गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
३४ | गौतमधर्मसूत्राणि
कुछ आचार्यों का मत है कि वह कौपीन वस्त्र (लंगोटी) भी पुराना हो और (दूसरे द्वारा त्यक्त हो तो) उसे धोकर पहने ॥ १८ ॥
नाविप्रयुक्तमोषधिवनस्पतीनामङ्गमुपाददीत ॥ १६ ॥
वृक्षलतादीनामङ्गं फलपत्राद्यविप्रयुक्तं ततोऽप्रच्युतं नोपाददीत न गृह्णीयात् । स्वयं पतितं तु गृह्णीयात् ॥ १९ ॥
अपने आप न गिरे हुए (अर्थात् गिराये गये) ओषधियों और वृक्ष एवं लताओं के पत्ते, फूल, फल, मूल या शाखा आदि को ग्रहण न करे ॥ १९ ॥
न द्वितीयामपर्तु रात्रिं ग्रामे वसेत् ॥ २० ॥
यत्र वर्षर्तौ ध्रुवशीलतोक्ता तमृतुं वर्जयित्वा, ऋत्वन्तरेषु यत्रैकां रात्रिमुषितस्तत्र ग्रामे न द्वितीयां वसेत् । ग्रामैकरात्रः स्यादिति ॥ २० ॥
(वर्षाऋतु के अतिरिक्त अन्य ऋतु में) जिस गाँव में एक रात्रि निवास करे उसमें दूसरी रात्रि न रहे ॥ २० ॥
मुण्डः शिखी वा ॥ २१ ॥
सर्वानैव केशान्सह शिखया वापयेत् । शिखावर्जं वापयेद्वा । मुण्डः शिखी वेति विकल्पेनैकदण्डत्रिदण्डग्रहणविकल्पोऽप्युक्तः । अत्र श्रुतिस्मृती—
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ इति ।
सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद् बुधः ।
एकदण्डं गृहीत्वा च भिक्षुधर्मं समाचरेत् ॥
शिखी यज्ञोपवीती च यद्वा सम्यक्प्रबोधितः ।
त्रिदण्डग्रहणं कृत्वा भिक्षुधर्मं समाचरेत् ॥ २१ ॥
संन्यासी (शिखा सहित) सभी केशों को मुँड़ाकर रखे अथवा शिखा छोड़कर सिर मुड़ाये ॥ २१ ॥
वर्जयेद् बीजवधम् ॥ २२ ॥
बीजानि व्रीह्यादीनि तेषां वधो मुसलादिनाऽवघातस्तं न कुर्यात् । तेन तण्डुलस्यौदनोकरणमप्युपलक्षितम् । पक्वान्नस्यैव स्वामित्वादस्य॥२२॥
(व्रीहि आदि) बीजों को न कूटे । (केवल पकाये हुए अन्न की भिक्षा ग्रहण करे ।) ॥ २२ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ३५
समो भूतेषु हिंसानुग्रहयोः ॥ २३ ॥
हिंसायामनुग्रहे च भूतेषु समो यो हिनस्ति यो वाऽनुगृह्णाति तत्र तत्र निर्विकार इति ॥ २३ ॥
पीड़ा पहुँचा पर या अनुग्रह करने पर ( पीड़ा पहुँचानेवाले और अनुग्रह करनेवाले ) प्राणियों के प्रति एक समान व्यवहार रखे ॥ २३ ॥
अनारम्भी ॥ २४ ॥
ऐहिकं पारत्रिकं च न कंचिदारम्भं कुर्यात् । यथाऽऽहाऽऽपस्तम्बः—
अनिहोऽनमुत्रञ्चरेदिति ॥ २४ ॥
ऐहिक और पारत्रिक किसी कर्म को आरम्भ न करे ॥ २४ ॥
अथ वैखानसस्याऽऽह—
वैखानसो वने मूलफलाशी तपःशीलः ॥ २५ ॥
वैखानसो वानप्रस्थो वने वसन्मूलानि फलानि च पक्वानि वाऽश्नीयान्न पुनरोदनम् । तपः कायपरिशोषणम् । ततश्च मूलफलान्यपि स्वल्पान्येवाश्नीयादिति ॥ २५ ॥
वानप्रस्थ वन में निवास करे, मूल और फल खाये और तपस्या करता रहे ॥ २५ ॥
श्रावणेकेनाग्निमाधाय ॥ २६ ॥
श्रावणकं नाम वैखानसं शास्त्रम् । तदुक्तेन प्रकारेणाग्निमाधाय सायं प्रातर्जुहुयादिति शेषः ॥ २६ ॥
श्रावणकशास्त्र के अनुसार अग्नि का आधान करके सायं एवं प्रातःकाल हवन करे ॥ २६ ॥
अग्राम्यभोजी ॥ २७ ॥
फलमूलान्यपि ग्राम्याणि न भुञ्जीत ॥ २७ ॥
ग्राम की कोई वस्तु ( फल-मूल भी ) न खाये । २७ ॥
देवपितृमनुष्यभूतर्षिपूजकः ॥ २८ ॥
वन्यैरेव फलमूलैरहरहः पञ्च महायज्ञान्कुर्यात् । अत्र मनुः—
आरण्यैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ इति ॥ २८ ॥
| ३६ | गौतमधर्मसूत्राणि |
|---|
देव, पितर, अतिथि, भूत और ऋषि की ( प्रतिदिन ) पूजा करे ( अर्थात् पञ्चमहायज्ञ करे ) ॥ २८ ॥
सर्वातिथिः प्रतिषिद्धवर्जम् ॥ २९ ॥
य एनमुपागच्छन्ति ते सर्व(र्वेऽ)स्यातिथयः। न पुनर्ब्राह्मणस्यानतिथिरब्राह्मण इत्ययं नियमोऽस्ति। तत्रापि स्तेनपतितादीन्वर्जयेत्प्रतिषिद्धवर्जम् ॥ २९ ॥
निषिद्ध (चोर, पतित आदि) को छोड़कर सभी व्यक्ति वानप्रस्थ के अतिथि होते हैं ॥ २९ ॥
वैष्कम्प्युपयुञ्जीत ॥ ३० ॥
विष्का दुष्टमृगा व्याघ्रादयस्तैर्हतं मांसं वैष्कं तदप्युपयुञ्जीत। अपि शब्दो गौणार्थः। फलमूलाद्यभावे तदपि भक्ष्यमिति। तत्रापि पञ्च पञ्चनखा भक्ष्या इत्येतद्व्यतिरिक्तं वर्जयित्वा। प्रतिषिद्धवर्जमिति पदं काकाक्षिन्यायेनोभयत्र संबध्यते ॥ ३० ॥
( फल-मूल के अभाव में ) व्याघ्र आदि हिंस्र पशुओं द्वारा मारे गये जीवों का मांस खा सकता है ( किन्तु जिन पशुओं के मांस का निषेध किया गया है उनके मांस का भक्षण न करे ) ॥ ३० ॥
न फालकृष्टमधितिष्ठेत् ॥ ३१ ॥
अरण्ये वसन्हलेन कृष्टं प्रदेशं नाधिवसेत् ॥ ३१ ॥
( वन में रहते हुए ) हल से जोते गये खेत में न जाये ॥ ३१ ॥
ग्रामं च न प्रविशेत् ॥ ३२ ॥
वने वसतोऽपि यादृच्छिकोपग्रामप्रवेशो निषिद्धः ॥ ३२ ॥
ग्राम में भी प्रवेश न करे ॥ ३२ ॥
जटिलश्चीराजिनवासाः ॥ ३३ ॥
