भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
| ५३२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [अ. १ पा. ४ सू. २८ |
|---|
प्रथमेऽध्याये
अधिकरणानां सूत्राणां च
संख्या
| पादसं० | १ | २ | ३ | ४ | योगः |
|---|---|---|---|---|---|
| अधिकरणसं० | ११ | ७ | १३ | ८ | ३९ |
| सूत्रसं० | ३१ | ३२ | ४३ | २८ | १३४ |
ब्रह्मसूत्रशाङ्करभाष्यम्
द्वितीयोऽध्यायः।
प्रथमः पादः
[ सांख्ययोगकाणादादिस्मृतिभिः वेदान्तसमन्वयविरोधपरिहारः ]
( १ स्मृत्यधिकरणम् । सू० १-२ )
प्रथमेऽध्याये सर्वज्ञः सर्वेश्वरो जगत उत्पत्तिकारणम्, मृत्सुवर्णादय इव घटरुचकादीनाम्, उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणं, मायावीव मायायाः। प्रसारितस्य च जगतः पुनः स्वात्मन्येवोपसंहारकारणं, अवनिरिव चतुर्विधस्य भूतग्रामस्य। स एव च सर्वेषां न आत्मेत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम्। प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः। इदानीं स्वपक्षे स्मृतिन्याय-विरोधपरिहारः, प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं, प्रतिवेदान्तं च सृष्ट्या-दिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति -
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम्, कुतः ? स्मृत्यनवकाशदोष-
भामती
वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः सङ्गतिप्रदर्शनार्थं च सुखग्रहणाय चैतयोः संक्षेपतस्तात्पर्यार्थमाह ॐ प्रथमेऽध्याये इति ॐ । अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोध-तत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः। पूर्वलक्षणार्थो हि विषयस्तद्गोचरतदाक्षेपसमाधानयोरिव च विषयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतार-यति । ॐ तत्र प्रथमं तावद् इति ॐ । तन्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा
भामती-व्याख्या
रामो विजयतां राजा वीरः शस्त्रभृतां वरः।
ओरोपितोऽद्य संग्रामो दारुणो द्वैतिभिः सह॥
सङ्गति—विगत समन्वयाध्याय और इस विरोधपरिहाराध्याय की सङ्गति दिखाने एवं सुखपूर्वक अधिगति कराने के लिए दोनों अध्यायों की विषय-वस्तु का संक्षिप्त वर्णन किया जाता है—"प्रथमेऽध्याये"। प्रत्यक्षादि प्रमाणों से निरपेक्ष वेदान्त का प्रामाण्य सुस्थिर है। वेदान्त-विचारात्मक इस दर्शन के प्रथम अध्याय का इस द्वितीय अध्याय के साथ विषय-विषयीभाव सम्बन्ध है, क्योंकि जो विरोध या आक्षेप और उसका परिहार या समाधान इस अध्याय में वर्णित है, वह पूर्वाध्याय के समन्वय को विषय करता है, जैसे कि इस प्रथम अधिकरण में पूर्वपक्षी का आक्षेप है—सृष्टिविषयक वेदान्त-वाक्यों का ब्रह्म में समन्वय उचित नहीं और सिद्धान्ती ने उसका परिहार करते हुए उक्त समन्वय को उचित ठहराया है। अध्यायों की संगति दिखाकर अध्याय के अवयवभूत अधिकरण का अवतरण प्रस्तुत करते हुए कहा गया है—"तत्र प्रथमं तावत् स्मृतिविरोधमुपन्यस्य परिहरति"।
विषय--सृष्टि-प्रतिपादक वेदान्त-वाक्यों का ब्रह्म में समन्वय।
पूर्वपक्ष—पूर्वाध्याय में सर्वज्ञ ब्रह्मगत जगत्कारणत्व की स्थापना न्याय-संगत नहीं, क्योंकि वैसा मानने पर प्रधानादि-प्रतिपादक सांख्य-स्मृति अत्यन्त निरवकाश होकर निरर्थक
| ५३४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ |
|---|
प्रसङ्गात् । स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता, अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन् । तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते । मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेना- पेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति । अस्य वर्णस्यास्मिन्कालेऽनेन विधाने- नोपनयनं, ईदृशश्चाचारः, इत्थं वेदाध्ययनं, इत्थं समावर्तनं, इत्थं सहधर्मचारिणीसंयोग इति । तथा पुरुषार्थाश्च वर्णाश्रमधर्माज्ञानाविधाग्विद्धति । नैवं कपिलादिस्मृतीना- मनुष्ठेये विषयेऽवकाशोऽस्ति । मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः । यदि तत्राप्यनवकाशाः स्युरानर्थक्यमेवासां प्रसज्येत । तस्मात्तद्विरोधेन वेदान्ता व्याख्यातव्याः । कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यव- धारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदद्यमनाक्षेपः स्वतन्त्र-
भामती
स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता। अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनु- सारिण्यः । न खलु अमूषां स्मृतीनां मन्वादिस्मृतिवदभ्योऽवकाशः शक्यो भवितुमृते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिश्रद्दध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् । तस्मात् तदविरोघेन कथञ्चिद्वेदान्ता व्याख्या- तव्याः । पूर्वपक्षमाक्षिपति ॐ कथं पुनरीक्षत्यादिभ्यः इति ॐ । प्रसाधितं खलु धर्ममीमांसायां 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' इत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयाऽनपेक्षणीयत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम्, अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् । पूर्वपक्षी समाधत्ते । ॐ भवेदयम् इति ॐ । प्रसाधितोऽप्यर्थः श्रद्धाजडान्
भामती-व्याख्या
और निष्प्रमाण हो जाती है किन्तु उसकी प्रामाणिकता सिद्ध है, क्योंकि “स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता”। ‘तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेन'—इस व्युत्पत्ति के आधार पर 'तन्त्र' शब्द का अर्थ दर्शन या शास्त्र है। आदिविद्वान् महर्षि कपिल ने 'तन्त्र' नाम से अपने स्वतन्त्र दर्शन का प्रणयन किया। उसके आधार पर उनकी शिष्य-परम्परा में आसुरि, वार्षगण्य और पञ्चशिखादि आचार्यों ने अनेक शास्त्रों की रचना की [ सम्भवतः 'षष्टि तन्त्र' नाम के ग्रन्थ को ध्यान में रखकर 'तन्त्र' शब्द को सांख्य-दर्शन की आख्या (संज्ञा) माना गया है ] । वे सभी शास्त्र मोक्ष के साधनीभूत प्रधानादि तत्त्वों के प्रतिपादक हैं। यदि उनके प्रतिपादन में भी उनको कोई अवसर नहीं दिया जाता, उनका प्रामाण स्वीकार नहीं किया जाता, तब वे अत्यन्त निरवकाश निरर्थक और अप्रमाण हो जाते हैं। मन्वादि स्मृतियों का कर्म लेकर ब्रह्म तक का विषय विशाल है, अतः उनको यदि एक स्थान पर अवसर नहीं दिया जाता, तब अन्यत्र उनको अवसर मिल जाता है, किन्तु सांख्य-स्मृति का विषय सीमित है।
इस अधिकरण का जो पूर्व पक्ष है कि 'सांख्य स्मृति के अनुरोध पर वेदान्त-समन्वय का संकोच करके प्रधान (प्रकृति) तत्त्व को जगत् का कारण माना जाय।' उस पर कोई आक्षेप करता है—“कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणम्”। आशय यह है कि पूर्व मीमांसा में यह सिद्ध कर दिया गया है कि श्रुति-विरुद्ध स्मृति को प्रमाण नहीं माना जाता, चाहे वह निरवकाश हो या सावकाश। विरुद्ध श्रुति के न होने पर ही स्मृति- वाक्य को श्रुतिमूलकत्वानुमानपूर्वक प्रमाण माना जाता है—“विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” (जै० सू० १।३।३ ) । सांख्यादि स्मृतियाँ दुर्बल हैं, उनकी अपेक्षा वेदान्त-वाक्य स्वतःसिद्धप्रामाण्यक होने से प्रबल हैं, अतः श्रुति-विरुद्ध स्मृति के आधार पर समन्वय- संकोच का आक्षेप क्योंकर हो सकता है ?
