भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

प्रथमोऽङ्कः ५७

अनसूया—तदो वसन्तोदारसमए से उम्मादइत्तअं रूवं पेक्खिअ [ ततो वसन्तोदारसमये तस्या उन्मादयितुकं रूपं प्रेक्ष्य ] ( अर्द्धोक्ते लज्जया विरमति ) ।
राजा—^१परस्ताज्ज्ञायत एव । सर्वथाप्सरःसंभवेषा ।
अनसूया—अहइं । [ अथ किम् । ]
राजा—उपपद्यते ।

^२मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ २५ ॥


अन्यस्य = परस्य समाधेः = तपसः भीरुत्वं = वैक्लव्यमिति अन्यसमधिभीरुत्वं देवानां = सुराणां यत्ते विघ्नमाचरन्ति । देवा अन्येषां तपांसि दृष्ट्वा स्वपदच्युतिमाशङ्कन्ते इति भावः । ततस्ततः = अग्रे किं जातम् ।

अनसूया—ततः = मेनकाप्रेषणानन्तरं वसन्तस्य = वसन्तर्तौः उदारे = श्रेष्ठे समये = काले इति वसन्तोदारसमये उन्मादहेतुकं = उन्मादस्य = चित्तविकृतेः हेतुकं = हेतुभूतं जनकं तस्याः = मेनकायाः रूपं = सौन्दर्यं प्रेक्ष्य = आलोक्य । इति = एतावन्मात्रेण अर्द्धोक्तेः अर्द्धमुक्त्वा मध्ये एव विच्छेदिते वाक्ये लज्जां नाटयति = लज्जिताऽभूत्, अग्रेऽस्यार्थस्याश्लीलत्वात् । लज्जया वा विरमतीति पाठे लज्जया = त्रपया विरताऽभवत् !

राजा—परस्तात् = परं अवशिष्टं ज्ञायते = बुध्यते एव अतो न वक्तव्यम् । सर्वथा = नूनमियम् अप्सरःसंभवा = अप्सरो मेनका संभवः = उत्पत्तिर्यस्याः सा मेनकोत्पन्ना ।

अनसूया—अथ किम् ? बाढम् ।

राजा—उपपद्यते = अस्या अप्सरः संभवत्वं युक्त्या युज्यते ।

अन्वयः—मानुषीषु अस्य रूपस्य संभवः कथं वा स्यात् प्रभातरलं ज्योतिः वसुधातलात् न उदेति ।

मानुषीष्विति । मानुषीषु = मनुजस्त्रीषु अस्य = एतस्य लोकोत्तरसौन्दर्यादिगुणगणविशिष्टस्य रूपस्य = आकृतेः संभवः = उत्पत्तिः कथं वा = केन प्रकारेण वा स्यात् = संभवेत् एवंविधसौन्दर्यवत्या अस्या मानुषीषु संभवस्य संभावनाऽपि नास्तीत्यर्थः । उक्तार्थं दृष्टान्तेन द्रढयति—नेति । प्रभातरलं = प्रभाभिः = दीप्तिभिः तरलं = चपलमिव प्रभातरलं = विद्युत् सूर्यः चन्द्रो वा वसुधातलात् = पृथ्वीपृष्ठात् भूमण्डलात् न उदेति =


अनसूया—वसन्त ऋतु के आगमन से रमणीय, मनोहर और सुहावने समय में अप्सरा मेनका के कामजनक रूप को देखकर विश्वामित्रजी का चित्त चंचल हो उठा।
( बीच में ही लज्जित हो चुप हो जाती है । )
राजा—आगे का वृत्तान्त तो स्पष्ट ही है कि ऋषि उस मेनका पर आसक्त हो गये । और इस प्रकार विश्वामित्र जी के द्वारा मेनका के गर्भ से यह शकुन्तला उत्पन्न हुई है ।
अनसूया—जी हाँ, और क्या ।
राजा—यह ठीक ही है, क्योंकि—
ऐसे रूप का उद्भव मनुष्य स्त्रियों में कहाँ, संभव हो सकता है ? क्या कभी प्रभापुञ्ज से चमकती हुई ज्योति ( बिजली, चाँद या सूर्य भी भला पृथ्वी से ) पैदा हुआ करती हैं ॥ २५ ॥


पाठा०—१. परस्तादवगम्यत । २. मानुषीभ्यः कथं नु स्यादस्य ।

५८ अभिज्ञानशाकुन्तलम्

( शकुन्तलाधोमुखी तिष्ठति । )

राजा--( आत्मगतम् ) लब्धावकाशो मे मनोरथः । किम् तु सख्याः परिहासो-दाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।

प्रियंवदा--( सस्मितं शकुन्तलां विलोक्य नायकमभिमुखी भूत्वा ) पुणो वि वत्तुकामो विअ अज्जो । [ पुनरपि वक्तुकाम इवार्यः । ]


नाविर्भवति । यथा विद्युत भूमेर्नोदेति तथेयं न मनुष्येषु संभवति तथा च मानुषीषु स्त्रीषु ईदृग्रूपस्य दृष्टिगोचरत्वादियमप्सरः सम्भवैव । यत एषा अप्सरः संभवा तत एवेहग्रूप-शालिनीति भावः । रूपलक्षणं यथा—

'अङ्गान्यभूषितान्येव प्रक्षेप्याद्यैर्विभूषणैः ।
येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥'

अत्र प्रतिवस्तूपमा निदर्शनं चालङ्कारः छन्दश्चानुष्टुबेव ॥ २५ ॥

( शकुन्तला अधोमुखी तिष्ठति, अधः = नीचैः मुखं = वदनं यस्याः सा अधोमुखी = निम्नवदना सती तिष्ठति = उपाविशते स्वप्रशंसया स्ववृत्तान्तेन चात्र सलज्जता । )

राजा-( आत्मगतम्-आत्मनि = स्वस्मिन् गतं प्राप्तम् आत्मगतं = स्वगतम् ) स्व-मनोरथानुकूलां शकुन्तलोत्पत्तिमवधार्य परिग्रहयोग्येयमिति निश्चन्वानः स्वयं परामृशति- लब्धः = प्राप्तः अवकाशः = प्रवेशद्वारं येन स लब्धावकाशः, मनोरथः = अभिलाषः । समुचितविषयोऽयमभिलाषोपगत इत्यर्थः । स्नैहः पापशङ्कीति नीत्या पुनरपापमाशङ्क-मान आह--किन्तु सख्याः = प्रियम्वदायाः परिहासोदाहृतां विनोदकथितां वरप्रार्थनां वराय = पत्ये प्रार्थनां = इच्छां श्रुत्वा = निशम्य धृतः = आरूढः द्वैधीभावः = संशयदोला-रूढता येन अतः कातरं = व्याकुलमतिधृतद्वैधीभावकातरं मे = मम मनः = मानसम् । सखीवचनस्य परिहासरूपतया तत्राप्रामाण्यशङ्कोदयात् अहमेव = वरो वा तापसा वा कश्चिदिति संशय इति यावत् ।

प्रियम्वदा-( स्मितेन = विहासेन सह वर्तते इति सस्मितमीषद्धासपूर्वकं शकुन्तला-


( शकुन्तला नीचे मुँह कर लेती है । )

विशेष—अपने रूप की प्रशंसा सुनकर सिर नीचा कर लेना उत्तम नायिकाओं का लक्षण है ।

राजा-( मन ही मन ) अह ! हा, तब तो मेरी इच्छा के पूर्ण होने का यही अवसर मालूम पड़ता है । अर्थात् यह शकुन्तला विश्वामित्र द्वारा मेनका अप्सरा के गर्भ से उत्पन्न क्षत्रिय कन्या है महर्षि कण्व की औरस पुत्री ब्राह्मणी नहीं है । अतः अब इसे प्राप्त कर सकूँगा, किन्तु इसकी सखी प्रियम्वदा ने जो परिहास में इस शकुन्तला से कहा था कि तेरा अब विवाह शीघ्र ही होगा इससे तो मैं शङ्कित और व्याकुल-सा हो रहा हूँ । कहीं इसका विवाह सम्बन्ध अन्यत्र तो ठीक नहीं हो गया है ! परिहास की बात झूठी भी हो सकती है, क्योंकि—'परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः ।' और परिहास कभी कभी सत्य भी हो जाता है । इत्यादि सोच कर दुष्यन्त द्वैधीभाव में पड़े हुए हैं । इस प्रकार राजा दुष्यन्त की मनःस्थिति चंचलता की ओर है, फिर भी मनुष्य आशावादी होता है, वह अपने ही पक्ष की पुष्टि कर आशा करता ही रहता है ।

प्रियम्वदा-( मुसकुराती हुई शकुन्तला की ओर देखकर राजा की ओर मुख करके ) मालूम पड़ता है कि आप और भी कुछ पूछना चाहते हैं ।

प्रथमोऽङ्कः ५९

( सखीमङ्गुल्या तर्जयति । )

राजा—सम्यगुपलक्षितं भवत्या। अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम्।

प्रियंवदा—अलं विआरिअं । अणिअन्तणाणुओओ तवस्सिअणो णाम । [ अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम । ]


विलोक्यावलोक्य नायकाभिमुखी = दुष्यन्ते निहितदृष्टिः भूत्वा ) अयंः = श्रीमान् पुनरपि— भूयोऽपि वक्तुकामः = किञ्चिद् विवक्षुः, स्वविवक्षिते निःशङ्कमाख्याहीत्याशयः । शकुन्त-लायां रागहेतुकस्य वैलक्ष्यस्य दर्शनेन राज्ञा विवक्षितावगमेन पुनरपि तत्परिहासोपायस्य मनसि स्फुरणं च प्रियम्वदायाः सस्मितावलोकने हेतुः ।

( शकुन्तला—सखीं = आलिं प्रियम्वदां, अङ्गुल्या = तर्जन्या तर्जयति = भर्त्सयति । पुनरपि मत्सम्बन्धे किमपि परिहसितुकामयाऽनया प्रियम्वदयाऽस्मिन् महापुरुषे विवक्षितत्व-मारोपितमिति सखीहृदयकौटिल्यं जानन्ती शकुन्तलारोषेण तां तर्जयतीत्यर्थः । )

राजा—प्रियम्वदामुखेन शकुन्तलाविषये महर्षेः कण्वस्य संकल्पं जिज्ञासुः प्रियम्वदां श्लाघयन् दुष्यन्त आह—भवत्याः बुद्धिमत्या त्वया सम्यक् = वास्तवं, तथ्यम् उपलक्षितं = लक्षणैरुन्रितम्, ओष्ठपरिस्पन्दादिरूपेण मुखविकारेण यदनुमीतं तत्समीचीनमेवेत्यर्थः, सच्च-रितश्रवणलोभात् सतः = शोभनस्य सतां = सज्जनानां वा चरितस्य = जीवनस्य शकुन्तला-रूपस्य यत् श्रवणं = आकर्णनं तस्य लोभात् = स्पृहायाः सतामैतिहासकर्णनकुतूहलात्, पुण्य-प्रदोपाख्यानश्रवणलोभात् अन्यदपि = अवशिष्टं किञ्चित् प्रष्टव्यं = जिज्ञासितव्यम् अस्ति ।