जटिलः केशश्मश्रुलोमनखधारो। चीरं दर्भादिनिर्मितं वासः। अजिनमुत्तरीयम्। तथा च स्मृत्यन्तरे व्यवस्थादर्शनात् ॥ ३३ ॥
जटा ( केश, दाढी-मूँछ, नख ) बढ़ाये रखे, ( दर्भ आदि से निर्मित ) वस्त्र पहने और मृगचर्म ( का उत्तरीय ) धारण करे ॥ ३३ ॥
नातिसंवत्सरं भुञ्जीत ॥ ३४ ॥
संवत्सरमतिक्रान्तमतिसंवत्सरं तदारण्यमपि नाश्नीयात्। अत्र मनुः—
सानुवाद-मिताक्षरावृत्तिसहितानि ३७
त्यजेदाश्वयुजे मासि व्युत्पन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥ इति ॥ ३४ ॥
एक वर्ष से अधिक समय तक कोई रखी हुई वस्तु भी न खाये ॥३४॥
उक्ता आश्रमास्तेषां विकल्पसमुच्चयावपि दर्शितौ । तेषां प्राधान्यं दर्शयति—
ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य गार्हस्थ्यस्य ॥ ३५ ॥
तुशब्दो विशेषवाची। सर्वेषु वेदशास्त्रेतिहासपुराणेषु गृहस्थधर्मा एवाग्निहोत्रादयः प्राचुर्येण विधीयन्ते । ततः सर्व एवाऽऽचार्या गार्हस्थ्यस्यै- काश्रम्यं प्राधान्यं मन्यन्ते । तत्राशक्तानामितराश्रमधर्मा विधीयन्ते । प्रत्यक्षविधानादितराश्रमाणां प्रत्यक्षेणोपजीव्यत्वात् । द्विरुक्तिर्व्या- ख्याता ॥ ३५ ॥
इति श्रीगौतमयीवृत्तौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने तृतीयोऽध्यायः ॥ ३ ॥
सभी आचार्य एक ही आश्रम (गृहस्थाश्रम को प्रधान रूप से) मानते हैं, क्योंकि वही अन्य सभी आश्रमों का उपजीव्य है। (अर्थात् उसी पर सभी आश्रम आधृत हैं)। अथवा-इस गृहस्थाश्रम में अशक्त व्यक्तियों के लिए ही दूसरे आश्रमों का विधान है ॥ ३५ ॥
अथ चतुर्थोऽध्यायः ।
गृहस्थधर्मा उच्यन्ते—
गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वां यवीयसीम् ॥ १ ॥
गृहस्थ इति भाविसंज्ञाव्यपदेशः । अथवा गृहस्थस्य ये धर्मास्ते विवाहात्प्रागपि स्नातकस्यापि समा इति दर्शनार्थं च । जात्या कुलेन च सदृशीम् । अन्यस्मै वाचाऽप्यदत्ताम् । अवरवयसोमेवंभूतां भार्यां विन्देतोद्वहेत् ॥ १ ॥
गृहस्थ ( जाति और कुल में ) अपने समान, पहले वाग्दान द्वारा भी किसी को न दी गई तथा अपने से कम आयु की पत्नी से विवाह करे ॥ १ ॥
असमानप्रवरैर्विवाहः ॥ २ ॥
समान एकः प्रवरो येषां तैः सह न विवाहः । तद्यथा हरितकुत्सपिङ्गलशङ्खदर्भहैमकभवानामाङ्गिरसाम्बरोपयौवनाश्वेति । हारीतः कौत्सीं नोद्वहेदित्यादिप्रवरप्रपञ्च आपस्तम्बीये द्रष्टव्यः ॥ २ ॥
भिन्न प्रवर वालों में ही विवाह होना चाहिए ॥ २ ॥
ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च मातृबन्धुभ्यः पञ्चमात् ॥ ३ ॥
पितरमारभ्य तद्बन्धुवर्गे गण्यमाने सप्तमाच्छिरस ऊर्ध्वं जातां कन्यकामुद्वहेत् । मातरमारभ्य तद्बन्धुवर्गे गण्यमाने पञ्चमाच्छिरस ऊर्ध्वं जातामुद्वहेत् । बीजिनश्च सप्तमादूर्ध्वमिति चकारात्सिध्यति । यथा क्षेत्री वन्ध्यो रुग्णो वा देवरं प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति । यद्वा संतानक्षये विधवा गुखो नियुञ्जते, दृष्टं विचित्रवीर्यक्षेत्रे सत्यवतीवाक्याद्व्यासो धृतराष्ट्रादीनुत्पादितवानिति । यथाऽऽह याज्ञवल्क्यः—
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।
तद्विषयमेतद् बीजिनश्चेति ॥ ३ ॥
पिता से लेकर उनके बन्धुवर्ग में सात पीढ़ी से ऊपर की, बीजी ( = नियोग विधि से उत्पन्न करने वाला पिता से भिन्न पुरुष ) के वंश में भी सात पीढ़ी से
सानुवाद-मिताक्षरावृत्तिसहितानि ३९
ऊपर की तथा माता से आरम्भ कर उसके बन्धुवर्ग में पांच पीढ़ी से उपर की कन्या से विवाह कर सकता है ॥ ३ ॥
अथ विवाहभेदाः—
ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्यालं-
कृताम् ॥ ४ ॥
विद्या वेदविद्या। चारित्रं चोदितकर्मानुष्ठानम् बन्धवो ज्ञातयो मातुलादयश्च। शीलं विहितेषु श्रद्धा। एतैर्गुणैः संपन्नाय वस्त्रयुगलेनाऽच्छाद्य यथाविभवमलंकृतां कन्यां दद्यात्। एवंविधस्य विवाहस्य ब्राह्मसंज्ञा ॥४॥
वेद के विद्वान्, उत्तम आचरण वाले, अपने तथा मातृपक्ष के बान्धवों से सम्पन्न एवं शीलवान् वर को दो वस्त्रों से सजाई गयी तथा आभूषण से अलंकृत कन्या प्रदान करने पर ब्राह्म विवाह कहलाता है ॥ ४ ॥
संयोगमन्त्रः प्राजापत्ये सह धर्मश्चर्यतामिति ॥ ५ ॥
प्राजापत्यसंज्ञके विवाहे सह धर्मश्चर्यतामिति प्रदानमन्त्रः यद्यपि ब्राह्मादिष्वपि सह धर्मचर्या भवति तथाऽप्याऽन्तादनया सह धर्मश्चरितव्यः नाऽऽश्रमान्तरं प्रवेष्टव्यं नापि स्त्र्यन्तरमुपयन्तव्यमिति मन्त्रेण समयः क्रियते। एष ब्राह्मादेः प्राजापत्यस्य विशेषः। आच्छाद्यालंकृतामिति समानम् ॥ ५ ॥
प्राजापत्य विवाह में 'सहधर्मश्चर्यताम्' (तुम दोनों एक साथ रहकर गृहस्थाश्रम के धर्म का पालन करो) मन्त्र के साथ कन्या प्रदान की जाती है। (ब्राह्मविवाह से प्राजापत्य में यह विशेषता है कि उपर्युक्त मन्त्र वर और कन्या को केवल गृहस्थाश्रम धर्म का पालन करने एवं वर को दूसरा विवाह न करने का आदेश देता है) ॥ ५ ॥