सांख्यादिस्मृतिविरोधनिरासः ] हिन्दीसहितभामतीसंवलितम् ५३५
प्रज्ञानाम् । परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् । तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् । अस्मत्कृते च व्याख्याने न विश्वस्युर्वहुमानात्स्मृतीनां प्रणेतृषु । कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते । श्रुतिश्च भवति—'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्' ( श्वे० ५।२ ) इति । तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् । तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्ति । तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः ।
तस्य समाधिः— नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति । यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः
भामती
प्रति पुनः प्रसाध्यत इत्यर्थः । आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षी ॐ कपिलप्रभृतीनां चायम् इति ॐ । अयमस्याभिसन्धिः — ब्रह्म हि शास्त्रस्य कारणमुक्तं 'शास्त्रयोनित्वाद्' इति, तेनैष वेदराशिरंब्रह्मप्रभवः सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतद्बुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽनूषाणमस्ति कश्चिद्विशेषः । न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् । तस्मात् तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः । अपि च तर्कोऽपि कपिलादिस्मृतीरनुमन्यते, तस्मादप्येतदेव ग्राह्यम् ।
एवं प्राप्त आह ॐ तस्य समाधिः इति ॐ । यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात् , नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र दर्शनात् ।
भामती-व्याख्या
इस आक्षेप का समाधान करते हुए महापूर्वपक्षी कह रहा है—“भवेदयमनाक्षेपः”। अर्थात् जो लोग श्रुतियों का स्वतन्त्र प्रामाण्य स्वीकार करते हैं, उनकी ओर से उक्त पूर्व पक्ष नहीं किया जा रहा है, अपि तु जिन लोगों की ऐसी धारणा है कि श्रुतियों का स्वतन्त्र अर्थ नहीं किया जा सकता, अपि तु किसी-न-किसी स्मृति के परिप्रेक्ष्य एवं स्मृतिकार के निर्देशन में ही श्रुतियों का सटीक अर्थ किया जा सकता है। महर्षि कपिलादि का ज्ञान अप्रतिहत था—ऐसा स्मृतियों और श्रुतियों ने मुक्त कण्ठ से कहा है—“ऋषिं प्रसूतं कपिलं यः तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्” ( श्वेता ५।२) सारांश यह है कि ब्रह्म ही सभी वेदों का कारण बताया गया है—“शास्त्रयोनित्वात्” ( ब्र. सू. १।१।४)। कर्ता की बुद्धि ही उसके शास्त्र की प्रतिपाद्य वस्तु को जन्म दिया करती है, जैसे ब्रह्म या ईश्वर की बुद्धि स्वभावतः निरावृत सत्य वस्तु को विषय करती है, अतः वेद भी वैसी ही सत्य वस्तु के बोधक माने जाते हैं। वैसे ही कपिलादि महर्षियों का ज्ञान भी श्रुति-स्मृति-द्वारा आजानसिद्ध यथाभूतवस्तुविषयक ही कहा गया है। फलतः कपिलादि-प्रणीत स्मृतियों का वेदों से कोई अन्तर नहीं रह जाता। ये स्मृतियाँ स्फुट रूप से प्रधानादि का अभिधान करती हैं, इनका अन्यथाकरण कभी नहीं हो सकता, अतः इसके अनुरोध पर श्रुतियों का ही अन्यथानयन करना चाहिए। तर्क भी कपिलादि-प्रणीत स्मृतियों का समर्थक है—“कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम्” ( सां. का. १४)।
सिद्धान्त—उक्त पूर्व पक्ष का निराकरण करते हुए भाष्यकार ने कहा है—“तस्य समाधिः”। ब्रह्म में समन्वित होने के लिए श्रुतियों में जैसा अविगान (अविरोध) है, वैसा स्मृतियों में प्रधान (प्रकृति) के साथ समन्वित होने के लिए अविगान नहीं, अपितु विरोध है, क्योंकि अधिकतर श्रुति-सन्दर्भों में ब्रह्मगत जगत् की उपादानता साक्षात् प्रतिपादित है,
| ५३६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ ] |
|---|
प्रसज्येरन्। ता उदाहरिष्यामः – 'यत्तत्सूक्ष्ममविज्ञेयम्' इति परं ब्रह्म प्रकृत्य 'स ह्यान्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते' इति चोक्त्वा 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इत्याह। तथाऽन्यत्रापि 'अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयते' इत्याह। 'अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः॥' इति पुराणे। भगवद्गीतासु च – 'अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा' (भ० गी० ७।६) इति। परमात्मानमेव च प्रकृत्यापस्तम्बः पठति – 'तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः' (ध० सू० १।८।२३।२) इति। एवमनेकroundशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते। स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमस्मत्स्मृत्यनवकाशदोषोपन्यासः। दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्। विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्, अनपेक्ष्या इतराः। तदुक्तं प्रमाणलक्षणे – 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' (जै० सू० १।३।३) इति। न चातीन्द्रियानर्थाञ्छ्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुम्, निमित्ताभावात्। शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् – न, सिद्धेरपि सापेक्षत्वात्। धर्मानुष्ठानापेक्षा हि सिद्धिः। स च धर्मश्चोदना-
भामती
तस्मादविगानाच्छ्रौत एवार्थः आस्थेयो न तु स्मार्तो विगानादिति। तत्किमिदानीं परस्परविगानात् सर्वा एव स्मृतयोऽवहेया इत्यत आह ॐ विप्रतिपत्तौ च स्मृतीनाम् इति ॐ। ॐ न चातीन्द्रियानर्थान् इति ॐ अर्वाग्दृगभिप्रायम्। शङ्कते ॐ शक्यं कपिलादीनाम् इति ॐ। निराकरोति। ॐ न सिद्धेरपि इति ॐ। न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चितवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिन् जन्मनि सिद्धिरत एवाजानसिद्धा उच्यन्ते। यदस्मिन् जन्मनि न तैः सिद्धयुपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्सिद्धीनां, तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव। अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य। तदेवं वेदविरोधे
भामती-व्याख्या
अतः यही श्रौत अविगान वेदान्त-समन्वय के लिए ग्राह्य है, स्मार्त अविगान नहीं। 'स्मृतियों में काचित्क विगान-दर्शन के आधार पर क्या सभी स्मृतियाँ हेय हैं?' इस प्रश्न का उत्तर दिया जाता है—"विप्रतिपत्तौ च स्मृतीनामवश्यकर्त्तव्येऽन्यतरपरित्यागे"। अर्थात् श्रुति के साथ तालमेल रखनेवाली मन्वादि-स्मृतियों का उपादान और श्रुति-विद्रोहिणी कपिलादि-स्मृतियों का बहिष्कार ही उचित है। भाष्यकार ने जो कहा है—"न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभते", वह हम लोगों (स्थूलदर्शी व्यक्तियों) को ध्यान में रख कर कहा है, क्योंकि विगत देवताधिकरण में देवताओं, ऋषियों और योगियों को अतीन्द्रियार्थदर्शी माना गया है। कपिलादि की स्मृतियों के द्वारा भी अतीन्द्रियार्थविबोधन की शङ्का की जाती है—"शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वात्"। उक्त शङ्का का निराकरण किया जाता है—"न, सिद्धेरपि सापेक्षत्वात्"। आशय यह है कि कपिलादि वैसे आजान-सिद्ध नहीं, जैसा ईश्वर, किन्तु उन्हें वेदों की प्रमाणता का निश्चय होने के कारण उन्होंने अपने पूर्व जन्म में जो वेदाध्ययन और धर्मानुष्ठान किया था, जिससे इस जन्म में उन्हें सिद्धि (अणिमादि) हो जाती है, अत एव वे आजान-सिद्ध कह दिए जाते हैं। उन्होंने इस जन्म में किसी प्रकार का धर्मानुष्ठान नहीं किया, अतः उनकी सिद्धियों को पूर्वजन्म में कृत धर्मानुष्ठान से जनित माना जाता है। धर्मानुष्ठान के बिना कोई सिद्धि नहीं हो सकती।
सांख्यस्मृतेर्नादरः ] हिन्दीसहितभामतीसंवलितम् ५३७
लक्षणः। ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनार्थतिशङ्कितुं शक्यते। सिद्धव्यपाश्रयकल्पनायामपि बहुत्वत् सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति। परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषम तिवश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्। तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहरणीया। या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता, न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धांतुं शक्यम्। कपिलमिति श्रुतिसामान्यमात्रत्वात् अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात्। अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात्।
