भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ
७२किरातार्जुनीयम्

नुसारण धियं = चित्तवृत्तिम् । प्रणिधाय = नियम्य । मुनितां = मुनित्वम् । दधतः = धारयतः । पुरातनमुनेः = अर्जुनस्य । असुकरम् = दुष्करम् । तपःश्रमं = खेदम् । न आदधौ = न चकार । आत्मवताम् = मनस्विनाम् । अवसादकरं = खेदकरम् । किम् इव = नास्ति किञ्चिदपि । अत्रार्थान्तरन्यासङ्कारः ।

कोषः—'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।' इत्यमरः ।

**हिन्दी—**इसके बाद इन्द्रकील पर्वत पर योगशास्त्रानुकूल चित्तवृत्ति का नियमन (निरोध) करके अर्जुन को कठिन तप का श्रम नही हुआ । मनस्वी पुरुषों को दुःखदायी (कष्टकर) कुछ भी नही होता है ॥ १९ ॥

शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥ २० ॥

**अन्वयः—**धृतेन्द्रियशमैकसुखः शुचिभिः गुणैः अघमयं तमः शमयन् विमलः प्रतिवासरं सुकृतिभिः कलाभिः शीतरुचिः इव ववृधे ।

**विग्रहः—**धृतमिन्द्रियशमः एव एकं सुखं येन सः = धृतेन्द्रियशमैकसुखः। वासरं वासरं = प्रतिवासरम् । शीताः रुच्यः यस्य सः शीतरुचिः ।

**अर्थः—**धृतेन्द्रियशमैकसुखः = धृतविषयव्यावृत्त्येकसुखः । शुचिभिः = निर्मलैः । गुणैः = मंत्र्यादिगुणैः । अघमयम् = पापरूपम् । तमः = अज्ञानम् । शमयन् = निवर्तयन् । विमलः = अमलिनः । सः = अर्जुनः । प्रतिवासरं = प्रतिदिनम् । सुकृतिभिः = सुकृतैः, तपोभिरित्यर्थः । कलाभिः = किरणैः । शीतरुचिः = सुधांशुः । इव = समम् । ववृधे = वृद्धिं प्राप ।

कोषः—'कला तु षोडशो भागो विम्बोऽस्त्री' इत्यमरः ।

**हिन्दी—**जिस प्रकार शुभ्र चन्द्रमा इन्द्रिय-ताप को मिटाकर, अपनी कलाओं से अन्धकार मिटाता हुआ बढ़ता रहता है उसी प्रकार अर्जुन ने अपनी इन्द्रियों को नियमित कर सुख प्राप्त किया ओर वह अपने मैत्री आदि गुणों के द्वारा पापकार अज्ञान को नष्ट करते हुए अपने सुकर्मों से नित्य प्रति बढ़ने लगे ॥ २० ॥

अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ २१ ॥

**अन्वयः—**विवेकगुणात् अगुणेपु धियम् अस्तवतः तस्य निरुपप्लवः शमसुखानुभवः च प्रतिघातिनीं विषयसङ्गरतिम् अधरीचकार ।

षष्ठः सर्गः ७३

**विग्रहः--**विवेक एव गुणः, तस्मात् = विवेकगुणात् । निर्गतः उपप्लवः यस्मात् सः निरुपप्लवः । शम एव सुखम् = शमसुखम् तस्य अनुभवः = शमसुखानुभवः । विषयाणां सङ्गः = विषयसंगः = तस्मिन् रतिस्ताम् = विषयसङ्गरतिम् ।

**अर्थः--**विवेकगुणात् = तत्त्वावधारणात् । अन्येषु = कामक्रोधादिदुर्गुणेषु । धियम् = बुद्धिम् । अस्तवतः = निवारितवतः । तस्य = अर्जुनस्य । निरुपप्लवः = निर्बाधः । शमसुखानुभवः = शान्त्यानन्दानुभवः । च । प्रतिघातिनों = सोपप्लवाम् । विषयसङ्गरतिम् = शब्दानुपयोगरुचिम् । अधरीचकार = विषयनिस्पृहम् चकार ।

कोषः--'ओष्ठाधरो तु रदनच्छदौ दशनवाससी' इत्यमरः ।

**हिन्दी:--**तत्त्वज्ञान के अवधारण से काम क्रोधादि दुर्गुणों में लगी हुई बुद्धि को उससे अलग करनेवाले अर्जुन के निर्बाध शम-सुखानुभव ने अपनी विरोधिनी विषय-सङ्गरति को नीचे कर दिया अर्थात् तपः-कर्म के द्वारा विषयादिरति को पराजित कर दिया ॥ २१ ॥

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः ।
सहजेतरौ जयशमौ दधती बिभराम्बभूव युगपन्महसी ॥ २२ ॥

अन्वयः-- प्रयतः मनसा जपैः प्रणतिभिः दिवः अधिपतिं समुपेयिवान् सः सहजेतरौ जयशमौ दधती महसी युगपद् बिभराम्बभूव ।

विग्रहः-- सहजः इतरश्च = सहजेतरौ । जीयते अनेन इति जयः । शम्यते अनेन इति शमः जयश्च शमश्च = जयशमौ ।

**अर्थः--**प्रयतः = हिंसादिविरतः । मनसा = ध्यानेन । जपैः = विशिष्टमन्त्राभ्यासैः । प्रणतिभिः = नमस्कारैः । दिवः = स्वर्गस्य । अधिपतिम् = स्वामिनम् इन्द्रम् । समुपेयिवान् = उपसेदिवान् । सः = अर्जुनः । सहजेतरौ = प्राकृतिकागन्तुको । जयशमौ = वीरशान्तरसौ । दधती = पुष्णती । महसी = तेजसी, युगपद् = सहैव । बिभराम्बभूव = बभार ।

कोषः--'शमथस्तु शमः शान्तिः' इत्यमरः ।

**हिन्दी--**हिंसादि कार्यों से विरत अर्जुन ने स्वर्गाधिपति इन्द्र की प्राप्ति के लिए ध्यान से तथा जप व नमस्कारादि क्रियाओं से सहज और अजित वीर व

७४ | किरातार्जुनीयम्

शान्त रसों को धारण किया। वीर और शान्तरस मय तेजों से युक्त होते हुए अर्जुन के द्वारा एक साथ ही शोभित हुए ॥ २२ ॥

शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जयः।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्द्धनि तमालतरौ ॥ २३ ॥

अन्वयः—हरिन्मणिनिभः अभिषवेण कृतजन्मनः जटाः शिरसा वहन् सः अरुणदीधितिभिः परिमृष्टमूर्द्धनि तमालतरौ उपमां ययौ।

विग्रहः—कृतानि जन्मानि याभिस्ताः = कृतजन्मनः । अरुणैः दीधितिभिः = अरुणदीधितिभिः । परिमृष्टा मूर्द्धा यस्य तस्मिन् = परिमृष्टमूर्द्धनि । तमालस्य तरुः तस्मिन् = तमालतरौ ।

