भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
अभिन्ननिमित्तोपादानं ब्रह्म ] हिन्दीसहितभामतीसंवलितम् ५२५
'स प्राणमसृजत' ( प्र० ६।४ ) इत्यादिश्रुतिभ्यः । ईक्षापूर्वकं च कर्तृत्वं निमित्त- कारणेष्वेव कुलालादिषु दृष्टम् । अनेककारकपूर्विका च क्रियाफलसिद्धिलोंके दृष्टा । स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम्, ईश्वरत्वप्रसिद्धेश्च । ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते, तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यम्, कार्यकारणयोः सारूप्यदर्शनात् । ब्रह्म च नैवंलक्षणमवगम्यते 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' ( श्वे० ६।१९ ) इत्यादिश्रुतिभ्यः । पारिशेष्याद् ब्रह्मणोऽन्यदुपादानं कारणमशुद्धयादिगुणं स्मृतिप्र- सिद्धमभ्युपगन्तव्यम् । ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादिति । एवं प्राप्ते ब्रूमः,—प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यं निमित्त-
भामती
तद्विशेषनियममागमो न प्रतिषिध्यत्यपि त्वनुमन्यत एवेत्याह ॐ पारिशेष्याद् ब्रह्मणोऽन्यद् इति ॐ । ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गात्सांख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम् 'उत तमादेशम्' इत्यादिना यथा सोम्यैकेन मृत्पिण्डेनेति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः । यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति । एवं प्राप्त उच्यते—प्रकृतिश्च । न केवलं ब्रह्म निमित्तकारणं, कुतः? प्रतिज्ञादृष्टान्तयोरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरोध्येयाताम् तथाहि
न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः ।
ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः ॥
भामती-व्याख्या
हैं—“स ईक्षांचक्रे” (प्र. ६।३) इत्यादि। इस प्रकार यह आवश्यक हो जाता है कि उपादानकारण कोई और माना जाय—“पारिशेष्याद् ब्रह्मणोऽन्यदुपादानकारणमभ्युपगन्तव्यम्”। पारिशेष्य का स्वरूप बताते हुए न्यायभाष्यकार ने कहा है—“प्रसक्तप्रतिषेधाद् अन्यत्राप्रसङ्गः परिशेषः” (न्या० भा० १।१।५)। उसके अनुसार प्रसक्त (प्राप्त) ब्रह्मगत उपादानकारणता का प्रतिषेध हो जाने पर अन्य किसी वस्तु में उपादान-कारणता प्रसक्त नहीं, परिशेषतः सांख्य-सम्मत प्रधान (प्रकृति) में उपादानता पर्यवसित होती है। “उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति” (छां० ६।१।२) इत्यादि वाक्यों के द्वारा जो एक के विज्ञान से सर्व-विज्ञान की प्रतिज्ञा की है और “यथा सोम्यैकेन मृत्पिण्डेन” (छां० ६।१।४) इत्यादि जो दृष्टान्त दिखाए हैं, वे सभी ब्रह्म की प्रधानता (प्रमुखता) के वैसे ही सूचक हैं, जैसे सोमशर्मा की प्रशंसा में कहा जाय—'सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति'।
सिद्धान्त—उक्त पूर्वपक्ष का निराकरण-सूत्र है—'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्”। अर्थात् ब्रह्म केवल निमित्तकारण ही नहीं, क्योंकि कथित प्रतिज्ञा और दृष्टान्त का सामञ्जस्य उभयविध कारणता में ही होता है, केवल निमित्तकारणता मानने पर प्रतिज्ञा और दृष्टान्त उपरुद्ध (विरुद्ध या बाधित) हो जाते हैं—
न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे हि तावद् वेदान्ता पौर्वापर्येण वीक्षिताः ।
ऐकान्तिकाद्वैतपरता द्वैतमात्रनिषेधतः ॥
| ५२६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. २३ |
|---|
कारणं च, न केवलं निमित्तकारणमेव । कस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवं प्रतिज्ञादृष्टान्तौ श्रौतौ नोपरुध्येते । प्रतिज्ञा तावत्—'उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' ( छा० ६।१।२ ) इति । तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते । तच्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवत्युपादानकारणाव्यतिरेकात्कार्यस्य । निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्षणः प्रासादाव्यतिरेकादर्शनात् । दृष्टान्तोऽपि—'यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्युपादानकारणगोचर एवाम्नायते । तथा 'एकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्' 'एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्' ( छा० ६।१।४,५,६ ) इति च । तथान्यत्रापि 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' ( मुण्ड० १।१।२ ) इति प्रतिज्ञा । 'यथा पृथिव्यामोषधयः संभवन्ति' ( मुण्ड० १।१।७ ) इति दृष्टान्तः । तथा 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्' इति प्रतिज्ञा ।' स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः' ( बृ० ४।५।६,८ ) इति दृष्टान्तः । एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतिसाधनौ प्रत्येत्तव्यौ । यत इतीयं पञ्चमी—'यतो वा इमानि
भामती
तदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु यजमानः प्रस्तर इतिवद् गुणकल्पनया नेतव्यौ तस्यार्थवादस्यान्यार्थपरत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणतात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपादानकारणं जगतः । न च ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातितनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे स्मर्यते, अपि तु प्रकृतौ जनिकर्तुः
भामती-व्याख्या
कथित प्रतिज्ञा और दृष्टान्त के आधार पर जो ब्रह्म में जगत् की उपादानता प्रतिपादित है, वह मुख्य ( अभिधा ) वृत्ति को लेकर वास्तविक उपादानकारणता ही माननी होगी, यजमानगत गौण प्रस्तररूपता ( यज्ञोपकारिता ) के समान प्रधानता, ( प्रशस्तता या प्रमुखता ) रूप गौण उपादानता नहीं, क्योंकि “यजमानः प्रस्तरः” ( तै० सं० २।१।६ ) यह अर्थवाद प्रस्तरूप मुख्यार्थपरक नहीं, वैसा प्रकृत में नहीं । प्रतिज्ञा और दृष्टान्त-वाक्य अद्वैतपरक ही हैं, अतः समस्त उपादेयभूत जगत् के ज्ञान का उसके उपादान-कारणभूत ब्रह्म के ज्ञान से हो होना न्याय-सिद्ध है । निमित्तकारण तो अपने कार्य-प्रपञ्च से अत्यन्त भिन्न होता है, अतः उसके ज्ञान से समस्त कार्य का ज्ञान नहीं हो सकता । अतः ब्रह्म जगत् का उपादानकारण सिद्ध होता है । 'ब्रह्म से भिन्न और कोई पदार्थ जगत् का निमित्तकारण है'—यह कहना भी युक्ति-युक्त नहीं, क्योंकि उक्त प्रतिज्ञा और दृष्टान्त के अनुरोध पर वैसा मानना सम्भव नहीं । सांख्य-सम्मत प्रधानादि तत्त्व तो कार्य-वर्ग में ही आ जाते हैं, अतः उनके ज्ञान से समस्त कार्य का ज्ञान क्योंकर होगा ? यह जो कहा गया कि वेदान्त-वाक्य सामान्य कारणता के प्रतिपादक हैं, वह भी उचित नहीं, क्योंकि “यतो वा इमानि भूतानि जायन्ते” ( तै. उ. ३।१ ) यहाँ 'यतः' पद में जो पञ्चमी विभक्ति है, “जनिकर्तुः प्रकृति” ( पा. सू. १।४।३० ) इस सूत्र के अनुसार जनि ( उत्पत्ति ) के कर्त्ता ( जायमान वस्तुमात्र )
अभिन्ननिमित्तोपादानं ब्रह्म ] हिन्दीसहितभामतीसंवलितम् ५२७
भूतानि जायन्ते' इत्यत्र 'जनिकर्तुः प्रकृतिः' ( पा० सू० १।४।३० ) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् । यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्षितव्योऽस्ति, प्रागुत्पत्तेरेकमेवाद्वितीयमित्यवधारणात् । अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः । अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरेकविज्ञानेन सर्वविज्ञानस्यासंभवात् प्रतिज्ञादृष्टान्तोपरोध एव स्यात् । तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥
कुतश्चात्मनः कर्तृत्वप्रकृतित्वे ? —
अभिध्योपदेशाच्च ॥ २४ ॥
अभिध्योपदेश आत्मनः कर्तृत्वप्रकृतित्वे गमयति 'सोऽकामयत बहु स्यां प्रजायेयेति, 'तदैक्षत बहु स्यां प्रजायेय' इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते । बहु स्यामिति प्रत्यगात्मविषयत्वाद् बहुभवनाभिध्यानस्य प्रकृतितिरित्यपि गम्यते ॥ २४ ॥
साक्षाच्चोभयाम्नानात् ॥ २५ ॥
प्रकृतित्वस्यायमभ्युच्चयः । इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद् ब्रह्मैव कारणमुपादायोभौ प्रभवप्रलयावाम्नायेते — 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति' ( छा० १।९।१ ) इति । यद्धि यस्मात्प्रभवति यस्मिंश्च प्रलीयते, तत्तस्योपादानं प्रसिद्धम् । यथा व्रीहियवादीनां पृथिवी । 'साक्षात्' इति चोपादानान्तरानुपदानं दर्शयत्याकाशादेवेति । प्रत्यस्तमयश्च नोपादानादन्यत्र
