हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
७ ] शृंगारवर्णनम् ६१ इति व्यधा निन्युः प्रतिगृहमशेषामपि निशां रतोत्साहैस्तैस्तैः समुदितमुदस्तै युवजनाः ॥ १२५ ॥ अन्योन्यार्पितरदच्छदखंडनानां नि शंकनिर्मितनखक्षतमंडनानां । संभोगसंभवपरिश्रमखिदितानां निद्रासुखं क्षणमभूद्रतयेथ यूनां ॥ १२६ ॥ अन्योन्यप्रवितीर्णदंतनखरमोद्यत्पदव्यंजनै- र्यूनोर्वीक्ष्य परां स्थितिं गतवतो निर्व्याजवीरव्रते । कंदर्पोपि गिरीशदर्पदलने निश्चिततामुद्वहन् आशिश्राय चिराय संगसुभगां निद्रां विशंके तदा ॥ १२७ ॥ तूलं स्पर्शानुकूलं मुखशशिरुचिरश्रीसमाकृष्टिमूलं तांबूलं नासिकायाव्रतसुकृतफलं स्फारपुष्पोपहारः । कांताश्रांतास्तनाभ्यामुरसि खिलमिदं न श्रुतः सप्तमश्चेत् सर्गः शृंगारसंजीवन इति विदितो वीरहम्मीरकाव्ये ॥ १२८ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते महाकाव्ये हम्मीरचरिते वीरांके सुरतवर्णने शृंगारसंजीवनो नाम सप्तमः सर्गः समाप्तः ॥ अथाष्टमः सर्गः प्रपंचयंतः स्फुटतारमंद्र — मध्यस्वरान् पंचमरागगर्भान् । हम्मीरदेवाय निशाऽवसानं वैतालिका विज्ञपयां बभूवुः ॥ १ ॥ विच्छायमिंदुं मुखमावहंती विनिम्नताराकलुषांबैरैषा । विभावरी याति रजस्वलेव स्नातुं पयोधौ दिशि पश्चिमायां ॥ २ ॥ वियुक्तनारीजननेत्रपातो — ल्काभिः समंतादिव दीप्यमानं । विहाय शीतांशुरसौ विहाय आसीदपूर्वाचलचूलचुंबी ॥ ३ ॥ स्वातंत्र्यहंता न उदेति भास्वानस्पामिति क्रोधभरारुणाभिः । दृष्टेव दृग्भिः कुलटाजनेन पुरंदराशारुणतां जगाम ॥ ४ ॥
६२ श्रीहम्मीरमहाकाव्ये [सर्गः अबोधि किं न क्षणिका क्षपेयं मानो दधे यद्भवतीभिरेवं । इत्यभ्यसूयन्निव मानिनीभ्य स्वनोति शब्दान् कृकवाकुरेषः ॥ ५ ॥ जायापतीनां रंतकौतुकेन रात्रिं समग्रामपि जागरित्वा । घूर्णंस्यमी विस्फुरितप्रमीला इव प्रदीपा रतमंदिरेषु ॥ ६ ॥ निवर्त्य चेतः सुरतात्कथंचित् यावत्सुषुप्तंति युवान एते । मार्दंगिकैस्तावदवादि सद्यः प्रत्यूषसूचा सुभगो मृदंगः ॥ ७ ॥ विलेपनामोदितांततांत—स्वेदोदकास्वादनमंदचारः । संभोगशालासु निविश्य यूनः सुखाकरोत्येष उषासमीरः ॥ ८ ॥ प्राप्तप्रबोधा गुरुणोपदिष्टान्महाप्रयोगान् प्रणिधाय चित्ते । क्लिष्टै कवींद्रा इव निर्मलाथो—त्पत्तिं नरेंद्राः परिभावयंति ॥ ९ ॥ विप्राननोद्गीर्णविविक्तवर्ण—प्रचारचारुध्वनिवेदमंत्राः । सतां हृदंतस्तरसा प्रविश्य तमः कर्षंतीव समूलकाषं ॥ १० ॥ तमोमये प्रेक्ष्य विधिः प्रलीनं मेरुं युगांतेथ नवं सिसृक्षन् । प्रत्यूषसंध्याभवरागदंभात् चिनोति शृंगानि हिरण्मयानि ॥ ११ ॥ विभा विभातैव विभावरीय मद्यापि मानं किमिवादधासि । इति प्रियाया अपि बद्धमूलं मानं सुखेनैव नुनोद कश्चित् ॥ १२ ॥ संभोगकेलीं प्रविधाय पश्चात्सुप्तापि नारी प्रथमप्रबुद्धा । आलिंग्य सुप्तं प्रियसृप्तिभंगं विशंकमाना न जहाति तल्पं ॥ १३ ॥ कचिद्विभातीकृतयामिनीका अभ्येत्य कांता निभृतप्रचारं । स्वप्नेपि तत्तर्जनशांतचित्ता माश्लिष्य सुप्तां दयितां स्वपंति ॥ १४ ॥ अपि द्विजेशः श्रितवारुणीको ध्रुवं भवेन्नीचजडोपयोग्यः । इति प्रबोधं जगतां प्रयच्छन्नध्यास्त मध्यं जलधेः शशांकः ॥ १५ ॥ असौ सिषेवे चतुरोऽपि यामान् श्यामां क्षये सत्यपि यत्सकामः । तेनैव शंकेस्तमुपैति पकपलांडुपांडुः पतिरोषधीनां ॥ १६ ॥ समस्वरूपे शशिनो रवेश्व बिंबेस्तभावादुदयत्वतश्च । उपैति पूर्वापरयोर्विभेदे मतिर्जनानां क्षणमीश जाड्यं ॥ १७ ॥
८ ] प्रभातवर्णनम् ६३
- अवाप यस्यामुदयं विहाय तां मामथासावपरां सिषेवे । इत्यादधानेव रुषं हिमांशौ पुरंदराशाऽरुणतां जगाम ॥ १८ ॥ स्फुटं स्फुटत्कुङ्गलकोशनिर्य—द्विलोलरोलंबमिषेण हर्षात् । समागमे पत्युरिनस्य पश्याऽङ्गानीव मुंचंति सरोरुहिण्यः ॥ १९ ॥ कापि ह्रदे व्योमसुरिद्वरायाः पतिर्नदीनामनुबिंबितः किं । यद्वारि भातीह तमस्तरंगाः प्रत्यूषरागोपि तदंतराग्निः ॥ २० ॥ एषाहमेतच्च गृहं तवैवा—ऽगंतव्यमेवाशु पुनः प्रियेण । इत्युक्तिपूर्व्वं परिरभ्य गाढं भिंगान् प्रहिण्वंति पणैणनेत्राः ॥ २१ ॥ प्रकाशकल्पेपि सहस्ररश्मौ वारांनिधिश्चापलमुत्ससर्ज । हंसे प्रकाशं यति यत्सतीव जडेपि शांतत्वमुपैति मूत्तं ॥ २२ ॥ विच्छायतां भूरितरामुपेता दूरीभवत्पुष्करकोशवासाः । काले कलौ संत इवोडवौऽमी क्वचित् क्वचिन्नेत्रपथं प्रयांति ॥ २३ ॥ लोलत्तणूनां मयनेन दध्रस्तनूदरीणां कबरीमिषेण । ध्वांतावलीकुट्टनजातकाष्ण्र्यः स्फुरंति दंडा इव चंडरश्मेः ॥ २४ ॥ भिंगैर्निषिद्धैरपि दत्तदंत—पदालिवित्रेषु रदच्छदेषु । संभ्रांतचित्ताः पतिदृष्टिपातात् ददत्यलक्तं कुलटा नतास्याः ॥ २५ ॥ स्मराहवे स्मेरतरे प्रवृत्ते पलाय्य पृष्ठे मलिनो यमस्थात् । इत्यात्तकोपा इव केशपाशं गाढं निबध्नंति सरोरुहाक्ष्यः ॥ २६ ॥ कांचीगुणस्य ग्रथनप्रयासि प्रकोष्ठभूषागणसिंजितेन । मुक्तिं भजेथाः पुनरेव शीघ्र मित्यादिशंतीव तमंबुजाक्ष्यः ॥ २७ ॥ शिलालिहंतोप्यगसैंधवानां वक्त्रोष्महिष्मा मलयंति वाहाः । निश्वासवातैरिव पाणिगानाऽदर्शांन्निशाभोगवियोगिनार्यः ॥ २८ ॥ समूलमुन्मूल्य तमःसमूहं लोके प्रवेशं सृजतो दिनस्य । मांगल्यहेतोरविविंबदंभात् नीराजनामाचरतीव पूर्वा ॥ २९ ॥ भिंगैर्वितीर्णानणुवित्तवैर्रा दिवाप्रभातं भृशमर्दितांग्यः । सर्वांगसंस्पर्श्यापिभानवीय—करोत्करे जाग्रति नो भुजिष्याः ॥ ३० ॥
[सर्गः
घूकादिवैदोरिव नीलनीर----रुहादिवाकृष्य विभातकालः । रथांगनामार्कसरोरुहेषु मुदं प्रकाशं श्रियमार्दधाति ॥ ३१ ॥ पत्यूरुरुचीनामहिताङ्गयेन तमःसमूहो विरहय्य धात्रीम् । निशाटनेत्राणि विवेश नून मुत्पश्यतैतेषु कुतोऽन्यथासु ॥ ३२ ॥ विभावरीयाय विनाशमेषा मुदं दधस्वेत्यसुवल्लभा स्वा । विबोध्यते द्वंद्वचरेण याव----त्सा तावदागात्स्वयमेव पार्श्वम् ॥ ३३ ॥ क्रुधेव ताम्रं वपुरादधान मायांतमालोक्य सहस्ररश्मिम् । निलीयते भ्रश्यदितस्ततोपि भिया तमिस्रं गिरिगुह्वरेषु ॥ ३४ ॥ इत्युद्गतैर्वाक्यभरैर्विबोध----करैः समाख्यातविभातकालः । तदर्हकृत्यं विरचय्य दान----केलिं कुमारः कलयांचकार ॥ ३५ ॥ विभूषितास्थानसभं शुभैषी श्रीजैत्रसिंहं रिपुकुंभिसिंहं । गत्वा कुमारोथ मुदा नमस्या----मासानणीयस्तरभक्तिनम्रः ॥ ३६ ॥ कृतप्रणामं तमवेक्ष्य हृष्यद्रोमा पुलोमारिरिवो धरित्र्याः । रहस्युपानीय रहस्यवेदी जगाद निस्तंद्रतरास्यचंद्रः ॥ ३७ ॥ साम्राज्यलक्ष्मीकरपीडनाय जातप्रवीणप्रतिभे तनूजे । विदांवरेण्य क्वच नापि नास्म----दृशाः प्रशस्या विषयाभिवृष्ट्याः ॥ ३८ ॥ विध्वस्तबाह्यारिचयोप्यजित्वा----तरंगशत्रूनतिमात्रशक्तीन् । बाह्येतरारीन् जितवत्सु तेषु स्थितः कथंकारमहंचकास्मि ॥ ३९ ॥ कियद्वराका सविकाशमाहू----राज्यं नृपाणां विगलत्कृपाणां । इदं तु योगप्रणिधानभाजां यावद्वराकासविकाशमेव ॥ ४० ॥ बाह्याः शरीरे किल शैशवीया भावा यथा ऽत्यजिषताल्पयेस्य । हातुं तथाभ्यंतरगानपीमान् उदासते हंत किमत्र संतः ॥ ४१ ॥ शक्तावस्थां विषयाभिलाषो विडंवयत्येव जनान् प्रयोक्तॄन् । शांतोऽनलः फूत्क्रियमाण उच्चैः किं पूरयत्याशु न भस्मनाऽस्यं ॥ ४२ ॥ अपास्तलज्जं बहुदैन्यमस्मा नकामयंत स्मरकातरा याः । ताः कामयेम ह्यधुना मृगाक्षी र्वयं हहाऽतोपि विडंबना किं? ॥ ४३ ॥
८ ] हम्मीरदेवराज्याप्तिवर्णनम् ६५ मलातुराणामशुचौ शुचौ वा यथाप्रदेशे न विचारणास्ति । स्त्रीणां तथा मूत्रपुरीषपात्रे गात्रे नराणां मदनातुराणां ॥ ४४ ॥ यत्प्रेरणादुत्तरलीभवन्तः कृत्यान्यकृत्यान्यपि न स्मरंति । तदप्यहो यौवनमस्तमस्तु कायापि तृष्णा विषयेषु निष्णा ॥ ४५ ॥ ये यौवनोन्मादभरे गतेपि कुर्वत्यखर्वे विषयेषु रागम् । निर्मांसमज्जाऽस्थियु ते शृगाला लालारसास्वादनमाचरंति ॥ ४६ ॥ सर्वांगेषु निकृष्टमंगयुगलं स्त्रीणां तदुक्तं तयो- राद्यं विड्विवरं प्रसिद्धमितरत्प्रस्रावरंध्रं पुनः । तन्मध्ये यदपत्यरंध्रमसकृद्विस्रस्रवच्छोणितं ये तस्मादधुनापि नान्यवदनास्तेभ्योपि निंद्योऽस्तु कः ॥ ४७ ॥ तद्राज्यकक्षीकरणान्ममैता माज्ञां गुणैकालय पालयाशु । साहाध्यतस्तेऽयमुपेंद्रसेवा—हेवाकिचेताः सुखमस्तु भूपः ॥ ४८ ॥ वार्धक्यदोषोदयदुर्भगत्वान्मुक्त्वाद्य सद्यः कमलानिवास्मान् । पतिं द्विजानामिव सौम्यमूर्त्ति साम्राज्यलक्ष्मीरुपतिष्ठतां त्वां ॥ ४९ ॥ सुधाकिराज्येव गिरा चभक्ति—वल्लीं प्रवेल्लन्नवपल्लवाढ्यां । कुर्वन्निव व्यज्ञपयन्नर स्नातं जगद्वेयतमावदातं ॥ ५० ॥ द्वेधापि राजन्नरकतमेत द्राज्यं न चेतो बहु मन्यते मे । द्युसद्गवीवद्विबुधालिसेव्या त्वदंघ्रिसेवा यदि लभ्यतेऽसौ ॥ ५१ ॥ त्वत्पादपद्मे सदसद्विवेक—कृद्राजहंसत्वमभीप्सतो मे । हर्षाय सुव्यक्तकलंककारि राजनराजत्वमिदं कदाचित् ॥ ५२ ॥ ज्येष्ठे तनूजे सति राज्यलक्ष्मी र्देया कदाचिन्न किलेतरस्मै । जानन्नपीत्यं नयवर्त्मसंस्थां मह्यं कथं दित्ससि तामधीशः ॥ ५३ ॥ हम्मीरदेवाय वितीर्य राज्यं मदंघ्रिसेवानिरतो भवेति । स्वप्ने निशांते शयितं निशांते मामाह विष्णुः करवै किमार्थ ॥ ५४ ॥ निरुत्तरीकृत्य ततोहठेन—निच्छंतमप्येनमतुच्छचित्तं । हम्मीरदेवं नृपतिर्बलक्ष्मी ममीमनत्स्नातु मिलाविलासी ॥ ५५ ॥ 9 k
६६ श्रीहम्मीरमहाकाव्ये [ सर्गः ततश्च संवन्नववह्निवह्नि—भूहायने माघवलक्षपक्षे । पौष्यां तिथौ हेलिदिने सपुष्ये दैवज्ञनिर्दिष्टबले ऽलिलग्ने ॥ ५६ ॥ पुरा पुरोधास्तदनु क्षितीन्दु भूपास्ततोन्ये सचिवास्ततश्च । ततो महेभ्यास्तदनु प्रजाश्च तस्याभिषेकं रचयांबभूवुः ॥ ५७ ॥ युग्मं ॥ छायाकरैस्तस्य सितांशुशुभ्रं यदातपत्रं विभरांबभूवे । छायाखिलस्यापि जगत्त्रयस्य बभूव तेनाऽद्भुतमेतदुच्चैः ॥ ५८ ॥ एवं पतिष्यत्यसकृत् पदेऽस्य क्षितिक्षितः ख्यातुमिवेति लोके । शिरोभितोप्यापतती नृपस्य तस्याञ्च वालव्यजने व्यभातां ॥ ५९ ॥ अपाठिषुुर्विद्विजनास्तदानी मराणिषुर्मंगलतूर्यकाणि । अनर्त्तिषुर्नर्त्तविदश्च गीत मगासिषुुर्गायकमंडलािन ॥ ६० ॥ पदेपदे वंदनमालिकानां माला निबद्धा बभुरुल्लसंत्यः । गृहावलीनां नयनायमान—द्वारामिव भ्रूलतिकाः सलीलाः ॥ ६१ ॥ नरेंद्रमार्गेष्वभितो विकीर्णा विस्मेरपुष्पप्रकरा विरेजुः । कांतं नवीनं प्रति भूमिदेव्या हासा इव स्फारतरप्रकाशाः ॥ ६२ ॥ हर्षप्रकर्षेण समंततोपि सद्यस्रक्वाल्हीकजलप्रसिक्ताः । नवे हृदीशे प्रकटीकृतात्म—रागा इवोद्रंगभुवो विरेजुः ॥ ६३ ॥ प्रत्यालयोत्तंसितशातकुंभ—मांजिष्ठकौसुंभिककेतुदंभात् । अधीश्वरं प्राप्य नवं हमीर—देवं विशंके पुरमप्यरज्यत् ॥ ६४ ॥ साम्राज्यलब्ध्या मुदितोप्यमुष्य भूभंगमाशंक्य शिरांस्यधुन्वन् । वृथा व्यषीदत्फणिराट् विवेद —————— ॥ ६५ ॥ हृत्वा श्रियं शात्रवकैरवाणां सुहृज्जनांभोजकुले दधानः । प्राप्तोदयो भूवलये स राजा ऽऽऽ न कस्याऽजनि विस्मयाय ॥ ६६ ॥ विश्राणने कर्णनृपस्य नीतौ रामस्य शौर्ये च धनंजयस्य । काले कलौ पंडितमंडलीनां किं जायतोदाहरणं समास्म ॥ ६७ ॥ धर्मो जगर्जैव दरिद्रमुद्रा काचिन्ननाशेव बभाविव श्रीः । समुल्ललासेव नयद्रुमोपि समं जनैरेव तदीयराज्ये ॥ ६८ ॥
४. अलाउद्दीन खिलजी की सेना का घेरा व भीषण युद्ध
८] हम्मीरदेवराज्याप्तिवर्णनम् ६७ कालानलो ना ऽजनि नाभिरामो रामो भवन्नो भरती रतोभूत् । आसीन्न चित्ते जनकोपि कोपि हम्मीरमालोकयतां जनानां ॥ ६९ ॥ अहानि तान्येव सुखावहानि हम्मीरदेवो ऽजनि येषु भूपः । लोकास्त एवात्तशुभावलोका वक्त्रांबुजं ये ददृशे ऽदसीयं ॥ ७० ॥ विकासिकाशाभिनवप्रवाल-जिद्दंतदंतच्छददीप्तिर्भाक् । दृग्दुलसद्भाङ्गररागसिंधो विस्तारयंस्तारतरानिवोर्मीन् ॥ ७१ ॥ रूजार्दनादित्यथ जैत्रसिंहः स्वस्यावसानं निकटं विजानन् । स्नेहेन हम्मीरनृपाय राज्य-शिक्षामिमां प्रारभत प्रदातुं ॥ ७२ ॥ स्त्रीणां श्रियां वा क्वच नापि मागा विश्वासमासां क्षणभंगुराणां । रक्ता विरक्ताश्च सतामपि स्युः पदे पदे ऽमूर्विपदे यदाशु ॥ ७३ ॥ साम्राज्यमासाद्य महत्तमेषु स्म विस्मरो मा विनयं नरेश । पुमान् वृद्धानुरिवाविनीतः कुलस्य सर्वस्य विनाशहेतुः ॥ ७४ ॥ अप्यार्यकार्याणि विचार्य कुर्वन् विवेकवानेष जगज्जनेष्टः । जगन्निवासा तदियं नृपत्व-लक्ष्मीः कथं तं विजहाति तात ॥ ७५ ॥ शक्तोपि देह्यप्रकटीकृतात्म-शक्तिः पराभूतिपदं सदैव । कारीषवह्निर्वद वत्स कस्य कस्याशु न स्यादतिलंघनीयः ॥ ७६ ॥ सदा सदाचारपरो नरेंद्रः सेव्यो मुनीनामपि निस्पृहाणां । कुशीलताभाप्रवरं खलोपभोगाय तैलीव भवत्यवश्यं ॥ ७७ ॥ धर्मार्थकामा इव सामदान-भेदाः क्रमेणैव पुरा प्रयोज्याः । सर्वात्मनैषामसति प्रचारे धार्या मतिर्मोक्ष इवाथ दंडे ॥ ७८ ॥ अनंतरो यो विषयेषु राजा संवर्धितः क्लेशकरः स्व एव । गृहांगणातंविषवृक्ष उत्त कालं कियंतं कुशलं गृहस्य ॥ ७९ ॥ राज्यस्य धर्माः किल पंच ये तान् पंचेंद्रियाणीह वदंति संतः । प्रलीयमानेषु तदेषु राज्य मपि प्रलीयेत वपुर्यथैव ॥ ८० ॥ शक्तिं समासाद्य सदोद्यतेन कार्या मति विक्रम एव पुंसा । तिर्यक्षु भूरिष्वपि पश्य सिंहः पराक्रमादेव न किं मृगेंद्रः ॥ ८१ ॥
