याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
४६० याज्ञवल्क्यस्मृतिः अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥ ९९ ॥ कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशष्कुली, कर्णपत्रकौ कर्णपाल्यौ, कर्णौ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ, ककुन्दरे जघनकूपकौ, वङ्क्षणौ जघनोरुसंधी, वृक्कौ पूर्वोक्तौ, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिप्रोथौ, बाहू प्रसिद्धौ, जङ्घोरुषु च पिण्डिका जङ्घयोरुवोश्च पिण्डिका मांसलप्रदेशः, गल- शुण्डिके हनुमूलगलयोः सन्धी, शीर्षं शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः 'अवटुः'इति पाठे कृकाटिका; तथाऽक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयमिति वर्णचतुष्टयम् । यद्वा अक्षिपूटचतुष्टयम् । शेषं प्रसि- द्धम् । एवमेतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगलं कर्णयुग्मं— नासाविव- रह्वयमास्यं पायुरुपस्थमित्येतानि पूर्वोक्तानि नव छिद्राणि च प्राणस्याय- तनान्येव ॥ ९६-९९ ॥ भाषा—आँख की पुतलियाँ, अक्षिकूट ( आँखों एवं नाक की सन्धि ), शष्कुली ( कानों का भीतरी खण्ड ), दोनों कर्णपत्रक ( बाहर से दिखाई पड़ने वाले कान ), दोनों कान, दोनों शङ्खक, दोनों भौंहें, दोनों दन्तवेष्ट ( मसूड़े ), दोनों ओठ, ककुन्दर ( जघन के दो गड्ढे ), दोनों वङ्क्षण ( जंघा और ऊरु के जोड़ ), वृषण ( अण्डकोश ), दोनों वृक्क, श्लेष्मा से बने हुए दोनों स्तन, उपजिह्वा ( घण्टिका ), दो स्फिज् ( कटिप्रोथ ), बाँहें, जाँघों और ऊरुओं की पिण्डिका, तालु उदर, पेडू, चिबुक ठुड्डी ), गलशुण्डिका, ( ठुड्डी और गले का जोड़ ), शिर, शरीर में निम्न प्रदेश ( जैसे कण्ठमूल, कांख आदि ), दो आंखों के चार वर्ण, पैर, हाथ और हृदय तथा नौ छिद्र ( दो आँखें, दो कान, नाक के दो छिद्र, मुख, पायु, उपस्थ ) — ये सभी प्राण के निवासस्थान हैं ॥ ९६-९९ ॥ शिराः शतानि सप्तैव नव स्नायुशतानि च । धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ १०० ॥ किंच, शिरा नाभिसंबद्धाश्चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकल- कलेवरव्यापिन्यो नानाशाखाः सत्यः सप्तशतसंख्या भवन्ति । तथाऽङ्गप्रत्यङ्ग- संधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेरुद्भूताश्चतुर्विंशति- संख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनर्मांस- लाकारा ऊरुपिण्डकाद्यङ्गसंधिभ्यः पञ्चशतानि भवन्ति ॥ १०० ॥ १. अक्षिवर्त्मचतुष्कं ।
[Header] प्रायश्चित्ताध्यायः ४६१
भाषा—( वात-पित्त-श्लेष्मवाहिनी ) शिराएँ सात सौ हैं; अस्थियों की बांधने वाली स्नायुएँ, धमनियां ( प्राणवाहिनी नाड़ियां ) दो सौ और पेशियां पांच सौ होती हैं ॥ १०० ॥ पुनस्तासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्तरमाह— एकोनत्रिंशल्लक्षाणि तथा नव शतानि च । षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥ १०१ ॥ शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशल्लक्षाणि तथा नवश- तानि षट्पञ्चाशच्च भवन्तीत्येवं हे सामश्रवःप्रभृतयः मुनयः ! जानीत ॥१०१॥ भाषा—( हे मुनियो ) शिरा और धमनियां मिलकर ( अपनी शाखाओं एवं उपशाखाओं के भेद से ) उन्नीस लाख नौ सौ छप्पन होती हैं, इसे जानिये ॥ १०१ ॥ त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ १०२ ॥ किंच, १ शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं विज्ञेयम् । अस्थ्नां तु द्वे संधिशते स्नायुशिरादिसन्धयः पुनरनन्ताः ॥ १०२ ॥ भाषा—मनुष्यों के दाढ़ी-मूँछ और शिर के केश कुल मिलाकर बालों की संख्या तीन लाख समझनी चाहिए । एक सौ सात मर्मस्थल होते हैं और दो सौ अस्थियों के जोड़ होते हैं ॥ १०२ ॥ सकलशरीरसुषिरादिसंख्यामाह— रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च । सप्तषष्टिश्चतथा लक्षाः सार्धाः स्वेदायजैः सह ॥ १०३ ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः । यद्यप्ये३कोऽनुवेत्त्येषां४ भावानां चैव संस्थितिम् ॥ १०४ ॥ पूर्वोदितशिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतमरूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच्च शास्त्रदृष्ट्याभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य । इम- मतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः ! भवतां मध्ये यः कश्चिदनु- वेत्ति सोऽपि महान् अग्र्यो बुद्धिमताम् । अंतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥ १०३–१०४ ॥
१. लक्षाश्च । २. केशश्मश्रु शरीरिणाम् । ३. एको नु वैदैषां । ४. वैदैषां ।
४६२ याज्ञवल्क्यस्मृतिः भाषा-स्वेदायतों (त्वचा पर पसीना निकालने वाले सूक्ष्म छिद्रों) के रोओं को मिलाकर चौवन करोड़, सड़सठ लाख, पचास हजार रोएँ हैं। इनकी गिनती वायु के परमाणुओं द्वारा पृथक्-पृथक् किये जाने पर ही होती हैं। यदि आप लोगों (मुनियों) में कोई व्यक्ति इसे जानता है तो वह महान् है, क्योंकि इन्हें बुद्धिमान् व्यक्ति ही यत्नपूर्वक जान सकता है ॥१०३-१०४॥ शारीररसादिपरिमाणमाह- रसस्य नव विज्ञेया जलस्याञ्जलयो दश । सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ १०५ ॥ षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रमेव च । वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके ॥ १०६ ॥ श्लेष्मौजसस्तावदेव रेतसस्तावदेव तुं । इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ ॥ १०७ ॥ सम्यक्परिणताहारस्य सारो रसस्तस्य परिमाणं नवाञ्जलयः । पार्थिवपर- माणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टावञ्जलयः प्रकी- र्तिताः । श्लेष्मणः कफस्य षडञ्जलयः । पित्तस्य तेजसः पञ्च । मूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वावञ्जली । मज्जा त्वस्थिगतसुषिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्धाञ्जलिः मज्जा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश्चरमधातोस्तावदेवार्धाञ्जलिरेव । एतच्च समधातुपुरु- षाभिप्रायेणोक्तम् । विषमधातोस्तु न नियमः; 'वैलक्षण्याच्छरीराणामस्थायित्वा- त्तथैव च । दोषधातुमलानां च परिमाणं न विद्यते ॥' इत्यायुर्वेदस्मरणात् । इती- दृशमस्थिस्नायुत्वाद्यारब्धमेतदशुचिनिधानं वर्म्मास्थिरमिति यस्य बुद्धिरसौ कृती पण्डितो मोक्षाय समर्थो भवति । वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात् , अस्थिमूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अत एव व्यासः- 'सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ यदि नामास्य कायस्य यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं शूनः काकांश्च वारयेत् ॥' इति । तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनि- वृत्त्यर्थमात्मोपासने प्रयतितव्यम् ॥ १०५-१०७ ॥ भाषा-(शरीर में आहार का सारभूत) रस नौ अञ्जलि समझनी चाहिए, जल दस अञ्जलि, पुरीष सात अञ्जलि और रक्त आठ अञ्जलि बताया गया है । कफ छः, पित्त पाँच, मूत्र चार, वसा तीन, मेदस् दो और मज्जा १. मज्जैकोऽर्धं । २. च ।
प्रायश्चित्ताध्यायः ४६३ (अस्थि की) एक अञ्जलि होती है तथा मस्तक में आधी अञ्जलि मज्जा होती है । श्लेष्म का सार भी उतना ही (आधी अञ्जलि) होता है और वीर्य भी उतना ही (आधी अञ्जलि) होता है । इस प्रकार निर्मित यह शरीर अस्थिर है ऐसी मति वाला व्यक्ति ही मोक्ष-प्राप्ति में समर्थ होता है ॥ १०५-१०७ ॥ उपासनीयात्मस्वरूपमाह- द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः । १हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ॥ १०८ ॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ १०९ ॥ हृदयप्रदेशादभिनिःसृताः कदम्बकुसुमकेसरवत्सर्वतो निर्गता हिताहित- करत्वेन हिताहितेतिसंज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास्तिस्रो नाड्यस्तासामिडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्श्वगते हृदि विपर्यस्ते नासा- विवरसंबद्धे प्रागापानायतने । सुषुम्नाख्या पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्र- विनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्नात्मा निर्वातस्थदीप इवाचलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस्तत्साक्षात्कारणा- द्विह संसारे न पुनः संसरति अमृतत्वं प्राप्नोति ॥ १०८-१०९ ॥ भाषा-हृदयप्रदेश से निकली हुई हित और अहित नामकी बहत्तर सहस्र नाडियां होती हैं और इड़ा, पिङ्गला और सुषुम्ना नाम की तीन नाड़ियां हैं, इन सभी नाड़ियों के बीच चन्द्रमा के प्रकाश के समान ज्योति से प्रकाशित मण्डल है; उसके बीच में आत्मा दीपक के समान अचल होकर स्थित रहता है । उस आत्मा का ज्ञान प्राप्त करना चाहिए । उसे जानने पर मनुष्य पुनः इस संसार में जन्म नहीं लेता ॥ १०८-१०९ ॥ ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् । योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥ ११० ॥ किंच, चित्तवृत्तेर्विषयान्तरतिरस्कारेणात्मनि स्थैर्यं योगस्तत्प्राप्त्यर्थं बृहदार- ण्यकाख्यमादित्याद्यन्मया प्राप्तं तच्च ज्ञातव्यम् । तथा यन्मयोक्तं योगशास्त्रं तदपि ज्ञातव्यम् ॥ ११० ॥ भाषा-(चित्तवृत्ति के निरोध के लिए) 'बृहदारण्यक' का ज्ञान प्राप्त करना चाहिए, जो मैंने सूर्य देवता से पाया है; और योग की इच्छा रखने वाले को मेरा रचा हुआ योगशास्त्र जानना चाहिए ॥ ११० ॥ १. हिता नाम हि ता नाड्यः ।
४६४ \quad याज्ञवल्क्यस्मृतिः कथं पुनरसावात्मा ध्यातव्य इत्यत आह — अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ १११ ॥ आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत्य आत्मै- कविषयाणि कृत्वा आत्मा ध्येयः । योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्दीप्यमानो निष्प्रकम्पो हृदि तिष्ठति । एतदेव तस्य ध्येयत्वं यच्चित्तवृत्तेर्बहिर्विषयावभास- तिरस्कारेणात्मप्रवणता नाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यैकनि- ष्ठत्वम् ॥ १११ ॥ भाषा—मन, बुद्धि और स्मृति इन्द्रियों को विषयों से मोड़कर एका- ग्रचित्त हो आत्मा का ध्यान करना चाहिए; जो हृदय में दीपक के समान स्थित है ॥ १११ ॥ यस्य पुनश्चित्तवृत्तिर्निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मो- पासनं कार्यमित्याह— १यथाविधानेन पठन्सामगायमविच्युतम् । सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ ११२ ॥ स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गाना- त्मकत्वेऽपि गायमिति विशेषणं प्रगीतमन्त्रव्युदासार्थम् । अविच्युतमस्खलितं सावधानः सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस्तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तदुक्तम्—'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति ॥ ११२ ॥ भाषा—(समाधि करने में असमर्थ होने पर) विधिपूर्वक नियमित रूप से एवं सावधान होकर सामगान का पाठ करने वाला एवं उसके अभ्यास में तत्पर रहने वाला ब्रह्म को प्राप्त करता है ॥ ११२ ॥ यस्य पुनर्वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यमित्याह— ४अपरान्तकमुल्लोप्यं मद्रकं ५प्रैंकरीं तथा । ६ओवेणकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ११३ ॥ ७ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ ११४ ॥ १ यथाविधानेन पठन्साम गायत्यविस्वरम् । २. स्तथाभ्यासात्प । ३. अनुस्यूतात्मकै । ४. अपरान्तिक । ५. मकरीं । ६. श्रैवेणुकं सुराविन्दमु । ७. ऋग्भाथाः । ८. ब्रह्मगीतिकाः । ९. गायन्नेतत्त ।
