भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
४५० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ४२
प्रतिपादनपरमिति संशयः । किं तावत्प्राप्तम् ? संसारिस्वरूपमात्रविषयमेवेति । कुतः ? उपक्रमोपसंहाराभ्याम् । उपक्रमे 'योऽयं विज्ञानमयः प्राणेषु' इति शारीरलिङ्गात् । उपसंहारे च 'स वा एष महानज योऽयं विज्ञानमयः प्राणेषु' (बृ० ४।४।२२) इति तदपरित्यागात्, मध्येऽपि बुद्धान्तावस्थोपन्यासेन तस्यैव प्रपञ्चनादिति ।
एवं प्राप्ते ब्रूमः, - परमेश्वरोपदेशपरमेवेदं वाक्यं न शारीरमात्रान्वाख्यानपरम् । कस्मात् ? सुषुप्त्युत्क्रान्तौ च शरीराद्भेदेन परमेश्वरस्य व्यपदेशात् सुषुप्तौ तावत् 'अयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' (बृ० ४।३।२१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तत्र पुरुषः शारीरः स्यात्तस्य वेदितृत्वात् ।
भामती
शुद्धबुद्धमुक्तस्वभावः प्रतिपाद्यः । यत्तु सुषुप्त्युत्क्रान्त्योः प्राज्ञेनात्मना संपरिष्वक्त इति भेदं मन्यसे, नासौ भेदः, किन्त्वयमात्मशब्दः स्वभाववचनस्तेन सुषुप्त्युत्क्रान्त्यवस्थायां विशेषविषयाभावात्संविण्डितप्रज्ञेन प्राज्ञेनात्मना स्वभावेन परिष्वक्तो न किञ्चिद्वेदेत्यभेदेऽपि भेदवदुपचारेण योजनीयम् । यथाहुः- 'प्राज्ञः संपिण्डितप्रज्ञः' इति । पत्यादयश्च शब्दाः कार्यकारणसङ्घातात्मकस्य जगतो जीवकर्मार्जिततया तद्भोग्यतया च योजनीयाः तस्मात्संसार्यैवानूद्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् ।
एवं प्राप्त उच्यते 'सुषुप्त्युत्क्रान्त्योर्भेदेन' व्यपदेशादित्यनुवर्त्तते । अयमभिसन्धिः - कि संसारिणोऽन्यः परमात्मा नास्ति, तस्मात् संसायर्त्मिपरं योऽयं विज्ञानमयः प्राणेष्विति वाक्यम् ? आहोस्विदिह संसारिव्यतिरेकेण परमात्मनोऽसङ्कीर्त्तनात्संसारिणश्चादिमध्यावसानेष्वमर्शात्संसार्याह्यमपरं ? न तावत्संसार्यति-
भामती-व्याख्या
आरम्भ में पठित 'विज्ञानमय' शब्द, मध्य में स्वप्नावस्था का वर्णन एवं महानजः का निर्देश—यह सब कुछ जीव में ही घटता है, क्योंकि संसारी आत्मा ही अहङ्कारास्पद और प्राणादि से युक्त लोक-प्रसिद्ध है। "योऽयं विज्ञानमयः प्राणेषु"—यह वाक्य उसी संसारी का अनुवादमात्र करता है। वही संसारी आत्मा जड़वर्ग की अपेक्षा महान् एवं संसार के अनादि होने के कारण जीवात्मा भी अनादि और अज है, उससे भिन्न कोई नित्य, शुद्ध, बुद्ध और मुक्तस्वरूप तत्त्व यहाँ प्रतिपाद्य नहीं हो सकता। यह जो सुषुप्ति और उत्क्रान्ति अवस्था में प्राज्ञात्मा से सम्परिष्वक्त (युक्त) कहा गया है, वह उससे भिन्न माना जाता है, वह उचित नहीं, क्योंकि वहाँ 'आत्मा' शब्द स्वभाव का वाचक है। इस प्रकार सुषुप्ति और उत्क्रान्ति की अवस्था में विशेष विषय न रहने के कारण यह जीव घनीभूत प्रज्ञावाले आत्मा (स्वभाव) से युक्त अत एव किञ्चिज्ज्ञ होता है। जीव और उसके स्वभाव का भेद न होने पर भी भेद-जैसा औपचारिक व्यवहार हो जाता है, जैसा कि कहा गया है—"प्राज्ञः सम्पिण्डितप्रज्ञ"। पत्यादि शब्द भी कार्यकारण-संघातात्मक संसारी में ही घट जाते हैं, क्योंकि जीव के कर्मों-द्वारा अर्जित होने के कारण जगत् जीव का भोग्य और जीव उसका पति या भोक्ता होता है। फलतः उक्त वाक्य के द्वारा संसारी आत्मा का ही अनुवाद किया जाता है, परमात्मा का प्रतिपादन नहीं।
सिद्धान्त—पूर्व सूत्र से 'व्यपदेशात्' पद की अनुवृत्ति करके "सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्"—ऐसा महावाक्य सम्पन्न होता है। आशय यह है कि क्या संसारी से भिन्न परमात्मा नहीं है, जिससे कि "योऽयं विज्ञानमयः प्राणेषु"—यह वाक्य जीवपरक माना जाता है? अथवा यहाँ (प्रकृत में) परमात्मा का संकीर्तन न होने एवं संसारी आत्मा का ही उपक्रम, अभ्यास और उपसंहार में उल्लेख होने के कारण उक्त वाक्य संसारी आत्मा
विज्ञानमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ४५१
बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसंभवात् । प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् । तथोत्क्रान्तावपि 'अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन् याति' ( बृ० ४।३।३५ ) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति । तत्रापि शारीरो जीवः स्यात्, शरीरस्वामित्वात्, प्राज्ञस्तु स एव परमेश्वरः । तस्मात् सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात्तत्परत्वमस्य वाक्यस्येति । अत्र ब्रूमः - उपक्रमे तावत् 'योऽयं विज्ञानमयः प्राणेषु' इति न संसारिस्वरूपं विवक्षितं किं तर्हि ? अनद्य संसारिस्वरूपं परेण ब्रह्मणाऽस्यैकतां विवक्षति । यतो 'ध्यायतीव लेलायतीव' इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते । तथोपसंहारेऽपि यथोपक्रममेवोपसंहरति - स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु' इति । योऽयं विज्ञानमय प्राणेषु संसारी लक्ष्यते स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः । यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, स
भामती
रिक्तस्य तस्याभावः तत्प्रतिपादका हि शतश आगमा ईक्षतेर्नाशब्दं गतिसामान्यादित्यादिभिः सूत्रैस्सम्बैर्निरूपपादिताः । न चात्रापि संसार्यतिरिक्तपरमात्मसङ्कीर्त्तनाभावः, सुषुप्त्युत्क्रान्त्योस्तत्सङ्कीर्त्तनात् । न च प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्त्तने सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् । न च प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृत्तिः कथञ्चिदल्पज्ञविषयो व्याख्यातुमुचितः । न च प्रज्ञाप्रकर्षोऽसङ्कुचद्वृत्तिर्विदितसमस्तवैदितव्यात्सर्वविदोऽन्यत्र सम्भवति । न चेष्यम्भूतो जीवात्मा, तस्मात् सुषुप्त्युत्क्रान्त्योर्भेदेन जीवात् प्राज्ञस्य परमात्मनो व्यपदेशाद्योऽयं विज्ञानमय इत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य परमात्मभावोऽनधिगतः प्रतिपाद्यते । न च जीवात्मानुवादमात्रपराण्येतानि वचांसि । अनधिगतार्थववोधपरं हि शाब्दं प्रमाणं न त्वनुवादमात्रनिष्ठं भवितुमर्हति । अत एव च संसारिणः परमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतयाऽवमर्श उपपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भवान्नापेक्षकं कल्पयिष्यते । यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासादिति नानेनाव-
भामती-व्याख्या
का बोधक माना जाता है ? प्रथम कल्प उचित नहीं, क्योंकि जीव से भिन्न परमात्मा के प्रतिपादक सैकड़ों श्रुति वाक्य हैं, जिनका उपपादन “ईक्षतेर्नाशब्दम्” ( ब्र. सू. १।१।५ ), “गतिसामान्यात्” ( ब्र. सू. १।१।१० ) इत्यादि सूत्रों में किया गया है । यहाँ ( प्रकृत में ) भी संसारी से अतिरिक्त परमात्मा के उल्लेख का अभाव नहीं, क्योकि सुषुप्ति और उत्क्रान्ति में उसी का उल्लेख किया गया है । जब कि जीव से वस्तुतः भिन्न परमात्मा का प्राज्ञरूप से निरूपण हो सकता है, तब 'राहोः शिरः' के समान कथित अभेद में भेदोपचार की क्या आवश्यकता ? 'प्राज्ञ' शब्द का रूढ़ अर्थ है - प्रकृष्ट ज्ञानवान्, वैसा परमेश्वर ही है, जीव नहीं, क्योंकि जीव में सर्वज्ञता नहीं अल्पज्ञता या अपकृष्ट ज्ञान है । अतः जीव के लिए 'प्राज्ञ' शब्द का प्रयोग करना उचित नहीं । फलतः “योऽयं विज्ञानमयः” - इस वाक्य के द्वारा लोक-प्रसिद्ध जीव का अनुवाद करके सुषुप्ति और उत्क्रान्ति में समनुस्यूत प्राज्ञरूपता ( परमात्मरूपता ) का विधान किया जाता है, क्योंकि जीव की ब्रह्मरूपता अन्य किसी प्रमाण से अधिगत नहीं । आगम प्रमाण का प्रामाण्य अनधिगतार्थ की बोधकता में ही निहित है, केवल अनुवादपरता में शास्त्रों की सार्थकता नहीं हो सकती । परमात्मरूपता का विधान करने के लिए ही प्रकरण के आदि, मध्य और अन्त में जीव का अनुवाद किया जाना अत्यन्त उचित और उपपन्न है । 'महान् अजः' - ऐसा जो जीव के लिए व्यवहार किया गया है, वह
| ४५२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ४३ |
|---|
प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत । यतो न बुद्धान्ताद्यवस्थोपन्यासेना Napasta नावस्थावत्त्वं संसारित्वं वा विवक्षति, किं तर्हि ? अवस्थारहितत्वमसंसारित्वं च । कथमेतदवगम्यते ? यत् 'अत ऊर्ध्वं विमोक्षायैव ब्रूहि' इति पदे पदे पृच्छति । यच्च 'अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः (बृ० ४।३।१४,१५) इति पदे पदे प्रतिवक्ति । 'अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकान्हृदयस्य भवति' (बृ० ४।३।२२) इति च । तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ ४२ ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् । यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति । 'सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः' इत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः 'स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्' इत्येवंजातीयकाः
