भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

प्रथमोऽङ्कः । ३७

शकुन्तला—अदो क्खु पिअंवदा सि तुमं । [ अतः खलु प्रियंवदासि त्वम् । ]
राजा—प्रियमपि तथ्यमाह¹ शकुन्तलां प्रियंवदा । अस्याः खलु—

अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ २१ ॥

वर्तिन्त्या लतया = वल्लर्या ( त्वद्रूपया ) सनाथः = युक्तः इव, अयं = एष पुरोवर्ती केसरवृक्षकः = ह्रस्वो वकुलवृक्षः प्रतिभाति = प्रतीयते ।

शकुन्तला—शकुन्तला कथयति—अतः = अनेन कारणेन खलु = एव, निश्चयेन त्वं = भवती प्रियंवदतीति अन्वर्थनामधेया = प्रियंवदा गीयसे = गण्यसे अन्वर्थनाम भवत्याः ।

राजा—राजा = दुष्यन्तः कथयति—प्रियं = चाटु तथ्यं = सत्यम्, आह = वदति शकुन्तलां प्रति प्रियंवदा । नूनमियं शकुन्तला वकुलमूले स्थिता तदाश्रिता लतेव लक्ष्यते नायं प्रियंवदायाश्चाटुवाद इति भावः, अस्याः = एतस्याः शकुन्तलायाः खलु = निश्चयेन ।

अन्वयः—अधरः किसलयरागः ( अस्ति ) बाहू कोमलविटपानुकारिणौ ( स्तः ) कुसुममिव लोभनीयं यौवनं च अङ्गेषु संनद्धम् ( अस्ति ) ।

अधर इति । अधरः = अधरोष्ठः किसलयरागः—किसलयस्य = प्रत्यग्रपल्लवस्य, रागः = लौहित्यमिव रागः = लौहित्यं यस्य सः किसलयरागः पल्लवताम्र। बाहू = भुजौ, कोमलविटपानुकारिणौ, कोमलयोः = मृदुलयोः विटपयोः = शाखयोः अनुकारिणौ इति तादृशौ यद्वा कोमलं विटपमनुकुरतस्तच्छीलाविति कोमलविटपानुकारिणौ = मृदुतरशाखासदृशौ कुसुममिव = पुष्पमिव लोभनीयं = हृदयावर्जकं यौवनं = तारुण्यम् अङ्गेषु = अवयवेषु संनद्धं = विजृम्भितं = सर्वतोभावेन प्रकटितम् । एवं चास्या लतासादृश्यं प्रियंवदोक्तं युज्यते एवेत्याशयः ।


शकुन्तला—अरी सखि ! इसीलिए तो तू प्रियंवदा कहलाती हो, तुम्हारा नाम अन्वर्थ है ।
राजा—प्रियंवदा तो सत्य कह रही है, क्योंकि—
इस शकुन्तला के अधरोष्ठ कोमल पत्तों के समान लाल और इसकी दोनों भुजायें कोमल-कोमल डालियों के समान मृदुल मालूम पड़ती हैं, इसके अङ्गों में लुभावना यौवन भी खिले हुए फूलों के समान प्रतीत हो रहा है ? अतः यह बाला लता के समान स्पष्ट ही मालूम होती है ॥ २१ ॥

विशेष—मधुर एवं सत्य बोलने वाली प्रियंवदा के वचन का समर्थन करते हुए दुष्यन्त कहते हैं—अहो, इस शकुन्तला का अधरोष्ठ नवीन पल्लव की लालिमा का स्मरण करा रहा है, ये इसकी भुजायें कोमल टहनियों से अधिक मृदुल मालूम होती हैं, जिस प्रकार अभिनव विकसित कुसुम नेत्रों को आनन्द देने वाले और मन को आकृष्ट करने वाले होते हैं वैसे ही इस शकुन्तला के प्रत्यङ्ग में समुल्लसित यौवन का उल्लास दर्शकों की दृष्टि को हठात् आकर्षित करता है । इस प्रकार प्रियंवदा के पूर्ववाक्य को सत्य बतलाते हुए राजा दुष्यन्त ने उसका समर्थन किया कि शकुन्तला का अधर, बाहु तथा यौवन, क्रमशः नवपल्लवकी लालिमा, कोमल डाल तथा कुसुम के समान हृदयावर्जक हैं, इनसे उस शकुन्तला का शरीर लता के समान सिद्ध हो जाता है ।

कविकालिदास का प्रकृति प्रेम अद्वितीय है, वे प्रायः जङ्गल या उपवन में उपलब्ध पदार्थों को ही पसन्द करते हैं । इन्होंने यहाँ पत्ते, डाल, फूल को ही उपमान बनाया है ॥ २१ ॥


पाठा०—१. अवितथमाह ।

३८अभिज्ञानशाकुन्तलम्

अनसूया—हला सउन्दले इअं सअंवरवहू सहआरस्स तुए किदणामहेआ वणजोसिणित्ति णोमालिआ। णं विसुमरिदा सि। [ हला शकुन्तले ! इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । १एनां विस्मृतासि । ]

शकुन्तला—तदा अत्ताणं वि विसुमरिस्सं। ( लतामुपेत्यावलोक्य च ) हला,


अन्वर्थनामधेयया सख्या प्रियंवदया उक्तिभङ्ग्या प्रोक्तं लतासाम्यमाकर्ण्य राजा दुष्यन्तः तस्य तथ्यतामनुभवन् तदेव समर्थयन् कथयति—अहो ! अस्या शकुन्तलाया अधरोष्ठः प्रत्यग्रपल्लवताम्रतां स्मारयति, एतौ चास्या भुजौ कोमलविटपादधिकं सौकुमार्यं भजतः, यथाऽस्मिनवोद्भिन्नं कुसुमं नयनानन्ददायकमार्कषकं च भवति तथैवास्याः प्रत्यङ्गं समुच्छलन् तरुणिमोल्लासो द्रष्टुर्दृशं समाकर्षतीति भावः। अत्रोपमालङ्कारः आर्या-वृत्तं च ॥ २१ ॥

अनसूया—अन्तिकस्थं सहकारं स्वयमेवोपसर्पन्तीं नवमल्लिकालतामुद्दिश्य शकुन्तलामाह–अनसूया–हलेति–हला शकुन्तले ! = प्रियसखि शकुन्तले ! इयं = असौ पुरोवर्तिनी बालसहकारस्य = सहकारपोतस्य स्वयंवरवधूः=स्वयं वृणीते वरमिति स्वयंवरा सा चासौ वधूरिति स्वयंवरवधूः = यद्वा स्वयं वरं प्राप्ता वधूरिति स्वयंवरवधूः अथवा स्वयंवरे वधूः इति स्वयंवरवधूः = पतिवरा या हि स्वयमेव सर्पन्ती सहकारं प्राप्ता सेत्यर्थः । त्वया = भवत्या कृतं नामधेयं यस्याः सा कृतनामधेया = विहितनामसंस्कारा वनज्योत्स्ना = वने ज्योत्स्नेव प्रकाशते इति वनज्योत्स्नेति नवमालिका = नवमालिका नाम कुसुमवल्ली ( अत्र नवमालिकायां वधूत्वारोपः सहकारे वरत्वं गमयत्येकदेशविवर्ति रूपकम् ) एनां = नवमालिकां विस्मृता असि, स्मरणपक्षात् आनीतवती असि, मन्ये, विस्मृतिवशात्त्वयैषा न सिक्ता किमित्यर्थः ।

शकुन्तला—शकुन्तला कथयति यत् यदि वनज्योत्स्नां विस्मरिष्यामि तदा आत्मानमपि


अनसूया—सखि शकुन्तले ! इस आम के पौधों के नीचे स्वयंम्बरवधू यह नवमालिका है। जिसका नाम तूने ही वनज्योत्स्ना रखा है, क्या तू इसे भूल गई ? क्या तुम इसको नहीं सींचोगी ?

विशेष—वनज्योत्स्ना नाम से प्रतीत होता है कि नवमालिका के पुष्प चाँदनी की तरह सफेद होते हैं, रात में खिलते हैं और हृदयाह्लादक होते हैं ।

सहकार शब्द की व्युत्पत्ति है—'वियुक्तं द्वन्द्वं सहकारयतीति सहकारः' अमरकोश के अनुसार रस वाले आम को रसाल तथा एक प्रकार के सुगन्धित आम को सहकार कहते हैं—'आम्रश्चूतो रसालोऽस्तु सहकारोऽतिसौरभः ।

जैसे स्वयंवर में कन्याएँ अपने मन के अनुकूल स्वयंवर का वरण करती हैं । उसी प्रकार वनज्योत्स्ना नवमालिका लता ने आगे बढ़ती हुई सहकार से मिल गयी है । इसी अनसूया ने इसे स्वयंवरवधू कहा है । लताएँ अपने आप स्वयं ऊपर चढ़कर पेड़ों को अपना लेती हैं इसी को काव्यजगत् में स्वयंवर कहा गया है । यहाँ अनसूया ने सहकार और नवमालिका को देख कर स्वयं वरणरूप शृङ्गारात्मक घटना की चर्चा की है, जो दुष्यन्त और शकुन्तला के हृदय में शृङ्गारिक भाव की पुष्टि करती हुई भावी स्वयंवर=गान्धर्व विवाह की सूचना है ।

शकुन्तला—यदि इसे भी भूल जाऊँगी तो फिर मैं अपने को ही भूल जाऊँगी ( लता के

पाठा०—१, तातकण्वेन त्वमिव स्वहस्तेन संवर्द्धिता माधवीलता तत्कथमेनां विस्मृतवती ।

प्रथमोऽङ्कः ३९

रमणीए क्खुकाले इमस्स लदापाअवमिहुणस्स वइअरो संवुत्तो। णवकुसुमजोव्वणा वणजोसिणो सिणिद्धपल्लवदाए उवभोअक्खमो सहआरो। [ तदात्मानमपि विस्मरिष्यामि । ] ( लतामुपेत्यावलोक्य च ) [ हला ! १रमणीये खलु काल एतस्या लतापादपमिथुनस्य २व्यतिकरः संवृत्तः। यन्नवकुसुमयोवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः। ] ( पश्यन्ती तिष्ठन्ति )