भामती
प्रकृतिरिति । ततोऽपि प्रकृतित्वमवगच्छामः । दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥ २३ ॥
अनागतेच्छासङ्कल्पोऽभिध्या । एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । बहु स्यामिति च स्वविषयतयोपादानत्वमुक्तम् ॥ २४ ॥
आकाशादेव ब्रह्मण एवेत्यर्थः । साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे ॐ आकाशा-
भामती-व्याख्या
के उपादानकारण (प्रकृति) की अपादानसंज्ञा की गई और “अपादाने पञ्चमी” (पा. सू. २।३।२८) इस सूत्र से उस पञ्चमी का विधान हुआ, अतः प्रकृति के अर्थ में 'यत्' पद पर्यवसित होता है, कारणमात्र में नहीं । अतः व्याकरण के अनुसार भी ब्रह्म जगत् की प्रकृति (उपादानकारण) ही अधिगत होता है । भाष्यकार ने जो दुन्दुभि-श्रुति का उपन्यास किया है, वहाँ दुन्दुभि या दुन्दुभि के आघात का ग्रहण होने से सभी शब्दों का ग्रहण बताया गया है, किन्तु शब्द का उपादानकरण न तो दुन्दुभि है और न दुन्दुभि का आघात, अतः 'दुन्दुभि' और 'दुन्दुभ्याघात' पद शब्द-सामान्य का उपलक्षक माना जाता है ॥ २३ ॥
“अभिध्योपदेशाच्च”—इस सूत्र में 'अभिध्या' शब्द का अर्थ है—भावी वस्तु की इच्छा । इस इच्छा के द्वारा निमित्तकारणता प्रदर्शित की गई है और 'बहु स्याम्'—यहाँ ब्रह्म में स्वोपादनक बहुकार्य-सर्जन के द्वारा उपादानकारणता सूचित की गई है ॥ २४ ॥
“सर्वाणि ह वा इमानि भूतान्याकाशादेव” (छां. १।९।१) इस श्रुति में आकाशादेव का अर्थ 'ब्रह्मण एव' है। “साक्षाच्चोभयाम्नानात्”—इस सूत्र के अवयवभूत 'साक्षात्' पद ।
५२८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ४ सू. २६
कार्यस्य दृष्टः ॥ २५ ॥
आत्मकृतेः परिणामात् ॥ २६ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् 'तदात्मानं स्वयमकुरुत' ( तै० २।७ ) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति। आत्मानमिति कर्मत्वं, स्वयमकुरुतेति कर्तृत्वम्। कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम् ? परिणामादिति ब्रूमः । पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः । स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते । परिणामादिति वा पृथक्सूत्रम् । तस्यैषोऽर्थः- इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना
भामती
देव ॐ इति श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीति साक्षादिति सूत्रावयवेन दर्शितमिति योजना ।। २५ ।।
प्रकृतिग्रहणमुपलक्षणं निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् । ॐ कथं पुनः इति ॐ । सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति । ॐ परिणामादिति ब्रूमः इति ॐ । पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामोऽनिर्वचनीयत्वाद्भेदैनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः । एकवाक्यत्वेन व्याख्याय परिणामादित्यवच्छिद्य व्याचष्टे ॐ परिणामादिति वा इतिॐ ।
भामती-व्याख्या
का अनुवाद कर उसका अर्थ किया जाता है—"आकाशादेव" । 'आकाशादेव समुत्पद्यन्ते'—यह श्रुति ब्रह्म में जगत् की उपादानकारणता का अवधारण करती हुई अन्ययोग-व्यवच्छेदक एवकार के द्वारा आकाश ( ब्रह्म ) से भिन्न पदार्थ की उपादानता का जो निषेध करती है, वही निषेध सूत्रकार ने 'साक्षात्' पद से सूचित किया है। 'श्रुतिगतैवैकारसूचितमुपादानान्तराभावं साक्षादिति सूत्रावयवेन सूचयति सूत्रकारः'--ऐसी योजना कर लेनी चाहिए ।। २५ ।।
भाष्यकार ने जो कहा है—"इतश्च प्रकृतिर्ब्रह्म"। यहाँ पर 'प्रकृति' पद निमित्तकारण का भी उपलक्षक है, क्योंकि आगे चलकर भाष्यकार कहते हैं—"तदात्मानं स्वयमकुरुत "इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति" यहाँ 'कर्मत्व' हेतु उपादानता और 'कर्तृत्व' हेतु निमित्तकारणता का साधक है, अतः प्रतिज्ञा-वाक्य में भी दोनों कारणताओं का निर्देश होना चाहिये, अतः 'प्रकृति' पद को अजहत्स्वार्थ लक्षणा के द्वारा उभयविध कारणता का बोधक मानना आवश्यक है। "कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वम्" इस शङ्का-भाष्य का आशय यह है कि श्रुति ने जो कहा है कि परमात्मा ने अपने-आपको सर्जन किया, वहाँ स्वकर्तृक और स्वकर्मक सर्जन क्रिया प्रतीत होती है, किन्तु किसी क्रिया के कर्तृत्व और कर्मत्व—दोनों एक पदार्थ में नहीं रह सकते, क्योंकि 'कर्तृत्व' धर्म सिद्ध और 'कर्मत्व' साध्य होता है, अतः दोनों धर्मों का परस्पर विरोध है। "परिणामादिति ब्रूमः"—इस समाधान-भाष्य का तात्पर्य यह है कि [ श्रुति ने स्वयं विरुद्ध धर्मों का एकत्र समावेश बताया है—'सच्च त्यच्चाभवत्' (तै० उ० २।६) । स्वप्न में स्वशिरश्छेदनादि के समान विरुद्धरूप से प्रतीयमान आरोपित धर्मों का कोई विरोध नहीं होता ] एक ही ब्रह्म सद्रूपेण सिद्ध (कर्ता) है और अनिर्वचनीय परिणामवत्त्वेन साध्य (कर्म) होता है। जैसे - अरजत में रजत का आरोप होता है, वैसे ही अभिन्न में भेद का आरोप ।
'आत्मकृतेः' और 'परिणामात्'—इन दोनों पदों की एकवाक्यता-पक्षीयव्याख्या करके 'परिणामात्'—इस पद को पृथक् करके उसकी व्याख्या की जाती है—"परिणामादिति
ब्रह्मैव जगदुपाद(नम् ] हिन्दीसहितभामतीसंवलितम् ५२९
परिणामः सामानाधिकरण्येनाम्नायते 'सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च' ( तै० २।६) इत्यादिनेति ॥ २६ ॥
योनिश्च हि गीयते ॥ २७ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु 'कर्तारमीशं पुरुषं ब्रह्मयोनिम्' (मुण्ड० ३।१।३) इति, 'यदभूतयोनिं परिपश्यन्ति धीराः (मुण्ड० १।१।६) इति च। योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके-पृथिवी योनिरोषधि-वनस्पतीनाम्' इति। स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम्। क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः—'योनिष्ट इन्द्र निषदे अकारि' (ऋ० सं० १।१०४।१) इति। वाक्यशेषाच्चात्र प्रकृतिवचनता परिगृह्यते 'यथोर्णनाभिः सृजते गृह्णते च' (मु० १।१।७) इत्येवंजातीयकात्। एवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्। यत्पुन-रिदमुक्तमीक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टं नोपादानेष्वि-त्यादि, तत्प्रत्युच्यते— न लोकवदिह भवितव्यम्। न ह्ययमनुमानगम्योऽर्थः। शब्द-गम्यत्वाच्चस्यार्थस्य यथाशब्दमिह भवितव्यम्। शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम। पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥
भामती
सच्च त्यच्चेति द्वे ब्रह्मणो रूपे। सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं पृथिव्यप्तेजोलक्षणम्। त्यच्च परोक्षमत एवानिर्वाच्यमिवन्त्या वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं, यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद् ब्रह्म भूतानां प्रकृतिरिति ॥ २६ ॥
पूर्वपक्षोक्तमनुमानमभावागमविरोधेन दूषयति ॐ यत्पुनः इति ॐ। एतदुक्तं भवति। ईश्वरो जगतो निमित्तकारणमेवेक्षापूर्वकजगत्कर्तृत्वात् कुम्भकर्तृकुलालवत्। अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षाप्रसिद्धिविशेष्यः। यथाहूर्नानुपलब्धे न्यायः प्रवर्तत इति। आगमात्तत्सिद्धिरिति चेत्, हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशोऽभ्युपगन्तव्यः। स च निमित्तकारणं चोपादानकारणं चेश्वरमवगम-
भामती-व्याख्या
वा पृथक् सूत्रम्'। श्रुतिप्रतिपादित 'सत्' और 'त्यत्' दोनों ब्रह्म के रूप हैं। पृथिवीत्वादि विशेष जातियों के द्वारा अपरोक्षतया निरूपित पृथिवी, जल और तेज को सच्च कहा गया है और 'त्यत्' पद से परोक्ष, अत एव अनिर्वचनीय वायु और आकाश का ग्रहण किया गया हैं। 'सत्' और 'त्यत्' दोनों ब्रह्म के रूप क्योंकर कहे जा सकते हैं, यदि ब्रह्म 'सत्' और 'त्यत्' दोनों का उपादानकारण न हो। फलतः भूतरूपेण परिणत (विवर्तित) होने के कारण ब्रह्म भूत-वर्ग की प्रकृति (उपादानकारण) होता है ॥ २६ ॥
