भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ
४०२अभिज्ञानशाकुन्तलम्

**बालः—**आज्जुए को ! एसो । [ मातः ! क एषः । ]
**शकुन्तला—**वच्छ ! दे भाअहेआईं पुच्छेहि । [ वत्स ! ते भागधेयानि पृच्छ । ]
राजा—( शकुन्तलायाः पादयोः प्रणिपत्य )

सुतनु ! हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपिमनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ २४ ॥

निजजनन्या साकं संलपन्तं दुष्यन्तं दृष्ट्वा सर्वदमनो स्वमातरं शकुन्तलां पृच्छति--
मातः = हे जननि ! एषः = अयं कः ?

शकुन्तला—वत्स ! = आयुष्मन् ! ते = तव स्वस्य भागधेयानि = भाग्यं पृच्छ— अत्र क एष इत्यस्योत्तरं ते भाग्यमेव दातुं प्रभवति, प्रत्यादिष्टाहं कथं ब्रूयां क एष इति । यदि त्वं सम्राट्सुतः चक्रवर्ती भवेरिति ते भाग्यं तदा अयं ते पिता इति वक्तुं न्याय्यम् । अथेहशं ते भाग्यं यदिहैव वने वसन् तपश्चरिष्यसि तदा धराधिपोऽयं दुष्यन्त इत्येवास्य पर्याप्तः परिचयः । अथवा येषां फलमस्य दर्शनं लाभः तानि भाग्यानि पृच्छ यद्वा एनं पृच्छेत्यर्थः ।

राजा—( शकुन्तलायाः पादयोः प्रणिपत्य ) इदं परित्यागपरिहारार्थं प्रणिपतनम् ।

**अन्वयः—**हे सुतनु ! ते हृदयात् प्रत्यादेशव्यलीकम् अपैतु । तदा किमपि बलवान् मे मनसः सम्मोहः अभूत् । शुभेषु प्रबलतमसां प्रवृत्तयः एवं प्रायः । हि अन्धः शिरसि क्षिप्तां स्रजमपि अहिशङ्कया धुनोति ॥ २४ ॥

शकुन्तलाहृदयात् निराकरणदुःखं दूरीकर्तुं प्रयतमानो नृपो दुष्यन्तः तां प्रियां शकुन्तलाममुनयन्नाह—सुतनु इति । सुशोभना तनुर्यस्या सा सुतनू तत्सम्बुद्धौ हे सुतनु = हे शोभनाङ्ग ते = तव हृदयात् = मनसः प्रत्यादेशव्यलीकं प्रत्यादेशात् = प्रत्याख्यानात् जातं यत् व्यलीकं = अप्रियं तत् प्रत्याख्यानव्यलीकम् = मत्कृतप्रत्याख्यानजनिताप्रीति। “व्यलीकं त्वप्रियेऽनृते”, इत्यमरः । उपैतु = दूरीभवतु । तदा प्रत्याख्यानकाले स्वदागमनकाले किमपि = कुतोऽप्यनिर्वचनीयकारणात् बलवान् = अधिकः मे = मम मनस। = हृदयस्य सम्मोहः = आज्ञानं, विस्मृतिः अभूत् = जातः । शुभेषु = श्रेयस्साधनेषु प्रबलतमसां प्रबलं = अधिकं तमः = तमोगुणः येषां ते तेषां प्रबलतमसां बलवंद-


**बालक—**माँ यह कौन है ?
**शकुन्तला—**बेटा, अपने भाग्य से पूछो !
राजा—( शकुन्तला के पैर पर गिरकर )
हे सुन्दरि अब तुम्हारे हृदय से मेरे द्वारा किये गये अप्रिय परित्याग का दुःख निकल जाना चाहिए । उस समय मेरे मन में अद्भुत प्रबल अज्ञान उत्पन्न हो गया था, क्योंकि मङ्गलप्रद वस्तुओं के विषय में प्रबल तमोगुणवालों की प्रवृत्तियाँ इसी तरह होती हैं । अन्धा व्यक्ति शिर में पहिनाई हुई पुष्प-माला को सर्प की आशङ्का से झटक कर दूर फेंक देता है । अतः अब तुम अपने मन से उसे बिल्कुल निकाल दो और उसे भूल जाओ ॥ २४ ॥

**विशेष—**इस पूरे पद्य में क्षमा की प्रार्थना है । अज्ञान के कारण ही वैसा हुआ जानबूझ कर नहीं । अब यह अज्ञान चला गया । अज्ञान में मनुष्य शुभ को भी अशुभ ही समझता है । अज्ञान


CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सप्तमोऽङ्कः

४०३

शकुन्तला—उट्ठेदु अज्जउत्तो । णूणं मे सुअरिअप्पडिबंधअं पुराकिदं तेसु दिअहेसु परिणाममुहं आसि जेण साणुक्कोसो वि अज्जवुत्तो मइ विरसो संवुत्तो । [ उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासी-द्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः । ]

( राजोत्तिष्ठति )

शकुन्तला—अह कहं अज्जउत्तेण सुमरिदो दुक्खभाई अअं जणो । [ अथ कथमार्यपुत्रेण स्मृतो दुःखभागययं जनः । ]


ज्ञानावृतमनसां शुभेषु = स्वशुभप्रदेष्वपि वस्तुषु वृत्तयः = मनोवृत्तयः एवं प्रायाः = शुभत्यागरूपा भवन्ति । हि = यतः अन्धः = चक्षुर्हीनः शिरसि मस्तके क्षिप्तां = परिधा-पितां स्रजमपि = सुरभिपुष्पमालापि अहिशङ्कया = सर्पभ्रान्त्या धुनोति = तिरस्करोति शिरसो व्यस्यति ।

अयं भावः—हे शशाङ्कतिलके प्रिये ! प्राक् मत्कृतनिराकृतिदुःखं स्वहृदयात् निष्का-सनीयम्, यतो मया जानता तन्न कृतम् । तदानीं काले मम हृदये ( सुलभकोपात् महर्षे दुर्वाससः शापात् ) प्रबलः सम्मोह आसीत् । इदानीमङ्गुलीयकदर्शनेन सो व्यपगतः । यथा नेत्रहीनः पुमान् केनापि पुंसा निजगले निहितां सुरभिपुष्पमालामपि सर्पस्याशङ्कया स्वकी-याद् गलान्निस्सार्य दूरमुत्क्षिपति तथैव पूर्वं ते प्रत्याख्यानकाले स्मृतिहीनेन मया स्वयमु-पस्थितापि त्वं प्रत्याख्याता । अतो मया महद्दुःखमनुभूतमत्यन्तं क्लेशिता च भवती । तदेत्सर्वमजानता कृतं मत्वा क्षम्यतामिति तात्पर्यम् । अत्राप्रस्तुतप्रशंसा-भ्रान्तिमत्-काव्य-लिङ्ग-दृष्टान्ताऽलङ्काराः हरिणीवृत्तं च ॥ २४ ॥

शकुन्तलाआर्यपुत्र = स्वामी उत्तिष्ठतु नूनं = निश्चयेन तर्कयामि तेषु दिवसेषु पुराकृतं मे = मम सुचरितप्रतिबन्धकं सुचरितस्य = पुण्यकर्मणः तत्कार्यस्य च सुखस्य प्रतिबन्धकं प्रतिरोधकम् परिणामसुखपाकाभिमुखम् आसीत् येन सानुक्रोशोऽपि सदयोऽपि, सानुरागोऽपि विरसः = अपरक्तः, उदासीनः संवृत्तः = जातः । यदाहं भवता तिरस्कृता तदा मे सुखस्य विलोपि किमप्यदृष्टमेवासीत्, येन पुण्यफलं सुखं निरुद्धम् । इत्थं ममैव पापस्यायं परिणामः, न ते कश्चन दोषः ।

( राजा उत्तिष्ठति )

शकुन्तलाअथ कथं = केन प्रकारेण आर्यपुत्रेण = स्वामिना दुखं भजति तच्छीलः दुःखभागी = दुःखभोगशीलः अयं जनः = अहं स्मृतः


से मैं अन्धा हो गया था और अन्धा अच्छी वस्तु को भी शक से बुरी समझता है, जो अन्धे के लिए स्वाभाविक है । जैसे कोई अन्धा व्यक्ति किसी के द्वारा गले में पहनाई हुई माला को साँप समझकर फेंक देता है, उसी प्रकार माला-सी मोहक तुझको मैंने भी छोड़ दिया था ।

शकुन्तला—आर्य पुत्र ! उठें निश्चय ही पुण्यकर्म का अवरोधक पूर्वजन्म में किया हुआ मेरा पाप उन दिनों फलोन्मुख था, जिससे सहृदय होते हुए भी आर्यपुत्र मुझ पर निर्दय हो गये थे ।

( राजा उठता है )

शकुन्तला—मुझ दुःखिया को आर्यपुत्र ने कैसे याद किया ? अर्थात् मुझसे किये गये विवाह की बात आपको कैसे याद आ गयी ?

४०४अभिज्ञानशाकुन्तलम्

राजा—उद्धृतविषादशल्यः कथयिष्यामि—

मोहान्मया सुतनु ! पूर्वमुपेक्षितस्ते
यो बाष्पबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य
१बाष्पं प्रमृज्य विगतानुशयो २भवेयम् ॥ २५ ॥
( इति यथोक्तमनुतिष्ठति )


राजा—उद्धृतविषादशल्यः उद्धृतं = हृदयात् दूरीकृतं उत्खातं विषादरूपं क्लेश-रूपं शल्यम् = शङ्कुर्येन स उद्धृतविषादशल्यः कथयिष्यामि = वदिष्यामि । पूर्वं त्वल्लोचन-परिमार्जनेन सुखितो भूत्वा ततः पश्चात् कथयिष्यामीत्यर्थः ।

अन्वयः— हे सुतनु ! यः बाष्पबिन्दुः पूर्वं ते अधरं परिबाधमानः मया मोहात् उपेक्षित आकुटिलपक्ष्मविलग्नं तं बाष्पं अद्य प्रमृज्य विगतानुशयः भवेयं तावत् ॥ २५ ॥

अथ शकुन्तलया स्वस्मरणकारणं पृष्टो नृपतिर्दुष्यन्तो ब्रवीति—मोहान्मयेति । हे सुतनु = हे शोभनाङ्गि ! यः = बाष्पबिन्दुः—बाष्पस्य = नेत्रजलस्य बिन्दुः=कणः पूर्वं=प्रत्याख्यानकाले ते = तव अधरं = अधरोष्ठं परिबाधमानः = सर्वतः पीडयन् नेत्रयोः निर्गत्य कपोलावतिक्रम्य अधरे स्थितः मया = परमविवेकेना धर्मभीरुणा दुष्यन्तेन मोहात् = अज्ञानात् उपेक्षितः = अपरिभृष्टः आकुटिलपक्ष्मविलग्नं-आकुटिलेषु = ईषद्वक्रेषु पक्ष्मसु = नेत्रलोमसु विलग्नं-सम्बद्धं तं तथाभूतं बाष्पं = नेत्रजलबिन्दुम् अद्य=इदानीम् प्रमृज्य = शोधयित्वा विगतानुशयः विगतः = अपगतः अनुशयो = पश्चात्तापो यस्य स विगतानुशयः भवेयं = स्याम् ।

