भारतकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२७

तत्र त्वायतनायतनवद्भावश्रवणात् । सर्वं ब्रह्मेति च सामानाधिकरण्यात् । यथानेका- त्मको वृक्षः शाखा स्कन्धो मूलं चेत्येवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवति, तां निवर्तयितुं सावधारणमाह ‘तमेवैकं जानथ आत्मानम्’ इति । एतदुक्तं भवति — न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः । किं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तस्तमेवैकमायतनभूतमात्मानं जानथैकरसमिति । यथा यस्मि- न्नास्ते देवदत्तस्तदानयेत्युक्त आसनमेवानयति न देवदत्तम् , तद्वदायतनभूतस्यैवैकर- सस्यात्मनो विज्ञेयत्वमुपदिश्यते । विकारानृताभिसन्धस्य चापवादः श्रूयते—‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति (का० २।४।११) इति । सर्वं ब्रह्मेति तु सामा- नाधिकरण्यं प्रपञ्चविलापनार्थं, नानेकरसताप्रतिपादनार्थम् । ‘स यथा सैन्धवघनोऽ- नन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृह० ४।५।१३) इत्येकरसताश्रवणात् । तस्माद् द्युभ्वाद्यायतनं परं ब्रह्म । यच्चोक्तं—सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवि-

भामती

स्यादेतत् — आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेऽप्युपपद्यते । तथा च स एवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाह ꣸ तत्रायतनायतन- वद्भावश्रवणाद् इति ꣸ । विकाररूपेऽनृतेऽनिर्वच्येऽभिसन्धोऽभिसन्धानं यस्य स तथोक्तः । भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् । तस्यापवादो दोषः श्रूयते — “मृत्योः” इति । “सर्वं ब्रह्मेति तु” इति । यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म , न तु यद् ब्रह्म तत्सर्वमित्यर्थः ।

भामती-व्याख्या

प्रसङ्गतः वाजिन द्रव्य का भी निष्पादक माना जाता है ] । जिन अनेक शब्दों का बोध कराने के लिए 'स्वशब्द' तन्त्रोच्चरित है, वे हैं—आत्मशब्द, 'सत् शब्द' और 'ब्रह्म शब्द' । “तमेवैकं जानथ आत्मानम्” ( मुण्ड० २।२।५ ), “सन्मूला सोम्येमाः सर्वाः प्रजाः” ( छां० ६।८।४ ), “ब्रह्मैवेदममृतं पुरस्तात्” ( मुण्ड० २।२।११ ) इत्यादि वाक्यों में प्रयुक्त आत्मादि शब्द साक्षात् ब्रह्म के जगदायतनत्वेन उपस्थापक हैं । आत्मादि सभी शब्द ब्रह्म के स्वशब्द ( स्वकीय शब्द ) हैं ।

यह जो शङ्का होती है कि “यस्मिन् द्यौः पृथिवी चान्तरिक्षम्” ( मुण्ड० २।२।५ ) इत्यादि वाक्यों में जगत् और आत्मा का आयतन-आयतनभाव ( आधाराधेयभाव ) एवं “ब्रह्मैवेदं विश्वम्” ( मुण्ड० २।२।११ ) इस प्रकार सामानाधिकरण्य श्रुत है, वह हिरण्यगर्भ में भी उपपन्न हो जाता है, अतः वह यहाँ अमृतत्व का सेतु क्यों नहीं माना जा सकता ? उस शङ्का को दूर करने के लिए भाष्यकार ने श्रुतिगत अवधारण को प्रस्तुत किया है—‘तां निवर्तयितुं सावधारणमाह—तमेवैकं जानथ आत्मानम्’ । एवकाररूप अवधारण के द्वारा अन्य-योग ( कार्य-प्रपञ्च का वैशिष्ट्य ) हटा कर शुद्ध ब्रह्म को ज्ञेय माना गया है, वह सकल भेद-रहित एक मात्र ब्रह्मतत्त्व ही है । “विकारानृताभिसन्धस्य चापवादः श्रूयते”—इस भाष्य का अर्थ यह है कि विकाररूप अनृत प्रपञ्च में जिस ( अज्ञानी का अभिसन्ध ( अभिमान ) है अर्थात् मिथ्या भेद-प्रपञ्च में जो सत्यत्व का अभिमान करता है, उसके लिए अपवाद ( दोष ) का अभिधान किया गया है—“मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” । जो शाखा, स्कन्ध, मूलाद्यात्मक नानारूप वृक्ष के समान जगत् के आयतन को नानारस मानता है, वह जन्म-मरण के प्रवाह में ही पड़ा रहता है । “सर्वं ब्रह्मेति तु सामानाधिकरण्यं प्रपञ्च प्रविलापनार्थम्” । “यश्चौरः, स स्थाणुः”—इस प्रकार बाधित-सामानाधिकरण्य के समान ही

३२८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २

तव्यमिति । अत्रोच्यते—विधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते, न पारवत्त्वादि । नहि मृद्दारुमयो लोके सेतुरदृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यते । सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव न पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः ।

अपर आह—'तमेवैकं जानथ आत्मानम्' इति यदेतत्संकीर्तितमात्मज्ञानं, यच्चैतत् 'अन्या वाचो विमुञ्चथ' इति वाग्विमोचनं, तदत्रामृतत्वसाधनत्वात् 'अमृतस्यैष सेतुः' इति सेतुश्रुत्या संकीर्त्यते, न तु द्युभ्वाद्यायतनम् । तत्र यदुक्तं सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भाव्यमित्येतदयुक्तम् ॥ १ ॥

मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥

इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् । यस्मान्मुक्तोपसृप्यताऽस्य व्यपदिश्यमाना


भामती

अपर आह इति। नात्र द्युभ्वाद्यायतनस्य सेतुतोच्यते येन पारवत्ता स्यात् , किन्तु जानथेति यज्ज्ञानं कीर्तितं, यश्च वाचो विमुञ्चथेति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते । तच्चोभयमपि पारवदेव । न च प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्रमेव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति साम्प्रतम् , वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् । आत्मनस्तु द्रव्यस्याव्यापारतयाऽविधेयत्वात् । विधेयस्य व्यापारस्यैव व्यापारवतोऽमृतत्वसाधनत्वात् । न चेदमेकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते । क्वचिदयोग्यतया प्रधानमुत्सृज्य योग्यतया गुणोऽपि परामृश्यते ॥ १ ॥


भामती-व्याख्या

'यत्सर्वमिदमारोपितम्, तत्सर्वं परमार्थतो ब्रह्म'—ऐसी ही प्रतीति विवक्षित है, 'यद् ब्रह्म तत्सर्वम्'—ऐसी नहीं, क्योंकि बाध सामानाधिकरण्यस्थल पर बाध्यमान पदार्थ का बाध मन में रख कर सामानाधिकरण्य-व्यवहार होता है, अतः 'यत्सर्वं कल्पितम्'—इस प्रकार बाधित प्रपञ्च का ही निर्देश यत्पद के द्वारा होता है, ब्रह्म का नहीं, अन्यथा ब्रह्म का बाध एवं “कार्यप्रपञ्चं प्रविलापयन्तः”—इस भाष्य का विरोध प्रसक्त होगा ।

अन्य विचारकों का कहना है कि उक्त श्रुति में द्युभ्वादि के आयतन में सेतुरूपता विवक्षित नहीं कि ब्रह्म में पारवत्ता (परिच्छिन्नता) प्रसक्त हो, किन्तु 'जानथ' पद के द्वारा कीर्तित ज्ञान और “अन्या वाचो विमुञ्चथ”—इस वाक्य से निर्दिष्ट अपर विद्या के त्याग में सेतुता (मोक्ष-हेतुता) विवक्षित है, क्योंकि “ज्ञात्वा देवं मुच्यते” (श्वेता. १।८) और “त्यागेनैकेऽमृतत्वमानशुः” (कै. ३) इत्यादि श्रुतियों में ज्ञान और त्याग को ही मोक्ष का साधन माना गया है। ज्ञान और त्याग—दोनों ही पारवान् होने से सेतु पदार्थ हो सकते हैं। यदि कहा जाय कि “अमृतस्यैष सेतुः”—यहाँ पर 'एषः'—इस सर्वनाम पद के द्वारा प्रधानभूत आत्मा का परामर्श करके उसमें ही सेतुता विहित है, उसके ज्ञान और अन्यार्थ के त्याग में नहीं। तो वैसा नहीं कह सकते, क्योंकि प्रकृत में आत्मज्ञान और अन्यवाग्विमोचन ही विधेय होने के कारण प्रधान हैं। क्रिया का ही विधान होता है, आत्मा द्रव्य है, व्यापार (क्रिया) नहीं, अतः विधेय नहीं हो सकता। विधेयरूप प्रधान कर्म (ज्ञान) ही अपने सहायक व्यापारों (विवेकादि अङ्ग कर्मों) से युक्त होकर अमृतत्व का साधन होता है। दूसरी बात यह भी है कि सर्वनाम पदों के द्वारा प्रधानभूत अर्थ का ही परामर्श होता है—ऐसा कोई अकाट्य नियम नहीं, क्योंकि कहीं-कहीं अयोग्य होने के कारण प्रधानार्थ को छोड़ कर गौणीभूत योग्य पदार्थ का परामर्श होता है, जैसे कि “तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा”—इत्यादि स्थलों पर शब्दतः अप्रधानभूत पयः पदार्थ का परामर्श किया जाता है, फलतः प्रकृत में 'एष' पद के द्वारा ब्रह्म के बोध का परामर्श किया जा सकता है ॥ १ ॥

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२९

दृश्यते । मुक्तैरुपसृप्यं मुक्तोपसृप्यम् । देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्त- भेदोऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः । तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुप- सृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति । कथम् ? 'भिद्यते हृदय- ग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' ( मुण्ड० २।२।८ ) इत्युक्त्वा ब्रवीति — 'तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' ( मुण्ड० ३।२।८ ) इति । ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे — 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते' ( बृह० ४।४।७ ) इत्येवमादौ । प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम् । अपि च 'तमे- वैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते । तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् — 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत्' । ( बृह० ४।४।२१ ) इति । तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥

नानुमानमतच्छब्दात् ॥ ३ ॥

यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तो नैवमर्थान्तरस्य वैशेषिको हेतुः

भामती

द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते 'भिद्यते हृदयग्रन्थिः' इत्यादिना । तेन तद् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं 'यदा सर्वे प्रमुच्यन्ते' इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वाद् द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागद्वेषभयमोहाः । मोहश्च विषादः शोकः, परं हिरण्यगर्भाद्यवरं यस्य तद् ब्रह्म तथोक्तम्, तस्मिन् ब्रह्मणि यद् दृष्टं दर्शनं तस्मिन् तदर्थमिति यावत्; यथा 'चर्मणि द्वीपिनं हन्ति' इति चर्मार्थमिति गम्यते । नामरूपावित्यप्यविद्याभिप्रायम् । 'कामा येऽस्य हृदि श्रिताः' इति कामा इत्यविद्यामुपलक्षयति ॥ २ ॥