पूर्वपक्षोक्त निमित्तकारणत्वानुमान का अनुवाद करके निराकरण किया जाता है— "यत्पुनरिदमुक्तम्"। सारांश यह है कि— "ईश्वरो जगतो निमित्तकारणमेव, ईक्षापूर्वकजगत्क-र्तृत्वात्, कुम्भकर्तृकुलालवत्"—इस अनुमान में ईश्वर की असिद्धि होने के कारण आश्रया-सिद्धिरूप हेत्वाभास और अप्रसिद्धविशेष्यासिद्धिरूप पक्षाभास दोष है, क्योंकि जो ईश्वर हेतु का आश्रय और साध्य का विशेष्य है, वह सिद्ध ही नहीं। जैसा कि न्याय-भाष्यकार ने कहा है—"नानुपलब्धे न्यायः प्रवर्तते" (न्या. भा. पृ. ४)। "स ईक्षांचक्रे" इत्यादि आगम प्रमाण के द्वारा ईश्वर की सिद्धि क्यों नहीं? इस प्रश्न का उत्तर यह है कि यदि आगम को ईश्वर का साधक माना जाता है, तब आगम जैसे ईश्वर का गमक है, वैसा ईश्वर स्वीकार करना होगा। आगम तो स्पष्टरूप से ईश्वर को जगत् का निमित्तकारण और उपादानकारण
६७
५३० · ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ४ सू. २८
( ८ सर्वव्याख्यानाधिकरणम् । सू. २८ )
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
'ईक्षतेर्नाशब्दम्' ( ब्र० सू० १।१।५ ) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः, तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रतिभान्तीति । स च कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो
भामती
तीति । विशेष्याधयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति, इति कुतस्तेन निमित्तत्वावधारणेत्यर्थः । इयं चोपादानपरिणामाविभाषा न विकाराभिप्रायेणापि तु यथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् । न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः सम्भवति नित्यत्वादेकदेशत्वादित्युकम् । न च मृदः शरावादयो भिद्यन्ते न वाभिन्ना न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव । यथाह श्रुतिः “मृत्तिकेत्येव सत्यम्” इति । तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपरः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद् द्वैतनिषेधेन, क्वचिद् ब्रह्मोपादानत्वेन जगतः । एतावतापि तावद्भेबो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः । नहि वाक्यैकदेशस्यार्थोऽस्तीति ॥ २७ ॥
स्यादेतत्—मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाण्वादीनामपि तदुपादानानामुपप्लवमानत्वात्तेषामपि हि किञ्चित् किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारः—एतेन सर्वे व्याख्याता व्याख्याताः निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् ।
भामती-व्याख्या
कहता है। साध्य के विशेष्य और हेतु के आश्रयभूत ईश्वर के ग्राहक आगम से विरुद्ध केवल निमित्तकारणता का अनुमान कभी नहीं पनप सकता, अतः उस अनुमान के द्वारा निमित्त-कारणता का अवधारण क्योंकर किया जा सकता है ? ईश्वर के लिए 'उपादान' और जगत् के लिए जो 'परिणाम' की भाषा का प्रयोग किया गया है, वह विकार-विकारिभाव को दृष्टि में रख कर नहीं, अपितु जैसे आरोपित सर्प की उपादानकारण रज्जु कही जाती है, वैसे ही ब्रह्म को जगत् का उपादान कहा गया है, क्योंकि कूटस्थ नित्य और निष्कल ब्रह्म का न सर्वात्मना और न एकदेशेन परिणाम बन सकता है—यह विगत पृ० १३७ पर कहा जा चुका है। मृत्तिकादि से घट-शरावादि कार्य न तो भिन्न हैं, न अभिन्न और न भिन्नाभिन्न, किन्तु अनिर्वचनीय हैं; जैसा कि श्रुति कहती है—'मृत्तिकेत्येव सत्यम्'। फलतः कथित श्रुति-सन्दर्भ में अद्वैत-तत्त्व का उपक्रम और उपसंहार सिद्ध कर रहा है कि सभी वेदान्त-वाक्य ऐकान्तिकरूप से अद्वैतपरक होते हुए कहीं साक्षात् अद्वैत का प्रतिपादन करते हैं, कहीं द्वैत का निषेध और कहीं ब्रह्मोपादानत्वेन जगत् का अभिधान करके अद्वैतावबोधन करते हैं। इससे भी भेद का निषेध हो ही जाता है, उपादानत्व का प्रतिपादनमात्र कर देने से विकार-ग्रह स्वीकार नहीं कर लेना चाहिए, क्योंकि अधूरे वाक्य का अर्थ पर्यवसित अर्थ नहीं माना जाता ॥ २७ ॥
शङ्का—यदि सांख्याभिमत प्रधान तत्त्व जगत् का उपादानकारण नहीं हो सकता तो न सही, फिर भी ब्रह्म में जगत् की उपादानता सिद्ध नहीं हो सकती, क्योंकि तार्किकादि-सम्मत परमाण्वादि पदार्थ भी जगत् के उपादानकारण माने जाते हैं। उनके भी साधक वैदिक वाक्य इक्के-दुक्के उपलब्ध हो ही जाते हैं।
समाधान—उक्त शङ्का का अपनयन करते हुए सूत्रकार ने कहा है—"एतेन सर्वे व्याख्याता व्याख्याता।" इस सूत्र का भाष्य अत्यन्त सुगम है।
[ ब्रह्मैव जगदुपादानम् ] हिन्दीसहितभामतीसंवलितम् ५३१
वेदान्तवादस्य, देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः, तेन तत्प्रतिषेधे यत्नोऽतीव कृतो नाण्वादिकारणवादप्रतिषेधे । तेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः । तेषामप्युपोद्बलकं वैदिकं किंचिल्लिङ्गमापातेन मन्दमतीन्प्रतिभायादिति । अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति — एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः । तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति । व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायेऽव्यक्तादिसंदिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः समाप्तः ॥ ४ ॥
इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥
भामती
प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः ।
वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम् ॥ २८ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥
सम्पूर्णश्च प्रथमोऽध्यायः ॥
भामती-व्याख्या
प्रतिज्ञालक्षणं वक्ष्यमाणे पदसमन्वयः ।
वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम् ॥
इस अध्याय के प्रथम सूत्र में प्रतिज्ञा की गई — “यथातो ब्रह्मजिज्ञासा, द्वितीय सूत्र में लक्षण किया गया — “जन्माद्यस्य यतः” । लक्ष्यमाण ब्रह्म में वेदान्त-वाक्यों का समन्वय चतुर्थ सूत्र में कहा — “तत्त समन्वयात्” । वह ( वेदान्त-वाक्य-समन्वय ) वहीं ( प्रथम, द्वितीय और तृतीय — इन तीनों पादों में ही ) वर्णित है, अन्यत्र ( चतुर्थ पाद में ) नहीं । इस प्रकार इस प्रथम अध्याय में समन्वयार्थ का सम्यक् प्रतिपादन किया गया है ॥ २८ ॥
रामेऽन्वेति श्रुतिः सर्वा लीलेव च परापरा ।
किमित्यन्वयमीप्सन्ति वेदान्तस्यैव केवलम् ॥ १ ॥
वेदान्ताधिकृते क्षेत्रे कथमन्यद् विचार्यताम् ।
साक्षादन्वयमादाय वेदान्तस्यैव पुरः स्थितिः ॥ २ ॥
स्वरूपाद् यत्परः सर्वो वेदान्तवचसां चयः ।
प्रकृत्या चारु तद् ब्रह्म दिष्ट्या रूपं ममैव तत् ॥ ३ ॥
वाक्यादेव गुरोर्यस्य दृष्टिरेषा समुद्गता ।
वन्दे विदितवेद्यं तं करुणावरुणालयम् ॥ ४ ॥
श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिश्रीऋषिरामशिष्यस्वामियोगीन्द्रानन्दकृतायां भामतीव्याख्यायां प्रथमोऽध्यायः समाप्तः
| ५३२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [अ. १ पा. ४ सू. २८ |
|---|
प्रथमेऽध्याये
अधिकरणानां सूत्राणां च
संख्या
| पादसं० | १ | २ | ३ | ४ | योगः |
|---|---|---|---|---|---|
| अधिकरणसं० | ११ | ७ | १३ | ८ | ३९ |
| सूत्रसं० | ३१ | ३२ | ४३ | २८ | १३४ |
ब्रह्मसूत्रशाङ्करभाष्यम्
द्वितीयोऽध्यायः।
प्रथमः पादः
[ सांख्ययोगकाणादादिस्मृतिभिः वेदान्तसमन्वयविरोधपरिहारः ]
( १ स्मृत्यधिकरणम् । सू० १-२ )
प्रथमेऽध्याये सर्वज्ञः सर्वेश्वरो जगत उत्पत्तिकारणम्, मृत्सुवर्णादय इव घटरुचकादीनाम्, उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणं, मायावीव मायायाः। प्रसारितस्य च जगतः पुनः स्वात्मन्येवोपसंहारकारणं, अवनिरिव चतुर्विधस्य भूतग्रामस्य। स एव च सर्वेषां न आत्मेत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम्। प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः। इदानीं स्वपक्षे स्मृतिन्याय-विरोधपरिहारः, प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं, प्रतिवेदान्तं च सृष्ट्या-दिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति -
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम्, कुतः ? स्मृत्यनवकाशदोष-
भामती
वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः सङ्गतिप्रदर्शनार्थं च सुखग्रहणाय चैतयोः संक्षेपतस्तात्पर्यार्थमाह ॐ प्रथमेऽध्याये इति ॐ । अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोध-तत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः। पूर्वलक्षणार्थो हि विषयस्तद्गोचरतदाक्षेपसमाधानयोरिव च विषयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतार-यति । ॐ तत्र प्रथमं तावद् इति ॐ । तन्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा
भामती-व्याख्या
रामो विजयतां राजा वीरः शस्त्रभृतां वरः।
ओरोपितोऽद्य संग्रामो दारुणो द्वैतिभिः सह॥
सङ्गति—विगत समन्वयाध्याय और इस विरोधपरिहाराध्याय की सङ्गति दिखाने एवं सुखपूर्वक अधिगति कराने के लिए दोनों अध्यायों की विषय-वस्तु का संक्षिप्त वर्णन किया जाता है—"प्रथमेऽध्याये"। प्रत्यक्षादि प्रमाणों से निरपेक्ष वेदान्त का प्रामाण्य सुस्थिर है। वेदान्त-विचारात्मक इस दर्शन के प्रथम अध्याय का इस द्वितीय अध्याय के साथ विषय-विषयीभाव सम्बन्ध है, क्योंकि जो विरोध या आक्षेप और उसका परिहार या समाधान इस अध्याय में वर्णित है, वह पूर्वाध्याय के समन्वय को विषय करता है, जैसे कि इस प्रथम अधिकरण में पूर्वपक्षी का आक्षेप है—सृष्टिविषयक वेदान्त-वाक्यों का ब्रह्म में समन्वय उचित नहीं और सिद्धान्ती ने उसका परिहार करते हुए उक्त समन्वय को उचित ठहराया है। अध्यायों की संगति दिखाकर अध्याय के अवयवभूत अधिकरण का अवतरण प्रस्तुत करते हुए कहा गया है—"तत्र प्रथमं तावत् स्मृतिविरोधमुपन्यस्य परिहरति"।
विषय--सृष्टि-प्रतिपादक वेदान्त-वाक्यों का ब्रह्म में समन्वय।
पूर्वपक्ष—पूर्वाध्याय में सर्वज्ञ ब्रह्मगत जगत्कारणत्व की स्थापना न्याय-संगत नहीं, क्योंकि वैसा मानने पर प्रधानादि-प्रतिपादक सांख्य-स्मृति अत्यन्त निरवकाश होकर निरर्थक
| ५३४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ |
|---|
प्रसङ्गात् । स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता, अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन् । तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते । मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेना- पेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति । अस्य वर्णस्यास्मिन्कालेऽनेन विधाने- नोपनयनं, ईदृशश्चाचारः, इत्थं वेदाध्ययनं, इत्थं समावर्तनं, इत्थं सहधर्मचारिणीसंयोग इति । तथा पुरुषार्थाश्च वर्णाश्रमधर्माज्ञानाविधाग्विद्धति । नैवं कपिलादिस्मृतीना- मनुष्ठेये विषयेऽवकाशोऽस्ति । मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः । यदि तत्राप्यनवकाशाः स्युरानर्थक्यमेवासां प्रसज्येत । तस्मात्तद्विरोधेन वेदान्ता व्याख्यातव्याः । कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यव- धारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदद्यमनाक्षेपः स्वतन्त्र-
भामती
स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता। अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनु- सारिण्यः । न खलु अमूषां स्मृतीनां मन्वादिस्मृतिवदभ्योऽवकाशः शक्यो भवितुमृते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिश्रद्दध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् । तस्मात् तदविरोघेन कथञ्चिद्वेदान्ता व्याख्या- तव्याः । पूर्वपक्षमाक्षिपति ॐ कथं पुनरीक्षत्यादिभ्यः इति ॐ । प्रसाधितं खलु धर्ममीमांसायां 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' इत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयाऽनपेक्षणीयत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम्, अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् । पूर्वपक्षी समाधत्ते । ॐ भवेदयम् इति ॐ । प्रसाधितोऽप्यर्थः श्रद्धाजडान्
भामती-व्याख्या
और निष्प्रमाण हो जाती है किन्तु उसकी प्रामाणिकता सिद्ध है, क्योंकि “स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता”। ‘तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेन'—इस व्युत्पत्ति के आधार पर 'तन्त्र' शब्द का अर्थ दर्शन या शास्त्र है। आदिविद्वान् महर्षि कपिल ने 'तन्त्र' नाम से अपने स्वतन्त्र दर्शन का प्रणयन किया। उसके आधार पर उनकी शिष्य-परम्परा में आसुरि, वार्षगण्य और पञ्चशिखादि आचार्यों ने अनेक शास्त्रों की रचना की [ सम्भवतः 'षष्टि तन्त्र' नाम के ग्रन्थ को ध्यान में रखकर 'तन्त्र' शब्द को सांख्य-दर्शन की आख्या (संज्ञा) माना गया है ] । वे सभी शास्त्र मोक्ष के साधनीभूत प्रधानादि तत्त्वों के प्रतिपादक हैं। यदि उनके प्रतिपादन में भी उनको कोई अवसर नहीं दिया जाता, उनका प्रामाण स्वीकार नहीं किया जाता, तब वे अत्यन्त निरवकाश निरर्थक और अप्रमाण हो जाते हैं। मन्वादि स्मृतियों का कर्म लेकर ब्रह्म तक का विषय विशाल है, अतः उनको यदि एक स्थान पर अवसर नहीं दिया जाता, तब अन्यत्र उनको अवसर मिल जाता है, किन्तु सांख्य-स्मृति का विषय सीमित है।
इस अधिकरण का जो पूर्व पक्ष है कि 'सांख्य स्मृति के अनुरोध पर वेदान्त-समन्वय का संकोच करके प्रधान (प्रकृति) तत्त्व को जगत् का कारण माना जाय।' उस पर कोई आक्षेप करता है—“कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणम्”। आशय यह है कि पूर्व मीमांसा में यह सिद्ध कर दिया गया है कि श्रुति-विरुद्ध स्मृति को प्रमाण नहीं माना जाता, चाहे वह निरवकाश हो या सावकाश। विरुद्ध श्रुति के न होने पर ही स्मृति- वाक्य को श्रुतिमूलकत्वानुमानपूर्वक प्रमाण माना जाता है—“विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” (जै० सू० १।३।३ ) । सांख्यादि स्मृतियाँ दुर्बल हैं, उनकी अपेक्षा वेदान्त-वाक्य स्वतःसिद्धप्रामाण्यक होने से प्रबल हैं, अतः श्रुति-विरुद्ध स्मृति के आधार पर समन्वय- संकोच का आक्षेप क्योंकर हो सकता है ?
सांख्यादिस्मृतिविरोधनिरासः ] हिन्दीसहितभामतीसंवलितम् ५३५
प्रज्ञानाम् । परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् । तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् । अस्मत्कृते च व्याख्याने न विश्वस्युर्वहुमानात्स्मृतीनां प्रणेतृषु । कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते । श्रुतिश्च भवति—'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्' ( श्वे० ५।२ ) इति । तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् । तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्ति । तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः ।
तस्य समाधिः— नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति । यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः
भामती
प्रति पुनः प्रसाध्यत इत्यर्थः । आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षी ॐ कपिलप्रभृतीनां चायम् इति ॐ । अयमस्याभिसन्धिः — ब्रह्म हि शास्त्रस्य कारणमुक्तं 'शास्त्रयोनित्वाद्' इति, तेनैष वेदराशिरंब्रह्मप्रभवः सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतद्बुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽनूषाणमस्ति कश्चिद्विशेषः । न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् । तस्मात् तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः । अपि च तर्कोऽपि कपिलादिस्मृतीरनुमन्यते, तस्मादप्येतदेव ग्राह्यम् ।
एवं प्राप्त आह ॐ तस्य समाधिः इति ॐ । यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात् , नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र दर्शनात् ।
भामती-व्याख्या
इस आक्षेप का समाधान करते हुए महापूर्वपक्षी कह रहा है—“भवेदयमनाक्षेपः”। अर्थात् जो लोग श्रुतियों का स्वतन्त्र प्रामाण्य स्वीकार करते हैं, उनकी ओर से उक्त पूर्व पक्ष नहीं किया जा रहा है, अपि तु जिन लोगों की ऐसी धारणा है कि श्रुतियों का स्वतन्त्र अर्थ नहीं किया जा सकता, अपि तु किसी-न-किसी स्मृति के परिप्रेक्ष्य एवं स्मृतिकार के निर्देशन में ही श्रुतियों का सटीक अर्थ किया जा सकता है। महर्षि कपिलादि का ज्ञान अप्रतिहत था—ऐसा स्मृतियों और श्रुतियों ने मुक्त कण्ठ से कहा है—“ऋषिं प्रसूतं कपिलं यः तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्” ( श्वेता ५।२) सारांश यह है कि ब्रह्म ही सभी वेदों का कारण बताया गया है—“शास्त्रयोनित्वात्” ( ब्र. सू. १।१।४)। कर्ता की बुद्धि ही उसके शास्त्र की प्रतिपाद्य वस्तु को जन्म दिया करती है, जैसे ब्रह्म या ईश्वर की बुद्धि स्वभावतः निरावृत सत्य वस्तु को विषय करती है, अतः वेद भी वैसी ही सत्य वस्तु के बोधक माने जाते हैं। वैसे ही कपिलादि महर्षियों का ज्ञान भी श्रुति-स्मृति-द्वारा आजानसिद्ध यथाभूतवस्तुविषयक ही कहा गया है। फलतः कपिलादि-प्रणीत स्मृतियों का वेदों से कोई अन्तर नहीं रह जाता। ये स्मृतियाँ स्फुट रूप से प्रधानादि का अभिधान करती हैं, इनका अन्यथाकरण कभी नहीं हो सकता, अतः इसके अनुरोध पर श्रुतियों का ही अन्यथानयन करना चाहिए। तर्क भी कपिलादि-प्रणीत स्मृतियों का समर्थक है—“कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम्” ( सां. का. १४)।