अयं भावः— प्रिये ! आवयोर्हृद्गतः शोकशङ्कु यावन्नोद्ध्रियते तावत् भवत्या स्मरण-कारणं कथयितुं न शक्नोमि । प्रथमं ते अश्रु प्रमृज्य विगतविषादे भूत्वा पश्चात् सकलं वृत्तं कथयिष्यामि अतोऽनुजानीहि मां त्वां बाष्पं परिमार्जितम् । अत्र विशेषोक्ति-व्यतिरेका-नुप्रासा अलङ्कारः वसन्ततिलकावृत्तं च ॥ २५ ॥

( इति = एवमुक्त्वा यथोक्तमनुतिष्ठति = अश्रुपरिमार्जनं करोति )


राजा— पहले अपने हृदय के काँटे को उखाड़कर पुनः इस बात को तुझसे कहूँगा।

हे सुन्दरि ! तुम्हारे अधर को पीड़ित करती हुई जो आँसू की बूँदें मेरे द्वारा अज्ञानवश पहले परित्याग के समय उपेक्षित कर दी गईं थीं, कुछ तिरछी पलकों में लगी हुई उसी आंसू को पोंछकर सम्प्रति मैं पश्चात्तापविहीन हो जाऊँगा ॥ २५ ॥

( ऐसा कहकर शकुन्तला के आँसुओं को पोंछता है । )

विशेष— स्मृति क्यों आई ? इसको बताने से पहले अपने हृदयशोक रूपी कांटों को निकालना जरूरी है, तभी शान्ति से कोई बात बतलाई जा सकती है । क्षमा मांगने, आँसू पोछने आदिसे वह कांटा निकलेगा । प्रिये ! निरपराध तुझे त्यागने का मेरे हृदय में बड़ा कष्ट है । यह कष्ट मेरे हृदय में नुकीली कील की भांति गड़ रहा है । पहले तुम मुझे क्षमा कर दो, मेरा कष्ट दूर हो जाय तो, फिर मैं बतलाऊँगा कि मैंने तुझे कैसे याद किया ।

इस पद्य में बाष्प शब्द दो बार आया है । अतः यह खटकता है । यदि चतुर्थचरण के दूसरे बाष्प शब्द के स्थान पर कान्ते संबोधन कर दिया जाय तो अधिक उचित होगा ।

पाठा०—१. कान्ते ! प्रमृज्य । २. भवामि ।

सप्तमोऽङ्कः

४०५

शकुन्तला—( नाममुद्रां दृष्ट्वा ) अज्जउत्त ! इदं ते अंगुलीअअं [ आर्यपुत्र ! इदं तेऽङ्गुलीयकम् । ]

राजा—'अस्मादङ्गुलोयोपलम्भात्खलु स्मृतिरुपलब्धा ।

**शकुन्तला—**विसमं किदं णेण जं तदा अज्जउत्तस्स पच्चअकाले दुल्लहं आसि । ( विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । )

**राजा—**तेन ह्यृतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।

**शकुन्तला—**ण से विस्ससामि । अज्जउत्तो एव्व णं धारेदु । [ नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ]

( ततः प्रविशति मातलिः )


अश्रुपरिमार्जनसमये दुष्यन्तस्य हस्तेऽङ्गुलीयकं विलोक्य शकुन्तला तं पृच्छति— आर्यपुत्र ! = हे स्वामिन् ! इदं तव करे विद्यमानं ते = तव अङ्गुलीयकं = मुद्रा, कथमागतम् इदन्तु मदङ्गुलो पूर्वमार्यपुत्रेण परिधपितासीदिति प्रश्नः ।

राजा—अस्माद् = अङ्गुलीयोपलम्भात् , अङ्गुलीयस्य = मुद्रायाः उपलम्भात् = धीवर द्वाराऽङ्गुलीयकप्राप्तेः खलु = एव स्मृतिः = स्मरणम् उपलब्धा = प्राप्ता ।

शकुन्तला—उपालभते अनेनाङ्गुलीयकेन, विषमं = विसदृशं, कष्टं, कृतमुत्पाद्यपितम्, यत् = यस्मात् प्रत्ययकाले = प्रत्यायनकाले प्रमाणोपस्थापनसमये दुर्लभं = अप्राप्यमासीत् = अभूत् ।

राजा—तेन हि = यद्येतेन प्रत्यायनं तर्हि लता = लतेव तन्वी त्वं ऋतुसमवायचिह्नं-ऋतुना = वसन्तेन ( मया ) यः समवायः = पुनः समागमः तस्य चिह्नं = सूचकं कुसुमं = पुष्पं ( इदमङ्गुलीयकम् ) प्रतिपद्यताम् = प्राप्नोतु तन्वोलता ऋतुसमागमचिह्नं पुष्पमिव तन्वङ्गी भवती एवं मत्समागर्माचन्हमिदमङ्गुलीयकं धारयतु इत्यर्थः ।

शकुन्तला—अस्याऽङ्गुलीयकस्य तदङ्गुलीयकं न विश्वसिमि = न प्रमाणं मन्ये, पूर्वं प्रत्यायनकाले असांन्निध्येन विषमाचरणादिति भावः । अत आर्यपुत्र एव = श्रीमानेव एतत् = अङ्गुलीयकं धारयतु

( ततः = तदनन्तरमेव मातलिः प्रविशति )


शकुन्तला—( नामाङ्कित अंगूठी के देखकर ) = आर्यपुत्र क्या यह वही अंगूठी है? जिसे आपने मेरी अंगुली में पहनाया था, जो मेरे हाथ से जल में गिर गई थी।

**राजा—**हाँ यह वही अंगूठी है और अकस्मात् आश्चर्यजनक रूप से इस अंगूठीकी प्राप्ति से ही वस्तुतः तुम्हारी मुझे याद आ गई ।

**शकुन्तला—**इस अंगूठी ने उस समय बहुत अनुचित किया था, जो कि आपको विश्वास दिलाने के समय मुझे दुर्लभ हो गई थी ।

**राजा—**तो ऋतु के समागम चिह्न स्वरूप लता जैसे पुष्पों को धारण करती है, उसी प्रकार मेरे समागम के फलस्वरूप तुम भी इस अंगूठी को अब पुनः धारण करो ।

**शकुन्तला—**मैं इसका विश्वास नहीं करती, आपही इसे धारण करें ।

( तदनन्तर मातलि का प्रवेश )


पाठा०—१. अस्मादङ्गुतोपलम्भात्खलु ।

४०६ अभिज्ञानशाकुन्तलम्

मातलिः—दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते ।

राजा—$^१$अभूतसंपादितस्वादुफलो मे मनोरथः । मातले ! न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।

मातलिः—( सस्मितम् ) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते $^२$दर्शनं वितरति ।

राजा—शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।


मातलिःदिष्ट्या = मागधेयेन, धर्मपत्नी समागमेन = भार्यामिलनेन, पुत्रमुखदर्शनेन = सुताननावलोकनेन च आयुष्मान् = चिरञ्जीवी वर्द्धते = बुद्धिं प्राप्नोति ।

राजासम्पादितस्वादुफलः—सम्पादितं = युष्माभिर्देवेन वा साधितं स्वादु = मधुरं फलं = पुत्रकलत्रञ्च यस्य स सम्पादितस्वादुफलः = सञ्जातमधुरफलः मे = मम मनोरथः = अभिलाषः, कामनाऽभूत् = जातः । मातले ! = इन्द्रसारथे ! अयं वृत्तान्तः मम पुत्रपत्नीसमागम्यरूपः आखण्डलेन = इन्द्रेण न खलु विदितः स्यात् = मम मनोरथफलावाप्तिराखण्डलेन न वेद्यते किमितिभावः ।

मातलिः—( सस्मितमाह ) ईश्वराणां = प्रभूणां परोक्षकम् = अगोचरम् किम् ? विज्ञातमेवैतद् वृत्तान्तेमिन्द्रस्येतिभावः । मारीचाश्रमप्रवेशं सूचयन्नाह—एतु = आगच्छतु आयुष्मान् = चिरञ्जीवी भगवान् मारीचः—पूज्यो मरीचिपुत्रः कश्यपः ते = तुभ्यं दर्शनावसरं वितरति = ददाति ।

राजा—मातलेर्वचनमङ्गीकुर्वन् राजा दुष्यन्तः शकुन्तलामाह—शकुन्तले ! = प्रिये ! / पुत्रः = स्वात्मजः अवलम्ब्यतां = स्वाङ्के गृह्यताम् त्वां = भवतीम् पुरस्कृत्य = अग्रे निधाय, भगवन्तं = पूज्यं महर्षिकाश्यपं द्रष्टुम् = विलोकितुम् इच्छामि = कामये ।


मातलि—बड़े हर्ष की बात है कि सौभाग्य से आप अपनी धर्मपत्नी को प्राप्तकर अपने औरसपुत्र सर्वदमन के मुख को देखकर आज हर्षान्वित हो रहे हैं । अतः आपको बधाई है ।

राजा—मातले ! मेरे मनोरथ में स्वादिष्ट फल लग गया, इन्द्रसारथे ! इन्द्र को तो यह समाचार नहीं विदित होगा ?

विशेष—यह प्रसंग परममित्र इन्द्र को भी ज्ञात हो जाय, जिससे उन्हें मेरी खुशी होगी । उनके पास आने से ही यह सौभाग्य प्राप्त हुआ यह राजा दुष्यन्त का सौहार्द है ।

मातलि—( मुस्कराकर ) ऐश्वर्यशालियों के लिए कौन सी बात छिपी हुई है; चिरंजीवी, आप आयें पूज्य महर्षि मरीचिपुत्र कश्यपजी ने आपको दर्शन देना स्वीकार कर लिया है ।

विशेष—मुस्कुरा कर बोलना सौहार्द का चिह्न है । मुस्कराने का दूसरा अभिप्राय है मातलि यह सब सोचकर कि यह सब इन्द्र का ही रचा नाटक है, राजा को पता ही नहीं आनन्द ले रहा है । ब्रह्मपुत्र महर्षि मरीचि की महिमा अद्भुत है, जिससे कश्यप जी के महत्व को बढ़ाने के लिए ही उन्हें मारीच कहा गया है ।

राजा—प्रिये शकुन्तले ! अपने इस पुत्र को अपनी गोद में लेकर मेरे साथ चलो, तुम्हें साथ ले करके ही मैं भगवान् कश्यप जी का दर्शन करना चाहता हूँ ।


पाठा०—१. सुहृत्सम्पादिताव साधुतरफलो । २. दर्शनमिच्छति ।

सप्तमोऽङ्कः ४०७

शकुन्तला—हिरिआमि अज्जउत्तेण सह गुरुसमीवं गंतुं । [जिह्रेम्यर्थपुत्रेण सह गुरुसमीपं गन्तुम् ।]

राजा—१अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । (सर्वे परिक्रामन्ति)

(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः ।)

मारीचः—(राजानमवलोक्य) दाक्षायणि !