प्रियंवदा—बुद्धिमती प्रियम्वदा दुष्यन्तमनोगतं भावं जानन्ती तदनुसारेणाह—अलं-विचार्यं, विचारेणालम् । इदं प्रष्टव्यं न वेति विचारो न कर्तव्यः, निःशङ्कं सर्वं पृच्छती-मिति भावः । अनियन्त्रणानुयोगः—अनियन्त्रणः = अनियन्त्रितः अनुयोगः = प्रश्नः यस्मिन् स अनियन्त्रणानुयोगः, तपस्विजनः = तापसलोकः नाम निश्चयेन । राजा प्रभुजनानिव मुनिजनान् प्रति प्रश्नस्य देशकालादिभिः प्रतिबन्धो नास्तीत्यर्थः ।


( शकुन्तला सखी प्रियम्बदा को अपनी तर्जनी अङ्गुली से कोंचती है )

विशेष—'तर्जयतेऽनयेति तर्जनी', इस व्युत्पत्ति के अनुसार तजनी अङ्गुली के द्वारा किसी काम को रोकने के लिए इशारा किया जाता है तदनुसार शकुन्तला ने भी आगे पुनः कुछ अपने सम्बन्ध में पूछने के लिए विवक्षु राजा को प्रेरित करने वाली अपनी प्रिय सखी प्रियम्वदा को अपनी तर्जनी अंगुली से कोंचती ( खोदती ) है ।

राजा—हाँ, आपने ठीक ही अनुमान किया । मुझे इस प्रसङ्ग को सुनने का लोभ-सा हो रहा है । अतः मैं इस प्रसङ्ग में और भी कुछ पूछना चाहता हूँ ।

विशेष—दुष्यन्त को कुछ सोचता हुआ देखकर प्रियम्वदा ने अनुमान लगाया कि वे कुछ पूछना चाहते हैं, पर सीधे-सीधे नहीं पूछ रहे हैं, मुझसे ही वह कहलवाना चाहते हैं । यहाँ राजा शकुन्तला को सच्चरित्र कह कर शकुन्तला की प्रशंसा करते हुए अपने मनोऽनुकूल स्थिति उत्पन्न कर रहे हैं ।

प्रियम्वदा—तो, ठीक बात है । आप कोई विचार न करें । हम तपस्वी लोगों से निर्भय हो जो चाहे सो पूछा जा सकता है । इसमें किसी बात की रोक-टोक नहीं है ।

६० अभिज्ञानशाकुन्तलम्

राजा—^१इति सखीं ते ज्ञातुमिच्छामि ।

वैखानसं किमनया व्रतमाप्रदानाद्- व्यापाररोधि मदनस्य निषेवितव्यम् । ^२अत्यन्तमेव ^३सदृशेक्षणवल्लभाभि- राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २६ ॥


राजा—प्रियम्बदावचसा तुष्टो राजा स्वानुरागं गोपयन् भङ्ग्या पृच्छति-इति। एवं रीत्या त्वदुक्तनीत्या अनुयोगनियन्त्रणाभावात् ते = तव सखीं = आलिं शकुन्तलां ज्ञातुं = वेदितुम् इच्छामि = वाञ्छामि । तव तद्वृत्तान्तज्ञानमस्तीति भावः ।

अन्वयः— किम् अनया मदनस्य व्यापाररोधि वैखानसं व्रतम् आप्रदानात् निषेवितव्यं किम् ? आहो मदनेक्षणवल्लभाभिः हरिणाङ्गनाभिः समम् अत्यन्तमेव निवत्स्यति ।

वैखानसमिति । किम् अनया = एतया शकुन्तलया मदयति = चित्तमुन्मादयतीति मदनः तस्य मदनस्य = कामस्य व्यापाररोधि = व्यापारं कृत्यं रुणद्धीति व्यापाररोधि = काम-कल्लोलप्रसरावरोधकं वैखानसं व्रतं = मुनिकन्यकोचितं तपश्चरणं, ब्रह्मचर्यम् प्रकृष्टं दानं प्रदानं = विवाहः तस्मात् यद्वा प्रकृष्टाय = उत्तमप्रकृतये राज्ञे मह्यं दानं तस्मात् एतद वधि आप्रदानात् = विवाहावधिः निषेवितव्यं किम्, यथावद् अनुष्ठेयम्, आचरणीयम् किम् ! अनेन रूपानुरूपाय कस्मैचित् प्रदानं किमिति भङ्ग्या पृष्टः ।

पक्षान्तरं पृच्छति--आहो ! उताहो, यद्वा मदिराणि = हर्षकराणि ईक्षणानि = नेत्राणि = अवलोकितानि वा मदिरेक्षणानि तैः वल्लभाः = तपस्विनां प्रियाः ताभिः मदिरेक्षणवल्लभाभिः हरिणाङ्गनाभिः = मृगीभिः समं = सह अत्यन्तमेव = अत्यन्तमामरणं निवत्स्यति । विवाहावधि ब्रह्मचर्यमस्या आहोस्वित् किमियं यावज्जवोमेव नैष्ठिकब्रह्मचर्य-पूर्वकं स्वसदृशीभिः मृगाङ्गनाभिः सह निवासं करिष्यतीति भावः । विवाहपर्यन्तमस्या

राजा— हाँ, तो जानना चाहता हूँ—

क्या यह आपकी सखी शकुन्तला कामोपभोग को रोकने वाले तपस्वियों के इन कठिन व्रतों एवं नियमो का पालन विवाह तक ही करेगी अथवा हमेशा अपने ही सदृश बड़े-बड़े नेत्र वाली मृगियों के साथ नैष्ठिक ब्रह्मचर्य व्रत पालनपूर्वक निवास करती रहेगी। आप इसकी प्रिय सखी हैं। अतः इसके हृदय की बात जानती होगीं।

विशेष— दुष्यन्त के पूछने का तात्पर्य यह है कि आप शकुन्तला की प्रिय सखी है इसके हृदय की बात जानती होंगी। क्या यह विवाह पर्यन्त ही इस वन में रहेगी या जीवनपर्यन्त ? यदि यह किसी राजर्षि को दी जायेगी तो विवाह पर्यन्त ही इस तपोवन में रह सकेगी, यदि किसी तपस्वी को ही दी जायेगी तो वह मृग के जोड़ों के समान कामोपभोग रहित तपोवन में ही निवास करती रहेगी।

पूर्वाद्धं में मदन विरोधी कहने का आशय है कि तापसजीवन नीरस और सुख का विरोधी है। उत्तरार्द्ध में मुनियों को नेत्रों से शकुन्तला के नेत्रों की तुलना की गई है, जिससे प्रतीत होता है कि जंगल में अति सुन्दर मृगियां होती हैं।

प्राचीन काल में स्त्रियां दो प्रकार की होती थीं। एक प्रकार की स्त्रियाँ जीवन पर्यन्त ब्रह्मचर्य व्रत का पालन करती थीं, जिनका विवाह नहीं होता था। दूसरे प्रकार की स्त्रियां विवाह कर


पाठा०—१. एतत्तृच्छामि । २. अत्यन्तमात्म । ३. मदिरेक्षण ।

प्रथमोऽङ्कः ६१

प्रियंवदा—अज्ज धम्मचरणे वि परवसो.अं जणो । गुरुणो उण से अणुरूव-वरप्पदाणे संकप्पो । [ आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूप-वरप्रदाने संकल्पः । ]

राजा—( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना ।

भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥ २७ ॥

ब्रह्मचर्यंमुत जीवनावधि भविष्यतीति प्रष्टुराशयः । अर्थात्–यद्येषा कस्मैचित् नृपतये प्रदेया तदा विवाहपर्यन्तमेव तपोवने स्थास्यति, यदि च कस्मैचित् तपस्विने प्रदेया तथा मृग-मिथुनवत् कामोपभोगरहिता वने एव स्थास्यति ।

यद्वा—यद्येषामविधाय कस्मैचिद् राज्ञे प्रदेया तदा विवाहपर्यन्तमेव तपोवने वत्स्यति यदि कस्मैचित्तपस्विने प्रदेया तदा मृगमिथुनवत् कामोपमोगरहिता वने एव स्थास्यतीति भावः । अत्र वृत्त्यनुप्रास-सहोक्ति-परिकर अलङ्कारा वसन्ततिलका वृत्तञ्च ।

प्रियंवदा—अथात्यन्तचतुरा प्रियम्वदा दुष्यन्ताभिप्रायं ज्ञात्वा समुचितमुत्तरमाह—
आर्य ! धर्माचरणे = धर्मानुष्ठानेऽपि, किमुत कामाचरणे अयं जनः = प्रियशकुन्तला पर-वशः = पराधीनः स एवोचितं विधास्यति, गुरोः = महर्षेः कण्वस्य अस्याः = एतस्या अनु-रूपाय = रूपादिगुणैः सदृशाय वराय प्रदानमिति अनुरूपवरप्रदाने = योग्यवरसमर्पणे संकल्पः = निश्चयः ।

राजा—( आत्मगतं = स्वगतम् ) न दुरवापा = न दुर्लभा इयं = एषा शकुन्तला-प्राप्तिरूपा खलु = निश्चयेन प्रार्थना प्रार्थ्यते इति प्रार्थना = प्रार्थ्यमानोऽर्थः ।

अन्वयः—हे हृदय ! सम्प्रति सन्देहनिर्णयो जातः ( अतः ) साभिलाषं भव । यत् अग्निम्, आशङ्कसे तदिदं स्पर्शक्षमं रत्नम् ( अस्ति ) ।

भवेति । अथ प्रियम्वदोक्त्या शकुन्तलाया राजकन्यात्वानुरूपवरप्रदानविषये कुल-पतेः कण्वस्य संकल्पं श्रुत्वा तामात्मपरिग्रहयोग्यां निश्चित्य वल्लभशङ्काकातरं स्वहृदयं सहर्षमाह—हे हृदय ! = मदीयचित्त ! सम्प्रति = साम्प्रतं, शकुन्तलाया जन्मवृत्तान्ते गुरु-


गार्हस्थ्य धर्म का निर्वाह करती थीं । पहले जमाने में स्त्रियों का भी मौञ्जीबन्धन ( यज्ञोपवीत ) वेदाध्ययन और गायत्री वाचन होता था । इस प्रकार राजा दुष्यन्त की यह जिज्ञासा उचित थी कि यह ब्रह्मचर्य का पालन करेगी या विवाह करेगी ॥ २६ ॥

प्रियम्बदा—आर्य ! हम लोग तो धर्माचरण में भी परवश हैं, परन्तु गुरु जी की इच्छा इसे किसी अनुरूप योग्य वर की प्रदान करने की ही है । हमलोग तो हमेशा नैष्ठिक ब्रह्मचर्य ही पालन करना चाहती हैं । इस प्रकार विवाह पर्यन्त ही इसका यह तापसोचित धर्माचरण है ।

राजा—( मन ही मन )

हे हृदय ! तू अब इसकी इच्छा कर सकता है, क्योंकि अब सन्देह दूर हो गया, यह मेरे ग्रहण करने योग्य ही स्त्री रत्न है, जिसे तू अग्नि ( ब्राह्मण कन्या होने के कारण आग के समान स्वर्ग के अयोग्य ) समझा था वह तो स्वर्ग के योग्य शीतल रत्न निकला ( यह ब्राह्मण कुमारी नहीं है कि महर्षि विश्वामित्र से अप्सरा में उत्पन्न राजकन्या क्षत्रिया है । अतः मेरे विवाह योग्य है ) ॥ २७ ॥

विशेष—राजा जिसे विवाह के अयोग्य ब्राह्मण कन्या समझते थे वह अब क्षत्रिय-कन्या सिद्ध हो गयी । अतः उन्हें अपने मन को सहर्ष सावधान करना उचित ही है । दुष्यन्त के