आर्षे गोमिथुनं कन्यावते दद्यात् ॥ ६ ॥
आर्षसंज्ञके विवाहे गोमिथुनं स्त्रीपुंरूपं कन्यावते दद्याद्वरस्तद्वन्धुर्वा कश्चित्। आच्छाद्यालंकृतामिति समानम् ॥ ६ ॥
आर्ष विवाह में (वर अथवा वर के बन्धुजन) कन्या के अभिभावक को दो गायें देते हैं ॥ ६ ॥
अन्तर्वेद्यृत्विजे दानं दैवोऽलंकृत्य ॥ ७ ॥
अन्तर्वेदि, वेद्यां दक्षिणाकाल ऋत्विजे कर्म कुर्वते यद्लंकृत्य कन्याया
४० गौतमधर्मसूत्राणि
दानं स दैवो विवाहः । आच्छाद्यालंकृतामिति । प्रकृते पुनरलं कृत्यैति वचनं वरस्याप्यङ्गुलीयकादिभिरलंकारार्थम् ॥ ७ ॥
( यज्ञ के समय ) वेदी पर ( दक्षिणा के अवसर पर ) यज्ञकर्म कराने वाले ऋत्विज को आभूषण से अलंकृत करके कन्या प्रदान करने पर दैव विवाह कहलाता है ॥ ७ ॥
इच्छन्त्याः स्वयं संयोगो गान्धर्वः ॥ ८ ॥
इच्छन्त्या वध्वा इच्छतो वरस्य संयोगो, गान्धर्वो विवाहः । स्वयमिति वचनाद्वरेच्छा गम्यते ॥ ८ ॥
चाहने वाली कन्या के साथ ( वर का ) स्वयं अपनी इच्छा से सम्बन्ध कर लेना गान्धर्व विवाह कहलाता है ॥ ८ ॥
वित्तेनाऽऽनतिः स्त्रीमतामासुरः ॥ ९ ॥
यत्र स्त्रीमतां कन्यावतां पित्रादीनां वित्तेन धनप्रदानेनाऽऽनतिरार्जवं क्रियते स आसुरो विवाहः । अत्र याज्ञवल्क्यः— आसुरो द्रविणादानादिति । मनुश्च— ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै च स्वशक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ स्त्रीमतामिति वचनान्न केवलं कन्यायै धनप्रदानमासुरत्वनिबन्धनम् तथा च स्मृत्यन्तरम्— यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणामानृशंस्यान्न केवलम् ॥ इति ॥ ९ ॥
( कन्या के अभिभावकों को ) धन देकर अपने वश में करके कन्या का ग्रहण करने पर आसुर विवाह होता है ॥ ९ ॥
प्रसह्याऽऽदानाद्राक्षसः ॥ १० ॥
बलात्कारेण कन्यावतो निर्जित्य यदादानं स राक्षसो विवाहः ॥ १० ॥
बलपूर्वक ( कन्या के अभिभावकों को परास्त करके ) कन्या का अपहरण कर लेने पर राक्षस विवाह होता है ॥ १० ॥
असंविज्ञातोपसंगमात्पैशाचः ॥ ११ ॥
सुप्ता मत्ता प्रमत्ता वा यत्रासंविज्ञातमुपगम्यते स पैशाचो विवाहः ॥ ११ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४१
सोई हुई, मूर्च्छित या प्रमत्त कन्या के साथ संगम पैशाच विवाह होता है ॥ ११ ॥
एवमष्टौ विवाहा उक्तास्तेषु—
चत्वारो धर्म्याः प्रथमाः ॥ १२ ॥
आदितश्चत्वारो विवाहाः सर्ववर्णानां धर्म्या धर्मादनपेताः प्रशस्ता भवन्ति ॥ १२ ॥
( इनमें ) प्रथम चार प्रकार के विवाह सभी वर्णों के लिए धर्मविहित हैं ॥ १२ ॥
षडित्येके ॥ १३ ॥
एके स्मर्तारः षड्धर्म्या इत्याहुः । गान्धर्वासुरयोरपि धर्मादनपेतत्वमिच्छन्ति ॥ १३ ॥
कुछ स्मृतिकार प्रथम छः प्रकार के विवाहों को धर्मसंगत मानते हैं । ( अर्थात् गान्धर्व और आसुर विवाह को भी धर्मानुकूल मानते हैं । ) ॥ १३ ॥
अथ विवाहे क्षत्रियादिषु स्त्रीषु ब्राह्मणादिभ्यो जातानां पुत्राणां शास्त्रेषु संकेतितं संज्ञाभेदमाह—
अनुलोमा अनन्तरैकान्तरद्वयन्तरासु जाताः सवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ॥ १४ ॥
ब्राह्मणस्यानन्तरा क्षत्रिया तस्यां जातः सवर्णः । क्षत्रियस्य वैश्या तस्यां तस्मादम्बष्ठः । वैश्यस्यानन्तरा शूद्रा तस्यां तस्मादुग्रः । ब्राह्मणस्यैकान्तरा वैश्या तस्यां तस्मान्निषादः । क्षत्रियस्यैकान्तरा शूद्रा तस्यां तस्माद्दौष्मन्तः ब्राह्मणस्य द्वयन्तरा शूद्रा तस्यां तस्मात्पारशवः । प्रपञ्चो जातिनिर्णयस्य स्मृत्यन्तरे द्रष्टव्यः ॥ १४ ॥
अनुलोम विवाहों ( उच्चवर्ण के पुरुष का अपने से निम्नवर्ण की स्त्री से विवाह ) में अनन्तर ( अर्थात् अपने वर्ण से ठीक दूसरे निम्न वर्ण की स्त्री से विवाह द्वारा जैसे ब्राह्मण और क्षत्रिया, क्षत्रिय और वैश्या, वैश्य और शूद्रा के विवाह द्वारा ), एकान्तर ( पुरुष और उससे निम्नवर्ण की स्त्री के वर्णों में वर्णक्रम से एक वर्ण का अन्तर हो, जैसे ब्राह्मण और वैश्या क्षत्रिय और शूद्रा के विवाह द्वारा ) तथा द्वयन्तर ( ब्राह्मण और शूद्रा के ) विवाहों द्वारा क्रमशः सवर्ण, अम्बष्ठ, उग्र, निषाद, दौष्मन्त और पारशव नाम के पुत्र उत्पन्न होते हैं ॥ १४ ॥
४२ | गौतमधर्मसूत्राणि
प्रातिलोम्येन जातानाह—
प्रतिलोमास्तु सूतमागधायोगवकृतवैदेहकचण्डालाः ॥ १५ ॥