पुत्रस्य ते रणशिरस्ययमग्रयायी २दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥


शकुन्तला—अत्र राज्ञाऽनुष्ठानमङ्गीकुर्वाणा शकुन्तला सलज्जमाह—आर्यपुत्रेण = स्वामिना सह = साकम् गुरूणां = पूज्यानां समीपे = सन्निधौ गन्तुं = यातुम् जिह्रेमि = लज्जे ।

राजा—शकुन्तलाया लज्जां परिहरन् दुष्यन्तः प्राह—अभ्युदयकालेषु = मङ्गलोत्सवादिसमयेषु आचरितव्यमपि = कर्तव्यमेव । एहि = आगच्छ । आभ्युदयिककालेषु भर्त्रा सह गुरुसाक्षात्कारणमाचार एवेति तंन्त्र लज्जाकरणमनुचितमेवेति भावः (सर्वे सकलाः जनाः परिक्रामन्ति मण्डलानि कृत्वा गच्छन्ति) ।

(ततः पश्चात् प्रविशति रङ्गमञ्चे दृश्यते अदित्या पत्न्या सार्धं सहैव आसनस्थः = आसने उपविष्टः मारीचः = मरीचिपुत्रः महर्षिः कश्यपः) ।

मारीचः—अथ अदित्या भार्यया सहामने समासीनः महर्षिः कश्यपः राजानं दृष्ट्वा स्वपत्नीं दक्षपुत्रीमदिति कथयति—पुत्रस्येति

अन्वयः—अयं दुष्यन्तः इत्यभिहितः भुवनस्य भर्ता ते पुत्रस्य रणशिरसि अग्रयायी (अस्ति) यस्य चापेन विनिवर्तितकर्म (सत्) कोटिमत् तत् कुलिशं मघोनः आभरणं जातम् ।

स्वभार्यया दक्षपुत्र्या अदित्या साकमासने समासीनः परिसमाप्ताह्निककृत्यो महर्षिः कश्यपः नृपतिं दुष्यन्तं दृष्ट्वा तत्प्रभावं वर्णयन्नदितिं प्रत्याह—पुत्रस्येतिअयं = एषः पुरोदृश्यमानो जनः दुष्यन्त इत्यभिहितः—दुष्यन्त इति नाम्ना प्रसिद्धः दुष्यन्तनाम-


शकुन्तला—आर्य पुत्र, मुझे तो आपके साथ गुरुजनों के पास जाते हुए लज्जा आ रही है ।

राजा—उत्सव और आनन्द के समय तो पति पत्नी को साथ ही गुरुजनों का दर्शन करना चाहिए, अतः तुम भी मेरे साथ चलो । (सभी घूमते हैं ।)

(अदिति के साथ आसन पर विराजमान मारीच कश्यप जी का प्रवेश)

मारीच—(राजा को देखकर अपनी पत्नी से) दाक्षायणि ! युद्ध में तेरे पुत्र इन्द्र के साथ आगे आगे चलने वाला दुष्यन्त नाम से संसार में प्रसिद्ध पृथ्वी का चक्रवर्ती राजा तेरे सामने उपस्थित है, जिसके धनुष से ही सम्पादित कृत्यवाला तीक्ष्ण जगाद्विदित वज्र इन्द्रका आभूषण बन कर रह गया है ॥ २६ ॥

विशेष—महर्षि कश्यप की पत्नी अदिति प्रजापति दक्ष की पुत्री थीं, इसलिए उन्हें दाक्षायणी कहा गया है—दक्षस्यापत्यं स्त्रीदाक्षायणी तत् सम्बुद्धौ हे दाक्षयणि ! देवराज इन्द्र का वज्र देवशत्रु


पाठा०—१. आचरितमेतदभ्युदयकालेषु । २. दुःषन्त ।

४०८ अभिज्ञानशाकुन्तलम्

अदितिः—संभावणीआणुभावा से आकिदी । [ संभावनीयानुभावाऽस्याकृतिः ] ।

मातलिः—आयुष्मन् ! एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायु-ष्मन्तमवलोकयतः। तावुपसर्प ।


ज्ञेयकः भुवनस्य = भूमण्डलस्य पृथिव्याः भर्ता = पालक ते = तव पुत्रस्य = तनयस्य इन्द्रस्य रणशिरसि = समरमूर्ध्नि अग्रयायी = अग्रेसरः पुरोयायी भुवनस्य साक्षाद्भुवो-भर्ता परोक्षतः दिवोऽपीतिभावः । यस्य = दुष्यन्तस्य चापेन = धनुषा विनिवर्तितकर्म— विनिवर्तितं = असुरसंहारात् शमितं कर्म = शत्रुहननरूपं कार्यं यस्य तत् विनिवर्तित-कर्म =** समाप्तस्वकार्यं तत् कोटिमत् = निर्व्यापारत्वेन कुण्ठितास्त्रं तत् प्रसिद्धं कुलिशं = वज्रं मघोनः = इन्द्रस्य आभरणं = शोभामात्रफलकत्वात् = भूषणमात्रम् जातं = सम्पन्नम् ।

**अयं भावः—**निर्वर्तिताह्निकक्रियस्वभार्यया आदित्या सहासने सुखासीनः महर्षिः कश्यपो राजानं दुष्यन्तं वीक्ष्य तत्प्रभावातिशयं वर्णयन्नदितिं ब्रूते—देवि ! दुष्यन्त इति नाम्ना विश्वस्मिन् प्रख्यातस्तव पुत्रस्येन्द्रस्य परमः सहायकः, सखा देवासुरसंग्राम-पुरोगामी एष न केवलं भूमण्डलमेव शास्ति अपितु महेन्द्रस्यापि साहाय्यकरणात् अयं स्वर्गस्यापि पालकश्चक्रवर्ती राजास्ति । अस्य धनुषा शत्रूणां संहारादिन्द्रस्य वज्रं कुण्ठि-तास्त्रं सत् हस्ताभरणमात्रं सम्पन्नम् । मघोनो हस्ते तन् कुलिशं केवलमाभरणरूपतयैव तिष्ठति, तत्कार्यमसुरविनाशस्तु सम्प्रति अस्य धनुषैव क्रियते । अतो विश्वस्य संरक्षण-कार्यमस्मिन् विन्यस्य सुखं शेते विश्वम्तो महेन्द्रः । अत्रोदात्तरूपककाव्यालिङ्गाऽलङ्काराः वसन्ततिलका वृत्तं च ।। २९ ।।

अदितिः—अस्य = राज्ञः आकृतिः = शरीरं सम्भावनीयानुभावा संभावनीयः = ऊह्यः अनुभावः = प्रभावः यस्याः सा सम्भावनीयानुभावा = प्रभावशालिनी 'यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायात् आकृत्यैव ज्ञायतेऽयं महानुभाव अस्याकृत्या तादृशमनुभावं पश्यमीति भावः ।

मातलिः—आयुष्मन् = चिरञ्जीविन् । एतौ दिवोकसां-दिवः = स्वर्गः ओकः = गृहं येषां ते तेषां दिवोकसां = देवानां पितरौ = जनकौ अदितिकश्यपौ पुत्रप्रीतिपिशुनेन = पुत्रप्रीतिः पुत्रसहचरत्वाद्राज्ञः स्नेहः तस्याः पिशुनेन = सूचकेन पुत्रवत्स्नेहं = सूचयतः चक्षुषा = नेत्रेण आयुष्मन्तं = त्वाम् अवलोकयतः इन्द्रतुल्येन स्नेहेन त्वां पश्यतः तौ उपसर्प = तयोः समीपे गच्छ ।


दैत्य-दानवों के वध के निमित्त बना था, किन्तु जब शत्रु राक्षसों का विनाश अब राजा दुष्यन्त का धनुष ही करता है । अतः वज्र के समस्त कार्य राजा के धनुष से ही सम्पन्न हो जाते हैं । काम न होने से अब वज्र केवल इन्द्र के हाथ की शोभामात्र बढ़ाता है । अतः आभूषण बनकर रह गया है ।

**अदिति—**ठीक है । इसकी आकृति से ही प्रतीत होता है कि यह कोई प्रभावशाली व्यक्ति है ।

**मातलि—**हे आयुष्मन् ! देखिए पुत्र की तरह प्रीति की सूचना देने वाले अपने नेत्रों से ये देवताओं के माता-पिता = अदिति और कश्यप आपको देख रहे हैं । अतः आप इनके पास चलकर इनको प्रणाम करें ।

सप्तमोऽङ्कः ४०९

राजा—मातले एतौ—

प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । ^१यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥ २७ ॥

**राजा—**अदितिकश्यपौ वीक्ष्य राजा दुष्यन्तो मातलिमिन्द्रसारथि ब्रूते--मातले ! एतौ = इमौ अदितिः कश्यपश्च । प्राहुरिति ।

**अन्वयः—**इदं तत् दक्षमरीचिसंभवं स्रष्टुः एकान्तरं द्वन्द्वम्, यत् मुनयः द्वादशधा स्थितस्य तेजसः कारणं प्राहुः । तत् भुवनत्रयस्य भर्तारं यज्ञभागेश्वरं सुषुवे । यस्मिन् आत्मभवः परः पुरुषोऽपि भवाय आस्पदं चक्रे ॥ २७ ॥

अथेन्द्रसारथेः मातलेः वचनेनादितेः पतिम्भगवन्तं कश्यपं द्रष्टुमुपसर्पन् नृपो दुष्यन्तः तद् युगल समक्षमवलोक्य मातलि प्रति सादरमब्रवीत्—प्राहुर्द्वादशधेति । इदं पुरोदृश्यमानं तत्प्रसिद्धं दक्षमरीचिसम्भवं = दक्षश्च मरीचिश्च दक्षमरीची तयो = सम्भवः उत्पत्तिस्थानं यस्य तत् दक्षमरीचिसम्भवं = दक्षप्रजापतिमरीचिसंजातम् स्रष्टुः = ब्रह्मणः एकान्तरम् एकः = दक्षः मरीचिश्च अन्तरे = मध्ये यस्य तत् ब्रह्मपौत्रम् **द्वन्द्वं-**मिथुनं यत् मुनयः = ऋषयः द्वादशधा = द्वादशमूर्तिधरया, द्वादशकलात्मकतया स्थितस्य = विद्यमानस्य तेजसः = आदित्यस्य, कारणं = निदानम् प्राहुः = आमनन्ति, वदन्ति । यद्वा द्वादशधा स्थितस्य तेजसः—द्वादशसु मासेषु द्वादशमूर्तिधरस्य तेजसः सूर्यस्य कारणं प्राहुः = आमनन्ति मुनय इत्यर्थः । यत् भुवनानां = भूर्भुवः स्वर्लक्षणानां लोकानां त्रयं = त्रयी तस्य भर्तारं = स्वामिनं पालकं यज्ञभागेश्वरं--यज्ञे = क्रतौ भागः = अंशः येषां ते यज्ञभागाः देवाः तेषामीश्वरं = इन्द्रं सुषुवे = जनयामास । यस्मिन् द्वन्द्वे आत्मभुवः =