नानुमानमित्युपलक्षणं, नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥

भामती-व्याख्या

प्रक्रान्त द्यु और भू आदि प्रपञ्च के आयतन में अविद्यादि दोषों से मुक्त पुरुषों के द्वारा उपसृप्यता ( प्राप्यता ) का प्रतिपादन किया गया है — "विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" ( मुण्ड. ३।२।८ ) । मुक्त पुरुषों के द्वारा ब्रह्म ही प्राप्य है, ऐसा अन्य श्रुतियों में प्रसिद्ध है — "मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते" ( बृह. उ. ४।४।७ ) । फलतः मुक्तोपसृप्य होने के कारण द्युलोकादि का आयतन ब्रह्म ही है — ऐसा निश्चित हो जाता है । उक्त श्रुति में 'ग्रन्थि' पद के द्वारा अविद्या, राग, द्वेष, भय और मोह का ग्रहण किया गया है । मोह नाम है — विषाद का, जिसे शोक भी कहते हैं । "तस्मिन् दृष्टे परावरे" — यहाँ 'परावर' पद का अर्थ है — 'परं हिरण्यगर्भादि अवरं ( निकृष्टं ) यस्मात्, तत्' किन्तु भाष्यकार ने कहा है — "परं च कारणात्मनाऽवरं च कार्यात्मना, तस्मिन् परावरे" ( मुण्ड. पृ. ३१ ) । "तस्मिन् दृष्टे" — यहाँ पर निमित्तार्थक सप्तमी विभक्ति प्रयुक्त है । जैसे 'चर्मणि द्वीपिनं हन्ति' — इस वाक्य का अर्थ होता है — 'चर्मार्थं द्वीपिनं हन्ति', वैसे ही 'तस्मिन् दृष्टे' का अर्थ है — 'तदर्थम् । "नामरूपाद् विमुक्तः" — यहाँ पर अविद्या का बोध कराने के लिए 'नामरूप' का प्रयोग किया गया है, उसी प्रकार "कामा येऽस्य हृदि श्रिताः" — यहाँ 'काम' पद भी अविद्या का उपलक्षक है ॥ २ ॥

"नानुमानम्" — यहाँ प्रधानार्थक 'अनुमान' पद 'अव्याकृत' का भी उपलक्षक है, अतः

४२

३१०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ५.

प्रतिपादकोऽस्तीत्याह—नानुमानिकं सांख्यस्मृतिपरिकल्पितं प्रधानमिह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम् । कस्मात् ? अतच्छब्दात् । तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दस्तच्छब्दः, न तच्छब्दोऽतच्छब्दः । न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वाऽवगम्येत । तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति—'यः सर्वज्ञः सर्ववित्' ( मुण्ड० १।१।९ ) इत्यादिः । अत एव न वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते ॥ ३ ॥

प्राणभृच्च ॥ ४ ॥

यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च संभवति तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसंभवे सत्यस्मादेवात्तच्छब्दात्प्राणभृदपि न द्युभ्वाद्यायतनत्वेनाश्रयितव्यः । न चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवति । पृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥

कुतश्च न प्राणभृद् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः—

भेदव्यपदेशात् ॥ ५ ॥

भेदव्यपदेशश्चेह भवति—'तमेवैकं जानथ आत्मानम्' इति ज्ञेयज्ञातृभावेन । तत्र प्राणभृत्तावन्मुमुक्षुत्वाज्ज्ञाता, परिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, न प्राणभृत् ॥ ५ ॥


भामती

चेनातच्छब्दत्वं हेतुरनुकृष्यते । स्वयंश्च भाष्यकृद्धेतुमाह ॐ न चोपाधिपरिच्छिन्नस्य इति ॐ । ॐ न सम्यक् सम्भवति ॐ नाञ्जसमित्यर्थः । भोग्यत्वेन हि आयतनत्वमतिश्लिष्टम् । स्यादेतत्—यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुकृष्यः, हन्त कस्मात् पृथग्योगकरणं, यावता न प्राणभृदनुमाने इत्येक एव योगः कस्मान्न कृत इत्यत आह ॐ पृथग् इति ॐ । भेदव्यपदेशादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥ ४-५ ॥


भामती-व्याख्या

'नाव्यक्तम्'—ऐसा भी निरास किया जा सकता है, क्योंकि प्रधान और अव्यक्त—इन दोनों के निराकरण में समान हेतुओं का उपन्यास किया जाता है ॥ ३ ॥

"प्राणभृत् च"—इस सूत्र में प्रयुक्त चकार के द्वारा पूर्व सूत्र में अवस्थित 'अतच्छब्दात्'—इस हेतु की अनुवृत्ति की जाती है, जैसा कि स्वयं भाष्यकार कहते हैं—अस्मादेवात्तच्छब्दात् प्राणभृदपि न द्युभ्वाद्यायतनत्वेनाश्रयितव्यः” अर्थात् 'यस्मिन् द्यौः पृथिवी'—यहाँ पर जैसे प्रधान का वाचक कोई शब्द न होने के कारण प्रधान को द्युलोकादि का आयतन नहीं माना जा सकता, वैसे ही प्राणभृत् (जीव) का भी वाचक शब्द न होने के कारण जीव को भी द्युभ्वादि का आयतन नहीं माना जा सकता । "प्राणभृतो द्युभ्वाद्यायतनत्वमपि न सम्यक् सम्भवति"—यहाँ प्रयुक्त सम्यक् पद के द्वारा सहजभाव से आयतनत्व के उपपादन का जीव में निषेध किया गया है, अतः भोग्य प्रपञ्च का भोक्ता होने के कारण जो जीव को द्युभ्वादि का आयतन कहा गया था, वह क्लिष्ट कल्पनामात्र है। यदि प्रधान और जीव—दोनों का निषेध विवक्षित है, तब दोनों सूत्रों को मिला कर "नानुमानमतच्छब्दात् प्राणभृच्च"—ऐसा एक ही सूत्र बनाना चाहिए, प्राणभृच्च—ऐसा पृथक् सूत्र क्यों किया ? इस प्रश्न का उत्तर यह है कि "भेदव्यपदेशात्"—इस उत्तर सूत्र में निर्दिष्ट हेतु के द्वारा केवल प्राणभृत् (जीव) का निषेध किया गया है, प्रधानादि का नहीं, अतः योग-विभाग किया गया कि उत्तर सूत्र के साथ प्रधानादि का भी अन्वय प्रसक्त न हो ॥ ४-५ ॥

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३१

कुतश्च न प्राणभृद् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः— प्रकरणात् ॥ ६ ॥

प्रकरणं चेदं परमात्मनः, 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' (मु० १।१।३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात् । परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यान्न केवले प्राणभृति ॥ ६ ॥

कुतश्च न प्राणभृद् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः— स्थित्यदनाभ्यां च ॥ ७ ॥

द्युभ्वाद्यायतनं च प्रकृत्य 'द्वा सुपर्णा सयुजा सखायाः' (मु० ३।१।१) इत्यत्र स्थित्यदने निर्दिश्येते । 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इति कर्मफलाशनम्, 'अनश्नन्नन्योऽभिचाकशीति' इत्यौदासीन्येनावस्थानं च । ताभ्यां च स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते । यदि चेश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पते । अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंबद्धं स्यात् । ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत । न, तस्याविवक्षितत्वात् । क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्याद्युपाधिसंबद्धो लोकत एव प्रसिद्धो नासौ श्रुत्या तात्पर्येण विवक्ष्यते । ईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम् । 'गुहां प्रविष्टावात्मानौ हि'


भामती

न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥ ६ ॥

यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत्, ततस्तत्प्रकृत्यानश्नन्नन्यो अभिचाकशीतीति परमात्माभिधानमाकस्मिकं प्रसज्येत । न च हिरण्यगर्भ उदासीनः तस्यापि भोक्तृत्वात् । न च जीवात्मनैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धावह्नेऽपि जीवात्म-कथनमाकस्मिकं स्यादिति वाच्यम् । यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्मा


भामती-व्याख्या

आयतन तत्त्व के प्रकरण में ही कहा गया है—कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” (मुण्ड० १।१।३) । इससे यह नितान्त स्पष्ट है कि जिस एक तत्त्व के ज्ञान से सभी पदार्थों का ज्ञान हो जाता है, वही द्युलोकादि का आयतन है। प्रधान, अव्यक्त, जीव या हिरण्यगर्भादि के ज्ञान से समस्त जगत् ज्ञात नहीं होता, अपितु ब्रह्म के ज्ञान से ही सब कुछ ज्ञात हो जाता है, अतः ब्रह्म ही जगत् का आयतन सिद्ध होता है ॥ ६ ॥

यदि जीव या हिरण्यगर्भ को द्युलोकादि का आयतन माना जाता है, तब उसके प्रकरण में “अनश्नन्नन्योऽभिचाकाशीति”—इस प्रकार परब्रह्म का अभिधान आकस्मिक और अप्रासङ्गिक हो जायगा । हिरण्यगर्भ को उदासीन (अभोक्ता) नहीं कहा जा सकता, क्योंकि वह भी भोक्ता ही है।

शङ्का—यदि जीवात्मा को ही द्युलोकादि का आयतन माना जाता है, तब उसी का ज्ञान कराने के लिए ब्रह्म की चर्चा माननी होगी, अन्यथा जीव का उल्लेख अप्रासङ्गिक हो जायगा।

समाधान—शास्त्रों का प्रामाण्य अज्ञातार्थ के बोधन में ही निहित होता है, जीव तो लोक में अत्यन्त प्रसिद्ध है, अतः उसके बोधन से शास्त्रों में प्रामाण्य ही नहीं आता, तब उसका ज्ञान कराने के लिए ही ब्रह्म चर्चित है—ऐसा कहना सम्भव नहीं, भाष्यकार ने यही कहा है—“तस्याविवक्षितत्वात्”।

३३२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ८

( ब्र० १।२।१।१३ ) इत्यत्राप्येतद्दर्शितं 'द्वा सुपर्णा' इत्यस्यामृचीश्वरक्षेत्रज्ञावुच्येते इति । यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि न विरोधः कश्चित् । कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत्सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं न भवतीति निषिध्यते । यस्तु सर्वशरीरेषूपाधि-भिर्विनोपलक्ष्यते, परमात्मैव स भवति । यथा घटादिच्छिद्राणि घटादिभिरुपाधिभि-र्धिनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते । तस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधः । तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम् । तदेतद् 'अदृश्यत्वादिगुणको धर्मोक्तेः' ( ब्र० १।२।२।१६ ) इत्यनेनैव सिद्धम् । तस्यैव हि भूतयोनिवाक्यस्य मध्य इदं पठितम् । 'यस्मिन् द्यौः पृथिवी चान्तरिक्षम्' इति । प्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥


( २ भूमाधिकरणम् । सू० ८-६ )

भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥

इदं समामनन्ति—'भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास


भामती

धिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोधयत इति सुभाषितम् । ॐ यदापि पैङ्गुपनिषत्कृतेन व्याख्यानेन इति ॐ । तत्र ह्यनश्नन्नन्यो अभिचाकशीतीति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति न पैङ्गिब्राह्मणविरोध इत्यर्थः । ॐ प्रपञ्चार्थम् इति ॐ । तन्मध्ये न पठितमिति कृत्वाचिन्त्येयमधिशरणं प्रवृत्तमित्यर्थः ॥ ७ ॥


भामती-व्याख्या

भाष्यकार ने जो कहा है कि "यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्व-क्षेत्रज्ञावुच्येते, तदापि न विरोधः"। पैङ्गी उपनिषत् में यह कहा गया है कि "अनश्नन्नन्योऽ-भिचाकशीति—इस ऋचा-खण्ड के द्वारा जीव को उपाधि-रहित ब्रह्मावस्था में अभोक्ता कहा गया, उसका उपपादन करने के लिए ही अचेतन बुद्धि-तत्त्व में अपारमार्थिक भोक्तृत्व कहा गया है।" इस प्रकार जीव के स्वरूप का कथन करनेवाले उक्त मन्त्र के द्वारा ब्रह्म में ही द्युभ्वादि की आयतनता प्रतिपादित होती है और उपाधि से अवच्छिन्न जीव में आयतनत्व का निषेध हो जाता है, अतः पैङ्गी-ब्राह्मण के साथ किसी प्रकार का विरोध नहीं आता ।

यद्यपि द्युभ्वादि की आयतनता ब्रह्म में "अदृश्यत्वादिगुणको धर्मोक्तेः" ( ब्र. सू. १।२।२१ ) इस सूत्र के द्वारा ही सिद्ध हो जाती है, क्योंकि उसी भूत-वर्ग की ब्रह्मगत कारणता-प्रतिपादन के प्रकरण में ही "यस्मिन् द्यौः पृथिवी चान्तरिक्षम्" (मुण्ड. २।२।५) यह वाक्य भी पठित है। तथापि उसी अधिकरण का विस्तार करने के लिए पुनः वाक्यान्तर के माध्यम से वही विचार प्रस्तुत किया गया है। अथवा कृत्वाचिन्ता-न्याय से [ अर्थात् "यस्मिन् द्यौः पृथिवी चान्तरिक्षम्"—यह वाक्य ब्रह्मगते जगत्कारणता-प्रतिपादन के प्रकरण में पठित नहीं—ऐसा समझ कर ] उसी सिद्धान्त का पुनः प्रतिपादन किया गया है ॥ ७ ॥


विषय—अग्निहोत्रादि कर्म-विद्या में निपुण होने पर भी आत्मज्ञान से वञ्चित होने के

भूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३३

इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्य- न्यद्विजानाति तदल्पम्' ( छा० ७।२३, २४ ) इत्यादि । तत्र संशयः—किं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेति । कुतः संशयः ?

भामती नारदः खलु देवर्षिः कर्मविदनात्मवित्त्या शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद । उपसद्य चोवाच—भगवंश्चानात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति । तत्तदुपश्रुत्य सनत्कुमारेण नामब्रह्मेत्युपास्स्वेत्युक्ते नारदेन पृष्टं किं नाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनं वाग्वाव नाम्नो भूयसी । तदेवं नारदसनत्कुमारयोर्भूयसि प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नततोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते । कर्त्तव्याकर्त्तव्यविवेकः सङ्कल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् । स्मरः, स्मरणम् : प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च नामादिप्रपञ्चादाशान्ताद् भूयस्त्वमुक्त्वाऽपृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन 'एष तु वातिवदति यः सत्येनातिवदतीति सत्यादीन् कृतिपर्यन्तानुक्त्वोपदिदेश, 'सुखं त्वेव विजिज्ञासितव्यम्' इति । तदुपश्रुत्य नारदेन सुखं भगवो विजिज्ञासेत्युक्ते सनत्कुमारो यो वै भूमा तत् सुखमित्युपक्रम्य भूमानं व्युत्पादयाम्बभूव, यत्र नान्यत्पश्यतीत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयः—किं प्राणो भूमा स्यादाहो परमात्मेति । भावभवित्रोस्तादात्म्यविवक्षया सामानाधिकरण्यं

भामती-व्याख्या कारण शोकाकुल देवर्षि नारद ने महायोगी ब्रह्मवेत्ता भगवान् सनत्कुमार की शरण में जाकर प्रार्थना की—भगवन् ! मैं अनात्मज्ञ होने के कारण शोक-सागर में डूब रहा हूँ, कृपया आप इस दीन जन का उद्धार करें। नारद की प्रार्थना सुनकर भगवान् सनत्कुमार ने पहले कहा— "नाम ब्रह्मेत्युपास्स्व" ( छां. ७।१।४ )। अर्थात् 'जैसे प्रतिमा की विष्णु-बुद्धया उपासना की जाती है, वैसे ही नाम (शब्द) की ब्रह्म-भावना से उपासना करनी चाहिए। ऐसा सुन कर श्री नारद ने पूछा—"अस्ति भगवो नाम्नो भूयः" ( छां. ७।१।५ ) अर्थात् क्या नाम से भी बढ़ कर कोई अधिक उपयुक्त माध्यम है ? इस प्रश्न का उत्तर भगवान् सनत्कुमार ने दिया— "वाग्वाव नाम्नो भूयसी" ( छां. ७।२।१ )। इस प्रकार नारद और सनत्कुमार की लम्बी प्रश्नोत्तर-परम्परा में 'वाक्' इन्द्रिय से लेकर मन, संकल्प, चित्त, ध्यान, विज्ञान, बल, (मानस सामर्थ्य), अन्न, जल, वायु-सहित तेज, आकाश, स्मर, आशा (अभिलाषा) और प्राण की उत्तरोत्तर श्रेष्ठता कही गई। उनमें कर्त्तव्याकर्त्तव्य का विवेक संकल्प पदार्थ है, उसका कारण है—चित्त (अतीतादि विषयों के द्वारा साध्य प्रयोजन का ज्ञान)। 'स्मर' पद का अर्थ स्मरण है। अन्त में प्राण तत्त्व की श्रेष्ठता का प्रतिपादन करते हुए कहा गया है कि जैसे पहिए की नाभि में अर (नाभि और नेमि को जोड़नेवाली लम्बी लकड़ी) प्रविष्ट होती है, वैसे ही इस प्राण तत्त्व में सब कुछ अवस्थित है। प्राण ही सकल कारक, करण और क्रियारूप है, प्राण ही पिता, माता, स्वसा और आचार्य है। प्राण में सर्वतः भूयस्त्व-दर्शी को अतिवादी (उत्कृष्टवादी) कह कर उसी प्रकरण में सनत्कुमार ने नारद के बिना पूछे ही "एष तु वा अतिवदति यः सत्येनातिवदति"—इस प्रकार सत्यादि से लेकर कृति (प्रयत्न) पर्यन्त पदार्थों की चर्चा की और अन्त में "सुखं त्वेव विजिज्ञासितव्यम्"—ऐसा उपदेश दिया। उसको सुन कर नारद ने प्रार्थना की कि तब भगवन् सुख तत्त्व का उपदेश करें। श्री सनत्कुमार ने कहा—"यो वै भूमा तत्सुखम्" ( छां. ७।२३।१ ) और भूमा पदार्थ का व्युत्पादन किया—"यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति, स भूमा" ( छां. ७।२४।१ )। इस अधिकरण का यही विचारणीय विषय है।

३३४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ८

भूमेति तावद् बहुत्वमभिधीयते, 'बहोर्लोपो भू च बहोः' ( पा० ६।४।१५८ ) इति भूम-शब्दस्य भावप्रत्ययान्ततास्मरणात् । किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायां 'प्राणो वा आशाया भूयान्' ( छा० ७।१५।१ ) इति संनिधानात्प्राणो भूमेति प्रतिभाति । तथा 'श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयतु' ( छा० ७।१।३ ) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति । तत्र कस्योपादानं न्याय्यं, कस्य वा हानमिति भवति संशयः ।

किं तावत्प्राप्तम् ? प्राणो भूमेति । कस्मात् ? भूयःप्रश्नप्रतिवचनपरम्पराऽदर्श-नात् । यथा हि 'अस्ति भगवो नाम्नो भूयः' इति, 'वाग्वाव नाम्नो भूयसी' इति । तथा 'अस्ति भगवो वाचो भूयः' इति, 'मनो वाव वाचो भूयः' इति च नामादिभ्यो ह्या प्राणाद् भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः । नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते — अस्ति भगवः प्राणाद् भूय इति, अदो वाव प्राणाद् भूय इति । प्राणमेव तु नामादिभ्य

भामती

संशयस्य बीजमुक्तं भाष्यकृता । तत्र

एतस्मिन् ग्रन्थसन्दर्भे यदुक्ताद् भूयसोऽन्यतः ।
उच्यमानं तु तद् भूय उच्यते प्रश्नपूर्वकम् ॥

न च प्राणात् किं भूय इति पृष्टं, नापि वाऽस्माद् भूयानिति प्रत्युक्तम् । तस्मात्प्राणभूय-स्त्वस्वाभिधानानन्तरमपृष्टेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति । अपि च भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसन्निधानात्तमेव भवितारं प्राप्य निर्वृणोति । यस्योभयं हविरात्तिमाच्छे॑दित्यत्रार्त्तिरिवार्वं हविः । यथाहुः—'मुख्याग्रहे हविषा विशेषणम्'

भामती-व्याख्या

संशय — उक्त श्रुति में क्या प्राण ही भूमा पदार्थ है ? अथवा ब्रह्म भूमा है ?