नये धियं सम्यगनास्यिला युक्तः प्रयुक्तो न पराक्रमोपि । छलावलंबेन विनैव तावत् सिंहोपि हंतुं प्रविशेटिभं किं? ॥ ८२ ॥ बुद्धचैव सिद्धिर्यदि तन्नपुष्पै रपि प्रहर्त्तव्यविधिर्विधेयः । पश्य प्रसूनैरपि युध्यमानः स्मरो हरात्कां गतिमाससाद ॥ ८३ ॥ शौर्यं च बुद्धिर्मिथुनं तदस्मात् अदूषिताद्राज्यमुदेति नित्यं । न चैकतो विश्वमपि प्रपश्य संजायते द्वंद्वत एव सर्वं ॥ ८४ ॥ जिगीषुणाऽसौ बलशालिनापि यात्रा विधेया खलु जेय एव । ज्वालाजटालीकृतदिङ्मुखोपि नांबूनि दग्धुं क्रमते दवाग्निः ॥ ८५ ॥ रिपोरपि स्वाश्रयमागतस्य करोति सत्कारविधिं विधिज्ञः । तथाहि मीनांशमुपागतस्य् नोच्चं पदं किं भृगुनंदनस्य ॥ ८६ ॥ यथा न पीडा भवति प्रजानां ग्राह्य स्तथा धीधन तत्करोपि । किं नाम पुष्पाणि चिनोति पुष्प—लावी लतानां जनयन्त्रिबाधां ॥ ८७ । निवासिता येन स एव वेत्ति प्रायः प्रजानां सुखदुःखभावं । वंध्या विजानाति किमंग गर्भ—प्रपोषणं वा वहनक्लमं वा ॥ ८८ ॥ धनं प्रजानामयथाऽपराधं गृह्णन् विजानाति न तच्च ताः स्वाः । इदं नृपस्याऽशकुनं तथाहि राज्यस्य नाशेऽस्य न तच्च ताश्च ॥ ८९ ॥ सर्वस्वनाशोपि कुले विरोधोद्बोधं सुधीर्नो विदधीत कश्चित् । कुले विरोधो रचितो निनाय सुयोधनं किं निधनं न सद्यः ॥ ९० ॥ प्रजासु पीडा स्वकुले विरोधः पक्षद्वयं पेषणयंत्रमस्मिन् । चूर्णीकृतं धान्यमिव प्ररोढुं पुनर्न राज्यं समुपैति शक्तिं ॥ ९१ ॥ स्वमेव पुष्णन् प्रभुवंचनेन नार्हत्युपेक्षामनुजीविवर्गः । कर्षद्रसाया रसमात्मने किं नोन्मूल्यते क्षेत्रगतं तृणादि ॥ ९२ ॥ मातेव राजा हितकृत् प्रजानां मातुः सपत्नीव नियोगिवर्गः । तयार्पितानां च करे तदस्याः क्व वृद्धिरासां क्वच जीवितव्यं ॥ ९३ ॥ स्वतः कुलीनोप्यधिको विधेयो राज्ञानुजीवी न कदाचिदेव । यतो जडात्मा वटवत्प्रवृद्धः स राज्यसौधस्य विनाशहेतुः ॥ ९४ ॥
[Header] हम्मीरदेवराज्यप्राप्तिवर्णनम् ६९
प्राज्ञः सपत्नैः परिभूयमानो—प्युद्दीपनं न त्यजति स्वदेशं । दिवाकरालुप्तकरोप्यनुद्यन् नभः शशांकः पुनरभ्युदेति ॥ ९५ ॥ चिरंतनान्मंत्रिवरान् विहाय साम्राज्यभारो निहितो नवेषु । क्षणेन मूलादपि नाशमेति यथाऽविपक्वेषु जलं घटेषु ॥ ९६ ॥ स्याद्राज्यमंत्रेषु किलैक एव श्रेयानमात्यो न पुनर्द्वितीयः । आरोहणं यानयुगस्य तज्ज्ञा न प्राणसंदेहकरं स्मरंति ॥ ९७ ॥ यो यत्र रक्तो यदि वा विरक्तो भवे विवेको नहि तस्य तत्र । अतो न तन्मंत्रविधौ विधेया शिक्षा तदीया सुविचक्षणेन ॥ ९८ ॥ मंत्रान्वहूनामपि धीसखानां श्रेयस्करात्रैव वदंति संतः । गर्भस्य मातुश्च कुतः शिवाय करा बहूनां बत सूतिकानां ॥ ९९ ॥ पूर्वं स्वहृद्येव विचार्य सम्यक् मंत्रं ततः सम्मतिमाददीत । संवादता चेत् तदिदं विधेयं नोचेत्तदूहै र्मतिराविरास्या ॥ १०० ॥ विराध्दपूर्वः पुरुषः प्रधानपदे कदाचिन्न पुनर्विधेयः । तादृग्छलं प्राप्य तथाविधा हि द्रुह्यंति नूनं धृतगुप्तवैराः ॥ १०१ ॥ पुमान्विराद्धो विजहाति नैव धीमन् युगांतेपि विरोधभावं । अद्यापि पश्चार्यमणं विधुं वा तुदन्निवर्तेत विधुंतुदो न ॥ १०२ ॥ महाबलेनापि कलिर्न कार्यः समं शकेनेन लसच्छलेन । तथा समर्थोपि बलिर्विजिग्ये छलप्रधानेन जनार्दनेन ॥ १०३ ॥ पुरः पुरो जाग्रदुदग्रकष्टं दुरोदरं दूरत एव हेयं । दुरोदरारंभवशेन कां कां विडंबनां पांडुसुता न जग्मुः ॥ १०४ ॥ बलाबलं सूत्रगतं विचार्य सविग्रहं यो विदधीत वृत्ति । स एव तत्तद्गुरुगौरवार्ह — शास्त्रज्ञधुर्यल मुपैति तात ॥ १०५ ॥ दत्वेति शिक्षां शुभवद्गराख्यां गेहेच देहेच निरीहचित्तः । जैत्रप्रभुः स्वात्महितं चिकीर्षन् श्रीभ्राश्रमं पत्तनमन्वचालीत् ॥ १०६ ॥ शिवापि जंबूपथसार्थवाही विराजते यत्र शिवः स्वयंभूः । यो ध्यातमात्रोप्युरुभक्तिभाजां दत्ते न किं भुक्तिमिवाशु मुक्तिं ॥ १०७ ॥
