तं तदश्नन्ति दिवौकसः ॥१॥ सर्वेषामेव धर्माणां शौचं वा फलभागभवेत् ॥ शौचवानेव पुरुषो यथेष्टांङ्गतिमाप्नुयात् ॥ २ ॥ शरीरशौचं जलमृद्दिक्रतमलेशौचन्तु मनः प्रमाष्टिं ॥ मनो विशुद्धं पुरुषस्य यस्य स लोकमाप्नोति पितामहस्य ॥ ३ ॥ इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सुनीति प्रति हंसगीतासु शौचवर्णनो नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७२ ॥
वि० ध० ॥४२२॥ बृ० पुं० अ० २७४
॥ हंस उवाच ॥ तीर्थानुसरणं शौचं तीर्थानुसरणं तपः ॥ तीर्थाम्भोभिर्नराः पूता यान्ति नाक्रमसंशयम् ॥ १ ॥
तीर्थानुसरणं पुण्यं चाध्वना प्राप्यतेऽन्नरैः ॥ अध्वना क्षीणपापस्तु त्रिदिवं प्रतिपद्यते ॥ २ ॥
पाप्मनां पापशमनं विद्यते तपसा विना ॥ विद्यापघ्ना तथा तुल्यं विद्यते यत्प्रकीर्तितम् ॥ ३ ॥
बहुप्रकरणा यज्ञा नानासम्भारविस्तराः ॥ न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ॥ ४ ॥
दरिद्रैरप्यथा प्राप्तुं शक्यं यज्ञफलं द्विजाः ॥ तीर्थानुसरणं कृत्वा तस्मात्तीर्थपरो भवेत् ॥ ५ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ६ ॥
पापानां पापशमनं धर्मवृद्धिस्तथा सताम् ॥ विशेषैः सेवितं तीर्थं तस्मात्तीर्थपरो भवेत् ॥ ७ ॥
ये सामग्र्यो धनोपेतास्तीर्थानुसरणे रताः ॥ तेषां यज्ञफलावाप्तिर्नापि धनसंचयैः ॥ ८ ॥
सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम् ॥ तीर्थं फलप्रदं ज्ञेयं नात्र कार्या विचारणा ॥ ९ ॥
कार्यान्तरेण यो गत्वा स्नानं तीर्थे समाचरेत् ॥ तीर्थयात्राफलं तस्य नास्ति स्नानफलं ततः ॥ १० ॥
अध्वानं क्लेशाद्दुःखेन तीर्थयात्राफलं भवेत् ॥ तीर्थानुसरणं पद्भ्यां तपः परमिहोच्यते ॥ ११ ॥
तदैव कृत्वा यानेन स्नानमात्रफलं लभेत् ॥ यस्यान्ये कुरुते शक्त्या तीर्थयात्रां तथा नरः ॥ १२ ॥
यानासनाभ्यां च तथा फलं तस्य चतुर्गुणम् ॥ तीर्थानुसरणं कृत्वा क्षेत्रमुपविजेन्द्रियः ॥ १३ ॥
फलं प्राप्नोति विप्रेन्द्रास्तीर्थाद्दशगुणं भवेत् ॥ छत्रोपानहहीनस्तु तथा शतगुणं लभेत् ॥ १४ ॥
छत्रोपानहहीनस्तु भैक्ष्याशी विजितेन्द्रियः ॥ महापातकजैर्घोरैः क्षिप्रं पापैर्विमुच्यते ॥ १५ ॥
न भैक्ष्यं पक्वपक्वे तु न च भैक्ष्यं प्रतिग्रहः ॥ सोमपानसमं भैक्ष्यं तस्माद्भैक्ष्यं समाचरेत् ॥ १६ ॥
लोकैस्मिन्द्विविधस्तीर्थः स्वच्छन्दो निन्दितस्तथा ॥ पुष्क राद्यास्तु ये तीर्थाः स्वप्रभावमहत्तराः ॥ १७ ॥
तेषां तीर्थप्रभावेण कूतः पूतः प्रतिग्रहः ॥ कण्वाश्रमाद्या ये तीर्थाः कण्वादीनां प्रभावतः ॥ १८ ॥
पुण्यास्ते कथिता लोके पापघ्नाः पुण्यवृद्धिदाः ॥ द्विपकारस्य तीर्थस्य सेवा ज्ञेया महाफला ॥ १९ ॥
ये तीर्थसेवानिरता द्विजेन्द्रास्ते पापहीना दिव्यमान्नुवन्ति ॥ तत्रोच्य काले सुचिरं सुखन्ते मानुष्यलोके सुखमाप्नुवन्ति ॥ २० ॥
इति श्रीधर्मोत्तरे तृ०क०मार्कण्डेयवज्रसंवादे सुनन्प्रीति हंसगीतासु तीर्थफलवर्णनो नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७३ ॥
हंस उवाच ॥ बहुप्रकरणा यज्ञा नानासम्भारविस्तराः ॥ न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ॥ १ ॥
दरिद्रैरप्यथावाप्तुं शक्यं यज्ञफलं द्विजाः ॥ सदोपवासनिरतैरस्तस्मादुपवसेन्नरः ॥ २ ॥
यावन्मासोपवासस्तु तावत्तप इहोच्यते ॥ अनशनक्रमं ऊर्ध्वं द्विजातीनां प्रकीर्तितम् ॥ ३ ॥ षष्ठकाला-
॥४२२॥
...शने शुद्धे तपः परमिहोच्यते ॥ वर्णसंकरजातीनां दिनमेकं प्रकीर्तितम् ॥ ४ ॥ षट्कालात्परं शुद्धस्तपः कुर्याद्यथा क्वचित् ॥ रात्रौ हानि- स्तदा ज्ञेया राज्ञश्चापद्रवो महान् ॥ ५ ॥ शूद्रस्तु षट्कालांशी यावच्छक्त्या तपश्चरेत् ॥ मासोपवासाद्गार्ग्यात्तथा शक्त्या द्विजोत्तरेत् ॥ ६ ॥ नास्ति गङ्गासमं तीर्थं नास्ति कृष्णसमा गतिः ॥ गायत्रीसदृशो जप्यो होमं व्याहृतिभिः समम् ॥ ७ ॥ अन्तर्जले तथावाप्तिः पापक्ष- मयमर्पणात् ॥ अहिंसासदृशं पुण्यं दानात्संसवनं परम् ॥ ८ ॥ एवमेव द्विजा नास्ति तपो नानशनात्परम् ॥ उपवासैः प्रततानां दूर्ध्वं सुखम- नन्तरम् ॥ ९ ॥ उपवासतपःशीला नाकेलोकमुपागताः ॥ मोदन्ते त्रिदशैः सार्धं यथा देवगणास्तथा ॥ १० ॥ पापानां पापशमनं सतामी- प्सितकामदम् ॥ उपवासो विनिर्दिष्टो विशेषाद्देवताश्रयः ॥ ११ ॥ उपवासप्रसक्तानां प्रसादसुमुखाः सुराः ॥ यथेच्छमपि जायन्ते नात्र कार्या विचारणा ॥ १२ ॥ वासुदेवमपाश्रित्य नरः सम्यगुपोषितः ॥ अनन्तफलमाप्नोति त्यजन्तः संयतो हरिः ॥ १३ ॥ वासुदेवमपाश्रित्य ब्राह्मणे- र्येकपोषितम् ॥ तेनापि न निवर्तन्ते समुद्धृत्य श्वापगाः ॥ १४ ॥ उपोषिता ये विधिवन्मनुष्यास्ते नाकमासाद्य सुरोपमानाः ॥ देवाङ्गनाभिः सहिता मनुष्या भवन्ति लोके गतसर्वदुःखाः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनिन्प्रति हंसगीतसुपवासफ- लवर्णनो नाम चतुःसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७४ ॥ हंस उवाच ॥ मनःसमाधियुक्तैस्तैर्हंसांनुसारणाफलम् ॥ प्राप्नोति सुमहाद्विप्रास्तथा सम्यगुपोषितः ॥ १॥ सर्वं एव मनुष्यस्य सर्वकर्मसु साधकम् ॥ मनसा तु विशुद्धेन यद्यदाचरते नरः ॥२॥ न तद्बहुफलं तस्य भैक्ष्यं चेह च जायते ॥ मनो हि परमं भूतं तच्छौचे प्रयतेत्सङ्गी ॥ मनःशौचयुतो जन्तुर्नरकं न प्रपद्यते ॥ नाकेलोकमवाप्नोति त्यथ वा परमे पदम्॥४॥ गुणैस्तु सह यो वासो गतदोषस्य मानदाः ॥ उपवासस्स विज्ञेयो न शरीरस्य शोषणम्॥५॥ निर्मले सुसुखे शुद्धे सत्यकूले महाह्रदे ॥ स्नातव्यं मानसे तीर्थे तद्धि तीर्थमनुत्तमम् ॥ ६॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणमच्युताः ॥ यमो वैवस्वतो देवो यस्त्वैष हृदि स्थितः ॥ आत्मनश्श्वाविवादश्चेन्मा गङ्गां मा कुरुन्गमः ॥७॥मनो लाघवदं कर्म सततं तु समाचरेत् ॥ सर्वाणि तस्य पुण्यानि भवन्त्यभ्यधिकानि तु ॥८॥ मनःशौचसमायुक्तो यानि मर्त्यो निषेवते॥मन एव मनुष्यस्य पूर्व्वरूपाणि शंसति॥९॥ मन एव विजानाति कर्मणो गुरुलघवम्॥आस्त्यं शौचं शौचं शौचं शारीरमेव च॥ १०॥ सर्वाणि तस्य शौचानि यस्य शुद्धं मनः सदा ॥ मनःशुद्धिविहीनस्य सर्वं शौचा निरर्थकाः ॥११॥ न तु सा कृत्रिमा शक्या कर्तुं नास्तिक्य- वर्जितैः ॥ यस्य दोषपरित्यक्तं गुणाधीनं सदा मनः ॥ १२ ॥ स एव यजते यज्ञैः स एकस्तपते तपः ॥ स एकः सर्वमाप्नोति यत्किञ्चिन्मनसे
तृ० खं०
अ० २७७
वि० ध०
॥४२३॥