पूर्वपक्ष—

एतस्मिन् ग्रन्थसन्दर्भे यदुक्ताद् भूयसोऽन्यतः ।
उच्यमानं तु तद् भूय उच्यते प्रश्नपूर्वकम् ॥

[ इस श्लोक का अन्वय इस प्रकार है—'उक्ताद् अन्यतो भूयसः भूय उच्चमानं यत्, तद् भूयः प्रश्नपूर्वकमभिधीयते' अर्थात् नामादि की अपेक्षा जिन प्राण से अन्य वागादि पदार्थों को उत्तरोत्तर भूयः कहा गया है, उन वागादि की अपेक्षा जिस प्राण तत्त्व को भूयः कहा गया, वही भूयः पदार्थ यहाँ प्रश्नपूर्वक प्रतिपादित है, फलतः प्राण ही यहाँ भूयः पदार्थ है, ब्रह्म नहीं ] । प्राण से भिन्न किसी भूयः पदार्थ का न तो प्रश्न उठाया गया है और न उसका उत्तर दिया गया है कि 'इदं प्राणाद् भूयः' । अतः प्राणगत भूयस्त्वस्वाभिधान के अनन्तर बिना प्रश्न के कहा गया भूयः पदार्थ प्राण ही हो सकता है । दूसरी बात यह है कि 'बहु' पद से भावार्थक 'इमनिच्' प्रत्यय “पृथ्वादिभ्य इमनिज्वा" ( पा. सू. ५।१।१२२ ) इस सूत्र के द्वारा होता है और 'बहोर्लोपो भू च बहोः' ( पा. सू. ६।४।१५८ ) इस सूत्र के द्वारा 'इमनिच्' प्रत्यय के इकार का लोप एवं 'बहु' के स्थान में 'भू' का आदेश होकर 'भूमा' शब्द निष्पन्न होता है, जिसका अर्थ है—'बहोर्भाव भूमा' अर्थात् 'बहु' शब्द के भाव ( बहुत्व ) को 'भूमा' शब्द कहता है । भाव एक ऐसा धर्म है, जो भवितारूप धर्मी के बिना नहीं रह सकता, अतः वह अपने भविता की नियमतः अपेक्षा करता है । पूर्व वाक्य में प्राण तत्त्व चर्चित हैं, अतः बुद्धि में सन्निहित होने के कारण प्राण को ही अपने भविता के रूप में वैसे ही वरण ( स्वीकार ) कर लेता है, जैसे “यस्योभयं हविरार्त्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेत्” ( तै. ब्रा. ३।७।१।७ ) यहाँ पर

भूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३५

आशान्तेभ्यो भूयांसं 'प्राणो वा आशाया भूयान' इत्यादिना सप्रपञ्चमुक्त्वा प्राणदर्शि- नश्चातिवादित्वम्—'अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापहुवीत' इत्यभ्यनुज्ञाय

भामती

इति । न चात्मनः प्रकरणादात्मैव बुद्धिरत्थ इति तस्यैव भूमा स्यादिति युक्तम् , सनत्कुमारस्य नामब्रह्मे- त्युपास्वेति प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् । अतद्विषयत्वे चोत्तरस्य प्रश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् । तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् । तदेतत् संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् । न च भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् , प्राणोपदेशानन्तरं तस्योपरमात्तदेव प्राण एव भूमेति स्थिते यद्यत्तद्विरोधापातः प्रतिभाति तत्तदंनुगुणतया नेयं, नीतं च भाष्यकृता । स्यादेतत्—एष तु वातिवदतीति तुशब्देन प्राणदर्शिनोऽतिवादिनो व्यवच्छिद्य सत्येनातिवादिनं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत आह ॐ प्राणमेव तु इति ॐ । ॐ प्राणदर्शिनश्चातिवादित्वम् इति ॐ ।

भामती-व्याख्या

आर्ति (नाश) रूप भावार्थ भविता रूप (नश्यमान) हवि की अपेक्षा करता है, जैसा कि शबरस्वामी ने कहा है—"मृष्यामहे हविषा विशेषणम्" (शा. भा. पृ. १४३६) । [दर्शपूर्णमास के प्रकरण में श्रुत 'यस्योभयमार्तिमार्च्छेदेन्द्रं पञ्चशरावमोदनं निर्वपेत्'—इस वाक्य पर विचार करते हुए सन्देह किया गया है कि क्या सायं प्रातःकालीन उभय हवि की आर्ति (नाश) इस नैमित्तिक कर्म का निमित्त है? अथवा अन्यतर हवि की आर्ति? पूर्वपक्षी ने कहा—"यथाश्रुतिरिति चेत्" (जै. सू. ६।४।२२) अर्थात् यथाश्रुत उभय हवि की आर्ति ही निमित्त है । सिद्धान्ती ने कहा—"न तल्लक्षणत्वादुपपातो हि कारणाम्" (जै. सू. ६।४।२३) । अर्थात् केवल आर्ति को निमित्त न मानकर आर्ति-विशिष्ट हविरूप द्रव्य को निमित्त मानना होगा, क्योंकि निर्विशेष या निष्प्रतियोगिक आर्ति (नाश) तो अत्यन्त अप्रसिद्ध है, अतः हवि के द्वारा आर्ति को विशेषित करना होगा, फलतः हविरार्ति (हवि के नाश) को उक्त नैमित्तिक कर्म का निमित्त मानना होगा, वह चाहे उभय हवि की आर्ति हो या एक हवि की, दोनों अवस्थाओं में नैमित्तिक कर्म करना होगा]।

यदि कहा जाय कि 'परमात्मा' के प्रकरण में 'भूमा' पठित है, अतः परमात्मा में ही भूमरूपता पर्यवसित होती है। तो वैसा नहीं कह सकते, क्योंकि भगवान् सनत्कुमार ने "नाम ब्रह्मेत्युपास्स्व"—ऐसा प्रतीकोपासना का उपदेश जिस प्रश्न के उत्तर में दिया, वह नारदीय प्रश्न भी तद्विषयक ही सिद्ध होता है, अतः परमात्मोपदेश का प्रकरण उठ ही नहीं सकता। यदि उत्तर वाक्य के विषय को प्रश्न-वाक्य का विषय नहीं माना जाता, तब प्रश्न और उत्तर का वैयधिकरण्य प्रसक्त होता है, भिन्नविषयक प्रश्नोत्तर-सन्दर्भ परस्पर व्याहतार्थक होने के कारण प्रमाणात्मक नहीं माना जा सकता। इस प्रकार प्राण-प्रकरण के सुलभ न होने के कारण सन्निधि-रूप स्थान प्रमाण के आधार पर प्राण तत्त्व में ही भूमरूपता प्राप्त होती है। यद्यपि यह परमात्मा के प्रकरण का अनुत्थान पूर्व पक्ष का साधक है, अतः भाष्यकार को पूर्वपक्ष-प्रदर्शन के अवसर पर इसका उद्भावन करना चाहिए था। तथापि जब भाष्यकार ने 'प्रकरणोत्थानात् परमात्मा भूमेत्यपि प्रतिभाति'—इस प्रकार प्रकरणोत्थान को संशय का कारण बताते हुए प्रकरणा-नुत्थान में पूर्वपक्ष की साधनता सूचित कर दी है, तब पूर्वपक्ष-प्रदर्शन के अवसर पर पुनः उसे कहने की आवश्यकता नहीं रह जाती। भूयस्त्वविषयक प्रश्न के द्वारा नारद ने परमात्मा की जिज्ञासा प्रकट की—ऐसा नहीं कह सकते, क्योंकि प्राणोपदेश के अनन्तर नारद आगे प्रश्न करने से उपरत ही हो जाता है। इस प्रकार प्राण ही भूमा है—ऐसा स्थिर हो जाने पर जो

३३६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ८

'एष तु वा अतिवदति यः सत्येनातिवदति' इति प्राणव्रतमतिवादित्वमनुकृष्यापरि- त्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्प्राणमेव भूमानं मन्यत इति गम्यते । कथं पुनः प्राणे भूमनि व्याख्यायमाने 'यत्र नान्यत्पश्यति' इत्येतद् भूम्नो लक्षणपरं वचनं व्याख्यायेतेति ? उच्यते—सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यव- हारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापि 'यत्र नान्यत्पश्यति' इत्येतल्लक्षणम् । तथा च श्रुतिः 'न शृणोति न पश्यति' इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्य- वस्थामुक्तवा 'प्राणाग्नय एवैतस्मिन्पुरे जाग्रति' ( प्र० ४।२।३ ) इति तस्यामेवाव- स्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति । यच्चै- तद् भूम्नः सुखत्वं श्रुतम्—'यो वै भूमा तत्सुखम्' (छा० ७।२३) इति, तदप्यविरुद्धम् , 'अत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिन् शरीरे सुखं भवति' ( प्र० ४।६ ) इति सुषु- प्त्यवस्थायामेव सुखश्रवणात् । यच्च 'यो वै भूमा तदमृतम् ( छा० ७।२४।१ ) इति,

भामती

नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः । एतदुक्तं भवति—नायं तुशब्दः प्राणातिवादित्वाद् व्यवच्छिनत्ति, अपि तु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रवणमननश्रद्धानिष्ठाकृतिभि- र्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते । तुशब्दो नामाद्यतिवादित्वाद्व्य- वच्छिनत्ति । न नामाद्याशान्तवाद्यतिवादो, अपि तु सत्यप्राणवाद्यतिवादीत्यर्थः । अत्र चागमाचार्योपदे- शाभ्यां सत्यस्य श्रवणम् , अथागमाविरोधिभ्यान्न्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते । श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृत्तः तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः । अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानानुभवः प्रादुर्भवति ।

भामती-व्याख्या

वाक्य उसके विरुद्ध प्रतीत होते हैं, वैसे सभी वाक्यों का अन्यथा नयन कर लेना चाहिए, भाष्यकार ने उसका दिग्दर्शन कर दिया है ।

यह जो शङ्का होती है कि "एष तु वा अतिवदति, यः सत्येनातिवदति" (छां. ७।१६।१) इस वाक्य में प्रयुक्त 'तु' शब्द के द्वारा प्राण-दर्शी की अतिवादिता का विच्छेद करके सत्यार्थदर्शी की अतिवादिता का कथन किया है, अतः प्राण में सत्यस्वरूप भूमरूपता क्योंकर सिद्ध होगी ? उस शङ्का का निरास करने के लिए भाष्यकार कहते हैं—"प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसमुक्त्वा प्राणदर्शिनश्चातिवादित्वमिति वदति" । अतिवादित्व का अर्थ है—'नाम से लेकर आशा पर्यन्त पदार्थों का अतिक्रमण करके वदनशीलत्व । सारांश यह है कि "एष तु"—यहाँ पर 'तु' शब्द प्राण-दर्शी की अतिवादिता का विच्छेद नहीं करता, अपि तु प्राण-दर्शी की अति- वादिता का परित्याग न कर उसी की अनुवृत्ति करते हुए सत्यात्मक प्राण का साक्षात्कार करने के लिए श्रवण, मनन, श्रद्धा, निष्ठा और कृति का व्रत-पालन रूप अतिवादित्व प्रतिपादित है । 'तु' शब्द नामादि की अतिवादिता से इस अतिवादिता-व्रत का विच्छेद करता है कि नामादि- वादी अतिवादी नहीं, अपि तु सत्यसंज्ञक प्राण-वादी अतिवादी है। यहाँ आगम और आचार्य के उपदेश से उसी सत्य का श्रवण, आगमाविरोधी न्यायों के द्वारा मनन, गुरु-शिष्य-सहाध्यायी आदि ईर्ष्या-रहित व्यक्तियों के द्वारा विचार करके अधिकारी पुरुष उस तत्त्व पर श्रद्धा का लाभ करता है । श्रद्धा के अनन्तर विषयान्तर में दोष-दर्शन कर उससे विरक्त होकर उसी तत्त्व पर ध्यानाभ्यास करता है—यही है इसी ( अधिकारी व्यक्ति ) की कृति ( प्रयत्न ) । उस तत्त्व के ध्यानाभ्यास से उसमें वह निष्ठा (एकतानता) उत्पन्न होती है, जिसके अनन्तर ही तत्त्व का साक्षात्कार हो जाता है । इस तथ्य को बौद्ध-जैसे अवैदिक दार्शनिकों ने भी स्वीकार

भूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३७

तदपि प्राणस्याविरुद्धं, 'प्राणो वा अमृतम्' (कौ० ३।२) इति श्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य 'तरति शोकमात्मवित्' इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः। तथा हि—'प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः' (छा० ७।१५।१) इति प्राणमेव सर्वात्मानं करोति। यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम्' इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभवति वैपुल्यात्मिका भूमरूपता प्राणस्य। तस्मात्प्राणो भूमेत्येवं प्राप्तम्।

तत इदमुच्यते—परमात्मैवेह भूमा भवितुमर्हति, न प्राणः। कस्मात् ? संप्रसादादध्युपदेशात्। संप्रसाद इति सुषुप्तं स्थानमुच्यते, सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्। बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात्, तस्यां च संप्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र संप्रसादोऽभिप्रेयते; प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः। प्राण एव चेद् भूमा स्यात्स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्

भामती

तदेतदाहुः। अध्याहः — 'भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्' इति। भावनाप्रकर्षपर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति। तस्य तस्मात्प्राण एव भूमेति प्राप्तेऽभिधीयते—एष तु वाऽतिवदति यः सत्येनातिवदतीत्युक्त्वा भूमोच्यते, तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह। परमार्थश्च परमात्मैव। अतो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते। तथा चैष तु वाऽतिवदति यः सत्येनातिवदतीति ब्रह्मणोऽतिवादित्वं श्रुत्याऽन्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्याऽवगमितं कथमिव सन्निधानमात्रात् श्रुत्याद्यपेक्षदातिदुर्बलात्कथञ्चित्प्राणविषयत्वेन शक्यं व्याख्यातुम् ? एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव। एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान् सनत्कुमारः सोपाना-

भामती-व्याख्या

करते हुए कहा है—"भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्" (न्या० विन्दु० १।११) अर्थात् भूतार्थ (सत्य अर्थ) का ध्यान करते-करते उसमें जो पर्यन्तता (पूर्णकल्पता या निष्ठा) का लाभ होता है, उससे योगी को तत्त्व-साक्षात्कार प्रादुर्भूत होता है। फलतः प्राण तत्त्व ही यहाँ भूमा निश्चित होता है।

सिद्धान्त—"एष तु वा अतिवदति यः सत्येनातिवदति"—ऐसा कह कर तुरन्त भूमा का उल्लेख किया गया है। श्रुतिगत 'सत्य' शब्द परमार्थ में रूढ़ होने के कारण श्रवणमात्र से जिस परमार्थ तत्त्व का बोध कराता है, वह परमार्थ तत्त्व एकमात्र है—परमात्मा। उस परमात्मा से भिन्न समस्त प्राणादि प्रपञ्च वस्तुतः असत्य है। हाँ, व्यावहारिक दृष्टि से उस प्रपञ्च को आपेक्षिकरूप से सत्य कह दिया जाता है। अतः "एष तु वा अतिवदति यः सत्येनाभिबदति"—यह श्रुति परमात्मदर्शी (ब्रह्मदर्शी) को ही अतिवादी कहती है। श्रुति प्रमाण लिङ्ग, वाक्य, प्रकरण, स्थान और समाख्यारूप पाँचों प्रमाणों से निरपेक्ष एवं प्रबल माना जाता है। सन्निधानरूप स्थान प्रमाण अपने पूर्ववर्ती प्रकरण, वाक्य और लिङ्ग के द्वारा श्रुति का कल्पक होने के कारण श्रुति-सापेक्ष माना जाता है। अत एव वह अत्यन्त दुर्बल होने के कारण 'सत्य' शब्द को प्राणपरक क्योंकर सिद्ध कर सकेगा ? इस प्रकार प्राण-प्रकरण का विच्छेद एवं ब्रह्म-प्रकरण का आरम्भ हो जाता है, उसी ब्रह्म-प्रकरण में निर्दिष्ट 'भूमा' शब्द कभी भी प्राणविषयक नहीं हो सकता किन्तु वह ब्रह्मपरक ही स्थिर होता है। इस प्रकार अनात्मज्ञ एवं आत्मतत्त्व के जिज्ञासु नारद को जिज्ञासित परमात्म तत्त्व का ही

४३

३३८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ८

स्यात् । नहि नामैव नाम्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम् । किं तर्हि ? नाम्नोऽन्य- दर्थान्तरमुपदिष्टं वागाख्यम् 'वाग्वाव नाम्नो भूयसी' इति । तथा वागादिभ्योऽप्या प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् , तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणा- दर्थान्तरभूतो भवितुमर्हति । नन्विह नास्ति प्रश्नः- 'अस्ति भगवः प्राणाद् भूयः' इति । नापि प्रतिवचनमस्ति प्राणाद्वाव भूयोऽस्तीति, कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः- 'एष तु वा अतिवदति यः सत्येनातिवदति' इति । तस्मान्नास्ति प्राणादध्युपदेश इति । अत्रो- च्यते- न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुं, विशेष- वादात् 'यः सत्येनातिवदति' इति । ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति । कथम् ? यथैषोऽग्निहोत्री यः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रित्वं, केन तर्हि ? अग्निहोत्रेणैव, तत्सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते । तथा 'एष तु वा अतिवदति यः सत्येनातिवदति' इत्युक्ते, न सत्यवदनेनातिवादित्वम् । केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैव । सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति । नेति ब्रूमः, श्रुत्यर्थ- परित्यागप्रसङ्गात् । श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते 'यः सत्येनातिवदति सोऽतिवदति' इति । नात्र प्राणविज्ञानस्य संकीर्तनमस्ति । प्रकरणात्तु प्राणविज्ञानं संबध्येत । तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् । प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न संगच्छेत 'एष तु वा अतिवदति' इति । 'सत्यं त्वेव विजिज्ञासितव्यम्' ( छा० ७।१६ ) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति । तस्माद्यथैकवेदप्रशंसायां प्रकृतायामेष तु महाब्राह्मणो यश्चतुरो वेदानधीत इत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद् द्रष्टव्यम् । न च प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्य- मिति नियमोऽस्ति, प्रकृतसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः । तत्र प्राणान्त- मनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति - यत्प्राणविज्ञा-


भामती

रोहणन्यायेन स्थूलादारभ्य तत्तद्भूमन्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास । न च प्रश्नपूर्वताप्रावाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् । विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तौ प्राणस्यान्यायत्ततोच्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।


भामती-व्याख्या

उपदेश करूँगा—ऐसा मन में सोचकर भगवान् सनत्कुमार ने नारद को एक सीढ़ी से दूसरी और दूसरी से तीसरी पर—इस प्रकार ऊपर ऊपर चढ़ाने के लिए नामादि से लेकर प्राण- पर्यन्त स्थूल पदार्थों में भूमरूपता का उपदेश कर अत्यन्त दुर्ज्ञेय ब्रह्म तत्त्व तक पहुँचाया । सभी प्रतिपादन प्रश्नपूर्वक ही होता है—ऐसा कोई नियम नहीं, जिज्ञासु का कल्याण करने के लिए बिना उसके पूछे भी शास्त्रों और आचार्यों के द्वारा उपदेश किया जाता है—इसका विस्तार से प्रदर्शन भाष्यकार ने अपने नितान्त सुगम भाष्य के द्वारा किया है ।

यदि विज्ञानादि साधन-परम्परा से मनन-श्रद्धादि का कथन और प्राण-पर्यन्त उपदेश मात्र से प्रकरण की समाप्ति हो जाती, तब प्राण में "आत्मतः प्राणः" ( छां० ७।२६।१ ) इस प्रकार आत्माधीनता प्रदर्शित न होती, किन्तु आत्माधीनता के प्रतिपादन से प्रकरण की समाप्ति नहीं मानी जा सकती, अतः यह प्राण का प्रकरण न होकर जिस आत्मतत्त्व की आश्रितता प्राण में प्रतिपादित है, उसी आत्मतत्त्व का प्रकरण निश्चित होता है ।

भूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३९

नेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् 'एष तु वा अतिवदति यः सत्येनातिवदति' इति। तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्। 'सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१) इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय 'सोऽयं भगवः सत्येनातिवदानि' इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमान-मुपदिशति। तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम्, तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधि भूम्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति। एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति। प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वृत्त्याऽऽत्मत्व-मस्ति। न चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, 'नान्यः पन्था विद्यतेऽयनाय (श्वे० ६।१५) इति श्रुत्यन्तरात्। 'तं मा भगवान् शोकस्य पारं तारयतु' (छा० ७।१।३) इति चोपक्रम्योपसंहरति - 'तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सन-त्कुमारः' (छा० ७।२६।२ इति। तम इति शोकादिकारणमविद्योच्यते। प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत। 'आत्मतः प्राणः' (छा० ७।२६।१) इति च ब्राह्मणम्। प्रकरणान्ते परमात्मविवक्षा भविष्यति, भूमा तु प्राण एवेति चेत् - न, 'स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि' (छा० ७।२४।१) इत्यादिना भूम्न एवा प्रकरणसमाप्तेरनुकर्षणात्। वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥

धर्मोपपत्तेश्च ॥ ९ ॥

अपि च ये भूम्नि श्रूयन्ते धर्मास्ते परमात्मन्युपपद्यन्ते। 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' इति दर्शनादिव्यवहाराभावो भूमन्यवगमयति। परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः, 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन


भामती

शङ्कते ॐ प्रकरणान्ते इति ॐ। प्राणस्य प्रकरणसमाप्तावित्यर्थः। निराकरोति ॐ न, स भगवः इति ॐ। संदंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद् भूमा प्राणः प्राणस्यैतत्प्रकरणं भवेत्। तच्चायुक्त-मित्युक्तम् ॥ ८ ॥