७० श्रीहम्मीरमहाकाव्ये [ सर्गः मज्जच्छचीदृग्युगलाकुवेल—विश्वग्गलत्कज्जलमेचकांबु । चर्मण्वती यत्र सरिद्वहंती पुण्यश्रियो वेणिरिवाविभाति ॥ १०८ ॥ ज्वलिष्यदेतद्विरहाग्नितप्त मिवांब्रकाब्जस्रवदम्बुवर्षैः । पृष्टेऽथ हृत्सेसिंचतः समेत्य व्यजिज्ञपन्नेनममात्यमुख्याः ॥ १०९ ॥ साम्राज्यलक्ष्मीं विरहय्य पूर्वं मुमुक्षतोऽस्मानपि संप्रतीश । खद्योतवत् तद्विरहांधकारे भाग्यानि नो यांति पुरा प्रकाशं ॥ ११० ॥ भवत्दृगलोकनमुक्तयोगं प्रपत्स्यतेऽदो नगरं नरेश । रंगत्पतंगोज्वलंबिंबडिंब—विवर्जितस्य श्रियमंबरस्य ॥ १११ ॥ वृष्ट्या सुधाया इव सौम्यदृष्ट्या सिंचन्नथैतान्निजगाद भूपः । मा कार्ष्ट कष्टं विदुषामनिष्टं कृते मम स्वात्महितं चिकीर्षोः ॥ ११२ ॥ इदं पुरव्योममदंशुमालि—प्रतारोचिश्चयशून्यशोच्यं । हंमीरचंद्रेभ्युदिते प्रकाम—श्रीकं भविष्यत्यचिरेण नूनं ॥ ११३ ॥ मद्वंशपाथोरुहराहहंसस्तैस्तै र्गुणैर्विश्वकृतप्रशंसः । संसेव्यमानोहमिव प्रसाद—दानैः सदानंदयितैष युष्मान् ॥ ११४ ॥ इत्थं सहैतान् विसृजन् अवापत् पल्लीं पुरीं यावदसौ नरेशः । लूता विनिर्गत्य पपात तावत् स्वयं च भेजे लघु देवभूयं ॥ ११५ ॥ असासहीभिर्विरहं प्रियाभिरष्टाभिरिष्टाभिरथान्वितस्य । तत्रैव संस्कारविधिर्विधिज्ञैः श्रीजैत्रसिंहाधिपते र्वितेने ॥ ११६ ॥ अथाभिषिञ्चन्नवशोकभूपं नवावतारं हृदि बाष्पपूरैः । चकार मोहग्रिहिलीकृतात्मा हम्मीरदेवः परिदेवनानि ॥ ११७ ॥ तातेति तातेति वचः प्रघोष—शुष्यद्गलस्यापि ममाऽवनीश । यद्दर्शनं न प्रददासि तत्क्वा तवौचिती संगतिमंगतीयं ॥ ११८ ॥ विश्वत्रिलोकीतिलकायमानं व्यधात् विधेयस्तव पाणिरेनं । कथं स एवास्य विनाशहेतोः प्रागल्भ्यमभ्यस्यति हे हताश ॥ ११९ ॥ हुताशनाऽसज्जनकालकूटान् परंतपोर्जीनिति को व्यधत्त । श्रीजैत्रसिंहं नृपतिं प्रणिघ्नन्नजायतास्योत्तरमद्य वेधाः ॥ १२० ॥
हम्मीरदेवराज्याप्तिवर्णनम् ७१ धातर्विगर्हादभितोपि लोका—पवादतो यद्यपि नासि भीतः । तयापि पाणी कथमत्सहेतां नृरत्नमेनं तव हंत हंतुम् ॥ १२१ ॥ केनापि शंके पविशैलसाराण्यादाय चक्रे हृदयं विधातुः । क्रंदत्यपीत्थं मयि मुक्तकंठं नाद्यापि यत्तत्करुणा रुणद्धि ॥ १२२ ॥ कंठस्य हाहेति वचांसि दृष्टगो रक्तं कपोलस्य कराब्जक्रोडाः । चित्तस्य शोकः शरणं हम्मीर—देवस्य तत्राहान जायते स्म ॥ १२३ ॥ इत्थं महाशोकसमुद्रमग्नं उद्धर्तुमेनं जनताहिताय । अकर्णधारायतविप्रवीणैत्राजदित्यादिभिर्ब्रह्मविदां वरेण्यैः ॥ १२४ ॥ जगाम तातो निधनं ममेति वृथा कृथा मा क्षितिपाल खेदं । कस्याप्यवंध्या निधनस्य शस्य दृष्टाः श्रुता वा पितरो च विश्वे ॥ १२५ ॥ श्वासावधि स्यात्खलु जीवितव्यं श्वासः प्रसिद्धः स तु वायुरेव । वायोरिहान्यत्तरलं न किंचिद्यज्जीव्यते तन्महदेव चित्रम् ॥ १२६ ॥ क्रीडां करिष्यति कियच्चिरमेष हंसः स्निग्धोल्लसत्कलरवोत्न शरीरवाप्यां । कालारघट्टघटिकावलिपीयमान मायूर्जलं झगिति शोषमुपैति यस्मात् ॥ १२७ ॥ इयं मायारात्रिर्बहलतिमिरा मोहललितैः कृताज्ञाना लोकास्तदिह निपुणं जाग्रत जनाः । अलक्ष्यः संहर्तु ननु तनुभृतां जीवितधना- न्ययं कालश्चौरो भ्रमति भुवनांतः प्रतिदिनं ॥ १२८ ॥ लंकाभर्तुर्निधनरुचिना चापहस्तेन येन क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानां । सोपि स्फूर्जद्दिवसरजनीघोरवक्त्रेण राम- स्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तंचरेण ॥ १२९ ॥ सूनोर्मन्मन्भाषितानि शिशुता हृदयस्य जीवादिशे- त्युक्तौर्यौवनगस्य यस्तव पिता माधुर्यधुर्याण्यपात् ।