भामती
स्थावत्त्वं विवक्ष्यते । अपि त्ववस्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारहितं परमात्मानं विवक्षति ॐ उपरितनवाक्यसन्दर्भालोचनाद् इति ॐ ॥ ४२ ॥
ॐ सर्वस्य वशी ॐ वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम्, व्यूहावस्थानसमर्थ इति । अत एव सर्वस्येशानः सामर्थ्येन ह्ययमुक्तैन सर्वस्येशे तदिच्छानुविधानाज्जगतः । अत एवं सर्वस्याधिपतिः सर्वस्य नियन्तान्तर्यामीति यावत् । किञ्च स एवम्भूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्माज्जीवात्मानं मानान्त-
भामती-व्याख्या
भी उस परमात्मरूपता का ही उपोद्बलक है। "यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्"—इत्यादि भाष्य का आशय यह है कि उक्त प्रकरण के मध्य में जो "एवमेवार्यं पुरुष एतावुभावनुसंचरति स्वप्नान्तं च बुद्धान्तं च" (बृह. उ० ४।३।१८) इस प्रकार स्वप्न और बुद्ध (जाग्रत) अवस्था का उल्लेख किया गया है, उस से अवस्थावत्ता का प्रतिपादन विवक्षित नहीं, अपि तु जैवी अवस्थाओं की उत्पत्ति-विनाशरूपता के द्वारा जीव से भिन्न अवस्था-रहित परमात्मा विवक्षित है, क्योंकि 'अनन्वागतं पुण्येनानन्वागतम् (बृह० उ० ४।३।१३) इत्यादि उत्तरभावी वाक्यसन्दर्भ की आलोचना से वैसा ही सिद्ध होता है ॥ ४२ ॥
"सर्वस्य वशी, सर्वस्येशानः, सर्वस्याधिपतिः" (बृह० उ० ४।४।२२) इत्यादि वाक्यों के घटकीभूत 'अधिपति'—इत्यादि शब्दों के द्वारा भी परमात्मा के प्रतिपादन में तात्पर्य पर्यवसित होता है। 'सर्वस्य वशी' यहाँ 'वश' शब्द का अर्थ है—सामर्थ्य। वह ईश्वर समस्त विश्व का प्रभु है, इस जगत् के व्यूहन् (विभाजन या सर्जन) और अवस्थान (पालन) में समर्थ है। अत एव "सर्वस्येशानः" अर्थात् उक्त सामर्थ्य के आधार पर यह विश्व का शासन करता है। ईश्वर की इच्छा का अनुसरण जगत् का पत्ता-पत्ता करता है। इसी लिए परमात्मा "सर्वस्याधिपतिः" विश्व का नियन्ता या अन्तर्यामी कहा जाता है। इतना सब कुछ करने पर भी वह विज्ञानमय पुरुषोत्तम न तो साधु (पुण्य) कर्म से लेपायमान (उत्कृष्ट) होता है और न असाधु कर्म (पाप) से निकृष्ट होता है। इस प्रकार के श्रुति-वचन संसारातीत परमात्मा का ही प्रतिपादन करते हैं। फलतः "योऽयं विज्ञानमयः"—
| विज्ञानमयस्य ब्रह्मत्वम् ] | हिन्दीसहितभामतीसंवलितम् | ४५३ |
|---|
संसारिस्वभावप्रतिषेधनाः तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥
इति श्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये
प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
भामती
रसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरो योऽयं विज्ञानमय इत्यादिर्वाक्यसन्दर्भ इति सिद्धम् ॥ ४३ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां
प्रथमस्याध्यायस्य तृतीयः पादः ॥
भामती-व्याख्या
इत्यादि वाक्य-सन्दर्भ प्रमाणान्तर से अनधिगत जीव में ब्रह्मरूपता का अवद्योतक सिद्ध होता है ॥ ४३ ॥
भामतीव्याख्यायां तृतीयः पादः समाप्तः
| ४५४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. १ |
|---|
प्रथमाध्याये चतुर्थः पादः।
( १ आनुमानिकाधिकरणम् । सू० १-७ )
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृही- तेर्दर्शयति च ॥ १ ॥
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् — 'जन्माद्यस्य यतः' (ब्र० १।१।२ ) इति। तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम् 'ईक्षतेर्नाशब्दम्' (ब्र० १।१।५) इति। गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन ।
इदं त्विदानीमवशिष्टमाशङ्क्यते — यदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात् । अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलाप्रभृतिभिः परिगृहीतमिति प्रसज्यते;
भामती
स्यादेतत् — ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तं जन्माद्यस्य यत इति, तच्चेदं लक्षणं न प्रधानादौ गतं येन व्यभिचारादलक्षणं स्यात्, किन्तु ब्रह्मण्येवेतीक्षतेर्नाशब्दमिति प्रतिपादितम् । गतिसामान्यञ्च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्तनेन सूत्रसन्दर्भेण, तत्किमवशिष्यते यदर्थमुत्तरः सन्दर्भ आरभ्यते । न च महतः परमव्यक्तमित्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः। नह्येते प्रधानकारणत्वं जगत आहुः । अपि तु प्रधानसद्भावमात्रम् । न च तत्सद्भावमात्रेण जन्माद्यस्य यत इति ब्रह्मलक्षणस्य किञ्चिद्धीयते । तस्मादनर्थक उत्तरः सन्दर्भ इत्यत आह ॐ ब्रह्मजिज्ञासां प्रतिज्ञाय इति ॐ । न प्रधानसद्भावमात्रं प्रतिपादयन्ति महतः परमव्यक्तमित्यादयः किन्तु जगत्कारणं प्रधानमिति । महतः परमित्यत्र हि परशब्दोऽविप्रकृष्टपूर्वकालत्वमाह । तथा च कारणत्वम्,
भामती-व्याख्या
संगति—महर्षि बादरायण ने "अथातो ब्रह्मजिज्ञासा" (ब्र. सू. १।१।१) इस सूत्र के द्वारा प्रतिज्ञात जिज्ञासा के विषयीभूत ब्रह्म का लक्षण किया—"जन्माद्यस्य यतः" (ब्र. सू. १।१।२)। उक्त लक्षण सांख्याभिमत प्रधानादि अलक्ष्यभूत पदार्थों में अतिप्रसक्त नहीं "ईक्षतेर्नाशब्दम्" (ब्र. सू. १।१।५)। उसके अनन्तर उसी परीक्षा का विस्तार करते हुए यह सिद्ध किया कि वेदान्त-वाक्यों की गतिसामान्यता (पर्यवसायिता) ब्रह्मकारणतावाद में ही है, प्रधानादिकारणतावाद में नहीं। शास्त्र का समग्र कलेवर है—(१) उद्देश, (२) लक्षण और (३) परीक्षा। तीनों प्रथम अध्याय के तीन पादों के द्वारा ही सुसम्पादित हो चुके, अब और क्या शेष रह गया, जिसके लिए परभावी सूत्रों का महान् आतान-वितान प्रस्तुत किया महर्षि ने ? "महतः परमव्यक्तम्" (कठो. १।३।११) इत्यादि वेदान्त-वाक्यों का सांख्य-सम्मत प्रधान (प्रकृति) तत्त्व में समन्वय होने पर भी उक्त ब्रह्म-लक्षण की प्रधानादि में अतिव्याप्ति नहीं होती, क्योंकि इन वेदान्त-वाक्यों के द्वारा प्रधानकारणतावाद का प्रतिपादन नहीं किया गया, अपितु प्रधानादि का केवल सद्भाव कथित है। आकाशादि के समान प्रधानादि के सद्भाव से ब्रह्म-लक्षण पर कोई आँच नहीं आती, अतः उत्तरभावी ग्रन्थ (सूत्र-सन्दर्भ) निरर्थक क्यों न मान लिया जाय ? इस प्रश्न का उत्तर भाष्यकार दे रहे हैं—"ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तमित्यादि"। इसका आशय यह है कि "महतः परमव्यक्तम्"—इत्यादि वाक्य केवल प्रधानादि के सद्भावमात्र का प्रतिपादन ही नहीं करते, अपितु उनकी स्पष्ट उद्घोषणा है कि "प्रधानं जगतः कारणम्"। 'महतः परम्'—यहाँ 'पर'
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४५५
तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् । अतस्तेषामन्यपरत्वं दर्शयितुं परः संदर्भः प्रवर्तते । आनुमानिकमप्यनुमाननिरूपितमपि प्रधानमेकेषां शाखिनां शब्दवदुपलभ्यते । काठके हि पठ्यते—'महतः परमव्यक्तमव्यक्तात्पुरुषः परः' ( १।३।११ ) इति । तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्त.मव्यमिति व्युत्पत्तिसंभवात् , स्मृतिप्रसिद्धं प्रधानमभिधीयते । तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् । तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् ।
भामती
अजामेकामित्यादीनां तु कारणत्वाभिधानमतिस्फुटम् । एवञ्च लक्षणव्यभिचारापत्तावऽव्यभिचाराय युक्त उत्तरसूत्रसन्दर्भारम्भ इति ।
पूर्वपक्षयति ॐ तत्र य एव इति ॐ । सांख्यप्रवादरूढिमाह ॐ तत्राव्यक्तम्' इति ॐ । सांख्य-स्मृतिप्रसिद्धेन केवलं रूढिरवयवप्रसिद्ध्याप्ययमेवार्थोऽवगम्यत इत्याह “न व्यक्त इति । शान्तघोरमूढ-शब्दाविहीनत्वाच्चेति । श्रुतिरुक्ता स्मृतिश्च साख्याया । न्यायश्च—
भामती-व्याख्या
शब्द अव्यवहितपूर्वकालत्व का बोधक है, अव्यवहितपूर्वकालत्व ही कारणत्वपदार्थ है । "अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः" ( श्वेता. ४५ ) इत्यादि वाक्यों में तो जगत्कारणत्व-प्रतिपादन अत्यन्त स्फुट है । इस प्रकार उक्त ब्रह्म के जगत्कारणत्वरूप लक्षण की अतिव्याप्ति प्रधानादि में अवश्य प्रसक्त है, उसकी निवृत्ति के लिए उत्तरभावी सूत्र-सन्दर्भ नितान्त आवश्यक और सार्थक है ।
संशय—“महतः परमव्यक्तमव्यक्तात् पुरुषः परः" ( कठो. १।३।११ ) इस वाक्य में 'महत्' शब्द प्रधान का वाचक है ? अथवा अस्फुटित शरीरादि कार्य का ?