अर्थः—हरिन्मणिनिभः = मरकतमणिसदृशः । अभिषवेण = स्नानेन । कृतजन्मनः = उत्पन्नाः । जटाः = सटा । शिरसा = मूर्ध्ना । वहन् = धारयन् । सः = अर्जुनः । अरुणदीधितिभिः = अरुणकिरणैः । परिमृष्टमूर्द्धनि = व्याप्तशिरसि । तमालतरौ = तमालवृक्षे । उपमाम् = साम्यम् । ययौ = अगच्छत् ।

कोषः—'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ।' इत्यमरः ।

हिन्दी—मरकतमणि के समान कान्तिमान, स्नान के द्वारा पिङ्गळी बनी हुई जटाओं को शिरपर धारण किये अर्जुन अरुण-किरणों से व्याप्त तमाल वृक्ष के समान दिखलाई पड़ रहे थे ॥ २३ ॥

धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः ।
रमयाञ्चकार विरजाः स मृगान् कमिवेशते रमयितुं न गुणाः ॥ २४ ॥

अन्वयः—धृतहेतिः अपि अधृतजिह्ममतिः शुचिभिः चरितैः मुनीन् अधरयन् विरजाः सः मृगान् रमयाञ्चकार । गुणाः कम् इव रमयितुम् नेशते ।

विग्रहः — धृतः हेतिः येन सः = धृतहेतिः । न धृता = अधृता जिह्मा मतिः येन सः = अधृतजिह्ममतिः ।

अर्थः—धृतहेतिः = धृतायुधः । अपि । अधृतजिह्ममतिः = कुटिलमतिरहितः । शुचिभिः = पवित्रैः । चरितैः = चरित्रैः । मुनीन् = महर्षीन् । अधरयन् = तिरस्कुर्वन् । विरजाः = रजोगुणरहितः सः = अर्जुनः । मृगान् = हरिणान् । रमयाञ्चकार = रमयामास । गुणाः = दयादिगुणाः । कमिव रमयितुं न ईशते = कं न वशीकुर्वन्ति । अत्रार्थान्तरन्यासङ्कारः ।

षष्ठः सर्गः | ७५

कोषः— 'सोमो ऽमृताङ्कः कलानिधिः' इत्यमरः ।

हिन्दी— आयुध धारण किये होने पर भी सरलमति वाले, रजोगुण से रहित तथा पवित्र आचरणों से मुनियों को जीतते हुए अर्जुन ने हिरणों को प्रसन्न कर लिया । गुण किसे नहीं प्रसन्न कर लेते हैं ॥ २४ ॥


अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् ।
अवधीरिताऽऽर्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥२५॥

अन्वयः— अनुकूलपातिनम् अचण्डगतिं सुगन्धि पवनम् अभितः किरता अवधीरिताऽऽर्तवगुणम् अंशुमतः रुचां निचय सुखता नयता ।

विग्रहः— अनुकूलं पततीति तम् = अनुकूलपातिनम् । नास्ति चण्डा गतिः यस्य तम् = अचण्डगतिम् । ऋतुरस्य प्राप्त आर्तवः । आर्तवश्वासौ गुणः = आतवगुणः । अवधीरिताः आतवगुणः यस्य तम् = अवधीरिताऽऽर्तवगुणम् ।

अर्थः—

  • अनुकूलपातिनम् = अनुसारपातिनम् ।
  • अचण्डगतिम् = चण्डगतिरहितं, मन्दगामिनमित्यर्थः ।
  • सुगन्धिम् = सुरभियुक्तम् ।
  • पवनम् = वायुम् ।
  • अभितः = परितः ।
  • किरता = प्रवर्तयता ।
  • अवधीरिताऽऽर्तवगुणम् = तिरस्कृतातपस्वरूपम् ।
  • अंशुमतः = सूर्यस्य ।
  • रुचां = किरणानाम् ।
  • निचयम् = राशिम् ।
  • सुखता = सुखस्पर्शताम् ।
  • नयता = प्रापयता ।

कोष— 'इनो भगो धामनिधिस्त्वंशुमाल्यब्जिनीपतिः ।' इत्यमरः ।

हिन्दीः— अनुकूल चलती हुई मन्द सुगन्धित वायु को चारों ओर फैलाते हुए तपश्चरण (तपस्या) ने ग्रीष्मकालीन गर्मी को तिरस्कृत करके सूर्य की किरण-राशि को सुखकर बना दिया । २५ ॥


नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून गमयताऽवनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥ २६ ॥

अन्वयः— प्रचये नवपल्लवाञ्जलिभृतः बृहतः तरून् अवनति गमयता प्रतिनिशं शयनीयताम् उपयतीं वसुधां मृदुभिः तृणैः स्तृणता ।

विग्रहः— नवाः पल्लवाः एव अञ्जलयः, तान् बिभ्रतीति तान् = नवपल्लवाञ्जलिभृतः । निशि निशि = प्रतिनिशम् ।

अर्थः—

  • प्रचये = पुष्पावचयप्रसङ्गे ।
  • नवपल्लवाञ्जलिभृतः = नूतनकुसुमाञ्जलिधारिणः ।
  • बृहतः = विस्तीर्णान् ।
  • तरून् = पादपान् ।
  • अवनतिम् = नम्रताम् ।
७६किरातार्जुनीयम्

गमयता = प्रापयता। प्रतिनिशं = निशिनिशि । शयनीयतां = तल्पत्वम् । उपयती = गतवती, वसुधां = भूमिम् । मृदुभिः = कोमलैः । तृणैः = घासादिभिः । स्तृणयता = आच्छादयता।

कोषः—‘वसुधोर्वी वसुन्धरा’ इत्यमरः ।

**हिन्दी:—**तप के प्रभाव से अर्जुन के द्वारा (पूजार्थ) फूल चुनते समय ऊँचे-ऊँचे नवपल्लवों तथा फूलों से लदे हुए वृक्ष भी झुक आते थे । शयनस्थली बनी हुई वसुधा प्रतिरात्रि कोमल घास से आच्छादित होकर अर्जुन के लिये आनन्ददायक पलंग के समान हो जाती थी ॥ २६ ॥


पतितेरपेतजलदान्नभसः पृषतेरपां शमयता च रजः ।
स दयालुनेव परिगाढकृशः परिचर्ययाऽनुजगृहे तपसा ॥ २७ ॥

**अन्वयः—**अपेतजलदात् नभसः पतितैः अपां पृषतैः रजः च शमयता तपसा दयालुना इव परिगाढकृशः सः परिचर्यया अनुजगृहे ।

**विग्रहः—**अपेतः जलदः यस्मात्, तस्मात् = अपेतजलदात् । दयते तच्छीलं = दयालुः तेन = दयालुना । परिगाढं कृशः यः सः = परिगाढकृशः ।

**अर्थः—**अपेतजलदात् = निरभ्रात् । नभसः = आकाशात् । पतितैः = पतनशीलैः । अपा = जलानां । पृषतैः = बिन्दुभिः । रजः = धूलिम् । च । शमयता = शमनं कुर्वता । तपसा = तपश्चरणेन । दयालुना इव = कृपालुना सदृशः । परिगाढकृशः = अतीवशोणः । सः = अर्जुनः । परिचर्यया = शुश्रूषया । अनुजगृहे = अनुगृहीतः । अत्रोत्प्रेक्षालङ्कारः ।