विस्मरिष्यामि, अभिज्ञा इयं मत्तः या हि वनज्योत्स्ना सैवाहमित्यर्थः। ( लतां = वनज्योत्स्नाम् उपेत्य = प्राप्य-लतासमीपं गत्वा अवलोक्य = दृष्ट्वा च आह ) नवमालिका-सहकारयोः सख्या अनुसूयया रोपितं वधूवरत्वमनुसृत्य सकौतुकमाह—शकुन्तला—हलेति । सखि अनसूये ! रमणीये = मनोहरे खलु = काले = समये ग्रीष्मकाले लतापादपमिथुनस्य लतायाः पादपस्य यन् मिथुनं=द्वयं तस्य लपापादपमिथुनस्य व्यतिकरः=समागमः, संश्लेषः रतिं करोति तच्छीलः व्यतिकरः = आनन्दप्रदः संवृत्तः = सञ्जातः । मिथुनस्य मिथो व्यतिकरयोग्यतां दर्शयति नवकुसुमेति । नवकुसुमानां यौवनं = विकासो यस्यां सा नवकुसुमयोवना यद्वा नवानि कुसुमानि यस्मिन् तादृशं यौवनं तत्तुल्यावस्था यस्याः सा नवकुसुमयोवना अथवा नवं कुसुमं = स्त्रीरजो यस्मिन् तादृशं यौवनं यस्याः सा नवकुसुम-यौवना नवमल्लिका = पाटलाख्या त्वया बद्धानि फलानि यस्मिंस्तस्य भावस्तत्ता तया बद्धफलतया = फलभरनम्रतया फलं कुसुमपरिणामो रेतश्च—'लाभनिष्पत्तिभोगेषु फले बीजे घने फलम्' इति यादवः । उपभोगक्षमः = सम्भोगयोग्यः, फलास्वादच्छायासेवन-योग्यः, तरुणीसमागमयोग्यः सहकारः = आम्रवृक्षः । यौवनेनेयं सहकारं प्रीणयति सोऽपि चैनां फलभरानतच्छायां सम्भावयति, इत्थं नयनमनोहोरोऽयमनयोः समागम इति भावः । नायक-नायिकापक्षे कुसुममार्त्तवं, फलं बीजं, वीर्यं च सुखसन्तत्यादिहेतुत्वात् । ( इति = उक्त्वा पश्यन्ती अवलोकयन्ती तिष्ठति = स्थिता ।)


पास जाकर और देखकर ) देख सखि ! यह रमणीय ग्रीष्मकाल इस पादपमिथुन ( नवमल्लिका और आम ) के लिए तो रतिकारक (आनन्ददायक और मैथुन योग्य ) ही हो गया है, क्योंकि इधर तो नवीन पुष्पों के आ जाने से यह नवमल्लिका नवयौवनवती हो रही है और उधर सहकार भी फलों के भार से उपभोग के योग्य हो रहा है ।

( देखती हुई ठहर जाती है )

विशेष—यहाँ शकुन्तला ने नवमल्लिका लता और सहकार वृक्ष के मिलन के लिए लता को नवकुसुमद्यौवना तथा सहकार को उपभोगक्षम होना बताया है । इससे प्रतीत होता है कि जन्म से तपोवन में रहने वाली कुमारियाँ भी दाम्पत्य जीवन से परिचित थीं । विवाह के निमित्त कन्याओं का तरुण होना और पुरुष का उपभोगक्षम होना आवश्यक माना गया है । यहाँ कुसुम का अर्थ पुष्प और स्त्री का मासिकधर्म, ऋतु दोनों है । जिस प्रकार पुष्प आ जाने से लता पूर्ण जवानी पर आ जाती है उसी प्रकार ऋतुकाल आ जाने से स्त्री भी रति योग्य हो जाती है, पुरुष भी सबल एवं वीर्यवान् होने से उपभोगक्षम हो जाता है । इसीलिए कवि ने नये फूलों के आ जाने से नवमलिका को नवयौवनवती तथा फलों से लदे सहकार को उपभोगक्षम कहा है ।


पाठा०—१. रमणीयः खलु कालः ।
२. रतिकरः

४० | अभिज्ञानशाकुन्तलम्

**प्रियंबदा—**अणसूए जानासि किंणिमित्तं सउन्दला वणजोसिणीं अदिमेत्तं पेक्खदित्ति . [ अनसूये ! जानासि किंनिमित्तं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति । ]
**अनसूया—**ण क्खु विभावेमि । कहेहि [ न खलु विभावयामि । कथय । ]
**प्रियंवदा—**जह वणजोसिणी अणुरूवेण पाअवेण संगदा । अविणाम एव्वं अहं वि अत्तणो अणुरूवं वरं लहेअत्ति । [ यथा ^१वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामाहमप्यात्मनोऽनुरूपं वरं लभेयेति । ]
**शकुन्तला—**एसो णूणं तुह अत्तगदो मणोरहो । [ ^२एष नूनं तवात्मगतो मनोरथः । ]
( कलशमावर्जयति )
**राजा—**अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं सन्देहेन ।


प्रियंवदा---वनज्योत्स्नां सावधानतयाऽऽलोकयन्तीं शकुन्तलामुद्दिश्य परिहासप्रिया शकुन्तलासखी ( सस्मितं ) कथयति—अनसूये ! जानासि = बुध्यसे किं निमित्तं = कुतः शकुन्तला वनज्योत्स्नां नवमालिकालताम् अतिमात्रं = अनिगता मात्रा यस्मिन् तद् अतिमात्रं, सातिशयं, बहुकालम्, पश्यति = प्रेक्षते निरीक्षते ।

अनसूया—अत्र गभीरस्वभावा शकुन्तलायाः सखी अनसूया तन्निमित्तं जानन्त्यपि प्रियंवदया विवक्षितं तन्मुखेन श्रावयितुमाह—नेत्यादि । न खलु = निश्चयेन विभावयामि = तर्कयामि, वेद्मि, जानामि कथय = वद ।

प्रियंवदा—उत्तरयति यथा = यद्वत् वनज्योत्स्ना = नवमालिका अनुरूपेण = सदृशेन, पादपेन = सहकारवृक्षेण संगता = मिलिता, अपि नाम = किमिदं संभावितं भवेत् ? यद् अहमपि आत्मनोऽनुरूपं निजरूपादिगुणैः सदृशं वरं = भर्तारं लभेय = लब्धुं शक्नुयाम् इति एतन्मनसि कृत्वा इयं सहकारसंगतां वनज्योत्स्नां प्रेक्षमाणा तिष्ठतीत्यर्थः ।

शकुन्तला वरप्रसङ्गेन लज्जमाना तथ्यमपि तद्वचनमन्यथयति—एष इति । नूनं = निश्चितं एष = त्वया उक्तः तव आत्मगतः = मनसि स्थितः मनोरथः = अभिलाषः अयं तवान्तर्गतो मनोरथः, न ममेति भावः, मम तु मिथः संगतयोरनयोर्वनज्योत्स्नासहकारयोः शोभा विशेषदर्शने तात्पर्यम् । त्वया तु त्वन्मनसि स्थितोऽभिलाषः मयि आरोप्यते इत्यभिसन्धिः । ( इति कलशं = घटम् आवजयति = किञ्चिद् अधोमुखं कुरुते, पादपतले जलदानाय इति भावः । )

राजा = दुष्यन्तः क्रमशः शकुन्तलां प्रति अङ्कुरिताभिलाषः तस्या गम्यागताविचारे


प्रियम्बदा—( मुसकुराती हुई ) अनसूये ! क्या तू जानती है कि शकुन्तला क्यों इस नवमल्लिका को इस प्रकार चाव से बार-बार देख रही है ।
**अनसूया—**नहीं, मैं नहीं जानती हूँ, तू ही बता ।
**प्रियम्बदा—**जैसे यह नवमल्लिका अपने अनुरूप वृक्ष=पति से संगत=विवाहित हो गई है इसी प्रकार मैं भी शीघ्र ही अपने अनुरूप पति प्राप्त करूँ यही इसकी इच्छा है ।
**शकुन्तला—**यह बात तो मेरे मन में होगी ( घड़ा नीचे झुकाती है )


पाठा०—१. वनतोषिणी । २. एष ते आत्मनश्चित्तगतो मनोरथः तन्न ते वचनं श्रोष्यामि ।

प्रथमोऽङ्कः / ४१

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥ २२ ॥

मुनिकन्यकाया अपि पाक्षिकं गम्यत्वं संभवतीत्यवधार्यं गम्येति पक्षं समर्थयन्नाह—अपिनामेति । अपिनाम = किन्नामेयं संभावितं कुलपतेः मुनिकुलगुरोः महर्षेः कण्वस्य असवर्णं क्षेत्रसंभवा—समानो वर्णः = जातिर्यस्य तन्न भवतीति असवर्णं क्षेत्रं = कलत्रं तस्मिन् संभवः = उत्पत्तिः जन्म यस्याः सा असवर्णक्षेत्रसंभवा = स्वजात्यतिरिक्तकलत्रजन्मा—'क्षेत्रं पत्नी शरीरयोरि'त्यमरः । ब्राह्मणस्य चातुर्वर्ण्यं विवाहस्य विहितत्वात् कुलपतेः असवर्णक्षेत्रस्य संभवत्वात्तदुत्पन्नेत्यर्थः । तदुक्तं स्मृतौ—

शूद्रस्य भार्या शूद्रेव सा च स्वा च विशः स्मृते ।
ते च स्वा च क्षत्रियस्य ताश्च स्वा चाग्रजन्मनः ॥

ईदृशी इयं शकुन्तला स्यात् = भवेत्—एवं सति अस्या ममाभिलाष युक्त इति भावः । पुनरपि चिन्तयन्नाह अथवा सन्देहेन = संशयेन कृतं = अलं सन्देहोऽनावश्यकः । तदेव द्रढयति आत्मनो मनोवृत्ति सम्भावनया ।

अन्वयः— ( इयम् ) संशयं क्षत्रपरिग्रहक्षमा ( अस्ति ) यत् आर्यं मे मनः अस्यामभिलाषि ( भवति ) हि सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः प्रमाणं ( ज्ञायते ) ।

असंशयमिति— इयं = एषा शकुन्तला—असंशयं = संशयस्याभावः संशयम् = निःसन्देहम् क्षत्रपरिग्रहक्षमा—क्षत्रस्य = क्षत्रियस्य परिग्रहः = स्वीकारः ( भार्या ) तस्मै क्षमा = योग्या क्षत्रपरिग्रहक्षमा—'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोरि'ति विश्वः । इयं मत्परिग्रहयोग्या ध्रुवमिति भावः यत् = यस्मात् मे = मम महाकुलीनस्य आर्यं = पवित्रं निषिद्धाचरणविमुखं मनः = स्वान्तं अस्यां = शकुन्तलायाम् अभिलाषि—अभिलषति तच्छीलमभिलाषि = सस्पृहम् । हि = यस्मात् कारणात् सन्देहपदेषु = संशयास्पदेषु वस्तुषु = विषयेषु सतां = सज्जानानां अन्तःकरणप्रवृत्तयः-अन्तःकरणस्य = मनसः प्रवृत्तयः = व्यापाराः मनोव्यापाराः प्रमाणं = निर्णयहेतुः । सन्तो हि मनःप्रवृत्ति प्रमाणत्वेनाङ्गीकुर्वन्तीत्यर्थः । तदुक्तं—

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं सताम् ॥

राजा— मैं समझता हूँ कि कदाचित् यह शकुन्तला महर्षि कण्व की असवर्ण भार्या=ब्राह्मणेतर स्त्री से ही उत्पन्न कन्या होगी । अथवा इसमें सन्देह करना व्यर्थ है, क्योंकि—

निश्चय ही यह मेरे विवाह योग्य हैं, क्योंकि मेरा आर्य मर्यादानुगामी मन इसमें अनुरक्त हो रहा है । यदि यह मुझ जैसे क्षत्रिय के विवाह योग्य न होती तो मेरा पवित्र मन कभी इस कन्या में आसक्त नहीं होता । अतः यह कण्व की असवर्ण पत्नी से उत्पन्न प्रतीत हो रही है, क्योंकि सन्देह स्थल में सज्जनों की अन्तःकरण की प्रवृत्ति ही निर्णायक होती है । अतः यह निश्चय ही कण्व की क्षत्रियादिभार्या में उत्पन्न कन्या है, ब्राह्मणी में नहीं, इस बात को मेरा मन ही कह रहा है । तो भी मैं इस बात का ठीक-ठीक निर्णय करूँगा कि यह किस वर्ण की कन्या है। और मेरे ग्रहण योग्य है या नहीं ॥ २२ ॥