च्छति। तत्प्रसिद्धिः सर्वशौचानां मनःशौचं परं स्मृतम् ॥ १३॥ आत्मा नदी पुण्यतया सुतीर्था सत्योदका धृतिकूला दयोर्मिः॥ यस्यां स्नातः पूयते पुण्यकर्मा तीर्थं ह्यात्मा नित्यसंभोग एव ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्व्रति हंसगीतासु मनःशौचनिरूपणो नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७५ ॥ हंस उवाच ॥ अश्रद्धान्वितेन मनसा यत्किञ्चित्कर्मसमाचरेत् ॥ तत्तदल्पफलं तस्य जायते लोकयोर्द्वयोः ॥ ॥ १ ॥ श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ देवश्रद्धा नरा देवाः कथिता देवयाजिनः॥२॥पितृश्रद्धाश्च पितरो दैत्ये श्रद्धा दितैः सुताः॥ पापश्रद्धास्तथा पापा विज्ञेया नरकङ्गमाः ॥ ३॥ तस्माच्छ्रद्धां समास्थाय धर्मं धर्म समाचरेत् ॥ बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ आस्तिक्यभावमास्थाय नरः श्रद्धासमन्वितः ॥ ४ ॥ नित्यं पुण्यानि कुर्वीत पापानि परिवर्जयेत् ॥ पुण्यं बहुफलं तस्य श्रद्दधानास्थाय यत्कृतम् ॥५ ॥ श्रद्धा पवित्रं परमं हि लोके श्रद्धा शरीरं पुरुषस्य चोत्तमम् ॥ श्रद्धां समास्थाय नरश्च कृत्वा पुण्यानि पुण्यां गतिमाप्नुवन्ति ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु श्रद्धाफलवर्णनो नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥ हंस उवाच ॥ नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥ १ ॥ पञ्च पिण्डान्समुद्धृत्य स्नातव्यं परवारिणि ॥ अतोनैमित्तिको कार्यों उष्णोदकपरोदकैः ॥ तृतीयं च परस्नानं यदुक्तं मलकर्षणम् ॥ २ ॥ पञ्च पिण्डान्समुद्धृत्य स्नातव्यं परवारिणि ॥ अतोऽन्यथा नरः स्नातो दुष्कृतांशेन लिप्यते ॥ ३ ॥ स्नातः शुद्धिमवाप्नोति न तु स्नानफलं नरः ॥ उद्धृत्य पञ्च पिण्डानि स्नातोऽपि परवारिणा ॥ ॥४॥ वहितस्ताम्बुना स्नातो नामोति स्नानजं फलम् ॥ स्नातः शुद्धिमवाप्नोति कर्मण्यश्चैव जायते ॥५॥आत्मात्मानपुण्येषु तीर्थेषु सागरेषु च ॥ सरित्स्वपि च दिव्यासु तथा प्रस्रवणेष्वपि ॥ ६॥ धर्मार्थमाचरेत्स्नानं तेन नाके महीयते ॥ तोयालाभे तथाऽशक्त्ये नित्यस्नैर्मित्तिकावुभौ ॥ ७ ॥ मलकर्षणं स्नानं तृतीयं च समाचरेत् ॥ शुद्धिममात्रमवाप्नोति ततोदकपरोदकैः ॥ ८॥ स्रवन्ति रात्रौ छिद्राणि छतस्य पुरुषस्य तु ॥ तस्मात्कल्यमुत्थाय स्नानं नित्यं समाचरेत् ॥९॥ क्रियानैष्फल्यमाप्नोति स्नानहीनः समाचरन् ॥ यथाकथञ्चित्कुर्वीत स्नानं नित्यमतो बुधः ॥ १० ॥ स्नातस्तु तर्पणं कृत्वा देवानां पितृभिः सह ॥ स्नातो भवति धर्मात्मा नान्यथा स्नात उच्यते ॥ ११ ॥ सूतके मृतके स्नातो न कुर्यात्तिलतर्पणम् ॥ सूतके तर्पणं कुर्यान्मुक्तस्त्वर्कस्य पण्डितः ॥ १२॥ स्नातः शौचमवाप्नोति स्नानं तुष्टिकुरं परम् ॥ बाह्यमाभ्यन्तरं दोषं स्नानेन प्रणुदत्यपि ॥ १३ ॥ दुःस्वप्नशमनं स्नानं चामङ्गल्यप्रणाशनम् ॥ मङ्गल्यजननं मुख्यं मनःशौचकरं परम् ॥ १४ ॥ नाप्नोति नारकं दुःखं
नित्यस्नायी नरोत्तमः ॥ बुद्धिबुद्धिकरं स्नानं ज्ञानं सौभाग्यवर्धनम् ॥ १५ ॥ अलक्ष्म्याः शमनं स्नानं ज्ञानं दरिद्रनाशनम् ॥ प्रातः क्रियासमर्थः तथा भवति मानवः ॥ १६ ॥ शिरसा तु विना स्नातौ न स्नातः परिकीर्तितः ॥ कल्पेदसमर्थः स्नाने तु प्राप्ते भोजनकर्मणि ॥ १७ ॥ ध्रुवं समाचरेत्स्नानं स्वर्गमार्गप्रदर्शकम् ॥ शिरःस्नातस्तु कुर्वीत दिव्यं पित्र्यं द्विजोत्तम ॥ १८॥ दिव्यपित्र्याणि कर्माणि नास्नातस्तु समाचरेत् ॥ विनापि तीर्थसलिलाद्देवे पित्र्ये च कर्मणि ॥ १९ ॥ सदा समाचरेत्स्नानं देहशुद्धिकरं परम् ॥ स्नानादेव परं पुण्यं तीर्थस्नातः समश्नुते ॥ २० ॥ भूमिष्ठमुदकं पुण्यं तस्मात्प्रस्रवणोदकम् ॥ ततश्च नैर्झरन्तोयं नैर्झरादपि सारसम् ॥ २१ ॥ सारसाद्धि नादेयं तस्मात्साधुपरिग्रहम् ॥ सैंधव्यश्च तथा पुण्यं कथितं जाह्नवीजलम् ॥ २२॥ गङ्गाप्लवाज्ञा दिवि देवभोगाञ्छुभांश्चिरं प्राप्य मनुष्यभावम् ॥ भवन्ति लोके शुचिनः सुतृप्ता यशोन्विता धर्मपरा विबुद्धाः ॥२३॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे दुर्लभोत्पत्ति हंसगीतासु स्नानवर्णनोनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः॥२७७॥ हंस उवाच ॥ जप्यं सिद्धिकरं लोके द्विजानां परिकीर्तितम् ॥ जप्येन सिद्धिमाप्नोति विशेषेण द्विजोत्तमाः॥ १॥ जप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः ॥ कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २ ॥ दर्भासने सुखासीनस्त्वथ वापि कुशासने¹ ॥ जप्यं समाहितः कुर्यादथ वापि समुत्थितः ॥ ३ ॥ पूर्वोत्तराभिमुखः सूर्यस्याभिमुखोऽपि वा ॥ दर्भपाणिर्द्विजश्रेष्ठो ज्ञात्वा धर्मस्य निश्चयम् ॥ ४ ॥ ऋषिं मन्त्रस्य विज्ञाय च्छन्दो दैवतमैव च ॥ विनियोगं जपं कुर्यादन्यायन्यं मन्ददेवताम् ॥ ५ ॥ नातिद्रुतेन कर्तव्यं न चैवातिविलम्बितम् ॥ वर्णांस्तुचारयेत्सर्वाञ्जप्यकाले द्विजोत्तमाः ॥ ६ ॥ मन्त्रभावं तथोद्दिश्यान्यथाशक्ति हृदान्वितः ॥ स्वाध्यायस्तु भवत्युच्चैरूपांशुर्जप्य उच्यते ॥ ७॥ मनसा तु तथा जाप्यं तस्माद्दशगुणं स्मृतम् ॥ अक्षसूत्रैस्तु कर्तव्यो रुद्राक्षैर्द्विजसत्तमाः ॥ ८॥ पद्माक्षैर्वा महाभागास्त्वथ वा पुत्रजीविकैः ॥ मुक्ताफलैर्विद्रुमेण रुक्मेण स्फटिकेन वा ॥९॥ कुशगुणेन वा विप्राः सम्यग्ग्रंथिमता सता ॥ गणनं वा तथा कुर्यात्स्वंगुलिपर्वभिः ॥१०॥ एवं कृत्वा द्विजा जप्यमवश्यं मन्ददेवताम् ॥ आराध्य तु तदाप्नोति यद्यदिच्छति चेतसा ॥ ११ ॥ जपेन सिद्धिमाप्ताथ ब्रह्मलोकमवाप्नुयात् ॥ जपेन मुच्यते पापाज्जप्येन त्रिदिवं व्रजेत् ॥ १२ ॥ जप्येन मोक्षमाप्नोति तस्माज्जप्यपरो भवेत् ॥ अकामकं जपेन ध्रुवं मोक्षमवाप्नुयात् ॥ १३॥ कामक मस्तदाप्नोति यं कामं मनसेच्छति ॥ संसिद्धा ऋषयः सर्वे जप्येनैव द्विजोत्तमाः ॥१४॥
¹ 'दिव्यासने' इति ख० पुस्तके।
वि० ध० ॥ ४२४ ॥ तृ० खं० अ० २८१ ॥ ४२४ ॥