पूर्वपक्ष—“तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, ते एवेह प्रत्यभिज्ञायन्ते"—इस भाष्य के द्वारा भाष्यकार ने यह स्पष्ट कर दिया है कि सांख्यदर्शनकारों ने जिस नाम और जिस क्रम से अपने मौलिक पदार्थों का प्रतिपादन किया है, वे पदार्थ उसी नाम और क्रम से प्रक्रान्त वेदान्त-वाक्यों में प्रत्यभिज्ञात हो रहे हैं। वे पदार्थ हैं—'महद्', 'अव्यक्त' और 'पुरुष' । 'तत्राव्यक्तमिति स्मृतिप्रसिद्धेः' इस भाष्य के द्वारा 'अव्यक्त' शब्द पर प्रकाश डालते हुए यह कहा गया कि सांख्यमतानुसार 'अव्यक्त' शब्द जिस शब्दादि के मूलकारणीभूत प्रकृतिरूप अर्थ में रूढ़ माना जाता है, वह केवल रूढ़ नहीं यौगिक भी है, क्योंकि 'न व्यक्तम्, अव्यक्तम्' इस प्रकार का अवयवार्थ भी वहाँ घट जाता है, शान्त, घोर और मूढ ( स्थूल ) शब्दादि रूप प्रपञ्च को व्यक्त ( प्रकट ) कहते हैं, उसका कारण तत्त्व सूक्ष्म होने से अव्यक्त कहा जाता है । अव्यक्तादि के साधक प्रमाण जो बताए हैं—"श्रुतिस्मृतिन्यायप्रसिद्धिभ्यः" । उन में ( श्रुति के रूप में “महतः परमव्यक्त" ( कठो. १।३।११) इस वाक्य को ही यहाँ भाष्यकार ने इङ्गित किया है, क्योंकि वहाँ 'अव्यक्तम्' पद की विशद व्याख्या, प्रस्तुत करते हुए कहा गया है कि सत्त्व, रज और तम'—इन तीन गुणों की साम्यावस्था को अव्यक्त इसीलिए कहा जाता है कि उसमें शब्दादि प्रपञ्च व्यक्त ( स्थूल ) रूप में न होकर अव्यक्त ( सूक्ष्म ) ही रहता है। (२) स्मृति प्रमाण के रूप में "कारणमस्त्यव्यक्तम्" ( सां० का० १६ ) इत्यादि सांख्यशास्त्र का उल्लेख किया गया है और (३) न्याय ( युक्ति ) के रूप में उद्धृत किया गया है—
| ४५६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. १] |
|---|
नैतदेवम्; न ह्येतत्काठकं वाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम्। न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानं तादृशं प्रत्यभिज्ञायते। शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते। स च शब्दो न व्यक्तमव्यक्तमिति यौगिकत्वादम्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते। न चायं कस्मिंश्चिद्रूढः। या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते। न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवत्यसति तद्रूपप्रत्यभिज्ञाने। न ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति। प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते; शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते। कुतः? प्रकरणात्परिशेषाच्च। तथा ह्यनन्तरातीतो ग्रन्थ
भामती
'भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
कारणमस्त्यव्यक्तम्' इति।
न च महतः परमव्यक्तमिति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम्, शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः। तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यते—
ॐ नेतदेवं नह्येतत्काठकं वाक्यम् इति ॐ। लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं,
भामती-व्याख्या
भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य ॥ (सां० का० १५)
[ 'महदादिविशेषा अव्यक्तकारणाः, परिमाणात्' इस प्रकार अव्यक्त तत्त्व में जगत् की कारणता सिद्ध की गई है। परिमाणात् का अर्थ परिमितत्वात् या नियतत्वात् है। जैसे घट मृत्तिका से नियत होने के कारण मृत्कारणक होता है, वैसे ही महदादि कार्य अव्यक्त से नियत होने के कारण अव्यक्तकारणक है। इसी प्रकार अव्यक्त का कार्य में अन्वय यह सिद्ध करता है कि समस्त कार्य अव्यक्तकारणक है। मृत्तिका की शक्ति से जनित घटादि कार्य जैसे मृत्कारणक है, वैसे ही अव्यक्त की शक्ति से प्रकट हुआ महदादि कार्य अव्यक्तकारणक है। यह विश्व (महदादि स्थूल जगत्) सृष्टि के समय जिस तत्त्व से विभक्त (आविर्भूत) और प्रलय के समय जिसमें अविभक्त (तिरोहित) हो जाता है, वह अव्यक्त तत्त्व ही है]। "महतः परमव्यक्तम्"—यह वाक्य अपने प्रकरण और वाक्यशेष के आधार पर शरीर का प्रतिपादक है'—ऐसा नहीं कह सकते, क्योंकि शरीर भी उस व्यक्तरूप स्थूल कार्य के अन्तर्गत है, जिसे अपने से भिन्न किसी अव्यक्त की अपेक्षा है, अतः शरीर को अव्यक्त नहीं कहा जा सकता।
सिद्धान्त—भाष्यकार ने सूत्रस्थ सिद्धान्त का विशदीकरण किया है—"नैतदेवम्"। न ह्येतत्काठकं वाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम्"। इस भाष्य का अभिप्राय यह है कि वेदार्थ-निर्णय में अवश्य ही लोक-प्रसिद्धि का यथेष्ट समादर किया गया है, जैसा कि शबरस्वामी कहते हैं—"य एव लौकिकाः शब्दास्त एव वैदिकाः, ते एव चैषामर्थाः" (शाबर. पृ. २९१) किन्तु अव्यक्तादि शब्दों की प्रधानादि अर्थों में लौकिकी प्रसिद्धि नहीं, यह तो एक दर्शन के पक्षपाती आचार्यों की अपनी ऊहा है, वह अनादि प्रसिद्धि नहीं, पौरुषेयी कल्पनामात्र है। उसे वेदार्थ निर्णय में वैसे ही निमित्त नहीं माना जाता, जैसे वैद्यों-द्वारा कल्पित औषध-विशेष के बोधक 'चन्द्रप्रभा' आदि शब्द, क्योंकि वह तो एक
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४५७
आत्मशरीरादीनां रथिरथादिरूपकक्लृप्तिं दर्शयति—'आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥' (का० १।३।३,४) इति।
भामती तदुपायत्वात्। यथाहुः—"य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः" इतिः न तु परीक्ष- काणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ निमित्तम् औषधादिप्रसिद्धिवत्। तस्मात् रूढितस्तावन्न प्रधानं प्रतीयते। योगरूढस्त्वन्यत्रापि तुल्यः। तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरोऽयमव्यक्तशब्दः। यथा अस्य तद्गोचरत्वमुपपद्यते, तथाऽग्रे दर्शयिष्यति। तेषु शरीरादिषु मध्ये विषयांस्तद्गोचरान् विद्धि। यथाऽश्वोऽध्वानमालम्ब्य चलति, एवमिन्द्रियहयाः स्वगोचरमालम्ब्येति। आत्मा भोक्तेत्याहुर्मनीषिण। कथम्? इन्द्रियमनोयुक्तम् योगो यथा भवति।
भामती-व्याख्या ऐसी परिभाषा है, जिसे सर्वलोक-प्रसिद्धि नहीं कहा जा सकता, ऐसे ही प्रधान के अर्थ में 'अव्यक्त' शब्द का प्रयोग सांख्याचार्यों को एक अपनी परिभाषा है, उसके आधार पर वैदिक 'अव्यक्त' शब्द की 'प्रधान' अर्थ में रूढ़ि नहीं मानी जा सकती। 'न व्यक्तमव्यक्तम्'—इस प्रकार का योगार्थ तो अन्यत्र ( शरीरादि अर्थों में) भी घटाया जा सकता है। इस प्रकार अव्यक्त शब्दरूप श्रुति अन्यथा-सिद्ध हो जाने के कारण निर्णायिका नहीं हो सकती, अतः प्रकरण और परिशेष के द्वारा शरीर को बोधकता 'अव्यक्त' शब्द में निर्णीत होती है—ऐसा भाष्यकार आगे चल कर दिखायेंगे।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥ (कठो. १।३।४)
इस श्रुति में 'तेषु' का अर्थ है—शरीरादिषु मध्ये। रूपादि को चक्षुरादि इन्द्रियों का विषय इस लिए कहा जाता है कि जैसे अश्व किसी मार्ग का अवलम्बन कर चलता है, वैसे ही इन्द्रियगण रूपादि विषयों का अवलम्बन किया करते हैं, जैसा कि भाष्यकार ने भी कहा है—"गोचरान् मार्गान् रूपादीन् विषयान् विद्धि" (कठो. पृ. ६२)। 'आत्मा विषयों का भोक्ता है'—ऐसा मनीषिगण कहा करते हैं। निष्क्रिय आत्मा में भोग क्रिया का सम्पादन करने के लिए 'इन्द्रियमनोयुक्तं यथा स्यात्तथा'—ऐसा कहा गया है अर्थात् इन्द्रिय और मन के सम्बन्ध से आत्मा गन्धादि का भोक्ता होता है, [जैसा कि भाष्यकार ने भी प्रकारान्तर से उक्त श्रुति-वाक्य की व्याख्या करते हुए कहा है—"शरीरेन्द्रियमनोभिः सहितं संयुक्त- मात्मानं भोक्तेति संसारीत्याहुर्मनीषिणः। न हि केवलस्यात्मनो भोक्तृत्वमस्ति, बुद्ध्याद्युपाधि- कृतमेव तस्य भोक्तृत्वम्" (कठो. पृ. ६२)]।
भाष्यकार ने जो कहा है—"शरीरं ह्यत्र परिगृह्यते, कुतः? प्रकरणात् परिशेषाच्च"। वहाँ प्रकरण का स्वरूप है—"प्रधानस्याकाङ्क्षावतं वचनं प्रकरणम्"। [आकांक्षावान् व्यक्ति की आकांक्षा प्रश्न के रूप में परिणत होती है, अतः श्री शबरस्वामी ने जैमिनि-सूत्रों के अपने भाष्य (पृ० ८१७) में प्रकरण का लक्षण बताया है—"प्रश्नोपक्रमं प्रकरणम्]। प्रकृत में विष्णु का परम पद अधिगन्तव्य (प्राप्तव्य) प्रधान प्रतिपाद्य वस्तु है—
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः।
पुरुषात् न परं किञ्चित् सा काष्ठा सा परा गतिः॥ (कठो. १।३।११)
५८
| ४५८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. १ |
|---|
तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति । संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोतीति दर्शयित्वा, किं तदध्वनः विष्णोः परमं पदमित्यस्यामाकाङ्क्षायां, तेभ्य एव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति— ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः॥’ (का० १।३।१०,११) इति । तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृतास्त एवेह परिगृह्यन्ते प्रकृतहानाप्रकृतप्रक्रियापरिहाराय । तत्रेन्द्रियमनोबुद्धयस्तावत्पूर्वत्रेह च समानशब्दा एव । अर्था ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टास्तेषां चेन्द्रियेभ्यः परत्वम्, ‘इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम्’
भामती
इन्द्रियार्थमनःसन्निकर्षेण ह्यात्मा गन्धादीनां भोक्ता । प्रधानस्याकांक्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकांक्षावतारयति ॐ तैश्चेन्द्रियादिभिरसंयतैरिति ॐ । असंयमाभिधानं व्यतिरेकमुखेन संयमावदातीकरणम् । परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धादिभ्यः श्रेष्ठत्वं स्यादित्यत आह ॐ अर्था ये शब्दादय इति ॐ । नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनम् , ग्रहेभ्यश्चेन्द्रियेभ्योऽतिग्रहतयाऽर्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योऽर्थानां प्राधान्यात् परत्वं भवति । प्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वचो हीन्द्रियाणि श्रुत्याऽष्टौ ग्रहा उक्ताः । गृह्णन्ति वशीकुर्वन्ति खल्वेतानि
भामती-व्याख्या
कथित परम पद के विषय में आकांक्षा होती है कि ‘कथं तदधिगम्यते ? उसका उत्तर भाष्यकार ने दिया है—‘‘तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति’’। ‘इन्द्रियसंयममत्त्वे परमपदप्राप्तिसत्त्वम्’—इस प्रकार अन्वय-सिद्ध संयमगत परमपद-प्राप्ति की हेतुता को विमल (अव्यभिचरित) सिद्ध करने के लिए ‘‘असंयतेन्द्रियैः संसारमधिगच्छति’’—ऐसा व्यतिरेकोपन्यास किया गया है।
‘‘इन्द्रियेभ्यः परा अर्थाः’’—यहाँ ‘पर’ शब्द श्रेष्ठता का वाचक है, बाह्य पदार्थों की अपेक्षा आन्तरिक पदार्थों की श्रेष्ठता सहज-सिद्ध है, अतः गन्धादि बाह्य विषयों की अपेक्षा घ्राणादि इन्द्रियों को श्रेष्ठ या पर न कह कर ‘‘इन्द्रियेभ्यः पराः अर्थाः’’—ऐसा क्यों कहा गया ? इस प्रश्न का उत्तर है—‘‘अर्था ये शब्दादय इत्यादि’’। आशय यह है कि यहाँ बाह्य की अपेक्षा आन्तरिक पदार्थ की श्रेष्ठता विवक्षित नहीं, किन्तु अप्रधान पदार्थ की अपेक्षा प्रधान पदार्थ की परता (श्रेष्ठता) श्रुति-सम्मत है। गुण-प्रधानभाव नियत नहीं, अपितु विवक्षा के अधीन होता है [जैसे कि ग्रह और अतिग्रह का प्रसङ्ग उठाते हुए कहा गया है—‘‘कति ग्रहाः कति अतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति । ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः, कतमे ते इति । (१) प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृहीतः, (२) वाग्वै ग्रहः स नाम्नातिग्राहेण गृहीतः, (३) जिह्वा वै ग्रहः, स रसेनातिग्राहेण गृहीतः, (४) चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृहीतः, (५) श्रोत्रं वै ग्रहः, स शब्देनातिग्राहेण गृहीतः, (६) मनो वै ग्रहः, स कामेनातिग्राहेण गृहीतः, (७) हस्तो वै ग्रहः, स कर्मणातिग्राहेण गृहीतः, (८) त्वग्वै ग्रहः, स स्पर्शनातिग्राहेण गृहीतः (बृह. उ. ३।२।१-९) । यहाँ ‘प्राण’ पद से घ्राण और ‘अपान’ पद से गन्ध का ग्रहण किया गया है, इस प्रकार घ्राणादि आठ इन्द्रियों को ग्रह और गन्धादि आठ विषयों को अतिग्रह कहा गया है। ‘ग्रह’ का अर्थ है—ग्राहक (आकर्षक या बन्धन)। घ्राणादि इन्द्रियों में जीव की आसक्ति इसी लिए है कि वह गन्धादि विषयों का उपभोग
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४५९
( बृ० ३।२ ) इति श्रुतिप्रसिद्धेः । विषयेभ्यश्च मनसः परत्वं, मनोमूलत्वाद्विषयेन्द्रियव्य- वहारस्य । मनसस्तु परा बुद्धिः, बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति । 'बुद्धेरात्मा महान्परः', यः स 'आत्मानं रथिनं विद्धि' इति रथित्वेनोपक्षिप्तः । कुतः ? आत्म- शब्दात् । भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः । महत्त्वं चास्य स्वामित्वादुपपन्नम् । अथवा – 'मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः' । प्रज्ञा संविद्विदितिश्चैव स्मृतिश्च
भामती
पुरुषपशुमिति । न चैतानि स्वरूपतो वशीकर्त्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्म- स्पर्शान्नोपहरन्ति । अत एव गन्धादयोऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः । तदिदमुक्तम् — ❀ इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ❀ । ग्रहत्वेनेन्द्रियैः साम्येऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाह ❀ विषयेभ्यश्च मनसः परत्वमिति ❀ । कस्मात् पुमान् रथित्वेनोपक्षिप्तो गृह्यते इत्यत आह ❀ आत्मशब्दादिति ❀ । तत्प्रत्यभिज्ञानादित्यर्थः । श्रेष्ठत्वे हेतुमाह ❀ भोक्तुश्चेति ❀ । तदनेन जीवात्मा स्वामितया महानुक्तः । अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याह ❀ अथवेति ❀ । ❀ पूरिति ❀ । भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः, तदेवं सर्वासां बुद्धीनां
भामती-व्याख्या
करता है, अतः विषयों को अतिग्रह ( सुदृढ़ या साक्षात् बन्धन ) कहा गया है, इस प्रकार ] इन्द्रियों की अपेक्षा गन्धादि विषयों का प्राधान्य सिद्ध होता है। प्रधान होने के कारण विषयों को इन्द्रियों की अपेक्षा पर ( श्रेष्ठ ) कहा है। ( १ ) घ्राण, ( २ ) जिह्वा, ( ३ ) वाक्, ( ४ ) चक्षु, ( ५ ) श्रोत्र, ( ६ ) मन, ( ७ ) हस्त और ( ८ ) त्वक् इन आठ इन्द्रियों को ग्रह इसी लिए कहा है कि 'गृह्णन्ति वशीकुर्वन्ति पुरुषम्'—इस व्युत्पत्ति के अनुसार इन्द्रियगण जीव को अपने वश में कर लेते हैं। इन्द्रियों में साक्षात् नियोजकता नहीं, अपि तु गन्धादि विषयों का उपहार देकर ही घ्राणादि पुरुष के आसञ्जक या मोहक होते हैं, अत एव गन्धादि आठ विषयों को अतिग्रह ग्रहत्व ( बन्धकता ) के सम्पादक कहा है। यही भाष्यकारने कहा है—"इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुति- प्रसिद्धेः"। मन भी इन्द्रिय होने के कारण अन्य इन्द्रियों के समान ही ग्रह ही है, तथापि विषय की अपेक्षा उस की परता ( श्रेष्ठता ) का कारण यह है कि "मनोमूलत्वाद् विषयेन्द्रिय- व्यवहारस्य"। विषय और इन्द्रियों का सन्निकर्षादि मन के ही आधीन है, अतः विषय की अपेक्षा भी मन को पर ( श्रेष्ठ ) कहा है। मन से बुद्धि पर और बुद्धि से भी श्रेष्ठ जो आत्मा कहा गया है, वह वही भोक्ता आत्मा है, जो कि “आत्मानं रथिनं विद्धि” (कठ० १।३।४) यहाँ पर ‘रथी’ के रूप में वर्णित है, क्योंकि "आत्मशब्दात्"। अर्थात् “आत्मानं रथिनं विद्धि” और “बुद्धेरात्मा महान् परः'—इन दोनों वाक्यों में एक ही ‘आत्म’ शब्द का प्रयोग होने से एक ही भोक्ता पुरुष की प्रत्यभिज्ञा होती है। भोक्ता की श्रेष्ठता में हेतु-प्रदर्शन किया जाता है—"भोक्तुश्च भोगोपक- रणात् परत्वोपपत्तेश्च"। जीवात्मा भोक्ता है, उसी के लिए सभी भोग्य पदार्थों एवं भोग के साधनों का निर्माण हुआ है, अतः उसका भोग्यादि से श्रेष्ठ होना स्वाभाविक है। इस प्रकार जीवात्मा सभी भोग्य-वर्ग का स्वामी होने के कारण महान् कहा गया है—"बुद्धेरात्मा महान् परः"। अथवा श्रुतियों और स्मृतियों के द्वारा हिरण्यगर्भ की बुद्धि को ‘आत्मा’ शब्द के द्वारा अभिहित किया गया है—"अथवा सांख्याचार्य 'महानात्मा' शब्द के द्वारा 'महत्तत्त्व' का ग्रहण किया करते हैं, उसमें जैसी महत्ता ( व्यापकता ) विवक्षित है, वैसी जीव की व्यष्टि बुद्धि में नहीं, अतः हिरण्यगर्भ की समष्टि बुद्धि का ग्रहण करना अधिक न्याय-संगत है, क्योंकि "मनो महान्
| ४६० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. १ |
|---|
परिपठ्यते ।।' इति स्मृतेः, 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' ( श्वे० ६।१८ ) इति च श्रुतेः, या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्धीनां परा प्रतिष्ठा । सेह महानात्मेत्युच्यते । सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः । एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम् , परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात् । तदेवं शरीरमेवैकं परिशिष्यते । इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते । शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन
भामती
प्रथमजहिरण्यगर्भबुद्धेरेकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं च, आपनादात्मत्वं च । अत एव बुद्धिमात्रात् पृथक्करणमुपपन्नम् । नन्वेतस्मिन् पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आह ॐ एतस्मिंस्तु पक्ष इति ॐ । यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते, तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यते इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिशिष्टमिति । अथ रथादिरूपककल्पनया शरीरादिषु किं प्रयोजनमित्यत आह ॐ शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य हीति ॐ । वेदना सुखाद्यनुभवः । प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः । न च जीवस्य ब्रह्मत्वं मानान्तरात्सिद्धं, येनात्र नागमोऽपेक्ष्ये-