भामती सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयति ॐ सिद्धव्यपाश्रयकल्पनायामपि इति ॐ। श्रद्धाजडान् बोधयति। ॐ परतन्त्रप्रज्ञस्यापि इति ॐ। ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं ? तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत आह ॐ या तु श्रुतिः इति ॐ। न साध्यसिद्धानां परस्परविरूद्धानि वचांसि प्रमाणं भवितुमर्हन्ति। न च विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः। अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम्। तस्य व्यवस्थानात्। तस्मात् श्रुतिसामान्यमात्रेण भ्रमः सांख्यप्रणेता कपिलः श्रौत इति। स्यादेतत् -
भामती-व्याख्या मान लेते हैं कि कपिल सिद्ध योगी थे तो क्या उनके श्रुति से विरुद्ध अर्थ के अभिधायक शास्त्रों को भी प्रमाण मान लिया जाय ? कभी नहीं। ऐसे शास्त्रों का अप्रामाण्य निश्चित है, वैसे अप्रमाणभूत शास्त्रों से वेदार्थ का बाध कभी नहीं हो सकता, क्योंकि वेदों का प्रामाण्य स्वतः सिद्ध है।
वेद-विरुद्ध सिद्ध-वचनों की अप्रमाणता दिखा कर सिद्ध-वचनों का परस्पर-विरोध देख कर भी उनके वचनों पर अविश्वास हो जाता है-ऐसे पूर्व-कथन का स्मरण दिलाया जाता है-"सिद्धव्यपाश्रयकल्पनायामपि बहुत्वत् सिद्धानाम्"। स्मृति और स्मृतिकारों के जड़ (अन्ध) भक्तों को भी पक्षपात-रहित होकर विचार करना चाहिए-"परतन्त्रप्रज्ञस्यापि नाकस्मात् स्मृतिविशेषविषयः पक्षपातो युक्तः"। श्रुत्यर्थ-निर्णय में यदि स्मृति का माध्यम आवश्यक है, तब केवल कापिल स्मृति का ही अनुसरण क्यों ? मन्वादि स्मृतियों का अनुगमन क्यों नहीं किया जाता ? "ऋषिं प्रसूतं कपिलम्"- यह श्रुति जब कि कपिल का ज्ञान अनावृतसत्यार्थविषयक बता रही है तब कापिल वचन को अप्रमाण क्योंकर कहा जा सकता है ? कपिल-स्मृति की अप्रमाणता से उक्त श्रुति में ही अप्रामाण्य प्रसक्त क्यों न होगा ? इस शङ्का का समाधान है-"या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती दर्शिता"। अर्थात् वह श्रुति केवल यह कह रही है कि कपिल सिद्ध थे, किन्तु यह नहीं कहती कि कपिल का श्रुति-विरुद्ध वचन भी प्रमाण माना जाय। बहुत-से सिद्धों के परस्पर विरुद्ध वचन भी प्रमाण नहीं हो सकते, क्योंकि उन सबको प्रमाण मानने के लिए षोडशि के ग्रहणाग्रहण के समान स्मृति-गम्य विरुद्ध अर्थों को मानना आवश्यक है, किन्तु ऐसा सम्भव नहीं, क्योंकि ग्रहणाग्रहणादि अनुष्ठानों में इस प्रकार का विकल्प माना जा सकता है, सिद्ध अर्थ में नहीं- यह कई बार कहा जा चुका है। दूसरी बात यह भी है कि कथित श्वेताश्वतर-श्रुति ने जो 'कपिल' शब्द का प्रयोग किया है, वह महर्षि कपिल का ही वाचक है-ऐसी बात नहीं, अपितु श्रुतिसामान्य है अर्थात् सामान्य शब्द है, इसका अन्य भी अर्थ हो सकता है, जैसे
६८
| ५३८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ |
|---|
भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः — ‘यद्वै किंच मनुरवदत्तद्भेषजम्’ (तै० सं० २।२।१०।२) इति । मनुना च ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥’ (१२।९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ (शान्ति. ३५०।१) इति विचार्य ‘बहवः पुरुषा राजन्सांख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — ‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥’ (शान्ति ३५०।३) इत्युपक्रम्य ‘ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम् ॥’ इति सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वात्मतायां भवति — ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई० ७) इत्येवंविधा । अतश्च सिद्धमात्मभेदकल्पनयापि, कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचन-
भामती
कपिल एव श्रोतो नान्ये मन्वादयः । ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धऽप्यहेयेत्यत आह ॐ भवति चान्या मनोरिति ॐ । तस्याश्चागमान्तरसंवादमाह ॐ महाभारतेऽपि च इति ॐ । न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी श्रुतिसंवादिनीत्याह ॐ श्रुतिश्च इति ॐ । उपसंहरति ॐ अतः इति ॐ । स्यादेतत् — भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो
भामती-व्याख्या
सगर-पुत्रों के दाहक वासुदेवाख्य कपिल [वेदापौरुषेयत्वाधिकरण में पूर्वपक्षी ने वेदों में अनित्य पुरुषों के नामोल्लेख की चर्चा कर आक्षेप किया “अनित्यदर्शनात्” (जै. सू. १।१।२८) अर्थात् “बबरः प्रावाहणिरकामयत” (तै. सं. ३।१।१०) इत्यादि श्रुतियों में प्रवाहण के पुत्र बवरादि का उल्लेख यह सिद्ध करता है कि वेद सादि हैं, अनादि नहीं। इस आक्षेप का समाधान करते हुए सिद्धान्ती ने कहा है — “परं तु श्रुतिसामान्यमात्रम्” (जै. सू. १।१।३१) । अर्थात् 'बवरादि' शब्द सामान्य अर्थ के बोधक हैं, किसी व्यक्ति विशेष के वाचक नहीं, अतः 'बवर' का अर्थ वायु भी हो सकता है, क्योंकि वेग से चलने पर वायु में ववर-ब्वर शब्द का अनुकरण प्रतीत होता है, वैसे ही प्रकृत में यह आवश्यक नहीं कि 'कपिल' शब्द सांख्य-प्रणेता कपिल को ही कहे, वह किसी अन्य अर्थ का भी बोधक हो सकता है ] । यदि कहा जाय कि 'कपिल' का नाम श्रुति में आता है, अतः कपिल-स्मृति के विरोध में मन्वादि-स्मृतियाँ हेय क्यों नहीं ? इस शङ्का का समाधान है—“भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः— ‘यद्वै किं च मनुरवदत् तद्भेषजम्’ (तै. सं. २।२।१०।२)” । मनु ने “सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि” (मनु. १२।९१) इस प्रकार एकात्मत्व-दर्शन का प्रतिपादन करते हुए कापिल मत की निन्दा की है, क्योंकि कपिल ने आत्म-भेद माना है। मनु के साक्ष्य में महाभारत-वचन प्रस्तुत किया जाता है—“महाभारतेऽपि” । अर्थात् महाभारत में भी “बहूनां पुरुषाणां हि ममैका योनिरुच्यते” । “एक एव चरति भूतेषु”—इत्यादि वाक्यों के द्वारा सर्वात्मता का ही समर्थन किया है। अन्यान्य श्रुतियाँ भी सर्वात्मता का ही निर्णय देती हैं— “श्रुतिश्च” । कपिल-मत के निराकरण का उपसंहार करते हैं—“अतः सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धम्” । केवल वेद से ही नहीं, मनु-वचन से भी सांख्य-दर्शन विरुद्ध ही है। वेद भी पौरुषेय है और सांख्य शास्त्र भी पौरुषेय, तब सांख्य शास्त्र ही
| सांख्यस्मृतेर्नादरः ] | हिन्दीसहितभामतीसंवलितम् | ५३९ |
|---|
विरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये । पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः । तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः ॥ १ ॥
भामती
वेदविरोधि कापिंलं वचो नादरणीयमित्यत आह ॐ वेदस्य हि निरपेक्षम् इति ॐ । अयमभिसन्धिः—सत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव, स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वतरानुसारेण पूर्वस्मिन् , पूर्वतमानुसारण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः । तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत् स्वातन्त्र्यं भवेत् । शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरव्यपर्यायेणाविर्भावात् । शास्त्रं च स्वतःबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तसमस्तदोषाशङ्कं सवनपेक्षं साक्षादेव स्वार्थे प्रमाणम् । कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः । तस्मात्तासामप्रप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत् स्मृत्यनुभवौ कल्प्येते तावत् स्वतःसिद्धप्रमाणभावयाऽनपेक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥ १ ॥
भामती-व्याख्या