जप्यं पवित्रं परमं द्विजानां जपेन पापं सकलं जहाति ॥ जपेन लोकांल्लभते त्वभीष्टान्जप्येन मोक्षं लभते द्विजातिः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे सुनीतौ हंसगीतासु जप्यवर्णनो नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७८ ॥ हंस उवाच ॥ कृत्वा जलनिमग्नस्तु मन्त्रजापं द्विजोत्तमः ॥ फलमक्षयमवाप्नोति मुच्यते सर्वकिल्बिषैः ॥ १ ॥ मन्मन्तर्जले जप्यं ध्यायता मन्त्रदेवताम् ॥ नरं मोचयते पापान्महापातकादपि ॥ २ ॥ अन्तर्जलेनाथ विधूतपापा द्विजास्तु नाकं ध्रुवमेव यान्ति ॥ जले निमग्नेन ततस्तु यत्नान्मन्त्रस्य जापः पुरुषेण कार्यः ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीतौ हंसगीतास्वन्तर्जले जप्यवर्णनौ नामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ॥ २७९ ॥ ॥ हंस उवाच ॥ ॥ रेचकं पूरकं चैव कुम्भकं च तथा द्विजाः ॥ एकद्व्यत्र्यश्वौ विज्ञेयः प्राणायामो महाफलः ॥ १ ॥ आददानस्तु यः श्वासं मंत्राध्यायन्मनाश्चरेत् ॥ मनसा ब्राह्मणश्रेष्ठ! रेचकं तत्प्रकीर्तितम् ॥ २ ॥ श्वासं सन्धार्य कुर्वाणो न च त्यजन् ॥ पूरकं तद्दिनिर्दिष्टं सर्वकल्मषनाशनम् ॥ ३ ॥ मंत्रस्य देवतांध्यानां प्राणायामं तथा चरेत् ॥ प्राणायामात्परं नास्ति द्विजातीनां तथा तपः ॥ ४ ॥ निरोधाज्जायते वायुस्ततस्त्वग्निः प्रजायते ॥ ततस्तु सलिलं देहे पूयते तैर्द्विजन्मिनः ॥ ५ ॥ आकेशांतं नखाग्रं स्वं तप्स्यते परमं तपः ॥ यत्तु कुर्याद् द्विजश्रेष्ठः प्राणायाममतन्द्रितः ॥ ६ ॥ न तत्पुण्यमवाप्नोति तीर्थानुसरणाद्द्विजाः ॥ न यज्ञेन तथा कृच्छ्रैः प्राणायामाद्यदाप्नुयात् ॥ ७ ॥ प्राणायामपरा विप्राः सर्वनिर्धौतकल्मषाः ॥ त्रिदिवं प्रतिपद्यन्ते मोक्षं वा मनसेप्सितम् ॥८॥ प्राणायामेन नश्यन्ति महापातकजान्यपि ॥ घोराप्येतानि धर्मज्ञाः प्राणायाममतोऽभ्यसेत् ॥ ९ ॥ एतत्पस्तपरं द्विजानां पापापहं पुण्यविवृद्धिकारि ॥ मोक्षप्रदं वा पुरुषोत्तमानां तस्मात्प्रयत्नेन समाचरेत्तत् ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीतौ हंसगीतासु प्राणायामवर्णनो नामाशीत्युत्तरद्विशततमोऽध्यायः ॥२८०॥ हंस उवाच ॥ विषयेभ्यः प्रवृत्तस्य चेतसो विनिवर्तनम् ॥ प्रत्याहारं विनिर्दिष्टं परमेतत्तपः स्मृतम् ॥१॥ अत्यन्तचञ्चलं चित्तं तस्य संयमनं द्विजाः ॥ प्रत्याहारेण कर्तव्यं पुरुषेण विपश्चिता ॥२॥ प्रत्याहृत्य नरश्चेतः कामेभ्यो द्विजसत्तमाः ॥ कामानां भाजनं लोके मोक्षस्य च तथा भवेत् ॥३॥ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः॥ निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥४॥ प्रत्याहारं यथा कुर्यात्तन्मे शृणुतचेतसो नरः ॥ यथाकाममवाप्नोति मोक्षोपायं च विन्दति ॥५॥ चञ्चलं हि मनो विप्राः प्रमाथि बलवद्दृढम् ॥ तस्य यत्नं समास्थाय कर्तव्यो निग्रहो बुधैः ॥६॥ यद्यत्र चेत भ्रमति द्वेष्यञ्च परमं नरः॥तावन्न शक्तो भवति प्रत्या-
हरस्य वै द्विजाः ॥७॥ जन्ममृत्युजराव्याधिदुःखशोकार्दितं जगत् ॥ पश्यन्निव्र्वस्तदा विप्रा वैराग्यात्सिद्धिमाप्नुयात् ॥ ८ ॥ अनित्यतां तथा पश्यञ्जगतोऽस्य पुनः पुनः ॥ वैराग्यभावमास्थाय ततः सिद्धिमवाप्नुयात् ॥ ९॥ देवतानामृषीणां च राज्ञां भूतगणस्य च ॥ दृष्ट्वा क्षयं महाभागा विरक्तो विप्रमुच्यते ॥ १०॥ गर्भवासे महद्दुःखं नरके च पुनः पुनः ॥ तिर्यग्योनौ च मातुश्च तिर्यक्कामो विमुच्यते ॥ ११ ॥ दिवसेदिवसे क्लिन्नो परान्नेषु च यो द्विजाः ॥ वैराग्यमाप्नोति तथा क्लिन्नो मूत्रपुरीषयोः ॥ १२॥ दुःखान्नं तु प्रतीघाते सुखमित्येव भाविते ॥ दुःखेभ्यः स्वल्पकालेन यः खिन्नः स विर- ज्यते ॥ १३ ॥ विरागमास्थाय ततः प्रत्याहारमतिन्द्रियतः ॥ कामेष्वभ्यस्यतः कुर्यात्तैन सर्वं समश्नुते ॥ १४ ॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ॥ तद्वत्कामा यं प्रविशन्ति सर्वं स शान्तिमाप्नोति न कामकामी ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र- संवादे मुनीन्प्रति हंसगीतासु प्रत्याहारवर्णनो नामैकाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८१॥ ॥ हंस उवाच ॥ ॥ एकत्र समवस्थानां बाह्ये द्रव्ये तु चेतसः ॥ धारणा सा विनिर्दिष्टा मनसो बन्धकारिका ॥ १ ॥ सा कार्या देवतायाञ्च यत्रास्य स्यात्स्थिरा मतिः ॥ एकत्र लब्ध्वा लक्ष्यं तु मनसश्चञ्चलस्य तु ॥ २ ॥ तूर्यविवरणं यत्नान्मनोऽनुग्रहकारणात् ॥ अथ वा लक्ष्यबन्धन्तु भुवि कार्यं विजानता ॥ ३ ॥ लब्धलक्ष्यस्तु भूयोगे महद्योगं समुत्सृजेत् ॥ लब्धलक्ष्यो नरः कुर्यान्नरास्तेजसि सप्तमाः ॥ ४ ॥ समुत्सृज्य ततो वायो ततो नभसि कारयेत् ॥ क्रमस्तस्त्वैव मारूढ लक्ष्यं लक्ष्यतया नरः ॥ ५ ॥ बाह्येषु धारणां कृत्वा मनसः सिद्धिमश्नुते ॥ मनसश्चञ्चलस्यास्य यावद्वन्धनधारणा ॥ ६ ॥ तावद्ध्यान- मथारूढं न शक्यं केनचिद्विजाः ॥ धारणां निश्चलां प्राप्य ततो ध्यानमवाप्नुयात् ॥ ७ ॥ शरीरं विजहात्येनं यत्र बद्धा तु धारणा ॥ प्राप्नो- ति तन्मयीभावं नात्र कार्या विचारणा ॥ ८ ॥ संप्राप्य धारणां मुक्त्वा शरीरं मनुजोत्तमः ॥ कालान्मोक्षमवाप्नोति ध्यानाच्छीघ्रमिति स्थितिः ॥ ९ ॥ प्राप्तस्तु यन्मयीभावं धारणास्थः पुमांस्ततः ॥ स यदा पुरुषं याति तदा स प्रतिपद्यते ॥ १० ॥ ध्रुवं मोक्षमवाप्नोति धारणां प्राप्य मानवः ॥ किन्तु कालेन महता ध्यानाच्छीघ्रमिति स्थितिः ॥ ११ ॥ सर्वलोके तथा ज्ञेया बाह्यद्रव्यविनाशनाः ॥ तेषान्तु धारणा कार्या मनोग्रहणकारणम् ॥ १२ ॥ संप्राप्य मनसो बन्धं निश्चलं पुरुषोत्तमः ॥ धारणाद्योगतस्तस्माद्ध्रुवं मोक्षमवाप्नुते ॥ १३ ॥ यदस्य नित्यं हृदि संस्थितं स्यात्तत्स्यात्तद्भाव्य हि मृत्युकाले ॥ यद्भावयत्येव हि मृत्युकाले भवत्यवशं स हि तन्मयस्तु ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय- खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धारणावर्णनो नाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः ॥२८२॥ हंस उवाच ॥ द्रव्ये तु धारणा बाह्ये
वि० ध० ॥४२६॥ तृ० खं० अ० २८४