**हिन्दी:—**अर्जुन की तपस्या ने निरभ्राकाश से जल की बूँदें टपका कर धूल को शान्त कर दिया था । इस प्रकार सेवा-शुश्रूषा के द्वारा दयालु पुरुष के समान अत्यन्त दुर्बल बने हुए अर्जुन को उसने अनुगृहीत कर दिया ॥ २७ ॥


महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।
न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यमनुभावगुणः ॥ २८ ॥

**अन्वयः—**सः महते फलाय तत् शिवम् विकसन्निमित्तकुसुमं पुरः अवेक्ष्य विस्मयवशं न जगाम । वशिनाम् अनुभावगुणः धैर्यम् न निहन्ति ।

**विग्रहः—**विकसत् तन्निमित्तम् एव कुसुमम् तत् = विकसन्निमित्तकुसुमम् । विस्मयस्य वशं = विस्मयवशम् । अनुभाव एव गुणः = अनुभावगुणः ।

षष्ठः सर्गः ७७

अर्थः-सः = अर्जुनः महते = बृहते । फलाय = श्रेयसे, सस्याय च । तत् = पूर्वोक्तम् । शिवम् = कल्याणकारि । विकसन्निमित्तकुसुमम् = विकच-निमित्तपुष्पम् । पुरः = अग्रे । अवेक्ष्य = दृष्ट्वा । विस्मयवशं = आश्चर्यवशम् । न जगाम = नागच्छत् । वशिनां = जितेन्द्रियाणाम् । अनुभावगुणः = अनुभाव-रूपो गुणः । धैर्यम् = धृतिम् । न निहन्ति = न नाशयति । अत्रार्थान्तर-न्यासा-लङ्कारः ।

कोषः-‘विस्मयोऽद्भुतमाश्चर्यम्’ इत्यमरः ।

हिन्दी:-अर्जुन महान् फलरूपी सिद्धि प्राप्त करने को उद्यत थे तथापि विकसित होते हुए कार्यसिद्धि-निमित्तक कुसुम (चिह्न) को सामने देखकर विस्मित नहीं हुए। जितेन्द्रिय पुरुषों का अनुभाव गुण उन्हें धैर्यच्युत नहीं करता है ॥ २८ ॥


तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवमनन्यभवम् ।
उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ २९ ॥

अन्वयः-सुकृतैः अभूरिवासरकृतं तद् वैभवम् अनन्यभवम् उपलभ्य आस्थितविषादधियः वनचराः शतयज्वनः वसतिम् उपतस्थुः ।

विग्रहः-अभूरिभिः एव वासरैः कृतम् = अभूरिवासरकृतम् । अन्यस्य न भवतीत्यनन्यभवम् । आस्थितः विषादः यासु ताः = आस्थितविषादाः धियः येषां ते = आस्थितविषादधियः । वने चरन्तीति = वनचराः । शतस्य मखानां यज्वा, तस्य = शतयज्वनः ।

अर्थः-सुकृतैः = तपोभिः करणैः । अभूरिवासरकृतम् = कतिपयदिना-कृतम् । तत् = पूर्वोक्तम् । वैभवम् = ऐश्वर्यम् । अनन्यभवम् = अन्यस्यासम्भ-वम् । उपलभ्य = निश्चित्य । आस्थितविषादधियः = प्राप्तखेदबुद्धयः । वन-चराः = काननचराः । शतयज्वनः = इन्द्रस्य । वसतिम् = वासम् । उपतस्थुः = प्रापुः ।

कोषः-‘यज्वा तु विधिनेष्टवान्’ इत्यमरः ।

हिन्दी- तपश्चरण आदि सुकृतों के द्वारा थोड़े ही दिनों में जो ऐश्वर्य प्राप्त कर लिया है वह दूसरों के लिए असम्भव है। यह बात सोच कर खिन्न होकर वनेचर शतक्रतु इन्द्र के लोक (अमरावती) को गये ॥ २९ ॥

७८ किरातार्जुनीयम्

विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ ।
अनपेतकालमभिरामकथाः कथयाम्बभूवुरिति गोत्रभिदे ॥ ३० ॥

अन्वयः—इति विदिताः प्रविश्य विहितानतयः अधिकृतकृत्यविधौ शिथिलीकृते अनपेतकालं गोत्रभिदे अभिरामकथाः कथयाम्बभूवुः ।

विग्रहः—विहिताः आनतयः यैस्ते = विहितानतयः । अधिकृतस्य कृत्यस्य विधौ=अधिकृतकृत्यविधौ । न अपेतः कालो यस्य तदनपेतकालम् । गोत्रं भिनत्तीति गोत्रभित्तस्मै = गोत्रभिदे । अभिरमन्ते जना यत्राभिरामाः याः कथास्ताः = अभिरामकथाः ।

अर्थः—इति=इत्थं, वनचराः । विदिताः=ज्ञाताः । प्रविश्य, अमरावत्यामिति शेषः । विहितानतयः = कृतप्रणतयः । अधिकृतकृत्यविधौ = नियुक्तमनुष्ठाने । शिथिलीकृते = शैथिल्यं यात सति । अनपेतकालम् = अनतिक्रान्तकालम् । गोत्रभिदे = इन्द्राय । अभिरामकथाः=भव्यवाचः । कथयाम्बभूवुः = कथयामासुः ।

कोषः—'सुत्रामा गोत्रभिद् वज्री वासवो वृत्रहा वृषा ।' इत्यमरः ।

हिन्दी—उन वनचरों ने आज्ञा लेकर अमरावती में प्रवेश किया । वे वनसुरक्षा कार्य को छोड़कर आये थे अतः व्यर्थ समय न गँवाकर इन्द्रको प्रणाम करके कर्णसुखद वचनों को कहने लगे ॥ ३० ॥


शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः ।
महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपञ्जगतीम् ॥ ३१ ॥

अन्वयः—मघवन् शुचिवल्कवीततनुः तिमिरच्छिदाम् अन्यतमः इव अनघः पुरुषः भवतः गिरौ जगतीं तपन् महते जयाय तपस्यति ।

विग्रहः—शुचिना वल्केन वीता तनुः यस्य सः = शुचिवल्कवीततनुः । तिमिरं छिन्दन्तीति = तिमिरच्छिदस्तेषां = तिमिरच्छिदाम् । नास्ति अघः यस्मिन् सः = अनघः ।

अर्थः—मघवन् ! = अयि देवराज ! । शुचिवल्कवीततनुः = पूतवल्कलाच्छादितशरीरः । तिमिरच्छिदाम् = सूर्यादीनाम् । अन्यतमः = विशिष्टः । इव । अनघः पुरुषः = अपापो नरः । भवतः = श्रीमतः । गिरौ = पर्वते इन्द्रकीले । जगती = पृथ्वीम् । तपन् = तापयन् । महते जयाय = बृहते जयाय । तपस्यति=तपश्चरति । अत्रोत्प्रेक्षाऽलङ्कारः ।

˙षष्ठः सर्गः ७९

कोषः--'भूतधात्री रत्नगर्भा जगती सागराम्बरा' । इत्यमरः । **हिन्दीः--**हे देवराज ! स्वच्छवल्कल धारण किये हुए तिमिरनाशक सूर्या- दिके समान ही कोई पवित्र पुरुष आपके इन्द्रकील पर्वत पर पृथ्वी को तपाता हुआ महान् विजय के लिए तपस्या कर रहा है ॥ ३१ ॥