अनन्तरैकान्तरद्वयन्तरासु जाता इत्यनुवर्तते । क्षत्रियस्यारनन्तरा ब्राह्मणी तस्यां तस्मात्सूतः । वैश्यस्यानन्तरा क्षत्रिया तस्यां तस्मान्मागधः । शूद्रस्यानन्तरा वैश्या तस्यां तस्मादायोगवः । वैश्यस्यैकान्तरा ब्राह्मणी तस्यां तस्मात्कृतः । शूद्रस्यैकान्तरा क्षत्रिया तस्यां तस्माद्वैदेहकः । शूद्रस्य द्वयन्तरा ब्राह्मणी तस्यां तस्माच्चण्डाल इति ॥ १५ ॥
इसी प्रकार प्रतिलोम (पुरुष का अपने से उच्चवर्ण की स्त्री से) विवाह में अनन्तर (क्षत्रिय और ब्राह्मणी, वैश्य और क्षत्रिया, शूद्र और वैश्या के विवाहों द्वारा), एकान्तर (वैश्य और ब्राह्मणी, शूद्र और क्षत्रिया के विवाहों द्वारा) तथा द्वयन्तर (शूद्र और ब्राह्मणी के) विवाहों द्वारा उत्पन्न पुत्र क्रमशः सूत, मागध, आयोगव, कृत, वैदेहक और चण्डाल कहलाते हैं ॥ १५ ॥
अन्येषां मतेन तेषामेव प्रतिवर्णं संगृह्य संज्ञाभेदानाह—
ब्राह्मण्यजीजनत्पुत्रान्वर्णेभ्य आनुपूर्व्याद् ब्राह्मणसूतमागधचण्डालान् ॥ १६ ॥
स्पष्टोऽर्थः । अत्राऽऽनुपूर्व्यग्रहणं वर्णक्रमविवक्षापरम् । नत्वनुलोमपरम् ॥ १६ ॥
ब्राह्मणी ने वर्णक्रमानुसार पुरुषों द्वारा (अर्थात् क्रमशः ब्राह्मण, क्षत्रिय, वैश्य और शूद्रवर्ण के पुरुष से) क्रमशः ब्राह्मण, सूत, मागध और चण्डाल पुत्र उत्पन्न किये ॥ १६ ॥
तेभ्य एव क्षत्रिया मूर्धावसिक्तक्षत्रियधीवरपुल्कसांस्तेभ्य एव वैश्या भूर्जकण्ठमाहिष्यवैश्यवैदेहान्पारशवयवनकरणशूद्रान्छूद्रेत्येके ॥ १७ ॥
एके स्मर्तार इत्युक्तक्रमेण ब्राह्मण्यजीजनदित्यारभ्य ब्राह्मणीक्षत्रियावैश्याशूद्रासु ब्राह्मणादिवर्णेभ्यः क्रमेण जातानां संज्ञाभेदान्मन्यन्ते ॥ १७ ॥
कुछ स्मृतिकारों के मतानुसार उन्हीं (ब्राह्मण, क्षत्रिय, वैश्य और शूद्र पुरुषों) द्वारा क्षत्रिय वर्ण की स्त्री क्रमशः मूर्धावसिक्त, क्षत्रिय, धीवर, पुल्कस कहे जाने वाले पुत्रों को और उन्हीं (ब्राह्मण, क्षत्रिय, वैश्य और शूद्र पुरुषों) से वैश्य वर्ण की स्त्री क्रमशः भूर्जकण्ठ, माहिष्य, वैश्य और वैदेहक कहलानेवाले पुत्रों को तथा शूद्र वर्ण की स्त्री क्रमशः पारशव, यवन, करण और शूद्र पुत्रों को उत्पन्न करती है ॥ १७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४३
वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽऽचार्याः ॥ १८ ॥
मन्यन्त इति वाक्यशेषः । तेषामेव सवर्णादीनामनुलोमजातानामुत्कर्षेण पितृद्वारा सप्तमपुरुषादुत्कृष्टवर्णान्तरप्राप्तिर्भवति । अपकर्षेण मातृद्वारा पञ्चमपुरुषादपकृष्टवर्णान्तरप्राप्तिर्भवति । तद्यथा—ब्राह्मणेनोढायां क्षत्रियायामुत्पादिता सवर्णा साऽपि ब्राह्मणेनोढा तस्यामुत्पादिता चेत्येवमा सप्तम्याः सप्तमी तु ब्राह्मणेनोढा यदपत्यं सूते तद्ब्राह्मणजातीयमेव भवति । एवं ब्राह्मणेन क्षत्रियायामुत्पादितः पुत्रः सवर्णः सोऽपि क्षत्रियामुद्वाह्य पुत्रमुत्पादयति सोऽपि क्षत्रियामित्येवमापञ्चमात्पञ्चमस्तु क्षत्रियायां यदपत्यमुत्पादयति तत्क्षत्रियजातीयमेव भवति । विकल्पस्यैवं चार्थः । तत्रापि वर्णान्तरगमने वृत्तस्वाध्यायबाहुल्ये सति पञ्चमेनोत्कृष्टं भवति । हीनवृत्त्या पञ्चमेनापकृष्टं च भवतीति । एवं क्षत्रियस्य वैश्यायां वैश्यस्य शूद्रायामपि द्रष्टव्यम् ॥ १८ ॥
आचार्यों का मत है कि सवर्ण आदि अनुलोम विवाह (उच्चवर्ण के पुरुष एवं निम्न वर्ण की स्त्री के विवाह) से उत्पन्न वर्णसंकरों का पिता की सातवीं पीढ़ी में वर्ण का उत्कर्ष और (हीन वर्ण की) माता की पाँचवी पीढ़ी में वर्ण का अपकर्ष हो जाता है ।
(अर्थात् ब्राह्मण और क्षत्रिया के विवाह से उत्पन्न कन्या सवर्णा कहलाती है; उस सवर्णा कन्या का विवाह ब्राह्मण से हो, उनसे भी उत्पन्न कन्या का विवाह ब्राह्मण से हो; इसी प्रकार सातवीं पीढ़ी में जो सन्तान उत्पन्न होगी वह ब्राह्मण वर्ण की होगी; इस प्रकार वर्ण का उत्कर्ष होता है । इसके विपरीत ब्राह्मण और क्षत्रिया के विवाह से उत्पन्न पुत्र सवर्ण होता है; वह यदि क्षत्रिया से विवाह करके पुत्र उत्पन्न करे और वह पुत्र भी क्षत्रिया से विवाह करे, इस प्रकार पाँचवीं पीढ़ी में जो सन्तान उत्पन्न होगी वह क्षत्रिय वर्ण की होगी और इस प्रकार वर्ण का अपकर्ष हो जायगा । इसी प्रकार क्षत्रिय और वैश्या आदि के विवाहों से उत्पन्न सन्तान के विषय में भी समझना चाहिए ॥ १८ ॥
सृष्ट्यन्तरजातानां च ॥ १९ ॥
चातुर्वर्ण्यमनन्तरेण चानुलोमजातानां सवर्णाम्बष्ठादीनामप्युत्कर्षोपकर्षाभ्यामन्योन्यवर्णान्तरगमनं भवति । तद्यथा—सवर्णेनोढायामम्बष्ठायामुत्पादिता दुहिता पुनः सवर्णेनोह्यते । तस्यामप्युत्पादिता सवर्णेनेत्यासप्तमात्सप्तमी तु सवर्णेनोढा यदपत्यं स एव भवति । एवं सैवाम्बष्ठेनोढायां दुहितरं सूते साऽप्यम्बष्ठेनेति सप्तमी त्वम्बष्ठेनोढा यदपत्य-
४४ गौतमधर्मसूत्राणि
मुत्पादयति सोऽम्बष्ठ एव भवति । ( ? ) एवमम्बष्ठयोरपि द्रष्टव्यम् ॥१९॥