भामती-व्याख्या
मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संवित् चितिश्चैव स्मृतिश्च परिपठ्यते ॥'' इस स्मृति-वाक्य के द्वारा उसी में महत्त्व, चैतन्य ( आत्मत्व ) प्रतिपादित है। इस श्रुति में हिरण्यगर्भ की बुद्धि को 'पूर' इसी लिए कहा है कि उसी में समस्त जीवों की व्यष्टि बुद्धियाँ वैसे ही अवस्थित होती हैं, जैस पुर या नगर में अनेक घर होते हैं। भोग्य-वर्ग का अधिकरण होने के कारण भी इस बुद्धि को पुरी कहते हैं। यह बुद्धि व्यापक ( व्यापक ) है, अतः आत्मा कही जाती है। जीवों की व्यष्टि बुद्धियों से पृथक् और उनका कारण होने से पर ( श्रेष्ठ ) मानी जाती है। यदि—यही रथरूप बुद्धि आत्मा है, तब इससे भिन्न रथी आत्मा कौन होगा ? इस प्रश्न का उत्तर दिया गया है—एतस्मिंस्तु पक्षे रथिनः परमात्मनो ग्रहणम्” । भोक्ता पुरुष के रूप में परमात्मा का ग्रहण इस लिए किया जाता है कि जैसे समारोपित प्रतिबिम्ब वस्तुतः बिम्ब से भिन्न नहीं होता, वैसे ही परमात्मा से वस्तुत विज्ञानात्मा ( जीव ) भिन्न नहीं होता, अतः रथवान् ( रथी ) के रूप में वहाँ परमात्मा का ग्रहण अनुचित नहीं। शरीरादि में रथादि-रूपक की कल्पना का प्रयोजन भाष्यकार कहते हैं—"शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादि रूपककल्पनया प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता" ! 'वेदना' शब्द का अर्थ है—सुखादि का अनुभव [ बौद्ध साहित्य में वेदना के तीन भेद माने गये हैं—''(१) सुखा वेदना, (२) दुःखा वेदना, (३) असुखदुःखा भावना'' किसी व्यक्ति को देखकर उसके मित्र को सुख एवं शत्रु को दुःख की अनुभूति होती है, किन्तु एक उदासीन ( रागद्वेष-रहित ) व्यक्ति को सुख-दुःख से रहित अनुभूति होती है ] । 'प्रत्यगात्मा' शब्द से यहाँ जीवात्मा विवक्षित है, शब्द की व्युत्पत्ति है—'अर्थमर्थं प्रति प्रत्यर्थम्, प्रत्यर्थमञ्चति अवगच्छतीति प्रत्यक्, प्रत्यक् चासौ आत्मा प्रत्यगात्मा' [प्रति' शब्द के द्वारा कहीं प्रतीप ( विपरीत ) अर्थ भी लिया जाता है, यहाँ हिरण्यगर्भ और जीव का व्यष्टि-समष्टिभाव ध्वनित करने के लिए सर्वज्ञता
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४६१
प्रत्यगात्मब्रह्मभावगतिरिह विवक्षिता। तथा च ‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः।’ (का० १।३।१२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति—‘यच्छेद्वा- ङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि।।' (का० १।३।१३) इति। एतदुक्तं भवति — वाचं मनसि संयच्छेत् वागादि- वाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत। मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत्। तामपि बुद्धिं महत्यात्मनि भोक्तर्यग्रथायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत्। महान्तं त्वा- त्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च। तदेवं पूर्वापरालौचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
उक्तमेतत्प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दं न प्रधानमिति। इदमिदानी- माशङ्क्यते—कथमव्यक्तशब्दार्हत्वं शरीरस्य ? यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचनस्त्वव्यक्तशब्द इति। अत उत्तरमुच्यते—सूक्ष्मं त्विह कारणा- त्मना शरीरं विवक्ष्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्। यद्यपि स्थूलमिदं शरीरं न स्वयम- व्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति। प्रकृतिशब्दश्च विकारे दृष्टः। यथा ‘गोभिः श्रीणीत मत्सरम्’ (ऋ० सं० ९।४६।४) इति। श्रुतिश्च—
भामती
तेत्यत आह ॐ तथा चेति ॐ । वागिति छान्दसो द्वितीयालोपः। शेषमतिरोहितार्थम् ॥ १ ॥ पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम् ॐ सूक्ष्मं तु तदर्हत्वात् ॐ । प्रकृतेर्विकाराणामन- न्यत्वात् प्रकृतेरव्यक्तत्वं विकार उपचर्यते। यथा गोभिः श्रीणीतेति गोशब्दस्तद्विकारे पयसि। अव्यक्तात् कारणाद् विकाराणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह ॐ तथा च श्रुतिः इति ॐ । अव्याकृतमव्य-
भामती-व्याख्या
और एकार्थज्ञता या अल्पज्ञता का प्रसङ्ग उपस्थित करने के लिए ‘प्रति’ शब्द से प्रत्येक, अर्थ का ग्रहण किया गया है]। इसी जीव में ब्रह्मरूपता का प्रतिपादन यहाँ विवक्षित है। जीव में ब्रह्मत्व का प्रतिपादन किसी प्रमाणान्तर से नहीं किया गया कि यहाँ उसकी विवक्षा न होती यह कहा जा रहा है—“तथा च तदवगमार्थं योगं दर्शयति”। “यच्छेद् वाक् मनसि”— यहाँ पर “यच्छेद् वाचं मनसि”—ऐसा प्रयोग होना चाहिए था, किन्तु छान्दस (वैदिक) प्रयोगों की निरङ्कुशता को ध्यान में रखकर द्वितीया विभक्ति का लोप माना जाता है। शेष भाष्य स्पष्टार्थक है ॥ १ ॥
पूर्वपक्षी के हृदय में निहित सिद्धान्ती के वक्तव्यपर असन्तोष का निराकरण करने के लिए सूत्र प्रस्तुत किया जाता है--“सूक्ष्मं तु तदर्हत्वात्”। 'अव्यक्त' शब्द से जो शरीर का ग्रहण किया जाता है, उसमें पूर्व जिज्ञासा करता है कि यह शरीर तो व्यक्त (स्थूल) है, इसको अव्यक्त (सूक्ष्म) क्योंकर कहा जा सकता है ? इस जिज्ञासा का उत्तर है—'सूक्ष्मं तु' अर्थात् शरीर के आरम्भक सूक्ष्म भूत वस्तुतः अव्यक्त हैं। वे सूक्ष्म भूत शरीर के आरम्भक या शरीर की प्रकृति एवं शरीर उनका विकार है। प्रकृति और विकार का अभेद माना जाता है। प्रकृति और विकार का अभेद होने के कारण प्रकृति के वाचक शब्द का विकार में भी व्यवहार हो जाता है, अतः सूक्ष्म भूतरूप प्रकृति के वाचक 'अव्यक्त' शब्द का व्यवहार शरीररूप विकार में वैसे ही हो जाता है, जैसे गो के विकारभूत (गव्य) दूध के लिए 'गो'
| ४६२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. ४ सू. ३ |
|---|
तद्धेदं तर्ह्यव्याकृतमासीत्' (बृ० १।४।७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति ॥ २ ॥
तदधीनत्वादर्थवत् ॥ ३ ॥
अत्राह—यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत । अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति । अत्रोच्यते—यदि वयं स्वतन्त्रां, कांचनित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम् । परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते, न स्वतन्त्रा । सा चावश्याभ्युपगन्तव्या । अर्थवती
भामती
कमित्यनर्थान्तरम् ॥ नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवम्भूतादेव कारणाद्भवितुमर्हति कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् , यच्च तस्य दुःखामकत्वं तद्रजः, यच्च तस्य मोहात्मकत्वं तत्ततः । तथा चान्यक्तं प्रधानमेवाभ्युपेतमिति ॥ २ ॥
शङ्कानिराकरणार्थं सूत्रम्—तदधीनत्वादर्थवत् ।
प्रधानं हि सांख्यानां सेश्वराणामनीश्वराणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् । ब्रह्मणस्त्वियमविद्या शक्तिर्मायाविद्याशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वच्यत्वं नाम । सोऽयमव्याकृतवादस्य प्रधानवादाद्भेदः । अविद्याशक्तेश्चेश्वराधीनत्वं तदाश्रयत्वात् । न च द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वं, तदिदमुक्तमर्थवदिति । स्यादेतत्—
भामती-व्याख्या
शब्द का व्यवहार—"गोभिः "श्रीणीत मत्सरम्" (ऋ० सं० ९।४६।४) सोम लता के रस को मत्सर कहते हे, क्योंकि वह कुछ मद-कारक होता है, उसको दूध में मिलाने का यहाँ विधान किया गया है। यद्यपि 'श्रीञ् पाके' धातु के लोट् लकार के मध्यमपुरुष-बहुवचन में 'श्रीणीत' शब्द बना है, तथापि यहाँ पकाने में 'श्रीञ्' का प्रयोग न होकर मिलाने, (मिश्रण करने) में माना जाता है]। प्रकृति में 'अव्यक्त' शब्द के व्यवहार का प्रमाण प्रस्तुत किया गया है—"श्रुतिश्च" तद्धेदं तर्ह्यव्याकृतं मासीत् (बृह० उ० १।४।७)। अव्याकृत और अव्यक्त-पद पर्याय हैं ॥ २ ॥
शङ्का— यदि इस स्थूल शरीरादि जगत् की प्राग्भावी (सूक्ष्म) अवस्था को अव्यक्त कहा जाता है, तब यही तो सांख्य-सम्मत प्रधानकारणवाद है अर्थात् सुखदुःखमोहात्मक जगत् उसी प्रकार के प्रधान या प्रकृतितत्त्व से ही उत्पन्न हो सकता है, क्योंकि कार्य और कारण का अभेद (एकस्वभावता) निश्चित है। कारणतत्त्व में जो सुखरूपता है, वही सत्त्व गुण है, जो दुःखरूपता है, वही रजोगुण है, और जो उसमें मोहात्मकत्व है, वही तमो गुण है—इस प्रकार कारण तत्त्व त्रिगुणात्मक प्रधान पदार्थ ही मानना होगा।