धारणा परिकीर्तिता ॥ सैव चेतसि निर्दिष्टा ध्यानेति मनुजोत्तमाः॥१॥ अधोमुखं हृत्कमले कर्णिकायां द्विजोत्तमाः॥ ध्यानं सूर्यस्य कुर्वीत तेजोग्रा र्शोविचक्षणः ॥२॥रविमध्ये स्थितः सोमो सोममध्ये हुताशनः॥ तेजोमध्यस्थे स्थितं सत्त्वं तेजसोद्योतितप्रभम्॥ ३॥ तन्मध्ये भगवान्विष्णुः परमात्मा सनातनः ॥ अच्युतः पुरुषो नित्यं सर्वव्यापी महेश्वरः ॥४॥सूक्ष्मात्सूक्ष्मतरं पश्येत्तेजोमूर्ति दुरासदम्॥ ध्यानयोगेन तं दृष्ट्वा सिद्धिमाप्नोति मानवः ॥ ५॥ स्वस्तिकं सर्वतोभद्रं पर्यकं कमलासनम् ॥ तेषामेकतमं बद्ध्वा योगासनमतन्द्रितः ॥६॥ ऊरुमूले तथानिय तिर्यग्भौ च समौ करो ॥ कृत्वोत्तानौ द्विजश्रेष्ठा वामस्योपरि दक्षिणम् ॥७॥ किञ्चिदाकुञ्चिताङ्गुष्ठौ कर्तव्यौ च तथा करौ ॥ तेन चोत्थाप्य विस्तीं कृत्वा बाहू परिख्यौ ॥ ॥ ८ ॥ पृष्ठगौ योजयेत्तत्कन्धे द्वेसमुन्नामयन्सुधीः ॥ निष्कम्पां सुदृढां ग्रीवां शिरः कार्यं समं तदा ॥ ९ ॥ स पश्यन्नासिकाग्रं स्वं दिशश्वान वलोकयन् ॥ किञ्चिन्निमील्य नयने सर्वं बाह्यं समुत्सृजेत् ॥ बाह्यं सर्वं परित्यज्य परमात्मानमात्मना ॥ १० ॥ हृत्पद्म कर्णिकामध्ये तेजस्तेजसि चार्पितम् ॥ दृष्ट्वा पुरुषमीशानं सर्वबन्धैः प्रमुच्यते ॥ ११ ॥ प्रत्याहारंण मनसः कृत्वा नियमनं पुरा ॥ धारणाञ्चब्बलक्षस्तु ध्यानमारोहते नरः ॥ १२ ॥ इन्द्रियाणां जयं कृत्वा मनः संयम्य चाप्यथ ॥ विजित्य च तथा वायुं ध्यानमारोहते नरः ॥ ध्यानारूढस्त दामोति यत्र गत्वा न शोचति ॥ १३ ॥ निशावसाने च तथा प्रदोषे ध्यानेन यत्नः पुरुषेण कार्यः ॥ ध्यानेन दृष्ट्वा पुरुषं परं तु विमुक्तदेहः सकलत्वमेति ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ध्यानवर्णनो नाम त्र्यशीत्युत्तरद्वि शततमोऽध्यायः ॥ २८३ ॥ ॥ हंस उवाच ॥ ॥ अथ ध्यानसुपारूढो समाधिं मनसो लभेत् ॥ न किञ्चिच्चिन्तयेत्पश्चात्तस्मात्सिद्धिं प्राप्य मानवः ॥ १ ॥ शब्दस्पर्शरसैर्हीनं गन्धरूपविवर्जितम् ॥ तं परं पुरुषं विद्वायन गत्वा न शोचति ॥ २ ॥ शून्यं ध्यानपरं विप्राः समाधिरिति कीर्त्यते ॥ तन्तु प्राप्य नरैश्शक्यैर्निमितैश्चैत कर्हिचित् ॥ ३ ॥ समाधितः परं नास्ति सुखं किञ्चिज्जगत्त्रये ॥ समाधिस्यश्च दुःखेन गुरुणापि न चाल्यते ॥ ४ ॥ शङ्खानि शतशस्त्वस्य वाद्यन्ते यदि कर्णयोः ॥ भेर्यश्च यदि हन्यन्ते शब्दं बाह्यं न विन्दति ॥ ५ ॥ तथा प्रहारमभिहतो वहिद्द्रग्गतनुस्तथा ॥ शीते स्थितोऽतिघोरेऽपि स्पर्शं बाह्यं न विन्दति ॥ ६॥ जले गन्धे रसे बाह्ये तादृशस्य तु का कथा ॥ दृष्ट्वा य अस्मानमात्मानं समाधिं लभते पुनः ॥ ७ ॥ तृष्णा वाथ बुभुक्षा वा न तं धावति कर्हिचित् ॥ अपि सन्त्यजस्तृष्णांमुञ्जा नस्य पश्यतः ॥ ८ ॥ एकमेव स निर्वेदं विजानाति नरोत्तमः ॥ समाधितः समुत्थानं तेन तप्स्यत्यसौ भृशम् ॥ ९ ॥ न स्वर्गे न च पाताले ॥४२४॥
मानुष्ये च न तत्सुखम् ॥ समाधिं निश्चलं प्राप्य यत्सुखं विन्दते नरः ॥१०॥ समाधिं पुरुषः प्राप्य त्यक्त्वा देहनिबन्धनम् ॥ व्याप्नोति सकलाँल्लोकाँस्त्रैलोक्यं सचराचरम् ॥११॥ तच्च व्याप्नोति पुरुषस्त्रैलोक्यादपि यद्वहिः ॥ अनन्तत्वमवाप्नोति समाधिं प्राप्य मानवः ॥१२॥ जन्ममृत्युजराव्याधिशोकदुःखादिवर्जितः ॥ सर्वगः सर्वसंहारी सर्वेन्द्रियगुणात्मकः ॥१३॥ सर्वत्र सर्वदा विप्राः स तस्यां नात्र संशयः ॥ पुरुषत्वमथाभ्येति सर्वशक्तित्वमेति च ॥ १४ ॥ संयम्य चेतः खलु धारणासु ध्यानं समाहृत्य ततस्तु पश्चात् ॥ समाधिमास्थाय परेण पुंसा तुल्यत्वमायाति महानुभावः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु समाधिवर्णनो नाम चतुरशीत्युत्तरद्विशततमोऽध्यायः ॥ २८४ ॥
ऋषय ऊचुः ॥
स्थानस्य महतः प्राप्तौ यन्मूलं द्विजसत्तम ॥ तदस्माकं समाचक्ष्व सर्वं प्रत्यक्षलक्षणम् ॥ १ ॥
हंस उवाच ॥
प्राप्नुवंति नराः सर्वे व्यवसायपुरःसराः ॥ व्यवसायाच्चिद्वितीयानां नास्ति लोके सुदुर्लभम् ॥ २ ॥ व्यवसायः परो बन्धुः सहायस्तदनंतरम् ॥ तेन युक्तः पुमान्सम्यक्प्राप्नोतीति विनिश्चितम् ॥ ३ ॥ धर्मे चार्थे च कामे च मोक्षे च ऋषिसत्तमाः ॥ भाजनन्तु सदा ज्ञेयो नरस्तु व्यवसायवान् ॥ ४ ॥ व्यवसायविहीनानां स्वल्पोऽप्यर्थोऽस्ति दुर्लभः ॥ व्यवसायविहीनानामलसानां दुरात्मनाम् ॥ ५ ॥ करप्राप्तोऽपि सहसा क्षिप्रमर्थो विनश्यति ॥ व्यवसायविहीनस्तु स्थाणुना नातिरिच्यते ॥ ६ ॥ तस्मान्नरा ये व्यसनाय युक्तास्ते कामभाजः कथितास्तु लोके ॥ तेषामयं चैव परश्च लोकस्तेषां तथा मोक्षपथो न दूरे ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु व्यवसायवर्णनो नाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८५ ॥
हंस उवाच ॥
सर्वकर्मप्रधानस्य व्यवसायस्य मानदाः ॥ मूलमेकं विनिर्दिष्टं संकल्पो नात्र संशयः ॥ १ ॥ संकल्पमूलः कामो वै ज्ञानं संकल्पबन्धनम् ॥ संकल्पबन्धना वेदा धर्मः सङ्कल्पबन्धनः ॥ २ ॥ संकल्पबन्धनश्चार्थो मोक्षः संकल्पबन्धनः ॥ संकल्पबन्धनं सर्वं जगदेतच्चराचरम् ॥ ३ ॥ आदौ निश्चित्य यत्कर्म मनसा बुद्धिमान्नरः ॥ युनक्ति व्यवसायेन पश्चाज्ज्ञेयः स पंडितः ॥ ४ ॥ यावन्तो निश्चितास्त्वर्था मनसा केनचित्क्वचित् ॥ तावन्न शक्यते कर्तुं संकल्पोऽतः परो मतः ॥ ५ ॥ संकल्पितानां मनसा तु पूर्वं सिद्धिः प्रदिष्टा व्यवसाययुक्ता ॥ कार्याणि सर्वाणि ततस्तु लोके संकल्पमूलानि वदंति सन्तः ॥ ६ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संकल्पनिर्वचनो नाम षडशीत्युत्तरद्विशततमोऽध्यायः ॥ २८६ ॥
ऋषय ऊचुः ॥
नैःश्रेयसपदावाप्तौ प्रत्याहारस्त्वथेरितः ॥ धारणाध्यानयोश्चाथ समाधिरपि चोत्तमा ॥ १ ॥ भूय एव त्वमाचक्ष्व नृणां संसारसारिणाम् ॥
वि० ध० ॥४२६॥ तृ० खं० अ० २८८
हितार्थमुत्तमं मार्गं लोकद्वयसुखावहम् ॥ २ ॥ हंस उवाच ॥ अग्निमूखं देवतानां सर्वभूतपरायणम् ॥ तस्य शुश्रूषणाद्देव सर्वान्कामान्समश्नुते ॥ ३ ॥ सा मूर्तिः परमा विष्णोस्तद्गतं प्राप्नुते रविः ॥ सूर्याद्दृष्टिस्ततस्त्वन्नमन्नाद्भवते जगत् ॥ ४ ॥ अर्चयन्प्रविणो देवा भौमास्तूर्ध्वं प्रवापिणः ॥ ऊर्ध्वप्रवापिणं मुख्यं भौमं दन्तं हुताशने ॥ ५ ॥ ॐकारं पूर्वमुद्दिश्य यांयां विप्रस्तु देवताम् ॥ हविर्जुहोति सा तस्य प्रीता भवति नित्यदा ॥ ६ ॥ वह्निर्दत्तेन हविषा तृप्तिमायान्ति देवताः ॥ तास्तृप्तास्तर्पयन्त्येनं नरं कामसमृद्धिभिः ॥ ७ ॥ सूर्ये होमः परः पुण्यस्तेन स्वर्गे महीयते ॥ तस्माद्दशगुणं पुण्यामधिगद्भिः प्राप्नुयाद्भुवि ॥ ८ ॥ तस्माद्दशगुणं सस्यैर्बलिभिर्द्विगुण ततः ॥ तावद्देव तथा पुण्यं होमे सिद्धार्थकैः स्मृतम् ॥ ९ ॥ यवैश्चातुर्गुणं तस्मात्तिलैर्दशगुणं ततः ॥ तावद्वै फलं ज्ञेयं बिल्वैर्दशगुणं ततः ॥ ॥ १० ॥ पद्मैश्च तावदेवोक्तं दशा क्षीरेण च द्विजाः ॥ परमान्नेन धर्मज्ञा घृतेनाष्टगुणं ततः ॥ ११ ॥ मन्त्रोद्धारपूतेन स्वाहान्तेन विचक्षणः ॥ स्वाहावसाने जुहुयाद्ध्यात्वैवं मन्त्रदेवताम् ॥ १२ ॥ यथा त्वङ्गुलिपर्वाणि पूर्यन्ते तावदाहुतिः ॥ अङ्गुष्ठमात्रं स्थौल्येन वितस्तिश्चैष्य इष्यते ॥ १३ ॥ दुःस्वप्नं च दुर्वारं च दुर्निमित्ते तथैव च ॥ नास्ति होमसमन्नाशं तथा पापविनाशनम् ॥ १४ ॥ होमेन पापं पुरुषो जहाति होमेन नाकं च तथा प्रयाति ॥ होमस्तु लोके दुरितं समग्रं विनाशयत्येव न संशयोऽत्र ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे सुनीतार्थे हंसगीतासु होमविधिवर्णनो नाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ॥ २८७ ॥ हंस उवाच ॥ देवाधीनाः प्रजाः सर्वा दैवायत्तमिदं जगत् ॥ सुखदुःखे मानुषाणां दैवायत्ते तथैव च ॥ १ ॥ दैवैर्विहितमश्नन्ति मनुष्यास्तु शुभाशुभम् ॥ तस्मात्सर्वप्रयत्नेन देवपूजा परो भवेत् ॥ २ ॥ देवाश्च भक्त्या तुष्यन्ति श्रद्धया परया तथा ॥ पूजिताः शुचिना चैव देवास्तुष्यन्ति नान्यथा ॥ ३ ॥ देवशुश्रूषया स्वर्गो देवशुश्रूषया सुखम् ॥ देवशुश्रूषया राज्यं मोक्षं चाप्यथ वाप्नुते ॥ ४ ॥ देवताः कामयन्तीह तथा भक्तं जनं सदा ॥ भक्तानुकम्पिनो देवाः परत्रेह तथा ध्रुवम् ॥ ५ ॥ त्राणं कुर्वन्ति भक्तस्य ध्रुवं देवा द्विजोत्तमाः ॥ देवतोपाशवाचेति यान्कामान्मनसेच्छति ॥ ६ ॥ जातप्रभृति यं देवं भक्त्या नित्यमथाचयेत् ॥ अन्तकाले तु संत्राप्ते सोऽपि त्राता भवेद् ध्रुवम् ॥७॥ किं वा पापविहीनस्य क्षिप्रं तुष्यन्ति देवताः ॥ तस्मात्पापं न कर्त्तव्यं नरेण त्रिदशाश्रयात् ॥ ८ ॥ देवाश्रितानां पापानां क्षिप्रं पापं विनश्यति ॥ नत्वेवं पातकं कर्म वृथा तेषां प्रजायते ॥ ९ ॥ तथा बहु फले लोके कथितं त्रिदशाश्रयम् ॥ सर्वान्समर्चयेद्देवान्नैकं वा देवमाश्रयेत् ॥ १० ॥ देवार्चा श्रद्धया कृत्वा ध्रुवं तल्लोकमाप्नुयात् ॥ कृत्वा देव
॥४२६॥
गृहं विप्रा नरस्तल्लोकमाप्नुयात् ॥ ११ ॥ परमाणूनि यावन्ति भवन्ति सुरवेश्मनः ॥ तावतोऽब्दानवाप्नोति तल्लोकान्नात्र संशयः ॥ १२ ॥ यावद्वारं करोतीह देववेश्म सुधोक्षितम् ॥ जन्मान्तराणि तावन्ति यशसा स विराजते ॥ १३ ॥ प्रतिपाद्य तथा भक्त्या ध्वजं त्रिदशवेश्मनि ॥ निर्धुन्वंस्तु पापानि महापातकजान्यपि ॥ १४ ॥ चित्रकर्म तथा कृत्वा गन्धर्वै सह मोदते ॥ देवमाल्यापनयनाद्रोगान्पापात्प्रमुच्यते ॥ १५ ॥ पापर्विर्मुच्यते सर्वैः प्रोक्षणाद्देववेश्मनः ॥ सम्मार्जनलतया पापं व्यपोहति न संशयः ॥ १६ ॥ कामानभीष्टानवाप्नोति देववेश्मप्रालपनात् ॥ सुधारसान्वितं कृत्वा मर्यादां नातिवर्तते ॥ १७ ॥ वर्णकैर्भिश्रितं कृत्वा सौभाग्यं महदाप्नुयात् ॥ गन्धर्लेपमवाप्नोति गन्धैरभ्युक्ष्य मानवाः ॥ १८ ॥ पुष्पौघैर्विकिरणं कृत्वा रूपवानभिजायते ॥ अभ्यज्य देवप्रतिमं सर्वैःपापैर्विमुच्यते ॥ १९ ॥ विरूक्षयित्वा तामेव पापेभ्यो विप्रमुच्यते ॥ औषधीभिस्तथा स्नाप्य नास्त्यैः सह मोदते ॥ २० ॥ लोके प्रजापतेर्याति दद्दुः संस्नाप्य देवताम् ॥ पुष्पोदकेन संस्नातात्सौभाग्यं महदृश्नुते ॥ २१ ॥ फलोदकेन संस्नाप्य सफलां विन्दते क्रियाम् ॥ नांगवल्लीजलैः स्नाप्य नागलोकं स गच्छति ॥ २२ ॥ रत्नोदकेन संस्नाप्याह्लादं लोकमाप्नुयात् ॥ गन्धोदकेन संस्नाप्य गन्धर्वैः सह मोदते ॥ २३ ॥ तीर्थोदकेन पूज्यन्तं स्वर्गलोकंमवाप्नुयात् ॥ तथामृतेलिप्य गन्धैश्च शक्रलोके महीयते ॥ २४ ॥ विष्वक्प्रणयदानेन राजा भवति भूतले ॥ २५ ॥ राजाङ्गप्रदानेन राजा भवति हि क्षितौ ॥ २६ ॥ वस्त्रदानेन लोकेऽस्मिन्सुन्दरस्त्वभिजायते ॥ देवं माल्यप्रदानेन परां लक्ष्मीं समश्नुते ॥ २६ ॥ धूपप्रदानेन तथा गतिमग्रयामवाप्नुयात् ॥ दीपदानेन चक्षुष्मान्प्रकाशैश्च जायते ॥ २७ ॥ उर्ध्वां गतिमवाप्नोति सर्वत्र च तथाप्यृताम् ॥ हव्यताभ्यस्तथा विप्रा निवेद्यान्नमतिन्दितः ॥ २८ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ पारितोषमथायाति देवता बलिकर्मणा ॥ २९ ॥ तस्त्वधास्तर्पणयंत्र्नं सर्वकामसमृद्धिभिः ॥ ह्यपानप्रदानेन तृप्तिमाप्नोति शाश्वतीम् ॥ ३० ॥ देवतानां नमस्कारात्किल्बिषापं प्रणश्यति ॥ तथैवाभ्यधिकं पापं प्रणिपातेन नश्यति ॥ ३१ ॥ ततोऽप्यभ्यधिकं किञ्चित्कृत्वा देव प्रदक्षिणाम् ॥ स्तुतिक्रिया देवतानां सर्वकामफलप्रदा ॥ ३२ ॥ गीतेन देवतास्तोषाद्रुपयान्ति द्विजोत्तमाः ॥ तथा वाद्येन नृत्येन पुरुषस्य विशेषतः ॥ ३३ ॥ नृत्तं गीतं तथा वाद्यं स्वयमाचरते द्विजाः ॥ देवसालोक्यमाप्नोति पुरुषस्य विपश्चितः ॥ ३४ ॥ वाचनादितिहासानां पापमोक्षमवाप्नुयात् ॥ मूर्त्यन कारयेद्धीमंतं गन्धर्वत्वमथाप्नुयात् ॥ ३५ ॥
^१ नागलोकंमवाप्नोति तथा पल्लववारिणा, इति ख० पा० ।
७२
वासं दत्त्वाऽथ धर्मज्ञं वसूनां लोकमश्नुते ॥ तेनेन लोकमाप्नोति शङ्करस्य महात्मनः ॥ ३६ ॥ इतिहासप्रदानेन बुद्धिमाञ्जायते नरः ॥ आहुतिं
देवमुद्दिश्य यो ददाति हुताशने ॥ ३७ ॥ स देवस्तर्पयत्येनं कामैर्वा तेन तर्पितः ॥ देवमुद्दिश्य विप्राणां यो ददातीह भोजनम् ॥ ३८ ॥ स देवः
प्रीतिमानन्य कामानिष्टानप्रयच्छति ॥ देवमुद्दिश्य यत्किञ्चिद्ब्राह्मणेभ्यः प्रदीयते ॥३९॥ तदेव प्राप्यते लोके प्रसन्ने त्रिदशे बहु ॥ यानं शय्यासनं
छत्रं पादुके चाप्युपानहौ ॥ ४० ॥ वाहनं गां च धर्मज्ञस्त्विहेशेभ्यो ददाति यः ॥ एकैकस्मादवाप्नोति वह्निधमफलं नरः ॥ ४१ ॥ दत्त्वा
फलानि देवेभ्यः सफलां विन्दते क्रियाम् ॥ निवेद्य सस्यानि तथा गतिमाप्नोत्यनुत्तमाम् ॥ ४२ ॥ नेति देवस्तथा प्रीतिं दानेहै
स्तैस्तथा फलैः ॥ प्रीतिमेति यथा विप्राः स्वाश्रितानान्तु पूजनैः ॥ ४३ ॥ देवता नैव तृप्यन्ति दानेन बहुधा द्विजाः ॥ यथा भक्त्या तु
तृप्यन्ति तस्माद्भक्तिं समाश्रयेत ॥ ४४ ॥ घृतपूर्णानि पात्राणि दत्त्वा श्राद्धे तथा नरः ॥ दीर्घ जीवितमाप्नोति न रोगैश्चाभिभूयते ॥ ४५ ॥
मधुपूर्णानि पात्राणि दत्त्वा सौभाग्यमाप्नुयात ॥ यथाशक्तिह्वित्पात्राणां दानाद्भवति सत्तमः ॥४६॥ पात्रं तु सर्वकामानां नात्र कार्या विचारणा ॥
पुष्पवृक्षप्रदानेन गृहमाप्नोति मानवः ॥ ४७ ॥ फलवृक्षप्रदानेन ग्रामस्याधिपतिर्भवेत् ॥ गृहप्रदानाद्भवति खेटकाधिपतिस्तथा ॥ ४८ ॥ गृहं
शय्यासनोपेतं यानवाहनसंयुतम् ॥ धनधान्ययुतं स्फीतं दासीदाससमाकुलम् ॥ ४९ ॥ सर्वकामयुतं रम्यं प्रदाय श्राद्धकर्मणि ॥ स्वर्गलोका
त्परिभ्रष्टो राजा भवति पार्थिवः ॥ ५० ॥ पितृबुद्धिश्च यद्दानं किञ्चिद्देव प्रपच्छति ॥ तस्याप्यधिकमाप्नोति पुण्यं तेषां प्रसादतः ॥ ५१ ॥ तस्या
ऽश्राद्धानि कार्याणि तीर्थष्वायतनेषु च ॥ दानानि चैव देयानि पितॄनुद्दिश्य शक्तितः ॥५२॥ श्राद्धेषु पृष्टिं मनुजा लभन्ते श्राद्धेन विप्रास्त्रिदिवं च