विशेष— धर्मात्मा राजा दुष्यन्त को अपने निष्कल्मष मन पर पूरा भरोसा है । उनका अन्तःकरण इतना पवित्र है कि वह असन्मार्ग पर प्रवृत्त नहीं हो सकता, अतः वे अनुचित वस्तु के लिए

४२अभिज्ञानशाकुन्तलम्

तथापि तत्त्वत एनामुपलप्स्ये ।

शकुन्तला—( ससंभ्रमम् ) अम्मो सलिलसेअसंभमुग्गदो णोमालिअं उज्झिअ वअणं मे महुअरो अहिवट्टइ [ अम्मो सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्त्तते ] ( भ्रमरबाधां रूपयति )

राजा—( सस्पृहं विलोक्य )


अत्र शकुन्तलानुरागरूपस्यार्थस्य निश्चयेनोपपत्तेः परिन्यासनामकसङ्गं निर्दिष्टं तदुक्तं विश्वनाथेन—तन्निष्पत्तिः परिन्यासः। अत्रार्थान्तरन्यासः काव्यलिङ्गं चालङ्कारौ, वंशस्थं वृत्तम् ॥ २२ ॥

एवं मनःप्रवृत्त्या गम्यत्वे निश्चितेऽपि तत्त्वज्ञानादपरितुष्यन् अत्यन्तधार्मिको राजा तत्प्रकारं जिज्ञासुराह—तथापीति—युक्त्या मनःप्रवृत्त्या च मत्परिग्रहयोग्येत निर्द्धारणे कृतेऽपि तत्त्वतः = याथाथ्र्येन एनां = शकुन्तलाम् उपलप्स्ये = ज्ञास्यामि यदिदं क्षमा वा नवेति भावः ।

अयमभिप्रायः— इयं हि शकुन्तला ध्रुवं मम ग्रहणयोग्या, यतो जितेन्द्रियस्यापि पुरु-वंशोत्पन्नस्य दुष्यन्तस्य मे निषिद्धाचरणपराङ्मुखं श्रेष्ठं मानसमस्यामनुरक्तं, नहि अद्यावधि मन्मनसा अगम्येऽभिलाषः कृतः। तस्मादियं मत्स्वीकारयोग्यैव । सन्दिग्धेषु विषयेषु वय-मन्तःकरणप्रवृत्त्यैव याथाथ्यं निश्चिन्मः, इदमेवात्मतुष्टिप्रमाणमिति भावः ।

शकुन्तला—( ससंभ्रमं—संभ्रमेण = त्रासेन सहितं ससंभ्रमम् = ससाध्वसम् ) अम्मः आवेगे सलिलस्य = जलस्य सेकेन सेचनेन य संभ्रमः = संक्षोभः तस्मात् उदगतः = सहसा उत्पतितः इति सलिलसेकसंभ्रमोदगतः मधुकरः = भ्रमरः नवमालिकां = वनज्योत्स्नाम् = उज्झित्वा = परित्यज्य मे = मम वदनं = पद्मगन्धि मुखम् अभिवर्तंते = लोभात् अनुधावति समागच्छति । ( इति = इत्युक्त्वा भ्रमरबाधां = भ्रमराक्रमणं रूपयति = अभिनयति ) ।

राजा—( सस्पृहम्-स्पृहया सहितं सस्पृहम् औत्सुक्यसहितम् आह । )


अभिलाषा नहीं कर सकते । मनु जी ने भी अपनी मनुस्मृति में आत्मतुष्टि को धर्म का मूल माना है—'आत्मनस्तुष्टिरेव च' ( १ । ६ ) इसकी टीका ने गोविन्दराज ने गर्ग का भी एक वचन उद्धृत किया है—'वैकल्पिके आत्मतुष्टिः प्रमाणम्' जिसका तात्पर्य है कि विकल्प विषय में आत्मतुष्टि ही प्रमाण है ॥ २२ ॥

इस प्रकार राजा दुष्यन्त को अपने मन पर पूरा विश्वास था, फिर भी उन्होंने यत्नपूर्वक पता लगाने का निश्चय कर लिया ।

शकुन्तला—( घबड़ाकर शीघ्रता से ) ओह ! जल के सींचने से घबड़ाकर उड़ा हुआ यह भौंरा नवमालिका को छोड़कर मेरे मुख की ओर आ रहा है । ( भ्रमर के आक्रमण और उससे बचने का अभिनय करती है ) ।

राजा—( उत्सुकतापूर्वक देखकर )

प्रथमोऽङ्कः ४३

'चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वन्त्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २३ ॥

**अन्वयः—**मधुकर ! चलापाङ्गां वेपथुमतीं दृष्टिं बहुशः स्पृशसि, रहस्याख्यायीव कर्णान्तिकचरः ( सन् ) मृदु स्वनसि, करं व्याधुन्वन्त्या रतिसर्वस्वमधरं पिबसि त्वं खलु कृती वयं तत्त्वान्वेषात् हताः ।

**चलापाङ्गामिति—**हे मधुकर ! = हे भ्रमर ! चलः = चञ्चलः अपाङ्गः = कटाक्षः यस्यां सा तां चलापाङ्गां चञ्चललोचनान्तां यद्वा चलापाङ्गामिति क्रिया विशेषणम् (सन्) वेपथुमतीं—वेपथुरस्त्यस्या इति इति वेपथुमती तां वेपथुमतीं भयेन कम्पातिशयवतीं दृष्टिं = चक्षुः बहुशः = अनेकवारं, पौनःपुन्यम्, स्पृशसि = आलिङ्गसि, रहस्यं = गोपनीयं किञ्चिद आचष्टे = वदतीति रहस्याख्यायी = गुप्तवार्ताकर्ता कर्णान्तिकचरः = कर्णयोः = श्रवणयोः अन्तिके = समीपे चरतीति कर्णान्तिकचरः मृदु = मधुरं मन्दाक्षरं स्वनसि = शब्दायसे, मन्त्रयसे, करौ = हस्तपल्लवौ ब्याधुन्वन्त्याः = निवारणाय कम्पयन्त्याः अस्या रतिसर्वस्वं—रतेः = प्रीतेः सर्वस्वं प्रधानहेतुर्यद्वा रतेः = सुरतस्य सर्वस्वं = प्रधानाङ्गभूतमधरामृतं पिबसि = आस्वादयसि । एवं मधुकरस्य वृत्तिं परामृश्य तत एव तस्य धन्यतां प्रतिपादयिष्यन् आत्मनश्लाघन्यतां कथयन्नाह—वयमिति । त्वं = भवान् खलु = निश्चयेन कृती = भाग्यशाली वयं = सकलकलासौभाग्यशालिनः नानाविधमनोरथाः कमनीयाकृतयोऽपि तत्त्वान्वेषात् = वास्तविकवृत्तान्तजिज्ञासया किमियं क्षत्रिययोग्या वा नवेत्यादि तत्त्वं गवेषयन्तः हताः = वञ्चिता

हे भ्रमर ! तू चञ्चल कटाक्ष वाली और काँपती हुई इस मनोहारिणी बाला के नेत्रों का बार-बार चुम्बन करता इसके कानों के पास जाकर मानों कोई रहस्य की कहने के लिए तू बार-बार मधुर गुंजान भी करता है और हाथ हिलाती हुई बाला शकुन्तला के रति सर्वस्व स्वरूप अधरोष्ठ का भी तू पान करता है । अतः सच्चा आनन्द तो तू ही प्राप्त कर रहा है तू धन्य है । मैं तो, यह मेरे योग्य है या नहीं, कहीं ब्राह्मण की कन्या न हो इत्यादि विचार करता हुआ इस सुख से वञ्चित ही रह गया ॥ २३ ॥

**विशेष—**इस पद्य में भ्रमर बाधा से व्याकुल शकुन्तला का वर्णन ही मनोरञ्जक प्रतीत होता है । आँख, कान तथा अधरोष्ठ के पास भ्रमर का भ्रमण और गुनगुनाना स्वाभाविक ही प्रतीत होता है । भ्रमर-बाधा का निवारण करती हुई शकुन्तला का चित्रण अपूर्व है । कामशास्त्र में अधर पान का निर्देश देखकर कवियों ने भी उसका खूब वर्णन किया है । कालिदास द्वारा अधरामृत पान का वर्णन कलापूर्ण है ।

‘नैकवचनं प्रयुञ्जीत गुरावात्मनि चेश्वरे' के अनुसार इस पद्य में अहं के साथ पर वयं का प्रयोग आ है । कहीं-कहीं तृतीय चरण के करं व्याधुन्वन्त्या के स्थान पर भी पाठ मिलता है, पर यह उचित नहीं प्रतीत होता क्योंकि शकुन्तला के एक हाथ में घड़ा है । अतः एक ही हाथ हिलाने का वर्णन स्वाभाविक प्रतीत होता है । घड़ा रखकर ही दोनों हाथ हिलाए जा सकते हैं, जिसका कहीं ज़िक्र नहीं है ॥ २३ ॥


पाठ०—१. चलापाङ्गं ।

४४अभिज्ञानशाकुन्तलम्

शकुन्तला—ण एसो धिट्ठो विरमदि। अण्णदो गमिस्सं। (पदान्तरे स्थित्वा। सहदृष्टिक्षेपम्) कहं इदो वि आअच्छदि। हलापरित्ताअह म इमिणा दुव्विणीदेण दुट्ठमहुअरेण पडिहूअमाणं। [न एष धृष्टो विरमति। अन्यतो गमिष्यामि। (पदान्तरे स्थित्वा। सहदृष्टिक्षेपम्) कथमितोऽप्यागच्छति। हला परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम्]।

उभे—(सस्मितम्) का वअं परित्तातुं। दुस्सन्दं अक्कन्द। राअरक्खिदव्वाई तवोवणाई णाम। [का वयं परित्रातुम्। दुष्यन्तमाक्रन्द। राजरक्षितव्यानि तपोवनानि नाम।]

राजा—अवसरोऽयमात्मानं प्रकाशयितुम्। न भेतव्यम्, न भेतव्यम् (इत्यर्धोक्ते स्वगतम्)। ^१राजभावस्त्वभिज्ञातो भवेत्। भवतु। एवं तावदभिधास्ये।


एव। अत्र व्यतिरेक-भ्रान्तिमत्-स्वभावोक्ति-काव्यलिङ्ग-समासोक्ति-श्रुत्यनुप्रासा-लङ्काराः शिखरिणी वृत्तं च॥ २३ ॥