जयाय तपस्यति इत्युक्तम् । तत्र हेतुमाह—

स बिभर्ति भीषणभुजङ्गभुजः पृथु विद्विषां भयविधायि धनुः ।
अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ॥ ३२ ॥

**अन्वयः—**भीषणभुजङ्गभुजः सः विद्विषां भयविधायि पृथु धनुः बिभर्ति, अमलेन तस्य चरितेन धृतसच्चरिताः मुनयः अतिशयिता ।

**विग्रहः—**भीषयते इति भीषणौ । तौ च तौ भुजङ्गौ च ताविव भुजौ यस्य सः भीषणभुजङ्गभुजः । भयं विधीयत अनेन तत् = भयविधायि । नास्ति मल-यस्मिंस्तेन = अमलेन । धृतानि सच्चरितानि यैस्ते = धृतसच्चरिताः ।

**अर्थः—**भीषणभुजङ्गभुजः = भयङ्करसर्पबाहुः । सः = तपस्वी । विद्विषां = शत्रूणाम् । भयविधायि = भयकारकम् । पृथु = विशालम् । धनुः = चापम् । बिभर्ति = धारयति । अमलेन = विशुद्धेन । तस्य = तपस्विनः । चरितेन = वृत्तेन, आचरणेन वा । धृतसच्चरिता = धृतसदाचाराः । मुनयः = महर्षयः । अतिशयिताः = अतिक्रान्ताः ।

कोषः—'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।' इत्यमरः ।

**हिन्दीः-**भीषण सर्प के समान भुजाओ वाला वह तपस्वी शत्रुओं को डराने-वाले विशाल धनुष को भी धारण किये हुए हैं । उनके स्वच्छ, पवित्र आचरण से सच्चरित्रता को धारण करनेवाले महर्षि लोग भी पराभूत हो गये हैं ॥ ३२ ॥

अथास्य तपःसिद्धिं वर्णयति—

मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् ।
गुणसम्पदाऽनुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥ ३३ ॥

**अन्वयः—**मरुतः शिवाः, जगति नवतृणा, नभः विमलं रजसि अपां वृष्टिः । अस्य गुणसम्पदा अनुगुणतां गमितः भूतगणः भक्तिम् इव कुरुते ॥ ३३ ॥

**विग्रहः—**नवानि तृणानि सन्ति यस्यां सा नवतृणा । गुणानां सम्पद तया गुणसम्पदा । भूताना गणः = भूतगणः ।

८० | किरातार्जुनीयम्

अर्थः— मरुतः=पवनः। शिवाः=कल्याणकराः, सुखकराश्च। जगती=पृथ्वी, नवतृणा=नूतनतृणसम्पन्ना। नभः=गगनम्। विमलम्=स्वच्छम्। रजांसि (सति )=धूलो। अपां वृष्टिः (भवतीति शेषः)। अस्य = तपस्विनः। गुणसम्पदा = गुणसम्पत्त्या। अनुगुणता = अनुकूलगुणत्वम्। गमितः = प्रापितः। भूतगणः = पृथ्व्यप्तेजोवाय्वाकाशकम्। भक्ति=सेवाम्। इव कुरुते=करोति। अत्रोत्प्रेक्षालङ्कारः।

कोषः— 'समीरमारुतमरुज्जगत्प्राणसमीरणाः।' इत्यमरः।

हिन्दी— उसके तप से प्रभावित होकर पृथ्व्यादि पञ्चभूत तो लगता है कि तपस्वी के सेवक बन गये हों। यथा—वायु सुखकर ही बहती है, पृथ्वी हरी घास से आच्छादित हो गई है, आकाश निर्मल रहता है और धूल उड़ने पर जलवृष्टि हो जाती है जिससे धूल भी बैठ जाती है। अर्थात् पञ्चभूत भी उसके तप में सहायक से बन गये हैं ॥ ३३ ॥


इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः ।
विनयन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ ३४ ॥

अन्वयः— मृगाः तम् अन्तसदः गुरुम् इव इतरेतरान् अभिभवेन उपासते। प्रचये तरवः अस्य विनयन्ति। सः नगः भवता इव तेन परवान्।

विग्रहः— अन्ते सीदन्तीत्यन्तसदः। इतरान् इतरान् = इतरेतरान्।

अर्थः— मृगाः = हरिणादयः। तम् = तपस्विनम्। अन्तसदः = अन्तेवासिनः शिष्याः। गुरुम् इव = गुरुसदृशम्। इतरेतरान् = अन्यान् अन्यान्। अभिभवेन् = अद्रोहेण। उपासते = सेवन्ते। प्रचये = पुष्पावचये। तरवः = वृक्षाः। अस्य = तपस्विनः। विनयन्ति = नम्रतां यान्ति, करप्रचेया भवन्ति इत्यर्थः। सः = इन्द्रकीलाख्यः। नगः = पर्वततः। भवता = धीमता, शक्रेण इव। तेन = पुरुषेण। परवान् = पराधीनः। बभूवेति शेषः।

कोषः— 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः।' इत्यमरः।

हिन्दी— हे महाराज ! हरिणादि पशु भी अपने आपसी वैरभावों को छोड़कर उसी प्रकार उस तपस्वी की सेवा करते हैं यथा विद्यार्थीगण गुरु की किया करते हैं। पूजार्थ फूल चुनते समय वृक्ष अपनी शाखाएँ झुका देते हैं जिससे कि फूल तोड़ने में उसे सरलता हो जावे। इन्द्रकील पर्वत को आपके समान ही उस तपस्वी ने भी स्वाधीन कर लिया है ॥ ३४ ॥

षष्ठः सर्गः ८१

उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसङ्गमने विभुतानुषङ्गि भयमेति जनः ॥ ३५ ॥

अन्वयः—विपरिश्रमता उरु सत्त्वम् आह। परमं वपुः जयं प्रथयति इव शमिनः अपि तस्य नवसङ्गमने जनः विभुतानुषङ्गि भयम् एति ।

विग्रहः—परिश्रमस्य भावः परिश्रमता । विगता परिश्रमता=विपरिश्रमता । नवं च तत् सङ्गमनं तस्मिन् = नवसङ्गमने । विभुतायाः अनुषङ्गि = विभुतानुषङ्गि ।

अर्थः—विपरिश्रमता = आयासेऽपि श्रमराहित्यम् । उरु = महत् । सत्त्वम् = अन्तःसारम् । आह = प्राह । परमं = विशालं । वपुः=शरीरम् । जयम् = विजयं । प्रथयति इव = प्रकटयतीव । शमिनः = जितेन्द्रियस्यापि । तस्य = तपस्विनः । नवसङ्गमने = अपूर्वप्राप्तौ । जनः = लोकः । विभुतानुषङ्गि = प्रभावव्यापकम् । भयम् = भीतम् । एति = गच्छति ॥ ३५ ॥