६२ अभिज्ञानशाकुन्तलम्

शकुन्तला—( सरोषमिव ) अणसूए, गमिस्सं अहं । [ अनसूये, गमिष्याम्यहम् । ] अनसूया—किंणिमित्तं [ किंनिमित्तम् । ] शकुन्तला—इमं असंबद्धप्पलाविणिं पिअंवदं अज्जाए गोदमीए णिवेदइस्सं [ इमामसंबद्धप्रलापिनीं प्रियंवदाभार्यायै गौतम्यै निवेदयिष्यामि । ] अनसूया—सहि ण जुत्तं अकिदसक्कारं अदिहिविसेसं विसज्जिअ सच्छन्ददो गमणं । [ सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम् । ]

कृतवरसंकल्पे च प्रियम्वदावचनेनावगते सति, सन्देहस्य निर्णयः सन्देहनिर्णयः यद्वा सन्दिह्यते इति सन्देहः = सन्देहविषयः तस्य तस्मिन् वा निर्णयः किमियं मद्योग्या न वेति संशयस्य निश्चयो जातः = अभवत् । साम्प्रतं सर्वात्मना सन्देहो निवृत्तः । अतः त्वं अभिलाषेण स्पृहया वर्तते इति सामिलाषं भव = यथेष्टमेनामभिलष । यत् = पुरोदृश्यमानं शकुन्तलावस्तुरूपम् = अग्नि = स्पर्शयोग्यमङ्गाररूपं हुताशनम् आशङ्कसे = सन्देहं कुरुषे तदिदं = वस्तु स्पर्शक्षमं रत्नं = स्पर्शयोग्यो मणिविशेषः नेयं ब्राह्मणकन्यका, किन्तु क्षत्रादप्सरसः सम्भवा मदुपसंग्रहणार्हंतृद ! त्वं यां मुनिकन्यकामगम्यामिति त्वमाशङ्किष्ठा सेयमिदानीं गम्या राजकन्यका निश्चितेति भावः ।

अत्र काव्यलिङ्गालङ्कारो जातिश्चार्या ॥ २७ ॥

शकुन्तला--( सरोषम् = रोषेण = कोपेन सह वर्तते सरोषम् कृतककोपमिव अभिनोय ) दुष्यन्तालापजन्यया लज्जया तत्सन्निधौ स्थातुमशक्यतया प्रियम्वदां प्रति शकुन्तलाया रोषः । अनसूये ! = अहं गमिष्यामि = अन्यत्र व्रजामि ।

अनसूया—शकुन्तलाया गमने हेतुं जानन्त्यपि तां निरोद्धुमनसूया पृच्छति--किं निमित्तम् = को हेतुः यत्त्वं गमिष्यसि ।

शकुन्तला--इमां = एनां, असम्बद्धम् = असङ्गतं प्रलपितुं शीलमस्या इति असम्बद्धप्रलापिनीं तामसम्बद्धप्रलापिनीम् = अश्राव्यभाषणशीलां गौतम्यै = संरक्षणनियुक्तायै आत्मनो मातृस्थानीयायै कण्वभगिन्यै निवेदयिष्यामि = विज्ञापयिष्यामि ।

अनसूया--प्रस्थानाध्यवसायिनीं तां धर्मलोपोपन्यासव्याजेन उपहासगर्भं पुनरनसूया निषेधति--सखि ! आलि ! अकृतसत्कारम्--न कृतः = न विहितः सत्कारः = समादरो यस्य स तमकृतसत्कारम् = अकृतयथोचितसत्क्रियं, अकृतपूजनम्, अतिथिविशेषम् ईदृशं

मन में यहीं से आशा का बीज उत्पन्न हो जाता है, क्योंकि शकुन्तला क्षत्रिय के योग्य ग्रहणीय एवं स्पृहणीय है। महर्षि कण्व किसी योग्य वर को देने के इच्छुक हैं। राजा दुष्यन्त योग्य एवं सुन्दर युवक होने के नाते सत्पात्र भी है। अतः उनके लिए अब शकुन्तला दुर्लभ न रह गयी है।

शकुन्तला—( कुछ कुपित-सी होकर ) मैं अन्यत्र जाती हूँ ।

अनसूया—किसलिए जावोगी ?

शकुन्तला—असम्बद्ध प्रलापिनी = व्यर्थ की बकवाद करने वाली इस प्रियम्वदा की शिकायत आर्या गौतमी से जाकर करूँगी ।

अनसूया—सखि ! हम आश्रमवासियों को यह कदापि उचित नहीं है कि ऐसे विशिष्ट अतिथि को आदर सत्कार किये बिना ही उसे छोड़कर यों ही अपने मन से चली जांय ।

प्रथमोऽङ्कः ६३

( शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव )

राजा-- ( आत्मगतम् ) आः कथं गच्छति । ( ग्रहीतुमिच्छन्निगृह्यात्मानम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि—

'अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ २८ ॥


विशिष्टं महाप्रभावमतिथिम् उज्झित्वा = अपहाय, परित्यज्य स्वच्छन्दतः = स्वैरम्, गमनं = श्रयाणम् । स्वच्छन्दतो गमनं न युक्तमित्यतो मा गा इति भावः ।

( शकुन्तला--न किञ्चित् = किमपि उक्त्वा = कथयित्वा प्रस्थिता = प्रचलिता एव )

राजा-- ( आत्मगतम् ) अतः कथं गच्छति = अहो किं याति ( ग्रहीतुं = धर्तुं इच्छन् = वाञ्छन् विनयाभिजात्यादिना आत्मानं = स्वं निगृह्य = निवार्य ) अहो, कामिजनस्य मनोवृत्तिः = चित्तवर्तनं कामिजनमनोवृत्तिः, चेष्टामनुरूपयति तच्छीला चेष्टाप्रतिरूपिका = चेष्टासदृशी ( भवति ) अहं हि = अयं जनो निश्चयेन---

अन्वयः---मुनितनयां सहसा अनुयास्यन् विनयेन पुनः वारितप्रसरः अहं स्थानात् अनुचलन्नपि गत्वा प्रतिनिवृत्त इव ( अस्मि ) ।

अनुयास्यन्निति । गन्तुं प्रयतमानां शकुन्तलामवलोक्य राजा दुष्यन्तो विवेकेनात्मानं निगृह्य स्वगतं विमृशति--मुनितनयां = ऋषिकन्यकां शकुन्तलां प्रति सहसा = अविचारितं, अनुयास्यन् = अनुगमिष्यन् विनयेन = दमेन पुनः = भूयः वारितप्रसरः वारितः = निरुद्धः प्रसरः = अनुयानात्मको वेगः यस्य स वारितप्रसरः = अवरुद्धवेगः अत एवाहं स्थानात् = विश्रामस्थानात् स्थितेर्वा अनुचलन्नपि = अनुतिष्ठन्नपि गत्वा = प्रस्थाय प्रतिनिवृत्तः = प्रत्यागत इव = एव जातोऽस्मीति मे प्रतिभातीत्यर्थः ।


( शकुन्तला बिना उत्तर दिये ही जाती है )

राजा—( मन ही मन ) है, यह तो जाती है ( इसे पकड़ना चाहता हुआ भी पुनः अपनी इच्छा को रोककर ) कामियों की मनोवृत्ति शरीर की चेष्टा के अनुरूप ही होती है। क्योंकि—

मैं ही मुनिकन्या=शकुन्तला के पीछे-पीछे जाना चाहता था, पर शिष्टाचार के अनुसार एका-एक रुक गया हूँ। यद्यपि मैं उठा नहीं हूँ, पर प्रतीत होता है कि इसके पीछे-पीछे जाकर लौट रहा हूँ ॥ २८ ॥

विशेष—जो व्यक्ति जितना ही संयमी होता है वह अपने मन को उतनी ही शीघ्रता से अपने वश में कर लेता है। जैसे राजा दुष्यन्त का मन भ्रान्ति के कारण शकुन्तला को अपने से दूर समझ कर पकड़ने को दौड़ा। किन्तु उन्होंने धैर्य के द्वारा उसे रोक लिया। मन के अनुसार उसकी चेष्टाएँ भी हुआ करती हैं। मन अत्यन्त वेग से शरीर के अन्दर-अन्दर सारी चेष्टाएँ कर लेता है। राजा दुष्यन्त अपने स्थान से उठे तक नहीं, किन्तु मन शकुन्तला को पकड़ कर पुनः संकोचवश उसे छोड़ दिया। अतः मन की बड़ी प्रबलता मानी गयी है। मर्यादाशील व्यक्ति मन ही मन अनुचित विषय का प्रसार रोक लेते हैं। दुष्यन्त ने शारीरिक व्यापार कुछ नहीं किया, परन्तु उन्हें प्रतीत हुआ कि मैं शकुन्तला को पकड़ने के निमित्त जाकर लौट आया।

यहाँ मुनिकन्या का प्रयोग बड़ा ही महत्वपूर्ण है जिससे राजा दुष्यन्त ने सोचा कि यह मुनि


पाठा०—१. स्थानादचलन्नपि ।

६४ | अभिज्ञानशाकुन्तलम्

प्रियंवदा--(शकुन्तलां निरुध्य) हला ण दे जुत्तं गन्तुं । [ हला न ते युक्तं गन्तुम् । ]
शकुन्तला--( सभ्रूमङ्गम् ) किंणिमित्तं । [ किंनिमित्तम् । ]
प्रियंवदा--रुक्खसेअणे दुवे धारेसि मे । एहि जाव । अत्ताणं मोआविअ तदो गमिस्ससि । [ वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि । ] (बलादेनां निवर्तयति )
राजा--भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः--


अयं भावः अहो ! चेष्टानुरूपा कामुकमनोवृत्तिर्भवति यतोऽहनुयान्तीमिमां शकुन्तलां सहसा अनुयातुमभिलषन् । केवलेनात्मधैर्येणावरुद्धो जातः इति भावः । विरोधाभास-काव्यलिङ्ग-वृत्त्यनुप्रासा अलङ्कारा अत्रार्याछन्दश्च ॥ २८ ॥

प्रियंवदा--(शकुन्तलां निरूप्य ) गमनोद्यतां ताम् आदेशान्तरेण निरुणद्धि— हला = हे सखि ! ते = तव कृते गन्तुं = गमनं न युक्तं नोचितम् ।

शकुन्तला--( सभ्रूमङ्गम्-भ्रुवोः मङ्गः भ्रमङ्गः तेन यथा स्यात्तथा इति सभ्रूमङ्गम् = भ्रुकुटीं बध्वा ) कथयति-किं निमित्तम् = किं निमित्तं = हेतुर्यत्र तत् किंनिमित्तम् = कोऽत्र हेतुरिति भावः ।

प्रियंवदा—मे = मम द्वे वृक्षसेचने-वृक्षाः सीच्यन्ते आभ्यामिति वृक्षसेचने-वारद्वयं वृक्षसेचनम् धारयसि = ऋणत्वेन धत्से यद्वा वृक्षाणां = द्रुमाणां सेचने = उक्षणे द्वे धारयसि = तव कृतेऽहं द्विःसेचनं कृतवती अस्मि । अतस्तद्रूपम् ऋणं वहसि । त्वया सेचनीयं वृक्षद्वयं मया सिक्तम्, तत्त्वम् ऋणत्वेन मह्यं धारयसीत्यर्थः, एहि = आगच्छ तावत् आत्मानं स्वं मोचयित्वा = ऋणमुक्तं कारयित्वा ( मम कृते द्विः सेचनं कृतम् ) ततः = तदनन्तरं गमिष्यसि = यास्यसि ( बलात् = बलात्कारेण = हठात् एनां= शकुन्तलां निवर्तयति = निवृत्तां करोति, पुनः प्रतिनिवर्तने अनिच्छामभिनयन्तीं प्रतिनिवर्तयतीति भावः )