शकुन्तला—अथ भ्रमरानुधावनपर्याकुला शकुन्तला कथयति—न एष इति। एष दुष्टः भ्रमरो न विरमति = न निवर्तते, अन्यतः = स्थानान्तरे गमिष्यामि = यास्यामि। (पदान्तरे = अन्यत् पदं पदान्तरं तस्मिन् पदान्तरे-स्थानान्तरे स्थित्वा-गमनात् विरता भूत्वा सहदृष्टिक्षेपं—दृष्टेः क्षेपः = पातः तेन सह वर्तते सहदृष्टिक्षेपं भ्रमराभिमुखं दृष्ट्वा) कथमितोऽप्यागच्छति कथं = किमेतत् इतोऽपि = अमुष्मात् स्थानात् अपि आगच्छति। हला = अये सख्यो! अनेन मामनुसरता एतेन दुर्विनीतेन = उद्दण्डेन भ्रमरेण परिभूय-मानाम् = आक्रम्यमाणाम् आकुलीक्रियमाणाम् मां परित्रायेथां = युवां रक्षतम्

उभ इति—उभे = द्वे अनसूयाप्रियंवदे (सस्मितं स्मितेन = ईषद्वहास्येन सह यथास्या-त्तथा सस्मितं शकुन्तलाया भ्रमरनिवारणाक्षमताजन्यं वैक्लव्यं दृष्ट्वा सोपहासमित्यर्थः) वयं = आवां-अनसूया प्रियंवदे के परित्रातुं, तर्हि मया किं कार्यम् इत्याह—दुष्यन्तमितिराजानं दुष्यन्तं आक्रन्द = तारस्वरेण आह्वय। राजरक्षितव्यानि तपोवनानि राजा = नृपेण रक्षितव्यानि तपसः = तपस्याया वनानि=विपिनानि नाम=निश्चयेन। राज्ञो जनपद रक्षणेन न कर्तव्यसमाप्तिः, अपितु, तपोवनरक्षापि राज्ञः कर्तव्यमेव।

राजा—विचारयति यत् अवसरः = उपयुक्तः समयः अयम् एषः, आत्मानं = स्वम्


शकुन्तला—यह दुष्ट भ्रमर नहीं है, दूसरी जगह जा रही हूँ (कुछ जाकर और चारों ओर दृष्टि डालकर) क्यों? यहाँ भी आ रहा है? अरि सखियों! मैं इस दुष्ट भ्रमर से पीड़ित हो रहा है। तुमलोग इससे मुझे बचाओ।

दोनों सखियाँ—(हँसती हुई) हम बचानेवाली कौन होती है? राजा दुष्यन्त को बुलाओ, वे ही तुझे बचायेंगे, क्योंकि तपोवन की रक्षा का भार तो राजा ही पर होता है। राजा का कर्तव्य केवल जनपद रक्षण मात्र से ही नहीं समाप्त होता अपितु राजा का कर्तव्य तपोवन की रक्षा करना भी है।

राजा--हमारे प्रगट होने का अच्छा अवसर है—मत डरो मत डरो! (बीच में ही रुककर


पाठ०—१. एवं राजाहमिति परिज्ञानं भवेत्। भवतु अतिथिसमाचारमवलम्बिष्ये।

प्रथमोऽङ्कः ४५

शकुन्तला—(पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ।) कहं । इदोवि मं अणुसरदि । [ कथम् । इतोऽपि मामनुसरति । ]

राजा—(सत्वरमुपसृत्य ) ।

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२४॥

प्रकाशयितुं = प्रकटयितुम्, न भेतव्यं न भेतव्यं दुष्यन्तोऽहं मयात् = परित्रास्ये (इत्यर्द्धोक्ते = इत्यंशमात्रे कथिते सति स्वगतम् = आत्मगतम् ) राजभावः = नृपत्वम्, अभिज्ञातः = विदितः भवेत् = स्यात्, राजाहमस्मीति परिज्ञातं स्यात् । भवतु एवं = वक्ष्यमाणप्रकारेण तावत् अभिधास्ये = वक्ष्ये अभयप्रदानव्याजेन आसां पुरोगमनस्यायमुचितः कालः इत्यर्थः । अवसरलाभेन प्रमुदितः सन्नाह—नेति ।

शकुन्तला—(पदान्तरे = स्थानान्तरे स्थित्वा । सदृष्टिक्षेपं = दृष्टिक्षेपेन सहितं सदृष्टिक्षेपम् ) कथयति—कथम् इतोऽपि मां = इमं जनं अनुसरति = अनुगच्छति ।

(राजा सत्वरं त्वरया सहितं सत्वरम् = आशु उपसृत्य = समीपं गत्वा ।)

अन्वयः—दुर्विनीतानां शासितरि पौरवे वसुमतीं शासति (सति) कः अयं मुग्धासु तपस्विकन्यास अविनयम् आचरति ।

क इति—दुर्विनीतानां = उद्दण्डानां, अशिष्टानां शासितरि = शासके पुरोरपत्यं पुमान् पौरवः पुराणो राजा वा पौरवः तस्मिन् पौरवे-पुरुवंशीये दुष्यन्ते मयि वसुमतीं = भूमि शासति = पालयति कोऽयं = कोऽसौ दुर्विनीतः मुग्धासु = सरलासु तपस्विकन्यासु मुनीनां कुमारीषु अविनयं = अकृत्यं, अत्याचारम् आचरति = कुरुते । दुष्टनिग्रहशिष्टानुग्रहकरणपूर्वकं पृथ्वीशासके मयि दुष्यन्ते कोऽयं दुर्विनीतः स्वभावतः सरला मुनिकन्यकाः पीडयितुं कुदृष्टिं कर्तुं प्रयतते सद्यः स दण्डितो भवेदिति भावः । अत्राप्रस्तुतप्रशंसा छेकवृत्यनुप्रास-परिकरालङ्कारा आर्या छन्दश्च ॥ २४ ॥


मन ही मन ) इस प्रकार कहने पर तो मैं राजा हूँ यह बात प्रगट हो जायेगी । अच्छा, अतिथि-भाव के अनुरूप ही बातें करूँगा ।

**विशेष—**स्वगतम् का तात्पर्य होता है कि नाटक के रंगमंच पर रहने वाले व्यक्ति न सुन पायें, किन्तु दर्शक सुन लें—'अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्' । सखियाँ न तो दुष्यन्त की बातें सुन पायी थीं न वहाँ उनके रहने का पता था, कवि ने राजा के प्रकट होने की बात में बड़ी दूरदर्शिता दिखाई है । अर्द्धोक्ते से तात्पर्य प्रतीत होता है कि दुष्यन्त के मुख से 'मैं राजा दुष्यन्त आ गया' यह निकलने ही वाला था कि उन्होंने पुनः विचार कर अपने को छिपा लिया ।

शकुन्तला—(कुछ आगे जाकर और इधर उधर देखकर ) हाय, हाय यहाँ भी यह भ्रमर मेरे पीछे आ रहा है । अरी सखियों मुझे बचाओ ।

राजा—(शीघ्रता से पास जाकर )

दुष्टों का दमन करने वाले पुरुवंशी राजा दुष्यन्त के पृथ्वी पर शासन करते रहने पर भी यह कौन है जो भोली-भाली तपस्वि-कन्याओं के साथ अशिष्ट व्यवहार करता है ॥ २४ ॥

४६ अभिज्ञानशाकुन्तलम्

( सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः )

अनसूया—अज्ज ण क्खु किंपि अच्छाहिदं। इअं णो पिअसहो महुअरेण अहूहूअमाणा कादरीभूदा [ आर्य, न खलु किमप्यत्याहितम्। इयं नौ प्रियसखो मधुकरेणाभिभूयमाना कातरीभूता। ] ( शकुन्तलां दर्शयति । )

राजा—( शकुन्तलाभिमुखो भूत्वा ) अपि तपो वर्धते ।

( शकुन्तला साध्वसादवचना तिष्ठति )

अनसूया—दाणिं अदिहिविसेससलाहेण। हला सउन्दले गच्छ उडअं। फलमिस्सं अग्घं उवहर। इदं पादोदअं भविस्सदि। [ इदानीमतिथिविशेषलाभेन। हला शकुन्तले गच्छोटजम्। फलमिश्रमर्घमुपहर। इदं पादोदकं भविष्यति। ]


( सर्वाः = सकलाः तिस्रो मुनिकन्यकाः राजानं = नृपं दुष्यन्तं दृष्ट्वा = अवलोक्य किञ्चित् = ईषत् इव संभ्रान्ताः = चकिता आवेगे आपतिताः अतर्कितोपनतेन राजदर्शनेन समुपलब्धया लज्जया भयेन च संभ्रमः। )

अनसूयायत् आर्य ! = महोदय ! खलु = निश्चयेन किमपि = किञ्चित् अत्याहितं = महद्भयमापतितम् तर्हि किमनया परित्राणार्थमाक्रन्दितमित्याह—इयमितिइयं = एषा पुरो दृश्यमाना नौ = आवयोः प्रियसखी = शकुन्तला अनेन मधुकरेण अभिभूयमाना = आकुलीक्रियमाणा = बाध्यमाना, कातरीभूता = त्रस्ता ( इति = इत्युक्त्वा शकुन्तलां दर्शयति = अवलोकयति।

राजाराजा = दुष्यन्तः शकुन्तलाभिमुखः—शकुन्तलाम् अभि तथा अभिगतं मुखं यस्य स अभिमुखः, एकदिक् मुखं यस्यासौ शकुन्तलाभिमुखः भूत्वा अपि = किं तपः = तपस्या वर्द्धते = वृद्धिं याति, धर्मानुष्ठानं वृक्षसेचनादिकं च भवत्या निर्विघ्नं भवति ?

( शकुन्तला साध्वसात् = संभ्रमेण भयेन वा अवचना अविद्यमानं वचनं यस्याः सा अवचना = अप्रतिवचना, मौनव्रता साध्वसादवचना सती तिष्ठति )

अनसूयाइदानीं = सम्प्रति अतिथेः = आधुनिकस्य विशेषस्य = श्रेष्ठताया लाभेन प्राप्त्या इति अतिथिविशेषलाभेन तपो वर्द्धते अस्याः शकुन्तलायाः। हला = अयि सखि शकुन्तले ! उटजं = पर्णशालां गच्छ = याहि फलैः मिश्रं = युक्तं फलमिश्रं, अर्घ्यं = अर्घ्यार्थं द्रव्यं, उपहर = आनय। इदं = वृक्षसेचनार्थमानीतं पुरतः स्थाप्यमानं कलसजलं पादोदकं = पाद्यं जलं भविष्यति = सेत्स्यति।


( राजा को देखकर सभी चकित हो घबड़ा-सी जाती हैं )

अनसूया—आर्य ! और तो दूसरी कुछ विशेष बात नहीं है, किन्तु हम लोगों की प्रिय सखी शकुन्तला इस दुष्ट भौंरे से डरकर कुछ व्याकुल सी हो रही है। ( शकुन्तला की ओर संकेत करती है )।

राजा—( शकुन्तला के अभिमुख होकर ) अयि सुन्दरी ! तुम्हारी तपस्या ( व्रत, नियम, वृक्षादि सेचन आदि ) तो ठीक से चल रही है न ?