वासः॥ श्राद्धं प्रयत्नेन ततश्च कुर्यात्स्वकल्पसूत्राभिहितं यथावत् ॥५३॥ इति श्रीविष्णुधर्मोत्तरे तृ०खं० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु
पितृपूजाविधानं नामाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८८ ॥ हंस उवाच ॥ शुद्राणां दैवतं वैश्या वैश्यानां क्षत्रियास्तथा ॥ ब्राह्मणाः
क्षत्रियाणां च तेषामपि हुताशनः ॥ १ ॥ गृहदेवो ब्रह्मचारी नार्येश्च पतिर्देवताः ॥ गृहस्थोऽतिथिदेवस्त्यस्तस्मातं पूजयेत्सदा ॥ २ ॥ वैश्वदेवं गृहे
कृत्वा सायं प्रातः समाहितः ॥ पिण्डनिर्वपणं कृत्वा भिक्षां दत्त्वा तु भिक्षवे ॥३ ॥ सत्कृत्य भिक्षादानेन गोदानफलमाप्नुयात ॥ खूभ्यश्च श्वप
चेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ ४ ॥ गृहस्थमुपजीवन्ति प्रजाः स्थावरजङ्गमाः ॥ गृहस्थः पोषणं कुर्यान्तुस्तानां जीवतामपि ॥ ५ ॥ पोषणा
त्प्रियमेवेह तेन स्वर्गं महीयते ॥ कीटः पतङ्गः पतितः शत्रवो द्विजपुङ्गवाः ॥६॥ गृहिणा नावमन्तव्या वैश्वदेवे ह्युपस्थिते ॥ अतिथिं पूजयद्यत्ना
गृहस्थो गृहमागतम् ॥ ७ ॥ उत्थायास्य व्रजन्पूर्वं गोदानफलमाप्नुयात् ॥ आसनं च तथा दत्त्वा स्थानलाभं नरोत्तमः ॥ ८ ॥ कृत्वा च कुशलं प्रश्नं बुद्धिमाञ्चायते नरः ॥ पादशौचेन तस्याथ श्रान्तसंवाहनेन च ॥ ९ ॥ वीजनाच्चामरेणापि तालवृन्तेन वीजनात् ॥ पादाभ्यङ्गप्रदानेन दीपदा नेन वाच्यथ ॥ १० ॥ राज्ञो शयनदानेन तथा संवाहनेन च ॥ एकैकस्मादवाप्नोति गोदानफलमुत्तमम् ॥ ११ ॥ उपास्तेनं कथाभिश्च प्रशंसा भो गमाप्नुयात् ॥ संश्राव्य चेतिहासानि तथैनं च तदिच्छया ॥ १२ ॥ नाकलोकम्वाप्नोति गीतनृत्योत्सवादिभिः ॥ पूजयित्वा तथाऽश्नोति गन्धर्वत्वमसंशयम् ॥ १३ ॥ प्रतिश्रयप्रदानेन सर्वान्कामान्समश्नुते ॥ मृदं च दन्तकाष्ठं च दत्त्वा शौचोदकं तथा ॥ १४ ॥ काले यथासुखं दत्त्वा सौभाग्यं महदाप्नुयात् ॥ प्रताय्य चैनं शीतातं सर्वं सुखमश्नुते ॥ १५ ॥ अभ्यङ्गपूर्वकं दत्त्वा तस्य स्नानमतिर्द्रुतः ॥ आरोग्यरूपलावण्यधन धान्यमुपाश्नुते ॥ १६ ॥ दत्वा सालङ्कृवस्त्राणि ज्ञानानि द्विजसत्तमाः ॥ नासत्यलोकमाप्नोति नात्र कार्या विचारणा ॥ १७ ॥ सुगन्धीनि तथा दत्वा गन्धर्वैः सह मोदते ॥ कंकणस्य प्रदानेन सौभाग्यं महदश्नुते ॥ १८ ॥ अतिथिक्षालनात्पुण्यं दशगोदानजं भवेत् ॥ किमिच्छुकेन संयोज्य वाजपेयफलं लभेत् ॥ १९ ॥ स्वेच्छंतं च प्रदायास्य तदेवाक्षयमश्नुते ॥ सर्वशक्त्या नरस्तस्मादतिथिं पूजयेत्सदा ॥ २० ॥ तृप्तोऽतिथियस्य पुरुषस्य किञ्चिद्विचिन्तयत्येव महानुभावः ॥ तत्सर्वमाप्नोत्यचिरेण तस्मात्पूज्योऽतिथिर्धर्मपरेण नित्यम् ॥ २१ ॥ इति श्रीवि ष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वातिथिपूजा नामैकोननवत्यधिकद्विशततमोऽध्यायः ॥ २८९ ॥ ॥ हंस उवाच ॥ ॥ ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ॥ ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्त्रये ॥ १ ॥ अदेवं दैवतं कुर्युः कुर्युर्देवम दैवतम् ॥ ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः ॥ २ ॥ ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः ॥ ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्य तमाः सदा ॥ ३ ॥ एषामश्नन्ति वक्त्रेण देवताः पितरस्तथा ॥ ऋषयश्च महाभागाः किम्भूतमधिकं ततः ॥ ४ ॥ यदेव मनुजो भक्त्या ब्राह्म णेभ्यः प्रयच्छति ॥ तदेवाप्नोति धर्मज्ञा बहु जन्मनिजन्मनि ॥ ५ ॥ तालवृन्तानिलैनैवं श्रान्तसंवाहनेन च ॥ उन्मार्जनेन गात्राणां तथा प्यञ्जनकर्मणा ॥ ६ ॥ पादशौचप्रदानेन पादयोः शौचनेन च ॥ परिचर्यया यथाकाममेकेनैव द्विजोत्तमाः ॥ ७ ॥ अभिप्रेतमवाप्नोति स्वर्गं लोकं च गच्छति ॥ ब्राह्मणाज्ञां शुभां कृत्वा नाकलोके महीयते ॥८॥ यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥ तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः॥९॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ब्राह्मणस्तुत्या नाम नव
वि० ध० ॥४२८॥ तृ० खं० अ० २९१
त्यधिकद्विशततमोऽध्यायः ॥ २९० ॥ ॥ हंस उवाच ॥ गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥ यथा देवा यथा वेदा ब्राह्मणाश्च यथा द्विजाः ॥ १ ॥ तथा गावो विनिर्दिष्टाः सर्वलोकसुखावहाः ॥ एकैकं ब्राह्मणं ज्ञेयं तयोर्यज्ञः प्रतिष्ठितः ॥ २ ॥ विप्रेषु मन्त्रास्तिष्ठन्ति गोषु सन्तिष्ठते हविः ॥ गवां दानं द्विजश्रेष्ठा दुष्कृतान्यपकर्षति ॥ ३ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिंश्च पञ्चमम् ॥ पवित्रमेतन्निर्दिष्टं नराणां शोधनं परम् ॥ ४ ॥ मङ्गल्याश्च पवित्राश्च रक्षोघ्ना रोचनास्तथा ॥ तासां शुद्धोदकं विप्रा जाह्नवीसलिलोपमम् ॥ ५ ॥ गवां कण्डूयनान्मर्त्यः सर्वं पापं व्यपोहति ॥ तासां ग्रासप्रदानेन महत्पुण्यमवाप्नुयात् ॥ ६ ॥ तासां च प्रचरं कृत्वा तथैव सलिलाशयम् ॥ स्वर्गलोकेषुभास्यन्ति बहून्यब्दगणानि तु ॥ ७ ॥ तासां प्रचारभूमिं तु कृत्वा प्राप्नोति मानवः ॥ अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ ८ ॥ तासामावासथं कृत्वा नगराधिपतिर्भवेत् ॥ तथा लवणदानेन सौभाग्यं महदश्नुते ॥ ९ ॥ आतुरां पङ्कलग्नां वा चौरव्याघ्रभयार्दिताम् ॥ मोक्षयित्वा द्विजश्रेष्ठास्त्वश्वमेधफलं लभेत् ॥ १० ॥ तासामौषधदानेन विरोगस्त्वभिजायते ॥ विप्रमोच्य भयेभ्यश्च न भयं विद्यते क्वचित् ॥ ११ ॥ क्रीत्वा चण्डालहस्ताच्च गोमेधस्य फलं लभेत् ॥ गोपकस्त्वस्वस्य चान्यस्य क्रीत्वा हस्तात्तथैव च ॥ १२ ॥ कृत्वा शीतार्तत्राणं तासां स्वर्गमवाप्नुयात् ॥ उत्थितासूत्थितास्तिष्ठेद्गच्छन्तीरनुधावति ॥ १३ ॥ भुक्तवत्सु च चाश्रीयाज्जले पीते पिवेत्तु च ॥ गोमूत्रेणचरेत्स्नानं गोपुरीषात्तथा बुधैः ॥ १४ ॥ शरीरयात्रां कुर्वीत गोरसैश्च वा द्विजाः ॥ एतद्धि गोव्रतं मासार्त्सवकल्पमनाशनम् ॥ १५ ॥ एकां गां धारयेन्मासं दद्यात्तस्यास्तथा यवान् ॥ गोमयात्तान्समाश्रीय्यान्मासमेकमत्तः शुचिः ॥ १६ ॥ मासांते तां तथा धेनुं दद्याद्विप्राय भक्तिमान् ॥ ऋतमेतत्सुविद्दिष्टं सर्वकल्मपनाशनम् ॥ १७ ॥ राजसूयाश्वमेधाभ्यां ऋतमेतत्तथाधिकम् ॥ व्रतेनानेन चीर्णेन कामानिष्टानवाप्नुयात् ॥ १८ ॥ विमानेनार्कवर्णेन ब्रह्मलोकं च गच्छति ॥ विनापि गोप्रदानेन व्रतमेतन्महाफलम् ॥ १९ ॥ त्रिरात्रं सप्तरात्रं वा शक्तिं ज्ञात्वा तथा स्वकाम् ॥ गवां निहारंनिर्मुक्तैर्वृत्तिं कृत्वा तथा बुधैः ॥ २० ॥ पापमोक्षमवाप्नोति पुण्यं च महदश्नुते ॥ रजश्च गोखुरोद्धूतं सर्वकल्मषनाशनम् ॥ २१ ॥ पादशालात्तथादेशाद्वाह्यात्र कार्या विचारणा ॥ मङ्गल्यं च पवित्रं च तदलक्ष्मीविनाशनम् ॥ २२ ॥ गवां हि परिवासेन भूमिः शुद्धिंमवाप्नुयात् ॥ तद्धि शुद्धं यदा वेश्म यत्र तिष्ठन्ति धेनवः ॥ २३ ॥ तासांनिःश्वासवातेन परं नीराजनं भवेत् ॥ तासां संस्पर्शनं पुण्यं दुःस्वप्नाद्यविनाशनम् ॥ २४ ॥ ग्रीवमस्तकसंस्थौ तु तासां गङ्गा प्रतिष्ठिता ॥ सर्वदेवमया गावः सर्वतीर्थमयास्तथा ॥ २५ ॥ तासां रोमाणि पुण्यानि पवित्राणि तथा द्विजाः ॥ गोमयेनोपलिप्तं तु शुचि स्थानं प्रकीर्तितम् ॥ २६ ॥ अभ्यागारसुरा