अनादरणीय क्यों ? इस प्रश्न का उत्तर है—"वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम्" । भाव यह है कि वेदों का कारण ईश्वर है, इस प्रकार वेद सांख्य-शास्त्र के समान पौरुषेय ही है । तथापि ईश्वर वेद-प्रणयन में कपिलादि के समान स्वतन्त्र नहीं। ईश्वर तो इतना ही करता है कि पूर्व कल्प में जैसा वेद प्रचलित था, उसका स्मरण करके वैसा ही इस कल्प में भी उपदेश कर देता है । इसी प्रकार पूर्व-पूर्व कल्प के अनुसार ही उत्तरोत्तर कल्प में ईश्वर वेद की परम्परा अक्षुण्ण रखता है । वेद और ईश्वर दोनों ही अनादि हैं, उनका कार्यकारणभाव भी अनादि ही है । वेदों की रचना इतर दर्शनों के समान शास्त्रार्थज्ञानपूर्वक नहीं होती, अतः सांख्य में कपिलादि के समान ईश्वर का वेद में स्वातन्त्र्य नहीं माना जाता । यद्यपि ईश्वर सर्वज्ञ और सर्वदर्शी है, उसको वेदार्थ का ज्ञान भी स्वयं ही होता है, तथापि वेद-प्रणयन-क्रिया में कारण नहीं माना जाता, क्योंकि ईश्वर के द्वारा वेद-प्रणयन श्वास-प्रश्वास के समान बिना प्रयत्न के वैसे ही किया जाता है, जैसे उसका ज्ञान अयत्न-साध्य स्वतः आविर्भूत होता है । न तो उसका ज्ञान वेदाध्ययनपूर्वक होता है और न वेद-प्रणयन वेदार्थज्ञानपूर्वक । अपर्यायतः ( युगपत् ) आविर्भूत होनेवाले पदार्थों में परस्पर कार्यकारणभाव नहीं होता । [ महर्षि जैमिनि ने कहा है—'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वात्' ( जै. सू. १।१।५ ) अर्थात् शास्त्रों में अप्रामाण्य तीन प्रकार का माना जाता है—(१) अबोधकत्व, (२) विपरीत या बाधितार्थ-बाधकत्व और (३) सन्दिग्धार्थ-बोधकत्व ] । इनमें अबोधकत्वात्मक अप्रामाण्य वेद में इसलिए नहीं कि वह निसर्गतः बोधक है, जैसा कि शबरस्वामी कहते हैं—"विप्रतिषिद्धमिदमुच्यते ब्रवीति वितथं चेति" ( शाबर पृ. १४) । विपरीत और सन्दिग्ध अर्थ का ज्ञान उस वचन से होता है, जो भ्रम, प्रमादादि दोषों से युक्त हो—"दुष्टेषु हि ज्ञानं मिथ्या भवति" ( शाबर. पृ. २५) । वेद में किसी प्रकार का दोष नहीं, वह स्वतः निर्दुष्ट और अपने अर्थावबोधन में किसी अन्य प्रमाण की अपेक्षा वैसे ही नहीं करता, जैसे प्रत्यक्ष प्रमाण, किन्तु कपिलादि के द्वारा प्रणीत शास्त्र तो स्वतन्त्रबुद्धिपूर्वक हैं, उनकी विषयवस्तु का पहले उन्होंने स्मरण किया, स्मरण तभी होगा, जब कि उसका अनुभव हो । इस
| ५४० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. ३ |
|---|
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः ?—
इतरेषां चानुपलब्धेः ॥ २ ॥
प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते । भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् । अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरव कल्पते । यदपि क्वचित्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम् 'आनुमानिकमप्येकेषाम्' ( ब्र० सू० १।४।१ ) इत्यत्र । कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः । तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः । तर्कावष्टम्भं तु 'न विलक्षणत्वात्' ( ब्र० सू० २।१।४ ) इत्यारभ्योन्मथिष्यति ॥ २ ॥
( २ योगप्रत्युक्त्यधिकरणम् । सू० ३ )
एतेन योगः प्रत्युक्तः ॥ ३ ॥
एतेन सांख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्य-
भामती
प्रधानस्य तावत् क्वचिद्वेदप्रदेशे वाक्याभासानि दृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्ति । न च भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः । तस्मादात्यन्तिकात् प्रमाणान्तरासंवादात् प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः । न चार्षं ज्ञानमत्र मूलमुपपद्यत इति युक्तम् । तस्मान्न कपिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥ २ ॥
भामती-व्याख्या
प्रकार सांख्यादि शास्त्रों की प्रमाणता के लिए अपेक्षित प्रतिपाद्यार्थविषयक स्मरण और अनुभव की कल्पना जब तक की जायगी, तब तक स्वतःप्रमाणभूत और निरपेक्ष वेद अपने अबाधित एवं असन्दिग्ध अर्थ का बोध शीघ्र ही करा देता है, जिसके द्वारा सांख्यादि स्मृतियाँ बाधितार्थक हो जाती हैं, वार्तिककार कहते हैं—
न च शीघ्रप्रवृत्तेऽर्थेऽस्ति चिरादागच्छतो गतिः ।
अश्वैरपहृतं को हि गर्दभैः प्राप्तुमर्हति ॥ (तं. वा. पृ. १७७) ॥१॥
सांख्याभिमत पदार्थों में से प्रधान ( प्रकृति ) के प्रतिपादक कुछ वाक्याभास वेदों में मिल भी जाते हैं, किन्तु प्रधान तत्त्व के विकारभूत महदादि के बोधक वाक्याभास भी नहीं मिलते, महाभूत और इन्द्रियादि के समान लोक में भी महदादि प्रसिद्ध नहीं। स्मृति वही प्रमाणभूत मानी जाती है, जिसका आप्त प्रमाण से संवाद ( समर्थन ) हो और जो स्वयं प्रमाणमूलक हो, किन्तु सांख्य स्मृति का न तो कोई ठोस मूल उपलब्ध होता है और न प्रमाणान्तर का संवाद, तब वह क्योंकर प्रमाण होगी ? जैसे कोई वन्ध्या स्त्री कहे कि यह स्मृति हमारे दौहित्र की बनाई हुई है, तो उसका यह कहना नितान्त अप्रमाण और असङ्गत है, क्योंकि उसकी मूलभूत उसकी दुहिता है ही नहीं ; वैसे ही सांख्य-परम्परा का यह कहना अत्यन्त निर्मूल है कि हमारे कपिलादि आचार्यों ने स्वयं प्रधानादि का अनुभव करके सांख्य-स्मृति का प्रणयन किया, क्योंकि उनके अनुभवादि का कोई मूल उपलब्ध नहीं होता। आर्ष ज्ञान को भी मूल मानना युक्ति युक्त नहीं, क्योंकि आद्य श्रुति-संवादित आर्ष ज्ञान से विरुद्ध है, फलतः कपिल-स्मृति के आधार पर प्रधानादि में जगदुपादानत्व नहीं माना जा सकता ॥ २ ॥
योगस्मृतेर्नादरः ] हिन्दीसहितभामतीसंवलितम् ५४१
भामती
नानेन योगशास्त्रस्य हैरण्यगर्भगवाताह्लादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादान-स्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावतेषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्नुवीरन् । न चैतानि प्रधानादिसद्भावपराणि । किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि । तच्च किञ्चिन्निमित्ती-कृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात् प्रमाणभूतादपि योग-शास्त्रान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयित्वाऽऽह स्म भगवान् वार्षगण्यः—
'गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत् तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम्' ॥ इति ॥
योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः । अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवादत्वमुपपन्नम् । तदनेनाभिस-न्धिनाह ॐ एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि ॐ प्रधानादिविषयतया । ॐ प्रत्याख्याता द्रष्टव्या
भामती-व्याख्या
सन्देह—योग-शास्त्र के अनुरोध पर सृष्टि-प्रतिपादक वेदान्त-वाक्यों का ब्रह्म में समन्वय सङ्कुचित किया जाय ? अथवा नहीं ?
पूर्वपक्ष—सांख्य-स्मृति के प्रतिपाद्य पदार्थों का बहुत-सा भाग वेद में उपलब्ध नहीं, किन्तु योग-दर्शनद्वारा अभिहित यमादि पदार्थ वेद में उपलब्ध होते हैं, अतः योग-स्मृति के अनुसार प्रधान तत्त्व को ही जगत् का उपादान कारण माना जाय, ब्रह्म को नहीं ।
सिद्धान्त—सांख्य-दर्शन के समान ही योग-दर्शन भी अप्रमाण ही है। यद्यपि इस अधिकरण के द्वारा इस योग-शास्त्र के प्रामाण्य का सर्वथा निराकरण नहीं किया जाता, क्योंकि स्मृतिकारों ने हिरण्यगर्भ से इस शास्त्र का प्रादुर्भाव माना है—"हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" (म. भार. शान्ति ३४९।६५) और महर्षि पतञ्जलि ने इसे सूत्र-बद्ध किया है। मुख्यरूप से इसमें मोक्ष-साधनीभूत विवेक-ज्ञान का विधान उपलब्ध होता है, अतः "यत्परः शब्दः, स शब्दार्थः"—इस न्याय के आधार पर उसी अर्थ में इस शास्त्र का तात्पर्य पर्यवसित होता है। इसके चार पादों में क्रमशः (१) योग का स्वरूप, उसके साधनीभूत यम-नियमादि (२) क्रिया योग, (३) विभूति और (४) सिद्धि एवं कैवल्यादि पदार्थ वर्णित हैं। वर्णनीय विषय वस्तु के लिए कुछ निमित्त चाहिए था, अतः प्रधान और उसके विकारभूत महदादि पदार्थों को वैसे ही निमित्तमात्र बनाया गया है, जैसे कि पुराणों का मुख्य उद्देश्य वैदिक तत्त्व का उपबृंहण है, किन्तु प्रसङ्गतः (१) सर्ग (सृष्टि), (२) प्रतिसर्ग (प्रलय), (३) वंश, (४) मन्वन्तर और (५) वंशानुचरित भी वर्णित हैं। प्रसङ्गतः प्रतिपादित पदार्थों में शास्त्र का तात्पर्य नहीं माना जाता, क्योंकि अन्यार्थपरक वाक्यों से प्रसङ्गतः अन्य पदार्थ भी स्फोरित हो जाते हैं। उन्हें भी तब स्वीकृत कर लिया जाता है, जब कि प्रमाणान्तर से वे विरुद्ध न होते हों, प्रधानादिगत जगत् की उपादानता का वेदान्त श्रुतियों से विरोध स्पष्ट है—यह कहा जा चुका है। अतः अपने मुख्य विषय में प्रमाणभूत योग-शास्त्र से प्रधानादि तत्त्वों की सिद्धि न होने के कारण भगवान् वार्षगण्य ने प्रधानादि को तात्त्विक नहीं माना है—
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्त दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥
अर्थात् वार्षगण्य का मुख्य उद्देश्य योग का व्युत्पादन ही था, केवल निमित्त या प्रासङ्गिकरूप
५४२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ३
तिदिशति। तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्य- लोकवेदप्रसिद्धानि कल्प्यन्ते। नन्वेवं सति समानन्यायत्वात्पूर्वेणैव तद्गतम्, किमर्थं पुनरतिदिश्यते ? अस्ति ह्यत्राभ्यधिकाशङ्का—सम्यग्दर्शनाभ्युपायो हि योगो वेदे विदितः ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ ( बृ० २।४।५ ) इति। ‘त्रिरुन्नतं स्थाप्य समं शरीरम्’ ( श्वे० २।८ ) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते। लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्य- न्ते—‘तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ ( का० २।६।११ ) इति, ‘विद्यामेतां योगविधिं च कृत्स्नम्’ ( का० २।६।१८ ) इति चैवमादीनि। योगशास्त्रेऽपि अथ तत्त्व- दर्शनोपायो योगः’ इति सम्यग्दर्शनाभ्युपायतयैव योगोऽङ्गीक्रियते। अतः संप्रति-