राजा—अथ ऋणमोचनप्रसङ्गेन विक्लवां शकुन्तलाम् ऋणान्मोचयितुं कारुणिकत्वं व्यपदिशन् राजा प्रियम्वदामाह— भद्रे ! कल्याणि ! मदभिप्रायविरोधिनी मा भूः, वृक्षसेचनात् पूर्वमनुष्ठितात् बालतरुभ्यः उदकदानव्यापारात् परिश्रान्तां = खिन्नां, अत्रभवतीं = आदरणीयां शकुन्तलां लक्षये = लक्षणैः तर्कयामि पश्यामि । तथा हि पश्यतु, एतस्याः शकुन्तलायाः ।


की औरस पुत्री न होती हुई भी उनके द्वारा पालित-पोषित होने के कारण एक तरह से यह उनकी कन्या ही है। इसके प्रति कोई अनुचित व्यवहार करना खतरे से खाली नहीं है, क्योंकि ऋषियों को अपनी इच्छा के प्रतिकूल कार्य होने पर सहसा शाप देकर अनिष्ट करने में देर नहीं लगती ॥२८॥

प्रियम्वदा—( शकुन्तला को रोकते हुए ) अरि सखि ! तुम्हारा जाना उचित नहीं है। अतः तुम्हें जाने नहीं दूँगी ।

शकुन्तला—( भौहें टेढ़ी कर ) किसलिए ।

प्रियम्वदा—तेरे ऊपर मेरा दो वृक्षों को सींचने का ऋण बाकी है। आओ पहले उनसे अपने को छुड़ा लें, तब जाना । ( बलपूर्वक रोकती है )

राजा—हे भद्रे ! वृक्षों के सींचने से आपकी सखी ( शकुन्तला ) बिल्कुल थक गई- सीमापूम पड़ती है, क्योंकि---

प्रथमोऽङ्कः ६५

स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ २९ ॥

**अन्वयः—**घटोत्क्षेपणात् अस्याः बाहू स्रस्तांसौ अतिमात्रलोहिततलौ ( स्तः ), प्रमाणाधिकः श्वासः अद्यापि स्तनवेपथुं जनयति, वदने कर्णशिरीषरोधि घर्माम्भसां जालकं बद्धम् ( अस्ति ) बन्धे स्रंसिनि मूर्धजाश्च एकहस्तयमिताः पर्याकुलाः ( सन्ति )।

वृक्षाणां सेचनादत्यन्तं परिश्रान्तायाः शकुन्तलायाः परिश्रमलक्षणानि ब्रवीति राजा दुष्यन्तः—स्रस्तांसाविति । घटोत्क्षेपणात् = कलशोत्थापनात् उत्थाप्योद्वहनाद्वा अस्याः शकुन्तलायाः बाहू = भुजौ स्रस्तांसौ स्रस्तौ = अवनतौ = अंसौ = स्कन्धभागौ ययोस्तौ स्रस्तांसौ—'उन्नतांसः पुमान् पूज्यः सन्नतासा तु सुन्दरी।' इति वचनेन स्वभावतः सन्नतावपि सम्प्रति परिश्रमवशादत्यन्तं सन्नतांसौ जाताविति भावः । अतिमात्रम् = अत्यन्तं लोहितं रक्तं तलं = करतलं ययोस्तौ अतिमात्रलोहिततलौ = नैसर्गिकलोहित्यापेक्षयाऽतितरां लोहितकरतलौ ( स्तः ) घटोत्क्षेपणादेव प्रमाणाधिकः प्रमाणाधिकः = स्वमालाया अधिकः = अतिरिक्तः द्वादशाङ्गुलादधिकः ।

तथा हि— 'देहं व्याप्य स्वनाडीभिः प्रमाणं कुरुते बहिः।
द्वादशाङ्गुलमानेन तस्मात् प्राणः समीरतः ॥'

श्वासः = निश्वासवायुः अद्यापि = वृक्षसेचनेऽवसितेऽपि स्तनयोः = उरुजयोः वेपथुं = कम्पं जनयति = सम्पादयति । वदने = मुखे किंवा—'सर्वं वा मुखमुच्यते' इति वचनेन सर्वस्मिन्नङ्गे सर्वस्याङ्गस्य संवृतत्वात् कपोलयोरलिके चिबुके चेत्यर्थः । कर्णशिरीषरोधि कर्णं = कर्णाभरणं शिरीषं = शिरीषपुष्पं रोद्धुं शीलमस्येति कर्णशिरीषरोधि-कर्णभूषणशिरीषपुष्परोधकं घर्माम्भसा = श्वेतजलानां जालमेव जालकं-बिन्दुकदम्बकम्, बद्धं = संसक्तं दृश्यते । स्वेदजलेन कर्णशिरीषं गण्डस्थले आसक्तं सत्तथा न तरलितं भवतीति स्वेदोदकस्य कुसुमरोधकता स्फुटा । घटोत्क्षेपणादेव च बन्धे = केशबन्धे स्रंसिनि = शिथिले सति मूर्धजाः = मूर्धनि जायन्ते इति मूर्धजाः-चिकुराः, केशा अपि एकेन हस्तेन = पाणिना यमिताः = नियमिता धृता वा=बद्धा इति एकहस्तयमिताः एककरधृताः अतएव पर्याकुलाः = विक्षीर्णाः, अंसावलम्बिन। सन्ति ।

**इदमस्य तात्पर्य—**वृक्षसेचनेनात्यन्तं परिश्रान्तायाः सुकुमाराङ्ग्याः शकुन्तलायाः


कलश उठाने के कारण इसके दोनों हाथ कन्धे पर से कुछ नीचे की ओर लटक आये हैं। दोनों हाथों की हथेलियाँ भी लाल हो गई हैं। अति परिश्रम से श्वास भी लम्बा, लम्बा चल रहा है, जिससे दोनों स्तन भी कुछ कम्पित से हो रहे दीख पड़ते हैं। शिरीष के फूलों से बने हुए कर्णफूलों के चिपकने वाले पसीने के इन बिन्दुओं का जाल-सा मुखमण्डल पर छा गया है ( पसीने से कर्णभूषण गाल पर चिपक गये हैं।) और इसके शिर का जूड़ा भी ढीला होकर हाथ से पकड़े जाने पर भी इधर-उधर बिखर रहा है। इस प्रकार इसका केशपाश अस्तव्यस्त हो रहा है॥ २९॥

5 **विशेष—**कोई गम्भीर वस्तु हाथ से उठाने पर कन्धे कुछ झुक जाते हैं, हथेलियाँ लाल हो

५ शाकु०

६६अभिज्ञानशाकुन्तलम्

तदहमेनामनृणां करोमि । ( अङ्गुलीयं दातुमिच्छति । )
( उभे नाममुद्राक्षराण्युवाच्य परस्परमवलोकयतः । )
राजा—¹अलमस्मानन्यथा सम्भाव्य । राज्ञः ²परिग्रहोऽयमिति राजपुरुषं मामवगच्छत ।

निसर्गेण सन्नतावपि भुजौ घटोद्वहनात् शिथिलांसौ जातौ, पाणितलयोः नैसर्गिकोऽपि रक्तिमा घटोत्थापनात् अत्यन्तं लोहितो जातः, स्वाभाविकोऽपि द्वादशाङ्गुलः श्वासोऽति-परिश्रमेण वर्धते वृक्षसेचनकार्यं समाप्तोऽपि कुंचकम्पो जायते, भालकपोलभागेषु स्वेदलवो विलोक्यन्ते, तत्र संसक्तं पतनोनमुखमपि कर्णयोः धृतं शिरीषपुष्पं न पतति तथा एकेनैव करेण धृते केशाः शिथिलायन्ते दृश्यन्ते । एभिर्लक्षणैर्नूनमियं शकुन्तला अत्यन्तं परि-श्रान्ता अनुमीयते इति भावः । अत्र स्वभावोक्ति-अनुमान-काव्यालिङ्गानुप्रासा अलङ्काराः शार्दूलविक्रीडितं च वृत्तमस्ति ॥ २९ ॥

इत्थं परिश्रमातिशयमुपवर्ण्य ऋणमोचनोपायमाह—तदहमित्यादिना—तत् = तस्मात् कारणात् अहम् = अयं जनो दुष्यन्तः, एनाम् = इमां परिश्रान्तां शकुन्तलां, अविद्यमानम् ऋणं यस्याः सा ताम् अनृणाम् = ऋणरहितां प्रतिवस्तुप्रदानेन ऋणमुक्तां करोमि = कारयामि इत्युक्तवा व्यवहारे प्रतिनिधिवस्तुप्रदानेनापि ऋणनिवृत्तिदर्शनात् । ( अङ्गुलीयकं = मुद्रिकां दातुं = वितरितुं इच्छति = वाञ्छति । )

( उभे = द्वे अपि सख्यौ नाम्नः मुद्रायाश्च अक्षराणि = वर्णान्, मुद्रितवर्णान् यद्वा नाम = दुष्यन्त इति नामधेयं मुद्रा = अङ्गुलीयकं च नाममुद्रे—'मुद्रा मुकुलने बन्धे लिङ्गे चिह्नेऽङ्गुलीयके' इत्यजयः । यद्वा नामयुक्ता मुद्रा नाममुद्रा तस्या अक्षराणि नाममुद्रा-क्षराणि = संज्ञामुद्रिकावर्णान् अनुवाच्य = पुनः पुनः पठित्वा परस्परं = परां परां, अनसूया प्रियम्वदां प्रियम्वदा च अनसूयाम् अवलोकयतः = पश्यतः । निश्चिन्वत्तश्च अयं महाजनो दुष्यन्त एव न तु तस्य कश्चिदधिकारिपुरुषः । )

राजा—अथ इङ्गितज्ञो राजा दुष्यन्तः तयोरभिप्रायं ज्ञात्वा पुनरप्यात्मानं गोपयितु-


जाती है, सासें तेजी से चलने लगती हैं, परिश्रम से पसीने निकल आने के कारण गाल में झुमके चिपक जाती हैं, बाल बिखर कर मुँह पर आ जाते हैं जिन्हें एक हाथ में घड़ा लेने से दूसरे हाथ से पकड़ना आवश्यक हो जाता है । इस प्रकार वृक्षों के सींचने में श्रम से थकी सुकुमार शकुन्तला की अवस्था का वर्णन स्वाभाविक ही हैं ।

तो मैं इन्हें ऋण रहित कर देता हूँ (अँगूठी देने की इच्छा करते हैं ।)

(दोनों सखियाँ दुष्यन्त नाम युक्त अँगूठी के अक्षरों को बाँचकर एक दूसरे की ओर देखती हैं)

विशेष—प्राचीन समय में परिश्रम के रूप में लिए गये ऋण को द्रव्य से चुकाने की प्रथा थी तदनुसार राजा दुष्यन्त अपनी अँगूठी देकर प्रियम्वदा के ऋण से शकुन्तला को मुक्त करना चाहते थे । पूर्व जमाने में अंगूठियों में नाम खुदे रहते थे, जिससे पत्र आदि पर मुहर करने का भी काम चलता रहता था । राजा की अँगूठी पर अङ्कित दुष्यन्त नाम पढ़कर प्रियम्वदा और अनसूया दोनों सखियां एक दूसरे को देखने लगीं कि ये तो साक्षात् राजा दुष्यन्त ही हैं ।