न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः ॐ धर्मोपपत्तेश्च ॐ।


भामती-व्याख्या

शङ्कावादी शङ्का करता है—"प्रकरणान्ते परमात्मविवक्षा भविष्यति, भूमा तु प्राण एव"। अर्थात् प्राण का प्रकरण समाप्त हो जाने पर ही परमात्मा की विवक्षा हो सकेगी, किन्तु प्राण का प्रकरण समाप्त नहीं हुआ, अतः भूमा प्राण ही है। उक्त शङ्का का निराकरण किया जाता है—"न, स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि" (छां. ७।२४।१) इत्यादिना भूम्न एवाप्रकरणसमाप्तेरनुकर्षणात्"। आशय यह है कि भूमा-निर्देश से पूर्व "यः सत्येनातिवदति"—इस प्रकार सत्यरूप परमात्मा का उल्लेख है और भूमा-निर्देश के पश्चात् "स भगवः कस्मिन् प्रतिष्ठितः"—इस प्रकार परमात्मा का उल्लेख है, अतः परमात्मा के उल्लेख से संदंशित होने के कारण भूमा की परमात्मरूपता निश्चित होती है। वह भूमा यदि प्राण होता, तब यह प्रकरण प्राण का ही माना जाता, किन्तु प्राण का भूमा होना युक्त नहीं—यह कहा जा चुका है ॥ ८ ॥

केवल श्रुति प्रमाण के आधार पर ही परमात्मा में भूमरूपता निश्चित नहीं होती, अपितु लिङ्ग प्रमाण से भी वह निश्चित होती है—ऐसा सूत्रकार ने कहा है—"धर्मोपपत्तेश्च"।

१४० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १०

कं पश्येत्' (बृ० ४।३।१५) इत्यादिश्रुत्यन्तरात्। योऽप्यसौ सुषुप्तावस्थायां दर्शना- दिव्यवहाराभाव उक्तः सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तो न प्राणस्वभावविवक्षया, परमात्मप्रकरणात्। यदपि तस्यामवस्थायां सुखमुक्तं, तदप्यात्मन एव सुखस्वरूपत्वविव- क्षयोक्तम्। यत आह—'एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ० ४।३।३२) इति। इहापि 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्' इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति। 'यो वै भूमा तदमृतम्' इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति। विकाराणाममृतत्वस्या- पेक्षिकत्वात्, 'अतोऽन्यदार्तम्' (बृ० ३।४।२) इति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवो- पपद्यन्ते, नान्यत्र। तस्माद् भूमा परमात्मेति सिद्धम् ॥ ९ ॥

( ३ अक्षराधिकरणम्। सू० १०–१२ )

अक्षरमम्बरान्तधृतेः ॥ १० ॥

'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति। स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु' (बृ० ३:८।७,८) इत्यादि श्रूयते।

तत्र संशयः—किमक्षरशब्देन वर्ण उच्यते, किंवा परमेश्वर इति। 'तत्राक्षर- समाम्नाय' इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् , प्रसिद्धव्यतिक्रमस्य चायुक्तत्वात् , 'ॐकार एवेदं सर्वम्' (छा० २।२३।३) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणाद् , वर्ण एवाक्षरशब्द इति।

भामती

यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति ꣻयोऽप्यसौ सुषुप्तावस्थायाम् इतिꣻ । सुषुप्तावस्थायामिन्द्रियाद्यसङ्गत्वमात्मन एव। न प्राणः, ꣻपरमात्मप्रकरणात्ꣻ। "अन्यदार्तं" विनश्वर- मित्यर्थः। अतिरोहितार्थमन्यत् ॥ ९ ॥

अक्षरशब्दः समुदायप्रसिद्ध्या वर्णेषु रूढः, परमात्मनि चावयवप्रसिद्ध्या यौगिकः। अवयव- प्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसीति वर्णा एवाक्षरम्। न च वर्णेऽवकाशस्योतत्वप्रोतत्वे नोपपद्येते,

भामती-व्याख्या

पूर्वपक्षी ने जो कथित धर्मों की उपपत्ति अन्यथा की, उसका अनुवाद करके भाष्यकार खण्डन करते हैं—"योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः सोऽप्यात्मन एवासङ्गत्व- विवक्षयोक्तः" । अर्थात् सुषुप्ति अवस्था में इन्द्रियादि से असङ्ग रहनेवाला परमात्मा ही है, प्राण नहीं, क्योंकि परमात्मा का ही यह प्रकरण है। "अन्यदार्तम्"—यहाँ 'आर्तम्' का अर्थ है—विनश्वरम्। शेष भाष्य स्पष्टार्थक है ॥ ९ ॥

विषय—"स होवाचैतद्वै तदक्षरं गार्गि" (बृह. उ. ३।८।७) यहाँ 'अक्षर' शब्द विचारणीय है।

संशय—उक्त श्रुति में 'अक्षर' शब्द स्वर-व्यञ्जनात्मक वर्ण का वाचक है? अथवा ब्रह्म का?

पूर्वपक्ष—'अक्षर' शब्द समुदाय शक्ति (रूढि) को लेकर अकारादि वर्णों में प्रयुक्त होता है और अवयव-शक्ति को लेकर 'न क्षरः अक्षरः'—इस प्रकार परमात्मा में यौगिकरूप

अक्षरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३४१

भामती सर्वस्यैव रूपधेयस्य नामधेयात्मकत्वात् । सर्वं हि रूपधेयं नामधेयसम्भिन्नमनुभूयते, गौरयं वृक्षोऽयमिति । न चोपायत्वात्तत्सम्भेदसम्भवः । नहि धूमोपाया वह्निधीर्धूमसम्भिन्नं वह्निमवगाहते, धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद् वह्निरिति । भवति तु नामधेयसम्भिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति । अपि च शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गेन्द्रियजन्मनि नामसम्भेदो दृष्टः । तस्मान्नामसम्भिन्नाः पृथिव्यादयोऽम्बराान्ता नाम्ना प्रथिताश्च विद्वाश्च, नामानि चोङ्कारात्मकानि तद्व्याप्तत्वात् । तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णानि एवमोङ्कारेण सर्वा वागिति श्रुतेः । अत ॐकारात्मकाः पृथिव्यादयोऽम्बराान्ता इति वर्णा एवाक्षरं न परमात्मेति प्राप्तम् ।

भामती-व्याख्या से प्रयुक्त होता है । 'योगाद् रूढिर्बलीयसी'—इस न्याय के अनुसार यहाँ 'अक्षर' शब्द अकारादि वर्णों का ही बोधक है । श्रुति ने जो यह कहा है कि "कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । स होवाचैतद्वै तदक्षरम्" ( बृह् उ. ३।८।७ ) अर्थात् उस अक्षर में ही आकाश ओत-प्रोत है। वह श्रुति का कहना भी वर्णात्मक अक्षर में घट जाता है, क्योंकि नामधेय ( शब्द ) और रूपधेय [ "भागरूपनामभ्यो धेयः" ( वार्तिक ५।४।३५ ) के द्वारा विहित स्वार्थार्थक धेय प्रत्ययान्त 'रूपधेय' शब्द से विवक्षित ] पदार्थ मात्र में तादात्म्य प्रतिपादित है—"वाचारम्भणं विकारो नामधेयम्" ( छां. ६।१।६ ) । अत एव सभी रूपधेय ( अभिधेय प्रपञ्च ) नामधेय ( शब्द ) से सम्भिन्न ( तादात्म्यापन्न ) ही प्रतीत होता है—गौरयम् [ यह चतुष्पात् पिण्ड गोः है अर्थात् गकार, अकार और विसर्गरूप शब्दात्मक है। आचार्य भर्तृहरि ने प्रपञ्च को शब्द का विवर्त या परिणाम माना है— अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ ( वाक्यप. १।१ ) शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः ॥ ( वाक्यप. १।२० ) स्वयं ग्रन्थकार ने विवर्त का स्वरूप बताते हुए कहा है—"एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत्" ( वाक्यप. पृ. ५ ) इस प्रकार अक्षर ( शब्द ) में आकाशादि पदार्थों का ओत-प्रोत होना उपपन्न हो जाता है ] ।

यदि कहा जाय कि शब्द विषय-विशिष्ट ज्ञान का उपाय ( जनक ) होने के कारण विषय और ज्ञान से सम्भिन्न प्रतीत होता है, वस्तुतः अर्थरूप शब्द नहीं होता। तो वैसा नहीं कह सकते, क्योंकि धूम अग्नि-विशिष्ट ज्ञान का उपाय होने पर भी 'धमोऽग्निः'—इस प्रकार विषय से तादात्म्यापन्न प्रतीत नहीं होता, प्रत्युत 'धूमाद् अग्निः'—इस प्रकार वैयधिकरण्य-व्यवहार ही होता है। अतः शब्द और अर्थ का अधिष्ठान और अध्यस्तभाव होने के कारण ही सम्भेद ( तादात्म्य ) व्यवहार मानना होगा—'डित्थोऽयम्' । दूसरी बात यह भी है कि जो रूपधेय-प्रत्यय ( अर्थविशिष्ट-ज्ञान ) शब्द के द्वारा उत्पन्न न होकर प्रत्यक्ष या अनुमानादि के द्वारा उत्पादित होता है, वहाँ भी शब्द और अर्थ का सामानाधिकरण्य देखा जाता है । अतः शब्द में अर्थ अध्यस्त होने के कारण शब्द के द्वारा अर्थ ग्रथित अनुविद्ध या तादात्म्यसात् किया जाता है । "तद्यथा शंकुना सर्वाणि पर्णानि सन्तृष्णानि, एवमोंकारेण सर्वा वाक् सन्तृष्णा, ओंकार एवेदं सर्वम्" ( छां. २।२३।३ ) इस श्रुति में स्पष्ट कहा गया है कि जैसे किसी शंकु में सभी पत्ते पिरोए होते हैं, उसी प्रकार ओंकार में सभी शब्द गुँथे हैं, सभी शब्दों में व्याप्त होने के कारण ओंकार सर्वशब्दात्मक है, और समस्त पृथिव्यादि प्रपञ्च ओंकारात्मक है, अतः पृथिवी से लेकर अम्बर ( आकाश ) पर्यन्त सकल पदार्थ वर्णात्मक अक्षर में ओत-प्रोत होने के कारण उक्त श्रुति में 'अक्षर' पद से ओंकारादि वर्ण विवक्षित हैं,