प्रायश्चित्ताध्यायः ४६५ अपरान्तकोल्लोप्यमद्रकप्रकर्यौवेणकानि सरोबिन्दुसहितं चोत्तरमित्येतानि- प्रकरणाख्यानि सप्त गीतकानि । 'च' शब्दादासारितवर्धनमानकादिमहागीतानि- गृह्यन्ते । ऋग्गाथाद्याश्चतस्रो गीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपिता- त्मभावं मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् । तदभ्यासस्यैकाग्रतापादनद्वारे- णात्मैकतापत्तिकारणत्वात् ॥ ११३-११४ ॥ भाषा—( सामगान में भी मन न लगने पर ) अपरान्तक, उल्लोप्य, मद्रक, प्रकरी, औवेणक तथा सरोविन्दु सहित उत्तर गीतों का, ऋग्गाथा, पाणिका, दक्षविहिता और ब्रह्मगीतिका का गान करे । इनके अभ्यास से मोक्ष का साधन (चित्त की एकाग्रता) की प्राप्ति बताई गयी है ॥ ११३-११४ ॥ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥ ११५ ॥ किंच, भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथा हि—षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभधैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस्तु षड्जादयः सप्त शुद्धाः संकरजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः प्रवीणः । ताल इति गीतपरिमाणं कथ्यते । तत्स्वरूपज्ञश्च तदनुविद्धब्रह्मोपासन- तया तालादिभङ्गमयाच्चित्तवृत्तेरात्मैकाग्रतायाः सुकरत्वादप्रयासेनेव मुक्तिपथं नियच्छति प्राप्नोति ॥ ११५ ॥ भाषा—( भरत आदि मुनियों द्वारा प्रतिपादित विधि से ) वीणा- वादन का मर्मज्ञ, श्रुति ( जो सात स्वरों में बाइस प्रकार की होती है ), तथा जाति ( षड्ज आदि सात शुद्ध और ग्यारह संकर जातियाँ कुल मिलाकर अठारह ) में प्रवीण, और ताल का ज्ञान रखने वाला ( चित्त की एकाग्रता के सुकर होने से ) अल्प प्रयत्न से ही मुक्ति का मार्ग प्राप्त कर लेता है ॥११५॥ चित्तविक्षेपाद्यन्तरायहत्तस्य गीतज्ञस्य फलान्तरमाह— गीतज्ञो यदि योगेन ३ नाप्नोति परमं पदम् । रुद्रस्यानुचरो ४ भूत्वा तेनैव सह मोदते ॥ ११६ ॥ गीतज्ञो यदि कथंचिद्योगेन परमं पदं नाप्नोति तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदते क्रीडति ॥ ११६ ॥ भाषा—गीत जानने वाला यदि किसी प्रकार योग द्वारा परम पद नहीं प्राप्त कर पाता तो रुद्र का अनुचर होकर उन्हीं के साथ क्रीडा करता है ॥११६॥ १. प्रयत्नेन । २. गीतप्रमाणं कल्प्यते । ३. गीतेन । ४. भूत्वा सह तेनैव ।
४६६ याज्ञवल्क्यस्मृतिः पूर्वोक्तमुपसंहरति— अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । १आत्मनस्तु जगत्सर्वं जगच्चात्मसंभवः ॥ ११७ ॥ प्रागुक्तरीत्या अनादिरात्मा क्षेत्रज्ञस्तस्य च शरीरग्रहणमेवाऽादिरुद्भवः कथितः ‘अजः शरीरग्रहणाद्’ (प्रा०६९) इत्यत्र । परमात्मनश्च सकाशात्पृथिव्या- दिकल भुवनोद्भवः तस्मादुद्भूतं२च्च पृथिव्यादिभूतसंघाताज्जीवानां स्थूलशरी- रतथा संभवश्च कथितः ‘सर्गादौ स यथाकाशं’ (प्रा० ७०) इत्यादिना ॥ ११७॥ भाषा—(उपरोक्त रीति से) आत्मा अनादि हैः उसका शरीर से युक्त होना ही उद्भव कहा गया है । आत्मा (अर्थात् परमात्मा) से ही पृथिवी आदि सम्पूर्ण जगत् की उत्पत्ति होती है और पृथिवी आदि जगत्प्रपंच से आत्मा स्थूल शरीर में उत्पन्न होता है ॥ ११७ ॥ एतदेव प्रश्नपूर्वकं विवृणोति— कथमेतद्विमुह्यामः सदेवासुरमानवम् । जगदुद्भूतमात्मा च कथं तस्मिन्वदस्व नः ॥ ११८ ॥ यदेतत्त्सकलसुरासुरमनुजादिसहितं जगदात्मनः सकाशात्कथमुत्पन्नं, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभागभवतीत्येतस्मिन्नर्थे विमु- ह्यामः । अतो मोहापनुत्त्यर्थमस्माकं विस्तरशो वदस्व ॥ ११८ ॥ भाषा—(मुनियों ने प्रश्न किया) देवता, असुर और मनुष्य आदि से युक्त यह संसार आत्मा से कैसे उत्पन्न हुआ और उस जगत्प्रपंच में आत्मा किस प्रकार शरीर ग्रहण कर लेता है, इसे हम समझ नहीं पा रहे हैं, कृपया विस्तारपूर्वक बतावें ॥ ११८ ॥ एवं मुनिभिः पृष्टः प्रत्युत्तरमाह— मोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ ११९ ॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽङ्गरूपेण यज्ञत्वमुपगच्छति ॥ १२० ॥ इह जगति यदिदं स्थूलकलेवरादावनात्मन्यात्माभिमानरूपं मोहजालं तद- पास्य तद्व्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवर्चाः अनन्त- रश्मिः सहस्रकः बहुशिरा दृश्यते । एतच्च तत्तद्गोचरशक्त्याधारतयोच्यते; तस्य साक्षात्कारादिसंबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश्च । यतोऽसौ १. आत्मनश्च । २. संभूताश्च पृथिव्यादिभूतसंघाताः जीवानां । ३. विराट् च ।
विश्वरूपः सर्वात्मकः । वैश्वरूप्यमेव कथमिति चेत् । यस्मादसौ विराजः पुरोडाशाद्यन्नरूपेण यज्ञत्वमुपगच्छति । यज्ञाच्च वृष्ट्यादिद्वारेण प्रजासृष्टि- रित्येवं वैश्वरूप्यम् ॥ ११९-१२० ॥ भाषा-( याज्ञवल्क्य मुनि ने उत्तर दिया— ) इस संसार में (स्थूल- कलेवर आदि में, जो आत्मा नहीं है, आत्मा का भान करने के) मोहजाल को छोड़कर जो अनेक हाथ, पैर, नेत्र वाला, सूर्य के समान अनन्त किरणों वाला तथा अनेक शिरवाला दिखाई पड़ता है वही आत्म है, यज्ञ और प्रजापति है, वह विश्वरूप है जिससे विराज ( पुरोडाश आदि ) अन्न के रूप में यज्ञ होता है । ( यज्ञ से वृष्टि होती है और उससे प्रजा की सृष्टि होती है) ॥ ११९-१२० ॥ एतदेव प्रपञ्चयति— यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः । देवान्संतर्प्य स रसो यजमानं फलेन च ॥ १२१ ॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः । ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ १२२ ॥ खंमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् । यज्जन्म सर्वभूतानामशनानशनात्मनाम् ॥ १२३ ॥ तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः । एवमेतदनाद्यन्तं चक्रं संपरिवर्तते ॥ १२४ ॥ द्रव्यस्य चरुपुरोडाशादेर्देवतोद्देशेन त्यागाद्यो रसः अदृष्टरूपमात्मनः परिणत्यन्तरमुत्तमः सकलजगज्जन्मबीजतयोत्कृष्टतमः संभूतः स देवान्संप्रदा- नकारकभूतान्सभ्यक्प्रीणयित्वा यजमानं चाभिलषितफलेन संयोज्य पवनेन प्रेर्यमाणश्चन्द्रमण्डलं प्रति नीयते । ततः शशिमण्डलाद्रश्मिभिर्भानुमण्डलम् । सैषा त्रय्येव विद्या तपतीत्यभेदाभिधानात् ऋग्यजुःसाममयं प्रत्युपनीयते । ततश्च खमण्डलादसौ सूर्योऽमृतरसं वृष्टिरूपमुत्तमं यत्सकलभूतानामशनान- शनात्मनां चराचराणां जनननिमित्तं तत्सृजति । तस्माद् वृष्टिसंपादितौषधिम- यात्प्रजोत्पत्तिहेतोरन्नात्पुनर्यज्ञः, यज्ञाच्च पूर्वाभिहितं भङ्ग्या पुनरन्नं, अन्नाच्च पुनः क्रतुरित्येवमेतदखिलं संसारचक्रं प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्य- क्परिवर्तत इत्यनेन क्रमेणात्मनः सकाशादखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ १२१-१२४ ॥ १. त्यागात्सम्भूतो । २. तन्मण्डलमसौ । ३. प्रत्युपनीयते । ४. विहितसंज्ञात्पुनरन्नं । ३० या०
४६८ याज्ञवल्क्यस्मृतिः
भाषा—जो वह पुरोडाश आदि द्रव्य को देवताओं के निमित्त अर्पित करने पर उत्तम (सम्पूर्ण जगत् के जन्म का बीज होने से उत्कृष्टतम) उत्पन्न होता है वह रस देवताओं को तृप्त करके और अभिलषित फल से यजमान को युक्त करके, वायु द्वारा प्रेरित हो कर चन्द्रमण्डल में पहुँचता है; वहाँ से वह सूर्य के मण्डल में पहुँचता है, जो, ऋक्, यजुस् और साम तीन वेदों का ही रूप होता है। यह सूर्य अपने मण्डल से उत्तम अमृत (वृष्टि) छोड़ता है, जो सम्पूर्ण चर और अचर भूतों के जन्म का कारण होता है। उस वृष्टि से उत्पन्न अन्न द्वारा पुनः यज्ञ होता है; पुनः अन्न होता है और तब फिर यज्ञ होता है, इस प्रकार यह अनादि और अनन्त चक्र घूमता रहता है ॥ १२१-१२४ ॥
ननु यद्यात्मनः संसरणमनाद्यन्तं तर्ह्यनिर्मुक्तिप्रसङ्ग इत्यत आह— अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः । समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ १२५ ॥ यद्यप्यात्मनोऽनादित्वात्सम्भूतिर्न विद्यते अन्तरात्मनः शरीरव्यापिनः तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजात- मुपभुङ्क्ते इत्येवंभूतेन संबन्धेन संबन्धी भवत्येव । स च समवायो मोहेच्छा- द्वेषजनितकर्मनिर्मेयो नतु निसर्गजातः । तस्य कार्यत्वेन विनाशोपपत्तेर्न निर्मुक्तिः ॥ १२५ ॥
भाषा—यद्यपि आत्मा के अनादि होने से शरीरव्यापी अन्तरात्मा की उत्पत्ति नहीं होती, तथापि पुरुष (आत्मा) शरीर से समवायी होता है (सुख-दुःख आदि का भोग करता है) और यह समवाय मोह, इच्छा और द्वेष जनित कर्मों से उत्पन्न होता है (नैसर्गिक नहीं होता) ॥ १२५ ॥
आत्मनो जगज्जन्मेत्युक्तं तत्प्रपञ्चयितुमाह— सहस्रात्मा मया यो व आदिदेव उदाहृतः । मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् ॥ १२६ ॥ पृथिवी पादतस्तस्य शिरसो¹ द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥ १२७॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षं च जगच्च सचराचरम् ॥ १२८ ॥ योऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस्तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकमुदाहृतः तस्य वदनभुजसक्थिचरण-
१. शिरस्तो ।
जाता यथाक्रममग्रजन्मादयश्चत्वारो वर्णाः । तथा तस्य पादाद् भूमिः, मस्तका- त्सुरसद्म, घ्राणात्प्राणाः, कर्णात्ककुभः, स्पर्शात्पवनः, वदनाद्धुतवहः, मनसः शशाङ्कः, नेत्राद् भानुः, जघनाद्गगनं, जङ्गमाजङ्गमात्मकं जगच्च ॥ १२६-१२८॥ भाषा—जिस ( सकलजीवात्मक ) अनेक रूप वाले आदिदेव का मैंने वर्णन किया है, उसके मुख, बाहु, ऊरु और पैर से क्रमशः चारों वर्ण हुए । उसके पैरों से पृथिवी और शिर से द्युलोक उत्पन्न हुआ । नासिका से प्राण, श्रोत्र से दिशाएँ, स्पर्श से वायु और मुख से अग्नि उत्पन्न हुआ । उसके मन से चन्द्रमा उत्पन्न हुआ और नेत्रों से सूर्य, उसके जघन से अन्तरिक्ष एवं चर और अचर संसार की उत्पत्ति हुई ॥ १२६-१२८ ॥ अत्र चोदयन्ति— यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते ॥ १२९ ॥ हे ब्रह्मन् योगीश्वर ! यद्यात्मैव जीवादिभावं भजते तर्हि कथमसौ पापयो- निषु मृगपक्ष्यादिषु जायते ? अथ मोहरागद्वेषादिदोषदुष्टत्वात्तत्र जन्मेत्युच्यते । तच्च न,-यस्मादीश्वरः स्वतन्त्रः कथमनिष्टैर्मोहरागादिभावैः संयुज्यते ? ॥ १२९ ॥ भाषा—हे ब्रह्मन् ( योगीश्वर-याज्ञवल्क्य ) ! यदि ऐसी बात है तो वह आत्मा ( मृग, पक्षी आदि ) पाप योनियों में क्यों जन्म लेता है ? वह ईश्वर होकर किस प्रकार ( मोह, राग आदि ) दुर्भावनाओं से युक्त होता है ? ॥ १२९ ॥ करणैरन्वितस्यापि पूर्वं ज्ञानं कथं च न । वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥ १३० ॥ किंच, तथेदमप्यत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्या- त्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान्नोत्पद्यते ? तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगोऽपि सर्वदेहगतोऽपि कस्मान्न वेत्ति ? तस्मादात्मैवेश्वरो जीवादिभावं भजत इत्ययुक्तम् ॥ १३० ॥ भाषा—मन, आदि ज्ञान-प्राप्ति के साधनों से युक्त होने पर भी उस आत्मा का पूर्वज्ञान ( पिछले जन्म का अनुभव ) क्यों नहीं होता ? स्वयं सभी शरीरों में विद्यमान होने पर भी वह सभी प्राणियों की ( सुख- दुःख आदि ) वेदना को क्यों नहीं जान पाता ॥ १३० ॥ १. तत्तज्जन्मेत्युच्यते । २. करणेनान्वितस्य । ३. पूर्वज्ञानं कथं च न । ४. सर्वज्ञोपि ।