चारों वर्णों के अनन्तर क्रम से अनुलोम विवाहों द्वारा उत्पन्न सवर्ण, अम्बष्ठ, उग्र के वर्ण का भी उत्कर्ष और अपकर्ष उपर्युक्त विधि से क्रमशः सातवीं और पाँचवीं पीढ़ी में परस्पर विवाह द्वारा होता है । (उदाहरण—सवर्ण से अम्बष्ठ वर्ण की स्त्री का विवाह हो; उनसे उत्पन्न कन्या का सवर्ण से विवाह हो इसी प्रकार सातवीं पीढ़ी में जो सन्तान होगी वह सवर्ण होगी और उसके वर्ण का उत्कर्ष हो जायगा । इसके विपरीत यदि सवर्णा कन्या का अम्बष्ठ के साथ विवाह हो; उनसे उत्पन्न कन्या का भी अम्बष्ठ से विवाह हो तो इस प्रकार पाँचवीं पीढ़ी में उत्पन्न सन्तान अम्बष्ठ होगी ) ॥ १९ ॥
प्रतिलोमास्तु धर्महीनाः ॥ २० ॥
प्रतिलोमजाताः सूतादयो धर्महीना उपनयनादिधर्महीना । तत्र सूतस्यैकस्योपनयनमात्रं शाखान्तरेऽङ्गीकृतम् ॥ २० ॥
प्रतिलोम विवाहों से उत्पन्न सन्तानों ( सूत, मागध, आयोगव, क्षत, वैदेहक और चण्डाल ) के उपनयन आदि धर्म नहीं होते ॥ २० ॥
शूद्रायां च ॥ २१ ॥
आनुलोम्येनापि शूद्रायामुत्पन्नः पारशवादिर्धर्महीनः । एवं च सवर्णादीनामनुलोमानां सिद्धो धर्माङ्गीकारः । तथा च मनुः—
स्वजातिजात्यन्तरजाः षट् सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥ २१ ॥
अनुलोम विवाहों द्वारा शूद्रा स्त्री से उत्पन्न ( पारशव, यवन करण, शूद्र ) सन्तान भी धर्महीन होती है ॥ २१ ॥
असमानायां तु शूद्रात्पतितवृत्तिः ॥ २२ ॥
शूद्रादसमानायां वैश्यादिस्त्रियामुत्पादित आयोगवादिः पतितवृत्तिः पतितवद्दर्शनस्पर्शनप्रतिग्रहादौ वर्जनीयः । एवं च वैश्यात्क्षत्रियायां क्षत्रियाद् ब्राह्मण्यां जातो न पतितवृत्तिः ॥ २२ ॥
शूद्र पुरुष द्वारा वैश्य आदि असमान वर्ण की स्त्रियों से उत्पन्न आयोगव आदि पुत्र पतित होते हैं ( पतित के समान उनका दर्शन, स्पर्श और प्रतिग्रह वर्जित है ) ॥ २२ ॥
अन्त्यः पापिष्ठः ॥ २३ ॥
शूद्रादसमानाज्जनितेषु तेषु योऽन्त्यो ब्राह्मण्यां जातश्चण्डालः पापिष्ठोऽत्यन्तं वर्जनीयः । तथा च स्मृत्यन्तरम्—
सानुवाद-मिताक्षरावृत्तिसहितानि ४५
चण्डालमाजगोचालव्यजनान्परिहरेदिति ॥ २३ ॥
शूद्र पुरुष द्वारा असमान वर्ण की स्त्रियों से उत्पन्न पुत्रों में भी अन्तिम अर्थात् ब्राह्मणी से उत्पन्न पुत्र चण्डाल पापी होता है ( और उसका दर्शन, स्पर्श और प्रतिग्रह अत्यन्त वर्जित है ) ॥ २३ ॥
अथ प्रकृतान्विवाहान् स्तौति—
पुनन्ति साधवः पुत्राः ॥ २४ ॥
अच्छा ( अस्मा ) सु जाताः साधवः साधुवृत्तयः पुत्रा जनयितुः कुलं पुनन्ति ॥ २४ ॥
( उत्तम विवाह से उत्पन्न ) सदाचारी पुत्र पिता के कुल को पवित्र करते हैं ॥ २४ ॥
तत्र विशेषः—
त्रिपुरुषमार्षात् ॥ २५ ॥
आर्षविवाहोढायां जातः पुत्रस्त्रीन्पुरुषान्पुनाति नरकादुद्धरति ॥ २५ ॥
आर्ष विवाह की विधि से परिणीता स्त्री से उत्पन्न पुत्र तीन पीढ़ी के पुरुषों को पवित्र करते हैं ( अर्थात् उनका नरक से उद्धार करते हैं ॥ २५ ॥
दश दैवादशैव प्राजापत्यात् ॥ २६ ॥
उपसमस्तमपि पुरुषपदमत्र दशशब्देन संबध्यते । एवकारो निर्धार-णपरः ॥ २६ ॥
दैवविवाह से उत्पन्न पुत्र दस पीढ़ियों को और प्राजापत्य विवाह से उत्पन्न पुत्र भी दस पीढ़ियों को पवित्र करते हैं ॥ २६ ॥
दश पूर्वान्दश परानात्मानं च ब्राह्मीपुत्रो ब्राह्मीपुत्रः ॥ २७ ॥
ब्राह्मविवाहेनोढा ब्राह्मी तस्यां जातः पुत्रः पित्रादीन्दश पूर्वान्दश परान्भविष्यतः पुत्रादींश्च दशाऽऽत्मानं चैकविंशं पुनाति । तस्माद् ब्राह्मो विवाहः प्रशस्ततमः ॥ २७ ॥
इति श्रीगौतमयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्ने चतुर्थोऽध्यायः ॥ ४ ॥
ब्राह्मविवाह से उत्पन्न पुत्र अपने से पहले की दस पीढ़ियों, अपने आगे की दस पीढ़ियों के पुरुषों को तथा स्वयं अपने को ( इस प्रकार इक्कीस पीढ़ियों को ) पवित्र करता है । (इसलिए ब्राह्मविवाह सभी विवाहों में श्रेष्ठ है) ।
अथ प्रथमप्रश्ने पञ्चमोऽध्यायः
गर्भाधानकालं प्रस्तौति—
ऋतावुपेयात् ॥ १ ॥
रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः स्त्रीणां गर्भग्रहणकालस्तत्रोपगच्छेद्भार्याम् । तत्राऽऽपस्तम्बीये विशेषः—
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमनमित्युपदिशन्ति ।
मानवं तु—
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सद्भिर्गर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्द्या एकादशी तु या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ॥
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ इति ।
याज्ञवल्क्यस्तु —
एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥ इति च ।
तदिह षोडशसु रात्रिष्वादितस्तिस्रः सर्वथा वर्ज्याः । इतरासु गच्छेदिति सर्वस्मृतिचोदितनिषेधान्परित्यज्य गच्छन्नुत्कृष्टं पुत्रं जनयति । द्वेषादिना ऋतावनुपयन्प्रत्यवेयादिति । तथा च देवलः—
यः स्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति ।
भ्रूणहत्यामवाप्नोति गर्भं प्राप्तं विनाशय सः ॥ इति ।
स्मृत्यन्तरं च—
ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥ इति ।
अयं तु रागतः प्राप्तत्वे सत्यप्यकरणे प्रत्यवायश्रवणाद्विधिश्च भवति । ऋतावेवोपेयादेवेति कस्यचिन्मतेन नियमश्च भवति ॥ १ ॥
ऋतुकाल में पत्नी के समीप ( सम्भोग के लिए ) गमन करे ॥ १ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४७
आचार्यस्तु परिसंख्यानं च प्रतिपादयति-- सर्वत्र वा प्रतिषिद्धवर्जम् ॥ २ ॥
सर्वेषु वा कालेषूपेयादृतावृतौ च प्रतिषिद्धदिवसान्वर्जयित्वा। यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन्। इति॥ वरश्च-काममा विजनितोः संभवामेति। यद्यप्यात्मनो जितेन्द्रियत्वे सत्यपि धर्मदाराः सर्वदा रक्षणीया इति स्मर्यते। अप्रमत्ता रक्षत तन्तुमेनं मा वः क्षेत्रे परबीजानि वाप्सुरिति ॥ २ ॥
अथवा निषिद्ध दिनों को छोड़कर किसी भी समय में संभोग कर सकता है ॥ २ ॥
अथ पञ्च महायज्ञाः-- देवपितृमनुष्यभूतर्षिपूजकः ॥ ३ ॥
अत्र पूजकशब्दो देवादिषु प्रत्येकं संबध्यते। द्वंद्वान्त्यं श्रूयमाणं प्रत्येकमभिसंबध्यते। गृहस्थो नित्यं देवादिपूजकः स्यात्। तत्र देवपूजा वैश्वदेवसकलहोमाद्यग्निकार्यं च। पितृपूजां मनुराह-- एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके। न चैवात्राऽशयेत्कंचिद्वैश्वदेवं प्रति द्विजम् ॥ इति। दद्यादहरहः श्राद्धमन्नाद्येनोदकेन च। पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ इति च। मनुष्यपूजाऽतिथिपूजा। भूतपूजा बलिहरणम्। ऋषिपूजा ब्रह्मयज्ञः। ऋषियज्ञो ब्रह्मयज्ञ इति पर्यायः ॥ ३ ॥
देव, पितरों, मनुष्य, भूत तथा ऋषियों की नित्य पूजा करे ॥ ३ ॥
ते च प्रतिपाद्यन्ते। अत्र क्रमो न विवक्षितः। ब्रह्मयज्ञस्तु-- नित्यस्वाध्यायः ॥ ४ ॥
बहुव्रीहिरयम्। तत्प्रकारश्च ब्रह्मयज्ञेन यक्ष्यमाण इत्यारभ्य तैत्तिरीयकेऽभिहितः। अत्र नित्यशब्दाद् ब्रह्मयज्ञव्यतिरिक्तकालेऽपि यथावसरमधीयीतेति दर्शितम् ॥ ४ ॥
प्रतिदिन (अवसर के अनुसार) वेदों का अध्ययन करे। (इसे ऋषियज्ञ या ब्रह्मयज्ञ कहते हैं।) ॥ ४ ॥
पितृयज्ञस्तु-- पितृभ्यश्चोदकदानं यथोत्साहमन्यत् ॥ ५ ॥
पितृभ्यो नित्यमुदकं दद्यात्। अन्यद्भोजनफलमूलादि यथोत्साहं
४८ गौतमधर्मसूत्राणि
यथाशक्ति दद्यात्। अत्र चकारान्नित्यं देवर्षीणामपि तर्पणं कर्तव्यमिति दर्शितम्। तत्र मनुर्ब्रह्मचारिणं प्रकृत्याऽऽह—
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ॥ इति ।
कात्यायनः—
देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम् । असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् ॥ इति ।
भृगुः—
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । नोपतिष्ठति तन्तोयं यद् भूम्यां न प्रदीयते ॥
उशना—
आपो देवगणाः सर्व आपः पितृगणाः स्मृताः । तस्मादप्सु जलं देयं पितॄणां दत्तमक्षयम् ॥ इति ।
भृगुः प्रकारान्तरमाह—
नाभिमात्रे जले स्थित्वा चिन्तयन्नूर्ध्वमानसः । आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम् ॥ त्रिभिरञ्जलिमाकाशमुच्चैरुच्चतरं बुधः । उक्त्वा चोक्त्वा क्षिपन् वारि वाग्यतो दक्षिणामुखः ॥इति ॥५॥
पितरों के लिए जल दे और अपनी शक्ति के अनुसार अन्य पदार्थ (भोजन, फल आदि) प्रदान करे । (इसे पितृयज्ञ कहते हैं) ॥ ५ ॥
देवयज्ञस्याग्निकार्यमूलत्वादग्निपरिग्रहकालं तावदाह—
भार्यादिरग्निर्दायादिर्वा ॥ ६ ॥
भार्याशब्देन विवाहो लक्ष्यते । यस्मिन्नग्नौ भार्योह्यते तमग्निमारभ्य वा यस्मिन्नहनि पितृभ्रात्रादिभिर्दायविभागः क्रियते तदहरारभ्य वा सायमुपक्रममग्निं परिचरेत् । दायविभागात्पूर्वं पितुर्ब्येष्ठभ्रातुर्वा कर्मण्युपजीवतो न प्रत्यवायः ॥ ६ ॥
जिस अग्नि में विवाह के समय कर्म किये जाते हैं उससे प्रारम्भ करके अथवा पिता या भाइयों से बँटवारे के समय से प्रारम्भ करके सायं एवं प्रातः काल अग्नि कर्म करे ॥ ६ ॥
तस्मिन्गृह्याणि कर्माणि ॥ ७ ॥
तस्मिन्नेवंपरिगृहीतेऽग्नौ गृह्ये मनुष्यभूतानि पुंसवनादीनि कर्माणि कर्तव्यानीति ॥ ७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४९
उस (विवाह अथवा दायकाल की) अग्नि में सभी गृह्य कर्म (मनुष्य- यज्ञ, भूतयज्ञ, पुंसवन आदि) करे ॥ ७ ॥