३४२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १०

एवं प्राप्त उच्यते— पर एवात्माऽक्षरशब्दवाच्यः। कस्मात्? अम्बरात्तधृतेः— पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य 'आकाश एव तदोतं च प्रोतं च' इत्याकाशे प्रतिष्ठितत्वमुक्त्वा 'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इत्यनेन प्रश्नेनेदमक्षरमवतारितम्। तथा चोपसंहृतम्— 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति। न चेयमम्बरात्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदपि 'ॐकार एवेदं सर्वम्' इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात् स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरत्यश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म ॥ १० ॥


भामती

एवं प्राप्तेऽभिधीयते अक्षरं परमात्मैव, न तु वर्णाः। कुतः? अम्बरात्तधृतेः। न खल्वम्बरात्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति, किन्तु परमात्मैव। तेषां परमात्मविकारत्वात्। न च नामधेयात्मकं रूपधेयमिति युक्तम्। स्वरूपभेदादुपायभेदादर्थक्रियाभेदाच्च। तथाहि— शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते। रूपधेयानि तु घटपटादीनि घटत्वपटत्वाविसामान्यात्मकानि चक्षुरादीन्द्रियग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति कुतो नामसम्भेदः? न च डित्थोऽयमिति शब्दसामानाधिकरण्यप्रत्ययः। न खलु शब्दात्मकोऽयं पिण्ड इत्यनुभवः; किंतु यो नानादेशकालसंप्लुतः पिण्डः सोऽयं सन्निहितदेशकाल इत्यर्थः।


भामती-व्याख्या

परमात्मा नहीं—यह पर्यवसित हो जाता है।

सिद्धान्त— अवयव शक्ति के आधार पर 'अक्षर' शब्द परमात्मा का ही बोधक है, वर्ण का नहीं, क्योंकि यहाँ 'अक्षर' शब्द से वही तत्त्व विवक्षित है, जिसने अम्बर-पर्यन्त (पृथिवी से लेकर आकाश तक सभी) जगत् को अपने में धारण कर रखा है। अम्बरान्त विश्व का धारण वर्ण कभी नहीं कर सकते, किन्तु परमात्मा ही प्रपञ्च को धारण कर सकता है, क्योंकि निखिल जगत् परमात्मा का ही विकार (विवर्त) है। प्रकृति और विकार में स्वरूप, उपाय (प्रमाण) अर्थक्रिया का भेद नहीं होता, किन्तु शब्द और अर्थ में स्वरूपादि का विस्पष्ट भेद पाया जाता है—शब्द का स्वरूप वर्णात्मक, उपाय (ग्राहक प्रमाण) श्रोत्र और अर्थक्रिया (प्रयोजन या उपयोग) विषयावबोधन है किन्तु अभिधेय अर्थ का स्वरूप घट-पटाद्यात्मक, ग्राहक प्रमाण चक्षुरादि इन्द्रिय और अर्थक्रिया जलादि का धारण है। इस प्रकार अत्यन्त भिन्न-भिन्न परिलक्षित होनेवाले नाम (शब्द) और रूप (अर्थ) का तादात्म्य सम्भव नहीं हो सकता। यह जो कहा जाता है कि 'डित्थोऽयम्'—यहाँ पर शब्द और अर्थ का तादात्म्य प्रतीत होता है। वह कहना उचित नहीं, क्योंकि डित्थोऽयम्'—इस प्रतीति का 'डित्थात्मकोऽयं पिण्डः' ऐसा अभिप्राय नहीं, किन्तु 'डित्थ' जिस पदार्थ की संज्ञा है, ऐसा विविध देश और काल में जो स्मर्यमाण पिण्ड होता है, वही यह दिखाई दे रहा है—इसी भाव का पुरातन पद्य मिश्रजी ने तात्पर्य टीका (पृ० २३०) में उद्धृत किया है—

देवदत्तादिशब्देन हृदयस्थेन यः स्मृतः।
चक्षुषापि स एवायं सम्प्रति दृश्यते ॥

स्मर्यमाण संज्ञा शब्द का आपाततः सम्बन्ध दृश्यमान पिण्ड के साथ अवश्य अवभासित होता है, किन्तु वह उपलक्षक के रूप में तटस्थ ही होता है, विकल्प ज्ञान में समाविष्ट नहीं होता, जैसा कि मिश्रजी ने ही अन्यत्र (ता० टी० पृ० २३० में) कहा है—"शब्दस्तु सम्पातायातो न निवेशयत्यात्मानम् इन्द्रियजे विकल्पे।"

अक्षरस्य ब्रह्मत्वम् ]हिन्दीसहितभामतीसंवलितम्३४३

भामती

संज्ञा तु गृहीतसम्बन्धैरत्यन्ताभ्यासात् पिण्डाभिनिवेशिन्येव संस्कारोद्बोधसम्पातायाता स्मर्यते । यथाहूः—

'यत्तत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥
संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥' इति ।

न च वर्णातिरिक्ते स्फोटात्मनि अलौकिकेऽक्षरपदप्रसिद्धिरस्ति लोके । न चैष प्रामाणिक इत्युपरिष्टात् प्रवेदयिष्यते । निरूपितं चास्माभिस्तत्त्वबिन्दौ । तस्माच्छ्रोत्रग्राह्याणां वर्णानामम्बराद्यधृतेरनुपपत्तेः समुदायप्रसिद्धिबाधनाद् अवयवप्रसिद्ध्या परमात्मैवाक्षरमिति सिद्धम् । ये तु प्रधानं पूर्वपक्षयित्वाऽ-


भामती-व्याख्या

जो सम्पादक ने लिखा है—"संज्ञा तु पिण्डाभिनिवेशिन्येव— इत्यत्र पिण्डानिवेशिन्येव इति युक्तमाभाति" । वह अत्यन्त युक्ति-युक्त है, क्योंकि न्यायवार्तिक की तात्पर्यटीका में वैसा ही सन्दर्भ उपलब्ध है ] । पिण्ड को देखकर उसकी संज्ञा का स्मरण उन व्यक्तियों के द्वारा किया जाता है, जिन्होंने संज्ञा और संज्ञी की सङ्गति का ग्रहण पहले कर रखा है । इस सङ्गति-ग्रहण से जनित संस्कार जब-जब उद्बुद्ध होते हैं, तब-तब संज्ञा का स्मरण होता रहता है, अत एव संज्ञीरूप पिण्ड को ही वृद्ध न्यायाचार्यों ने संज्ञा का स्मारक माना है—

यत् संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥
संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥

[ किसी पिण्ड को देखकर जो उसकी संज्ञा (वाचक शब्द) का स्मरण होता है, वह भी पिण्डगत शब्द-तादात्म्यापत्तिरूप हेतु से जनित नहीं होता कि उसका गमक हो जाता । सन्निहित पिण्ड ही प्रत्यक्ष होकर उस संज्ञा का स्मरण कराने में सक्षम होता है । स्मर्यमाण संज्ञा पिण्ड की प्रत्यक्षता का बाधक नहीं, संज्ञा तटस्थ (विषय में निविष्ट न) होने के कारण विषय के स्वरूप की आच्छादिका (व्यवसायिका) नहीं होती । फलतः पिण्डविषयक सविकल्पक में भी अभिलाप-संसर्ग-विषयकत्वरूप पारिभाषिक कल्पना का अभाव होने के कारण प्रस्तुत लक्षण घट जाता है, जो कि बौद्धों के लिए अनिष्ट और नैयायिकादि के लिए अभीष्ट है ] ।

वर्णों से अतिरिक्त स्फोटनाम के अलौकिक शब्द के लिए तो लोक में कहीं भी 'अक्षर' पद का व्यवहार नहीं होता और स्फोट कोई प्रामाणिक पदार्थ भी नहीं—यह आगे चलकर कहा जायगा और हम (वाचस्पति मिश्र) ने तत्त्वबिन्दु में स्फोट की अप्रामाणिकता पर पुष्कल प्रकाश डाला है—

मीयमानपरित्यागो बाधके नासति स्फुटे ।
दृष्टात् कार्योपपत्तौ नादृष्टपरिकल्पना ॥ ( त० बिन्दु० पृ० ८ )

[ अर्थात् जब तक कोई प्रबल बाधक उपलब्ध न हो, तब तक प्रमीयमान् (प्रमाण-सिद्ध) वर्णात्मक शब्द का परित्याग नहीं किया जा सकता । अनुभव-सिद्ध वर्णरूप दृष्ट साधन से ही जब अर्थावबोधरूप कार्य सम्पन्न हो जाता है, तब स्फोटरूप अदृष्ट (अननुभूयमान) पदार्थ की कल्पना नहीं की जा सकती ] । परिशेषतः श्रोत्र के द्वारा गृहीत होनेवाले वर्णात्मक अक्षर में पृथिव्यादि आकाशान्त भूत-वर्ग का धारण सम्भव नहीं, एवं 'अक्षर' पद का समुदाय-प्रसिद्ध

३४४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ११

स्यादेतत्—कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकार- णवादिनोऽपीयमुपपद्यते । कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ? अत उत्तरं पठति —

सा च प्रशासनात् ॥ ११ ॥

सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म । कस्मात् ? प्रशासनात् । प्रशासनं


भामती

नेन सूत्रेण परमात्मैवाक्षरमिति सिद्धान्तयन्ति, तैरम्बरान्तधृतेरित्यनेन कथं प्रधानं निराक्रियत इति वाच्यम् । अथ नाधिकरणत्वमात्रं धृतिः अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः— 'एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इति । तथाप्यम्बरान्तधृतेरित्यनर्थकम् , एतावद्वक्तव्यम्— अक्षरं प्रशासनादिति । एतावत्तैव प्रधाननिराकरणसिद्धेः । तस्माद्वर्णाक्षरतानिरिक्रियेवास्यार्थः । न च स्थूलादीनां वर्णेष्वप्राप्तेरस्थूलमित्यादिनिषेधानुपपत्तेर्वर्णेषु शङ्कव नास्तीति वाच्यम् , नहावश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नित्यानुवादानां दर्शनात् । यथा नान्तरिक्षे न दिवीत्यग्निनयननिषेधा- नुवादः । तस्माद् यत्किञ्चिदेतत् ॥ १० ॥ प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाऽव्याकृते वा सम्भवति । न च मुख्यार्थसम्भवे कूलं


भामती-व्याख्या

(रूढ़) कोई अर्थ लोक में प्रसिद्ध नहीं, अतः 'न क्षरति'—इस प्रकार योगार्थरूप परब्रह्म ही विश्व का आधार सिद्ध होता है।