४७० याज्ञवल्क्यस्मृतिः तत्र पूर्वोक्तस्योत्तरमाह— अन्त्यपक्षिस्यावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥ १३१ ॥ यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्यविद्यासमावेशवशान्मोह- रागादिभावैरभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचय- माचरति । तेन चान्त्यादिहीनयोनितामापद्यते । अन्त्याश्चण्डालादयः, पक्षिणः काकादयः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्यावस्ता तां यथाक्रमेण मनोवाक्कायारब्धकर्मदोषैर्जन्मसहस्रेष्वयं जीवः प्राप्नोति ॥ १३१ ॥ भाषा—(याज्ञवल्क्य प्रथम प्रश्न का उत्तर देते हैं) यह जीव (सत्य, ज्ञान और आनन्द स्वरूप ईश्वर होते हुए भी) मन, वाणी और शरीर द्वारा किये गये कर्म से उत्पन्न दोषों के कारण चण्डाल, पक्षी और वृक्ष आदि स्थावर पदार्थों का रूप सैकड़ों योनियों में प्राप्त करता है ॥ १३१ ॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ १३२ ॥ किंच, शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्त्वाद्युद्रेक- तारतम्याद्यथाऽनन्तास्तथा तत्कार्याण्यपि रूपाणि कुब्जवामनत्वादीनि देहिनां सर्वयोनिषु भवन्ति ॥ १३२ ॥ भाषा—जीवों के अपने-अपने शरीरों में जिस प्रकार के अनन्त भाव होते हैं उसी प्रकार के रूप भी सभी योनियों में देहियों को प्राप्त होते हैं ॥ ननु यदि कर्मजन्यानि कुब्जत्वादीनि तर्हि कर्मानन्तरमेव तैर्भवितव्यमित्या- शङ्क्याह— विपाकः कर्मणां प्रेत्य केषांचिदिह जायते । इह वाऽमुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥ १३३ ॥ केषांचिज्ज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषां- चित्कारीर्यादिकर्मणां वृष्ट्यादिफलमिहैव भवति । केषांचिच्चित्रादीनां फलं पश्चा- दिकमिह देहान्तरे वेत्यनियतम् । नह्यनन्तरमेव कर्मफलेन भवितव्यमिति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजक- भूतस्तदायत्तत्वात्फलतारतम्यस्य ॥ १३३ ॥ भाषा—कुछ (ज्योतिष्टोम आदि) कर्मों के फल मृत्यु के उपरान्त दूसरा शरीर मिलने पर प्राप्त होते हैं और कुछ कर्मों के फल इसी लोक में १. अनन्ता हि । २. इह चामुत्र चैकेषां ।
प्रायश्चित्ताध्यायः ४७१ मिल जाते हैं। कुछ कर्मों का फल इस लोक में या देहान्तर में निश्चित रूप से प्राप्त होता है। कर्मों के शुभाशुभ फल के विषय में सत्त्वादि भाव ही प्रयोजन हैं ॥ १३३ ॥ मनोवाक्कायकर्मजैरन्त्यादियोनीः प्राप्नोतीत्युक्तं, तत्प्रपञ्चयितुमाह— परद्रव्येष्वभिध्यायंस्तथानिष्ठानि चिन्तयन् । वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ १३४ ॥ परधनानि कथमहमपहरेयमित्याभिमुख्येन ध्यायस्तथाऽनिष्ठानि ब्रह्महत्या- दीनि हिंसात्मकानि करिष्यामीति चिन्तयन् वितथे असत्यभूते वस्तुनि अभि- निवेशः पुनः पुनः संकल्पस्तद्वान् श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ १३४ ॥ भाषा—दूसरे के धन के अपहरण का अवसर ढूंढ़ते रहने वाला, (ब्रह्म- हत्यादि) पापों का ही चिन्तन करने वाला, तथा असत्य वस्तुओं में पुनः पुनः संकल्प करने वाला कुत्ता, चण्डाल आदि अन्त्ययोनियों में जन्म लेता है ॥ १३४ ॥ पुरुषोऽनृतवादी च पिशुनः परुषस्तथा । अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ १३५ ॥ किंच, यस्त्वनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः परुषः परोद्वेगकरभाषी अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वादितारतम्याद्धीनो- त्कृष्टेषु मृगपक्षिषु जायते ॥ १३५ ॥ भाषा—असत्यवादी, पिशुन (चुगलखोर), कठोर वचन कहने वाला और असङ्गत भाषण करने वाला मृग और पक्षी की योनि में जन्म लेता है ॥ अदत्तादाननिरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥ १३६ ॥ किंच, अदत्तादाननिरतः अदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश्च अविहित- मार्गेण प्राणिनां घातकश्च दोषगुरुलघुभावतारतम्यात्तरुलताप्रतानादिस्थावरेषु जायते ॥ १३६ ॥ भाषा—बिना दिए हुए ही दूसरे की वस्तु का अपहरण करने में रत, परस्त्री में आसक्त और (अविहित विधि से यज्ञ-प्रयोजन के बिना ही) प्राणियों की हिंसा करने वाला स्थावर (वृक्ष, लता आदि) की योनियों में उत्पन्न होता है ॥ १३६ ॥ १. योनितां प्राप्नोतीति । २. पुरुषस्तथा । ३. पूर्वावृत्त्यादि । ४. स्थावरेषूपजायते ।
४७२ याज्ञवल्क्यस्मृतिः सत्त्वादिगुणपरिपाकमाह— आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः । धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् ॥ १३७ ॥ आत्मज्ञो विद्याधनाभिजानाद्यभिमानरहितः, शौचवान् बाह्याभ्यन्तरशौच- युक्तः, दान्त उपशमान्वितः, तपस्वी कृच्छ्रादितपोयुक्तः, तथेन्द्रियार्थेष्वप्रसक्तः, नित्यनैमित्तिकधर्मानुष्ठाननिरतः, वेदार्थवेदी च यः, सात्त्विकः । स च सत्त्वोद्रेक- तारतम्यवशादुत्कृष्टोत्कृष्टतरसुरयोनितां प्राप्नोति ॥ १३७ ॥ भाषा—आत्मज्ञानी, पवित्र, शान्त चित्त वाला, तपस्वी, इन्द्रियों को वश में रखने वाला, धर्मनिष्ठ और वेद विद्या का ज्ञान रखने वाला, सत्त्वगुण संपन्न व्यक्ति देव की योनि में जन्म पाता है ॥ १३७ ॥ असत्कार्यरतोऽधीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ १३८ ॥ किंच, असत्कार्येषु तूर्यवादित्रनृत्यादिष्वभिरतो यः तथा अधीरो व्यग्रचित्तः आरम्भी सदा कार्याकुलो विषयेष्वतिप्रसक्तश्च, स रजोगुणयुक्तः । तद्गुणतार- तम्याद्धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरमुत्पत्तिं प्राप्नोति ॥ १३८ ॥ भाषा—जो असत्कार्य (नृत्य, गीत आदि) में रत, अधीर, सदा कार्याकुल और विषयों में लिप्त रहता है वह रजोगुणी मृत्यु के उपरान्त मनुष्य योनि में जन्म पाता है ॥ १३८ ॥ निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा । प्रमादवान्भिन्नवृत्तो भवेत्तिर्यक्षु तामसः ॥ १३९ ॥ तथा च, यः पुनर्निद्राशीलः, प्राणिपीडाकरो, लोभयुक्तश्च, तथा नास्तिको धर्मादेर्निन्दकः, याचनशीलः, प्रमादवान् कार्याकार्यविवेकशून्यः, विरुद्धacharश्च; असौ तमोगुणयुक्तस्तत्तारतम्याद्धीनहीनतरपश्वादियोनिषु जायते ॥ १३९ ॥ भाषा—निद्रालु (अधिक सोने वाला), प्राणियों को पीडित करने वाला; लोभी, नास्तिक, याचक, प्रमादी (विवेकहीन) और विरुद्ध आचरण वाला तमोगुणी पशु-पक्षियों की योनि में उत्पन्न होता है ॥ १३९ ॥ पूर्वोक्तमुपसंहरति— रजसा तमसा चैवं समाविष्टो भ्रमन्निह । भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ १४० ॥ १. धर्मकृद्वेदविद्याति सात्विको । २. तारतम्यादुत्कृष्ट । ३. पुनर्जन्मा- धिगच्छति ।
प्रायश्चित्ताध्यायः ४७३ एवमविद्याविद्धोऽयमात्मा रजस्तमोभ्यां सम्यगाविष्ट इह संसारे पर्यटन् नानाविधदुःखप्रदैर्भावैरभिभूतः पुनः पुनः संसारं देहग्रहणं प्राप्नोतीति । ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यत इत्यस्य चोद्यस्यानवकाशः ॥ १४० ॥ भाषा—( इस प्रकार अविद्या से युक्त ) यह आत्मा रजोगुण एवं तमो- गुण से पूर्णतः आविष्ट होकर इस लोक में भटकता हुआ, अनेक दुःखप्रद भावों से युक्त होकर पुनः पुनः संसार में आता है अर्थात् शरीर धारण करता है ॥ १४० ॥ यदपि 'करणैरन्वितस्यापि' ( प्रा० १३० ) इति द्वितीयं चोद्यं तस्योत्तर- माह— मलिनो हि यथाऽऽदर्शो रूपालोकस्य न क्षमः । तथाऽविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ १४१ ॥ यद्यप्यात्मा अन्तःकरणादिज्ञानसाधनसंपन्नस्तथापि जन्मान्तरानुभूतार्थव- बोधे न समर्थः अविपक्वकरणो रागादिमलाक्रान्तचित्तो यस्मात् ; यथा दर्पणो मलच्छन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ १४१ ॥ भाषा—( दूसरे प्रश्न का उत्तर देते हैं— ) जिस प्रकार मलिन दर्पण रूप का ज्ञान कराने में समर्थ नहीं होता, उसी प्रकार आत्मा राग आदि दोष से युक्त होने के कारण दूसरे जन्म के अनुभवों का ज्ञान प्राप्त करने में असमर्थ रहता है ॥ १४१ ॥ ननु प्राग्भवीयज्ञानस्याप्यात्मप्रकाशत्वात् तस्य च स्वतःसिद्धत्वान्नानुपलम्भो युक्त इत्याशङ्क्याह— कट्ट्वेर्वारौ यथाऽपक्वे मधुरः सन्नसोऽपि न । प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥ १४२ ॥ अपक्वे कट्ट्वेर्वारौ तिक्तकर्कटिकायां विद्यमानोऽपि मधुरो रसो यथा नोप- लभ्यते तथात्मन्यपक्वकरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरा न ज्ञाप्यते ॥ १४२ ॥ भाषा—जिस प्रकार कडुई ककड़ी में रस होने पर भी वह बिना पके प्राप्त नहीं होता, उसी प्रकार आत्मा में ज्ञान रहते हुए भी अपक्वकरण की अवस्था में (रागादि विकारों से चित्त के मलिन रहने पर) उसे पूर्व- जन्म के अनुभव का ज्ञान नहीं हो पाता ॥ १४२ ॥ १. अन्तःकरणादेर्ज्ञान । २ कट्ट्वार्वा ।
४७४ याज्ञवल्क्यस्मृतिः 'वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम्' (प्रा० १३०) इति यदुक्तं, तत्रोत्तरमाह - सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । योगी मुक्तश्च सर्वासां 'यो न चाप्नोति वेदनाम् ॥ १४३ ॥ यः पुनर्देही देहाभिमानयुक्तः, स सर्वाश्रयामाध्यात्मिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्राप्नोति, न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्ष- ण्यादेव; यस्तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रज्ञगतानां सुखदुःखादि- संविदां वेदिता भवति परिपक्ककरणत्वात् ॥ १४३ ॥ भाषा-जो शरीरधारी अपने शरीर के अभिमान से युक्त होता है वह सब प्रकार की (आध्यात्मिक आदि) वेदनाएँ उस शरीर से ही प्राप्त करता है। योगी और मुक्त (अहंकारहीन) सभी प्राणियों की सुख-दुःखादि वेदना का ज्ञाता होता है। (क्योंकि उसका चित्त रागादि मल से आच्छन्न नहीं रहता) ॥ १४३ ॥ नन्वेकस्मिन्नात्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटत इत्याशङ्क्याह- आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको ह्यनेकश्च जलाधारेष्विवांशूमान् ॥ १४४ ॥ यथैकमेव गगनं कूपकुम्भाद्युपाधिभेदभिन्नं नानेवानुभूयते, यथा वा भानु- रेकोऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिषु नानेवानुभूयते, तथै- कोऽप्यात्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादान- मात्मभेदस्यापारमार्थिकत्वद्योतनार्थम् ॥ १४४ ॥ भाषा-जिस प्रकार आकाश एक ही है किन्तु घट आदि पात्रों में पृथक्- पृथक् अनेक प्रतीत होता है एवं जिस प्रकार सूर्य एक होता हुआ भी भिन्न-भिन्न जलपात्रों में अनेक प्रतीत होता है; उसी प्रकार आत्मा भी (समष्टि और व्यष्टि भेद से) एक और अनेक है ॥ १४४ ॥ 'पञ्चधातून्स्वयं षष्ठ आदत्तेयुगपत्प्रभुः' (प्रा० ७२) इत्याद्युक्तमर्थमुपसंहृत्याह- ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः । इमे लोका एष चात्मा तस्माच्च सचराचरम् ॥ १४५ ॥ ब्रह्म आत्मा, खं गगनं, अनिलो वायुः, तेजोऽग्निः, जलं प्रसिद्धं, भूश्चे- त्येते वातादिधातव एव शरीरं व्याप्य धारयन्तीति धातवोऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोकाः । जडा इति यावत् । एष चिद्धातुरात्मा एतस्माज्जडाजडसमुदायात्स्थावरजङ्गमात्मकं जगदुत्पद्यते ॥१४५॥ १. ज्ञाता नाप्नोति वेदनाम्। यो न वाप्नोति । २. र्भिमकादिबहुषु । B क