॥४२८॥
गारान्गोमयेनोपलेपयेत् ॥ गोमये तु सदा लक्ष्मीः स्वयमेव व्यवस्थिता ॥ २७ ॥ गोमूत्रे च तथा गङ्गा दधिक्षीरघृतेषु च ॥ सदा व्यवस्थितं सोमं रोचनायां सरस्वती ॥ २८ ॥ विष्णुर्यह्वः समाख्यातः स च गोषु प्रतिष्ठितः ॥ तस्माद्गावो विनिर्द्दिष्ट्या विष्णुनेव पुरातनैः ॥ २९ ॥ पूज्यास्तास्तु नमस्यार्याः कीर्त्तनीयाश्च तास्तथा ॥ तासामाहारदानं च कार्यं शुश्रूषणं तथा ॥ ३० ॥ शुश्रूषणेऽथ गवां द्विजेंद्राः प्राप्नोति लोकानमलान्विशोकान् ॥ तस्मात्प्रयत्नेन गवां हि कार्यं शुश्रूषणं धर्मपरैर्मनुष्यैः ॥ ३१ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० मुनित्रये हंसगीतासु गोशुश्रूषा नाम कनवत्यधिकद्विशततमोऽध्यायः ॥ २९१ ॥
हंस उवाच ॥ यो दयावान्स पुरुषो निर्घृणो राक्षसो मतः ॥ राक्षसानामपि घृणा विद्यते द्विजसत्तमाः ॥ १ ॥ निर्घृणाः प्रतिपद्यन्ते घोरं नरकमञ्जसा ॥ वधबन्धपरिक्लेशान्मानुष्येऽथ लभन्ति ते ॥ २ ॥ व्याध्यार्त्ता दुःखिता दीना दरिद्राश्च भवन्ति ते ॥ दयान्विता विराजन्ते नाकमासाद्य मानवाः ॥ ३ ॥ तस्माद्दयावता भाव्यं तृणेष्वपि विपश्चिता ॥ तृणान्यपि सजीवानि तेषां कुर्यान्न पीडनम् ॥ ४ ॥ कीटे पतङ्गे च पशौ दया कार्या तथा मृगे ॥ वर्णोत्तमे वर्णहीने पतिते वर्णसङ्करे ॥ ५ ॥ सर्वत्रैव दया कार्या सर्वकामफलप्रदा ॥ व्रतानामपि सर्वेषां श्रेष्ठमेकं दयाव्रतम् ॥ ६ ॥ दुःखार्तं प्राणिनां किञ्चिद्दुःखान्मोक्षयते द्विज। ॥ बहुदिष्टमफलं प्रोक्तं नात्र कार्या विचारणा ॥ ७ ॥ परिचर्यां तथा कृत्वा सान्त्वयेत्प्राणिनो द्विजाः। ब्रह्मलोकमवाप्नोति दयावान्नेन कर्मणा ॥ ८ ॥ श्लेष्ममूत्रपुरीषाणां व्याधितस्याजुगुप्सकः ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ९ ॥ मृतस्य वाप्यनाथस्य न जुगुप्सन्ति ये नराः ॥ कुर्वन्ति चैव संस्कारांस्ते नराः स्वर्गगामिनः ॥ १० ॥ अग्निदाहाज्जलाच्छात्रात्तान्यस्मादुपद्रवात् ॥ प्राणिनो मोक्षणं कृत्वा स्वर्गलोके महीयते ॥ ११ ॥ बन्धनात्प्राणिनः कृत्वा मोक्षणं च तथा द्विजाः ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ १२ ॥ यथार्त्ताद्धि प्राणिनं दुःखाद्युक्तो मोक्षयेच्चित् । न तद्दुःखमवाप्नोति यत्रयत्राभिजायते ॥ १३ ॥ सर्वभूतेषु यो दानं चेतसत्त्वं च या दया ॥ सर्वस्वप्रदानाद्धि दया ज्ञेया महाफला ॥ १४ ॥ दयान्वितानां त्रिदशेन्द्रलोका दयान्वितानां च पितामहस्य ॥ दयान्वितानां च समस्तकामा लोकद्वये विप्रवरा प्रदिष्टाः ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दयावर्णनो नाम द्विनवत्यधिकद्विशततमोऽध्यायः ॥ २९२ ॥
॥ हंस उवाच ॥ ॥ दाक्षिण्यं परमं लोके नृणां संवननं परम् ॥ दाक्षिण्ययुक्तस्य तथा परेषां प्रियकारिता ॥ १ ॥ प्रियाण्याचरेते यस्तु परेषां मनुजोत्तमः ॥ समानोति प्रियाण्येन लोकेयोस्मिन्महोर्जसाः ॥ २ ॥ प्रत्यक्षं च परोक्षं च परेषामाचरेत्प्रियम् ॥ प्रियंण विप्रियं हंति प्रियंण प्रियमानुयात् ॥ ३ ॥ मृदुना दारुणं हन्ति मृदुना हंति मार्दवम् ॥ सर्व
| वि० ध० | तृ० खं० अ० २९६ |
|---|---|
| ॥४२१॥ | ॥४२१॥ |
हि मृदुना हन्ति तस्मात्तीक्ष्णतरो मृदुः ॥ ४ ॥ मृदोरिह वदान्यस्य देवा निघ्नन्ति शात्रवान् ॥ अभिचारः स शत्रूणां नरस्य मृदुता तथा ॥५॥ नरेण मृदुना दग्धा मार्दवेनाभितस्तु ये ॥ न प्ररोहंति ते विप्रा बीजा दग्धा यथा तथा ॥ ६ ॥ दाक्षिण्यमेकं सुभगत्वाहेतुर्दक्षिण्यमेकं त्रिविधस्य हेतुः ॥ दाक्षिण्यमास्थाय जयेद्धरन्तीन्दाक्षिण्ययुक्तस्तु सदा भवेच्च॥७॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दाक्षिण्यवर्णनो नाम त्रिनवत्यधिकदिशततमोऽध्यायः ॥ २९३ ॥ हंस उवाच ॥ ॥ संरोहतीषुभिर्विद्धं वनं परशुना हतम् ॥ वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ १ ॥ मित्राणि यांति शत्रुत्वं नरस्याप्रियवादिनः ॥ अनर्थाः स्वयमयायांति मृतो नरकगच्छति ॥ २ ॥ तस्माद्वाच्यं मनुष्येण स्मितपूर्वाभिभाषिणा ॥ प्रत्यक्षं च परोक्षं च सर्वथा प्रियभाषिणाम् ॥ ३ ॥ मित्रतं यांति रिपवो नराणां प्रियभाषिणाम् ॥ रक्षांस्यपि निगृह्यन्ते पुरुषैः सान्त्ववादिभिः ॥ ४ ॥ प्रियवाक्यात्परं लोके नास्ति संवननं परम् ॥ प्रियो भवति लोकानां प्रियवादी तथा नरः ॥ ५ ॥ प्रियप्रदानां सकलं जगदेतत्तिस्थतं वशे ॥ प्रियवदानां शत्रुत्त्वे नास्ति कश्चिज्जगत्त्रये ॥ ६ ॥ प्रियंवदाः सौम्यमिहाप्नुवंति प्रियंवदा नाकमथ प्रयांति ॥ प्रियंवदाः सर्वमथानुवंति प्रियंवदः स्यादत एव नित्यम् ॥७॥इति श्रीविष्णुधर्मोत्तरे तृ०खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रियवद्प्रशंसा नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥ २९४ ॥ हंस उवाच ॥ अलसानां मनुष्याणां सदा दुःखं दरिद्रता ॥ आलस्यं पातकं लोके आलस्यं श्रुतिनाशनम् ॥ १ ॥ नार्चिच्छन्ति मोक्तव्यमलसा ये नराधमाः ॥ अलसानां मनुष्याणां प्राप्नोत्यर्था विन श्यति ॥२॥ तस्मात्त्रित्यं मनुष्येण दाक्ष्यं कार्यं विजानता ॥ दक्षः सर्वमवाप्नोति यत्किञ्चिन्मनसेच्छति ॥ ३ ॥ धर्मे चार्थे च कामे च मोक्षे च द्विजसत्तमाः ॥ भाजनं सर्वकालेषु दक्ष एव सदा नरः॥४॥ अकृष्य दक्षः क्लेशेषु विमुक्त्वामपि च श्रियम् ॥ स्वीकरोति महाभागा दक्षं सर्वं प्रतिष्ठि तम् ॥ ५ ॥ उत्थानधीरः पुरुषो वाग्विगीनधितिष्ठति ॥ उत्थानधीरं वाग्धीरा रमयन्त उपासतै ॥ ६ ॥ उत्थानवानेव दिवं प्रयाति उत्थानवानेव परं पदञ्च ॥ उत्थानवानेव नरो 'जयी स्यात्तस्मात्सदोत्थानपरेण भाव्यम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु उत्थानप्रशंसा नाम पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ २९५ ॥ ऋषय ऊचुः ॥ बहिर्विदि त्वमाचक्ष्व पुण्यान्यस्माकमच्युत ॥ त्वया हि ज्ञानदानेन भूय एव स्म वर्धिताः ॥ १ ॥ हंस उवाच ॥ पानीयमेतत्कलं त्रैलोक्यं सचराचरम् ॥ विकारः सलिलस्येदं स्थावरं जङ्गमं तथा ॥२॥ पानीयेन विना वृत्तिर्लोके नास्तिह कर्हिचित् ॥ कृमिकीटपतङ्गानां जलमेव परायणम् ॥ ३ ॥