**राजा—**हे मातले ! जिसको ऋषिमुनि बारह महीनों के तेजस्वी बारह सूर्यों का कारण कहते हैं, तीनों लोकों अधिपति, यज्ञों के फलभोक्ता इन्द्र को भी जिसने जन्म दिया है, संसार के कल्याण के लिए परम पुरुष भी जिसके यहां आकर वामन के रूप में अवतीर्ण हुए हैं। दक्ष और मरीचि से उत्पन्न अदिति और कश्यप जो ब्रह्माजी के एक पीढ़ी के बाद उत्पन्न युगल जोड़ी प्रसिद्ध है, क्या वही जोड़ी ये दोनों हैं ॥ २७ ॥

**अर्थात्—**ब्रह्मा जी के मानस पुत्र प्रजापति दक्ष की पुत्री अदिति तथा ब्रह्माजी के मानस पुत्र महर्षि मरीचीजी के पुत्र कश्यप मुनि इन दोनों की जोड़ी जो संसार में प्रसिद्ध है, जिससे बारह रूप में स्थित बारह महीनों के सूर्य उत्पन्न हुए हैं, त्रिलोक रक्षक, यज्ञ-भाग-भोक्ता इन्द्र भी जिसके पुत्र हैं तथा परम पूज्य विष्णु भी जिनके यहां वामन रूप में अवतीर्ण हुए हैं, क्या यही स्त्री-पुरुष की जोड़ी अदिति एवं कश्यप ये दोनों हैं ।

**विशेष—**ज्योतिष्चक्र निरुपण के अनुसार प्रत्येक मास के अलग-अलग सूर्य माने जाते हैं । वस्तुतः एक ही सूर्य बारह महीनों में बारह रूप धारण करते हैं । उनके बारह-बारह रूप मान लिये गये हैं । इस दृष्टि से सूर्य को द्वादशभागविभक्त कहा गया है । भगवान् विष्णु अपनी इच्छा के अनुसार ही जन्म ग्रहण करते हैं । अतः उन्हें आत्मभव कहा जाता है । भगवान् विष्णु देवकार्य-साधन के लिए कश्यप के द्वारा अदितिजी के गर्भ में वामनरूप से अवतीर्ण हुए थे । अतः ये दोनों


पाठा०—१. यस्मिन्नात्मभुवः ।

४१०अभिज्ञानशाकुन्तलम्

**मातलिः—**अथ किम् ?
राजा—( उपगम्य ) उभाभ्यामपि वासवानुयोज्यो दुष्यन्तः प्रणमति ।


ब्रह्मणः परः = उत्कृष्टः पुरुषोऽपि = पुरुषोत्तमोऽपि भवाय जन्मने आस्पदं = प्रतिष्ठां चक्रे = कृतवान् इन्द्रावरजत्वेनावत्तीर्णः । तथाहि विष्णुपुराणे—

मन्वन्तरे च सम्प्राप्ते तथा वैवस्वते द्विज ।
वामनः कश्यपद्विष्णुरदित्यां समभूदिति ॥

द्वादशादित्योत्पत्ति विष्णुः, शक्रः, अर्यमा, धाता, त्वष्टा, पूषा, विवस्वान्, सविता, मित्रः, वरुणः, अंशुः मगश्चेति द्वादशानामादित्यानामुत्पत्तिरपि विष्णुपुराणे स्पष्टतया प्रोक्ता वर्तते यथा—

तत्रविष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशुर्भंगश्चादितिज आदित्या द्वादशः स्मृताः ॥

यद्वा द्वादशधा स्थितस्य द्वादशकलात्मकस्येत्यर्थो बौद्धव्यः ताश्च द्वादशकला यथा--

तपिनी तापिनी धूम्रा मरीचिज्वलिनी रुचि ।
सुषुम्णा मोगदा विश्वा बोधिनी धारणी क्षमा ॥

**अयं भावः—**मातलिवचसा अदितिकश्यपौ द्रष्टुमुपसपन्नं राजा दुष्यन्तः तौ वीक्ष्य मातलि ब्रूते--यदद्य एतयोः = अदितिमारीचयोर्युगलं विलोक्य कृतकृत्योऽहं संजातः । मुनयः एतो द्वादशसु मासेषु द्वादशमूर्त्तिधरस्य सूर्यस्य कारणं वदन्ति, इतो यज्ञभागभुज-मिन्द्रं जनयामासतुः । भगवान् वामनोऽपि बलेर्दंमनायात्रैवावतीर्णः । एतौ साक्षाद् ब्रह्मणः पौत्रौ स्तः । धन्यावेतो, प्रभूतेन सुकृतेनैवैतयोर्दर्शनं जातम् । अत्रोदात्तकाव्य-लिङ्गालङ्कारौ शार्दूलविक्रीडितं वृत्तञ्च ॥ २७ ॥

मातलिः—अथ किम् = आम् त्वं यदात्थ तत्तथैवेत्यर्थः ।

राजा--( राजा सपत्नीकं कश्यपमुपगम्य प्रणयन्नाह— ) उभाभ्यामपि = द्वाभ्यां युवाभ्याम् आदितिकश्यपाभ्यां उभौ अनुकूलयितुम् वासवस्य = इन्द्रस्य नियोज्य; = किङ्करः वासवनियोज्यः इन्द्रसेवको दुष्यन्तः प्रणमति = नमस्कुरुते ।


अदिति तथा कश्यप विष्णु के माता-पिता कहे जाते हैं। स्वयंभू ब्रह्माजी से इनका एक पीढ़ी का अन्तर है, जैसे ब्रह्मा जी के पुत्र महर्षि मरीचि और दक्ष प्रजापति। इन्हीं दोनों से इन दोनों का जन्म है। अर्थात् मरीचि के पुत्र कश्यप जी तथा दक्ष की पुत्री देवमाता अदिति हैं। अदिति के पुत्र आदित्य कहे जाते हैं, जो तेजस्वरूप हैं। इनका नाम विष्णुपुराण में इस प्रकार हैं—( १ ) विष्णु ( २ ) शक्र-इन्द्र ( ३ ) अर्यमा ( ४ ) धाता ( ५ ) त्वष्टा ( ६ ) पूषा ( ७ ) विस्वान ( ८ ) सविता ( ९ ) मित्र ( १० ) वरुण ( ११ ) अंशु और ( १२ ) भग । द्वादशधा का अर्थ द्वादश कलात्मक रूप मे भी हो सकता है ।

**मातलि—**हाँ, विश्ववन्द्य देवताओं के माता पिता ये ही दोनों हैं।

राजा—( साष्टाङ्ग प्रणाम करके ) इन्द्र का आज्ञाकारी सेवक आप दोनों को प्रणाम करता है।

सप्तमोऽङ्कः

४११

मारीचः—वत्स ! $^१$चिरं जीव । पृथिवीं पालय ।
अदितिः—वच्छ ! अप्पडिरहो होहि । [ वत्स ! अप्रतिरथो भव । ]
शकुन्तला—दारअसहिदा वो पादवंदणं करेमि । [ दारकसहिता वां पादवन्दनं करोमि । ]
मारीचः—वत्से !

आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते $^२$योग्या $^३$पौलोमीसदृशी भव ॥ २८ ॥

मारीचः—कश्यपः आशिषं प्रयुङ्क्ते—वत्स ! = पुत्र ! चिरञ्जीव = बहुकालं जीव, पृथिवीं पालय = भुवं रक्ष ।
अदितिःवत्स ! = आयुष्मन् प्रतिकूलो रथो यस्य स प्रतिरथः न प्रतिरथो यस्य स अप्रतिरथः—भुवनैकवीरो भव
शकुन्तलादारकसहिता दारकेन = बालकेन सहिता दारकसहिता = पुत्रसहिता वां = युवयोः पादवन्दनं = चरणप्रणामं करोमि = विदधामि ।
मारीचः—आशिषं प्रयुङ्क्ते—वत्से ! = हे पुत्रि !
अन्वयः—भर्ता आखण्डलसमः, सुतः जयन्तप्रतिमः, त्वं पौलोमीसदृशी भव अन्या आशीः ते योग्या न ॥ २८ ॥
पतिपुत्राभ्यां सह प्रणमन्तीं शकुन्तलां शुभाशिषा संभावयन् महर्षिः कश्यपः प्राह—आखण्डलेति । भर्ता = ते पतिर्दुष्यन्तः आखण्डलेन समः आखण्डलसमः = इन्द्रतुल्यः, सुतः = ते पुत्रः सर्वदमनः जयन्तः प्रतिमः उपमा यस्य स जयन्तप्रतिमः इन्द्रपुत्रसदृशः पुलोम्नोऽपत्यं स्त्री पौलोमी तया सदृशी = तुल्या पौलोमीसदृशी भव = जायताम् इत्याशीः अन्या = अपरा आशीः = शुभकामना ते = तव योग्या = युक्ता = अनुरूपा नास्ति । इयमेवाशीर्युक्तेत्यर्थः ।
अयं भावः—वत्से शकुन्तले ! इन्द्रतुल्यपराक्रमः ते भर्ता दुष्यन्तः, इन्द्रपुत्रजयन्त-समानः सर्वदमनः तव सुतः इन्द्रपत्नी शचीसमा त्वमपि अखण्डसौभाग्यवती भव । एतदतिरिक्तापि विलक्षणा त्वदनुरूपा आशीर्नोपलक्ष्यते तस्मात्त्वं निरतिशयसौभाग्य-शालिनी भव ।


मारीच—हे पुत्र ! तुम दीर्घजीवी हो तथा अधिक दिनों तक पृथ्वी का पालन करो ।
अदिति—बेटा, विश्व में तुम बेजोड़ योद्धा बनो ।
शकुन्तला—पुत्रसहित मैं आप दोनों के पैरों पर गिरकर प्रणाम करती हूँ ।
मारीच—हे पुत्री ! तुम्हारा यह पति दुष्यन्त इन्द्र के समान, यह तेरा पुत्र जयन्त के समान तथा तुम भी इन्द्र की धर्मपत्नी इन्द्राणी के समान स्थिर सौभाग्यवती बनो, इसके अतिरिक्त कोई दूसरा आशीर्वाद तुम्हारे लिए योग्य नहीं ॥ २८ ॥
विशेष—यहाँ दुष्यन्त को इन्द्र के सदृश, सर्वदमन को जयन्त के तुल्य तथा शकुन्तला को इन्द्राणी के समान होने का आशीर्वाद दिया गया है । इसमें कुछ विद्वान् जयन्त और सर्वदमन की तुलना ठीक नहीं समझते । उनका कहना है कि जहाँ भरत (सर्वदमन) अनुपम योद्धा तथा उच्चकोटि के व्यक्ति के रूप में अङ्कित हैं, वहाँ जयन्त का कोई साहित्यिक मूल्य नहीं । अतः यह


पाठा०—१. चिरं पृथिवीं । २. योज्या । ३. पौलोमीमङ्गला भव ।

४१२ | अभिज्ञानशाकुन्तलम्

अदितिः— जादे भत्तुणो अभिमदा होहि। अवस्सं दीहाऊ वच्छओ उहअकुलणंदणो होदु। उवविसह। [ जाते भर्तुरभिमता भव। अवश्यं दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु। उपविशत। ]