समाधान— उक्त शङ्का का समाधान करने के लिए यह सूत्र रचा गया है—"तदधीनत्वात्" वेदान्त-सिद्धान्त में वह कारण तत्त्व अविद्या शक्ति है, जो कि शक्तिमान् ईश्वर से भिन्न नहीं एवं उस के अधीन है, किन्तु सांख्य चाहे निरीश्वरवादी (कपिल) हो या सेश्वरवादी (पातञ्जल) हो, दोनों के मतों में प्रतिपादित प्रधान तत्त्व ईश्वराधीन नहीं माना जाता, अपि तु जीव और ईश्वर से भिन्न वस्तुसत् और स्वतन्त्र माना जाता है किसी के अधीन नहीं। वेदान्ताभिमत अविद्या शक्ति वह मायापदार्थ है, जिसका न सत्त्वरूप से निर्वचन हो सकता है, न असत्त्वरूप से, अतः वह अनिर्वचनीय है। यही (अनिर्वचनीयत्व
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४६३
हि सा। न हि तया विना परमेश्वरस्य स्रष्टृत्वं सिद्ध्यति, शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः। मुक्तानां च पुनरनुत्पत्तिः कुतः? विद्यया तस्या बीजशक्तेर्दाहात्।
भामती
यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात्, तद्विनाशे वा समस्तसंसारोच्छेदस्तन्मूलाविद्याशक्तेः समुच्छेदादित्यत आह ॐ मुक्तानाञ्च पुनः ॐ बन्धस्य ॐ अनुत्पत्तिः ॐ। कुतः ? ॐ विद्यया तस्या बीजशक्तेर्दाहात् ॐ। अयमभिसन्धिः—न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे येनैवमुपालभेमहि किन्त्वियं प्रतिजीवं भिद्यते। तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्याऽपनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोर्विरोधात्, तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः। प्रधानवादिनां त्वेष दोषः। प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः। प्रधानभेदेऽपि चेत्तद्विवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ तर्हि कृतं प्रधानेन? अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः। न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति साम्प्रतम्, अनादित्वाद्वीजाङ्कुरवदु-
भामती-व्याख्या
ही) इसका अव्यक्तत्व है। वेदान्त के अव्याकृतकारण वाद से सांख्य के अव्यक्तकारणवाद का यह महान् अन्तर है। 'अविद्या ईश्वर के अधीन है। इसका अर्थ है 'अविद्या ईश्वर के आश्रित' है [ यहाँ ईश्वराश्रित का ईश्वरविषयक या ईश्वराधिष्ठित अर्थ है, क्योंकि वाचस्पति मिश्र अविद्या को जीव के आश्रित मानते हैं, जिस का निरूपण पहले ही किया जा चुका है ] । स्वतन्त्र जड़ पदार्थ कोई कार्य करने के योग्य नहीं होता, अतः ईश्वराधिष्ठित अविद्या तत्त्व ही अर्थवान् कहा जाता है—"अर्थवत्"।
शङ्का—यदि ब्रह्म की अविद्या शक्ति से संसार का प्रजनन माना जाता है, तब मुक्त पुरुषों का पुनर्जन्म होना चाहिए, क्योंकि प्रधानतत्त्व के समान ही अविद्या तत्त्व भी अक्षुण्ण बना रहता है। यदि विद्या से अविद्या तत्त्व का उच्छेद मान लिया जाता है, तब समस्त संसार का उच्छेद हो जायगा, क्योंकि संसार के मूलकारणीभूत एक मात्र अविद्या तत्त्व का समुच्छेद हो जाता है।
समाधान—उक्त शङ्का का निराकरण भाष्यकार करते हैं—"मुक्तानां पुनरनुत्पत्तिः"। मुक्तानां पुरुषाणां बन्धस्य अनुत्पत्तिः। मुक्त पुरुषों के बन्धन की पुनः उत्पत्ति नहीं होती, क्योंकि विद्या के द्वारा उस की बीजभूत अविद्याशक्ति नष्ट हो जाती है। आशय यह है कि हम वेदान्तिगण ) प्रधान तत्त्व के समान अविद्या को सभी जीवों में एक ही नहीं मानते कि उसके नष्ट हो जाने पर सभी जीवों की एक-साथ मुक्ति प्रसञ्जित होती, किन्तु प्रत्येक जीव में अविद्या भिन्न-भिन्न होती है, अतः जिस जीव में विद्या का उदय होता है, उसी जीव की अविद्या का अपनयन होता है, अन्य जीवों की अविद्या का नहीं, क्योंकि भिन्न-भिन्न अधिकरणों में रहनेवाली विद्या और अविद्या का कोई विरोध नहीं होता, तब एक अविद्या का उच्छेद हो जाने पर समस्त संसार का उच्छेद क्योंकर प्रसक्त होगा? यदि कहा जाय कि प्रधानतत्त्व के होने पर भी प्रकृति और पुरुष की अविवेकख्यातिरूप अविद्या की सत्ता और असत्ता पर बन्ध और मोक्ष निर्भर हैं, तब उस प्रधान तत्त्व की क्या आवश्यकता ? अविद्या के सदसद्भाव से ही बन्ध और मोक्ष की उपपत्ति हो जाती है।
शङ्का—अविद्यारूप उपाधि का भेद (नानात्व) होने पर जीवों का भेद एवं जीवों का भेद सिद्ध होने पर अविद्या का भेद सिद्ध होगा—इस प्रकार अन्योन्याश्रय दोष प्रसक्त क्यों न होगा?
| ४६४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. ३ |
|---|
अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः। तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्—'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' (बृ० ३।८।११) इति श्रुतेः। क्वचिदक्षरशब्दोदितम्, 'अक्षरात्परतः परः' (मु० २।१।२) इति श्रुतेः। क्वचिन्मायेति सूचितम्, 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' (श्वे० ४।१०) इति मन्त्रवर्णात्। अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात्। तदिदं 'महतः परमव्यक्तम्' इत्युक्तम्, अव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्, यदा तु जीवो महान्, तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य 'महतः परमव्यक्तम्' इत्युक्तम्। अविद्या ह्यव्यक्तम्। अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः संततो वर्तते। महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते। सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम्, इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात्परिशिष्टत्वाच्च शरीरस्य।
भामती
भयसिद्धेः। अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति, चाव्याकृतमिति चेति। नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आह ॐ परमेश्वराश्रया इति ॐ। नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया चाश्रयते, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिग्विभ्रमस्येव रज्ज्वधिष्ठानत्वं तेन यथाऽहिविभ्रमो रज्जुपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानस्तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयति इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति, अत एवाह ॐ यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः इति ॐ।
भामती-व्याख्या
समाधान—जिस बीज से जो वृक्ष उत्पन्न होता है, उसी वृक्ष से उसी बीज की उत्पत्ति मानने पर ही अन्योन्याश्रयता की प्रसक्ति मानी जाती है, अन्यान्य बीजों से अन्यान्य वृक्षों की उत्पत्ति मानने पर अन्योन्याश्रयता नहीं होती, क्योंकि बीज और वृक्ष का अनादि प्रवाह माना जाता है। ठीक उसी प्रकार अविद्या और जीवों का भेद (अनेकत्व) अनादि होने के कारण उभय की सिद्धि सम्भव हो जाती है। [श्री मण्डन मिश्र ने भी इसी प्रकार की अन्योन्याश्रयता-प्रसक्ति का समाधान किसी पुरातन आचार्य के मत से किया है—"अन्ये तु अनादित्वादुभयोरविद्याजीवयोर्बीजाङ्कुरसन्तानयोरिव नेतरेतराश्रयत्वमप्रकृतिभावमावहतीति वर्णयन्ति, तथा चोक्तम् अविद्योपादानभेदवादिभिः—"अनादिरप्रयोजना चाविद्या।" (ब्र. सि. पृ. १०)]। यद्यपि अविद्याएँ अनेक हैं, तथापि उन सबका अविद्यात्वेन संग्रह विवक्षित होने के कारण 'अव्यक्तम्'—इस प्रकार एकवचनान्त 'अव्यक्त' पद के द्वारा अभिधान किया गया है। 'अव्यक्त' शब्द का अर्थ है—अव्याकृत। यदि अविद्या ही जगत् की बीज शक्ति है, तब ईश्वर की क्या आवश्यकता? इस प्रश्न का उत्तर है—"परमेश्वराश्रया मायामयी महासुप्तिः"। ऐसा कभी सम्भव नहीं कि केवल जड़ पदार्थ किसी चेतन से अधिष्ठित (सञ्चालित) न होकर ही समग्र कार्य का सम्पादन कर ले, अतः जडरूप अविद्या अपना कार्य सम्पादन करने के लिए निमित्त-कारण या उपादानकारण के रूप में परमेश्वर का आश्रय लेती है। प्रपञ्चरूप विभ्रम की अधिष्ठानता ईश्वर में वैसी है, जैसी सर्प-विभ्रम की अधिष्ठानता रज्जु में, अत एव जैसे सर्प-भ्रम का उपादानकारण रज्जु है, वैसे ही प्रपञ्च-विभ्रम का उपादान कारण ईश्वर। फलतः जीवरूप आधार में रहनेवाली अविद्या निमित्त या विषय के रूप में ईश्वर को अपनाने के कारण ही ईश्वराश्रया कही जाती है, ईश्वर वस्तुतः
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४६५
अन्ये तु वर्णयन्ति — द्विविधं हि शरीरं स्थूलं सूक्ष्मं च । स्थूलं यदिदमुपलभ्यते । सूक्ष्मं यदुत्तरत्र वक्ष्यते—'तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्' ( बृ० ३।१।१ ) इति । तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्तितम् । इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात् । तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम् । यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति ।