कोष—‘गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।’ इत्यमरः ।

हिन्दी—वह परिश्रम से थकता नहीं है अतएव वह बलिष्ठ है । उसके विशाल शरीर से ही यह प्रकट होता है कि विजयी पुरुष है । यद्यपि वह इन्द्रियों का शमन कर रहा है तथापि उससे प्रथम बार मिलने पर व्यक्ति उसके वैभव ( ऐश्वर्य ) से भयभीत हो जाता है । ३५ ॥

अथ इदृशोऽसौ कः इति चेत्तन्न विद्मः इत्याहुः—

ऋषिवंशजः स यदि दैत्यकुले यदि वाऽन्वये महति भूमिभृताम् ।
चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् ॥ ३६ ॥

अन्वयः—स ऋषिवंशजः, यदि वा दैत्यकुले, यदि वा भूमिभृतां महति अन्वये। तव वनेषु तपः चरतः अस्य गतिम् निरूपयितुम् वयम् न सहाः।

विग्रहः—ऋषीणां वंशे जातः=ऋषिवंशजः । दैत्यानां कुलम् तस्मिन् = दैत्यकुले । भूमिं बिभ्रतीति तेषाम् = भूमिभृताम् ।

अर्थ—सः तपस्वी । ऋषिवंशजः = मुनिकुलोत्पन्नः । यदि वा = अथवा । दैत्यकुले = राक्षसवंशे । जातः इति शेषः । यदि वा = अथवा । भूमिभृताम् = राज्ञाम् । महति = विशाले । अन्वये=वंशे । जातः इति शेषः । तव = शक्रस्य । वनेषु = काननेषु । तपश्चरतः = तपस्यां कुर्वतः । अस्य = तपस्विनः । गतिम् =

६ कि०

८२ | किरातार्जुनीयम्

स्वरूपम्। वयम् = वनरक्षकाः । निरूपयितुम् = निरूपणं कर्तुम् । न सहाः = न समर्थाः स्मः ॥ ३६ ॥

कोष:—'राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः' इत्यमरः ।

**हिन्दी—**हे महाराज ! न जाने वह ऋषिकुल में उत्पन्न हुआ है अथवा दैत्यकुल में, अथवा राजाओं के किसी विशाल वंश में । आपके वनों में तपस्या करते हुए उस तपस्वी की गतिविधि जान पाने में हमलोग असमर्थ हैं ॥ ३६ ॥

अपृष्टपरिभाषणापराधं परिहरन्ति—

विगणय्य कारणमनेकगुणं निजयाऽथवा कथितमल्पतया । असदप्यदः सहितुमर्हसि नः क्व वनेचराः क्व निपुणा यतयः ॥ ३७ ॥

**अन्वयः—**अनेकगुणं कारणं विगणय्य अथवा निजया अल्पतया कथितं नः अदः असद् अपि सहितुम् अर्हसि । वनेचराः क्व ? निपुणाः यतयः क्व ?

**विग्रहः—**अनेक गुणाः यस्मिंस्तत् = अनेकगुणम् । यतन्त इति = यतयः ।

**अर्थः—**अनेकगुणम् = बहुफलम् । कारणम् = तपोरूपम् । विगणय्य = विचार्य । अथवा = वा । निजया = स्वीयया । अल्पतया = अल्पज्ञानत्वेन । कथितम् = भणितम् । नः = अस्माकम् । अदः = इदम् । असत् = असाधु । अपि । सहितुम् = सोढुम् । अर्हसि = समर्थोऽसि । वनेचराः = वन्याः क्व । (वयम्) निपुणाः=प्रवीणाः । यतयः=संन्यासिनः क्व । नोभयं सङ्गच्छत इत्यर्थः । अत्रार्थान्तरन्यासोऽलङ्कारः ॥ ३७ ॥

कोष—'ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते' इत्यमरः ।

**हिन्दी—**हे इन्द्रदेव ! उसके तप का क्या कारण है ? इस पर अपनी अल्प बुद्धि से अनेक प्रकार के अनुमान करके यदि हम लोगों ने कुछ अनुचित भी कह दिया हो तो आप उसे क्षमा करने में समर्थ हैं । कहाँ तो हम जङ्गली लोग ! और कहाँ वे ज्ञानी यति ? हम लोग यतियों का वर्णन करने में नितान्त अयोग्य हैं ॥ ३७ ॥

अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ ३८ ॥

**अन्वयः—**मघवा इति गुह्यकगणात् तन्मनसः प्रियं प्रियसुतस्य तपः अधिगम्य उदितं हर्षं निजुगोप । हि प्रभवतां धियः नयवर्त्मगाः ।

षष्ठः सर्गः ८३

विग्रहः— तस्य मनसः = तन्मनसः । प्रियश्चासौ सुतः, तस्य = प्रियसुतस्य । नयस्य वर्त्म, तस्मिन् गच्छन्तीति = नयवर्त्मगाः ।

अर्थ— मघवा = इन्द्रः । इति = पूर्वोक्तम् । गुह्यकगणात् = यक्षसमूहात् । तन्मनसः = तच्चेतसः । प्रियं = प्रीतिकरम् । प्रियसुतस्य = अर्जुनस्य । तपः = तपश्चर्याम् । अधिगत्य = ज्ञात्वा । उदितं = प्रकटितं । हर्षं = मोदम् । निजुगोप = गोपथामास । हि = यतः । प्रभवताम् = प्रभूणाम् । धियः = बुद्धयः । नयवर्त्मगाः नयपथगाः । भवन्तीति शेषः । अत्रार्थान्तरन्यासालङ्कारः ।

कोषः— 'इन्द्रो मरुत्वान् मघवा विडौजाः पाकशासनः ।' इत्यमरः ।

हिन्दी— इन्द्र ने इस प्रकार वनेचरों के द्वारा मन को प्रिय लगनेवाली प्रियपुत्र अर्जुन के तप की बात सुनकर अपने मन में उत्पन्न हुए हर्ष को प्रकटित नहीं होने दिया क्योंकि महान् पुरुषों की बुद्धि न्यायपथावलम्बिनी होती है । ३८ ।

प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्वं इव तत्र हरिः ।
उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥ ३९ ॥

अन्वयः— अथ हरिः चित्तं प्रणिधाय तत्र भक्ततया विदिते अपि अपूर्वः इव अस्य नियमस्थिरताम् उपलब्धुम् सुरसुन्दरीः इति वचः अभिदधे ।

विग्रहः— नियमस्य स्थिरता ताम् = नियमस्थिरताम् ।

अर्थः— अथ = अनन्तरं । हरिः = इन्द्रः । चित्तम् = मनः । प्रणिधाय = नियम्य । तत्र = तस्मिन् अर्जुने । भक्ततया = भक्तत्वेन । विदिते = ज्ञाते । अपि । अपूर्वं इव = अज्ञात इव । अस्य = अर्जुनस्य । नियमस्थिरताम् = नियमदृढताम् । उपलब्धुम् = ज्ञातुम् । सुरसुन्दरीः = अप्सरसः । इति = एवं । वचः = वचनं । अभिदधे = कथितवान् ।

कोषः— 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः ।' इत्यमरः ।

हिन्दी— तदनन्तर इन्द्रने ध्यान करके अर्जुन मे अपनी भक्ति जानकर भी अज्ञात के समान उनकी नियमस्थिरता को जानने के लिये सुरसुन्दरियों से इस प्रकार कहा ॥ ३९ ॥

सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया ।
अवि पक्षमस्त्रमपरं कथमद्विजयाय यूरमिव चित्तभुवः ॥ ४० ॥

८४किरातार्जुनीयम्

**अन्वयः—**मर्मभिदां यूयम् इव सुकुमारम् एकम् अणु अतिदूरगम् अमोघतया युतम् अविपक्षम् चित्तभुवः विजयाय कतमद् अपरम् अस्त्रम् ।

**विग्रहः—**मर्माणि भिन्दन्तीति तासाम् = मर्मभिदाम् । अतिदुरं गच्छतीति= अतिदूरगम् । नास्ति विशिष्टः पक्षः यस्य तत् = अविपक्षम् । चित्तम् एव भूः यस्य तस्य = चित्तभुवः ।

**अर्थः—**मर्मभिदाम् = मर्मच्छेदिकाम् । यूयम् इव = युष्मादृशम् । सुकुमारं = कोमलम् । एकम् = न त्वनेकम् । अणु = सूक्ष्मं न तु स्थूलम् । अतिदूरगम् = बहुदूरगामि । अमोघतया = अमोघत्वगुणेन । युतम् = युक्तम् । अविपक्षम् = असत्प्रतीकारं, चित्तभुवः = मनोजस्य । विजयाय = जयाय । कतमद् = अपरम् । अस्त्रम् = कतमदन्यदायुधम् । अस्तीति शेषः, न किञ्चिदस्तोत्यर्थः । अत्रोपमापरिकरयोः सङ्करः ।

कोषः—‘मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।’ इत्यमरः

**हिन्दी—**हे सुरसुन्दरियों ! कामदेव का अस्त्र मर्मभेद करने में तुम्हारे समान सुकुमार एवं एकमात्र सूक्ष्म और बहुत दूर तक जानेवाला है उसी प्रकार तुम भी हो । एक प्रकार से काम का उपयुक्त बाण हो हो । यह अस्त्र अचूक तथा पक्षत्वरहित है । कामदेव को जीत के लिये उनके इस बाण ( अप्सरासमूह ) से बढ़कर और क्या हो सकता है ? ॥ ४० ॥

असामर्थ्यशङ्कां परिहरति—

भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् ।
परिपौयमाणमिव वोऽसकलैरवसादमैति नयनाञ्जलिभिः ॥ ४१ ॥

**अन्वयः—**भववीतये हतबृहत्तमसां रजसः शमनम् अवबोधवारि वः असकलैः नयनाञ्जलिभिः परिपौयमाणम् इव अवसादम् एति ।

**विग्रहः—**भवस्य वीतिस्तस्यै = भववीतये । हतं बृहत् तपः यैस्तेषां = हतबृहत्तपसाम् । अवबोध एव वारि = अवबोधवारि । नयनान्येवाञ्ज लयस्तैः = नयनाञ्जलिभिः ।

**अर्थः—**भववीतये = संसारनिवृत्तये । हतबृहत्तमसां = निरस्तमहामोहानाम् । रजसः = रजोगुणस्य । शमनम् = निवर्तकम् । अवबोधवारि = ज्ञानजलम् । वः = युष्माकम् । असकलैः = असमग्रैः । नयनाञ्जलिभिः = नेत्राञ्जलिभिः ।

षष्ठः सर्गः

परिपोयमानम् = पीयमानम् । इव । अवसादम् = क्षयम् । एति = गच्छति । अत्रोत्प्रेक्षारूपकयोः सङ्करः । कोषः— 'शमयस्तु शमः शान्तिः' इत्यमरः । हिन्दी— संसार से छुटकारा (मोक्ष) पाने के लिए महामोह को मिटाये हुए योगियों के रजोगुण को शान्त करने वाला ज्ञानरूपी जल (तत्त्वज्ञान) तुम्हारी कुछ ही नयनाञ्जलिंयों द्वारा पिये जाने पर समाप्त हो जाता है । अर्थात् तुम्हारे कतिपय कटाक्षों से ही तत्त्वज्ञानियों का ज्ञान भी समाप्त हो जाता है ॥ ४१ ॥

बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ ४२ ॥

अन्वयः— पुरा जगति बहुधा गतां कमनीयतां समभिहृत्य भवतीः विदधता भूतसृजा जनता सुरसद्मयानसुमुखी उपपादिता ।

विग्रहः— भूतानि सृजतीति तेन = भूतसृजा । सुराणां सद्म = सुरसद्म, सुरसद्मनि यानाय सुमुखी = सुरसद्मयानसुमुखी ।

अर्थः— पुरा = प्राक्काले । जगति = लोके । बहुधा गतां = नानामुखेन विप्रकीर्णाम् । कमनीयतां = लावण्यताम् । समभिहृत्य = संगृह्य । भवतीः = अप्सरसः । विदधता = सृजता । भूतसृजा = ब्रह्मणा । जनता = जनसमूहः प्रजा वा । सुरसद्मयानसुमुखी = स्वर्गलोकयात्राप्रवणा । उपपादिता = कृता । अत्रातिशयोक्तिरलङ्कारः ।

कोषः— 'जगतो लोको विष्टपं भुवनं जगत्' इत्यमरः ।

हिन्दी— जगत् की रचना करते समय संसार में चंद्रमा तथा कमल आदि अन्यान्य वस्तुओं में बिखरी हुई कमनीयता को इकट्ठा करके आप सब अप्सराओं का निर्माण करते हुए ब्रह्मा जी ने ऐसी जनता उत्पन्न की जो कि सदैव स्वर्गलोक को जाने के लिए उत्सुक रहती है । अर्थात् आप सब सुन्दरियों के कारण ही जनता स्वर्गलोक पाने को लालायित रहती है ॥ ४२ ॥

अथ कार्याशमाह—

तदुपैत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखाऽवजितिः ॥ ४३ ॥

८६ किरातार्जुनीयम्

अन्वयः— तत् कलासु कृतिभिः सचिवैः सहिताः उपेत्य तस्य तपः विघ्नयत । ननु हृतवीतरागमनसां वः सुखसङ्गिनं प्रति अवजितिः सुखा ।

विग्रहः— वीतरागाणां मनांसि = वीतरागमनांसि । हृतानि वीतरागमनांसि याभिस्तासां = हृतवीतरागमनासां । सुखाय सङ्गच्छते यस्तम् = सुखसङ्गिनम् ।

अर्थः— तत् = तस्मात् । कलासु = गीतवाद्यादिषु । कृतिभिः = कुशलैः । सचिवैः = गन्धर्वैः । सहिताः = युक्ताः । उपेत्य = गत्वा । तस्य = तपस्विनः । तपः = तपश्चरणम् । विघ्नयत = विघ्नवत्कुरुत । ननु = हे अप्सरसः ! हृतवीतरागमनसां = वशीकृतनिःस्पृहचेतसाम् । वः = युष्माकम् । सुखसङ्गिनम् प्रति = सुखाभिलाषिणं पुरुषं प्रति । अवजितिः = विजयः । सुखा = सुखसाध्या । न तु दुष्करेति । अत्रार्थान्तरन्यासोऽलंकारः ।