राजा—आप लोग दूसरी बात न समझें । राजा दुष्यन्त से यह अँगूठी पारितोषिक या दान के


पाठा०—१. अलमन्यथा । २. परिग्रहोऽयम् । 'प्रियम्वदा-'

प्रथमोऽङ्कः ६७

प्रियंवदा--तेण हि णारिहदि एदं अङ्गुलीअअं अङ्गुलीविओअ। अज्जस्स वअणेण अणिरिणा दाणिं एसा। हला सउन्दले मोइदासि अणुअम्पिणा अज्जेण अहवा महाराएण। गच्छ दाणि [ तेन हि नाहंत्येतदङ्गुलीयकमङ्गुलिवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । ( किंचिद्विहस्य ) हला शकुन्तले मोचितास्यनुकम्पि-नार्येण अथवा महाराजेन गच्छेदानीम् । ]


माह—अलमिति । अस्मात् = इमं जनं अन्यथा = विपरीतम्, अस्मदुक्तप्रकारातिरिक्त-प्रकारेण राजत्वेनेति यावत् संभाव्य अलं = संभावना न कर्तव्या अहमधिकारिपुरुष एवेति भावः । तर्हीदमङ्गुलीयकं कथं तव करे ? इत्यत आह—राज इति । परिगृह्यते इति परिग्रहः राज्ञो दुष्यन्तस्य परिग्रहः = मह्यं दानमेतत् राज्ञः सकाशाल्लब्धमिदं पारितोषिकमित्यर्थः । अतोऽत्र न शङ्का कार्या भवतीभ्यामित्याशयः । अयं=एषः परिग्रहस्वरूपः अङ्गुलीयरूपः । आन्तरार्थस्तु राज्ञो मम परिग्रहः = परिग्रहयोग्यं = धारणयोग्यमिद-मङ्गुलीयकमित्यर्थः यद्वा राज्ञः = मम दुष्यन्तस्य परिग्रहः = भवत्यै उपहारः इत्यर्थः । अतो न राज्ञो मिथ्याभाषणदोषः । इति = एवं विभाव्य माम् इमं जनं राज्ञः पुरुषो राज-पुरुषः तं राजपुरुषमिति षष्ठीतत्पुरुषे राजपुरुषं = नृपसेवकं, यद्वा राजा चासौ पुरुषो राज-पुरुषः तं राजपुरुषं = राजरूपं पुरुषं दुष्यन्तम् अवगच्छत = जानीत । इति भावः ।

प्रियंवदा—अथात्यन्तचतुरा प्रियम्वदा तदभिप्रायं सम्यग् विदित्वा सङ्गत्या उत्तर-यति—तेनेति । तेन हि = राजपरिग्रहात्, एतत् = इदं चरितमङ्गुलीयकम्-मुद्रिकामङ्गुली-वियोगं = भवतः अङ्गुल्याः = अङ्गुलितः वियोगं = विरहं न र्होति, यतो राजपरिग्रहात् भवता धारणीयमेव, स्वकीयमेव वस्तु दातव्यं भवति राजप्रसादलब्धमिदं तु सर्वथा अदेय-मेवेति भावः, आर्यस्य=श्रीमतो धर्माधिकारिणो महाराजस्य वा वचनेन = वचनामृतेन एव इदानीं = सांप्रतम् एषा = इयं पार्श्ववर्तिनी शकुन्तला मे प्रियसखी अनृणा = ऋणमुक्ता जाता ( किञ्चिद् विहस्य = ईषत् स्मितेन सह ) हला, शकुन्तले ! = प्रियसखि शकुन्तले ! अनुकम्पास्त्यनुकम्पा तेन अनुकम्पिना = दयालुना तव ऋणधारणजन्यक्लेशमसहमानेन


रूप में मुझे मिली है। अतः आपलोग इसमें किसी प्रकार की आशङ्का न करें। मुझे राजपुरुष समझें ।

विशेष—राजपुरुष के समासभेद में दो अर्थ होते हैं, एक राजा का पुरुष=सेवक, दूसरा राजा रूप पुरुष । राजा दुष्यन्त अपने को छिपाना चाहते थे । इसलिए उन्होंने श्लेष शब्द राजपुरुष कहकर छिपाने का प्रयास करते हुए कहा कि आप लोगों ने अँगूठी पर दुष्यन्त नाम पढ़कर मुझे राजा दुष्यन्त समझा होगा किन्तु मैं दुष्यन्त नहीं हूँ । यह अँगूठी मेरी नहीं है, बल्कि राजा के द्वारा मुझे इनाम में मिली है ।

प्रियम्वदा—यदि ऐसी बात है अर्थात् यह राजा से पारितोषिक के रूप में मिली है तो फिर उसे आप अपनी अँगुली में रहने दें। इसे अँगुली से पृथक् करना समुचित नहीं है। यह मेरी प्रिय सखी शकुन्तला तो आपके वचन मात्र से ही अब ऋण से मुक्त हो गई। ( कुछ मुस्कराकर ) सखि शकुन्तले ! इस दयालु सज्जन ने तुमको ऋण से मुक्त कर दिया है अथवा इस राजर्षि ने दया करके तुमको ऋण से छुड़ा दिया ? अब तुम जा सकती हो ।

विशेष—प्रियम्वदा परिहास प्रिया सखी है । यह समय-समय पर परिहास के द्वारा चुटकी लेती ही रहती है । प्रियम्वदा ने मुस्कराकर अपना अभिप्राय व्यक्त किया कि महाराज ! आप खास

६८अभिज्ञानशाकुन्तलम्

शकुन्तला-- ( आत्मगतम् ) जइ अत्तणो पहविस्सं । ( प्रकाशम् ) का तुमं विसज्जिदव्वस्स रुन्धिदव्वस्स वा [ यद्यात्मनः प्रभविष्यामि । ( प्रकाशम् ) का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा । ]

राजा--( शकुन्तलां विलोक्य आत्मगतम् ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः—

वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ¹ददात्यभिमुखं मयि भाषमाणे ।


आर्येण = धर्मसचिवेन श्रेष्ठपुरुषेण अथवा = यद्वा अङ्गुलीयाक्षरशंसितेन सत्यसंभावानानुरोधेन महाराजेन = राज्ञा दुष्मन्तेन । गच्छ = याहि इदानीम् = अधुना = ऋणतो मुक्ता असि । अतो न रुणध्मि पूर्ववाञ्छानुसारण गन्तुं शक्नोषि । त्वया यथेष्टं गम्यतामिति भावः।

शकुन्तला—अथ सखीवचनेन महाराजत्वमवगम्य प्रवर्द्धमानानुरागा शकुन्तला तस्मात् स्थानात् गन्तुमशक्नुवती विचारयति ( आत्मगतं = स्वगतम् ) यदि = चेत् आत्मनः = मन्नसः प्रभविष्यामि = शक्ष्यामि तर्हि गमिष्यामि, मदीयं मनस्तु एतदायत्तं जातमित्यं गन्तुमक्षमेति भावः । ( प्रकाशं = स्पष्टम् ) का त्वं = भवती विसर्जितव्यस्य = मोक्तव्यस्य रोद्धव्यस्य = रोधनयोग्यस्य विषये । महाराजेनैवाहं मोचिता स एव मम विरोधे विसर्जने वा प्रभुरिति गूढार्थः ।

राजा—( अथ शकुन्तलाम् तथाविधां विलोक्य = आलोक्य आत्मगतं = स्वगतम् ), प्रबर्द्धमानानुरागः = राजा दुष्मन्तः चिन्तयति—किं नु = इति वितर्के, खलु = इति जिज्ञासायाम्, वाक्यालङ्कारे वा यथा = यद्वद् वयम् = अहम् अस्यां = एतस्यां शकुन्तलायाम् एवं = तथा इयम् = एषा अपि अस्मान् = मां प्रति = मद्दिषये स्यात् = भवेत् अथवा = यद्वा पक्षान्तरे लब्धः = प्राप्तः अवकाशः = शकुन्तलाया हृदये स्थानमिति लब्धावकाशा जाता मे = मम प्रार्थना = अभिलाषा, शकुन्तलाप्राप्तिरूपा । किमियम् अहं तस्यामिव मयि सानुरागा स्यात् ? अथवा सर्वथैवेयं मय्यनुरागिणीति भावः ।

अन्वयः—इयं यद्यपि मद्वचोभिः वाचं न मिश्रयति, मयि भाषमाणे अभिमुखं कर्णं ददाति, कामं मदाननसंमुखीना न तिष्ठति, अस्या दृष्टिस्तु भूयिष्ठम् अन्यविषया न (अस्ति)।


छिपाइए, पर मैं समझ गई हूँ कि आप राजा दुष्यन्त हैं । आप राजधर्म के अनुसार दया करके मेरी सखी शकुन्तला को मेरे ऋण वृक्ष-सेचन से इसे मुक्त करना चाहते हैं, तो आपके आदेश से इसे मैं मुक्त कर देती हूँ । यह अँगूठी आपके हाथ में रहे । आपसे शुल्क नहीं लिया जा सकता है बल्कि आपके आदेश से ही सब कुछ सम्पन्न हो सकता है ।

शकुन्तला—( मन ही मन ) यदि मैं अपने वश में होती या मेरा वश चलता तो मैं इस प्रियजन के पास से कहीं जाती ही नहीं ( प्रकट में ) तू कौन है, मुझे जाने देने वाली या रोकने वाली ? अर्थात् महाराज ने मुझे छुड़ाया है वही मुझे भेज या रोक सकते हैं ।

राजा—( शकुन्तला को देखकर, मन ही मन ) क्या, जैसे मेरा इसके प्रति अनुराग हो गया है वैसा ही इसका भी मेरे प्रति अनुराग होगा ? अथवा मेरी अभिलाषा ने इसके हृदय में स्थान पा लिया है। क्योंकि—

यद्यपि मेरी बातों में बात तो नहीं मिलती, किन्तु जब मैं कुछ बोलता हूँ तो सावधानतापूर्वक


पाठा०—१. ददात्यवहिता ।

प्रथमोऽङ्कः | ६९

कामं न तिष्ठति मदाननसम्मुखीना¹ भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ ३० ॥

( नेपथ्ये ) भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः ।

तां शकुन्तलां तथाविधामवलोक्य राजा दुष्यन्तो विचिन्तयति—वाचमिति । इयं=एषा शकुन्तला मद्वाचोभिः = मम प्रश्नोत्तराद्यात्मिकैर्वाक्यैः सह=साकं वाचं = आत्मीयं वचनं न मिश्रयति=न संयोजयति, मया भङ्ग्या बहुषु वचनेषूक्तेष्वपि न किञ्चिदपि प्रवक्ति । मया सह नालापं कुरुते इत्यर्थः । कदाचिदिदमनास्थाहेतुकं स्यादित्यत आह—मयि भाषमाणे—वदति सति अभिमुखं = सम्मुखं कर्णं = श्रवणं ददाति = सावधाना मद्बचनं शृणोतीत्यर्थः । कामं = अत्यन्तं, मदाननसम्मुखीना संमुखे तिष्ठतीति संमुखीना आननं मदाननं मदाननस्य संमुखीना मदाननसम्मुखीना = मन्मुखामिमुखी न तिष्ठति = न विद्यते । अस्याः = शकुन्तलायाः दृष्टिरतु = नेत्रव्यापारस्तु भूयिष्ठं = अत्यन्तम् अन्यविषया = इतरवस्तुगता = मन्मुखव्यतिरिक्तविषयिणी न = नैवास्ति । अस्या गूढदृष्टिमंन्मुखविषयैवेति भावः । तथा च नूनमियं मयि गूढानुरागिणी, भङ्ग्या मया उत्क्षिप्तेष्वपि बहुषु प्रश्नेषु नेयं किञ्चिद्वक्ति, किन्तु मयि किञ्चिद् भाषमाणे सति सावधाना सती मदीयं वचः शृणोति । यद्यपि लज्जया असौ मम मुखाभिमुखी न तिष्ठति तथापि अस्या दृष्टिः मन्मुखं विहाय न अन्यत्र गच्छति । अत एभिर्लक्षणैरैषा मयि स्पष्टमनुरागवती जाता । अनेन मुग्धाया नायिकाया गात्रजो विलासः उक्तो भवति । तथा हि तल्लक्षणम्—