भामती
इति ॐ। अधिकरणान्तरारम्भमाक्षिपति ॐनन्वेवं सति समानन्यायत्वाद् इति ॐ। समाधत्ते ॐ अस्त्य- त्राभ्यधिकाशङ्का ॐ। मा नाम सांख्यशास्त्रात् प्रधानसत्ता विज्ञायि। योगशास्त्रात्तु प्रधानादिसत्ता विज्ञा- पयिष्यते। बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते। उपनिषदुपायस्य च तत्त्वज्ञानस्य योगा- पेक्षास्ति। न तु जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमपायमपहायान्तरङ्गरू धारणादिकमन्तरेणौ- पनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति। तस्मादौपनिषदेन तत्त्वज्ञानेनापेक्षणात् संवादाद्बहुश्याञ्च वेदेनाष्ट- कादिस्मृतिवद्योगस्मृतिः प्रमाणम् । ततश्च प्रमाणात् प्रधानादिप्रतीतेर्नाशब्दत्वम् । न च तवप्रमाणं
भामती-व्याख्या
में गुणादि की चर्चा कर दी गई है, उनकी वास्तविकता में तात्पर्य नहीं, क्योंकि उन्हें माया के समान अतात्त्विक ही माना है। यद्यपि लोक-वेद में अत्यन्त अप्रसिद्ध प्रधानादि का अनुवाद भी सम्भव नहीं, तथापि अनादि काल से चले आए पूर्वपक्ष और न्यायाभास के आधार पर वादिगणों के द्वारा उत्प्रेक्षित और बहुचर्चित प्रधानादि का अनुवाद करके उन का निराकरण सम्भव हो जाता है। इस आशय को मन में रखकर सूत्रकार ने कहा है "एतेन योगः प्रत्युक्तः" अर्थात् सांख्य-स्मृति के प्रत्याख्यान से ही प्रधानादिविषयकत्वेन योग-स्मृति का भी प्रत्याख्यान हो जाता है।
यदि सांख्य के निराकरण से ही योग का निराकरण हो जाता है, तब योग-निराकर- णार्थ अधिकरणान्तर की रचना क्यों ? ऐसी शङ्का की जा रही है—"नन्वेवं सति समान- न्यायत्वात् पूर्वेणैव तद्गतम्"। उक्त शङ्का का समाधान किया जाता है—"अस्ति ह्यत्राभ्य- धिकाशङ्का"। अर्थात् सांख्य-शास्त्र के अनुरोध पर प्रधानादि की सत्ता यदि नहीं मानी जा सकती तो न सही, योग-शास्त्र के आग्रह पर प्रधानादि का अस्तित्व मान लेना चाहिए, क्योंकि सांख्यीय पदार्थ वेदों में उपलब्ध नहीं होते, किन्तु योग-शास्त्र का प्रायः बहुत-सा भाग वेद से संवादित ( समर्थित ) है। उपनिषत् में प्रतिपादित तत्त्व-ज्ञान को योग की पूर्णतया अपेक्षा है, क्योंकि योग-शास्त्र में विहित यम-नियमादि बहिरङ्ग और धारणादि अन्तरङ्ग साधनों के बिना औपनिषद आत्मतत्त्व का साक्षात्कार कभी हो ही नहीं सकता। इस प्रकार औपनिषद आत्म-तत्त्व के साक्षात्कार में अपेक्षित होने और वेद से संवादित होने के कारण योग-स्मृति वैसे ही प्रमाणभूत है, जैसे अष्टकादि स्मृति [ अगहन, पौष, माघ और फाल्गुन की कृष्णपक्षीय चार अष्टमी तिथियों में अनुष्ठेय श्राद्ध को अष्टका श्राद्ध कहते हैं, आश्वलायन गृह्य सूत्र (२।४।१) में इसका विधान किया गया है, वेद में विहित न होने से यह स्मार्त कर्म कहलाता है, अष्टका-विधायक आश्वलायनादि स्मृति-वचनों को प्रमाण इसी लिए माना जाता है कि वह वेद-विरुद्ध नहीं। वैसे ही वेदविरुद्ध योग-शास्त्र को प्रमाण
योगस्मृतेर्नादरः ] हिन्दीसहितभामतीसंवलितम् ५४३
पन्नायैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनववदनीया भविष्यतीति-इयमभ्यधिकाशङ्काऽतिदेशेन निवर्त्यते, अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया
भामती
प्रधानादौ प्रमाणञ्च यमादाविति युक्तम् । तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् । यथाहुः —
“प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे ॥” इति ।
सेयं लब्धप्रसरा प्रधानादौ योगप्रामाणता पिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति शङ्कार्थः । सा ॐ इयमभ्यधिकाशङ्काऽतिदेशेन निवर्त्यते ॐ । निवृत्तिहेतुमाह ॐ अर्थैकदेशसम्प्रतिपत्तावपि इति ॐ । यदि हि प्रधानादिसत्तापरं योगशास्त्रं भवेत् भवेत् प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधानदिपरं तत् किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति । नहि चक्षूरसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति । तस्माद्वेदान्तश्रुतिविरोधात् प्रधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् — अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धाऽर्हत-
भामती-व्याख्या
मानना चाहिए ] । फलतः योग-शास्त्ररूप प्रमाण के द्वारा प्रमाणित प्रधानादि पदार्थों को अशब्द ( अप्रमाण ) कहना उचित नहीं । 'योग-शास्त्र प्रधानादि अंश में अप्रमाण और यम-नियमादि अंश में प्रमाण है'— ऐसा नहीं कह सकते, क्योंकि योग-शास्त्र को यदि किसी भी अंश में अप्रमाण माना जाता है, तब पूरे योग-शास्त्र पर से ही विश्वास उठ जायगा, जैसे कि श्री कुमारिल भट्ट ने कहा है—
प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचराः ॥
क्वचिद् दत्तेऽवकाशे हि स्वोत्प्रेक्षालब्धधामभिः ।
जीवितुं लभते कस्तेस्तन्मार्गपतितः स्वयम् ॥” (तं. वा. पृ. १७१)
[ मर्कट ( वानर ) और भूत ( प्रेत ) को जब तक कहीं घुसने का अवसर नहीं मिलता, तभी तक उनके उपद्रव शान्त रहते हैं । जब उनको कहीं पैर रखने का अवसर मिल जाता है, तब पूरा क्षेत्र उनके उपद्रवों से ऐसा आक्रान्त हो जाता है कि उनके मार्ग में आकर कोई व्यक्ति जीवित नहीं रह सकता । उसी प्रकार ] यदि अप्रमाणता को किसी अंश ( प्रधानादि ) में मान लिया जाता है, तब समग्र अंशी ( योग-शास्त्र ) अप्रमाण हो जाता है, अतः योग-शास्त्र के प्रधानादि अंश में भी अप्रमाणता की गति रोक कर प्रधानादि की वास्तविक सत्ता मान लेनी चाहिए । ऐसा मान लेने पर प्रधानादि में अशाब्दता का आरोप निराधार हो जाता है ।
सिद्धान्त — उक्त अत्यधिक आशङ्का अतिदेश के द्वारा दूर की जाती है, क्योंकि “अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः” । यदि योग-शास्त्र का मुख्य तात्पर्य प्रधानादि की सत्ता में होता, तब प्रत्यक्ष वेदान्त श्रुति से बाधित होकर योग-शास्त्र अप्रमाण हो जाता । इतना ही नहीं, उसके द्वारा विहित यम-नियमादि पर भी अविश्वास हो जाता । फलतः योग-शास्त्र को प्रधानादि-परक न मानकर प्रधानादि के निमित्त से यम-नियमादि का प्रतिपादक मानना ही उचित है । योग-शास्त्र प्रधानादि अंश में अप्रमाण होकर यम-नियमादि अंश में भी वैसे ही अप्रमाण नहीं होता, जैसे चक्षु अपने अविषयीभूत रसादि अंश में अप्रमाण होकर रूप में भी अप्रमाण नहीं होता ।
५५४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ३
दर्शनात् । सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः । सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन च श्रौतेनोपबृंहितौ । 'तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः' (श्वे० ६।१३) इति । निराकरणं तु-न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति - 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे० ३।८) इति । द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः । यत्तु दर्शनमुक्तं 'तत्कारणं सांख्ययोगाभिपन्नम्' इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् । येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् । तद्यथा - 'असङ्गो ह्ययं पुरुषः' (बृ. ४।३।१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते । तथा च योगैरपि 'अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः' (जावा० ५)
भामती
कापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आह ॐ सतीष्वपि इति ॐ । तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्राथैर्म्लेच्छादिभिः परिगृहीतासु वेदमूलत्वाशङ्कव नास्तीति न निराकृताः, तद्विपरीतास्तु सांख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः । ॐ न सांख्यज्ञानेन वेदनिरपेक्षेण इति ॐ । प्रधानादिविषयेणेत्यर्थः । ॐ द्वैतिनो हि ते सांख्या योगाश्च ॐ ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः । संख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति सांख्याः । एवं योगो ध्यानम् , उपायोपेययोरभेदविवक्षया, चित्तवृत्तिनिरोधो हि योगः, तस्योपायो
भामती-व्याख्या