सिद्धान्त—उक्त पूर्व पक्ष का निराकरण करते हुए भाष्यकार ने कहा है—“तस्य समाधिः”। ब्रह्म में समन्वित होने के लिए श्रुतियों में जैसा अविगान (अविरोध) है, वैसा स्मृतियों में प्रधान (प्रकृति) के साथ समन्वित होने के लिए अविगान नहीं, अपितु विरोध है, क्योंकि अधिकतर श्रुति-सन्दर्भों में ब्रह्मगत जगत् की उपादानता साक्षात् प्रतिपादित है,
| ५३६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ ] |
|---|
प्रसज्येरन्। ता उदाहरिष्यामः – 'यत्तत्सूक्ष्ममविज्ञेयम्' इति परं ब्रह्म प्रकृत्य 'स ह्यान्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते' इति चोक्त्वा 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इत्याह। तथाऽन्यत्रापि 'अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयते' इत्याह। 'अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः॥' इति पुराणे। भगवद्गीतासु च – 'अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा' (भ० गी० ७।६) इति। परमात्मानमेव च प्रकृत्यापस्तम्बः पठति – 'तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः' (ध० सू० १।८।२३।२) इति। एवमनेकroundशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते। स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमस्मत्स्मृत्यनवकाशदोषोपन्यासः। दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्। विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्, अनपेक्ष्या इतराः। तदुक्तं प्रमाणलक्षणे – 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' (जै० सू० १।३।३) इति। न चातीन्द्रियानर्थाञ्छ्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुम्, निमित्ताभावात्। शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् – न, सिद्धेरपि सापेक्षत्वात्। धर्मानुष्ठानापेक्षा हि सिद्धिः। स च धर्मश्चोदना-
भामती
तस्मादविगानाच्छ्रौत एवार्थः आस्थेयो न तु स्मार्तो विगानादिति। तत्किमिदानीं परस्परविगानात् सर्वा एव स्मृतयोऽवहेया इत्यत आह ॐ विप्रतिपत्तौ च स्मृतीनाम् इति ॐ। ॐ न चातीन्द्रियानर्थान् इति ॐ अर्वाग्दृगभिप्रायम्। शङ्कते ॐ शक्यं कपिलादीनाम् इति ॐ। निराकरोति। ॐ न सिद्धेरपि इति ॐ। न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चितवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिन् जन्मनि सिद्धिरत एवाजानसिद्धा उच्यन्ते। यदस्मिन् जन्मनि न तैः सिद्धयुपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्सिद्धीनां, तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव। अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य। तदेवं वेदविरोधे
भामती-व्याख्या
अतः यही श्रौत अविगान वेदान्त-समन्वय के लिए ग्राह्य है, स्मार्त अविगान नहीं। 'स्मृतियों में काचित्क विगान-दर्शन के आधार पर क्या सभी स्मृतियाँ हेय हैं?' इस प्रश्न का उत्तर दिया जाता है—"विप्रतिपत्तौ च स्मृतीनामवश्यकर्त्तव्येऽन्यतरपरित्यागे"। अर्थात् श्रुति के साथ तालमेल रखनेवाली मन्वादि-स्मृतियों का उपादान और श्रुति-विद्रोहिणी कपिलादि-स्मृतियों का बहिष्कार ही उचित है। भाष्यकार ने जो कहा है—"न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभते", वह हम लोगों (स्थूलदर्शी व्यक्तियों) को ध्यान में रख कर कहा है, क्योंकि विगत देवताधिकरण में देवताओं, ऋषियों और योगियों को अतीन्द्रियार्थदर्शी माना गया है। कपिलादि की स्मृतियों के द्वारा भी अतीन्द्रियार्थविबोधन की शङ्का की जाती है—"शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वात्"। उक्त शङ्का का निराकरण किया जाता है—"न, सिद्धेरपि सापेक्षत्वात्"। आशय यह है कि कपिलादि वैसे आजान-सिद्ध नहीं, जैसा ईश्वर, किन्तु उन्हें वेदों की प्रमाणता का निश्चय होने के कारण उन्होंने अपने पूर्व जन्म में जो वेदाध्ययन और धर्मानुष्ठान किया था, जिससे इस जन्म में उन्हें सिद्धि (अणिमादि) हो जाती है, अत एव वे आजान-सिद्ध कह दिए जाते हैं। उन्होंने इस जन्म में किसी प्रकार का धर्मानुष्ठान नहीं किया, अतः उनकी सिद्धियों को पूर्वजन्म में कृत धर्मानुष्ठान से जनित माना जाता है। धर्मानुष्ठान के बिना कोई सिद्धि नहीं हो सकती।
सांख्यस्मृतेर्नादरः ] हिन्दीसहितभामतीसंवलितम् ५३७
लक्षणः। ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनार्थतिशङ्कितुं शक्यते। सिद्धव्यपाश्रयकल्पनायामपि बहुत्वत् सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति। परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषम तिवश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्। तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहरणीया। या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता, न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धांतुं शक्यम्। कपिलमिति श्रुतिसामान्यमात्रत्वात् अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात्। अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात्।
भामती सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयति ॐ सिद्धव्यपाश्रयकल्पनायामपि इति ॐ। श्रद्धाजडान् बोधयति। ॐ परतन्त्रप्रज्ञस्यापि इति ॐ। ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं ? तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत आह ॐ या तु श्रुतिः इति ॐ। न साध्यसिद्धानां परस्परविरूद्धानि वचांसि प्रमाणं भवितुमर्हन्ति। न च विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः। अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम्। तस्य व्यवस्थानात्। तस्मात् श्रुतिसामान्यमात्रेण भ्रमः सांख्यप्रणेता कपिलः श्रौत इति। स्यादेतत् -
भामती-व्याख्या मान लेते हैं कि कपिल सिद्ध योगी थे तो क्या उनके श्रुति से विरुद्ध अर्थ के अभिधायक शास्त्रों को भी प्रमाण मान लिया जाय ? कभी नहीं। ऐसे शास्त्रों का अप्रामाण्य निश्चित है, वैसे अप्रमाणभूत शास्त्रों से वेदार्थ का बाध कभी नहीं हो सकता, क्योंकि वेदों का प्रामाण्य स्वतः सिद्ध है।
वेद-विरुद्ध सिद्ध-वचनों की अप्रमाणता दिखा कर सिद्ध-वचनों का परस्पर-विरोध देख कर भी उनके वचनों पर अविश्वास हो जाता है-ऐसे पूर्व-कथन का स्मरण दिलाया जाता है-"सिद्धव्यपाश्रयकल्पनायामपि बहुत्वत् सिद्धानाम्"। स्मृति और स्मृतिकारों के जड़ (अन्ध) भक्तों को भी पक्षपात-रहित होकर विचार करना चाहिए-"परतन्त्रप्रज्ञस्यापि नाकस्मात् स्मृतिविशेषविषयः पक्षपातो युक्तः"। श्रुत्यर्थ-निर्णय में यदि स्मृति का माध्यम आवश्यक है, तब केवल कापिल स्मृति का ही अनुसरण क्यों ? मन्वादि स्मृतियों का अनुगमन क्यों नहीं किया जाता ? "ऋषिं प्रसूतं कपिलम्"- यह श्रुति जब कि कपिल का ज्ञान अनावृतसत्यार्थविषयक बता रही है तब कापिल वचन को अप्रमाण क्योंकर कहा जा सकता है ? कपिल-स्मृति की अप्रमाणता से उक्त श्रुति में ही अप्रामाण्य प्रसक्त क्यों न होगा ? इस शङ्का का समाधान है-"या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती दर्शिता"। अर्थात् वह श्रुति केवल यह कह रही है कि कपिल सिद्ध थे, किन्तु यह नहीं कहती कि कपिल का श्रुति-विरुद्ध वचन भी प्रमाण माना जाय। बहुत-से सिद्धों के परस्पर विरुद्ध वचन भी प्रमाण नहीं हो सकते, क्योंकि उन सबको प्रमाण मानने के लिए षोडशि के ग्रहणाग्रहण के समान स्मृति-गम्य विरुद्ध अर्थों को मानना आवश्यक है, किन्तु ऐसा सम्भव नहीं, क्योंकि ग्रहणाग्रहणादि अनुष्ठानों में इस प्रकार का विकल्प माना जा सकता है, सिद्ध अर्थ में नहीं- यह कई बार कहा जा चुका है। दूसरी बात यह भी है कि कथित श्वेताश्वतर-श्रुति ने जो 'कपिल' शब्द का प्रयोग किया है, वह महर्षि कपिल का ही वाचक है-ऐसी बात नहीं, अपितु श्रुतिसामान्य है अर्थात् सामान्य शब्द है, इसका अन्य भी अर्थ हो सकता है, जैसे