देवपितृमनुष्ययज्ञाः स्वाध्यायश्च बलिकर्म ॥ ८ ॥ तस्मिन्नित्यनुवर्तते । तत्र देवयज्ञस्याग्निसंबन्धः प्रसिद्धः । पितृमनुष्य- भूतयज्ञानां तु तदर्थमन्नमस्मिन्गृह्याग्नौ पच्यत इति । ब्रह्मयज्ञस्याग्नि- संबन्ध उशनसा पक्षे दर्शितः—अग्निसमीप इत्येकेषामिति । अपरिगृही- ताग्नेरपि पञ्चमहायज्ञविधानादेते लौकिकेऽग्नौ कर्तव्याः ॥ ८ ॥ उसी अग्नि में देवयज्ञ, पितृयज्ञ, मनुष्ययज्ञ के कर्म और स्वाध्याय तथा बलिकर्म करे ॥ ८ ॥
अथ देवयज्ञवैश्वदेवप्रयोगमाह— अग्नावग्निर्धन्वन्तरिर्विश्वे देवाः प्रजापतिः स्विष्टकृदिति होमः ॥ ९ ॥ अत्र "जुहोतिचोदनाः स्वाहाकारप्रदानाः” इत्यापस्तम्बस्मरणाद्धोम- शब्देन स्वाहाकार उक्तः । अग्न्यादिभिः स्वाहाकारान्तैरग्नौ जुहुयात् । स्विष्टकृच्चाग्न्युपपदो द्रष्टव्यः । होमत्वादेवाग्निसिद्धावग्नाविति वचनं बलिहरणवद् भूमौ न कर्तव्यमिति वचनार्थम् । तस्माद्धोमधर्मः स्वाहा- कारो बलिहरणेष्वपि भवति । तथा चाऽऽश्वलायनः— स्वाहेत्यथ बलिहरणमिति । आपस्तम्बीयानां स्वाहाकारान्ता एव मन्त्राः पठिताः ॥ ९ ॥
अग्नि में अग्नि, धन्वन्तरि, विश्वे देवा, प्रजापति और स्विष्टकृत् के लिये (प्रत्येक के साथ 'स्वाहा' जोड़कर) होम करे ॥ ९ ॥
अथ भूतयज्ञबलिहरणमाह— दिग्देवताभ्यश्च यथास्वम् ॥ १० ॥ यस्या देवताया या दिक्तस्यां दिशि तस्यै देवतायै बलिर्हर्तव्यः । इन्द्राय स्वाहेतीशानपर्यन्तं प्रागादि प्रदक्षिणं कर्तव्यम् ॥ १० ॥ जिस देवता की जो दिशा हो उस दिशा में उस देवता के लिए बलिहरण करना चाहिए ॥ १० ॥
द्वारुषु महद्भ्यः ॥ ११ ॥ गृहस्य यावत्यो द्वारस्तासु महद्भ्यः स्वाहेति बलिहरणम् ॥ ११ ॥ घर के सभी द्वारों पर ('महद्भ्यः स्वाहा' कहते हुए) पूज्यों को बलि दे ॥ ११ ॥ ४ गौ० ध०
५७ गौतमधर्मसूत्राणि
गृहदेवताभ्यः प्रविश्य ॥ १२ ॥
अन्तः प्रविश्य गृहदेवताभ्यः स्वाहेति बलिहरणम् । प्रविश्येति वचनाद् द्वारबहिष्ठेन न कर्तव्यम् ॥ १२ ॥
घर के भीतर प्रवेश करके ( 'गृहदेवताभ्यः स्वाहा' कहते हुए ) गृहदेवताओं के लिए बलिहरण करे ॥ १२ ॥
ब्रह्मणे मध्ये ॥ १३ ॥
गृहस्य मध्ये ब्रह्मणे स्वाहेति बलिर्हर्तव्यः । दिग्देवताभ्यश्चेति चकारात्पृथिवी वायुः प्रजापतिर्विश्वे देवा इति सूत्रकारोक्तदेवताभ्यश्च ब्रह्मणोऽनन्तरं बलिर्हर्तव्यः ॥ १३ ॥
घर के मध्य में ( 'ब्रह्मणे स्वाहा' कहकर ) ब्रह्मा के लिए बलि प्रदान करे ॥ १३ ॥
आकाशायेत्यन्तरिक्षे बलिरुत्क्षेप्यः ॥ १४ ॥
विश्वेभ्यश्चैव देवेभ्यो बलिराकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ इति मनुः ॥ १४ ॥
( आकाशाय स्वाहा कहते हुए ) आकाश के लिए अन्तरिक्ष में बलि फेंक दे ॥ १४ ॥
नक्तंचरेभ्यश्च सायम् ॥ १५ ॥
सायं बलिहरणेऽयं विशेषः । नक्तंचरेभ्यः स्वाहेति बलिर्हर्तव्यः । चकारात्पूर्वोक्ताभ्यश्च भवति ॥ १५ ॥
सायंकाल के बलिहरण में ( 'नक्तंचरेभ्यः स्वाहा' कहकर ) रात्रि में विचरण करने वाले प्रणियों के लिए बलि दे ॥ १५ ॥
स्वस्ति वाच्य भिक्षादानमप्पूर्वम् ॥ १६ ॥
बलिहरणानन्तरं भिक्षादानं कर्तव्यम् । स्वस्त्यस्त्विति स्वस्तिवचनमुक्त्वा भिक्षोर्हस्ते पूर्वमपो दत्त्वा चेति । परिव्राजके विशेषः—
यतिहस्ते जलं दत्त्वा भैक्षं दत्त्वा पुनर्जलंम् ।
भैक्षं पर्वतमात्रं स्यात्तज्जलं सागरोपमम् ॥ इति ।
एतद्भिक्षादानमतिथिपूजाभावे मनुष्ययज्ञः स्यात् । एते पञ्च महायज्ञा ब्रह्मयज्ञवर्ज्याः कर्तव्याः सायं प्रातश्च । कस्मात् ।
अथ सायं प्रातः सिद्धस्य हविष्कस्य जुहुयादित्याश्वलायनस्मरणात् । सायं प्रातर्भूतमित्युक्त इत्यादिकात्यायनसूत्रवचनाच्च ॥ १६ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ५१
बलिहरण के बाद भिक्षुक के हाथ में पहले जल देकर फिर ( 'स्वस्त्यस्तु' कहते हुए ) स्वस्ति वाचन करके भिक्षा देनी चाहिए ॥ १६ ॥
ददातिषु चैवं धर्म्येषु ॥ १७ ॥
ददातयो दानानि यानि दानानि धर्म्याणि न भयादिनिमित्तानि तेषु चैवमप्पूर्वदानमिति ॥ १७ ॥
धर्मानुसार दिये जाने वाले दानों में भी इसी प्रकार ( पहले हाथ पर जल देकर ) दान किया जाता है ॥ १७ ॥
दानप्रसङ्गात्फलविशेषमाह—
समद्विगुणसाहस्रामन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रिय-वेदपारगेभ्यः ॥ १८ ॥
अब्राह्मणः क्षत्रियादिः । ब्राह्मणो जातिमात्रम् । श्रोत्रियोऽधीतवेदः । साङ्गं सकल्पं सरहस्यं चाधीतवेदो वेदपारगः । एभ्यो दत्तं यथाक्रमं समद्विगुणसाहस्रमानन्त्यं च फलं ददाति ।
तथा च मनुः—
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
श्रोत्रिये शतसाहस्रमन्तं वेदपारगे ॥ इति ॥ १८ ॥
अब्राह्मण ( ब्राह्मणेतर क्षत्रिय आदि ), ब्राह्मण, श्रोत्रिय ( जिसने वेद का अध्ययन किया है ) और वेद विद्या में पारंगत व्यक्ति को दान देने पर क्रमशः समान, दुगुना, सौगुना और अनन्त फल की प्राप्ति होती है ॥ १८ ॥