अध्यात्मविषयक हजारों अन्य दर्शन हैं, जैसे-बौद्ध, आर्हत (जैन) और कापालिकादि। उनका भी यहाँ निराकरण क्यों नहीं किया जाता ? इस प्रश्न का उत्तर है—"सतीष्वपि अध्यात्मविषयासु बह्वीषु स्मृतिषु" । अर्थात् बौद्धादि दर्शन वेदार्थ के विसंवादी (विपरीत) होने के कारण शिष्ट पुरुषों के द्वारा ही अनादृत एवं समाज के गिरे हुए म्लेच्छप्राय पशु-स्तर के असभ्य पुरुषों के ही श्रद्धा-भाजन हैं। उनमें वेदमूलकत्व की आशङ्का ही नहीं हो सकती, अतः उनके निराकरण की कोई आवश्यकता ही नहीं किन्तु सांख्य-योग ठीक उनके विपरीत वेदमूलक और शिष्ट-समाज में समादृत और प्रचलित हैं, अतः प्रधानादि-प्रतिपादन अंश में उनका निरास किया जाता है। "न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यते"—इस भाष्य का आशय यह है कि सांख्य-योग का निराकरण इसी लिए किया जाता है कि उनका जो कहना है कि 'वेद-निरपेक्ष केवल प्रधानादिविषयक सांख्य-ज्ञान अथवा योग-मार्ग से ही मोक्ष की प्राप्ति होती है' उनका वह कहना अत्यन्त असङ्गत है, क्योंकि श्रुति ने यह नियम घोषित कर रखा है कि केवल वैदिक आत्मैकत्व-ज्ञान से ही मुक्ति प्राप्त होती है किन्तु 'द्वैतिनो हि ते सांख्या योगाश्च'। सांख्य-दर्शन और योग-दर्शन का सिद्धान्त आत्मैकत्ववाद का विरोधी द्वैतवाद एवं प्रधानादिपरक है। श्रुतियों में जो "सांख्ययोगाभिपन्नम्" (श्वेता. ६।१३) इस प्रकार 'सांख्य' और 'योग' शब्द आए हैं, वहाँ 'सांख्य' शब्द वैदिक सम्यक् आत्मैकत्वज्ञान और 'योग' शब्द ध्यान को कहता है। 'योग' शब्द से जो "योगश्चित्तवृत्तिनिरोधः" (यो. सू. १।२) इस प्रकार चित्त-वृत्तियों के निरोध को योग कहा गया है, वह प्रत्ययैकतानतारूप ध्यान का उपाय है, उपाय और उपेय की अभेद-विवक्षा में वैसा कह दिया गया है। केवल चित्त-वृत्ति-निरोध ही ध्यान
सांख्यतर्कविरोधः ] हिन्दीसहितभामतीसंवलितम् ५४५
इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते। एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि। तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम। तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति—'नावेदविन्मनुते तं बृहन्तम्' (तै० ब्रा० ३।१२।९।७) 'तं त्वौपनिषदं पुरुषं पृच्छामि' (बृ० ३।९।२६) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥
( ३ विलक्षणत्वाधिकरणम् । सू० ४—१२ )
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
ब्रह्मस्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः, तर्कनिमित्त इदानीमाक्षेपः परिह्रियते। कुतः पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति। भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः, परिनिष्पन्नरूपं तु ब्रह्मावगम्यते। परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणाम-
भामती
ध्यानं प्रत्ययैकतानता। एतच्चोपलक्षणम्। अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः। एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानीति योजना। सुगममन्यत् ॥ ३ ॥
अवान्तरसङ्गतिमाह ꣼ ब्रह्मस्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्य इति ꣼। चोदयति ꣼ कुतः पुनरिति। समानविषयत्वे हि विरोधो भवेत्। न चेहास्ति समानविषयता, धर्मवद् ब्रह्मणोऽपि मानान्तरविषयतयाऽतर्क्यत्वेनानपेक्षाग्नायैकगोचरत्वादित्यर्थः। समाधत्ते ꣼ भवेदयम् इति ꣼।
मानान्तरस्याविषयः सिद्धवस्तुवगाहिनः।
धर्मोऽस्तु कार्य्यरूपत्वाद् ब्रह्म सिद्धं तु गोचरः ॥
भामती-व्याख्या
का उपाय नहीं, अपितु यम-नियमादि बाह्य और धारणादि आन्तरिक उपाय भी योग (ध्यान) के साधन हैं। भाष्यकार ने जो कहा है—"एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि"। वहाँ 'एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि'—ऐसी योजना कर लेनी चाहिए। अर्थात् ऐसे सभी दर्शन तत्त्व-ज्ञान के विविध उपाय यदि प्रस्तुत करते हैं, तब कोई क्षति नहीं, मोक्ष-प्रद तत्त्व-ज्ञान केवल वेद-वेदान्त से ही होता है, अन्य शास्त्र से नहीं—"नावेदविन्मनुते तं बृहन्तम्" (तै. ब्रा. ३।१२।९।७) ॥३॥
सङ्गति—"ब्रह्मस्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्य"। अर्थात् ब्रह्मगत अभिन्ननिमित्तोपादानता पर जो विभिन्न स्मृतियों (दर्शनों) के द्वारा आक्षेप किए जाते थे, उनका परिहार किया गया। अब तर्कनिमित्तक उसी आक्षेप का निराकरण किया जाता है।
शङ्का—ब्रह्म में जगत् की उभय-विध कारणता जब आगम प्रमाण से निर्णीत हो चुकी है, तब अप्रमाणभूत तर्क के द्वारा उस पर आक्षेप क्योंकर सम्भव होगा ?
समाधान—धर्म और ब्रह्म में यह महान् अन्तर है कि धर्म केवल आगम प्रमाण का विषय है, प्रमाणान्तर का नहीं, अतः वहाँ तर्क की गति नहीं किन्तु ब्रह्म साध्यात्मक धर्म
६९
| ५४६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [अ. २ पा. १ सू. ४ |
|---|
स्त्यवकाशो यथा पृथिव्यादिषु । यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत । दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते । विप्रकृष्यते तु श्रुतिरेतिह्यमात्रेण स्वार्थाभिधानात् । अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते । श्रुतिरपि—'श्रोतव्यो मन्तव्यः' इति श्रवणव्यतिरेकेण मननं विदधती तर्क्रमप्याद्रतव्यं दर्शयति, अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते 'न विलक्षणत्वादस्य' इति ॥
भामती
तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आह ॐ यथा च श्रुतीनाम् इति ॐ । सावकाशा बह्व्योऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्व्योपि श्रुतयो गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरोपितयाऽनादिमविद्यां निवर्त्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते, न ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं तेन प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याह ॐ दृष्टसाधर्म्येण च इति ॐ । अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याह ॐ श्रुतिरपि इति ॐ । सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयते ।
प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् ।
जगद् ब्रह्मस्वरूपन्न नेति नो तस्य विक्रिया ॥
भामती-व्याख्या
से विपरीत सिद्धार्थक है। वेदान्त और तर्क—दोनों समानविषयक (सिद्धार्थविषयक) हैं, अतः वेदान्त के क्षेत्र में तर्क को भी उतरने का अवकाश है। वेदान्त के साथ तर्क का विरोध होने पर भी तर्क को इतना प्रश्रय क्यों दिया जाता है? इस प्रश्न का उत्तर है—"यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते"। जैसे अनेक सावकाश श्रुतियाँ अनवकाशभूत एक श्रुति से विरुद्ध होने पर उसके अनुसार ही व्याख्यात और संघटित की जाती हैं, वैसे ही अनवकाशभूत एक तर्क का विरोध होने पर वेदान्त-श्रुतियाँ उस (तर्क) के अनुरूप ही गौणी वृत्ति आदि का सहारा लेकर प्रवृत्त की जा सकती हैं।
दूसरी बात यह भी है कि ब्रह्म का प्रत्यक्ष ज्ञान अनादि अविद्या को निवृत्त करता हुआ शुक्ति-साक्षात्कार के समान दृष्ट-मार्ग से ही मोक्ष का साधन माना जाता है। अनुमानरूप तर्क भी दृष्ट के अनुसार अदृष्ट की कल्पना है। इस प्रकार प्रधान (प्रकृति) का अनुमान विषयतः प्रत्यक्ष का अन्तरङ्ग (निकट-वर्ती) है किन्तु आगम-जन्य शाब्द ज्ञान अत्यन्तपरोक्षार्थावगाही होने के कारण बहिरङ्ग (दूरवर्ती) है। प्रत्यक्ष प्रधान है, तर्क और श्रुति—दोनों उसके अङ्ग हैं। तर्क के साथ प्रधान की प्रत्यासत्ति (समीपता) तर्क को श्रुति से प्रबल बनाती है, भाष्यकार यही कह रहे हैं—"दृष्टसाधर्म्येण चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते"। इतना ही नहीं, श्रुति ने स्वयं तर्क को आदर दिया है—"श्रुतिरपि—श्रोतव्यो मन्तव्यः" इति श्रवणव्यतिरेकेण मननं विदधती तर्क्रमप्याद्रतव्यं दर्शयति"। मनन एक तर्क-प्रकार ही है।
पूर्वपक्ष—ब्रह्मगत जगदुपादानत्व पर तर्क के द्वारा इस प्रकार आक्षेप किया जाता है—
प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् ।
जगद् ब्रह्मस्वरूपं च नेति नो तस्य विक्रिया ॥
सांख्यतर्कविरोधः ] हिन्दीसहितभामतीसंवलितम् ५४७
यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति तन्नोपपद्यते, कस्मात् ? विलक्षणत्वादस्य विकारस्य प्रकृत्याः । इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद् ब्रह्मविलक्षणमचेतन-मशुद्धं च दृश्यते, ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते । न च विलक्षणत्वे प्रकृति-विकारभावो दृष्टः । न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाः । मृदैव तु मृदन्विता विकाराः क्रियन्ते, सुवर्णेन च सुवर्णान्विताः । तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सदचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति, न विलक्षणस्य ब्रह्मणः । ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् । अशुद्धं हि जगत् सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनारकाद्युच्चावचप्रपञ्चत्वाच्च । अचेतनं चेदं जगत् चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् । नहि साम्ये सत्युपकार्योपकारकभावो भवति, नहि प्रदीपौ परस्परस्योपकुरुतः । ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति । न, स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं
भामती
विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् ।
तेन प्रधानसारूप्यात् प्रधानस्यैव विक्रिया ॥
तथाहि—एक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनाञ्च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽप्यर्थाय सुखदुःखविषादानाधत्ते । स्त्रिया च सर्वे भावा व्याख्याताः । तस्मात् सुखदुःखमोहात्मकतया च स्वर्गनरकोच्चावचप्रपञ्चतया च जगदशुद्धमचेतनञ्च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् । तस्मात् प्रधानस्याशुद्धस्यांशस्य विकारी जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान् प्रत्याह ॐ अचेतनं चेदं जगद् इति ॐ । व्यभिचारं चोदयति ॐ ननु चेतनमपि इति ॐ । परिहरति ॐ न स्वामिभृत्ययोरपि इति ॐ । ननु मा नाम साक्षाच्चेतन-
भामती-व्याख्या
विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् ।
तेन प्रधानसारूप्यात् प्रधानस्यैव विक्रिया ॥
[ प्रकृति (उपादान कारण) के साथ विकारों (उपादेयभूत कार्यों) का नियमतः सारूप्य (साजात्य) होता है, किन्तु आकाशादि प्रपञ्च ब्रह्म के सरूप न होकर विरूप है, क्योंकि ब्रह्म विशुद्ध (निरतिशय, चेतन्यात्मक और जगत् जड़, अविशुद्ध और स्वर्ग-नरकादिरूप में उच्चावच (सातिशय) है, अतः यह ब्रह्म का विकार नहीं हो सकता। हाँ, सांख्याभिमत प्रधान (प्रकृति) का सरूप होने के कारण प्रधान का विकार (उपादेय) हो सकता है, क्योंकि] यह कहा जा चुका है कि जैसे एक ही स्त्री अपने पति के लिए सुखरूप, अपनी सपत्नियों के लिए दुःखरूप और पति से भिन्न चैत्रादि कामुक पुरुषों को सुलभ न होने के कारण उनके लिए मोहरूप होती है। वैसे ही समस्त प्रपञ्च सुख-दुःख-मोहात्मक है और प्रकृति भी वैसी ही है, अतः प्रकृति और प्रपञ्च का सारूप्य एवं उपादानोपादेयभाव निश्चित है।
जो लोग चेतन ब्रह्म का विकार होने के कारण जगत् को चेतन कहते हैं, उनका निराकरण करने के लिए कहा जाता है—"अचेतनं चेदं जगत्"। अर्थात् जगत् को अचेतन मानने पर ही चेतन पुरुष के साथ उसका उपकार्य-उपकारकभाव बन सकता है, दोनों को समान (एक जातीय) मानने पर उपकार्योपकारकभाव नहीं बन पाता। इस नियम के व्यभिचार की शङ्का की जाती है—"ननु चेतनमपि"। राजा और उसके भृत्य सब चेतन हैं,
५४८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ४
प्रत्युपकारकत्वात् । यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः, स एवान्यस्य चेतनस्योपकरोति, नतु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा । निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते । तस्मादचेतनं कार्यकारणम् । न च काष्ठलोष्ठा- दीनां चेतनत्वे किंचित्प्रमाणमस्ति । प्रसिद्धश्चायं चेतनाचेतनप्रविभागो लोके । तस्माद् ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् । योऽपि कश्चिदाचक्षीत-श्रुत्वा जगतश्चेतनप्रकृतिकतां, तद्वलेनैव समस्तं जगच्चेतन- मवगमयिष्यामि, प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् । अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति । यथा स्पष्टचैतन्यानामात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यते, एवं काष्ठलोष्ठादीनामपि चैतन्यं न विभावयिष्यते । एतस्मादेव च विभावित्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामा- त्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते । यथा च पार्थिवत्वा- विशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परोपकारित्वं भवत्येवमि- हापि भविष्यति । प्रविभागप्रसिद्धिश्चेप्यत एव न विरोत्स्यत इति । तेनापि कथंचि- च्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत, शुद्धयशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते । न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह--तथात्वं च शब्दादिति । अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृति-
भामती
श्चेतनान्तरस्योप कार्षीत्, तत्कार्यकरणबुद्ध्यादिनियोगद्वारेण तूपकरिष्यतीत्यत आह ॐ निरतिशया ह्यकर्त्तारश्चेतनाः इति ॐ । उपजनापायवर्द्धर्मयोगोऽतिशयः, तदभावो निरतिशयत्वम्, अत एव निष्क्रियार- स्वभावकर्त्तारस्तस्मात्तेषां बुद्ध्यादिप्रयोक्तृत्वमपि नास्तोत्यर्थः । चोदकोऽनुशयबीजमुद्घाटयति ॐ योऽपि इति ॐ । अभ्युपेत्यापाततः समाधानमाह ॐ तेनापि कथञ्चिद् इति ॐ । परमसमाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयति ॐ न चैतदपि विलक्षणत्वम् इति ॐ । सूत्रावयवाभिसन्धिमाह ॐ अनवगम्यमान-
भामती-व्याख्या
फिर भी उनमें उपकार्योपकारकभाव होता है। उक्त शङ्का का परिहार किया जाता है— "न, स्वामिभृत्ययोरपि"। भृत्य का जड़ शरीर ही चेतनरूप स्वामी का उपकारक होता है। यद्यपि एक चेतन दूसरे चेतन का साक्षात् उपकार नही कर सकता, तथापि शरीर, इन्द्रिय और बुद्ध्यादि का प्रेरक होकर उपकारक क्यों न होगा ? इस शङ्का का समाधान है— "निरतिशया ह्याकर्तारश्चेतना"। 'अतिशय' पद से आगमायायी धर्मवान् व्यापार (क्रिया) आदि विवक्षित हैं, सांख्य-मत के अनुसार चेतन में किसी प्रकार का पेरणादि व्यापार नहीं माना जाता, अतः वह शरीरादि का भी प्रेरक नहीं हो सकता। शङ्कावादी अपना अभिप्राय प्रकट करता है—"योऽपि कश्चिदाचक्षीत"। अर्थात् जो शङ्कावादी कहता है कि श्रुतियाँ जगत् को चेतनप्रकृतिक कहती है, इतने से ही यह सिद्ध हो जाता है कि समस्त जगत् चेतन है, क्योंकि प्रकृति के स्वभाव का अन्वय विकार में नियमतः देखा जाता है। उस शङ्कावादी के उक्त कथन को आपाततः मान करके समाधान किया जाता है— तेनापि कथंचित् चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत"। अर्थात् ऐसे शङ्कावादी के द्वारा वेदान्ति-सूचित बहुत-से वैलक्षण्यों में से केवल चेतनत्व-अचेतनत्वरूप वैलक्षण्य का ही कथंचित् परिहार हो सकेगा, शुद्धित्व-अशुद्धित्वादि का नहीं। वस्तुतः इतर (चेतनत्व- अचेतनत्वरूप) वैलक्षण्य का परिहार भी नहीं किया जा सकता, ऐसा सूत्रकार कहते हैं—
सांख्यतर्कस्यानादरः ] हिन्दीसहितभामतीसंवलितम् ५४९
कत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत, तच्च शब्देनैव विरुध्यते। यतः शब्दादपि तथात्वमवगम्यते। तथात्वमिति प्रकृतिविलक्षणत्वं कथयति। शब्द एव 'विज्ञानं च' ( तै० २।६ ) इति कस्यचिद्विभागस्याचेतनतां श्रावयन्नचेतनाद् ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥
ननु चेतनत्वमपि कचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते—यथा 'मृदब्रवीत्', 'आपोऽब्रुवन्' ( श० प० ब्रा० ६।१।३।२।४ ) इति, 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' ( छा० ६।२।३।४ ) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः। इन्द्रियविषयाणि 'ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः' ( बृ० ६।१।७ ) इति, 'ते ह वाचमूचुस्त्वं न उद्गायेति ( बृ० १।३।२ ) इत्येवमाद्येन्द्रियविषयेति। अत उत्तरं पठति —
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
तुशब्द आशङ्कामपनुदति । न खलु 'मृदब्रवीद्' इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम्, यतोऽभिमानिव्यपदेश एषः । मृदाद्यभिमानिन्यो
भामती
मेव हीदम् इति। शब्दार्थात् खलु चेतनप्रकृतिकत्वाच्चैतन्यं पृथिव्यादीनामवगम्यमानमुपोद्वलितं मानान्तरेण साक्षाच्छ्रूयमाणमप्यचैतन्यमप्यथयेत् । मानान्तराभावे स्वार्थोऽर्थः श्रुत्यर्थेनापबाध्यः, न तु तद्बलेन श्रुत्यर्थोऽन्यथयितव्य इत्यर्थः ॥ ४ ॥
सू०न्तरमवतारयितुं चोदयति ॐ ननु चेतनत्वमपि क्वचिद् इति ॐ । न पृथिव्यादीनां चैतन्यमार्थमेव, किन्तु भूयसीनां श्रुतीनां साक्षादेवार्थ इत्यर्थः । सूत्रमवतारयति ॐ अत उत्तरं पठति ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥
विभजते ॐ तुशब्द इति ॐ । नैताः श्रुतयः साक्षान्मृदादीनां वागादीनाञ्च चैतन्यमाहुः, अपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छ्रुतिबलेन न मृदादीनां वागादीनाञ्च चैतन्यमाशङ्कनीयमिति ।
भामती-व्याख्या