६८
| ५३८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ |
|---|
भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः — ‘यद्वै किंच मनुरवदत्तद्भेषजम्’ (तै० सं० २।२।१०।२) इति । मनुना च ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥’ (१२।९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ (शान्ति. ३५०।१) इति विचार्य ‘बहवः पुरुषा राजन्सांख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — ‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥’ (शान्ति ३५०।३) इत्युपक्रम्य ‘ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम् ॥’ इति सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वात्मतायां भवति — ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई० ७) इत्येवंविधा । अतश्च सिद्धमात्मभेदकल्पनयापि, कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचन-
भामती
कपिल एव श्रोतो नान्ये मन्वादयः । ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धऽप्यहेयेत्यत आह ॐ भवति चान्या मनोरिति ॐ । तस्याश्चागमान्तरसंवादमाह ॐ महाभारतेऽपि च इति ॐ । न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी श्रुतिसंवादिनीत्याह ॐ श्रुतिश्च इति ॐ । उपसंहरति ॐ अतः इति ॐ । स्यादेतत् — भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो
भामती-व्याख्या
सगर-पुत्रों के दाहक वासुदेवाख्य कपिल [वेदापौरुषेयत्वाधिकरण में पूर्वपक्षी ने वेदों में अनित्य पुरुषों के नामोल्लेख की चर्चा कर आक्षेप किया “अनित्यदर्शनात्” (जै. सू. १।१।२८) अर्थात् “बबरः प्रावाहणिरकामयत” (तै. सं. ३।१।१०) इत्यादि श्रुतियों में प्रवाहण के पुत्र बवरादि का उल्लेख यह सिद्ध करता है कि वेद सादि हैं, अनादि नहीं। इस आक्षेप का समाधान करते हुए सिद्धान्ती ने कहा है — “परं तु श्रुतिसामान्यमात्रम्” (जै. सू. १।१।३१) । अर्थात् 'बवरादि' शब्द सामान्य अर्थ के बोधक हैं, किसी व्यक्ति विशेष के वाचक नहीं, अतः 'बवर' का अर्थ वायु भी हो सकता है, क्योंकि वेग से चलने पर वायु में ववर-ब्वर शब्द का अनुकरण प्रतीत होता है, वैसे ही प्रकृत में यह आवश्यक नहीं कि 'कपिल' शब्द सांख्य-प्रणेता कपिल को ही कहे, वह किसी अन्य अर्थ का भी बोधक हो सकता है ] । यदि कहा जाय कि 'कपिल' का नाम श्रुति में आता है, अतः कपिल-स्मृति के विरोध में मन्वादि-स्मृतियाँ हेय क्यों नहीं ? इस शङ्का का समाधान है—“भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः— ‘यद्वै किं च मनुरवदत् तद्भेषजम्’ (तै. सं. २।२।१०।२)” । मनु ने “सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि” (मनु. १२।९१) इस प्रकार एकात्मत्व-दर्शन का प्रतिपादन करते हुए कापिल मत की निन्दा की है, क्योंकि कपिल ने आत्म-भेद माना है। मनु के साक्ष्य में महाभारत-वचन प्रस्तुत किया जाता है—“महाभारतेऽपि” । अर्थात् महाभारत में भी “बहूनां पुरुषाणां हि ममैका योनिरुच्यते” । “एक एव चरति भूतेषु”—इत्यादि वाक्यों के द्वारा सर्वात्मता का ही समर्थन किया है। अन्यान्य श्रुतियाँ भी सर्वात्मता का ही निर्णय देती हैं— “श्रुतिश्च” । कपिल-मत के निराकरण का उपसंहार करते हैं—“अतः सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धम्” । केवल वेद से ही नहीं, मनु-वचन से भी सांख्य-दर्शन विरुद्ध ही है। वेद भी पौरुषेय है और सांख्य शास्त्र भी पौरुषेय, तब सांख्य शास्त्र ही
| सांख्यस्मृतेर्नादरः ] | हिन्दीसहितभामतीसंवलितम् | ५३९ |
|---|
विरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये । पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः । तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः ॥ १ ॥
भामती
वेदविरोधि कापिंलं वचो नादरणीयमित्यत आह ॐ वेदस्य हि निरपेक्षम् इति ॐ । अयमभिसन्धिः—सत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव, स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वतरानुसारेण पूर्वस्मिन् , पूर्वतमानुसारण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः । तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत् स्वातन्त्र्यं भवेत् । शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरव्यपर्यायेणाविर्भावात् । शास्त्रं च स्वतःबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तसमस्तदोषाशङ्कं सवनपेक्षं साक्षादेव स्वार्थे प्रमाणम् । कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः । तस्मात्तासामप्रप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत् स्मृत्यनुभवौ कल्प्येते तावत् स्वतःसिद्धप्रमाणभावयाऽनपेक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥ १ ॥
भामती-व्याख्या
अनादरणीय क्यों ? इस प्रश्न का उत्तर है—"वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम्" । भाव यह है कि वेदों का कारण ईश्वर है, इस प्रकार वेद सांख्य-शास्त्र के समान पौरुषेय ही है । तथापि ईश्वर वेद-प्रणयन में कपिलादि के समान स्वतन्त्र नहीं। ईश्वर तो इतना ही करता है कि पूर्व कल्प में जैसा वेद प्रचलित था, उसका स्मरण करके वैसा ही इस कल्प में भी उपदेश कर देता है । इसी प्रकार पूर्व-पूर्व कल्प के अनुसार ही उत्तरोत्तर कल्प में ईश्वर वेद की परम्परा अक्षुण्ण रखता है । वेद और ईश्वर दोनों ही अनादि हैं, उनका कार्यकारणभाव भी अनादि ही है । वेदों की रचना इतर दर्शनों के समान शास्त्रार्थज्ञानपूर्वक नहीं होती, अतः सांख्य में कपिलादि के समान ईश्वर का वेद में स्वातन्त्र्य नहीं माना जाता । यद्यपि ईश्वर सर्वज्ञ और सर्वदर्शी है, उसको वेदार्थ का ज्ञान भी स्वयं ही होता है, तथापि वेद-प्रणयन-क्रिया में कारण नहीं माना जाता, क्योंकि ईश्वर के द्वारा वेद-प्रणयन श्वास-प्रश्वास के समान बिना प्रयत्न के वैसे ही किया जाता है, जैसे उसका ज्ञान अयत्न-साध्य स्वतः आविर्भूत होता है । न तो उसका ज्ञान वेदाध्ययनपूर्वक होता है और न वेद-प्रणयन वेदार्थज्ञानपूर्वक । अपर्यायतः ( युगपत् ) आविर्भूत होनेवाले पदार्थों में परस्पर कार्यकारणभाव नहीं होता । [ महर्षि जैमिनि ने कहा है—'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वात्' ( जै. सू. १।१।५ ) अर्थात् शास्त्रों में अप्रामाण्य तीन प्रकार का माना जाता है—(१) अबोधकत्व, (२) विपरीत या बाधितार्थ-बाधकत्व और (३) सन्दिग्धार्थ-बोधकत्व ] । इनमें अबोधकत्वात्मक अप्रामाण्य वेद में इसलिए नहीं कि वह निसर्गतः बोधक है, जैसा कि शबरस्वामी कहते हैं—"विप्रतिषिद्धमिदमुच्यते ब्रवीति वितथं चेति" ( शाबर पृ. १४) । विपरीत और सन्दिग्ध अर्थ का ज्ञान उस वचन से होता है, जो भ्रम, प्रमादादि दोषों से युक्त हो—"दुष्टेषु हि ज्ञानं मिथ्या भवति" ( शाबर. पृ. २५) । वेद में किसी प्रकार का दोष नहीं, वह स्वतः निर्दुष्ट और अपने अर्थावबोधन में किसी अन्य प्रमाण की अपेक्षा वैसे ही नहीं करता, जैसे प्रत्यक्ष प्रमाण, किन्तु कपिलादि के द्वारा प्रणीत शास्त्र तो स्वतन्त्रबुद्धिपूर्वक हैं, उनकी विषयवस्तु का पहले उन्होंने स्मरण किया, स्मरण तभी होगा, जब कि उसका अनुभव हो । इस
| ५४० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. ३ |
|---|
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः ?—
इतरेषां चानुपलब्धेः ॥ २ ॥
प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते । भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् । अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरव कल्पते । यदपि क्वचित्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम् 'आनुमानिकमप्येकेषाम्' ( ब्र० सू० १।४।१ ) इत्यत्र । कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः । तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः । तर्कावष्टम्भं तु 'न विलक्षणत्वात्' ( ब्र० सू० २।१।४ ) इत्यारभ्योन्मथिष्यति ॥ २ ॥
( २ योगप्रत्युक्त्यधिकरणम् । सू० ३ )
एतेन योगः प्रत्युक्तः ॥ ३ ॥