दानप्रसङ्गाद्यत्रावश्यदेयमदाने च प्रत्यवायस्तं विषयमाह—
गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोग-वैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ॥ १९ ॥
यज्ञे दक्षिणाकाले सदस्येभ्यो यद्दानं तदन्तर्वेदि । ततोऽन्यत्र बहिर्वेदि । द्रव्यसंविभागो हिरण्यादेर्दानम् । तद्गुर्वादिकविषयेऽवश्यं दानं कर्तव्यम् । अधीतवेदस्य दक्षिणार्थं गुर्वर्थम् । निवेशौषधार्थं निवेशो विवाहः । स च प्रथमस्तदर्थम् । औषधार्थं रुग्णस्य भेषजार्थम् । वृत्त्या तदहर्जीवनेन हीनो वृत्तिक्षीणः । यक्ष्यमाणो यज्ञं करिष्यन् । अध्ययनाध्वसंयोगः । अध्ययनेन संयोगो यस्य सोऽध्ययनसंयोगः । अध्वना संयोगो यस्य सोऽध्वसंयोगः । बहुव्रीहिः । वैश्वजितो विश्वजिद्यागः । सर्वस्वदानेन निर्द्रव्यः । एतैर्याचितोऽवश्यं यथाशक्ति हिरण्यादि दद्यात् ।
५२ गौतमधर्मसूत्राणि
अददत्प्रत्यवेयादिति । बहिर्वेदिग्रहणेन सदीक्षितविषयमिदमन्तर्वेद्यन्ये- भ्योऽपि देयम् ॥ १९ ॥
( वेद के अध्ययन के उपरान्त ) गुरु के लिए, विवाह के लिए, रोगी की औषध के लिए, हीन वृत्ति वाले के लिए, यज्ञ करने वाले के लिए, अध्ययन करने वाले के लिए, मार्ग में चलने वाले के लिए, और विश्वजित् यज्ञ करने वाले के लिए इनके माँगने पर अवश्य ही बहिर्वेदि ( यज्ञ की दक्षिणा के समय दिये जाने वाले दान से भिन्न प्रकार का ) दान देना चाहिए ॥ १६ ॥
भिक्षमाणेषु कृतान्नमितरेषु ॥ २० ॥
इतरेषूक्तव्यतिरिक्तेषु भिक्षमाणेषु कृतान्नं पक्वान्नमवश्यं देयम् । द्रव्यादेरदाने न दोषः । कृतान्नविषयेऽपि वसिष्ठः— अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरदण्डव्रतो हि सः ॥ इति ॥ २० ॥ उपर्युक्त व्यक्तियों के अतिरिक्त भी माँगने वाले व्यक्तियों को पकाया हुआ अन्न देना चाहिए ॥ २० ॥
अथ दानापवादः— प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् ॥ २१ ॥
दास्यामीति प्रतिश्रुत्याप्यधर्मसंयुक्तविषये न दद्यात् । यदि तेन द्रव्येणाधर्मसंयुक्तं वेश्यागमनाद्यसौ करिष्यतीति विजानीयात् । अधर्म- संयुक्त इति वचनादन्यत्र प्रतिश्रुतमददत्प्रत्यवेयादिति दर्शयति ॥ २१ ॥
पहले देने का वचन देकर भी अधार्मिक कार्य के लिए दान नहीं देना चाहिए ॥ २१ ॥
प्रतिश्रवणविषये विशेषमाह— क्रुद्धहृष्टभीतातंलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृता- न्यपातकानि ॥ २२ ॥
क्रुद्धादिवाक्यान्यनृतान्ययथार्थान्यप्यपातकानि न पापं जनयन्ति । क्रुद्धः क्रोधाविष्टः । हृष्टो हर्षाविष्टः । भीतो भयाविष्टः । एतेषां गुणान्तरै- राविष्टत्वाद्वाक्यमप्रमाणम् । तस्मात्प्रतिश्रुत्यादानेऽपि तेषामदोषः ॥ २२ ॥
क्रोधी, अत्यन्त प्रसन्न, भयाकुल, रोगी, लोभी, बालक, अत्यन्त वृद्ध, मूढ, मत्त और उन्मत्त व्यक्ति के बचन झूठे होने पर भी पाप नहीं उत्पन्न करते । ( अतः उनके वचन देने के बाद दान न देने पर भी वे पापी नहीं होते हैं । )
सानुवाद-मिताक्षरावृत्तिसहितानि ५३
अथ गृहस्थपूर्वभोज्यानाह—
भोजयेत्पूर्वमतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविरा-
ञ्जघन्यांश्च ॥ २३ ॥
अतिथिर्वक्ष्यमाणः। कुमारा बालाः । व्याधितः संजातव्याधिः । गर्भिण्यः प्रसिद्धाः । स्ववासिन्यो दुहितरो भगिन्यश्च । स्थविरा वृद्धाः । जघन्याः परिचारकादयः । एतानात्मनः पूर्वं भोजयेत्पश्चात्स्वयं भुञ्जीत । जघन्यानां पृथक्पदत्वं तेषामानन्तर्यसूचनार्थम् ॥ २३ ॥
अतिथि, बालक, रोगी, गर्भवती स्त्री, घर में रहने वाली पुत्रियों और बहनों, वृद्धों और सेवकों को गृहस्थ अपने से पहले भोजन करावे ॥ २३ ॥
आचार्यपितृसखीनां च निवेद्य वचनक्रिया ॥ २४ ॥
यदि भोजनकाल आचार्यादय आगच्छेयुस्तदा सिद्धमन्नं तेभ्यो निवेद्य तदन्नक्रिया तदिच्छात्तः कर्तव्या । न तेषु संनिहितेषु स्वतन्त्रो भवेदित्यर्थः ॥ २४ ॥
( भोजन के समय ) आचार्य, पिता और मित्र के आ जाने पर उन्हें पका हुआ अन्न निवेदित करके उनके आदेश के अनुसार कार्य करे ॥ २४ ॥
ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः ॥२५॥
ऋत्विगादिषु गृहमागतेषु मधुपर्को देयः ॥ २५ ॥
ऋत्विज, आचार्य, श्वशुर, चाचा और मामा के आने पर उनको मधुपर्क देना चाहिए ॥ २५ ॥
संवत्सरे पुनः ॥ २६ ॥
पूजितास्ते यदि संवत्सरात्पुनरागच्छेयुः पुनरपि मधुपर्को देयो नार्वागिति ॥ २६ ॥
यदि वे एक वर्ष के बाद पुनः आवें तो उनको पुनः मधुपर्क देना चाहिए । ( वर्ष के भीतर आने पर नहीं ) ॥ २६ ॥
यज्ञविवाहयोरर्वाक् ॥ २७ ॥
संवत्सरादर्वागपि यज्ञविवाहयोरागतेभ्यस्तेभ्यो मधुपर्को देयः । मधुपर्कविधिर्गृह्योक्तो द्रष्टव्यः ॥ २७ ॥
यज्ञ और विवाह के समय वर्ष के भीतर आने पर भी उन्हें मधुपर्क देना चाहिए ॥ २७ ॥