( शकुन्तला घबड़ाई हुई सी मुख नीचे कर खड़ी हो जाती है )

अनसूया—आर्य ! आप जैसे अतिथि के प्राप्त होने से हमारी तपस्या अवश्य ही वृद्धि को प्राप्त हो रही है। अरि सखि शकुन्तले ! पर्णशाला में जाओ और फल से युक्त अर्घ्यपात्र को लाओ। यह वृक्ष सेचन के निमित्त लाया गया कलस का जल पादोदक के लिए प्रस्तुत है।

प्रथमोऽङ्कः ४७

**राजा—**भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
**प्रियंवदा—**तेण हि इमस्सि पच्छाअसीदलाए सत्तवणवेदिआए मुहुत्तअं उवविसिअ परिस्समविणोदं करेदु अज्जो । [ तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्ण-वेदिकायां मुहूर्त्तमुपविश्य परिश्रमविनोदं करोत्वार्यः । ]
**राजा—**ननु यूयमप्यनेन ^१कर्मणा परिश्रान्ताः ।
**अनसूया—**हला सउंतले उददं णो पज्जुवासणं अदिहीणं । एत्थ उवविसम्ह । [ हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः । ] (सर्वा उपविशन्ति)


**राजा—**अथ शकुन्तलायामासक्तो राजा दुष्यन्तः तस्याः क्षणिकमप्यदर्शनमसहमानः सन्नाह भवतीनां = युष्माकं सूनृतया = मधुरया एव गिरा = वचसा कृतं = सम्पादितम् अतिथिसत्कारः कृतः । भवतीनां मधुरभाषणेनैव तृप्तोऽस्मि, पाद्याद्यैः प्रयोजनं नास्तीति भावः । शास्त्रेषु अर्घ्येऽष्टानां वस्तूनां गणना विद्यते । तद्यथा—

आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् ।
यवः सिद्धार्थकं चैव ह्यष्टाङ्गोऽर्घ्यः प्रकीर्तितः ॥

प्रियंवदा—तेन हि = यदि वाङ्मात्रेणैवातिथ्यं जातं तर्हि प्रच्छायशीतलायाम्-प्रकृष्टा छाया प्रच्छायं यद्वा प्रकृष्टा छाया यस्या प्रच्छाया = सघनछाया तया शीतलायां सप्तपर्ण-वेदिकायां—सप्तपर्णस्य = विषमच्छदस्य वेदिकायां = वेद्याम् मुहूर्तं = क्षणम् उपविश्य = स्थित्वा परिश्रमस्य = अध्वश्रमक्लान्तिम् अपनयतु = दूरीकरोतु भवान् यद्वा आर्यः = श्रीमान् परिश्रमस्य = अध्वश्रमक्लान्तेः विनोदम् = अपाकरणं करोतु = विदधातु ।

राजा—नूनमिति । न केवलं वयमेव, किन्तु ताभिः सह उपवेशनं कांक्षन् नूनं = निश्चयेन यूयमपि = भवत्योऽपि अनेन = धर्मकर्मणा = सेचनादिकृत्येन परिश्रान्ताः = क्लान्ताः । अतो युष्माकमपि परिश्रमविनोदनावसरोऽयमित्युपवेष्टव्यं भवतीभिरिति भावः ।

अनसूया—हला, सखि शकुन्तले ! नः = अस्माकं तपस्विकन्यकानां अतिथीनां विशिष्टस्यातिथेः नृपस्य पर्युपासनं=सत्कारः समीहिताचरणात्मकं पूजनम् । उचितं=योग्यं कृत्यम् । अत्र = स्थाने उपविशामः = उपतिष्ठामः ( इति = एवमुक्त्वा सर्वे नृपशकुन्तलाप्रियंवदाऽनसयाः उपतिष्ठन्ति ) ।


**राजा—**आपलोग कष्ट क्यों करती हैं। आपलोगों की इस प्रकार प्रिय एवं मधुर वाणियों से हमारा अतिथि सत्कार हो गया ।

**प्रियंवदा—**अच्छा तो आप थोड़ी देर इस छायादार और शीतल सप्तपर्ण की वेदी पर बैठकर अपना मार्गश्रम = थकावट दूर कर लें ।

**राजा—**आप लोग भी वृक्षों के सेचनरूपी धर्म कार्य से थक गई हैं। अतः आपलोग भी थोड़ी देर यहाँ बैठकर विश्राम कर लें ।

**प्रियम्बदा—**हे सखि शकुन्तले ! हम लोगों को विशिष्ट अतिथि के पास बैठकर उसका आदर-सत्कार करना उचित तथा आवश्यक है। अतः आओ, हम लोग भी थोड़ी देर इनके पास बैठ जाँय । (सभी बैठ जाती हैं )

**विशेष—**प्रियम्बदा विनोदप्रिय होती हुई भी छोटी तथा अपरिपक्व बुद्धि है और अनसूया


पाठा०—१. धर्मकर्मेणा ।

४८अभिज्ञानशाकुन्तलम्

शकुन्तला—( आत्मगतम् । ) किं णु क्खु इमं पेक्खिअ तवोवण विरोहिण विआरस्स गमणीअम्हि संवुत्ता। [ किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । ]

राजा—( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम्।

शकुन्तला—किं नु = इति वितर्के, खलु निश्चयेन इमं = जनम् अमुं दुष्यन्तं प्रेक्ष्य = दृष्ट्वा तपोवनस्य = आश्रमस्य विरोधिनः = प्रतिकूलस्य तपोवनविरोधिनः = तपस्विजनप्रतिकूलस्य विकारस्य = विकृतेः--विषयानुभवोन्मुख्यरूपस्य मनोविकारविशेषस्य गमनीया = लक्ष्यभूता प्राप्या संवृत्ता जाता । अनेन शकुन्तलायाः प्रथमः चित्तविकारारम्भरूपोऽङ्गजो भावः स्फुटं दर्शितः । उक्तं च--निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ।

राजा—राजा = नृपो दुष्यन्तः ( सर्वाः = तिस्रः शकुन्तलाप्रियंवदाऽनसूयाः विलोक्य = दृष्ट्वा ) तासां परस्परं सौहार्दमालोक्य प्रसन्नो राजा दुष्यन्तः ताः समावर्जयितुं चाटुभाषणमारभते अहो, आश्चर्यं समानि वयांसि रूपाणि चेति समवयोरूपाणि तैः रमणीयमिति

प्रौढमति और गंभीर होने के साथ-साथ परिस्थिति संभालती रहती है । अनसूया ने शकुन्तला को भौंरे से परेशान बताया, जिससे राजा दुष्यन्त सहानुभूति में उसकी ओर मुखकर पूछते हैं, तबतक भौंरा भाग गया । तपोवन में सभी तपस्या करते हैं । अतः वहाँ तपस्वियों के लिए तप की वृद्धि सबसे बड़ी कुशल है। इसलिए राजा ने कुशल-प्रश्न के रूप में तपस्या की वृद्धि ही पूछी । गृहस्थ से स्वस्थता आदि पूछा जाता है, क्योंकि गृहस्थाश्रम में वही प्रमुख विषय हैं । शकुन्तला को ही अतिथि सत्कार करना है, पर वह वचन से भी सत्कार नहीं कर पाती, क्योंकि पहले तो भौंरे से परेशान थी अब विशेष अतिथि राजा से घबड़ा गई है कि इनका उचित आतिथ्य मुझ से हो पायेगा या नहीं। सूनृत वाणी का अर्थ है मीठी वाणी। राजा ने कहा-आपलोगों की मीठी वाणी से ही मेरा अतिथि-सत्कार हो गया, अब पाद्य, अर्घ लाने की कोई जरूरत नहीं। अभी तक विनोदी प्रियम्वदा चुप थी, अवसर देख रही थी। राजा की बात सुनकर उनके साथ बातचीत करना अपना सौभाग्य समझ कर मधुरवाणी का परिचय देती हुई कहना आरम्भ किया—अच्छा तो महाराज ! इस छितौन वृक्ष की सघन शीतल छाया में क्षणभर बैठकर विश्राम कर लें। जब प्रियम्वदा ने राजा को बैठाने का अनुरोध किया तब राजा ने भी उनसे वहाँ बैठकर कुछ देर तक विश्राम कर लेने को कहा। यह परस्पर का अनुरोध भारतीय शिष्टाचार की एक परम्परा है। पर्युपासन का तात्पर्य है कि अतिथि के आस-पास बैठना। अतः वे तीनों राजा के पास बैठ गई।

शकुन्तला—( मन ही मन ) क्या बात है कि इन्हें देखकर मेरे मन में आश्रम विरोधी = प्रतिकूल भाव = कामविकार उत्पन्न हो रहा है ?

**विशेष—**शकुन्तला अपने मन में ही सोचती है, जिससे प्रतीत होता है कि प्रेम से वशीभूत हो गयी है। नाटकों में स्वगत एवं आत्मगत समानार्थ माने गये हैं। धनञ्जय ने अपने दशरूपक में कहा है कि दर्शकों के सुनने योग्य बात को प्रकाश कहते हैं और जिसको दर्शक सुन रहे हों, पर पात्र नहीं, इसको स्वगत कहा जाता है—'सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम्।'

राजा—( सबकी ओर देखकर ) अहा, परस्पर समान अवस्था और समान रूप वाली इन मुनिकन्याओं का प्रेम तथा इनका अनुराग भी आपस में कैसा सुन्दर है।

**विशेष—**यद्यपि राजा का शकुन्तला के प्रति विशेष अनुराग हो गया है फिर भी उसे छिपा कर समूह से पृथक् कर एक की प्रशंसा अशिष्टता समझ कर सबके रूप, आकृति एवं स्वभाव के

प्रथमोऽङ्कः ४९

प्रियंवदा—(जनान्तिकम्) अणसूए को णु क्खु एसो चउरगम्भीराकिदो मधुरं पिअं आलवन्तो पहाववन्दो विअ लक्खीअदि। (जनान्तिकम्) [ अनसूये को नु खल्वेष चतुरगम्भीराकृतिमधुरं प्रियमालपन् प्रभाववानिव लक्ष्यते । ]

अनसूया— सहि मम वि अत्थि कोदूहलं पुच्छिस्सं दाव णं (प्रकाशम्) अज्जस्स महुरालावरञ्जिदो विसम्मों मं मन्तावेदि। कदमो अज्जेण राएसिणो वंसो अलंकरीअदि कदमो वा विरहपज्जुस्सुअजणो किदो देसो किंनिमित्तं वा


समवयोरूपरमणीयं = समेन = तुल्येन वयसा = अवस्थया, रूपेण = आकृत्या वा रमणीयं = सुन्दरं, मनोहरं भवतीनां = युष्माकं सौहार्दम् = मित्रता। अत्र रूपपदेन आकृतिः, सौन्दर्यं स्वभावश्चेति त्रितयं विवक्षितम् ।

प्रियंवदा— राज्ञो दुष्यन्तस्य रूपसौन्दर्यादिना प्रलोभिता तत्त्वजिज्ञासया (जनान्तिकं = त्रिपताकाकरेणान्यानपवार्य दुष्यन्तं श्रावयन्ती अनसूयां प्रति प्राह) अनसूये ! सखि ! नु शब्दो वितर्के खल्विति जिज्ञासायाम् । को नु खलु एषः = अयं निकटस्थः चतुरगम्भीरा आकृतिर्यस्य स चतुरगम्भोराकृतिः = दर्शनीयगभीरस्वरूपः यद्वा दुरवगाहगम्भीराकृतिः-दुरवगाहा अत एव गम्भीरा = गभीरा आकृतिः = मुखमुद्रा यस्यासौ प्रियं, मधुरं = सरसं आलपन् = वार्तालापं कुर्वन् प्रभाववान् इव = प्रतापशालीव लक्ष्यते = अनुमीयते । आकृत्या स्वभावेन वाचा च मन्ये नायं प्राकृतो जन इति भावः । यदि अस्य रूपाद्यनुरूपमभिजात्यमपि स्यात्तदा अस्मत्सख्याः शकुन्तलाया। वरत्वेनायं ग्रहीतुमुचित इति प्रियंवदाया गूढोऽभिसन्धिः ।