‘यो वल्लभासन्नगतो विकारो गत्यासनस्थानवलोकनादौ । नानाविधाऽकूतचमत्कृतिश्च पराङ्मुखं चास्यमयं विलासः ॥’

साहित्यदर्पणे विश्वनाथेन सङ्कोचस्येयं स्थितिः अनुरागिणी नायिकालक्षणं निर्दिष्टमस्ति—

‘दृष्टा दर्शयति व्रीडां संमुखं नैव तिष्ठति । प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥ अन्यैः प्रवर्तितां शश्वत् सावधाना च तत्कथाम् । शृणोत्यन्यत्र दत्ताक्षो प्रिये बालानुरागिणी ॥’

अत्र छेकानुप्रास-वृत्त्यनुप्रासावलङ्कारौ वसन्ततिलका च वृत्तम् ॥ ३० ॥

इत्थं शकुन्तलानुरागस्फुटपरिज्ञानेन कृतकृत्यप्रायस्य दुष्यन्तस्य गमनावकाशं सम्पादयितुं प्रकृतकथाविच्छेदार्थं चान्तरसन्धिमुपाक्षिपति-नेपथ्ये इति । नेपथ्ये=सज्जाकक्षे सैनिका


कान देकर यह मेरी बातें ध्यान से सुनती है। यद्यपि यह मेरी तरफ मुख करके नहीं बैठती, फिर भी इसकी दृष्टि दूसरे विषय में न लगकर बार-बार मेरे ही ऊपर आती है। यह सब लक्षण अनुराग का ही है ॥ ३० ॥

विशेष—इस पद्य में एक भारतीय सुशील कन्या का संयत प्रेम व्यक्त किया गया है, जो बातचीत के सिलसिले में दूसरी ओर दृष्टि न देकर सावधानता से कान लगाकर ध्यान से अपने नाम की चर्चा सुन लेती है । बहुधा दृष्टि दूसरी तरफ न जाना अनुराग का सूचक है । शकुन्तला के पूर्वोक्त लक्षणों को देखकर राजा दुष्यन्त ने अपने मन में अपने प्रति उसका पूर्ण अनुराग समझ गये ।

( नेपथ्य में ) अरे आश्रमवासी तपस्वियों ! तपोवन के जीवों की रक्षा के लिए आप लोग


पाठा०—१. संमुखीयं ।

७० अभिज्ञानशाकुन्तलम्

तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलाई्रवल्कलेषु।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥ ३१ ॥

नवलोक्य केषाञ्चित्तपस्विनां वचनमिदम् । भो भोस्तपस्विनः = हे हे तापसाः ! तपोवनस्य सत्त्वानां रक्षायै इति तपोवनसत्त्वरक्षायै = आश्रमजन्तुसंरक्षणाय सन्निहिताः = उपस्थिताः उद्यताः-सन्नद्धाः भवत=भवन्तु नाम । प्रत्यासन्नः=समीपे आगतः मृगयाविहारी मृगयया विहर्तुं शीलमस्येति मृगयाविहारी = आखेटकरसिकः पार्थिवः = राजा दुष्यन्तः किल = श्रूयते ।

अन्वयः—तथा हि तुरगखुरहतः परिणतारुणप्रकाशः रेणुः शलभसमूहः इव विटप-विषक्तजलार्द्रवल्कलेषु आश्रमद्रुमेषु पतति ।

तुरगेति । अथ नेपथ्ये, स्थिता केचन तपस्विनः मृगयाविहारप्रसंगेन धर्मारण्ये राज्ञो दुष्यन्तस्य प्रत्यासत्तिं ज्ञात्वा आश्रमस्थ जन्तूनां संरक्षणाय आश्रमवासिजनान् सावधानान् कुर्वते तथा हि—प्रत्यासन्नतद्वाद्धेतो। यद्वा प्रमाणं प्रदर्शयति तुरगाणां खुरैः हत इति तुरग-खुरहतः = वाजिखुरक्षुण्णः अश्वशफहननोत्थापित। परिणतारुणप्रकाशः—अरुणस्य = सूर्यस्येव प्रकाशो यस्य यद्वा अरुणेन = सूर्येण प्रकाशो यस्य स अरुणप्रकाशः परिणतः अरुणप्रकाशो यस्य स परिणतारुणप्रकाशः अथवा परिणतश्चासौ अरुणश्चेति परिणतारुणः तस्य प्रकाशः परिणतारुणप्रकाशः परिणतारुणप्रकाश इव प्रकाशो यस्य स परिणतारुण-प्रकाशः । परिणतः = अस्तोन्मुखः सायंकालीनः यः अरुणः = सूर्यः तद्वत् प्रकाशः = उज्ज्वलः, सायङ्कालीनसूर्यप्रभासदृशप्रभावमित्यर्थः—‘अरुणोऽस्फुटरागे च सूर्ये सूर्यस्य सारथौ’ इति धरणिः । रेणुः=धूलिकदम्बकम्, शलभसमूह इव पतङ्गनिकर इव विटपेषु-शाखासु विषक्तानि = असञ्चितानि = जलार्द्राणि = वारिसिकतानि वल्कलानि येषां ते तेषु विटपविषक्तजलार्द्रवल्कलेषु = शाखासक्तजलार्द्रवल्कलेषु आश्रमद्रुमेषु-तपोवनतरुषु पतति=आक्रामति । अयं भावो यथा पुञ्जीभूता पतङ्गपङ्क्तिः सम्भूय वृक्षेषु निपतन्ति तथैवायं राजानुजीविसैनिकवाजिखुरोत्थितो रेणुनिकरः तपोवनवृक्षेषु सहसा पतन्ति । तेन स्पष्टमिदं यत् प्रत्यासन्नो राजा दुष्यन्त इति ।

अत्राप्रस्तुतप्रशंसा-वृत्त्यनुप्रास-उपमा-काव्यलिङ्गालङ्काराः पुष्पिताग्रा वृत्तं च ॥३१॥

सावधान तथा सन्नद्ध हो जाइए, क्योंकि महाराज दुष्यन्त शिकार खेलने के लिए इधर ही आ रहे हैं। देखिए—

उनके घोड़ों की टापों से उठी हुई, अस्त होते हुए सूर्य की प्रभा से कुछ लाल यह धूल समूह वृक्षों की शाखाओं पर सूखते हुए मुनियों के गीले वल्कलवस्त्रों पर इस प्रकार गिर रहा है जिस प्रकार आश्रम के वृक्षों पर टिड्डी दल आकर गिरा करता है ॥ ३१ ॥

विशेष—कोई तपस्वी राजा दुष्यन्त की सेना के आगे की खबर पाकर जोर से चिल्लाता हुआ आश्रमवासियों को सावधान करता है कि अरे ! आश्रमवासियों ! यहां के जीव-जन्तुओं की रक्षा करने के निमित्त सावधान हो जावो, शिकार खेलते हुए राजा दुष्यन्त इधर ही आ रहे हैं। सेना दूर नहीं है क्योंकि टिड्डी दल के समान लाल धूल आश्रम के वृक्षों पर गिर रही है। धूल अधिक देखकर अश्वारोही सैनिकों का अनुमान है। टिड्डी दल का रङ्ग लाल है और धूल का रङ्ग भी लाल जमीन की मिट्टी के कारण लाल है। अतः इन दोनों की समता ठीक है।

भो, भो, दो बार कहने से चिल्लाने वाले की घबड़ाहट मालूम होती है। परदे के भीतर स्थित नेपथ्य में बताने को चूलिका कहते हैं—'अन्तर्यवनिकासंस्थैः सूचनाथैस्य चूलिका ।'

प्रथमोऽङ्कः । ७१

अपि च—

तीव्राघात-प्रतिहततरु-स्कन्धलग्नैकदन्तः
पादाकृष्ट-व्रततिवलयासङ्ग-संजातपाशः ।
मूर्ती विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ ३२ ॥

अथ क्षणादेव दर्शनपथमागतां सेनां, तद्दर्शनेन भयभीतं कञ्चिद् वन्यं गजं चावलोक्य ससंभ्रममुच्यते—अपि च।

अन्वयः—स्यन्दनालोकभीतः तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः भिन्नसारङ्गयूथः गजः न तपसः मूर्तः विघ्न इव धर्मारण्यं प्रविशति।

अथ समक्षे समागतां राज्ञो दुष्यन्तस्य सेना तद्दर्शनेन भयभीतं कञ्चनारण्यकगजं विलोक्य ससंभ्रममुच्यते—तीव्रेति। स्यन्दनस्य = दुष्यन्तरथस्य आलोकेन = दर्शनेन भीतः = त्रस्तः इति स्यन्दनालोकभीतः, मुखमभिगतः अभिमुखः तीव्रात् = दृढात् आघातात् = प्रहारात् अभिमुखः = संमुखो यस्तरुः = वृक्षः तस्य स्कन्धे = मूलशाखयोर्मध्यभागे लग्नः = संसक्तः एको दन्तः = रदनो यस्य स तीव्राघातप्रतिहतस्कन्धलग्नैकदन्तः, पादेन = चरणेन आकृष्टतः = आवर्जिताः व्रततयः = मार्गप्राप्तलताः तासां यानि वलयानि = मण्डलानि तेषां सङ्गेन संसर्गेण सञ्जातपाशः = प्राप्तबन्धनरज्जुः इति पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः = पादेन लताजालं वहन् पाशबद्ध इव प्रतीयमानः इत्यर्थः। भिन्नानि = विविक्तानि विद्रावितानि वा सारङ्गाणां = मृगाणां यूथानि = कुलानि येन स भिन्नसारङ्गयूथः गजः = हस्ती, नः = अस्माकं तपसः = अनुष्ठानस्य मूर्तः = मूर्तिमान् इव धृतदेह इव धर्मारण्यं = तपोवनं प्रविशति = आश्रमम् आगच्छति।

अथायमाशयः—राज्ञो दुष्यन्तस्य रथनेमिध्वनिमाकर्ण्य भयभीतो निजदन्तेन विद्धं दन्तेनैव समाकर्षन् पादेन मार्गस्थं लताजालं वहन् मार्गमध्ये समागतानां मृगाणां यूथं विद्रावयन् अस्माकं तपस्याया अन्तरायभूतः शरीरधारी विघ्न इवैष आरण्यक इदं धर्मारण्यं प्रविशति। अतो भोः भोः आश्रमवासिनः यूयं सर्वे अपसरत महता भयेन भीत एष आरण्यको गजः न दक्षिणतः, नाभिवामतः, अपि तु समक्षमेव धावति, मार्गे यद्-यद् आपतति तत् सर्वं मर्दयित्वा प्रचलति। तस्मात् शीघ्रं पलायित्वा मार्गमस्मै प्रज्ञाय आत्मनो रक्षा विधेया।