( सर्वे प्रजापतिमभित उपविशन्ति। )

मारीचः— ( एकैकं निर्दिशन् )

दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ २९ ॥

अदितिः— जाते ! = पुत्रि ! भर्तुः = पत्युः अभिमता = अभीष्टा भव, अवश्यं = नूनम्, दीर्घायुः = आयुष्मान् वत्सकः = प्रियपुत्रः उभयं = द्वयं च तत्कुलं वंशश्च तयोः नन्दनः = आनन्दवर्द्धकः इत्युभयकुलनन्दनः पैतृकमातृकोभयकुलदीपकः भवतु = जायताम्। उपविशत यूयं सर्वे।

( सर्वे = दुष्यन्तः, मातलिः, शकुन्तलाः सर्वदमनश्चेति सकलाः प्रजापतिः = प्रजेश्वरं कश्यपं मारीचम् अभितः = सर्वतः परिवार्य उपविशन्ति )

मारीचः— एकैकं निर्दिशन् = प्रत्येकमङ्गुल्या दर्शयन्।

अन्वयः— दिष्ट्या साध्वी शकुन्तला, इदं सत् अपत्यम्, भवान् श्रद्धा वित्तं विधिः इति त्रितयं च समागतम् ॥ २९ ॥

महर्षिः कश्यपः सकुदुम्बं राजानं दुष्यन्तं पुरः समुपस्थितं विलोक्य संजातहर्षः तत्रैकैकं निर्दिशन् तत्समागमनमभिनन्दति—दिष्ट्येति। दिष्ट्या = सौभाग्येन साध्वी = पतिव्रता शकुन्तला, इदं = पुरो दृश्यमानं सत् = अभ्यर्हितं अपत्यं = सर्वदमनः भवान् = तत्तद्गुण-विशिष्टो राजोत्तमो दुष्यन्तः श्रद्धा = आस्तिक्यबुद्धिः वित्तं = द्रव्यसंचयः, विधिः = यागादिक्रिया इति = एवं रूपं तत् = तदेव प्रसिद्धं त्रितयं = त्र्यवयवं वस्तु समागतं = एकत्र मिलितम्।

अयं भावः— राजर्षे ! सौभाग्येन आयुष्मतः शकुन्तलायाः सर्वदमनस्य च समागमो जातः। यथा श्रद्धया, धनेन, विधिना च मिलित्वैव यागादयो धर्मा अनुष्ठातुं शक्यन्ते


विचारणीय है। वाल्मीकि एवं हरिवंश पुराण के अनुसार पुलोभन नाम का एक राक्षस था। इन्द्र ने उसकी पुत्री शची के साथ विवाह कर लिया था। बाद इन्द्र ने उस पुलोमन का वध कर डाला। पुलोमन की पुत्री होने के कारण शची का नाम पौलोमी है—पुलोम्नोऽपत्यं स्त्री पौलोमी।

अदिति— बिटिया, तुम पति की अत्यन्त प्यारी हो तथा तेरा यह बच्चा मातृकुल एवं पितृकुल दोनों को आनन्द देने वाला हो, आओ तुम सब बैठ जाओ।

( सभी लोग प्रजापति कश्यपजी की चारों ओर बैठ जाते हैं )

मारीच— ( महर्षि कश्यप एक-एक को निर्देश करते हुए )

यह साध्वी शकुन्तला, यह सद्गुणसम्पन्न होनहार पुत्र तथा तुम ( दुष्यन्त ) तीनों का यह समागम श्रद्धा, धन, विधि = शास्त्रोक्त विधान का ही समागम है। अर्थात् मनुष्य विधि, श्रद्धा और शास्त्रोक्त मार्ग के आश्रय से ही यज्ञ-याग आदि पुण्य कार्य करके स्वर्ग आदि उत्तम स्थानों को प्राप्त करता है। अतः इन तीनों का एकत्र समागम होना दुर्लभ होता है, पर यहाँ तो इन तीनों का समन्वय देख रहा हूँ अतः तुम तीनों का यह योग जगत् के कल्याण के लिए ही हो ॥ २९ ॥

विशेष— कर्मकाण्ड एवं धर्मशास्त्रों के अनुसार यज्ञ करने के निमित्त तीन वस्तुओं का होना आवश्यक बतलाया गया है। ( १ ) सर्वप्रथम श्रद्धा होनी चाहिए बाद में ( २ ) तदनुकूल अर्थ

षष्ठोऽङ्कः

४१३

राजा—भगवन् प्रागभिप्रेतसिद्धिः पश्चाद्दर्शनम्। अतोऽपूर्वः खलु वोऽनुग्रहः। कुतः—

उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः।
निमित्तनैमित्तिकयोरयं १क्रमस्तव प्रसादस्य पुरस्तु संपदः ॥ ३० ॥

ततश्चपरमं पदमवाप्यते तथैव युष्माकं पतिपुत्रपत्नीनां त्रितयं सुशीला शकुन्तला, उभयवंशदीपको बालः = बालकः सर्वदमनः, सकलगुणसम्पन्नोभवांश्च परस्परं संगतं सत् जगदभ्युदयकारणं जायतामितिभावः ॥ २९ ॥

राजा—भगवन् = ऐश्वर्यादि गुणपरिपूर्णं ! भगवन्निति सम्बोधनेन तदनुग्रहस्य सर्वाभीप्सितसाधनसमर्थत्वं सूच्यते तथा चोक्तं महाभारते।

देवानाामपि ये देवा महात्मानो महर्षयः।
भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥

प्राक् = पूर्वञ्च अभिप्रेतसिद्धिः— अभिप्रेतस्य = अभीप्सितस्य पुत्रकलत्रसंगमस्य सिद्धिः = प्राप्तिः, पश्चात् = अनन्तरम् तदनु दर्शनं = भवतां साक्षात्कारः। अतः अपूर्वः = अद्भुत: खलु = निश्चयेन वः = युष्माकम् अनुग्रहः = प्रसादः कृपा, कुतो = यतः प्राक् फलस्य पश्चाद्दर्शनस्यापूर्वत्वं साधयति—उदेतीति।

अन्वयः— पूर्वं कुसुमम् उदेति ततः फलम्। प्राक् घनोदयः तदनन्तरं पयः अयं निमित्तनैमित्तिकयोः = क्रमः तव प्रसादस्य पुरः सम्पदः ( भवन्ति ) ॥ ३० ॥

पुत्रकलत्रलाभं कश्यपानुग्रहप्राप्तं मन्यमानो राजा दुष्यन्तो महर्षिकश्यपं स्तुवन् ब्रूते—उदेतीति। पूर्वं = प्रथमं कुसुममुदेति पुष्पमाविर्भवति ततः = तदनन्तरं तत्कर्मं फलम् उदेति। प्राक् = आदौ घनोदयः = मेघोद्गमः उदेति, तदनन्तरं = ततः परं जलं = नीरम् उदेति अयम् = एषः निमित्तनैमित्तिकयोः = कार्यकारणयोः क्रमः = नियमः। प्रथमं कारणं पश्चात्कार्यमित्येव कार्यकारणयोः क्रमोऽस्तीत्यर्थः। तव = भवतः प्रसादस्य = अनुग्रहस्य च पूर्वं संपदः तत्कार्यभूताः पुत्रकलत्रलाभरूपाः सम्पत्तयः ॥ ३०॥

अयं भावः—भगवन् ! भवादृशां दर्शनं सकलमनोरथसाधकं भवतीति मन्ये।


धन = सम्पत्ति होनी चाहिए पुनः (३) शास्त्रीय विधि विधान। जहाँ ये तीनों वस्तुएँ होती है वहाँ सत्य परिणाम तथा कल्याण होता है। यह संसार भी एक यज्ञ ही है। अतः इसे चलाने के लिए इन तीनों की आवश्यकता है। यहाँ शकुन्तला को श्रद्धा, पुत्र को अर्थ तथा दुष्यन्त को विधि बताया गया है। यहाँ तीनों शब्दों का लिङ्गसाम्य द्रष्टव्य है।

यहाँ "श्रद्धा वित्तं विधिश्चेति त्रितयं" कहकर पति के समान पत्नी और पुत्र को भी महत्त्व दिया गया है। यही भारतीय संस्कृति की विशेषता है।

राजा—भगवन् ! किसी के दर्शनों के पीछे फल होता है, किन्तु आपके दर्शन की तो यह महिमा है कि पहले फल की सिद्धि और पीछे आपके दर्शन इस प्रकार आपकी कृपा अचूक है, क्योंकि—

वृक्षों में पहले पुष्प निकलता है तदनन्तर फल लगता है, मेघ का आगम भी पहले होता है बाद में वृष्टि होती है, यही कार्य-कारण भाव सर्वत्र प्रसिद्ध है, परन्तु आपकी कृपा से आपके दर्शनों के पहले ही सुख सम्पत्ति की प्राप्ति हो जाती है। यही आश्चर्य है ॥ ३० ॥

विशेष— दुष्यन्त के कहने का अभिप्राय है कि ऋषिमुनियों के आशीर्वाद तथा दर्शन से व्यक्ति


पाठा०—१. विधिस्तव ।

४१४ || अभिज्ञानशाकुन्तलम्

मातलिः— एवं विधातारः प्रसीदन्ति ।

राजा— भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित् कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो ^१युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।


लोके प्राक् पुष्पोद्गमः तदनु फलं जायते इत्थमेव प्राङ्मेघमण्डलाविर्भावः पश्चात् तत्कार्यं जलवर्षणं जायते परं लोकोत्तरतपःसिद्धेः भवतस्तु पूर्वमेव पुत्रकलत्रलाभरूपं फलं पश्चाद्दर्शनं जातमित्यहो भवतां प्रभावातिशयः ।

मातलिः— नात्र विस्मयस्यावकाश इत्याशयेन मातलिराह—एवम् अनेन विधिना विधातारः = ईश्वराः समर्थपुरुषा प्रसीदन्ति = अनुगृह्णन्ति । आयुष्मताऽयं क्रमो लौकिक उक्तः, अलौकिकस्तु इतो भिन्न एव । इच्छासिद्धयो महात्मानो यदेवेच्छन्ति तत्तदैव सम्पद्यते इत्यर्थः ।