अनसूया— सखि ! = आलि ! प्रियम्बदे ! मम = मे अस्ति = वर्तते कौतूहलं = उत्सुकता


सम्बन्ध में अपना मत व्यक्त कर रहे हैं जिससे सखियाँ न समझ सकें कि ये कहीं छिपकर शकुन्तला के अपूर्व सौन्दर्य को देख रहे थे। इस प्रकार राजा को तीनों की अवस्था, आकृति एवं परस्पर सौहार्द से आश्चर्य हो रहा था। अतः उन्होंने तीनों की प्रशंसा की है।

प्रियम्बदा—(हाथ की आड़ कर केवल अनसूया से) सखि अनसूये ! यह कौन व्यक्ति है जो देखने में गम्भीर आकृति वाला मालूम पड़ता है। इसके मधुर भाषण से यह अत्यन्त प्रभाव शील प्रतीत हो रहा है।

विशेष— राजा दुष्यन्त के शिष्ट व्यवहार तथा प्रभावशाली व्यक्ति का इतना प्रभाव पड़ा कि प्रियम्वदा हाथ की आड़ में मुख छिपा कर अनसूया से बातचीत करती हुई उनकी प्रशंसा कर रही है। दशरूपक में धनञ्जय ने जनान्तिक का लक्षण लिखा है कि बातचीत के प्रसंग में हाथ की अंगुलियाँ खड़ीकर और अनामिका को कुछ तिरछा कर जो कहा जाय उसे जनान्तिक कहते हैं। इस ढंग में वही व्यक्ति नहीं सुन पाता है जिसकी तरफ अनामिका तिरछी की जाती है, शेष सुनते रहते हैं।

'त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम्।
अन्योऽन्यामन्त्रणं यत् स्यात् जनान्ते तज्जनान्तिकम्॥'

अनसूया—हे सखि प्रियम्बदे ! मुझे भी इस बात का बड़ा कुतूहल हो रहा है। अतः मैं इनसे


पाठा०—१. चतुरे ।
४ शाकु०

५० अभिज्ञानशाकुन्तलम्

सुउमारदरो वि तवोवणगमणपरिस्ससस्स अत्ता पदं उवणीदो। [ सखि, समाश्वसिति कौतूहलम्। प्रक्ष्यामि तावदेनम्। ( प्रकाशम् ) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते। कतम आर्येण राजर्षवंशोऽलंक्रीयते कतमो वा विरहपर्युत्सुकजनः कृतो देशः किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः। ]

शकुन्तला—( आत्मगतम् ) हिअअ मा उत्तम्म। एता तुए चिन्तिद अणसूआ मन्तेदि [ हृदय मोत्ताम्य। एषा त्वया चिन्तितं अनसूया मन्त्रयते। ]

प्रक्ष्यामि = पृच्छामि तावत् = प्रथमम् एनं = इमं राजानम्, ( प्रकाशं = व्यक्तम् ) आर्यस्य = श्रीमन्तः, भवतः मधुरालापजनितः—मधुरेण = कर्णसुखकरेण आलापेन = संभाषेणेन जनितः = उत्पन्नः विश्रम्भः = विश्वासः माम् = इमं जनम् अनसूयाम् मन्त्रयते = कथयितुं प्रेरयते, वचनेन नियोजयते, कतमः = कः आर्येण = श्रीमता, राजर्षेवंशः अलङ्क्रियते = कस्य राजर्षेः वंशे भवानुत्पन्नः कतमो वा देशः = स्थानम् विरहेण = वियोगेन पर्युत्सुकाः = उत्कण्ठिता जनाः यस्मिन् स विरहपर्युत्सुकजनः कृतः = विहितः कस्माद्देशादागतोऽसीति भावः। किंनिमित्तं = को हेतुः वा = च सुकुमारतरः = परिश्रमानर्हः अपि तपोवने यद्गमनं तस्य परिश्रमः क्लान्तेः इति तपोवनगमनपरिश्रमस्य आत्मा = देहः पदं = स्थानम् उपनीतः = प्रापितः, केन हेतुना भवानत्र आयात इति हि प्रश्नाशयः। अत्र क्रमशः वंशदेशौ आगमनहेतुश्च भङ्ग्या पृष्टः।

शकुन्तला--( आत्मगतं = स्वगतम् ) हृदयः = मनः मा उत्ताम्य = अलम् अधीरतया सन्तापं मा कृथाः। एषा = इयं निकटस्था अनसूया त्वया भवता = चिन्तितम् = इष्टम् मन्त्रयते = जिज्ञासाप्रकटनेन कथयति।

पूछती हूँ (प्रगट में) आर्य ! आपके इस मधुर भाषण से जो विश्वास उत्पन्न हो गया है, उसी से मैं आपसे यह पूछने की धृष्टता कर रही हूँ कि आपने किस राजर्षि वंश को अपने जन्म से अलंकृत किया है ? और आपने कौन देश को अपने विरह से उत्सुक=विरहाकुल किया है तथा किस लिए आपने अपने इस सुकुमार शरीर को इस तपोवन में आने के कष्ट में लगाया है अर्थात् क्या चन्द्र-सूर्यवंशों में किस राजवंश में आपका जन्म है? और आप किस देश के निवासी हैं तथा इस तपोवन में आपके आने का क्या कारण है ? कृपया बताने का कष्ट करें।

**विशेष—**विश्वास की परिभाषा शास्त्रों में इस प्रकार की गई है—

'यद् यत स्वचित्ते स्फुरति तत्तत् परिचितान् प्रति।
निःशेषं बोधयन् भावो विश्वास इति कथ्यते॥'

अनसूया तो पहले संकुचित-सी हो गई थी, किन्तु परिस्थिति के अनुकूल होते ही उसने भावुक प्रश्नों की चर्चा छोड़कर व्यावहारिक प्रश्न करना प्रारम्भ कर दिया, जिससे उस आगन्तुक अपरिचित अतिथि को विशेष जानकारी हो सके। उसने सभ्यभाषा में राजा से तीन बातें पूछीं- आप किस वंश के राजा हैं ? आपका कौन सा देश है ? यहाँ आश्रम में आने का क्या कारण है इस प्रकार काव्यात्मक भाषा में वंश देश और आगमन का कारण पूछकर अनसूया ने प्रगल्भ और व्यवहार-पटुता का पूर्ण कौशल उपस्थित कर दिया है जिससे मधुर आलाप से सौहार्द पूर्ण विश्वास का वातावरण प्रस्तुत हो गया है।

शकुन्तला—( मन ही मन ) हृदय अधीर मत हो। जो बात तुम जानना चाहती हो उस बात को तो वह अनसूया स्वयं ही पूछ रही है।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रथमोऽङ्कः

५१

राजा—( आत्मगतम् ) कथमिदानीमात्मानं निवेदयामि कथं ^१वात्मापहारं करोमि। भवतु। एवं तावदेनां वक्ष्ये। ( प्रकाशम् ) भवति यः ^२पौरवेण राज्ञा धर्माधिकारे नियुक्तः ^३सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः।
**अनसूया—**सणाहा दाणि धम्मआरिणो [ सनाथा इदानीं धर्मचारिणः ]


राजा—( आत्मगतम् स्वगतम् =,) कथं = कया रीत्या इदानीं = अधुना आत्मानं = स्वस्य परिचयम्, निवेदयामि = कथयामि कथं वा = कया रीत्या वा आत्मापहारं = स्वस्य गोपनं निग्रहणं करोमि = कुर्याम् आत्मनिगूहनं धर्मशास्त्रेषु अधर्म्यं प्रतिपादितमस्ति। तथा हि—

'योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते। स पापकृत्तमो लोकस्तेन आत्मापहारकः॥'

भवतु = अस्तु, निर्णीतम्, एवं = अनया रीत्या तावत् एनां = इमाम् अनसूयां वक्ष्ये = वदिष्यामि, ( प्रकाशं = स्पष्टम् ) भवति = देवि ! यः पौरवेण = पुरुवंशीयेन राज्ञा = नृपेण दुष्यन्तेन धर्माधिकारे = धर्मरक्षारूपेऽधिकारे नियुक्तः = आदिष्टः, अधिकृतः सः = पूर्वोक्तः अहमयं जनः अविघ्नक्रियोपलम्भाय-अविघ्नानां = क्रियाणाम् उपलम्भाय = क्रिया निर्विघ्ना न वेति ज्ञातुम् इदं = एतत् धर्मारण्यं = रणे साधुरण्यं न रण्यम् अरण्यं धर्मस्य अरण्यं धर्मारण्यम् = तपोवनम् धर्मस्य धर्मसाधनं धर्मार्थं वा अरण्यं धर्मारण्यं आयातः= आगतः।

अयं भावः राज्ञो दुष्यन्तस्य धर्मसचिवोऽहं धर्मरक्षार्थमिहागत इति आत्मनि गूहनरूपो बाह्यार्थः। पौरवेण राज्ञा = इलिलनाम्ना मत्पित्रा धर्माधिकारे = धर्मस्वरूपे प्रजापरिपालनारूपेऽधिकारे नियुक्तः = अभिषेकपूर्वं स्थापितः दुष्यन्त इति प्रसिद्धोऽहमिति बाह्यार्थः।

**अनसूया—**अथ तद्वचनं सादरमनुमोदमाना अनसूया प्राह—इदानीं = साम्प्रतम्


राजा—( मन ही मन ) मैं अब अपने को कैसे प्रकट करूँ ? और छिपाऊँ तो कैसे छिपाऊँ ? अच्छा इस प्रकार कहता हूँ ( प्रगट में ) श्रीमती जी, मैं तो पौरव राजा का आज्ञाकारी पुत्र हूँ और उनके नगर की रक्षा करने को नियुक्त हूँ। तथा पुण्य आश्रमों को देखने की अभिलाषा से धर्मारण्य = तपोवन में आ गया हूँ।

**विशेष—**मनुजी ने अपनी मनुस्मृति में पर-पत्नी तथा असम्बद्ध स्त्री को भवती, सुभगा और भगिनी कहने का आदेश दिया है, जिसके अनुसार राजा दुष्यन्त ने मुनिकन्याओं को भवती कहा है—

'परपत्नी तु या स्त्री स्यादसम्बद्धा च योनितः।
तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च॥'

पहले राजा दुष्यन्त ने अपने को छिपाने में असुविधा तथा प्रगट होने में मुनिकन्याओं के संकोच का अनुभव कर द्वैविध्य में पड़ गये हैं, पर पुनः उन्होंने निर्णय लिया कि पौरव का अर्थ दुष्यन्त-पिता और दुष्यन्त दोनों होना संभव है। अतः अपने को छिपा रखने का उपाय उन्हें मिल गया है।