अत्र सङ्कर-श्रुत्यनुप्रास-स्वभावोक्ति-उत्प्रेक्षा-अप्रस्तुतप्रशंसा-काव्यलिङ्ग-परिकरालङ्काराश्च। भयानकौ रसः मन्दाक्रान्ता वृत्तं च ॥ ३२ ॥


और भी—

यह हाथी जिसका एक दांत सामने आये हुए वृक्षों में जोर से आघात करने से सट या टूट गया है। और लताओं के जाल को बलात् खींचने से जिसके पैर में लता-पाश सा लग गया है। हमारी तपस्या में साक्षात् विघ्नस्वरूप होकर आश्रम के मृगों के झुण्डों को छिन्न-भिन्न तथा विद्रावित करता हुआ सेना के रथों को देखने से भड़क कर इस आश्रम में प्रवेश कर रहा है ॥ ३२ ॥

**विशेष—**हाथी या किसी पशु को जिसने कभी रथ देखा ही नहीं हैं, घबड़ा कर भागना स्वाभाविक है। घबड़ाहट के कारण हाथी जो कुछ कर सकता है उसका वर्णन इस पद्य में किया गया है। हाथी के अस्वाभाविक दौड़ने को देखकर भयभीत मृगों का झुण्ड भी जिधर रास्ता पाता है उधर ही भागता जाता है जिससे उस आश्रम की वस्तुओं को छिन्न-भिन्न हो जाने के भय से उन्हें बचाने के निमित्त यहां तपस्वियों को सावधान किया गया है।

७२ अभिज्ञानशाकुन्तलम्

( सर्वा कर्णं दत्त्वा किंचिदिव संभ्रान्ताः )

राजा—( आत्मगतम् ) अहो धिक्। सैनिका अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति। भवतु। प्रतिगमिष्यामस्तावत्।

सख्यौ—अज्ज इमिणा आरण्णअवुत्तन्तेण पज्जाउलम्ह। अणुजाणाहि णो उडअगमणस्स [ आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः। अनुजानीहि न उटजगमनाय। ]

राजा—( ससंभ्रमम् ) गच्छन्तु भवत्यः। वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे। ( सर्व उत्तिष्ठन्ति। )


( सर्वाः = समग्राः कन्याः कर्णं = श्रवणं दत्वा = प्रयोज्य, ध्यानेनाकर्ण्य
किञ्चित् = ईषत् संभ्रान्ताः = व्यग्रा जाताः )

राजा—( आत्मगतं = स्वगतम् ) नेपथ्ये तपोधनोक्तिं श्रुत्वा तपोधनबाधामाशङ्क्याह—अहो इति। अहो इति विषादे, धिगिति निन्दायाम् सैनिकाः = सेनाभटा अस्मदन्वेषिणः अस्मान् = नः अन्विष्यन्ति = विचिन्वन्ति ये ते अस्मदन्वेषिणः सन्तः उपरुन्धन्ति = पीडयन्ति। तपःप्रतिरोधमाशङ्कमानो राजा तत्प्रतिकारोपायं विचार्य निश्चिन्वन्नाहं = भवत्विति। भवतु = अस्तु, प्रतिगमिष्यामः = निवतिष्यामहे, प्रत्यावृत्ता भविष्यामः। तावत् वाक्यालङ्कारे।

सख्यौ—आल्यौ प्रियम्वदा अनसूया च कथयतः—आर्ये ! अनेन = अमुना आरण्यकवृत्तान्तेन = वनगजगमनलक्षणेन पर्याकुलाः = व्याकुलीभूताः, भीताः स्मः नः = अस्मान्, आवां उटजगमनाय–उटजे = पर्णशालायां गमनाय = गन्तुम्, प्रयाणाय, अनुजानीहि = आज्ञापय।

राजा—( ससंभ्रमं = संभ्रमेण = व्यग्रतया सह ) उत्तरयति-भवत्यः=यूयं गच्छन्तु=यान्तु। वयमपि = अहमपि, यथा = येन प्रकारेण आश्रमपीडा = तपोवनोपरोधः, तपस्विजनानां क्लेशः न भवति = न स्यात् तत्र = तेन प्रकारेण प्रयतिष्यामहे = प्रयत्नं करिष्यामः। ( सर्वे = सकलाः अनसूया, प्रियम्वदा राजा च उत्तिष्ठन्ति-उत्थिताः। )


( सभी कान लगा कर कुछ घबड़ाई हुईं सी )

राजा—( मन ही मन ) बड़े अनर्थ की बात है कि मुझे खोजते-खोजते मेरे सैनिक इस तपोवन में गड़बड़ मचा रहे हैं तथा तपोवन को तहस-नहस कर रहे हैं।

विशेष—राजा दुष्यन्त अपनी सेना के सहित शिकार खेलने जङ्गल में गये हुए थे, पर मृग का पीछा करते-करते महर्षि कण्व के आश्रम में पहुँच गये। दूर चले जाने के कारण व्यग्र होकर सैनिकों को खोजना उचित ही है। धर्मराज के सैनिक यद्यपि धार्मिक कार्यों में बाधा नहीं उपस्थित करते फिर भी कर्तव्यपरायण होने के नाते दुष्यन्त का व्यग्र हो उठना स्वाभाविक ही है।

सखियाँ—महाभाग ! हाथी के इस उत्पात से हमलोग भी घबड़ा गये हैं। अतः हम लोगों को अपनी कुटी में जाने की अनुमति दीजिए।

राजा—( घबराइट के साथ ) अच्छा, आपलोग चलें, मैं भी ऐसा प्रयत्न करूँगा कि आश्रम को कोई पीड़ा न हो। ( सभी उठकर खड़े होते हैं )

प्रथमोऽङ्कः ७३

सख्यौ—अज्ज असंभाविद अदिहि सक्कारा भूओ वि पेक्खणणिमित्तं लज्जेमा अज्जं विण्णविदुं । [ आर्य असंभावितातिथिसत्कारा भूयोऽपि प्रेक्षणनिमित्तं लज्जामह आर्यं विज्ञापयितुम् । ]

राजा—मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।

शकुन्तला—अणसूए, अहिणवकुससूईए परिक्खदं मे चलणं । कुरवअसाहा-परिलग्गं च वक्कलं । दाव परिपालेध मं । जाव णं मोआवेमि । [ अनसूये, अभिनव-कुशसूच्या परिक्षतं मे चरणम् । कुरबकशाखापरिलग्नं च वल्कलम् । तावत् परिपालयतं मां यावदेतन्मोचयामि । ]

( राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता । )

अथ वचनाभङ्ग्या राजानं दुष्यन्तार्न्तर्भावजयन्त्यौ सख्यौ स्वगमनं निवेदयतः—

सख्यौ—आर्यं ! = श्रीमन् ! असंभावितः अतिथिः = प्राघुणिकस्य भवतो = दुष्यन्तस्य सत्कारः = पूजा अर्ध्याद्युपचारो याभिः ता असंभावितातिथिसत्काराः वयं भूयः = पुनरपि प्रेक्षणनिमित्तं = दर्शनार्थं लज्जामहे = लज्जिता भवामः, आर्यं = भवन्तं विज्ञापयितुं = प्रार्थयितुम् । अद्य गन्तव्यतया भवते निवेद्य गच्छामः । भूयोऽपि अत्रागत्यास्माकमातिथ्यं स्वीकर्तव्यमिति भावः ।

राजा—मा मा = नहि, नहि एवं = इत्थं न वाच्यम् । भवतीनां = युष्माकं दर्शनेनैव पुरस्कृतः = सभाजितः कृतातिथ्यः पूजितोऽस्मि ।

शकुन्तला—हे अनसूये ! अभिनवया = नूतनया कुशस्य = दर्भस्य सूच्या तीक्ष्णेन = अग्रभागेन कुशाङ्कुराग्रसूचिकया परिक्षतं = विद्धं मे = मम चरणं = पादम्, कुरबकस्य = कण्टकबहुलगद्रुमस्य शाखासु = विटपेषु परिलग्नं = कुरवकविटम् संसक्तं च वल्कलं = वल्कलवस्त्रम् तावत्=तदवधि युवां परिपालयतंप्रतीक्षतां मायावत् = यावदवधि एतत्इदं वल्कलं मोचयामि = मुक्तं करोमि ।

( राजानं = नृपं दुष्यन्तम् अवलोकयन्ती = पश्यन्ती सव्याजं = व्याजेन=मिषेण सह सव्याजं विलम्ब्य = गमनमान्द्यमुत्पाद्य सखीभ्यां = आलिभ्यां प्रियम्वदानसूयाभ्यां निष्क्रान्ता = रङ्गमञ्चात् बहिर्गता । )

दर्शनाौत्सुक्यात् व्याजमुत्पाद्य प्रियदर्शनं प्रियं दुष्यन्तं भूयो भूयः पश्यन्ती गतेत्यर्थः । अनेन वर्णनेन शकुन्तलागमनस्यानुरागस्य पराकाष्ठा प्रदर्शिता ।

दोनों सखियाँ—महाराज ! अतिथि का सत्कार न करनेवाली हमें श्रीमान् से पुनः-पुनः दर्शन देने की प्रार्थना करने में लज्जा आती है । आशय यह है कि महाराज ! आपका अतिथिसत्कार न करने से हम लज्जित हैं, आप क्षमा करें और पुनः दर्शन देने का अनुग्रह करें ।

राजा—नहीं, ऐसा नहीं, आप लोगों के दर्शन से ही मैं सत्कृत हो गया ।

शकुन्तला—सखि अनसूये ! कुश की नई नोक से मेरा पैर बांध गया है और मेरा वल्कल वस्त्र कुरबक की कण्टकयुक्त डाली में फँस गया है, जरा मेरी प्रतीक्षा करो कि मैं इससे मुक्त कर लूँ ।

(राजा दुष्यन्त को देखती हुई दोनों सखियों के साथ रंगमंच से बाहर चली जाती है ।)

विशेष—वस्तुतः न तो शकुन्तला के पैर में काँटा गड़ा है, न वल्कल वस्त्र ही काँटों में फंसा है, किन्तु बहाना बनाने का उसे अच्छा अवसर मिल गया, जिससे दुष्यन्त को अधिक से अधिक देख सके ।

७४अभिज्ञानशाकुन्तलम्

**राजा—**मन्दोत्सुकोऽस्मि नगरगमनं प्रति। यावदनुयात्रिकान् समेत्य नातिदूरे तपोवनस्य निवेशयामि। न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्त्तयितुम्। मम हि—

गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३३ ॥

( निष्क्रान्ताः सर्वे )
इति प्रथमोऽङ्कः


**राजा—**अथात्मनि निश्चितशकुन्तलानुरागो राजा तस्यामत्यन्तासक्तः सन् स्वावस्थां परामृशति-मन्दोत्सुकोऽस्मीति । नगरगमनं प्रति = भूयो राजधान्यां प्रत्यावर्त्तनविषये मन्दं = शिथिलभूतम् औत्सुक्यम् = उत्कण्ठा यस्यासौ मन्दौत्सुक्यः यावत्, प्रथमं अनुयात्रा-प्रयोजनं, शीलं येषां तेऽनुयात्रिका तान् अनुयात्रिकान् = मदङ्गरक्षकान् अनुगामिनः सैनिकान् समेत्य = सम्भूय नातिदूरे = अनतिदूरे, समीपे एव निवेशयामि = स्थापयामि। यद्यतिदूरे तथा प्रभुत्वस्य शैथिल्यं स्यात्, समीपे चेत् आश्रमस्य पीडा स्यात् इति भावः।