राजा— अथ शकुन्तला-विस्मरणकारणं जिज्ञासमानो राजा दुष्यन्तो महर्षि पृच्छति—भगवन् ! = जगद्गुरो ! वः = युष्माकम् आज्ञां करोति तच्छीला आज्ञाकरी ता-माज्ञाकरीं इमां आदेशपालिनीं आज्ञाकरीं शकुन्तलां गान्धर्वेण = गन्धर्वविवाहविधिना उपयम्य = विवाह्य परिणीय कस्यचित् कालस्य पश्चात् = किञ्चित्कालानन्तरं बन्धुभिः = तापसैः शार्ङ्गरवादिभिः आनीतां = उपस्थापिताम् स्मृतेः = स्मरणस्य शैथिल्यात् दुर्बल-त्वात्, स्मृतिभ्रंशात् प्रत्यादिशन् = निराकुर्वन् युष्माभिः समानं गोत्रं यस्य युष्मत्स-गोत्रस्य = भवद्वंशीयस्य तत्रभवतः = पूज्यस्य कण्वस्य काश्यपेयस्य अपराद्धोऽस्मि = कृता-पराधोऽस्मि । पश्चात् = तदनु, अङ्गुलीयकस्य मुद्रिकाया दर्शनात् = अवलोकनात् पूर्वं = प्राक् ऊढां = परिणीतां तद् दुहितरं = तस्यपुत्रीं शकुन्तलाम् अवगतः = ज्ञातवान् अहम् तत् = साक्षाद्दृष्टायामज्ञानम्, अङ्गुलीयकदर्शनात् ज्ञानं चित्रमिव = आश्चर्यमिव मे = मम प्रतिभाति = प्रतीयते ।


का कल्याण पहले ही हो जाता है तथा बाद में दर्शन होते हैं । दुष्यन्त अपने पुत्र तथा पत्नी का लाभ प्राप्त कर कश्यपजी का दर्शन करते हैं । यहां कल्याण रूपी कार्य पहले हो गया और दर्शन रूपी कारण बाद में हुआ ।

मातलि— हे आयुष्मन् ! भाग्यविधाता संसार के माता पिता की प्रसन्नता इसी प्रकार सद्यः फलप्रद होती है ।

राजा— भगवन् मैंने आपकी आज्ञाकारिणी इस शकुन्तला के साथ गान्धर्व विवाह की विधि से विवाह करके कुछ काल के बाद जब इसके बन्धु लोग मेरे यहाँ इसे पहुँचाने आये तब स्मृति की शिथिलता के कारण मैंने इसका परित्याग कर दिया है । इस प्रकार आपके सगोत्र ( आपकी सन्तान ) पूजनीय काश्यप कण्व मुनि ( शकुन्तला के धर्म पिता ) का मैंने बहुत बड़ा अपराध किया है । अनन्तर अंगूठी के मिल जाने पर मुझे स्मरण हो आया है कि मैंने शकुन्तला के साथ अवश्य विवाह किया था । यह बात मुझे बड़ी विचित्र लगती है ।


पाठा०—१. युष्मद्गोत्रस्य ।

सप्तमोऽङ्कः

४१५

यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥ ३१ ॥

मारीचः—वत्स अलमात्मापराधशङ्कया । संमोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् ।
राजा—अवहितोऽस्मि ।


अथ स्वप्रतीतेरसम्भवदृष्टान्तेन चित्रत्वं समर्थयति--यथेति ।

अन्वयः—यथा समक्षरूपे गजो न इति अपक्रामति तस्मिन् संशयः स्यात्, पदानि-दृष्ट्वा तु प्रतीतिर्भवेत् मे मनसः विकारः तथाविधः ( अस्ति ) ॥ ३१ ॥

पूर्वं शकुन्तलाया विस्मृतिः, पश्चात्तदङ्गुलीयकदर्शनेन स्मृतिश्चेति स्वप्रतीतेरसम्भव-दृष्टान्तप्रदर्शनपूर्वकमाश्चर्यजनकत्वमुपपादयति--यथा गज इति । यथा = येन प्रकारेण पाददर्शनविकारेण समक्षरूपे समक्षं = प्रत्यक्षं रूपं = स्वरूपं यस्य स तादृशे कस्मि- श्चित्सत्त्वे गजो न = नायं हस्तीति मिथ्या ज्ञानं ततः अपक्रामति । तिरोहिते सति तस्मिन् गजो नेति, मिथ्या ज्ञानविषयीभूते तस्मिन् सत्त्वे संशयः = गजो वा न वेति सन्देहः स्यात् । पदानि = भूमौ तन्न्यासप्रतिबिम्बानि दृष्ट्वा = विलोक्य प्रतीतिः = सत्यं मया दृष्टो गज एवेति सम्प्रत्ययो भवेत् मे = मम मनसः चित्तस्य विकारः = चित्तभ्रमः पूर्वस्यामुपस्थि- तायामियं न मम भार्येति पुनस्तिरोहितायां भार्या वा न वा पश्चादङ्गुलीयकदर्शनेन मम भार्यैवेति प्रतीतिः ताथाविधः तादृशः अस्ति । अङ्गुलीयकदर्शनसाध्या प्रतीतिः साक्षा- द्दर्शनेन कथन्न जातेति चित्रं मया न बुध्यते इति भावः ॥ ३१ ॥

मारीचः—आत्मापराधशङ्कया आत्मनः = स्वस्य अपराधः = दोषः तस्य शङ्का = सन्देहः तया आत्मापराधशङ्कया = अपराद्धोऽहं कण्वस्येति ज्ञानेन अलं = ईदृशी शङ्का मास्तु सर्वदा प्रबुद्धस्य मम कथं तदा संमोहोऽभूदित्याशङ्कामपनयति--संमोहोऽपि = त्वयि यः तदा संमोहः = चेतोविकृतिरभूत् सोऽपि उपपन्नः युक्त एव, कारणाधीन एव श्रूयतां = आकर्ण्यताम् संमोहकारणं वर्णयामि ।

राजा—अवहितोऽस्मि = संमोहकारणं श्रोतुं सावधानोऽस्मि ।


जैसे किसी के सामने हाथी के होने पर भी 'यह हाथी नहीं है' ऐसा विश्वास हो, और उसके चले जाने पर सन्देह हो, और पुनः उसके पदचिह्नों को देखकर विश्वास किया जाय कि वह हाथी ही था, ठीक इसी प्रकार मेरे मन का विकार था । कृपया यह मेरा सन्देह दूर कीजिए ॥ ३१ ॥

विशेष—एक दिन कोई व्यक्ति सड़क से किनारे बैठा था, उसने सामने से ही एक विशालकाय राजा का हाथी निकल गया । उसे सन्देह हो गया कि यह हाथी है या नहीं? अन्त में निश्चय किया वह हाथी नहीं है । उसके चले जाने पर उसके पदचिह्नों को देखकर निश्चय किया कि शायद वह हाथी ही था ।

ठीक यही दशा दुष्यन्त की भी है, शकुन्तला को सामने आने पर कहा कि यह मेरी पत्नी नहीं तिरस्कृत होकर चले जाने पर उसे पश्चाताप हुआ, फिर अंगूठी मिल जाने पर तो विश्वास ही हो गया है कि यह मेरी विवाहिता पत्नी ही थीं ।

मारीच—बेटा शकुन्तला को भूलने में तुम अपना अपराध = दोष बिल्कुल न समझो तुम्हारा वह तो सहेतुक था । उसका कारण भी सुनो—

राजा—भगवन् मैं सुनने के लिए सावधान हूँ, कृपया आप कहें ।

४१६ अभिज्ञानशाकुन्तलम्

मारीचः- यदैवाप्सरस्तीर्थावितरणात्प्रत्यक्षवैकल्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्म-चारिणी त्वया प्रत्यादिष्टा नान्यथेति। स चायमङ्गुलीयकदर्शनावसानः।

राजा- (सोच्छ्वासम्) एष वचनीयान्मुक्तोऽस्मि।

शकुन्तला- (स्वगतम्) दिट्ठिआ अकारणपच्चादेसी ण अज्जउत्तो। ण हु सत्तं अत्ताणं सुमरेमि। अहवा पत्तो मए स हि सावो विरहसुण्णहिअआए ण विदिदो। अहो सहीहिं संदिट्ठम्हि भत्तुणो अगुलीयअं दंसइदव्वं त्ति। [दिष्ट्याऽ-कारणप्रत्यादेशी नार्यपुत्रः। न खलु शप्तमात्मानं स्मरामि। अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः। अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्य-मिति।]


मारीचः- यदा = यस्मिन् समये एव अप्सरस्तीर्थावितरणात् अप्सरस्तीर्थे = शक्र-तीर्थे यदवतरणं = पर्यायप्राप्तं सान्निध्यं कर्तुं गमनं तस्माद्धेतोः प्रत्यक्षवैकल्यां प्रत्यक्षं = साक्षात् दृष्टं वैकलव्यं = व्यग्रता कातरता यस्या सा तां प्रत्यक्षवैकल्याम् शकुन्तलां = स्वतनयाम् आदाय = गृहीत्वा मेनका = मेनका नाम्नी अप्सरा दाक्षायणीं = दक्षकन्याम-दितिमुपगता = आगता स्वयं कन्यायाः शोकं पश्यन्ती अनुकम्प्यमाना तां गृहीत्वाऽत्र प्राप्ता तदैव = तस्मिन्नेव क्षणे ध्यानात् = चिन्तनात् अवगतः = योगजेन प्रत्यक्षेण ज्ञातवान् अस्मि यत् दुर्वाससः = तन्नाम्नो महर्षेः शापात् अनिष्टाशीर्वचनात् तपस्विनी = दीना, अनुकम्पनीया सहधर्मचारिणी सहचरी धर्मपत्नी शकुन्तला त्वया भवता दुष्यन्तेन प्रत्या-दिष्टा = प्रत्याख्याता नान्यथा = नापरोऽत्र हेतु। स च अयं शापः अङ्गुलीयकदर्शनावसानः- अङ्गुलीयकस्य = मुद्रिकाया दर्शनमेव अवसानं समाप्तिसीमा यस्य स अङ्गुलीयकदर्शना-वसानः = अङ्गुलीयकदर्शननावसानमात्रोद्धारः।

राजा- (सोच्छ्वासम् = गभीरश्वासेन सह आह) एषः = अयं अहं वचनीयात् = लोका-पवादात्, निन्दातः मुक्तोऽस्मि रक्षितोऽस्मि धर्मदारत्यागी अयं दुष्यन्तो नास्य नाम संग्रााह्यमिति निन्दापगतेत्यर्थं।

शकुन्तला- (स्वगतम् = आत्मगतम्) आह दिष्ट्या = सौभाग्येन आर्यपुत्रः = स्वामी अकारणपरित्यागी-न कारणं यत्र तदकारणमकारणं प्रत्यादेशो यस्य स अकारणप्रत्या


मारीच- तभी अप्सरातीर्थ के घाट से अत्यन्त विकल शकुन्तला को लेकर मेनका दाक्षायणी के पास आई तभी ध्यान से मैंने जान लिया था कि दुर्वासा के शाप के कारण यह बेचारी सहधर्म-चारिणी शकुन्तला तुम्हारे द्वारा तिरस्कृत हुई है, न कि अन्य कारण से और वह शाप भी अंगूठी देखते ही समाप्त हो जाने वाला है।

राजा- (लम्बी सांस लेकर) अब मैं अपनी पत्नी के परित्याग होने वाले लोकापवाद = लोकनिन्दा से मुक्त हो गया।