"अस्य तथात्वं च, शब्दात्"। इस सूत्र-खण्ड का आशय प्रकट किया गया है—"अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुततश्चेतनत्वम्"। अर्थात् पृथिव्यादि जगत् में श्रुतियों के द्वारा चेतनोपादानकत्व प्रतिपादित है, उसी के बल पर अर्थात् जगत् में जो चेतनत्व अधिगत होता है, वह यदि लौकिक अनुभव के द्वारा संवादित या अवगम्यमान होता, तब वह चेतनत्व अवश्य ही प्रपञ्चगत साक्षात् श्रुति-बोधित अचेतनत्व का अन्यथाकरण ( बाध ) कर देता, किन्तु अनुभवरूप प्रमाणान्तर की सहायता के बिना केवल श्रुतार्थापत्ति से गम्यमान जगद्गत चेतनत्व श्रुति-प्रतिपादित अचेतनत्व से बाधित होता है, अर्थात् अवगत चेतनत्व के द्वारा श्रुत्यर्थ रूप अचेतनत्व का बाध कभी नहीं हो सकता ॥ ४ ॥
पञ्चम सूत्र के अवतारणार्थ शङ्का की जाती है—"ननु चेतनत्वमपि क्वचित्"। शङ्कावादी का कहना यह है कि पृथिव्यादि में चेतनत्व केवल अर्थापत्ति-गम्य नहीं, अपितु बहुत-सी श्रुतियों के द्वारा साक्षात् प्रतिपादित है—"मृदब्रवीत्, आपोऽब्रुवन्" ( शत. ब्रा. ६।१।३।२।४)। "तत्तेज ऐक्षत" (छां. ६।२।३, ४) इत्यादि। उक्त शङ्का का अपनোদন-सूत्र है—"अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्"। इस सूत्र की व्याख्या की जाती है—"तुशब्द आशङ्कामपनुदति"। आशय यह है कि कथित श्रुतियाँ मृदादि और वागादि इन्द्रियों में साक्षात् चेतनत्व का अभिधान नहीं करतीं, अपि तु उनके अधिष्ठाता देवगणों में चैतन्य ध्वनित करती हैं, जो कि चेतन ही हैं, अतः इन श्रुतियों के बल पर मृदादि और वागादि इन्द्रियों में
५५० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ५
वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, न भूतेन्द्रियमात्रम् । कस्मात् ? विशेषानुगतिभ्याम् । विशेषो हि भोक्तॄणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः । सर्वचेतनतायां चासौ नोपपद्येत । अपि च कौषीतकिनः प्राणसंवादे करणमा- त्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति - 'एता ह वै देवता अहंश्रेयसे विवदमानाः' इति 'ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा' (कौषी० उ० २।१४) इति च । अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते । 'अग्निर्वाग्भूत्वा मुखं प्राविशत्' (ऐ० आ० २।४।२।४) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति । प्राणसंवादवाक्यशेषे च 'ते ह प्राणाः प्रजापतिं पितरमेत्योचुः' (छा० ५।१।७)
भामती
कस्मात् पुनरेतदेवमित्यत आह ॐ विशेषानुगतिभ्याम् ॐ । तत्र विशेषं व्याचष्टे ॐ विशेषो हि इति ॐ । भोक्तृणामुपकार्यत्वाद् भूतेन्द्रियाणां चोपकारकत्वात् साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्च "विज्ञानं चाभवत्" इति श्रुतेश्च विशेषश्चेतनाचेतनलक्षणः प्रागुक्तः स नोपपद्यते । देवताशब्दकृतो वात्र विशेषो विशेषशब्देनोच्यत इत्याह ॐ अपि च कौषीतकिनः प्राणसंवाद इति ॐ । अनुगतिं व्याचष्टे ॐ अनुगताश्च इतिॐ । सर्वत्र भूतेन्द्रियादिष्वनुगता देवता अभिमानिनीरुपदिशन्ति मन्त्रादयः । अपि च 'भूयस्यः श्रुतयोऽ- ग्निर्वाग् भूत्वा मुखं प्राविशद्वायुः प्राणोभूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्' इत्यादय इन्द्रियविशेषगता देवता दर्शयन्ति । देवताश्च क्षेत्रज्ञभेदाश्चेतनाः । तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति । अपि च प्राणसंवादवाक्यशेषे प्राणानामसमन्वाविशच्छरीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवहारं दर्शयन् प्राणानां
भामती-व्याख्या
चेतनत्व की शङ्का नहीं करनी चाहिए। क्यों नहीं करनी चाहिए ? इस प्रश्न का उत्तर है— "विशेषानुगतिभ्याम्" । इन हेतुओं में 'विशेष' की व्याख्या की जाती है— "विशेषो हि भोक्तॄणाम्" । भोक्ता पुरुष उपकार्य और पृथिव्यादि उपकारक हैं—इस प्रकार की विशेषता की उपपत्ति के लिए "विज्ञानं चाविज्ञानं च" (तै० उ० २।६) इस प्रकार जो चेतनाचेतनरूप विशेषभाव प्रतिपादित है, वह दोनों (पुरुष और पृथिव्यादि) के समानरूप से चेतन होने पर उपपन्न नहीं हो सकता । अथवा श्रुति में प्रयुक्त 'देवता' शब्द के द्वारा ध्वनित विशेषता विशेष शब्द का अर्थ है— "अपि च कौषीतकिनः प्राणसंवादे कारणमात्राशङ्का विनिवृत्तयेऽधिष्ठातृ- चेतनपरिग्रहाय देवताशब्देन विशिषन्ति—'एता वै देवता' (कौ० ब्रा० २।१४) ।" अर्थात् कौषीतकिब्राह्मणोपनिषत् में प्राण के साथ इन्द्रिय-संवाद के अवसर पर केवल इन्द्रियों की आशङ्का निवृत्त करने और उनके अधिष्ठातृदेवताओं का ग्रहण करने के लिए 'देवता' शब्द का प्रयोग किया गया कि "एता वै देवता"—इन देवताओं ने विवाद किया, केवल जड़ इन्द्रियों ने नहीं।
'अनुगति' शब्द की व्याख्या है— "अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता" । मन्त्र, अर्थवाद, इतिहास और पुराणादि शास्त्र पृथिव्यादि में अनुगत अभिमानी चेतन देवताओं का प्रतिपादन करते हैं, जिसकी चर्चा विगत देवताधिकरण में आ चुकी है। "अग्निर्वाग् भूत्वा मुखं प्राविशद्, वायुः प्राणो भूत्वा नासिके प्राविशद्, आदित्यः चक्षुर्भूत्वाऽक्षिणी प्राविशत्" (ऐत. आ. २।४।२।४) इत्यादि बहुत-सी श्रुतियाँ तत्तदिन्द्रिय में अनुगत देवताओं का प्रदर्शन करती हैं। फलतः ईन्द्रियों में स्वरूपतः चैतन्य नहीं, अपि तु इन्द्रियानुगत देवताओं में चैतन्य विवक्षित है। दूसरी बात यह भी है कि प्राण-संवाद के वाक्य-शेष में प्राणों को वैसे ही जीव
सांख्यतर्कनिरासः ] हिन्दीसहितभामतीसंवलितम् ५५१
इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं, तद्वचनाच्चैकैकक्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रेष्ठत्वप्रतिपत्तिः । 'तस्मै बलिहरणम्' (बृ० ६।१।१३) इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति । 'तत्तेज ऐक्षत' इत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् । तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् ॥ ५ ॥
विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविद्धत्ते—
दृश्यते तु ॥ ६ ॥
तुशब्दः पक्षं व्यावर्तयति । यदुक्तं विलक्षणत्वान्नेदं जगद् ब्रह्मप्रकृतिकमिति । नायमेकान्तः । दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरुषादिशरीराण्येचेतनानां केशनखादीनां कारणानि अचेतनान्येव च वृश्चिकादिशरीराण्येचेतनानां गोमयादीनां कार्याणीति, उच्यते, —एवमपि किंचिदचेतनं चेतनस्यायतनभावमुपगच्छति, किंचिन्नेत्यस्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिकः स्वभावविप्रकर्षः, पुरुषादीनां केशनखानां च स्वरूपादिभेदात् । यथा गोमयादीना वृश्चिकादीनां च अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत । अथोच्येत—अस्ति कश्चित्पार्थिवत्वादित्वस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्विति । ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते । विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य
भामती
क्षेत्रज्ञाधिष्ठानेन चैतन्यं द्रढयतीत्याह ॐ प्राणसंवादवाक्यशेषे च इति ॐ । ॐ तत्तेज ऐक्षतेत्यपि इति ॐ । यद्यपि प्रथमेऽध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथञ्चिन्नेतुं शक्यमिति द्रष्टव्यम् । पूर्वपक्षमुपसंहरति ॐ तस्माद् इति ॐ ॥ ५ ॥
सिद्धान्तसूत्रम् — दृश्यते तु ॥
प्रकृतिविकारभावे हेतुं सारूप्यं विकल्प्य दूषयति ॐ अत्यन्तसारूप्ये च इति ॐ । प्रकृतिविकारभावाभावहेतुं वैलक्षण्यं विकल्प्य दूषयति ॐ विलक्षणत्वेन कारणेन इति ॐ । सर्वस्वभावाननुवर्तनं
भामती-व्याख्या
से अधिष्ठित बताया है, जैसे हम लोगों के शरीर क्षेत्रज्ञाधिष्ठित हैं—'प्राणसंवादवाक्यशेषे च'। "तत् तेज ऐक्षत" इत्यपि परस्या एव देवताया अधिष्ठात्र्याः" । यद्यपि प्रथमाध्यायगत ईक्षत्यधिकरण में तेज आदि के ईक्षण को गौण ईक्षण ही कहा है, तथापि मुख्य ईक्षण का भी समन्वय किया जा सकता है। पूर्व पक्ष का उपसंहार किया जाता है—"तस्माद् विलक्षणमेवेदं ब्रह्मणो जगत्" । 'विलक्षणत्व' हेतु सिद्ध होकर अपने साध्य-साधन में सक्षम है—जगत् न ब्रह्मप्रकृतिकम्, ब्रह्मविलक्षणत्वात् ॥ ५ ॥
सिद्धान्त—"दृश्यते तु"। पूर्वपक्षी ने कहा था कि ब्रह्म और जगत् का प्रकृति-विकारभाव तभी हो सकता है, जब कि दोनों में सारूप्य (सादृश्य) हो । प्रकृति-विकारभाव के लिए सारूप्य अपेक्षित नहीं—यह दिखाने के लिए सारूप्य का विकल्पपूर्वक खण्डन किया जाता है—"अत्यन्तसारूप्ये च" । अर्थात् प्रकृति-विकारभाव के लिए अत्यन्त सारूप्य अपेक्षित है ? अथवा यत्किञ्चित् ? तन्तुओं का अत्यन्त सारूप्य पट में नहीं, किन्तु तन्तुओं में ही है, वहाँ प्रकृति-विकारभाव नहीं और यत्किञ्चित् सारूप्य तो ब्रह्म और जगत् का भी है, क्योंकि ब्रह्म भी सत् है और जगत् भी सत् । प्रकृति-विकारभाव के दूषक (निषेधक)