भामती यस्यामविद्यायां सत्यां शेरत इति लय उक्तः, संसारिण इति विक्षेप उक्तः । ॐ अव्यक्ताधीनत्वाज्जीवभावस्य इति ॐ । यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षितवैतदुक्तं ॐ सत्यपि शरीरवदिन्द्रियादीनाम् इति ॐ । गोबलीवर्दपदवदेतत् द्रष्टव्यम् । आचार्यदेशीयमतमाह ॐ अन्ये तु इति ॐ । एतद् दूषयति ॐ तैस्तु इति ॐ । प्रकरणपरिशेष्य-
भामती-व्याख्या अविद्या का आधार नहीं बन सकता, क्योंकि विद्यात्मक ब्रह्म ( ईश्वर ) में अविद्या का रहना सर्वथा अनुपपन्न है । इसी भाव को ध्वनित करने के लिए भाष्यकार ने कहा है—"यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः" । 'यस्यामविद्यायाम्'—यहाँ सति सप्तमी है, अतः 'जिस अविद्या के रहने पर'—ऐसा अर्थ विवक्षित है। जीवों का जो अपना वास्तविक ब्रह्मरूप है, उसे विस्मरण करके 'शेरते' अर्थात् सुषुप्ति में लीन रहते हैं—इससे लयावस्था और 'संसारिणः'—इस विशेषण के द्वारा 'विक्षेप' अवस्था का अभिधान किया गया है। दो अनादि पदार्थों को प्रत्येक में दूसरे की अधीनता विवक्षित होती है, जैसे—'बीजाधीनो वृक्षः' और 'वृक्षाधीनं बीजम्' । भाष्यकार ने जो कहा है "अव्यक्ताधीनत्वाज्जीवभावस्य"। वहाँ भी अव्यक्त ( अविद्या ) और जीवभाव—दोनों अनादि पदार्थ हैं, पौर्वापर्यरूप को लेकर जीवभाव में अव्यक्ताधीनत्व नहीं कहा जा सकता, तथापि अव्यक्त में पूर्वकालत्व की विवक्षा करके जीवभाव में अव्यक्ताधीनत्व कह दिया है। भाष्यकार ने जो कहा है—"सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम्, इन्द्रियाणां स्वशब्दैरेव गृहीतत्वात्, परिशिष्टत्वाच्च शरीरस्य" । यह सब गोबलीवर्दन्न्याय को ध्यान में रख कर कहा है [ जैसे 'गामानय बलीवर्दं चानय'—ऐसे आज्ञावाक्य को सुन कर श्रोता 'गो' पद के द्वारा नर गौ ( बैल ) से अतिरिक्त मादा गौओं (गायों) का ग्रहण कर लेता है, क्योंकि यद्यपि 'गो' पद नर और मादा दोनों प्रकार के गोमण्डल को कहता है, तथापि नर गौ का पृथक् 'बलीवर्द' पद से उल्लेख होने के कारण मादा गौएँ ही शेष रहती हैं, अतः 'गामानय'—यहाँ 'गो' पद से मादा गौओं का ग्रहण न्यायोचित है। वैसे ही "इन्द्रियेभ्यः परा ह्यर्थाः, अर्थेभ्यश्च परं मनः मनसस्तु परा बुद्धिः, बुद्धेरात्मा महान् परः, महतः परमव्यक्तम्"—यहाँ पर यद्यपि 'अव्यक्त' शब्द शरीर, इन्द्रिय और शब्दादि समस्त विकार-वर्ग का बोधक है। तथापि इन्द्रियादि का पृथक् उल्लेख होने के कारण अवशिष्ट शरीर का ही ग्रहण 'अव्यक्त' पद से करना अत्यन्त संगत है ] । वृत्तिकारादि आचार्यों के मत से उक्त दोनों सूत्रों की व्यवस्था का प्रदर्शन किया जाता है—"अन्ये तु वर्णयन्ति"। [ उनका कहना है कि शरीर दो प्रकार का होता है—(१) स्थूल और (२) सूक्ष्म । प्राणियों का यह दृश्यमान शरीर स्थूल शरीर है और सूक्ष्म शरीर आगे चल कर कहा जायगा—"तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्" ( ब्र. सू. ३।१।१ ) अर्थात् यह जीव देहान्तर की प्राप्ति के अवसर पर भावी स्थूल शरीर ५९
४६६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [अ. १ पा. ४ सू. ३
तैस्त्वेतद्वक्तव्यम् — अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात्समानयोः प्रकृतत्वपरिशिष्टत्वयोः कथं सूक्ष्ममेव शरीरमिह गृह्यते, न पुनः स्थूलमपीति ? आम्नातस्यार्थं प्रतिपत्तुं प्रभवामः, नाम्नातं पर्यनुयोक्तुम् । आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति, नेतरत्, व्यक्तत्वात्तस्येति चेत्, न, एकवाक्यताधीनत्वादर्थप्रतिपत्तेः । न हीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कंचिदर्थं प्रतिपादयतः, प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् । न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्ति-
भामती योरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति । शङ्कते ॥ आम्नातस्यार्थम् इति ॥ अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः । निराकरोति "नैकवाक्यताधीनत्वात्" इति । प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनेकवाक्यत्वे सम्भवति न वाक्यभेदो युज्यते । न चाकाङ्क्षां विनेकवाक्यत्वमुभयञ्च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वयपरम् । न च मुख्यया वृत्त्याऽतत्परमित्योपचारिकं न भवति । यथोपहन्तृमात्रनिराकरणाकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादि सर्वहन्तृपर
भामती-व्याख्या के आरम्भक सूक्ष्म भूतात्मक सूक्ष्म शरीर से संवलित होकर स्वर्गादि लोकों को जाता है, क्योंकि "वेत्थ यथा पञ्चम्यामाहुतौ आपः पुरुषवचसो भवन्ति" (छां. ५।३।३) इस प्रकार के प्रश्न और "पञ्चम्यामाहुतौ आपः पुरुषवचसो भवन्ति" (छां. ५.१।१) इस प्रकार के उत्तर से उसी सूक्ष्म शरीर का वर्णन किया गया है। इन दोनों शरीरों का श्रुति ने रथ के रूप में वर्णन किया है। उन दोनों में सूक्ष्म शरीर का 'अव्यक्त' शब्द के द्वारा ग्रहण किया गया है, क्योंकि वह व्यक्त (स्थूल) नहीं अतः 'अव्यक्त पदास्पद है। इसी सूक्ष्म शरीर के अधीन जीव के बन्ध और मोक्ष हैं, अतः यह् जीव की अपेक्षा 'पर' (श्रेष्ठ) है]।
उक्त वृत्तिकार के मत में दोषाभिधान किया जाता है—"तैस्त्वेतद् वक्तव्यम्"। आशय यह है कि प्रकरण और परिशेष दोनों शरीरों के लिए समान हैं, अतः उनमें से किसी एक का ग्रहण क्योंकर होगा ?
शङ्का—श्रुति-घटक 'अव्यक्त' शब्द का समुचित अर्थ हमें करना चाहिए, उस पर 'स्थूल शरीर का अव्यक्त पद के द्वारा अभिधान क्योंकर हो गया ?' ऐसा आक्षेप नहीं किया, जा सकता, फलतः 'अव्यक्त' शब्द व्यक्तेतर केवल सूक्ष्म शरीर का ही अभिधायक है।
समाधान—उक्त शङ्का का निराकरण करने के लिए भाष्यकार ने कहा है—"न, एकवाक्यताधीनत्वादर्थप्रतिपत्तेः"। अर्थात् "शरीरं रथमेव तु" (कठो. १।३।३) और महतः परम व्यक्तम्" (कठो. १।३।११) इन पूर्वापरोक्त दोनों वाक्यों की एकवाक्यता के विना 'अव्यक्त' शब्द का सहसा अर्थ नहीं किया जा सकता। 'अव्यक्त' शब्द का केवल सूक्ष्म शरीर अर्थ करने पर प्रकृत शरीरमात्र (सूल और सूक्ष्म-दोनों शरीरों) का हान (अग्रहण) और अप्रकृत (केवल सूक्ष्म शरीर) का ग्रहण प्रसक्त होता है, अतः ऐसे अप्रसङ्ग (प्रसङ्ग की निवृत्ति) के द्वारा पूर्वोत्तर वाक्यों की जब एकवाक्यता हो सकती है, तब वाक्य-भेद युक्ति-संगत नहीं माना जाता, जैसा कि वार्तिककार ने कहा है—"सम्भवत्येकवाक्यत्वे वाक्यभेदो न युज्यते" (श्लो. वा. पृ. १३१)। दो वाक्यों की एकवाक्यता परस्पर की आकांक्षा के बिना नहीं होती, आकांक्षा प्रकृत की होती है और प्रकृत है शरीरमात्र (उभय शरीर), अतः दोनों शरीर ही यहाँ अव्यक्तपदास्पदत्वेन आकांक्षित हैं, फलतः केवल सूक्ष्मशरीर का वाचक 'अव्यक्त' पद दोनों शरीरों का बोधक है। 'अव्यक्त' पद यदि शरीर-द्वय का मुख्य (अभिधा) वृत्ति से वाचक नहीं होता, एतावता औपचारिक (लक्षणा वृत्ति से शरीर-द्वय का बोधक)
अव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४६७
रस्ति । तत्राविशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं संबन्धेऽनभ्युपगम्य- मान एकवाक्यतैव बाधिता भवति, कुत आम्नातस्यार्थप्रतिपत्तिः ? न चैवं मन्त- व्यम् -- दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणं, स्थूलस्य तु दृष्टबीभत्सतया सुशोध- त्वादग्रहणमिति । यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते । न ह्यत्र शोधनविधायि किंचिदा- ख्यातमस्ति । अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते । तथा- हीदमस्मात्परमिदमस्मात्परमित्युक्त्वा 'पुरुषान्न परं किंचिद्' इत्याह । सर्वथापि त्वा- नुमानिकनिराकरणोपपत्तेस्तथा नामास्तु, न नः किंचिच्छिद्यते ॥ ३ ॥
भामती
विज्ञायते । यथाहूः काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि नोदितः । उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥ इति ।
ननु न शरीरद्वयस्यात्राकाङ्क्षा, किन्तु दुःशोधत्वात् सूक्ष्मस्यैव शरीरस्य, न तु षाट्कौशिकस्य स्थूलस्य, तद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आह ॐ न चैवं मन्तव्यम् इति ॐ । विष्णोः परमं पदमवगमयितुं परं पदमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः । अलं वा विवादेन भवतु सूक्ष्मशरीरं परिशोध्यं तथापि न सांख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याह । ॐसर्वथापि तु इतिॐ ॥ ३ ॥
भामती-व्याख्या
भी नहीं हो सकता—ऐसा नहीं, अपितु उपचारतः अशक्यार्थ के संग्राहक पदों का प्रयोग प्रचुर मात्रा में पाया जाता है, जैसे कि अन्न के घातक प्राणीमात्र के निवर्तन की आकांक्षा से प्रयुक्त 'काकेभ्यो रक्ष्यतामन्नम्'—इस वाक्य में 'काक' पद काककुकुरादि समस्त अन्नोप- घातक प्राणियों का संग्राहक माना जाता है, जैसा कि श्री कुमारिल भट्ट कहते हैं— काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि चोदितः । उपघातकप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥ (तं. वा. पृ. ७१३ )