शकुन्तला- (अपने मन) यह सौभाग्य की बात है कि आर्यपुत्र बिना कारण के ही परित्याग करने वाले नहीं हैं, किन्तु मुझे दुर्वासा ने कब शाप दिया यह याद नहीं आ रहा है अथवा शाप मुझे मिला होगा, किन्तु उस समय मैं विरह के कारण शून्यहृदय थी, अतः उसे जान न पाई (इसीलिए मेरी विदाई के अवसर पर मेरी प्रियसखियों ने मुझे बड़े ही आग्रह से सावधान कर दिया था कि यदि वह राजा तुझे न पहचाने तो उसके दिये हुए इस अङ्गुलीयक को ही परिचय स्वरूप उसे दिखा देना)।

सप्तमोऽङ्कः ४१७

मारीचः—वत्से ! ^१चरितार्थाऽसि । सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य—

शापादसि प्रतिहता ^२स्मृतिरोधरुक्षे भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ३२ ॥


दोषी = अकारणपरित्यागी न । आर्यपुत्रेण शापकारणादेवाऽहं प्रत्यादिष्टा न त्वकारणमिति नात्र आर्यपुत्रस्य दोषः । न खलु = निश्चयेन आत्मानं शापयुक्तं = स्वं शप्तं न स्मरामि । अथवा प्राप्तो मया स हि शापः विरहशून्यहृदयया विरहेण शून्यं = वियोगेन ज्ञानरहितं हृदयं = आन्तरं यस्याः सा तया विरहशून्यहृदयया ( मया ) न ज्ञातः = न विदितः । अतः अनेन कारणेन सखीभ्यां = आलीभ्यां ( अनुसूयाप्रियंवदाभ्याम् ) संदिष्टा = अहमुक्ताऽस्मि भर्तुः = पत्युः अङ्गुलीयकं = मुद्रा दर्शयितव्यम्, प्रत्यभिज्ञानमन्तराऽर्यपुत्रायाऽङ्गुलीयकं दर्शयितव्यमिति आश्रमपरित्यागकाले सखीभ्यामहमुक्तास्मि । असति शापे ताभ्यामेवमुक्तं न भवेत् ।

मारीचः— अथ शकुन्तलाया संशयं समुन्मूलयितुं महर्षिः कश्यपः प्राह—वत्से ! विदिताऽर्था = ज्ञातवस्तुतत्त्वा सहधर्मचारिणं = सहचरं पतिं प्रति न त्वया मन्युः = कोपः कार्यः = करणीय । पश्य = अवलोकय ।

अन्वयः— शापात् स्मृतिरोधरुक्षे भर्तरि प्रतिहता असि । अपेततमसि ( तस्मिन् ) तवैव प्रभुता ( अस्ति ) छायामलोपहतप्रसादे दर्पणतले न मूर्छति, शुद्धे तु सुलभावकाशा ( भवति ) ।

महर्षि कश्यपः शकुन्तलामुपदिशति—शापादिति । शापात् = दुर्वाससा दत्तादनिष्टाशीर्वचनात् स्मृतिरोधरुक्षे स्मृतेः=स्मरणस्य रोधः=स्मरणावरक तमः तेन रुक्षे=निःस्नेहकर्कशे भर्तरि = पत्यौ पत्युर्मनसि प्रतिहताऽसि = प्राप्तप्रतिघातासि, अलब्धप्रवेशासि भर्त्रा प्रत्याख्यातासीत्यर्थः । अत्र तस्य दोषो नास्ति । अपेततमसि अधुना अपेतं = दूरीभूतं तमः = शापलक्षणं स्मृतिरोधकमज्ञानं यस्मात् तत्तस्मिन् अङ्गुलीयकदर्शनेन शापनिवृत्त्या विगताज्ञाने भर्तरि तवैव = भवत्या एव प्रभुता = प्रभुत्वं सामर्थ्यमस्ति छाया = प्रतिबिम्बं, **मलोपहतप्रसादे--**मलेन आगन्तुकेन दोषेण रजसा श्यामिकया वा उपहतः=दूरी-


मारीच—( शकुन्तला को देखकर ) बेटी, अब तो तू अपने परित्याग के सच्चे कारण को जान ही गई, तू कृतकृत्य हो गई । अतः अब इसके लिए शोक या अपने पति पर इसके लिए कुछ भी क्रोध मत करना कि इन्होंने मेरा परित्याग कर दिया था । देख,

दुर्वासा के शाप के कारण स्मृति लुप्त हो जाने के कारण ही दुष्यन्त द्वारा तेरा परित्याग हुआ था । अब उसका स्मृति-भ्रंश रूप अज्ञान दूर हो गया । अतः अब तेरे पतिपर तेरी प्रभुता पुनः अक्षुण्ण है । धूल पड़ जाने के कारण स्वच्छता के विनष्ट हो जाने पर शीशे में प्रतिबिम्ब स्पष्ट नहीं दिखाई पड़ता, किन्तु उसके स्वच्छ हो जाने पर स्पष्ट दिखाई पड़ता है ॥ ३२ ॥

विशेष— महर्षि कश्यप के कहने का अभिप्राय है कि बेटी शकुन्तले ! अब दुष्यन्त पर तुम्हारी प्रभुता, जादू काम करेगी, तुम इनकी पटरानी बनोगी, तुम्हारी बात इनके लिए महामन्त्र होगी


पाठ०—१. विदिताथाऽसि । २. करणीयः । ३. स्मृतिलोपरूक्षे ।

२७ शाकु०

४१८अभिज्ञानशाकुन्तलम्

राजा—यथाह भगवान्।
मारीचः—वत्स! कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्म पुत्र एष शाकुन्तलेयः।
राजा—भगवन्! अत्र खलु मे वंशप्रतिष्ठा।
मारीचः—तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान्। पश्य—

कृतः प्रसादः = निर्मलता यस्य स तस्मिन् दर्पणतले दर्पणस्य = आदर्शस्य तले = पृष्ठे न मूर्च्छति न प्रसरति शुद्धे तु निर्मले पुनः तस्मिन् सुलभावकाशः सुलभः = सुखप्राप्यः अवकाशः = स्थानं यथा तादृशी भवति अत्यन्तं व्यक्ता दृश्यते इत्यर्थः।
**अयं भावः—**वत्से शकुन्तले! सुलभकोपस्य महर्षेः दुर्वाससः शापप्रभावातिशयादेव पूर्वं दुष्यन्तेन त्वं निराकृतासि। तत्र तस्य नास्ति अणुरपि दोषः। तदानीं तस्य हृदयं दुर्वाससः शापप्रभावादज्ञानावृतमासीत्, परं सांप्रतमङ्गुलीयकदर्शनेन शापापगमेन अज्ञानेऽपगते तस्य विशुद्धे हृदये मृजावदाते निर्मले दर्पणे प्रतिबिम्बमिव त्वमेव लब्धावकाशा तस्य हृदयेश्वरी भूत्वा सुखमास्व त्वामन्तरा तस्य विशुद्धे हृदये नान्यस्याः कस्याश्चित् स्थानं स्थास्यतीतिभावः॥ ३२ ॥

राजा—यथाह भगवानिति = उचितं वदति श्रीमान्।
मारीचः—वत्स != दुष्यन्त! अस्माभिः = मया आश्रमस्थमुनिगणसाहाय्येन विधिवत् = यथाशास्त्रम् अनुष्ठितजातकर्म अनुष्ठितं = सम्पादितं कृतं जातकर्म = जननोत्तरं सद्यः कार्यं जातकर्मसंस्कारः यस्य स अनुष्ठितजातकर्म पुत्रः = सुतः एषः = अयं शकुन्तलाया अपत्यं पुमान् शाकुन्तलेयः = शकुन्तलानन्दनः सर्वदमनः त्वया = भवता अभिनन्दितः कच्चित् ? = किम् ? उत्सङ्गादिना त्वया संभावितो भवतु इति मे कामः।
राजा—वंशस्याविच्छेदमेवजिगमिषुः मुनिं पृच्छति-भगवन् = महात्मन्! अत्र खलु = शाकुन्तलेये बालके एव मे = मम वंशप्रतिष्ठा = कुलस्थितिः वंशगौरवं, पुरुवंशसन्ततेः अयं निदानम् ?
मारीचः—तथाभाविनं = वंशप्रतिष्ठाकरं, एनं = अमुं भविष्यन्तं चक्रवर्तिनं = सम्राजं च अवगच्छतु = जानातु भवान् = त्वम्। अयं तव वंशप्रतिष्ठाकरः चक्रवर्ती च भविष्यतीति भवता ज्ञातव्यमित्यर्थः।


तुम्हारे पुत्र चक्रवर्ती सम्राट् बनेगा इनका हृदय स्वच्छ हो गया। दुर्वासा के शाप से जायमान मोह के दूर हो जाने पर ये निर्मल मन से तुम्हारा सर्वविध कल्याण करेंगे। इनकी रूखाई में इनका दोष नहीं था, दुर्वासा का शाप ही कारण था।

**राजा—**भगवन्! आप जो कहते हैं वह सर्वथा सत्य है। (अब इस शकुन्तला से पूर्ववत ही प्रेम करता हूँ।)
**मारीच—**वत्स दुष्यन्त! क्या तू ने हमलोगों के द्वारा विधिपूर्वक किये गये जातकर्म संस्कार वाले इस शकुन्तला से उत्पन्न पुत्र का अभिनन्दन स्वीकार किया या नहीं?
**राजा—**भगवन्! इस पर ही मेरे वंश की प्रतिष्ठा निर्भर है अर्थात् यही मेरे राज्य का उत्तराधिकारी बनेगा।
**मारीच—**बेटा तुम इसी प्रकार इसे अपने वंश का प्रतिष्ठापक चक्रवर्ती समझना। देखो—


पाठा०—१. जातकर्मादिक्रियः।

सप्तमोऽङ्कः ४१९

रथेनानुद्घातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात् सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ ३३ ॥

अन्वयः—अयम् अप्रतिरथः अनुद्घातस्तिमितगतिना रथेन तीर्णजलधिः पुरा सप्तद्वीपां वसुधां जयति । इह सत्त्वानां प्रसभदमनात् सर्वदमनः । पुनः लोकस्य भरणात् भरत इति आख्यां यास्यति ॥ ३३ ॥

राज्ञा दुष्मन्तेन निजतनयस्य सर्वदमनस्य वंशप्रतिष्ठाकरत्वमुद्दिश्य पृष्टो महर्षिः कश्यपः तस्य भाविफलं वर्णयन् आशंसते—रथेनेति । अयम् = एषः शाकुन्तलेयः अप्रतिरथः न विद्यते प्रतिद्वन्दी रथो यस्य स अप्रतिहतरथः = अद्वितीयो महारथी निःसपत्नः, अनुद्घातस्तिमितगतिना = अस्खलितनिष्कम्पवेगेन रथेन = स्यन्दनेन तीर्णजलधिः तीर्णाः = लङ्घिताः जलधयः = समुद्राः येन स तीर्णजलधिः = उत्तीर्णसागरः पुरा = प्रथमं सप्तद्वीपां सप्त = सप्तसंख्याकानि जम्बूप्रभृतीनि द्वीपानि यस्यां सा तां सप्तद्वीपां वसुधां पृथिवीं जयति = जेष्यति । इह = आश्रमे सत्त्वानां = सिंहव्याघ्रादीनां प्राणिनां प्रसभदमनात् प्रसभं = हठेन बलात्कारेण दमनात् = अभिभवात् शासनात् सर्वदमनः = सर्वदमन इत्याख्यां प्राप्तः पुनः = भूयोऽपि लोकस्य = जनस्य भुवनस्य भरणात् = रक्षणात् पोषणाद्वा भरत इत्याख्यां = अभिधां यास्यति = गमिष्यति ।