एतेन सांख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्य-
भामती
प्रधानस्य तावत् क्वचिद्वेदप्रदेशे वाक्याभासानि दृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्ति । न च भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः । तस्मादात्यन्तिकात् प्रमाणान्तरासंवादात् प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः । न चार्षं ज्ञानमत्र मूलमुपपद्यत इति युक्तम् । तस्मान्न कपिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥ २ ॥
भामती-व्याख्या
प्रकार सांख्यादि शास्त्रों की प्रमाणता के लिए अपेक्षित प्रतिपाद्यार्थविषयक स्मरण और अनुभव की कल्पना जब तक की जायगी, तब तक स्वतःप्रमाणभूत और निरपेक्ष वेद अपने अबाधित एवं असन्दिग्ध अर्थ का बोध शीघ्र ही करा देता है, जिसके द्वारा सांख्यादि स्मृतियाँ बाधितार्थक हो जाती हैं, वार्तिककार कहते हैं—
न च शीघ्रप्रवृत्तेऽर्थेऽस्ति चिरादागच्छतो गतिः ।
अश्वैरपहृतं को हि गर्दभैः प्राप्तुमर्हति ॥ (तं. वा. पृ. १७७) ॥१॥
सांख्याभिमत पदार्थों में से प्रधान ( प्रकृति ) के प्रतिपादक कुछ वाक्याभास वेदों में मिल भी जाते हैं, किन्तु प्रधान तत्त्व के विकारभूत महदादि के बोधक वाक्याभास भी नहीं मिलते, महाभूत और इन्द्रियादि के समान लोक में भी महदादि प्रसिद्ध नहीं। स्मृति वही प्रमाणभूत मानी जाती है, जिसका आप्त प्रमाण से संवाद ( समर्थन ) हो और जो स्वयं प्रमाणमूलक हो, किन्तु सांख्य स्मृति का न तो कोई ठोस मूल उपलब्ध होता है और न प्रमाणान्तर का संवाद, तब वह क्योंकर प्रमाण होगी ? जैसे कोई वन्ध्या स्त्री कहे कि यह स्मृति हमारे दौहित्र की बनाई हुई है, तो उसका यह कहना नितान्त अप्रमाण और असङ्गत है, क्योंकि उसकी मूलभूत उसकी दुहिता है ही नहीं ; वैसे ही सांख्य-परम्परा का यह कहना अत्यन्त निर्मूल है कि हमारे कपिलादि आचार्यों ने स्वयं प्रधानादि का अनुभव करके सांख्य-स्मृति का प्रणयन किया, क्योंकि उनके अनुभवादि का कोई मूल उपलब्ध नहीं होता। आर्ष ज्ञान को भी मूल मानना युक्ति युक्त नहीं, क्योंकि आद्य श्रुति-संवादित आर्ष ज्ञान से विरुद्ध है, फलतः कपिल-स्मृति के आधार पर प्रधानादि में जगदुपादानत्व नहीं माना जा सकता ॥ २ ॥
योगस्मृतेर्नादरः ] हिन्दीसहितभामतीसंवलितम् ५४१
भामती
नानेन योगशास्त्रस्य हैरण्यगर्भगवाताह्लादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादान-स्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावतेषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्नुवीरन् । न चैतानि प्रधानादिसद्भावपराणि । किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि । तच्च किञ्चिन्निमित्ती-कृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात् प्रमाणभूतादपि योग-शास्त्रान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयित्वाऽऽह स्म भगवान् वार्षगण्यः—
'गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत् तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम्' ॥ इति ॥
योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः । अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवादत्वमुपपन्नम् । तदनेनाभिस-न्धिनाह ॐ एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि ॐ प्रधानादिविषयतया । ॐ प्रत्याख्याता द्रष्टव्या
भामती-व्याख्या
सन्देह—योग-शास्त्र के अनुरोध पर सृष्टि-प्रतिपादक वेदान्त-वाक्यों का ब्रह्म में समन्वय सङ्कुचित किया जाय ? अथवा नहीं ?
पूर्वपक्ष—सांख्य-स्मृति के प्रतिपाद्य पदार्थों का बहुत-सा भाग वेद में उपलब्ध नहीं, किन्तु योग-दर्शनद्वारा अभिहित यमादि पदार्थ वेद में उपलब्ध होते हैं, अतः योग-स्मृति के अनुसार प्रधान तत्त्व को ही जगत् का उपादान कारण माना जाय, ब्रह्म को नहीं ।
सिद्धान्त—सांख्य-दर्शन के समान ही योग-दर्शन भी अप्रमाण ही है। यद्यपि इस अधिकरण के द्वारा इस योग-शास्त्र के प्रामाण्य का सर्वथा निराकरण नहीं किया जाता, क्योंकि स्मृतिकारों ने हिरण्यगर्भ से इस शास्त्र का प्रादुर्भाव माना है—"हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" (म. भार. शान्ति ३४९।६५) और महर्षि पतञ्जलि ने इसे सूत्र-बद्ध किया है। मुख्यरूप से इसमें मोक्ष-साधनीभूत विवेक-ज्ञान का विधान उपलब्ध होता है, अतः "यत्परः शब्दः, स शब्दार्थः"—इस न्याय के आधार पर उसी अर्थ में इस शास्त्र का तात्पर्य पर्यवसित होता है। इसके चार पादों में क्रमशः (१) योग का स्वरूप, उसके साधनीभूत यम-नियमादि (२) क्रिया योग, (३) विभूति और (४) सिद्धि एवं कैवल्यादि पदार्थ वर्णित हैं। वर्णनीय विषय वस्तु के लिए कुछ निमित्त चाहिए था, अतः प्रधान और उसके विकारभूत महदादि पदार्थों को वैसे ही निमित्तमात्र बनाया गया है, जैसे कि पुराणों का मुख्य उद्देश्य वैदिक तत्त्व का उपबृंहण है, किन्तु प्रसङ्गतः (१) सर्ग (सृष्टि), (२) प्रतिसर्ग (प्रलय), (३) वंश, (४) मन्वन्तर और (५) वंशानुचरित भी वर्णित हैं। प्रसङ्गतः प्रतिपादित पदार्थों में शास्त्र का तात्पर्य नहीं माना जाता, क्योंकि अन्यार्थपरक वाक्यों से प्रसङ्गतः अन्य पदार्थ भी स्फोरित हो जाते हैं। उन्हें भी तब स्वीकृत कर लिया जाता है, जब कि प्रमाणान्तर से वे विरुद्ध न होते हों, प्रधानादिगत जगत् की उपादानता का वेदान्त श्रुतियों से विरोध स्पष्ट है—यह कहा जा चुका है। अतः अपने मुख्य विषय में प्रमाणभूत योग-शास्त्र से प्रधानादि तत्त्वों की सिद्धि न होने के कारण भगवान् वार्षगण्य ने प्रधानादि को तात्त्विक नहीं माना है—
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्त दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥
अर्थात् वार्षगण्य का मुख्य उद्देश्य योग का व्युत्पादन ही था, केवल निमित्त या प्रासङ्गिकरूप
५४२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ३
तिदिशति। तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्य- लोकवेदप्रसिद्धानि कल्प्यन्ते। नन्वेवं सति समानन्यायत्वात्पूर्वेणैव तद्गतम्, किमर्थं पुनरतिदिश्यते ? अस्ति ह्यत्राभ्यधिकाशङ्का—सम्यग्दर्शनाभ्युपायो हि योगो वेदे विदितः ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ ( बृ० २।४।५ ) इति। ‘त्रिरुन्नतं स्थाप्य समं शरीरम्’ ( श्वे० २।८ ) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते। लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्य- न्ते—‘तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ ( का० २।६।११ ) इति, ‘विद्यामेतां योगविधिं च कृत्स्नम्’ ( का० २।६।१८ ) इति चैवमादीनि। योगशास्त्रेऽपि अथ तत्त्व- दर्शनोपायो योगः’ इति सम्यग्दर्शनाभ्युपायतयैव योगोऽङ्गीक्रियते। अतः संप्रति-
भामती
इति ॐ। अधिकरणान्तरारम्भमाक्षिपति ॐनन्वेवं सति समानन्यायत्वाद् इति ॐ। समाधत्ते ॐ अस्त्य- त्राभ्यधिकाशङ्का ॐ। मा नाम सांख्यशास्त्रात् प्रधानसत्ता विज्ञायि। योगशास्त्रात्तु प्रधानादिसत्ता विज्ञा- पयिष्यते। बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते। उपनिषदुपायस्य च तत्त्वज्ञानस्य योगा- पेक्षास्ति। न तु जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमपायमपहायान्तरङ्गरू धारणादिकमन्तरेणौ- पनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति। तस्मादौपनिषदेन तत्त्वज्ञानेनापेक्षणात् संवादाद्बहुश्याञ्च वेदेनाष्ट- कादिस्मृतिवद्योगस्मृतिः प्रमाणम् । ततश्च प्रमाणात् प्रधानादिप्रतीतेर्नाशब्दत्वम् । न च तवप्रमाणं
भामती-व्याख्या
में गुणादि की चर्चा कर दी गई है, उनकी वास्तविकता में तात्पर्य नहीं, क्योंकि उन्हें माया के समान अतात्त्विक ही माना है। यद्यपि लोक-वेद में अत्यन्त अप्रसिद्ध प्रधानादि का अनुवाद भी सम्भव नहीं, तथापि अनादि काल से चले आए पूर्वपक्ष और न्यायाभास के आधार पर वादिगणों के द्वारा उत्प्रेक्षित और बहुचर्चित प्रधानादि का अनुवाद करके उन का निराकरण सम्भव हो जाता है। इस आशय को मन में रखकर सूत्रकार ने कहा है "एतेन योगः प्रत्युक्तः" अर्थात् सांख्य-स्मृति के प्रत्याख्यान से ही प्रधानादिविषयकत्वेन योग-स्मृति का भी प्रत्याख्यान हो जाता है।