इत्थं विचिन्त्य पुनः प्रगाढप्रेमप्रकर्षशालिनीमात्मनो मनोवृत्तिमनुसन्दधाति—न खल्विति। न खलु = निश्चयेन शकुन्तलायां यो व्यापारः = अङ्गप्रत्यङ्गचङ्क्रमणस्वरूपः तस्मात् यद्वा शकुन्तलया यो व्यापारः = अनुरागद्योतकः स्निग्धवीक्षणादिः तस्मात् शकुन्तलाव्यापारात् = शकुन्तलामुखावलोकनव्यापारात् आत्मानं = मनो निवर्त्तयितुं = निवृत्तं कर्तुं अवरोद्धुं मम हि = यतः।

**अन्वयः—**प्रतिवातं नीयमानस्य केतोः इव मम शरीरं पुरो गच्छति चीनांशुकम् इव असंस्तुतं चेतः पश्चात् धावति।

नत्वहमितो यामि, किन्तु कर्त्तव्यबुद्धिर्मां नयतीत्याह—गच्छतीति । वायोः प्रतिकूलं प्रतिघातम् = वायुप्रतिकूलम्, नीयमानस्य उह्यमानस्य, केनापि चाल्यमानस्य केतोः = ध्वजदण्डस्य चीनांशुकं = चीनदेशोद्भववस्त्रकृतपताका इव मम शरीरं = देहः पुरः = अग्रे, संमुखम्, (सैन्यं प्रति) गच्छति = याति असंस्तुतं = अपरिचितम् चेतः = चित्तं पश्चात् शकुन्तलाभिमुखं धावति = जवेन प्रतिकूलं गच्छति। अकाण्डविजृम्भितेन प्रतिवातेनेव अतर्कितोपनतेन तदभिलाषेण पुनः पुनः प्रेर्यमाणं ध्वजदुकूलमिव मदीयं चेतः पश्चाद् व्रजति, शरीरं च ध्वजवत् पुरो मन्दं मन्दं गच्छतीति भावः। एतेन स्वचेतसश्चाञ्चल्यं, वपुषश्च हृदयशून्यत्वात् काष्ठतुल्यत्वं ध्वनितम्।


राजा—(ऊँची साँस लेकर) ये सब तो गईं, अच्छा, मैं भी चलूँ। शकुन्तला को देखकर तो मेरी अब नगर = राजधानी की ओर जाने की इच्छा एवं उत्सुकता नहीं हो रही है। अच्छा, पहले तो अपने साथ के सैनिकों को तपोवन से दूर कहीं ठहरा दूँ। क्या करूँ, मैं तो अपने मन को शकुन्तला को देखने के इस व्यापार से हटा ही नहीं रहा हूँ। मेरा मन तो बार-बार शकुन्तला को देखने के निमित्त व्याकुल हो रहा है। अतः राजधानी भी जाने की इच्छा नहीं हो रही है। क्या करूँ—

मेरा तो शरीर यद्यपि आगे को चल रहा है, किन्तु बेवश हुआ मेरा मन पीछे शकुन्तला की ओर उसी प्रकार दौड़ रहा है जिस प्रकार वायु से विपरीत दिशा में ले जाई जाने वाली ध्वजा का

प्रथमोऽङ्कः । ७५

अयमाशयः—शरीरं ध्वजदण्ड इव मन्दं मन्दं पुरो याति, चित्तं तु अस्थिरं सत् ध्वजवस्त्रमिव पश्चाद् व्रजति । मनोयोगेन शकुन्तलानुगाम्यहं केवलं कर्तव्यबुद्ध्यैव तां परिहाय्य देहमात्रेणान्यत्र गच्छामि । अत्रातिशयोक्ति-वृत्त्यनुप्रास-उपमा-उत्प्रेक्षालङ्काराः छन्दश्चार्यास्ति ॥ ३३ ॥

( सर्वे = सकला जनाः निष्क्रान्ताः = रङ्गमञ्चाद् बहिर्गताः ) इति = समाप्तः प्रथमः = आद्यः अङ्कः = नाट्यविभागः ।

तदुक्तं दशरूपके—

'एकाहाचरितैकार्थमित्यमासन्ननायकम् ।
पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमम् ॥'

साहित्यदर्पणे च—'अन्तर्निष्क्रान्तनिखिल-पात्रोऽङ्क इति कीर्तितः ।'

इत्यादिप्रतिपादनात् अङ्कान्ते सर्वपात्रविनिर्गमः उपनिबध्यते । तपोवनावरोधस्य साक्षाददर्शनीयतयाऽङ्कान्ते उपनिबद्धः इत्यत्राङ्कसमाप्तिः ।

तथा चोक्तं धनिकेन दशरूपके—

'दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ।
संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥
शस्त्रस्य ग्रहणादीनि प्रत्यक्षाणि न निदर्शयेत् ।'

अङ्गलक्षणं च—

'यदा तु सरसं वस्तु मूलान्देव प्रवर्तते ।
आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥'

अपि च—

'प्रत्यक्षं नेत्रचरितो बिन्दुव्यासिसुरस्कृतः ।
अङ्को नानाप्रकारार्थ-संविधानरसाश्रयः ॥'

इति कविकुलकलाधरेण कालिदासेन प्रणीतस्याभिज्ञानशाकुन्तलनाटकस्य
प्रथमेऽङ्के पण्डित-श्रीकृष्णमणित्रिपाठिना संस्कृते कृता
विमलाख्या व्याख्या समाप्ता ।


पतला कपड़ा पीछे की ओर फहराता है । अर्थात् वायु के विपरीत दिशा में ले जाये जाते हुए झण्डे के वस्त्र के समान देह आगे जाती है तथा मन पीछे दौड़ता है ॥ ३३ ॥

विशेष—इधर शकुन्तला प्रेम-पाश से बँध कर काँटा चूभने तथा काँटों में वस्त्र फँसने का बहाना बनाकर बार-बार राजा दुष्यन्त को देखना चाहती है, उधर शकुन्तला में आसक्त राजा की इच्छा राजधानी की तरफ जाने को नहीं हो रही है । सैनिकों द्वारा क्षुब्ध तपोवन का वातावरण शान्त करने के लिए राजा सैनिकों को दूर नहीं समीप में ही ठहराने को सोच रहा है जिससे बार-बार शकुन्तला से भेंट हो सके । मन की गति बड़ी तीव्र होती है । अतः उसे चीनांशुक के समान दौड़ते हुए दिखाया गया । यहाँ कालिदास की उपमा कला बड़ी सुन्दरता से सजाई गयी है । मन को चीनांशुक की उपमा देकर मन की चंचलता दिखाई गई है । शरीर को ध्वज दण्ड की उपमासे काष्ठ के समान हृदय शून्यता व्यक्त की गई है ।

( सभी चले जाते हैं )
प्रथम अङ्क समाप्त ।

द्वितीयोऽङ्कः (मदनवृत्तान्त व विदूषक संवाद)

द्वितीयोऽङ्कः

( ततः प्रविशति विदूषकः )

विदूषकः—( निःश्वस्य ) भो हदो ह्मि एदस्स मिअआसीलस्स रण्णो वअस्स-भावेण णिव्विण्णो । अअं मिओ अअं वराहो अअं सद्दूलो त्ति मज्झन्दिणेवि गिम्हे विरलपादवच्छाआसुं वणराइसुं आहिण्डिअ पत्तसङ्करकसाअविरसाइं उण्णकडुआईं पिज्जन्ति गिरिणईसलिलाइं । [ भो हतोऽस्मि एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णः। अयं मृगः अयं वराहः अयं शार्दूल इति मध्यन्दिनेऽपि ग्रीष्मे विरलपादपच्छायासु वनराजिषु आहिण्ड्य पत्रसङ्करकषायविरसानि उष्णकटुकानि पीयन्ते गिरिनदीसलिलानि । ]

एवं प्रथमेऽङ्के दुष्यन्तशकुन्तलयोः परस्परदर्शनपूर्वकं रतेरुद्बोधम्, अन्योन्यसंल्लापादिना तस्याः परिपोषे, द्वयोस्तयोः दुष्यन्त-शकुन्तलयोः वियोगं चोपवर्ण्य द्वितीयेऽङ्के दुष्यन्तगताया रतेश्चिन्ता-विषादादिभिर्विप्रलम्भशृङ्गारं वर्णयिष्यन् कविकुलकलाधरः कवि-वरः कालिदासः तदुपयोगाय हास्यप्रियस्य वसन्तस्य विदूषकस्य प्रवेशं प्रदर्शयति—तत इति । ततः = तदनन्तरं विषण्णः = खिन्नः विदूषकः = राज्ञः सहायको हास्यकारी सुहृत् प्रविशति = रङ्गमञ्चे आविर्भवति ।

विश्वं विमृश्य दूषयतीति विदूषकः—केलिकलहप्रियो अङ्गविकृतेन वचसा वेषेण च हास्यकारी राज्ञः सहचरो विदूषकः उच्यते । तथा हि रसार्णवे—

'विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः।'

विश्वनाथोऽपि साहित्यदर्पणे—

'शृङ्गारस्य सहायाः विट-चेट-विदूषकाद्याः स्युः।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जकाः शुद्धाः ॥
कुसुमवसन्ताद्यभिधः कर्म वपुर्वेषभाषाद्यैः ।
हास्यकरः कलहप्रियो विदूषकः स्यात् स्वकर्मज्ञः ॥'

विदूषकस्य भाषा प्राकृतमेव । अतस्तेन नाटके प्राकृतमेव प्रयुज्यते तथा चोक्तं—'विदूषकविटादीनां पाठ्यं तु प्रकृतं भवेत् ।'

विदूषकः—( निःश्वस्य = निःश्वासः = खेदजनकः चिन्तानिर्वैदयोरनुभावः तं प्रदर्श्य ) पटमण्डपे = सुखशयने शयानं वयस्यं राजानं दुष्यन्तं निशि स्वाधिकारेण सम्भाव्य भूयः प्रातःकाले मृगयासंभावनया शीघ्रं तत्समीपमुपसर्पन् विषण्णो विदूषकः मार्गमध्ये स्वकीयां दुरवस्थां स्वयं विमृशति—भो इति । भो ! = हन्त हतः = सङ्कटे पतितोऽस्मि, एतस्य =

( तदनन्तर खिन्नचित्त विदूषक का प्रवेश )

विदूषक—( ऊँची साँस लेकर ) ओह ! मृगयाशील = शिकार के व्यसनी इस राजा दुष्यन्त की मित्रता से तो मैं अत्यन्त खिन्न तथा दुःखी हो गया हूँ । देखो, यह मृग है, यह सूअर जा रहा है, यह व्याघ्र जा रहा है इस प्रकार कहते हुए इस गर्मी के ऋतु में दोपहर में पत्तों के गिर जाने से अल्प छाया वाली वन पंक्तियों में एक वन से दूसरे वन में दौड़ना पड़ता है । पत्तों के गिरने से सड़े हुए स्वादहीन वन के झरनों एवं पहाड़ी नदियों का गर्म एवं कडुवा पानी पीना पड़ता है ।