**अनसूया—**हे आर्य ! आपके आने से हम सब धर्माचरणशील आश्रमवासी सनाथ और कृतार्थ हो गये।

**विशेष—**धर्मचारी शब्द जातिवाचक होने के कारण स्त्री और पुरुष दोनों के लिए प्रयुक्त होता है।


पाठ०—१. श्रोत्मनः परिहारं । २. पौरवेन नगरध्यक्षोँ । ३. पुण्याश्रमदर्शनप्रसंगेन ।

५२ अभिज्ञानशाकुन्तलम्

( शकुन्तला शृङ्गारलज्जां रूपयति । )

सख्यौ— ( उभयोराकारं विदित्वा । जनान्तिकम् । ) हला सउन्दले जइ एत्थ अज्ज तादो संणिहिदो भवे [ हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् । ]

शकुन्तला— तदो किं भवे । [ ततः किं भवेत् । ]


धर्मचारिणः = तपोवनवासिनो वयं धार्मिकाः सनाथाः-मावेन = रक्षकेन सहिता सनाथाः । पूर्वं तु सनाथत्वमस्पष्टमासीत्, परमिदानीं स्पष्टमभूदिति भावः । राज्ञो द्वयर्थंकवचनेन अयं राजप्रतिनिधिः राजा वायमिति ज्ञात्वाऽनस्रूया सनाथत्वं प्रोक्तवती ।

राज्ञो रूपदर्शनेनाङ्कुरितायाः पश्चादभिजात्यादि-श्रवणेन परिपोषं प्राप्तायाश्च रते-रवस्थान्तरमनुभावद्वारा दर्शयति—शृङ्गारेति । शकुन्तला शृङ्गारलज्जां = शृङ्गाररसाश्रयां भ्रूभङ्गादिना साकूतं लज्जां = कामचेष्टां वा सव्रीडं नाटयति = सलज्जमभिनयति तदनेन हावो नाम नायिकाङ्गजोलङ्कारो दर्शितः । तदुक्तम्-

'भ्रूनेत्रादिविकारैस्तु सम्भोगेच्छाप्रकाशकः । भाव एवाल्पसंलक्ष्य विकारो हाव उच्यते ॥'

लज्जां हि कन्याजनसुलभा भवति—यथा हि भोजराजः-

'दुराचारादिमिर्व्रीडा धाष्ट्र्‌यामावस्तमुन्नयेत् । साचीकृताङ्गावरणे वैवर्ण्योधोमुखादिभिः ॥'

लज्जा नाम अन्तरुद्भून्नमान्मथिकविकारजुगोपायिषा मदनविजृम्भणरूपा शृङ्गाररसतरङ्गिणी, यथा रूढा निर्भरतया तांस्तान् विलासान् नेत्रगात्रविकारपरम्परारूपान् सूते । शृङ्गारलज्जालक्षणं तु परावृत्तेन शिरसा लज्जितया दृशा च । तल्लक्षणं यथा-

'पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम् ।
तत्कार्यं कोपलज्जादि कृते वक्त्रापसारणे ॥
मिथोऽभिगामि-पक्ष्मोग्राऽप्यधस्ताद् गततारका ।
पतितोर्ध्वपुटादृष्टिर्लञ्जय्या लज्जिता मता ॥'

सख्यौ— इदानीं विदग्धयोः सख्योः प्रवृत्तिमह—सख्यौ = अनसूया प्रियम्बदा च उमयोः शकुन्तला-दुष्यन्तयोः आकारं = मुखाकृतिं विदित्वा = आकारेण उभयोरनुरागं ज्ञात्वा परस्पराभिलाषमनुभावैरवधायं वा । सोपहासं सख्यो शकुन्तलामाहतुः—हला शकुन्तले ! यद्यत्र अद्य = इदानीं अतिथिविशेषलाभे, त्वदनुरूपवरलाभे तातः = कुलपतिः कण्वः सन्निहितः = उपस्थितः भवेत् = स्यात् ।

शकुन्तला—ततः किं भवेत् = तदा किं स्यात् ।


( शकुन्तला हाव, भाव, कटाक्ष आदि कामविकारप्रदर्शनपूर्वक शृङ्गार लज्जा का अभिनय करती है । )

दोनों सखियाँ— ( दोनों की आकृति देखकर शकुन्तला से ) सखि शकुन्तले ! आज यहाँ यदि तात कण्व उपस्थित होते ।

विशेष— दुष्यन्त और शकुन्तला दोनों के चेहरे पर परस्पर आकर्षक अनुराग को देखकर दुष्यन्त को न सुनने देने के लिए उनकी तरफ हथेली करके, उस समय महर्षि कण्व के न उपस्थित रहने का पश्चात्ताप करती हुई शकुन्तला से कहती हैं—सखि, यदि इस सु-अवसर पर पिताजी होते तो ।

शकुन्तला— तो क्या होता ?

प्रथमोऽङ्कः ५३

सख्यौ—इमं जीवितसव्वस्सेण वि अदिहिविसेसं किदत्थं करिस्सदि। [ इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति । ]

शकुन्तला—तुम्हे अवेध। किं हिअए करिअ मन्तेध। ण वो वअणं सुणिस्सं। [ युवामपेतम्। किमपि हृदये कृत्वा मन्त्रयेथे। न युवयोर्वचनं श्रोष्यामि । ]

राजा—वयमपि तावद्भवत्योः सखीगतं ^१किमपि पृच्छामः।

सख्यौ—अज्ज अणुग्गहो विअ इअं अब्भत्थणा। [आर्य अनुग्रह इवेयमभ्यर्थना ।]


सख्यौ—अनसूया प्रियम्वदा च विवक्षिताथंगोपायनपुरःसरं इमं जनं लोकोत्तरगुण-विशिष्टमतिथिविशेषं राजानम् जीवितसर्वस्वेन = जीवितस्य जीवनस्य सर्वस्वेन = सर्वोत्तमवस्तुना तपःप्रभावर्निर्मितैर्लोकोत्तरपदार्थैरपि कृतार्थं = करिष्यति विवाहादिना यथार्थं सम्मानयेत् । अस्मै अतिथित्वेनागताय त्वदनुरक्ताय महाराजाय जीवितसर्वस्वभूतां त्वं प्रदास्यतीति व्यङ्ग्यार्थः ।

शकुन्तला—नायकसमक्षं प्रस्तुतां सखीजनवक्रतां बुद्ध्वा सलज्जा कृतककोपेनाह—युवां = भवती अपेतम् = मत्त्समीपाद् दूरे गच्छतम् किमपि = कन्यकानामवाच्यं लज्जाकरं किञ्चिद् वस्तु हृदये = अन्तःकरणे कृत्वा = निधाय मन्त्रयेथे = वदथः न युवयोः = परिहासशीलयोः भवत्योः वचनं = एकमपि वाणीं श्रोष्यामि = आकर्णयिष्यामि।

राजा—अथ तथाविधां शकुन्तलामालोक्य परिवृद्धाभिलाषो राजा तस्याः क्षत्रिय-परिग्रहयोग्यतां द्रढयितुं तदुत्पत्तिं प्रष्टुमारभते = वयमपि यथा यूयमस्मत्कुलानामाद्य-पृच्छत तथा तावद् भवत्योः युवयोः सखीगतं = सखिसम्बन्धि-शकुन्तलाविषयकं पृच्छामः = प्रष्टुमिच्छामः ।

सख्यौसख्यौ = प्रियम्वदानसूये कथयतः—आर्ये ! = श्रीमन् ! अनुग्रहः = कृपा इव = तत्तुल्यः इयं = एषा जिज्ञासारूपा अभ्यर्थना = प्रार्थना। भवत्प्रश्नस्य सखीवृत्तान्त-विषयकत्वेन तस्या अभ्युदयहेतुत्वात् अनुग्रहात्मना संभावयावः । एवं च भवतः प्रश्नोऽय-मनुग्रहतुल्य एवेति कामं पृच्छतु भवानिति सूचितम् ।


दोनों सखियाँ—तो अपने जीवनसर्वस्व = शकुन्तला को देकर भी इस विशिष्ट अतिथि वर का सत्कार करते ।

विशेष—जीवन सर्वस्व का अर्थ है—जीवन का सब कुछ, जिसके दो अर्थ संभव है—बड़ी से बड़ी वस्तु और जीवन का सबसे बड़ा धन शकुन्तला । महर्षि कण्व शकुन्तला को प्राणों से भी अधिक मानते थे। इस लिए यह उनका उत्तम धन है। दुष्यन्त को कृतार्थ करने का तात्पर्य है कि उन पर आसक्त अभिलषित शकुन्तला को समर्पित कर उन्हें सन्तुष्ट कर देना ।

शकुन्तला—जाओ हटो, तुम दोनों तो न मालूम क्या मन में रखकर ऐसी-ऐसी बातें कर रही हो। मैं तुम्हारी बातें सुनूँगी ही नहीं।

राजा—जैसे आप लोगों ने मेरा कुल और नाम पूछा है वैसे ही मैं भी आपलोगों की इस सखी के विषय में आप लोगों से कुछ पूछना चाहता हूँ ।

दोनों सखियाँ—पूछिए, पूछिए । भला अनुग्रह में भी कभी प्रार्थना की जरूरत होती है ? अर्थात् यदि आप पूछेंगे तो हम लोगों पर अनुग्रह ही होगा।


पाठ०—१. किञ्चित् ।

५४ | अभिज्ञानशाकुन्तलम्

राजा—भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः। इयं च वः सखी तदात्मजेति कथमेतत्।

अनसूया—सुणादु अज्जो। अत्थि को वि कोसिओत्ति गोत्तणामहेओ महाप्प-हावो राएसी। [शृणोत्वार्यः। अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः।]

राजा—तद्वचसा सन्तुष्टः पृच्छति—भगवान्=ऐश्वर्यादिषड्गुणसम्पन्नः श्रीमान् काश्यपः शाश्वते ब्रह्मणि स्थितः = परब्रह्मणि नियोजितात्मा यद्वा नैष्ठिकब्रह्मचर्ये स्थितः, परिग्रह-साहित्यादूध्वंरेता इति यावत्, इति प्रकाशः = प्रसिद्धोऽयमर्थः। इयं = एषा च वः = युष्माकं सखी = आलिः शकुन्तला तदात्मजा = तस्यौरसी पुत्री इति = इदं भवतीभ्यां कथितम् एतत् = इदं कथं = केन प्रकारेण संगच्छते ? । तत्प्रकारः कथ्यतामिति भावः।

अनसूया—अथ शकुन्तलोत्पत्तिसम्बन्धिनीं कथां कथयितुमुपक्रमते = शृणोतु आर्यः = श्रीमान् आकर्णयतु अस्ति = आसीत् कोऽपि = कश्चित् कुशिकस्य गोत्रापत्यं पुमान् कौशिको विश्वामित्रः इति = एवं प्रकारेण गोत्रकृतं नामधेयं यस्यासौ गोत्रनामधेयः—वंशनामा। महाप्रभावः = विपुलप्रतापः राजर्षिः = राजा = नृपः ऋषिः मुनिरिव इति राजर्षिः।


**राजा—**भगवान् कण्वमुनि तो सदा से नैष्ठिक ब्रह्मचारी प्रसिद्ध हैं। आपकी सखी शकुन्तला उनकी पुत्री है ऐसा आप लोगों ने कहा ही है, तो यह बात कैसे? नैष्ठिक ब्रह्मचारी को यह पुत्री कैसे हुई ?