७२ श्रीहम्मीरमहाकाव्ये [सर्गः क्व स्वर्गो वसुधासुधाकरसुधास्वादोऽधुना प्रीतये तस्य ह्यद्यशसैव तृप्तिरमरीगीतेन पीतेन चेत् ॥ १३० ॥ इत्थं स्मार्तविनोदमोदिहृदयप्रज्ञालवक्त्रांबुज- प्रादुर्भूतविशेषतत्वभणितिश्रेणीप्रबुद्धाशयः । शोकद्वेषिचमूरमूर्दलयितुं वीरं विवेकं सृजन् वेश्मेव स्वमपालयत्क्षितितलं हम्मीरदेवस्ततः ॥ १३१ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा- काव्ये वीरांक श्रीहम्मीरदेवराज्याप्तिवर्णनो नामाष्टमः सर्गः समाप्तः ॥ अथ नवमः सर्गः अथास्य षड्गुणाँस्तिस्रः शक्तीर्भूपस्य बिभ्रतः । दिग्जयायानपायाय स्पृह्यालु मनो ऽभवत् ॥ १ ततो दैवज्ञविज्ञात--लग्ने लग्नेद्धरुग्ग्रहे । वंद्याभिर्गोत्रवृद्धाभिः कृतयात्रिकमंगलः ॥ २ ॥ पश्चाद्धृतोष्णरुग्बिंब ऊर्ध्वाकृष्टसमीरणः । नृपस्तुरंगमारुक्षत्पुरस्कृतसितद्युतिः ॥ ३ ॥ युग्मं स्वतोधिकौजसं वीक्ष्य माम्लासीदेनमुष्णरुक् । इतीवास्योज्वलं शीर्षे छत्रं छायाकरैर्दधे ॥ ४ ॥ पास्यंत्यस्याखिलं सैन्या मद्धारीति विशंकिनी । तं वालव्यजनव्यांजा--दागाद्गंगेव सेवितुं ॥ ५ चंपाया इव चंपेश स्त्रिपुरस्त्रिपुरादिव । प्रकंपयन् धरां धीरो निर्ययौ नगराद्बहिः ॥ ६ । पराग इव पाथोजा त्पार्थपाणेः शरा इव । पुरतः स्फुरितोत्साहाः पृष्ठे सैन्या विनिर्ययुः ॥ ७ निर्मिमाणा मदांभोभि र्विश्वकर्दमिलामिलां । गर्जसंतर्जिताराति--शौंडीर्या निर्ययुर्गजाः ॥ ८
९ ] हम्मीरदेवदिग्विजयवर्णनम् ७३ प्रखरप्रस्फुरत्पक्षा आरूढपुरुषोत्तमाः । चेलुस्तार्क्ष्याः परोलक्षाः प्रत्यक्षास्तार्क्षका इव ॥ ९ ॥ उच्चैर्घर्जालीबिभ्राणैः प्रशस्तस्पंदनैस्तथा । यथा तदंतर्वििक्षिप्तै स्तिलैर्भजे न भूतलं ॥ १० ॥ वियत्कुक्षिंभरिस्फार—हुंकारमुखराननाः । पत्तयो वल्गु वल्गंतो नृपचित्तममूमूदन् ॥ ११ ॥ वात्याव्यतिकराक्रांत—पताकार्पितदृष्टयः । मिथो हहेति जल्पाका रेजिरे वैजयंतिकाः ॥ १२ ॥ पदप्रपातोद्भूतै रभितोपि रेजोव्रजैः । छायार्थमिव सैन्यस्य प्रतेने दिवि मंडपः ॥ १३ ॥ केचिद्गजानां केचिच्च पत्तीनां केपि वाजिनां । रथानां केच नावोचन् सैन्ये तस्य प्रभूततां ॥ १४ ॥ परःसहस्रैर्गंधर्वैः परो लक्षैश्च पत्तिभिः । क्रमात्क्रामन्धरां धीरो प्रापद्भीमसरं पुरं ॥ १५ ॥ तत्र श्रिताभ्यमित्रत्वं गर्जन्नर्जुनभूपतिं । कुट्टयित्वासिदण्डेन स्वनिदेशवशं व्यधात् ॥ १६ ॥ ततो मंडलकृत् दुर्गा त्करमादाय सत्वरं । ययौ धारां धरासारं वारांराशिर्महौजसां ॥ १७ ॥ परमारान्वयप्रौढो भोजो भोज इवापरः । तत्रांभोजमिवानेन राज्ञा म्लानिमनीयत ॥ १८ ॥ ततोति बलभारेण कासारितमहीतलः । व्यधादवंतीं दंतींद्र—मदाक्रांतकाननां ॥ १९ ॥ शिप्रां विप्रंजलिमुक्तैः सिक्तवप्रां पयःकणैः । दृष्ट्वा तस्यामभवन् सैन्याः सज्जा मज्जनहेतवे ॥ २० ॥ विमुक्तबंधनास्तत्र कृतमज्जनकौतुकाः । नासन् रेवानदीरोवा—हेवाकिहृदया गजाः ॥ २१ ॥ 10 k
धुन्वंतः कंधराकेशान् वाजिनः स्नातनिर्गताः । आसारं तेनिरे तीरे तटिन्याः पटुक्रांतयः ॥ २२ ॥ उन्मज्जत्कुंभिकुंभा सा स्रवंती सैनिकाशयं । हरतिस्म चकोराक्षी यथा पीनोन्नमत्कुचा ॥ २३ ॥ नृपोपि निर्मितस्नानो हितदानैकतानधीः ॥ तत्रानर्च महाकालं--कालं दुष्कर्मवैरिणां ॥ २४ ॥ प्रविश्य मध्ये मेध्यश्री-विशालां तां निभालयन् । नैकशो विक्रमादित्यं सस्मार स्मेरविक्रमः ॥ २५ ॥ विनिर्वृत्तस्ततो विश्वां विशां स्वकरणात्तिनीं । सृजन् शौर्यवतां धुर्य श्चित्रकूट मकुट्टयत् ॥ २६ ॥ ततः स्फुटं नटन्मेद--पाटपाटनपाटवे । प्राप्यार्बुदाद्रिं सांद्रश्री स्तनावासान्न्यवेशयत् ॥ २७ ॥ प्रतीभबुद्ध्या बिंबान् स्वान् स्फाटिकीषु शिलास्विह । संपश्यतो ऽभवं स्तस्य सिंधुराः प्रधनोद्धुराः ॥ २८ ॥ हरिन्मणिगणस्यात्र प्रोल्लसंत्यो मरीचयः । नवदूर्वावणभ्रांतिं तद्धयानामजीजनन् ॥ २९ ॥ श्रमेण वर्मभिः सैन्यै रधिशाखं निवेशितैः । रेजिरे शैलराजस्य सुभटा इव शाखिनः ॥ ३० ॥ तत्र विश्रम्य विश्रम्य पादपानां तले तले । गीयमानानि भिल्लीभिः स्वयशांस्यशृणोन्नृपः ॥ ३१ ॥ घनधीध्याततन्भाग--प्रमोदिशिखिकूजितैः । जगाविवार्बुदो ऽमुष्य दिग्विजयप्रभवं यशः ॥ ३२ ॥ कुंभिकुंभमदांभोभि र्द्विगुणीकृतनिर्झरः । आरुह्य पृष्ठमस्याद्रे श्वारिमानमलोकत् ॥ ३३ ॥ वसतौ विमलात्मायं विमलस्याऽर्षभप्रभुं । ननाम नोत्तमानां हि चित्ते स्वपरकल्पना ॥ ३४ ॥