हिन्दी-- अतएव गीतवाद्यादिकलाकुशल गन्धर्वों के सहित आप उसके (तपस्वी के) पास जाकर तप में विघ्न करें । हे अप्सराओ ! निःस्पृह पुरुषों के चित्त को अपहरण करनेवाली तुम सब (अप्सराओं) के लिए सुखाभिलाषी पुरुष को जीतना सरल ही है ॥ ४३ ॥

अथ सुखसङ्गित्वलिङ्गमाह— अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥४४॥

अन्वयः— सः द्विषतां वधेन विषयाभिरतिम् अभिलष्यति एतत् अविमृष्यम् हि तथा स विधिः भववीतये न । शरासनं क्व, विमुक्तिपथः च क्व ।

विग्रहः— विषयेषु अभिरतिस्तां विषयाभिरतिम् । भवस्य वीतये = भववीतये । विमुक्तेः पथः = विमुक्तिपथः ।

अर्थः— सः = उपर्युक्तः । तपस्वी । द्विषतां = शत्रूणां । वधेन = नाशेन । विषयाभिरतिम् = विषयसुखम् । अभिलष्यति = वाञ्छति । एतत् = विषयासक्तत्वम् । अविमृष्यम् = अविचार्यम् । हि = यतः । तथा = पूर्वोक्तः । सः विधिः = सः अनुष्ठानप्रकारः । भववीतये = संसारमुक्तये । न नास्ति । शरासनं = धनुः क्व = कुत्र ? विमुक्तिपथः = मोक्षमार्गः च क्व ? द्वयं परस्परं विरुद्धमिति भावः ! अत्रार्थान्तरन्यासोऽलङ्कारः ।

षष्ठः सर्गः ८७

कोषः—'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । **हिन्दी—**हे अप्सराओ ! वह तपस्वी शत्रुओं का विनाश करके विषयसुख प्राप्त करना चाहता है यह बात बिल्कुल ठीक ही है । क्योंकि उसके तप की विधि संसार-मुक्ति के लिए नहीं हो सकती है । कहाँ धनुष और कहाँ मोक्षमार्ग । अर्थात् वह धनुष धारण किये हुए तप कर रहा है अतएव हिंसावृत्ति के रहते हुए मोक्ष का मार्ग मिलना असम्भव है ॥ ४४ ॥

न च शापभयमपि सम्भाव्यं स्यात्—

पृथुधाम्नि तत्र परिबोधि च मा भवतोभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृशन्ति धियः ॥ ४५ ॥

**अन्वयः—**पृथुधाम्नि तत्र अन्यमुनिवद् विकृतिः च भवतीभिः मा परिबोधि । स्वयशांसि अवतां विक्रमवतां धियः वधूषु अघानि न विमृशन्ति ।

**विग्रहः—**पृथु धाम यस्मिन्, तस्मिन् पृथुधाम्नि । स्वस्य यशांसि = स्वयशांसि ।

**अर्थः—**पृथुधाम्नि = पृथुकृतेजस्विनि । तत्र = तस्मिन् पुरुषे । अन्यमुनिवद् विकृतिः = अन्यमुनिसमक्रोधादिविकारः । च भवतीभिः = अप्सरोभिः । मा परिबोधि = मा विज्ञायि । स्वयशांसि = आत्मकीर्तिः । अवतां = रक्षताम् । विक्रमवतां = पराक्रमशालिनाम् । धियः = बुद्धयः । वधूषु = स्त्रीषु । अघानि = पापानि, हिंसादिकृत्यानि । न विमृशन्ति = नैव परिमृशन्ति । अत्रार्थान्तरन्यासालङ्कारः ।

कोषः—'दुःखैनो व्यसनेष्वघम्' इति वैजयन्ती । **हिन्दी—**हे अप्सराओ ! आप तेजस्वी उस तपस्वी में अन्य मुनियों की भाँति क्रोधादि विकारों की बात न सोचें । अपने यश की रक्षा करने वाले वीर पुरुष कभी स्त्रीजनों के हिंसादि पापकर्मों को करने की नहीं सोचते हैं ॥ ४५ ॥

आशंसितापचितिचारु पुरःसुराणा-
मादेशमित्यभिमुखं समवाप्य भर्तुः ।
लेभे परां द्युतिममर्त्यवधूसमूहः
सम्भावना ह्यधिकृतस्य तनोति तेजः ॥ ४६ ॥

८८ | किरातार्जुनीयम्

अन्वयः— अमर्त्यवधूसमूहः सुराणां पुरः आशंसितापचितिचारु अभिमुखं भर्तुः इति आदेशं समवाप्य परां द्युतिं लेभे । हि अधिकृतस्य सम्भावना तेजः तनोति ।

विग्रहः— अमर्त्यवधूनां समूहः = अमर्त्यवधूसमूहः । अशंसिताभिः अपचितिभिः चारु यथा तथा = अशंसितापचितिचारु ।

अर्थः— अमर्त्यसमूहः = सुराङ्गनानिकरः । सुराणां = देवानां । पुरः = अग्रे । आशंसितापचितिचारु = अपेक्षितसम्भावनाचारु । अभिमुखम् = सम्मुखम् । भर्तुः = स्वामिनः, इन्द्रस्य । इति = पूर्वोक्तम् । आदेशं = निर्देशम् । समवाप्य = प्राप्य । परां = महतीम् । द्युति = कान्तिम् । लेभे = प्राप । हि = यतः । अधिकृतस्य = अधिकारे नियुक्तस्य । सम्भावना = स्वामिकृता पूजा । तेजः = कान्तिम् । तनोति = विस्तारयति ।

कोषः— 'आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ।' इत्यमरः ।

हिन्दी— अप्सराओं का समूह देवताओं के समक्ष देवराज इन्द्र के आदेश को प्राप्त करके पूर्वोक्त प्रशंसा की अपेक्षा अधिक कान्ति को प्राप्त हुआ । क्योंकि किसी अधिकार में नियुक्त पुरुष की प्रशंसा करने पर उसके तेज की अभिवृद्धि होती है ॥ ४६ ॥

प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः
स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव
स्तिमितममरभर्तुर्दृष्टुमक्ष्णां सहस्रम् ॥ ४७ ॥

अन्वयः— अथ प्रणतिं विधाय सद्मनः प्रस्थिताः स्तनभरनमिताङ्गीः प्रीतिभाजः ताः अङ्गनाः अचलनलिनलक्ष्मीहारि स्तिमितम् अमरभर्तुः अक्ष्णां सहस्रं द्रष्टुम् अलम् न बभूव ।

विग्रहः— स्तनभरैः नमितानि अङ्गानि यासां ताः = स्तनभरनमिताङ्गीः । प्रीति भजन्तीति ताः = प्रीतिभाजः । अचलनलिनानां लक्ष्म्यः, ताः हरतीति अचलनलिनलक्ष्मीहारि । अमराणां भर्ता, तस्य = अमरभर्तुः ।

अर्थः— अथ = अनन्तरम् । प्रणतिं = नमस्कृतिं । विधाय = कृत्वा । सद्मनः = इन्द्रभवनात् । प्रस्थिताः = प्रचलिताः । स्तनभरनमिताङ्गी = पयोधर-