श्री भास्कराचार्य ने इस अधिकरण में शांकर मतानुसार किए गए पूर्वपक्ष का खण्डन करते हुए प्रधान (प्रकृति) तत्त्व को पूर्वपक्ष में प्रस्तुत किया है—"केचिदक्षरशब्दस्य वर्णे प्रसिद्धत्वादक्षरमोंकार इति पूर्वपक्षयन्ति वैयाकरणदर्शनं च स्फोटशब्द इत्यवतार्य गकारादि वर्णा एव शब्दा इति व्यवस्थापयन्ति । तदेतदधिकरणेनासम्बद्धम् । प्रधानस्य तु युज्यत, विकारधर्माणं कारणप्रसक्तेः" (भास्कर० पृ० ५४) । वह भास्कीय प्रस्तुतीकरण उचित नहीं, क्योंकि "अम्बरान्तधृतेः"—इस हेतु के द्वारा प्रधानतत्त्व का निराकरण क्योंकर होगा ? क्योंकि अम्बरान्त भूत-वर्ग की धारकता प्रधान में भी उपपन्न है।

भास्कराचार्य ने जो "सा च प्रशासनात्" (ब्र. सू. १।३।११) इस सूत्र के द्वारा प्रधान का निराकरण करते हुए कहा है—"एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृह. उ. ३।८।९) इति प्रशासनमाज्ञापयितृत्वं चेतनधर्मः"। वह कहना भी उचित नहीं, क्योंकि इस प्रकार अम्बरान्तधृति का अर्थ यदि प्रशासनाधिकरणता मान लिया जाता है, तब भी "अम्बरान्तधृतेः"—यह सूत्रांश अनर्थक हो जाता है, तब तो "अक्षरं प्रशासनात्"— ऐसा एक सूत्र बना देना चाहिए था, इतनेमात्र से प्रधान-तत्त्व का निराकरण सम्पन्न हो जाता । अतः वर्णात्मक अक्षर का निराकरण करना ही यहाँ उचित है, प्रधान का नहीं।

भास्कराचार्य ने जो कहा है कि "'अस्थूलादि च तस्मिन्नुपपत्तेः" अर्थात् वर्णात्मक अक्षर में स्थूलत्वादि प्रसक्त (प्राप्त) ही नहीं, तब 'अस्थूलमनणु" (बृह. उ. ३।८।८) इत्यादि वाक्यों के द्वारा वर्णात्मक अक्षर में स्थूलत्वादि का प्रतिषेध अप्रसक्त-प्रतिषेध होने के कारण अनुपपन्न है। वह कहना भी उचित नहीं क्योंकि निषेध सदैव प्राप्तिपूर्वक ही होता है— ऐसा कोई नियम नहीं, अप्राप्त-स्थल पर भी प्राप्त नित्य निषेध का अनुवाद देखा जाता है, जैसे कि इष्टिका-चयन के सन्दर्भ में कहा गया है—"नान्तरिक्षे न दिवि" अर्थात् अग्निचयन कर्म के लिए जो श्येन पक्षी के आकार का स्थण्डिल बनाया जाता है, उसके लिए 'अन्तरिक्ष (आकाश) और द्यु में ईंट की चुनाई नहीं करनी चाहिए'—ऐसा निषेध अप्रसक्त-प्रतिषेध

अक्षरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३४५

हीह श्रूयते-‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ० ३।८।९) इत्यादि । प्रशासनं च पारमेश्वरं कर्म । नाचेतनस्य प्रधानस्य प्रशासनं भवति । न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥११॥

अन्यभावव्यावृत्तेश्च ॥ १२ ॥

अन्यभावव्यावृत्तेश्च कारणाद् ब्रह्मैवाक्षरशब्दवाच्यम् । तस्यैवाम्बरात्तधृतिः कर्म नान्यस्य कस्यचित् । किमिदमन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः, तस्माद् व्यावृत्तिरन्यभावव्यावृत्तिरिति । एतदुक्तं भवति-यदन्यद् ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावादिदमम्बरात्तविधारणमक्षरं व्यावर्तयति श्रुतिः-‘तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ’ बृ० ३।८।११) इति । तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि संभवति, द्रष्टृत्वादिव्यपदेशस्तु न संभवति, अचेतनत्वात् । तथा ‘नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ’ इत्यात्मभेदप्रतिषेधात् न शारीरस्योपाधिमतोऽक्षरशब्दवाच्यत्वम्, ‘अचक्षुष्कमश्रोत्रमवागमनः’ (बृ० ३।८।८) इति चोपाधिमत्ताप्रतिषेधात् । न हि

भामती

पिपत्तिषतीतिवद्गौणस्त्वसमुचितमिति भावः ॥ ११ ॥

अम्बरात्तविधारणस्याक्षरस्येश्वराद्यदन्यद्वर्णा वा प्रधानं वाऽव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिः-तद्वा एतदक्षरं गार्गीत्यादिका । अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आह ॐ तथा इति ॐ । नान्यद्वित्यादिकया हि श्रुत्याऽऽत्मभेदः प्रतिषिध्यते । तथा चोपाधिभेदभिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः । इतोऽपि न शारीरस्याक्षरशब्दतेत्याह ॐ अचक्षुष्कम् इति ॐ । अक्षरस्य चक्षुराद्युपाधि वारयन्ती श्रुतिरोपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः । तस्माद्ब्रह्मण-

भामती-व्याख्या

है, क्योंकि आकाश में निराधार ईंटों का चयन कभी सम्भव ही नहीं, अतः आकाश में स्वतः सिद्ध चयनाभाव का अनुवादमात्र उक्त वाक्य के द्वारा किया जाता है । फलतः भास्करीय आलोचना निराधार है ॥ १० ॥

“एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” (बृह. उ. ३।८।९) इस श्रुति में प्रतिपादित प्रशासन चेतन का धर्म है, अतः प्रधान और अव्यक्तादि अचेतन पदार्थों में नहीं रह सकता । यद्यपि “कूलं पिपतिषति”-इत्यादि प्रयोगों के आधार पर इच्छादि चेतन-धर्मों का गौणरूपेण व्यवहार जड़ पदार्थों में भी हो जाता है। तथापि मुख्यार्थ के सुलभ होने पर गौणार्थ का ग्रहण नहीं किया जाता, अतः प्रक्रान्त प्रशासक परमात्मा ही सिद्ध होता है, शब्द, प्रधान या अव्यक्त नहीं ॥ ११ ॥

आकाशान्त पदार्थों के विधारक ब्रह्मरूप अक्षर तत्त्व से भिन्न जो वर्ण (शब्द), प्रधान (प्रकृति) या अव्यक्तरूप भाव पदार्थ आशङ्कित हैं, उन भाव पदार्थों से इस सिद्धान्तित ब्रह्मरूप अक्षरतत्त्व को श्रुति भिन्न कर रही है-“तद्वा एतदक्षरं गार्गि अदृष्टं दृष्टृ” (बृह. उ. ३।८।११) । अर्थात् यह ब्रह्मरूप अक्षर तत्त्व शब्दादि जड़ पदार्थों से भिन्न है, क्योंकि यह द्रष्टा है, प्रधांनादि जड़ पदार्थों को द्रष्टा नहीं कह सकते। इसी सूत्र के द्वारा जीव में भी अभिमत अक्षरत्व का निरास हो जाता है, क्योंकि अन्यभाव (अन्यत्व या भेद) की व्यावृत्ति श्रुति कर रही है-‘नान्योऽतोऽस्ति द्रष्टा” (बृह. उ. ३।७।२३) अर्थात् इस अक्षर तत्त्व से भिन्न कोई द्रष्टा नहीं। इस लिए भी शारीर (जीव) में अक्षरात्मकता नहीं, क्योंकि अभिमत अक्षर तत्त्व “अचक्षुष्कम्” (चक्षुरादि उपाधियों से रहित) है, किन्तु जीव चक्षुरादि

४४

३४६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. १३

निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥


( ४ ईक्षतिकर्मव्यपदेशाधिकरणम् । सू० १३ )

ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥

'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति' इति प्रकृत्य श्रूयते—'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' (प्र० ५।२, ५) इति ।

किमिस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुपदिश्यते आहोस्विदपरमिति । एतेनैवायतनेन परमपरं चैकतरमन्वेतीति प्रकृतत्वात्संशयः ।

तत्रापरमिदं ब्रह्मेति प्राप्तम् । कस्मात् ? 'स तेजसि सूर्ये संपन्नः', 'स सामभिरुन्नीयते ब्रह्मलोकम्' इति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात् । नहि परब्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तम्, सर्वगतत्वात्परस्य ब्रह्मणः । नन्वपरब्रह्मपरिग्रहे परं पुरुषमिति विशेषणं नोपपद्यते । नैष दोषः, पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः ।

भामती

प्रधानाऽव्याकृतजीवानामसम्भवात् सम्भवाच्च परमात्मनः परमात्मैवाक्षरमिति सिद्धम् ॥ १२ ॥

कार्यब्रह्म जनप्राप्तिफलत्वादर्थभेदतः ।
दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते ॥

ब्रह्म वेद ब्रह्मैव भवतीति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौ स सामभिरुन्नीयते ब्रह्मलोकमिति न देशविशेषप्राप्तिरुपपद्यते । तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते । न चेक्षणस्य लोके तत्त्वविष-

भामती-व्याख्या

उपाधियों से युक्त है, अतः वह अम्बरान्त जगत् का विधारक अक्षर तत्त्व कदापि नहीं हो सकता । फलतः वर्ण (शब्द), प्रधान, अव्याकृत और जीव में अक्षररूपता सम्भव न होने के कारण परमात्मा ही अभीष्ट अक्षर तत्त्व सिद्ध होता है ॥ १२ ॥


विषय— 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' (प्र. उ. ५।५) अर्थात् 'जो व्यक्ति इस परम पुरुष का तीन मात्रावाले 'ओम्' अक्षर के माध्यम से ध्यान करता है, वह ब्रह्मलोक में जाकर परब्रह्म का दर्शन कर लेता है'—इस श्रुति में 'परं पुरुष' विचारणीय है ।

संशय— क्या उक्त वाक्य में अपर ब्रह्म (हिरण्यगर्भ) का ध्यान विहित है? अथवा पर ब्रह्म का ?

पूर्वपक्ष—
कार्यब्रह्म जनप्राप्तिफलत्वादर्थभेदतः ।
दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते ॥

"ब्रह्म वेद ब्रह्मैव भवति" (मुण्ड. ३।२।९) इस श्रुति में कथित पर ब्रह्म का ही यदि उक्त श्रुति में 'परम पुरुष' पद से ग्रहण किया जाता है, तब उसके दर्शन से ब्रह्मरूपता की प्राप्ति हो जाने के कारण उक्त स्थल पर "स सामभिरुन्नीयते ब्रह्मलोकम्" (प्रश्न. ५।५) इस प्रकार ब्रह्मलोकरूप विशेष देश की प्राप्ति सम्भव नहीं रह जाती, अतः यहाँ अपर ब्रह्म (हिरण्यागर्भ)