९ ] हम्मीरदेवदिग्विजयवर्णनम् ७५ तत्र श्रीवस्तुपालस्य कीर्तनं कलिकर्त्तनं । दृष्ट्वासौ विस्मितो नैक-वेलं मौलिमकंपयत् ॥ ३५ ॥ प्रणम्य महतीभक्तिः सर्वदामर्त्तुदां ततः । आश्रमेऽरुंधतीजाने र्विशश्राम क्षणं नृपः ॥ ३६ ॥ मंदाकिन्यां विधायोच्चैः क्षपनं शमनं रुजां । अपूजयज्जगत्पूज्य मथासावचलेश्वरम् ॥ ३७ ॥ साक्षाद्धनंजयस्येह धारातर्षस्य धन्वितां । निरीक्ष्य नृपतिर्जज्ञे विस्मयोत्तानलोचनः ॥ ३८ ॥ प्रचलद्धलपाथोधि-मैनाकीकृतवैरिणः । अत्राभूत्सर्वदो गर्वः सर्वदोस्यार्बुदेश्वरः ॥ ३९ ॥ ततोवतीर्य वर्यश्री र्निधनं वर्धनं पुरं । चंगामपि गलद्रंगां चक्रे चक्रेरिविक्रमः ॥ ४० ॥ अजयोपपदं मेरुं मध्ये कृत्य स कृत्यवित् । पुष्करं तीर्थमाराद्य दुष्करं पुण्यमर्जयत् ॥ ४१ ॥ आनर्च भूपस्तत्रादि-वराहाख्याधरं हरिं । चित्रं दशावतारोपि न यो दाहात्मतां गत ॥ ४२ ॥ प्रयाणपटहध्वान-प्रतिध्वनितकंदरान् । पश्यन्स्वकीर्तिगानैक-तानानिव धराधरान् ॥ ४३ ॥ ततः शाकंभरीद्वारि वारस्त्रीवारलोचनेः । अभून्निपीतलावण्य-सर्वस्वो वसुधेश्वरः ॥ ४४ ॥ अदसीयरिपुस्त्रीण-गलल्लोचनवारिभिः । तदादिलवणस्येह मन्ये खानिरजायत ॥ ४५ ॥- धस्तराष्ट्रं महाराष्ट्रं खंडिल्लं खंडितप्रभं । चंपां च विस्फुरत्कंपां भूपस्तदनु तेनिवान् ॥ ४६ ॥ ककरालं करालश्रि कृत्वाथास्यात्र तस्युप । श्रीमांस्त्रिभुवनाद्रींद्रो मिलद्दत्तमहोपदः ॥ ४७ ॥
७६ श्रीहम्मीरमहाकाव्ये [ सर्गः चतसृष्वपि दिक्ष्वेवं स्वाज्ञां राज्ञां स मौलिषु । मौलिलीलायितां बिभ्रन् स्वपुरोपांतमासदत् ॥ ४८ ॥ अमान् पुरांतरे पौर—रागांभोधिर्नृपागमे । चेलद्रक्तध्वजव्याजात् दधावुद्वेलतामिव ॥ ४९ ॥ द्वारि निर्यज्जनप्रौढ—द्युतिदिव्यांशुकच्छलात् । पुरमप्यहसत्स्फीत—प्रीतीवोपेयुषि प्रभौ ॥ ५० ॥ उदंचितकरैर्विप्रै र्दत्ताः शृण्वन्नथाशिषः । वंदिवृंदजयारावै र्मुखरीकृतदिङ्मुखः ॥ ५१ ॥ धर्मसिंहादिभिर्मुख्यै रम्येश्च प्रणतक्रमः । पुरं प्राविशदुर्वींदु र्तुच्छोत्सवसच्छविः ॥ ५२ ॥ उत्तंमिताः प्रतिद्वारं पौरैरुत्सववांछया । कलशा रेजिरे सद्य—श्रीणामुरासिजा इव ॥ ५३ ॥ स्फूर्जत्तूर्यावलीध्वानै राहूता इव सर्वतः । त्यक्तान्यकार्या नार्योथ द्रष्टुमेनं दधाविरे ॥ ५४ ॥ क्षिप्त्वैकं कुंडलं कर्णे करेऽन्या बिभ्रती परं । रेजे पुरः स्फुरच्चक्रा सेनेवानंगभूपतेः ॥ ५५ ॥ एकेनैव कटाक्षेण विश्वं जेतुमहं सहा । आख्यांतीवेत्यशोभिष्ट परैकांजितलोचना ॥ ५६ ॥ असमाप्ततयाऽन्यस्या वेणिः पंचांगुलीधृता । पद्मकोशविनिर्गच्छत्—भृंगश्रेणिभ्रमं दधौ ॥ ५७ ॥ दंतक्षतार्द्रा कस्याश्चिद्विद्रुते वीटिका करे । भालेनास्याजिता कृष्णा कृशा लेखेव सीतगोः ॥ ५८ ॥ उपरुध्य करेणैव वेगान्नीवीमसंयता । प्रस्थिताभात् परासादी वल्गुवल्गात्करो यथा ॥ ५९ ॥ प्रसाधिकाकरात्पादं रभसाक्षिप्य काचन । चचालालक्तकांकानु—मितांघ्रिस्पृष्टभूतला ॥ ६० ॥
९ ] हम्मीरदेवदिग्विजयवर्णनम् ७७ कुंभिकुंभेक्षणादात्म—स्तनापहतिशंकिनी । काचिदन्वेषयामास पाणिना स्वमुरो मुहुः ॥ ६१ ॥ सव्यांगभूषणं सव्ये—तरांगे विभ्रती परा । साम्यं मिथोऽनयोरेव स्माहेव जितविश्वयोः ॥ ६२ ॥ पश्यंत्युदंचितग्रीवं पादाग्राक्रांतभूः परा । विजेतुं कुंभिनः कुंभा निवाभादुन्नमत्कुचा ॥ ६३ ॥ धम्मिल्लबंधे कस्याश्चि दंगुल्यंतर्विनिर्गता । कलिका चंपकस्येव रेजे पत्रावलीवृता ॥ ६४ ॥ कराब्ज एव बिभ्राणा रेजेन्या कनकावलीं । यूनां नेत्रकुरंगाणां क्षेप्तुकामेव वागुरां ॥ ६५ ॥ सुप्रसाधितसव्यांघी रणद्भिर्नूपुरैः परा । अर्धनारीश्वरलोक—रागिणां रागमदधे ॥ ६६ ॥ शिरस्यपिहितेन्यस्या रक्षा वेणिमुखस्थिता । फणाभृतः फटाटोपे फणामणिरिवावभौ ॥ ६७ ॥ तानवं प्रापयन्मध्यं वक्षोजौ गौरवं नयत् । स्त्रीणामूर्ध्वस्थितं रेजे प्रभुशक्तिमिवाश्रितं ॥ ६८ ॥ दृग्द्वयेन पिबंत्योस्याऽसीमं लावण्यवारिधिं । जिग्युश्चुलुकयापीत—ससीमाऽब्धिं मुनिं स्त्रियः ॥ ६९ अवाप्तावसराः काश्चित्कटाक्षैर्विध्यधुर्नृपं । ता धानुष्क इवाऽमुष्य कामः कांडैर्व्यडंबयत् ॥ ७० ॥ पिबंत्यो नृपलावण्य—सुधां तृप्तिं न लेभिरे । तथापि शिरसः कंपं सद्यः काश्चन तेनिरे ॥ ७१ ॥ इत्थं पुरवरांगीभि र्मनोहृद्य दृगंचलैः । निपीयमानलावण्यः स स्वं प्रासादमासदत् ॥ ७२ ॥ अहितापकरस्फार—विक्रमाक्रांतभूतलः । अच्युतस्थितिरप्यासी न्न स कापि जनार्दनः ॥ ७३ ॥