वाक्यपदीकार भी कहते हैं— काकेभ्यो रक्ष्यतां सर्पिरिति बालोऽपि चोदितः । उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ (वाक्य. पृ. ४२)
शङ्का—प्रकृत में दोनों शरीरों की आकांक्षा नहीं, अपितु केवल सूक्ष्म शरीर ही अपेक्षित है। क्योंकि शरीरों का शोधन (अनात्मत्व-निश्चय) ही यहाँ अपेक्षित है, सूक्ष्म शरीर का शोधन या विवेक ही विशेष दुष्कर है, षाट्कौशिक शरीर का शोधन कठिन नहीं [माता से प्राप्त लोम, लोहित और मांस तथा पिता से प्राप्त स्नायु, अस्थि और मज्जा—इन छः पदार्थों को षट्कोश कहते हैं, स्थूल शरीर के ये ही मौलिक पदार्थ हैं, अतः स्थूल शरीर षाट्कोशिक कहा जाता है, इसमें अनात्मत्व-निश्चय सुकर है], क्योंकि यह तो देखने में ही इतना बीभत्स लगता है कि साधारण व्यक्ति को भी इससे वैराग्य एवं इसमें अनात्मत्व का निश्चय सहज में ही हो जाता है।
समाधान—उक्त शङ्का का निरास करते हुए भाष्यकार कहते हैं कि "न चैवं मन्तव्यम्, यतो नैवेह शोधनं कस्यचिद् विवक्ष्यते"। अर्थात् यहाँ पर शरीर-शोधन का कोई प्रसङ्ग ही नहीं और न शोधन का विधायक कोई पद है। सर्वोपरि अवस्थित वैष्णव परम पद का बोध कराने के लिए एक सोपान के रूप में ही शरीर का ग्रहण किया गया है वैराग्यो- त्पादनार्थ शोधन की यहाँ कोई अपेक्षा नहीं। अथवा इस विवाद को समाप्त करते हुए यदि
| ४६८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. ४ सू. ५ |
|---|
ज्ञेयत्वावचनाच्च ॥ ४ ॥
ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः। न हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति। क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति। न चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यते। पदमात्रं ह्यव्यक्तशब्दः। नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति। न चानुपदिष्टपदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम्। तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते। अस्माकं तु रथरूपकक्लृप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥ ४ ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
अत्राह सांख्यः—'ज्ञेयत्वावचनात्' इत्यसिद्धम्, कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्—'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥' (का० १।३।१५) इति। अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितं, तादृशमेव निचाय्यत्वेन निर्दिष्टं, तस्मात्प्रधानमेवेदं, तदेव चाव्यक्तशब्दनिर्दिष्टमिति। अत्र ब्रूमः—नेह प्रधानं निचाय्यत्वेन निर्दिष्टम्। प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते। कुतः ? प्रकरणात्। प्राज्ञस्य हि प्रकरणं विततं वर्तते, 'पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः' इत्यादिनिर्देशात्, 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते' इति च दुर्ज्ञातत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात्। 'यच्छेद्वाङ्मनसी प्राज्ञः' इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्, मृत्युमुखप्रमोक्षणफलत्वाच्च। नहि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सांख्यैरिष्यते। चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमः। सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यते। तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ ५ ॥
भामती
इतोऽपि नायमव्यक्तशब्दः सांख्याभिमतप्रधानपरः। सांख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूतये वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते, न चेह जानीयादिति वोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रं, न चैतावता सांख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥ ४ ॥
ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम्। निगद्व्याख्यातमेव भाष्यम् ॥ ५ ॥
भामती-व्याख्या
यह मान भी लिया जाता है कि परिशोधनीय सूक्ष्म शरीर ही यहाँ अव्यक्त पदास्पद है। तथापि सांख्याभिमत प्रधान तत्त्व सर्वोपरि सिद्ध नहीं होता ॥ ३ ॥
'अव्यक्त' शब्द की सांख्याभिमत प्रधानपरकता के निराकरण में एक युक्ति यह भी है कि जैसे सांख्याचार्य "गुणपुरुषान्तरज्ञानात् कैवल्यम्" इत्यादि वाक्यों के द्वारा त्रिगुणात्मक प्रधान का कहीं मोक्षार्थ-ज्ञेयत्वेन और कहीं ऐश्वर्य प्राप्त्यर्थ-उपास्यत्वेन स्मरण किया करते हैं, किन्तु अव्यक्त पदार्थ का कहीं भी वैसा स्मरण नहीं करते, तब 'अव्यक्त' शब्दमात्र के सुनने से प्रधान तत्त्व की प्रत्यभिज्ञा नहीं हो सकती ॥ ४ ॥
अव्यक्तगत ज्ञेयत्व के अवचन (अनभिधान) की आशङ्कित असिद्धि का निराकरण करने के लिए सूत्रकार कहता है—"वदतीति चेन्न प्राज्ञो हि प्रकरणात्"। इस सूत्र का भाष्य इतना सुगम है कि पढते ही अर्थावबोध हो जाता है कि "अनाद्यनन्तं महतः परं ध्रुवं
अव्यक्तशब्दस्य शरीरपरत्वम् | हिन्दीसहितभामतीसंचलितम् ४६९
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा । यस्मात्त्रयाणामेव पदार्था-
भामती
वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युनंचिके- केतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन् वरान् प्रददौ, नचिकेतास्तु प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्यां, तृतीयेनात्मविद्याम् , वराणामेष वरस्तृतीय इति वचनात् । न तु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने । तस्मात्कठवल्लीह्वग्निसंज्ञोऽपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वप्रक्रान्तप्रधानपरा भवितुमर्हतीत्याह ॐ इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वम् इति ॐ । हन्त त इदं प्रवक्ष्यामि गुह्यं
भामती-व्याख्या
निचाय्य तं मृत्युमुखात् प्रमुच्यत” ( कठो० २।३।१५ ) इत्यादि वाक्यों में जो अव्यक्त तत्त्व का निचाय्यत्वेन ( ज्ञेयत्वेन ) उल्लेख माना जाता है, वह संगत नहीं, क्योंकि वहाँ प्राज्ञात्मा ( परमेश्वर ) का प्रकरण है, अतः वही ज्ञेयत्वेन श्रुत है, अव्यक्ततत्त्व नहीं ॥ ५ ॥
इस अधिकरण का विषय-वाक्य जिस उपनिषत् का है, उसकी किसी भी वल्ली ( उपाध्याय ) में सांख्याभिमत प्रधानतत्त्व का प्रतिपादन उपलब्ध नहीं होता, क्योंकि समग्र कठ उपनिषत् नचिकेता और यम का संवादात्मक ग्रन्थ है, जिस का आरम्भ यम के द्वारा वर-प्रदान के रूप में होता है—
तिस्रो रात्रीर्यदवासीगृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन् वरान् वृणीष्व ॥
[ यम देव ने कहा—हे नचिकेता ? तू बिना कुछ खाए-पिए मेरे द्वार पर तीन रात पड़ा रहा है, अतः तीन रात्रियों के बदले मुझ से तीन वर माँग ले, जिस से कि मैं उऋण हो सकूँ और मेरा कल्याण हो ] । यह नचिकेता वही है, जिसकी धृष्टता पर उस का पिता वाजश्रवस ( अन्नदानादि में अग्रणी उद्दालक ऋषि ) क्रुद्ध होकर उस ( नचिकेता ) को यमराज के पास प्रेषित कर देता है और यमराज उस पर प्रसन्न होकर वर देता है।
नचिकेता पहला वर माँगता है—“शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमः” [ मेरे ( नचिकेता के ) पिता उद्दालक का उद्वेग और क्रोध शान्त हो जाय एवं मेरे ( नचिकेता के ) प्रति उसका पूर्ववत् सौमनस्य ( वत्सलभाव ) जागृत हो ] । द्वितीय वर के द्वारा अग्नि-विज्ञान माँगता है— 'स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम् [ हे यम ! आप स्वर्ग-प्राप्ति की साधनभूत अग्नि का ज्ञान रखते हैं। मैं श्रद्धा और विनय के साथ प्रार्थना करता हूँ कि वह विज्ञान मुझे प्रदान करें ] । तृतीय वर में आत्मविद्या की माँग रखी—
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
[ मनुष्य के मर जाने पर जो यह सन्देह किया जाता है कि कुछ लोग कहते हैं कि आत्मा नहीं मरता, अपि तु जन्मान्तर में भी वही बना रहता है और कुछ लोगों का कहना है कि मनुष्य के मर जाने पर कुछ भी शेष नहीं रहता। ऐसे सन्देहास्पद आत्मा का तत्त्वावबोध मुझे कराएँ ] । प्रधान ( सांख्याभिमत प्रकृति ) के विषय में न तो कोई वर-प्रदान ही किया गया है और प्रश्नोत्तर ही उपलब्ध होते हैं, अतः कठोपनिषत् के प्रतिपाद्य तीन ही विषय हैं—अग्नि, जीव और परमात्मा । इन से अतिरिक्त किसी प्रधानादि विषय को लेकर वहाँ वाक्यों की प्रवृत्ति नहीं पाई जाती— 'यस्मात् त्रयाणामेव पदार्थानामग्निजीवपरमात्मनां वरप्रदानसामर्थ्यात्' । 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्'