अर्थ भावः—राज्ञा दुष्मन्तेन तस्य तनयस्य वंशप्रतिष्ठाकरत्वमुद्दिश्य परिपृष्टो महर्षिः कश्यपः तस्य भाविशुभफलं निर्दिशन्नाह—आयुष्मन् ! अयं शकुन्तलायां जातस्ते तनयो नूनं त्वद्वंशप्रतिष्ठापको भविष्यति । प्रथममयं वेगवता रथेन सप्तसागरां धरित्रीं विजित्यैक-


भविष्य में यह अद्वितीय महारथी होकर कहीं भी नहीं रुकने वाले अपने अस्खलित वेगवान् रथ से सातों समुद्रों को पार करके सातों द्वीपों से युक्त समस्त पृथ्वी के मण्डल को जीतेगा और हमारे इस आश्रम में तो सभी जीवों का बलात्कार से दमन करने के कारण इसका नाम सर्वदमन रखा गया है। आगे अपनी प्रजा का अच्छी तरह से भरण, पालन और पोषण करने के कारण यह भरत के नाम से विख्यात होगा ॥ ३३ ॥

विशेष—पौराणिक साहित्य के अनुसार सम्पूर्ण पृथ्वी सात द्वीपों में विभक्त है, सातों द्वीप सात समुद्रों से घिरे हुए हैं। द्वीपों के नाम है जम्बूद्वीप, प्लक्षद्वीप, शाल्मलिद्वीप, कुशद्वीप, क्रौञ्चद्वीप, शाकद्वीप, और पुष्करद्वीप । इन द्वीपों के मध्यभाग में जम्बूद्वीप है उसमें नव वर्ष हैं, उन नव वर्षों के मध्यवर्ती इलावृत्तवर्ष के मध्य में स्वर्णमय सुमेरुगिरि है सुमेरु के ऊपरी भाग में स्वर्गपुरी की स्थिति कही गई है।

कविवर कालिदास ने इस श्लोक के चतुर्थ चरण के अनुसार ‘पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्’ डुभृञ् धारण पोषणयोः धातु से भरत शब्द की निष्पति मानते हुए कहा है कि इन्हीं भरत के नाम पर इस देश का नाम भारत पड़ा है और वायुपुराण भी इसी का स्पष्ट संकेत करता है कि प्रतापी राजा दुष्यन्त से शकुन्तला में उत्पन्न भरत से ही इस देश का नाम भारत हुआ है।

चक्रवर्ती ततो यज्ञे दौष्यन्तिर्नृपसत्तम !
शकुन्तलायां भरतो यस्य नाम्ना तु भारतम् । ९९।११३

पाठा०—१. ॰गतिनोत्तीर्णं । २. सप्तद्वीपामवति ।

४२० अभिज्ञानशाकुन्तलम्

**राजा—**भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे।

**अदितिः—**भववं! इमाए दुहिदुमणोरहसम्पत्तीए कण्वो वि दाव सुदवित्थारो करीअदु। दुहिदुवच्छला मेणआ इह एव्व उपचदंती चिट्ठदि। [ भगवन्! अनया दुहितृमनोरथसंपत्त्या कण्वोऽपि तावच्छ्रुतविस्तारः क्रियताम्। दुहितृवत्सला मेनकेहैवोप-चरन्ती तिष्ठति। ]

शकुन्तला— ( आत्मगतम् ) मणोरहो खु मे भणिदो भववदीए। [ मनोरथः खलु मे भणितो भगवत्या। ]


च्छत्रः सम्राट् भविष्यति। इदानीम् अस्मिन् ममाश्रमे सर्वेषां सिंहव्याघ्रादीनां सत्त्वानां दमनात् सर्वदमन इत्यभिधां गतः, अग्रे चासौ जनानां रक्षणात् भुवनस्य पालनात् भरत इति नाम्ना प्रसिद्धो भविष्यति तथा च महाप्रभावो दीर्घायुः सौभाग्यसम्पन्नोऽयं ते तनयो नूनं चक्रवर्ती राजा भविष्यति। अतो भवताऽस्य सौभाग्यविषये निश्चिन्तेन भाव्यमिति भावः। न कोऽपि संशयः कार्यः। अत्र स्वभावोक्ति-भाविककाव्यलिङ्गालङ्काराः शिखरिणी छन्दश्च ॥ ३३ ॥

राजा—भगवता = पूज्येन श्रीमता कृतः संस्कारो यस्य सः तस्मिन् कृतसंस्कारे = सम्पादितजातकमंसंस्कारेऽस्मिन्नर्भके सर्वमाशास्महे = सकलं संभावयामि।

अदितिः—भगवन् = स्वामिन् ! अनया दुहितृमनोरथसम्पत्या दुहितुः = पुत्र्याः शकुन्तलायाः यो मनोरथः = अभिलाषः भर्त्रा प्रतिग्रहरूपः तस्य या सम्पत्तिः = सिद्धिः तया दुहितृमनोरथसम्पत्त्या = पुत्रीमनोरथसिद्ध्या कण्वः = शकुन्तलाधर्मपिता अपि तावत् श्रुतविस्तारः श्रुतः = आकर्णितः विस्तारः = व्यासोक्तिः, आमूलवर्णनं येन स श्रुतविस्तारः क्रियतां = विधीयताम् कण्वस्याप्येतदभ्युदयसंविभागो भवत्विति भावः। दुहितृवत्सला—दुहितरि वत्सला = स्नेहवती दुहितृवत्सला पुत्रीस्नेहवती मेनका इहैव = आश्रमे एव उप-चरन्ती = अस्मान् सेवमाना श्रुतविस्तारैव तिष्ठति

शकुन्तला—( शकुन्तलाऽदित्युरुक्तमात्मगतमभिनन्दति ) मनोरथः खलु मे भणितो


किन्तु श्रीमद्भागवत विष्णुपुराण आदि इस बात को नहीं मानते हैं उनका कहना है कि स्वायम्भुव मनु के पुत्र राजा प्रियव्रत की वंशपरम्परा में ऋषभदेव के ज्येष्ठ पुत्र जडभरत हुए हैं, उन्हीं के नाम से इस देश का नाम भारत हुआ है—

तेषां वै भरतः श्रेष्ठो नारायण परायण।
विख्यातं वर्षमेतद् यन्नाम्ना भारतमुत्तमम् ॥ श्रीमद्भाग० ११।२१।१७

अपि च—ततश्च भारतं वर्षमेतल्लोकेषु गीयते।

भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ वि. पु. २।१।३२

**राजा—**आपके द्वारा संस्कार किये गये इस बालक में हमलोग सब कुछ आशा करते हैं। जिसका संस्कार आपने हाथों से किया है, उससे सभी बातों की आशा है।

**अदिति—**भगवन्! अपनी पुत्री के पूर्ण हुए इस मनोरथ वैभव से कण्व को भी विदित करा देना चाहिए और पुत्री वत्सला मेनका तो हम लोगों की सेवा करती हुई यहीं उपस्थित है। अतः उसे तो ज्ञात हो ही जायेगी।

शकुन्तला—( मन ही मन ) पूज्या अदिति ने वस्तुतः मनोरथ ही कह दिया। अर्थात् मेरे पिता महर्षि कण्व को भी इसकी सूचना अवश्य मिलनी चाहिए।

सप्तमोऽङ्कः४२१

मारीचः— तपःप्रभावात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा— अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः— तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः । कः कोऽत्र भोः ।

( प्रविश्य )

शिष्यः— भगवन् अयमस्मि ।
मारीचः— गालव ! इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा—पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीता इति ।


भवत्या = यदहमिच्छामि तदेव भवत्या देव्या अदित्या भणितं = प्रस्तुतमित्यर्थः । मम हृदयेऽप्येवमस्ति यत्तातओऽवगच्छतु वृत्तान्तमिमम् ।
मारीचः—तपःप्रभावात् = तपस्यामहिम्ना तपोबलेन तत्र भवतः मान्यस्य कण्वस्य सर्वमेव = सकलमेव वृत्तम् प्रत्यक्षं = दृश्यम् । कण्वस्य महर्षेः सति ध्याने सकलमेव प्रत्यक्षमवगतं भवति । अतो न तत्र सन्देष्टव्यमित्यर्थः ।
राजा—अतः = अस्माद्धेतोः ध्यानबलाद्विदित सकलवृत्तान्तत्वादेव मुनिः = महर्षिः कण्वः नातिक्रुद्धः = नातिकुपित किन्तु लघूकोप एव, अत एव मां न शप्तवानित्यर्थः ।
मारीचः— अथ मारीचः लौकिकं विचारमनुस्मरन् ब्रवीति—तथापि कण्वे ध्यानबलात् विदितवृत्तान्तेऽपि असौ = स अस्माभिः प्रष्टव्यः = प्रियमेतद् वृत्तं विदितं किं ते इत्याभाषितव्य श्रावयितव्यो वा कः कोऽत्र भोः = क इह तिष्ठति ?
शिष्यः—भगवन् = श्रीमन् अयं = अहमस्मि उपस्थितोऽस्मि, आज्ञापयेत्यर्थः ।
मारीचः—गालव ! इदानीं = साम्प्रतम्, विहायसा = आकाशमार्गेण शीघ्रं गत्वा मम वचनात् = मम वचनमवलम्ब्य तत्र भवते मान्याय कण्वाय प्रियं = प्रियकरं वृत्तम् आवेदय = कथय यथा = यत् पुत्रवती = पुत्रसहिता शकुन्तला तच्छापनिवृत्तौ तस्याः शापः तच्छापः तस्य निवृत्तौ = समाप्तौ अवसाने स्मृतिमता = लब्धस्मृतिना दुष्यन्तेन प्रतिगृहीता = स्वीकृता इति


मारीच—यद्यपि अपने तप के प्रभाव से यह वृत्तान्त पूर्णरूप में भगवान् कण्व को पहले ही से विदित है ।
राजा—इसीलिए कण्वमुनि मेरे ऊपर अधिक क्रुद्ध नहीं हुए ।
मारीच—तथापि पुत्रसहित अपनी पुत्री शकुन्तला का उसके पति के द्वारा पुनः स्वीकार कर लेने का शुभ समाचार हमें कण्व को सुनाना ही है । बाहर कौन है ?

( प्रवेश करके )

शिष्य—भगवन् मैं उपस्थित हूँ, क्या आज्ञा है ?
मारीच—गालव ! तुम अभी आकाशमार्ग से जाकर मेरी ओर से आदरणीय कण्व से यह प्रिय समाचार सुना दो कि पुत्रसहित शकुन्तला अपने शाप की समाप्ति पर स्मरण करने वाले दुष्यन्त के द्वारा प्रसन्नतापूर्वक ग्रहण कर ली गई है ।