७८ श्रीहम्मीरमहाकाव्ये, [ सर्गः व्याख्या धर्मार्थकामाख्याः पुरुषार्थास्त्रयोप्यमी । यथायोगमवाप्तात्मा ऽवसरांस्तं सिषेविरे ॥ ७४ ॥ अहिंसाटोपमाविभ्रद्विलसत्सर्वमंगलः । महेश्वरोपि तद्राज्ये न विषादी जनोऽद्भुतं ॥ ७५ ॥ कोटियज्ञफलं राज्ञा पृष्टोन्वेद्युः पुरोहितः । विश्वरूपाख्ययाख्यातो व्याचख्याविति तं पटुः ॥ ७६ ॥ जित्वा भुजबलेनोर्वी कोटियज्ञं यथोदितं । निर्निमाणो नृपः प्रीति-पात्रं स्यात् त्रिदिवश्रियाम् ॥ ७७ ॥ इति स्मृतिसुधांभोधि-छटाछोटपटुच्छविं । निशम्य तद्विरं भूपस्तं क्रतुं कर्तुमैहत ॥ ७८ ॥ आहूताः पुरुहूतेन ततो भूमेः प्रमोदिना । मिमिलुर्वाडवास्तत्र दुष्कर्मोदधिवाडवाः ॥ ७९ ॥ अंतःस्फुरच्चतुर्वेद-सुधांभोधेरिवोर्मयः । रेजिरेऽङ्गेषु विप्राणां गोपीचंदनभंगयः ॥ ८० ॥ नित्यस्नानवशात् पिंगी-भूतकुंतलकैतवात् । बिभ्राणैः परमं तेजः शिरस्यंतरमादिव ॥ ८१ ॥ द्विभ्रमक्षितरुद्राक्षा-क्षमालाव्यपदेशतः । भृंगैरिवांबुजभ्रांत्या लीनैर्भूषितपाणिभिः ॥ ८२ ॥ अंहोराशिपरित्रासि-काशीवासप्रकाशिभिः । आययानं परानंदवर्षिभिश्च महर्षिभिः ॥ ८३ ॥ त्रिभिर्विशेषकं ॥ मारेर्निवारणं सप्त व्यसनानां च वर्ज्जनं । मोक्षणं गुप्तिगुप्तानां प्रावर्त्तत तदा पुरे ॥ ८४ ॥ तोरणभूलतोत्तुंग-कल्याणकलशस्तनी । शुशुभे वेदिका तत्र यज्ञश्रीरिव देहिनी ॥ ८५ ॥ धूमस्तोममिषादूप-किल्बिषं विक्षिपन्निव । ज्वालाजिव्होत्र जज्वल ज्वालाजटिलितांबरः ॥ ८६ ॥
९] हम्मीरदेवयागवर्णनम् ७९ द्विजादेशान्नृपो यज्ञ—दीक्षामीक्षाकटाक्षितः । स कृतोपनिषद्देवी वेदीपाश्र्वमशिश्रियत् ॥ ८७ ॥ मंत्राहूतत्रयस्त्रिंश—द्धनुजद्वेषिकोटयः । जुह्वति स्म बृहद्भानौ वाडवा द्रव्यमंडलं ॥ ८८ ॥ वेदमंत्रानुभावात्सा रुचिना शुचिना ऽमुना । पिपिरे सर्पिषां विप्रा—र्पिताः स्फीताः परंपराः ॥ ८९ ॥ तदर्यास्यसुधायागात् दाहभीचकिता इव । आपतंत्यपि हव्यानि तदा जगृहिरे सुराः । ९० ॥ गायत्सु मधुरं वेदी—ऋचो विप्रेषु हर्षतः । चलत्कीलावलीव्याजा ननर्तेव हुताशनः ॥ ९१ ॥ नृपपुण्यप्रभावेण निःप्रत्यूहं द्विजेश्वराः । ययुः क्रतुक्रियापारं भवपारं तपस्विवत् ॥ ९२ ॥ हाटकानां ततः कोटिं क्षोणी.. ..गसंपदं । भूदेवेभ्यो नृदेवोऽदा दक्षिणां चारुलक्षणां ॥ ९३ ॥ नृपविश्राणितस्वर्ण—कूटेपु नटतो द्विजान् । निरीक्ष्य निर्जरा मेरु—क्रोडक्रीडामदं जहुः ॥ ९४ ॥ इहैव स्वर्णदानेन तथाऽभूतूपदार्थिनः । तान्विहायोच्चकैर्दातु नृपास्यित यथार्थता ॥ ९५ ॥ रत्नराशिप्रदं केचि त्केचित्पुष्कलनिष्कदं । गजदं वाजिदं केचित् श्रीहम्मीरं तदाम्तुवन् ॥ ९६ ॥ विश्राणनं सृजन् चिंता—कल्पनाकामनातिगं । स चिंतामणिकल्पद्रु—कामकुंभेष्वधात् घृणां ॥ ९७ ॥ सितोपलामिलन्मुग्ध—दुग्धादिरसपेशलं । राज्ञा तदा मुदा तेने प्राज्यं भोज्यं द्विजन्मनां ॥ ९८ ॥ ततः पुरोहितेनाभि—युक्तो युक्तं पुरोहितं । आददे नृपतिः प्रीतो मासमेकं मुनिव्रतं ॥ ९९ ॥
८० श्रीहम्मीरमहाकाव्ये [ सर्गः इतश्च शत्रुहृद्द्लचां दिल्लचां शकमतल्लिका । बभूवाल्लावदीनाख्यो व्याख्यातः शौर्यवतां धुरि ॥ १०० ॥ ज्ञातभूपस्वरूपेण तदा तेन स्वसोदरः । उल्लूखानाऽख्यया ख्यातो जगदे जगदेकजित् ॥ १०१ ॥ रणस्तंभपुराधीशो जैत्रसिंहोऽभवत्पुरा । प्रददौ स सदा दंडं मम चंडौजसो भयात् ॥ १०२ ॥ हम्मीरनामा तत्सूनु रधुनाऽखर्वगर्ववान् । दंडं दूरत एवास्तु न वाक्यमपि यच्छति ॥ १०३ ॥ स महौजस्तया शक्यो जेतुं नाभूदियच्चिरं । व्रतेस्थितिर्तयेदानीं लीलयैव विजीयते ॥ १०४ ॥ तद्गत्वास्यारणस्तंभ—तलं देशं विनाशय । हते देशे स संस्थातुं सासहिः कति वासरान् ॥ १०५ ॥ इत्यवाप्य प्रभोराज्ञा—मुल्लूखानोयमर्पणः । प्रतस्थेष्टायुतीमाना—श्ववारस्फारविक्रमः ॥ १०६ ॥ रंगत्तुरंगतुंगोर्मि गर्जद्द्विरदवारिदः । शाणोलेखितशस्त्रौर्वी रेजेऽस्य बलवारिधिः ॥ १०७ ॥ भुग्नयन् बलभारेण फटाटोपं स वासुकेः । प्रवेष्टुमक्षमोभ्यंत—र्वर्णनाशातटे स्थितः १०८ ॥ ज्वालयन्मुद्गसान् ग्रामान् आर्द्रवह्वांश्च चारयन् । आसन्नाष्टादशान् घस्रान् सुखेनैषोत्यवाहयत् ॥ १०९ ॥ त्रिशुद्ध्योच्चात्तव्रतत्वेन जोषं तस्थुषि भूपतौ । भीमसिंहोथ सेनानी—र्धर्मसिंहधियोद्धुरः ॥ ११० ॥- उत्फालसमरोत्ताल—वीरवाराकुलं बलं । सहादाय महावीर्य श्चाचालारिबलं प्रति ॥ १११ ॥ युग्मं ॥ चाहमानबलेवाद्य—माननिस्नाननिस्वनन् । निशम्य व्याकुलीभावं शिबिरे दधिरे शकाः ॥ ११२ ॥