यदि सांख्य के निराकरण से ही योग का निराकरण हो जाता है, तब योग-निराकर- णार्थ अधिकरणान्तर की रचना क्यों ? ऐसी शङ्का की जा रही है—"नन्वेवं सति समान- न्यायत्वात् पूर्वेणैव तद्गतम्"। उक्त शङ्का का समाधान किया जाता है—"अस्ति ह्यत्राभ्य- धिकाशङ्का"। अर्थात् सांख्य-शास्त्र के अनुरोध पर प्रधानादि की सत्ता यदि नहीं मानी जा सकती तो न सही, योग-शास्त्र के आग्रह पर प्रधानादि का अस्तित्व मान लेना चाहिए, क्योंकि सांख्यीय पदार्थ वेदों में उपलब्ध नहीं होते, किन्तु योग-शास्त्र का प्रायः बहुत-सा भाग वेद से संवादित ( समर्थित ) है। उपनिषत् में प्रतिपादित तत्त्व-ज्ञान को योग की पूर्णतया अपेक्षा है, क्योंकि योग-शास्त्र में विहित यम-नियमादि बहिरङ्ग और धारणादि अन्तरङ्ग साधनों के बिना औपनिषद आत्मतत्त्व का साक्षात्कार कभी हो ही नहीं सकता। इस प्रकार औपनिषद आत्म-तत्त्व के साक्षात्कार में अपेक्षित होने और वेद से संवादित होने के कारण योग-स्मृति वैसे ही प्रमाणभूत है, जैसे अष्टकादि स्मृति [ अगहन, पौष, माघ और फाल्गुन की कृष्णपक्षीय चार अष्टमी तिथियों में अनुष्ठेय श्राद्ध को अष्टका श्राद्ध कहते हैं, आश्वलायन गृह्य सूत्र (२।४।१) में इसका विधान किया गया है, वेद में विहित न होने से यह स्मार्त कर्म कहलाता है, अष्टका-विधायक आश्वलायनादि स्मृति-वचनों को प्रमाण इसी लिए माना जाता है कि वह वेद-विरुद्ध नहीं। वैसे ही वेदविरुद्ध योग-शास्त्र को प्रमाण
योगस्मृतेर्नादरः ] हिन्दीसहितभामतीसंवलितम् ५४३
पन्नायैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनववदनीया भविष्यतीति-इयमभ्यधिकाशङ्काऽतिदेशेन निवर्त्यते, अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया
भामती
प्रधानादौ प्रमाणञ्च यमादाविति युक्तम् । तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् । यथाहुः —
“प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे ॥” इति ।
सेयं लब्धप्रसरा प्रधानादौ योगप्रामाणता पिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति शङ्कार्थः । सा ॐ इयमभ्यधिकाशङ्काऽतिदेशेन निवर्त्यते ॐ । निवृत्तिहेतुमाह ॐ अर्थैकदेशसम्प्रतिपत्तावपि इति ॐ । यदि हि प्रधानादिसत्तापरं योगशास्त्रं भवेत् भवेत् प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधानदिपरं तत् किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति । नहि चक्षूरसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति । तस्माद्वेदान्तश्रुतिविरोधात् प्रधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् — अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धाऽर्हत-
भामती-व्याख्या
मानना चाहिए ] । फलतः योग-शास्त्ररूप प्रमाण के द्वारा प्रमाणित प्रधानादि पदार्थों को अशब्द ( अप्रमाण ) कहना उचित नहीं । 'योग-शास्त्र प्रधानादि अंश में अप्रमाण और यम-नियमादि अंश में प्रमाण है'— ऐसा नहीं कह सकते, क्योंकि योग-शास्त्र को यदि किसी भी अंश में अप्रमाण माना जाता है, तब पूरे योग-शास्त्र पर से ही विश्वास उठ जायगा, जैसे कि श्री कुमारिल भट्ट ने कहा है—
प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचराः ॥
क्वचिद् दत्तेऽवकाशे हि स्वोत्प्रेक्षालब्धधामभिः ।
जीवितुं लभते कस्तेस्तन्मार्गपतितः स्वयम् ॥” (तं. वा. पृ. १७१)
[ मर्कट ( वानर ) और भूत ( प्रेत ) को जब तक कहीं घुसने का अवसर नहीं मिलता, तभी तक उनके उपद्रव शान्त रहते हैं । जब उनको कहीं पैर रखने का अवसर मिल जाता है, तब पूरा क्षेत्र उनके उपद्रवों से ऐसा आक्रान्त हो जाता है कि उनके मार्ग में आकर कोई व्यक्ति जीवित नहीं रह सकता । उसी प्रकार ] यदि अप्रमाणता को किसी अंश ( प्रधानादि ) में मान लिया जाता है, तब समग्र अंशी ( योग-शास्त्र ) अप्रमाण हो जाता है, अतः योग-शास्त्र के प्रधानादि अंश में भी अप्रमाणता की गति रोक कर प्रधानादि की वास्तविक सत्ता मान लेनी चाहिए । ऐसा मान लेने पर प्रधानादि में अशाब्दता का आरोप निराधार हो जाता है ।
सिद्धान्त — उक्त अत्यधिक आशङ्का अतिदेश के द्वारा दूर की जाती है, क्योंकि “अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः” । यदि योग-शास्त्र का मुख्य तात्पर्य प्रधानादि की सत्ता में होता, तब प्रत्यक्ष वेदान्त श्रुति से बाधित होकर योग-शास्त्र अप्रमाण हो जाता । इतना ही नहीं, उसके द्वारा विहित यम-नियमादि पर भी अविश्वास हो जाता । फलतः योग-शास्त्र को प्रधानादि-परक न मानकर प्रधानादि के निमित्त से यम-नियमादि का प्रतिपादक मानना ही उचित है । योग-शास्त्र प्रधानादि अंश में अप्रमाण होकर यम-नियमादि अंश में भी वैसे ही अप्रमाण नहीं होता, जैसे चक्षु अपने अविषयीभूत रसादि अंश में अप्रमाण होकर रूप में भी अप्रमाण नहीं होता ।
५५४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ३
दर्शनात् । सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः । सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन च श्रौतेनोपबृंहितौ । 'तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः' (श्वे० ६।१३) इति । निराकरणं तु-न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति - 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे० ३।८) इति । द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः । यत्तु दर्शनमुक्तं 'तत्कारणं सांख्ययोगाभिपन्नम्' इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् । येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् । तद्यथा - 'असङ्गो ह्ययं पुरुषः' (बृ. ४।३।१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते । तथा च योगैरपि 'अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः' (जावा० ५)
भामती
कापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आह ॐ सतीष्वपि इति ॐ । तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्राथैर्म्लेच्छादिभिः परिगृहीतासु वेदमूलत्वाशङ्कव नास्तीति न निराकृताः, तद्विपरीतास्तु सांख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः । ॐ न सांख्यज्ञानेन वेदनिरपेक्षेण इति ॐ । प्रधानादिविषयेणेत्यर्थः । ॐ द्वैतिनो हि ते सांख्या योगाश्च ॐ ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः । संख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति सांख्याः । एवं योगो ध्यानम् , उपायोपेययोरभेदविवक्षया, चित्तवृत्तिनिरोधो हि योगः, तस्योपायो
भामती-व्याख्या
अध्यात्मविषयक हजारों अन्य दर्शन हैं, जैसे-बौद्ध, आर्हत (जैन) और कापालिकादि। उनका भी यहाँ निराकरण क्यों नहीं किया जाता ? इस प्रश्न का उत्तर है—"सतीष्वपि अध्यात्मविषयासु बह्वीषु स्मृतिषु" । अर्थात् बौद्धादि दर्शन वेदार्थ के विसंवादी (विपरीत) होने के कारण शिष्ट पुरुषों के द्वारा ही अनादृत एवं समाज के गिरे हुए म्लेच्छप्राय पशु-स्तर के असभ्य पुरुषों के ही श्रद्धा-भाजन हैं। उनमें वेदमूलकत्व की आशङ्का ही नहीं हो सकती, अतः उनके निराकरण की कोई आवश्यकता ही नहीं किन्तु सांख्य-योग ठीक उनके विपरीत वेदमूलक और शिष्ट-समाज में समादृत और प्रचलित हैं, अतः प्रधानादि-प्रतिपादन अंश में उनका निरास किया जाता है। "न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यते"—इस भाष्य का आशय यह है कि सांख्य-योग का निराकरण इसी लिए किया जाता है कि उनका जो कहना है कि 'वेद-निरपेक्ष केवल प्रधानादिविषयक सांख्य-ज्ञान अथवा योग-मार्ग से ही मोक्ष की प्राप्ति होती है' उनका वह कहना अत्यन्त असङ्गत है, क्योंकि श्रुति ने यह नियम घोषित कर रखा है कि केवल वैदिक आत्मैकत्व-ज्ञान से ही मुक्ति प्राप्त होती है किन्तु 'द्वैतिनो हि ते सांख्या योगाश्च'। सांख्य-दर्शन और योग-दर्शन का सिद्धान्त आत्मैकत्ववाद का विरोधी द्वैतवाद एवं प्रधानादिपरक है। श्रुतियों में जो "सांख्ययोगाभिपन्नम्" (श्वेता. ६।१३) इस प्रकार 'सांख्य' और 'योग' शब्द आए हैं, वहाँ 'सांख्य' शब्द वैदिक सम्यक् आत्मैकत्वज्ञान और 'योग' शब्द ध्यान को कहता है। 'योग' शब्द से जो "योगश्चित्तवृत्तिनिरोधः" (यो. सू. १।२) इस प्रकार चित्त-वृत्तियों के निरोध को योग कहा गया है, वह प्रत्ययैकतानतारूप ध्यान का उपाय है, उपाय और उपेय की अभेद-विवक्षा में वैसा कह दिया गया है। केवल चित्त-वृत्ति-निरोध ही ध्यान