प्रायश्चित्ताध्यायः ४७५ भाषा—ब्रह्म ( आत्मा ), आकाश, वायु, तेज, अग्नि, जल और पृथिवी ये ( शरीर को व्याप्त कर धारण करने के कारण ) धातु कहे जाते हैं। ये ही ( आकाश आदि अवलोकित होने के कारण ) लोक ( या जड़ ) हैं और यह ज्ञानमय आत्मा होता है; इन्हीं के समुदाय से चर और अचर संसार की उत्पत्ति होती है ॥ १४५ ॥ कथमसावात्मा जगत्सृजतीत्याह— मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥ १४६ ॥ हेममात्रमुपादाय रूपं वा हेमकारकः । निजलालासमायोगात्कोशं वा कोशकारकः ॥ १४७ ॥ कारणान्येवमादाय तासु तास्विह योनिषु । सृजंत्यात्मानमात्मा च संभूय करणानि च ॥ १४८ ॥ यथा हि कुलालो मृच्चक्रचीवरादिकं कारणजातमुपादाय करकशरावादिकं नानाविधकार्यजातं रचयति, यथा वा वर्धकिस्तृणमृत्काष्ठैः परस्परसापेक्षैः एकं गृहाख्यं कार्यं करोति, यथा वा हेमकारः केवलं हेमोपादाय हेमानुगतमेव कटक- मुकुटकुण्डलादिकार्यमुत्पादयति, यथा वा कोशकारकः कीटविशेषो निजलाल- यारब्धमात्मबन्धनं कोशाख्यमारभते, तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि, तथा करणान्यपि श्रोत्रादीन्युपादाय अस्मिन्संसारे तासु तासु सुरादियोनिषु स्वयमेवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ १४६-१४८॥ भाषा—जिस प्रकार कुम्हार मिट्टी, डंडे और चाक के संयोग से घड़ा बनाता है; घर बनाने वाला तिनकों, मिट्टी और लकड़ी से घर बना देता है अथवा जिस प्रकार स्वर्णकार केवल सोना लेकर उससे अनेक प्रकार के रूप ( आभूषण आदि ) बना डालता है अथवा जिस प्रकार अपनी ही लार से मकड़ी अपना जाला बना लेती है उसी प्रकार आत्मा भी पृथिवी आदि साधनों और श्रोत्र आदि इन्द्रियों को लेकर स्वयं ही इस संसार में भिन्न- भिन्न योनियों में शरीरी के रूप में अपनी रचना करता है ॥ १४६-१४८ ॥ किं पुनर्वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणमित्याशङ्कयाह— महाभूतानि सत्यानि यथात्मापि तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ १४९ ॥ वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । १. सृजत्यात्मानमात्मैव ।
४७६ याज्ञवल्क्यस्मृतिः यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणागम्यत्वात् तथाऽऽत्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात्तर्हि एकेन चक्षुरिन्द्रियेण दृष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति 'यमहम- द्राक्षं तमहं स्पृशामि' इति ॥ तथा कस्यचित्पुरुषस्य वाचं पूर्वं श्रुत्वा 'पुनः श्रूयमाणां वाचं तस्य वागियमिति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥ १४९३ ॥ भाषा-जिस प्रकार पृथिवी आदि महाभूत सत्य हैं उसी प्रकार (बिना प्रमाण के भी) आत्मा सत्य है; अन्यथा (यदि बुद्धि, इन्द्रिय से अलग ज्ञाता नहीं होता तो) एक चक्षु इन्द्रिय द्वारा देखी गई वस्तु दूसरी (स्पर्श की) इन्द्रिय से कौन जानता ? अथवा किसी व्यक्ति की पहले सुनी हुई वाणी को पुनः सुनने पर कौन पहचान पाता, ? ॥ १४९३ ॥ 'अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥१५०॥ जातिरूपवयोवृत्तविद्यादिभिरहंकृतः । शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ १५१ ॥ किंच, यद्यात्मा ध्रुवो न स्यात् तर्ह्यनुभूतार्थगोचरा स्मृतिः पूर्वानुभव- भावितसंस्कारोद्बोधनिबन्धना कस्य भवेत् ? नह्यन्येन दृष्टे वस्तुन्यन्यस्य स्मृति- रुपपद्यते । तथा कः स्वप्नज्ञानस्य कारकः । नहीन्द्रियाणामुपरतव्यापाराणां तत्कारकत्वम् । तथाऽहमेवाभिजनत्वादि संपन्न इत्येवंविधोऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य ? तथा शब्दस्पर्शादिविषयोपभोगसिद्धय- र्थमुद्योगं मनोवाक्कायैः कः कुर्यात् ? तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ १५०-१५१ ॥ भाषा-(यदि आत्मा सत्य न होता तो) अतीत काल के अनुभव की याद किसे रह पाती ? (एक व्यक्ति द्वारा देखी गई वस्तु दूसरे व्यक्ति की स्मृति में नहीं रहती है), स्वप्न का ज्ञान कौन कराता है? जाति, रूप, आयु, वृत्त, विद्या आदि का अहंकार करने वाला कौन है? तथा शब्द स्पर्श आदि विषयों के भोग के लिये कर्म, मन और वाणी से उद्योग कौन करता ? [ अतएव बुद्धि से भिन्न आत्मा का अस्तित्व निश्चित है । ] ॥१५०-१५१॥ उपासनाविशेषविध्यर्थं संसारस्य रूपं विवृण्वन्नाह- स संदिग्धमतिः कर्मफलमस्ति न वेति वा । ४विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ १५२ ॥ १. अतीतार्थस्मृतिः । अतीतार्था । २. विषयं सक्तः । ३. सिद्धयर्थं । ४. संप्लुतः ।
प्रायश्चित्ताध्यायः ४७७ योऽसौ पूर्वोक्त आत्मा विप्लुतॊऽहंकारदूषितः स सकलकर्मसु फलमस्ति न वेति संदिग्धमतिर्भवति । तथाऽसिद्धोऽप्यकृतार्थोऽपि सिद्धमेव कृतार्थमात्मानं मन्यते ॥ १५२ ॥ भाषा—यह आत्मा अहंकार से दूषित होकर शङ्का करने लगता है कि सभी कर्मों का फल होता है या नहीं, और अकृतार्थ होते हुए भी अपने को कृतार्थ मानने लगता है ॥ १५२ ॥ मम दाराः सुतामात्या अहमेषामिति स्थितिः । हिताहितेषु भावेषु विपरीतमतिः सदा ॥ १५३ ॥ किंच, तस्य विप्लुतमतेर्मम कलत्रपुत्रप्रेष्यादयोऽहमेषामित्यतीव मम- ताकुलस्थितिर्भवति । तथा हिताहितकरे कार्यप्रकारे स विप्लुतमतिर्विप- रीतमतिः सदा भवेत् ॥ १५३ ॥ भाषा—उसकी (अहंकार से दूषित आत्मा की) 'ये मेरी पत्नी है' 'ये मेरे पुत्र हैं' 'ये मेरे सेवक हैं' 'मैं इनका हूँ' ऐसी ममताकुल दशा होती है, तथा हित एवं अहित के कार्यों में उसकी सदैव विपरीत बुद्धि होती है ॥ १५३ ॥ १ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् । २अनाशकानलाघातजलप्रपतनोधमी ॥ १५४ ॥ एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् । कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ १५५ ॥ किंच, ज्ञेयं जानातीति ज्ञेयज्ञस्तस्मिन्नात्मनि प्रकृतौ चात्मनो गुणसाम्याव- स्थायां विकारे चाहंकारादावविशेषवान् विवेका नभिज्ञो भवति । तथाऽनश- नहुताशनाम्बुप्रवेशविषनाशनादिषु विप्लववशात्कृतप्रयत्नो भवेत् । एवं नानाप्रका- राकार्यप्रवृत्तोऽविनीतात्माऽसंवतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्म- जातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ १५४-१५५ ॥ भाषा—ज्ञेयज्ञ (ज्ञेय विषयों को जानने वाला) आत्मा प्रकृति में (अपने गुणों की साम्यावस्था में) अहंकारादि विकार से विवेकशून्य हो जाता है और भोजन-त्याग, अग्नि, जल में प्रवेश अथवा गिरकर मरने के कार्य में यत्न करता है। इस प्रकार अनेक कार्यों में प्रवृत्त असंयत आत्मा दुष्कर्म में लगकर (उन कर्मों से उत्पन्न) राग, द्वेष और मोह से पीडित होता है ॥ १५४-१५५ ॥ १. ज्ञेये च प्रकृतौ विकारे चावि । २. अनाशकानलापात ।
४७८ याज्ञवल्क्यस्मृतिः शरीरग्रहणद्वारेण कथं पुनस्तस्य विश्रम्भो भवतीत्यत आह— आचार्योपासनं १वेदशास्त्रार्थेषु विवेकिता । तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ १५६ ॥ स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ १५७ ॥ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् । शरीरपरिसंख्यानं प्रवृत्तिष्ववधदर्शनम् ॥ १५८ ॥ नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः । एतैरुपायैः संशुद्धः २सत्त्वयोग्यमृती भवेत् ॥ १५९ ॥ विद्यार्थमाचार्यसेवा, वेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकि- त्वम् , तत्प्रतिपादितध्यानकर्मणामनुष्ठानम् , सत्पुरुषसङ्गः प्रियहितवचनत्वम् , ललनालोकालम्भयोः परित्यागः, सर्वभूतेष्वात्मवद्दर्शनं समत्वदर्शनम्, परि- ग्रहाणां च पुत्रक्षेत्रकलत्रादीनां त्यागः, जीर्णकाषायधारणम्, शब्दस्पर्शादि- विषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः, तन्द्रा निद्रानुकारिणी, आलस्य- मनुत्साहः तयोर्विशेषेण त्यागः, शरीरस्य परिसंख्यानमस्थिराशुचित्वादिदोषा- नुसंधानम्, तथा सकलगमनादिषु प्रवृत्तिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः, तथा रजस्तमोविधुरता, प्राणायामादिभिर्भावशुद्धिः, निःस्पृहता विषयेष्वनभिलाषः, शमो बाह्यान्तःकरणसंयमः, एतैराचार्योपासनादिभिरुपायैः सम्यक् शुद्धः केवलसत्त्वयुक्तो ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ १५६–१५९ ॥ भाषा—विद्याप्राप्ति के लिये आचार्य की सेवा, वेदशास्त्रों में (वेदान्त के अर्थ और पातञ्जल आदि योगशास्त्रों में) विवेक, उनमें प्रतिपादित ध्यान कर्म का अनुष्ठान, सत्संगति, प्रिय एवं हितकर वचन, स्त्रियों के दर्शन एवं स्पर्श का परित्याग, सभी प्राणियों पर अपने समान दृष्टि (समदर्शिता), परिग्रह (पुत्र, पत्नी आदि) का त्याग, जीर्ण काषाय वस्त्र का प्रयोग, शब्द, स्पर्श आदि विषयों से इन्द्रियों की प्रवृत्ति का निरोध, तन्द्रा (नींद के बाद की स्थिति) और आलस्य (उत्साहहीनता) का त्याग, शरीर की अपवित्रता आदि दोषों का अन्वेषण, सभी (गमन आदि) प्रवृत्तियों में (सूक्ष्म प्राणियों का वध होने से) पाप देखना रजोगुण एवं तमोगुण का परित्याग, (प्राणायाम आदि द्वारा) भाव की शुद्धि, निःस्पृहता (विषयों में अभिलाषा का अभाव) और शम (बाह्य और अन्तःकरण का संयम) १. वेदशास्त्रस्य च विवेचनम् । २. स च योग्य ।
प्रायश्चित्ताध्यायः ४७६ इन उपायों द्वारा सम्यक् रूप से शुद्ध और केवल सत्त्वगुण सम्पन्न व्यक्ति ही मुक्ति प्राप्त करता है ॥ १५६-१५९ ॥ कथममृतत्वप्राप्तिरित्यत आह— तत्त्वस्मृतेरुपस्थानात्सत्त्वयोगात्परिक्षयात् । कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते ॥ १६० ॥ आत्माख्यतत्त्वस्मृतेरात्मनि निश्चलतयोपस्थानात् सत्त्वशुद्धियोगात्केवलस- त्त्वगुणयोगात्कर्मबीजानां परिक्षयात् सत्पुरुषाणां च संबन्धात् आत्मयोगः प्रवर्तते ॥ १६० ॥ भाषा—आत्मा नाम के तत्त्व का सदा स्मरण करने, आत्मा में निश्चल होकर ध्यान लगाने, केवल सत्त्वगुण के योग से, कर्मरूपी बीज के नष्ट होने से और सत्पुरुषों के संयोग से आत्मयोग प्राप्त होता है ॥ १६० ॥ शरीरसंक्षये यस्य मनः सत्त्वस्थमीश्वरम् । अविप्लुतमतिः सम्यक्सं जातिस्मरतामियात् ॥ १६१ ॥ किंच, यस्य पुनर्यौगिनोऽविप्लुतमतेः शरीरसंक्षयसमये मनः सत्त्वयुक्तं सम्यगेकाग्रतयेश्वरं प्रति व्याप्रीयते स यद्युपासनाप्रयोगप्रवीणतयात्मानं नाधि- गच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भ- वासादिउद्भूतदुःखस्मरणं प्राप्नुयात् । तत्स्मरणेन च जातोद्वेगतस्तद्विच्छेद- कारिणि मोक्षे प्रवर्तते ॥ १६१ ॥ भाषा—शरीर-त्याग के समय जिस अविप्लुतमति (अहंकार आदि से जिसकी बुद्धि मलिन नहीं है उस) योगी का मन सत्त्वगुण से युक्त होकर सम्यक् रूप से केवल ईश्वर में लगा होता है वह यदि आत्मा का साक्षात्कार नहीं कर पाता तो भी उसे पिछले जन्म में अनुभूत दुःखों की स्मृति रहती है (जिससे वह मोक्षप्राप्ति के लिए प्रवृत्त होता है) ॥ १६१ ॥ यस्त्वल्पटुसंस्कारतया पूर्वा जातिं न स्मरति तस्य का गतिरित्यत्राह— यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ १६२ ॥ भरतो नटः, स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीता- दिभिर्वर्णैरात्मनस्तनुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगार्थं कुब्ज- वामनादिनानारूपाणि कर्मनिमित्तानि कलेवराण्यादत्ते ॥ १६२ ॥ १. अविप्लुतस्मृतिः सम्यग्जाति। २. संस्मरतामियात् । ३. यस्त्वयं दुःसंस्कार।