षष्ठः सर्गः ८९

भरानमितशरीराः । प्रीतिभाजः = स्वामिसम्भावनया सन्तुष्टाः । ताः = पूर्वोक्ताः । अङ्गनाः = अप्सरसः। अचलनलिनलक्ष्मीहारि = स्थलकमलिनीशोभाहारि, तद्वन्मनोहरमित्यर्थः । स्तिमितम् = विस्मयनिश्चलम् । अमरभर्तुः = इन्द्रस्य । अक्ष्णां = नेत्राणां । सहस्रं = सहस्रसंख्यकं । द्रष्टुम् = निरीक्षितुम् । अलम् न बभूव = समर्थं नाभवत् । अत्रोपमालङ्कारः ।
कोष—'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः' इत्यमरः ।
**हिन्दी--**तदनन्तर इन्द्र को प्रणाम करके वे अप्सरायें इन्द्रभवन से चल दीं । स्थलकमल (गुलाब) की शोभा को तिरस्कृत करनेवाले इन्द्र के विस्मय-निश्चल हजारों नेत्र भी उन अप्सराओं की शोभा देखने में समर्थ न हो सके ॥ ४७ ॥

इति भारविकृतौ सुघाटीकासंवलिते किरातार्जुनीये षष्ठः सर्गः

६॥ कि०

सप्तमः सर्गः

श्रीमद्भिः सरथगजैः सुराङ्गनानां
गुप्तानामथ सचिवैस्त्रिलोकभर्तुः ।
सम्मूर्च्छन्नलघु विमानरन्ध्रभिन्नः
प्रस्थानं समभिदधे मृदङ्गनादः ॥ १ ॥

अन्वयः—अथ श्रीमद्भिः सरथगजैः त्रिलोकभर्तुः सचिवैः गुप्तानां सुराङ्गनानां प्रस्थानम् अलघुविमानरन्ध्रभिन्नः सम्मूर्च्छन् मृदङ्गनादः समभिदधे ।

विग्रहः—रथश्च गजश्च=रथगजौ, तयोः समाहारः रथगजम् । सह रथगजेन इति सरथगजास्तैः = सरथगजैः । त्रयाणां लोकानां भर्ता तस्य = त्रिलोकभर्तुः । सुराणामङ्गनास्तासाम् = सुराङ्गनानाम् । अलघुषु विमानरन्ध्रेषु भिन्न इति = अलघुविमानरन्ध्रभिन्नः । मृदङ्गानां नादः = मृदङ्गनादः ।

अर्थः—अथ = प्रस्थानानन्तरम् । श्रीमद्भिः = शोभावद्भिः । सरथगजैः = रथगजयुतैः । त्रिलोकभर्तुः = इन्द्रस्य । सचिवैः = गन्धर्वैः । गुप्तानाम् = रक्षितानाम् । सुराङ्गनानाम् = अप्सरसाम् । प्रस्थानम् = गमनम् । अलघुविमानरन्ध्रभिन्नः = बृहद्विमानकुक्षिकुहरभिन्नः । सम्मूर्च्छन् = व्याप्नुवन् । मृदङ्गनादः = मृदङ्गवाद्यनादः । समभिदधे = आचख्यौ । अत्र प्रहर्षिणीवृत्तम् ।

कोषः—'मृदङ्गा मुरजाः' इत्यमरः । 'मतङ्गजो गजो नागः' इत्यमरः ।

हिन्दी—इसके बाद शोभायुक्त, रथ और गजों के सहित इन्द्र के सचिवों गन्धर्वों के साथ अप्सराओं ने प्रस्थान किया । इस बात की सूचना छोटे-छोटे विमान छिद्रों से निकलते हुए मृदङ्गनाद ने दी ॥ १ ॥


सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥ २ ॥

अन्वयः—सोत्कण्ठैः अमरगणैः अनुप्रकीर्णान् ज्वलितरुचः मघोनः पुरात् निर्याय विवस्वतः उपरि स्थितानां रामाणाम् आतपत्रैः चरितगुणत्वम् न आसेदे ।

सप्तमः सर्गः ९१

**विग्रहः—**उत्कण्ठाभिः सहिताः, तैः = सोत्कण्ठैः । अमराणां गणास्तैः = अमरगणैः । ज्वलिताः रुचः यस्य, तस्य = ज्वलितरुचः । आतपात् त्रायन्ते तैः = आतपत्रैः । गुणानां भावो गुणत्वम् । चरितानां गुणत्वम् = चरितगुणत्वम् ।

**अर्थः—**सोत्कण्ठैः = उत्कण्ठायुक्तैः । अमरगणैः = देवसमूहैः । अनुप्रकीर्णात् = आकीर्णात् । ज्वलितरुचः = देदीप्यमानस्य । मघोनः = इन्द्रस्य । पुरात् = नगरात्, अमरावत्या इत्यर्थः । निर्याय = निर्गत्य । विवस्वतः = भानोः । उपरि = ऊर्ध्वम् । स्थितानाम् = अवस्थितानाम् । रामाणाम् = अप्सरसाम् । आतपत्रैः = छत्रैः । चरितगुणत्वम् = सञ्चरितत्वम् । न आसेदे = न प्राप ।

कोषः—'हर्म्यं छत्रं स्यादातपत्रम्' इत्यमरः ।

**हिन्दी—**दीप्तिमान् इन्द्र के उत्कण्ठित देवगणों से परिपूर्ण अमरावती नगरी से निकलकर वे देवाङ्गनाएँ सूर्य-मण्डल के ऊपर पहुँच गईं। देवांगनाओं के सूर्य के ऊपर स्थित होने के कारण उनके ताने हुए आतपत्र (छत्र) धूप से उन्हें बचा नहीं सके ॥२॥

धूतानामभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूनामुष्णांशुद्युतिजनितः कपोलरागः ॥३॥

**अन्वयः—**अभिमुखपातिभिः समीरैः धूतानाम् आयासात् अविशदलोचनोत्पलानां वधूनाम् उष्णांशुद्युतिजनितः कपोलरागः मदजनितां श्रियम् आनिन्ये ।

**विग्रहः—**अभिमुखं पतन्तीति तैः = अभिमुखपातिभिः । लोचनानि उत्पलानीव = लोचनोत्पलानि । अविशदानि लोचनोत्पलानि यासां तासां = अविशदलोचनोत्पलानाम् । उष्णांशोः द्युति = उष्णांशुद्युतिः, तया जनितः = उष्णांशुद्युतिजनितः । कपोलानाम् रागः = कपोलरागः । मदेन जनिता, ताम् = मदजनिताम् ।

**अर्थः—**अभिमुखपातिभिः = प्रतिकूलगामिभिः । समीरैः = पवनैः । धूतानां = उद्धूतानाम् । आयासात् = गतिप्रयासात् । अविशदलोचनोत्पलानाम् = अनुन्मीलितकमलनेत्राणाम् । वधूनाम् = अप्सरसाम् । उष्णांशुद्युतिजनितः = सूर्यघर्मजातः । कपोलरागः = कपोलपाटलत्वम् । मदजनितां = मदजाताम् । श्रियम् = शोभाम् । आनिन्ये = आनीतवान् । अत्र निदर्शनालङ्कारः ।