यत्रोदकं तत्र सुराः सर्व एव प्रतिष्ठिताः ॥ यत्रोदकं तत्र तथा ऋषयश्च महाव्रताः ॥ ४ ॥ दुर्लभं तच्च लोकानां परलोके द्विजोत्तमाः ॥ उदकेन विना वृत्तिर्नास्ति लोकेऽद्य सदा ॥ ५ ॥ तदा जलाशयाः कार्याः पुरुषेण विपश्चिता ॥ अग्निष्टोमसमः कूपस्तत्त्वशंषमंसमं सरः ॥ ६ ॥ कूपः प्रवृत्तपानीयस्त्वधं हरति दुष्कृतम् ॥ कूपकृत्स्वर्गमासाद्य देवभोगान्समश्नुते ॥ ७ ॥ तत्रापि भोगवैकल्यं स्थानाभावान्नचात्र कीर्तितम् ॥ दशकूप समा वापी तथा च परिकीर्तिता ॥ ८ ॥ कृत्वा तडागं च तथा वारुणं लोकमश्नुते ॥ दशवर्षसहस्राणि नलवन्मात्रं द्विजोत्तमाः ॥ ९ ॥ तत्रापि पुण्य माप्नोति स्थानत्यागात्तथा बहु ॥ गवां प्रचारे तत्कृत्वा गोलोकं प्राप्नुयाद् ध्रुवम् ॥ १०॥ शक्रलोकमवाप्नोति तडागकरणात्पथि ॥ मरी तडागे पानीयं यस्य तिष्ठति वै द्विजाः ॥ ११॥ विमानेनानर्कवर्णेन ब्रह्मलोकं स गच्छति ॥ प्रावृट्काले तु पानीयं तडागे यस्य तिष्ठति ॥ १२ ॥ अग्नि ष्टोमफलं तस्य पुरुषस्य प्रकीर्तितम् ॥ द्वादशाहे फलं तस्य शरत्काले तु यस्य वै ॥ १३ ॥ गोमवस्य तु हेमन्ते फलं प्राप्नोति मानवः ॥ पौण्ड रीकफलं तस्य शिशिरे यस्य तिष्ठति॥ १४॥वाजपेयफलं तस्य वसन्ते यत्र च द्विजाः ॥ अश्वमेधफलं तस्य निदाघे यस्य तिष्ठति ॥ १५ ॥ सस्यानां सेचनाथाय नदीवाहे तथा कृते ॥ अश्वद्तः प्राणदश्च त्राणदश्च तथा भवेत् ॥ १६॥ भगीरथस्य लोकांस्तान्समवाप्नोत्यसंशयम् ॥ पानी यशोधनं कृत्वा प्रदेशे देवनिर्मिते॥१७॥ पुरुषः फलमाप्नोति दशगोदानजं द्विजाः ॥ दानपापाणरुचितं सुखसेव्यञ्जलाशयम् ॥ १८ ॥ पुराणं मानवः कृत्वा नाकलोके महीयते ॥ प्रणालिकानां करणात्तृप्तिमाप्नोत्यनुत्तमाम् ॥ १९ ॥ महत्पुण्यमवाप्नोति तथा कृत्वामलं जलम् ॥ तृष्णाप नोदनं कृत्वा चैकस्यापीह देहिनः ॥ २० ॥ महत्फलमवाप्नोति नाकलोके च मोदते ॥ स्वबाहुखातं यः कुर्यात्तडागं मतिमान्नरः ॥ २१ ॥ नत्वात्फलमवाप्नोति राजसूयाश्वमेधयोः ॥ नदीस्नानमवाप्नोति स्नानसेतुर्जलाशये ॥२२॥ बहुलोते ततः (नरः) स्नातो गङ्गास्नानमवाप्नुयात्॥ सरस्तु पुण्यं यः कुर्यात्किञ्चित्तस्य जलाशये॥पुण्यांशभागी भवति यस्य तद्धि जलाशयम्॥२३॥प्राप्नोति तृप्तिं परमां मनुष्यो लोकांस्तथाश्यान्स लिल्लार्थिपश्य ॥ जलाशयेऽल्पेऽपि कृते द्विजेन्द्रास्तस्मात्तु कार्यं सलिलं नुलोके ॥ २४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० संवादे पुनी न्तरिति हंसगीतासु जलाशयनिर्माणो नाम षण्णवत्यधिकद्विशततमोऽध्यायः ॥ २९६॥ हंस उवाच ॥ वृक्षसंरोपणान्मत्र्त्यो महत्फलमुपाश्नुते ॥ गुल्मवल्लीलतानां च रोपणात्पुरुषो द्विजाः ॥१॥ प्रत्येकं फलमाप्नोति गोदाने यत्प्रकीर्तितम् ॥ अभिधेयमवाप्नोति पुष्पवृक्षस्य रोपणात् ॥ २॥ पौण्डरीकमवाप्नोति फलवृक्षस्य रोपणात् ॥ आराममपि यः कुर्यात्तरेषां नामकारणात् ॥ ३ ॥ तथा हरितकार्थं च सोऽश्विमेधफलं लभेत ॥
वि० ध० । बृ० सं० ॥४३०॥ । अ० २४७
पुष्पारामं नरः कृत्वा देवतार्थं मनोहरम् ॥ ४ ॥ देवोद्यानेषु सर्वेषु नन्दनादिषु मोदते ॥ यथाकामं विहारी स्यान्रात्र कार्या विचारणा ॥ ५ ॥ फलारामं ततः कृत्वा विन्दत्यभ्यधिकं फलम् ॥ कृत्वा द्रुमशतारामं सोऽश्वमेधफलं लभेत् ॥ ६ ॥ फले दशशतारामे लक्षारामे च कल्पधृक् ॥ चम्पकं मल्लिकां जातीं श्रेष्ठाः पुष्पकरा मताः ॥ ७ ॥ अन्योऽधिकमवाप्नोति दत्त्वैतानात्र संशयः ॥ गुल्मेषु कथिता श्रेष्ठौ तथोभौ भव्यदा- डिभौ ॥ ८ ॥ पथि श्रेष्ठतमो विप्र्रा वटश्वाश्वत्थ प्रकीर्तितौ ॥ नारङ्गदानाद्भवति नरो रूपसमन्वितः ॥ ९ ॥ बीजपूरकदानेन सौभाग्यं महदाप्नु- यात् ॥ दत्त्वा पालेवताभौ तु तृप्तिमाप्नोत्यनुत्तमाम् ॥ १० ॥ आम्राम्रातकप्रदानेन सर्वकामानवाप्नुयात् ॥ लक्षारामं तु यः कुर्याद्ब्राह्मणाणिह मानवः ॥ ११ ॥ देवोद्यानेषु रम्येषु क्रीडत्यमरसन्निभः ॥ अप्सरोगणः परिवृतो न च तस्मान्निवर्तते ॥ १२ ॥ एकोऽपि रोपितो वृक्षः पुत्रकार्यं करो भवेत् ॥ देवान्प्रसूनैः प्रीणाति छायया चातिथिंस्तथा ॥ १३ ॥ फलैर्मनुष्यान्गृह्णाति नारक्यं नास्ति पादपे ॥ अपि पुष्पफलैर्हीने द्रुमे पान्थस्य विश्रमः ॥ १४ ॥ छायायां स्तोककालेन बहुपुण्यं प्रयच्छति ॥ देवे वर्षति यद्वृक्षात्प्रेमवत् स्रवते जलम् ॥ १५ ॥ तेन तृप्तिमवाप्नोति परलोकेगतो ध्रुवम् ॥ १६ ॥ तेन नाकभवाप्नोति वृक्षरोषयिता नरः ॥ १६ ॥ सेचनादपि वृक्षस्य रोपितस्य परेण तु ॥ महत्फलमवाप्नोति नात्र कार्या विचारणा ॥ १७ ॥ वृक्षायुर्वेद्विधिना व्याधितंस्तु यथाक्रमम् ॥ नीरुजं मानवः कृत्वा स्वर्गलोकमवाप्नुयात् ॥ १८ ॥ शीतवातातपक्लेशं तथा छेदनभेदनै ॥ सहन्ते परमं वृक्षास्तद्धि तेषां महत्त्पः ॥ १९ ॥ पत्रपुष्पफलैर्नित्यं छायया चैव शाखिनः ॥ परेषापुपयुज्यन्ते तद्धि तेषां महत्तपः ॥ २० ॥ तेषां सदा दया कार्या भक्तिः कार्या तथैव च ॥ यस्तेषां भक्तिमाश्रित्य तस्य सा वन्द्वता ॥ २१ ॥ तोषयामा- ति परं तथा कामान्प्रयच्छति ॥ वानस्पत्यं तथा लोकं देहेमद्दे समश्नुते ॥ २२ ॥ वानस्पत्ये शुभे लोके सर्वकामैव शालिताम् ॥ शरीरं यत्तत्प्रतिष्ठन्तं देवता नात्र संशयः ॥ २३ ॥ याः प्रोक्तास्त्वभिमानिन्यः परां शोभामथास्थिताः ॥ याम्यलोके तथा लोके वानस्पत्यं प्रकीर्तितम् ॥ २४ ॥ यमलोकमुपासन्ते सर्वास्ता द्रुमदेवताः ॥ द्रुमारोपयितारं च परलोकमुपागतम् ॥ २५ ॥ दिव्येन गीतनृत्येन रमयन्त उपासिते ॥ रोपितस्य द्रुमस्येह यथा भवति देवता ॥२६॥ याम्ये तु फलदा लोके तथा लोके तु वारुणे ॥ देवता स्यामहाभागाः कृते पुण्ये जलांशये ॥ २७ ॥ कृते शक्तिं तथा सम्प्रब्रह्मलोके तथा द्विजाः ॥ क्षिप्रेमेव महाभागा जायन्ते शाखिदेवताः ॥ २८ ॥ शाखे जलाशय वृक्षं सुवेश्म तथैव च ॥ मृतस्यापि मनुष्यस्य शरीरमिह कीर्तितम्॥२९॥ कीर्त्यते येन चान्येन मानवः स्वर्गमाप्नुयात् ॥ तत्तत्कार्यं मनुष्येण स्वर्गमत्याममीच्छता॥३०॥
॥४३०॥