**विशेष—**शास्त्रों में भगवान् उन्हें कहा गया है, जिनके पास निम्नाङ्कित छह गुण हों—

'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥'

अथवा भग = ऐश्वर्य वाले को भगवान् कहते हैं। समग्र ऐश्वर्य, वीर्य, यश, श्री, ज्ञान और वैराग्य इन छह वस्तुओं का नाम भग है—

'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः। ज्ञान-वैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥'

आत्मजा औरस पुत्री को कहते हैं, और नैष्ठिक ब्रह्मचारी विवाह न करने वाले ब्रह्मचारी को कहते हैं ? नैष्ठिक ब्रह्मचारी को औरस कन्या कैसे ? यह प्रश्न भद्र भाषा में उठाया गया है। राजा दुष्यन्त ने पहले तो महर्षि कण्व की विजातीय भार्या में शकुन्तला की उत्पत्ति की बात सोची थी, अब विवाह प्रसंग में कण्व के नैष्ठिक ब्रह्मचर्य में सन्देह करते हैं। जो एक धर्मात्मा राजा के लिए उचित ही है। यहाँ कण्व ऋषि को काश्यपवंश में उत्पन्न कहा गया है।

**अनसूया—**आर्य ! सुनिए, कौशिक नाम के महाप्रभावशाली राजर्षि थे।

**विशेष—**पुराणों के अनुसार ब्रह्मा के पुत्र कुश राजा के वंश में उत्पन्न होने के कारण विश्वामित्र को कौशिकी कहा जाता है, किन्तु महाभारत के अनुसार कान्यकुब्ज के राजा कुश के पुत्र गाधि के पुत्र विश्वामित्र हुए हैं।

'कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ !।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः।
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥'

विश्वामित्र जी के महाप्रभाव की कथा पुराणों में प्रसिद्ध है—

तप के द्वारा राजर्षि से ब्रह्मर्षि हो जाना, अजीगर्त के पुत्र शुनःशेप की वरुण से रक्षा करना, त्रिशंकु को मानव शरीर से स्वर्ग भेजना तथा नई सृष्टि की रचना आदि उनके महाप्रताप के द्योतक हैं।

प्रथमोऽङ्कः (५५)

राजा—अस्ति। श्रूयते।

अनसूया—त णो पिअसहीए पहवं अवगच्छ। उज्झिआए सरीरसंबड्ढणादिहिं तादकस्सवो से पिदा। [तमावयोः प्रियसख्याः प्रभवमवगच्छ। उज्झितायाः शरीर-संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता।]

राजा—उज्झितशब्देन जनितं मे¹ कौतूहलम्। ²आमूलाच्छ्रोतुमिच्छामि।


राजा—दुष्यन्तः आत्मनः श्रवणौत्सुक्यं द्योतयितुं तदुक्तमनुमोदमानः प्राह—अस्ति=आसीत् श्रूयते = आवर्णनमात्रेण तत्सत्तां जानामि।

अनसूया—श्रोतुमौत्सुक्यमवधायं सोत्साहं प्राह—तं = राजर्षि कौशिकं आवयोः प्रियसख्याः = शकुन्तलायाः प्रभवं = जनकं अवगच्छ = जानीहि। कथं तर्हि कण्वपुत्रीति व्यपदेश इत्यत आह—उज्झितायाः = प्रसवानन्तरं जनन्या परित्यक्तायाः शरीरपरिवर्द्धना-दिभिः = कलेवरपोषणादिभिः तातकाश्यपः = महर्षिः कण्वः अस्याः = शकुन्तलायाः पिता = पातीत्यन्वर्थनामा न तु जनकः यथोक्तं—

'कन्यादाताऽन्नदाता च जन्मदाताऽभयप्रदः।
जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ॥'

राजा—नृपो दुष्यन्तः सख्योक्त्या शकुन्तलाया राजर्षिबीजात् संभवं ज्ञात्वा तामा-त्मनः परिग्रहयोग्यां मन्यमानः अत एव प्रवर्द्धमानोऽनुरागस्तन्मातरं ज्ञातुं तदुत्पत्तिं विस्त-रेण श्रोतुकाम आह = उज्झित इति शब्देन मे = मम मनसि कौतूहलं = जिज्ञासा जनितं = उत्पन्नम् आमूलात् = आदित आरभ्य, आरम्भात् श्रोतुं = आकर्णयितुं, इच्छामि = कामये।


राजा— हाँ, उनका नाम तो मैंने खूब सुना है।

अनसूया— हमारी सखी शकुन्तला के वे ही विश्वामित्र जी पिता हैं, परन्तु इस शकुन्तला को इसकी माता ने यों ही छोड़ दिया था। अतः इसका पालन-पोषण कुलपति कण्व ने किया है। इसलिए इसके पालन-पोषण करने के कारण महर्षि कण्व भी इसके पिता के समान हैं, क्योंकि पालन-पोषण करने वालों को भी शास्त्रों में पिता कहा गया है।

विशेष— महाभारत के आदि पर्व में जो गर्भाधान के शरीर निर्माण करता है, जो अभय दान देकर प्राणों की रक्षा करता है और जिसका अन्न भोजन किया जाता है, ये तीनों पिता कहे गये हैं—

'शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेणैव त्रयः प्रोक्ताः पितरौ धर्मसाधने ॥'

इन्द्र द्वारा भेजी गयी अलौकिक सौन्दर्य सम्पन्न मेनका अप्सरा ने अपने हावभावों के द्वारा अग्नि के समान तेजस्वी विश्वामित्र मुनि को तपोभ्रष्ट कर उनके साथ संभोग किया और शकुन्तला को जन्म देकर निर्जन वन में उसे छोड़ कर इन्द्र लोक चली गई। बाद महर्षि कण्व ने उस निर्जन वन में घेर कर शकुन्तों (पक्षियों) द्वारा रक्षित उसे लाकर रक्षा किया और उसका नाम शकुन्तला रख दिया। (अतः शकुन्तोंद्धार रहित होने के कारण इसका नाम शकुन्तला पड़ा)।

'निर्जने तु वने यस्माच्छकुन्तैः परिवारिता। शकुन्तलेति नामास्या कृतं चापि ततो मया ॥ ७२।१६

इस प्रकार अपने यहाँ लाकर प्राण दाता और अन्न दाता होने के कारण महर्षि कण्व शकुन्तला के पिता कहे जाते हैं। वह वस्तुतः मेनका में उत्पन्न विश्वामित्र की पुत्री थी।

राजा— उज्झित शब्द ने मुझ में उत्सुकता उत्पन्न कर दी है। यह क्यों छोड़ दी गई इस प्रसंग को मैं आरम्भ से सुनना चाहता हूँ।


पाठा०—१. नः। २. तदामूला ।

५६ अभिज्ञानशाकुन्तलम्

अनसूया—सुणादु अज्जो पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किवि जातसङ्केहि देवेहि मेणआ-णाम अच्छरा पेसिदा णिअमविग्धकारिणी।
[ शृणोत्वार्यः । पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । ]

राजा—अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।


अनसूया—शृणोतु = आकर्णयतु आर्यः = श्रीमान्, पुरा = प्राचीनकाले किल = ऐतिह्यम्, तस्य = उक्तस्य राजर्षेः = नृपमुनेः उग्रे = उत्कटे तपसि = तपस्यायां वर्तमानस्य = विद्यमानस्य देवैः = अमरैः विघ्नकारिणी नियमे तपसि विघ्नं = बाधां करोति तच्छीला विघ्नकारिणी = तपोभङ्गकारी मेनका नाम = मेनकाख्या नाम अप्सराः = स्वर्गबामा प्रेषिता = प्रहिता ।

**राजा—**अनसूयोक्तं समर्थयन् राजा प्राह—अस्ति = भवति एतत् = इदं पूर्वोक्तम्,


**अनसूया—**महाराज, सुनिए, वे कौशिक विश्वामित्र नामक ऋषि, जिस समय गोदावरी नदी के तट पर उग्र तपस्या कर रहे थे, तो उनकी तपस्या से शङ्कित देवताओं ने उनकी तपस्या में विघ्न डालने के लिए मेनका अप्सरा को उनके पास भेजा ।

**राजा—**ठीक है, देवता लोग तो दूसरे की समाधि एवं तपस्या से हमेशा डरते ही रहते हैं हाँ, तो फिर आगे क्या हुआ ?

विशेष—'अप्सु सरतीति अप्सराः' इस व्युत्पत्ति के अनुसार जल में चलने वाली या जल से उत्पन्न होने वाली को अप्सरा कहा जाता है ।

अप्सराएँ स्वर्ग में इन्द्र-सभा की नर्तकी का काम करती हैं । ये नाच और गान में अत्यन्त निपुण है । कई तरह से इनकी उत्पत्ति बताई गई है । किसी उग्र तपस्वी के तप से डर कर देवता लोग इन्हें तपोभङ्ग करने के लिए भेजते रहते हैं । भिन्न-भिन्न तपस्वियों के तप को नष्ट करने के निमित्त भिन्न-भिन्न अप्सरायें जाती हैं । ये हमेशा युवती बनी रहती हैं ।

वाल्मीकि रामायण के अनुसार जल-मन्थन से उत्पन्न रस से अप्सरायें उत्पन्न हुई हैं ।

'अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः।
उत्पेतुर्मनुश्रेष्ठ ! तस्मादप्सरसोऽभवन् ॥' ४५।३३

महाभारत में उर्वशी, पूर्वचित्ति, सहजन्या, मेनका, विश्वाची और घृताची छह अप्सरायें ब्रह्मा से उत्पन्न कही गई हैं । इनमें मेनका सर्वश्रेष्ठ कही गई है—

'उर्वशी विप्रचित्तिश्च सहजन्या च मेनका।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥
दिवः सम्प्राप्य जगती विश्वामित्रादजीजनत् ॥'

अप्सराओं के लुभाने पर बड़े-बड़े ऋषि, महर्षि, देवर्षि, राजर्षि, तपस्वी आदि की तपस्यायें भंग हो जाती हैं । ये इन्द्र के दरबार की अमोघ अस्त्र हैं ।

विश्वामित्र जी की उग्र तपस्या को भंग करने के निमित्त जब इन्द्र ने मेनका से कहा तब उसने काम और पवन को सहायता के लिए इन्द्र से मांगा, बाद पवन ने मालिनी नदी के तीर पर तप में संलग्न ऋषि के सामने मेनका के इच्छानुसार मेनका को विवस्त्र कर दिया और काम ने उत्तेजना पैदा कर दी । ऋषि का मन विकृत हो उठा। बाद उन्होंने मेनका को बुलाकर उसके साथ संभोग किया, परिणाम स्वरूप वही नवजात शकुन्तला को छोड़कर मेनका तत्काल पुनः इन्द्रलोक चली गई । ऋषि पुनः तप करने के लिए अन्यत्र चले गये । अप्सरायें भारत भूमि पर उत्पन्न शिशुओं को अपने साथ नहीं ले जाती हैं । इस प्रकार मेनका तथा विश्वामित्र से शकुन्तला की उत्पत्ति है । अप्सरा पुत्री होने के नाते शकुन्तला का रूप-सौन्दर्य भी उसी के समान अपूर्व था ।