मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
584 मानमेयरहस्यश्लोकवार्तिके 5 एकविंशतिधा दुःखं शरीरं प्रथमं मतम् । षडिन्द्रियाणि विषयाः षट् तथैव च बुद्धयः ॥ सुखं दुःखं चेति, तत्र श्रोत्रं नित्यं मनस्तथा । तथापि यादृग्रूपस्य दुःखता ध्वंसते हि तत् । दुःखासमानकालीनदुःखध्वंसोऽमृतं मतम् । विशेषणांशे तु तत्त्वसाक्षात्कारः प्रयोजकः ॥ तत्र नव्याः दुःखपदं दुःखसाधनतत्परम् । तत्साधनं च दुरितं तद्ध्वंसो ज्ञानसाधनः ॥ इत्याहुः दुःखविध्वंसस्तत्कारणनिबन्धनः । न तत्त्वज्ञानहेतुस्स्यादित्यन्येऽन्यत्र विस्तरः ॥ (117) भाट्टसिद्धान्तः. 1 भट्टपादीयसिद्धान्तः यः पुनस्तन्त्रवार्तिके । निरूपितो व्याकरणाधिक्रियायां निशम्यताम् ॥ सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधारणा ॥ आत्मज्ञानं पुमर्थं च स्यात्संयोगपृथक्त्वतः । विना तेनामुष्मिकेषु प्रवृत्त्यादेरसंभवः ॥ 2 आत्माऽपहतपाप्मेति तथा मन्तव्य इत्यपि । तथाऽऽत्मानमुपासीतेत्यात्मज्ञानं विधीयते ॥
भाट्टसिद्धान्तः 58. जिज्ञासामननोपास्तिभेदेन त्रिविधं त्विदम् । ज्ञायते फलसंबन्धः त्रिविधस्तदपेक्षितः ॥ 3 स सर्वलोकानाप्नोति स संपन्नो महीयते । एष सर्वोऽप्यभ्युदयः तथा निःश्रेयसं पुनः ॥ स खल्वेवं वर्तयन्नित्याद्याभिश्च प्रतीयते । परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता ॥ 4 कर्मणामुपयोगोऽपि तत्र त्वेवं भविष्यति । नित्यनैमित्तिकाभ्यां स्यादुपात्तदुरितक्षयः ॥ अथवाऽकरणाधीनप्रत्यवायपराभवः । 5 नच ज्ञानविधानेन कर्मसंबन्धवारणम् ॥ नच तेषां फलं भिन्नं विभिन्ना पदवीत्यपि । न विकल्पोऽथ बाधो वा नाङ्गाङ्गित्वं मिथोऽथवा ॥ संभावनापदं यस्मात् श्रुतिस्स्पष्टोपरोध्यते । तस्मात्समुच्चयो न्याय्यः प्रामाण्याच्छास्त्रयोर्द्वयोः ॥ इत्थमत्र बृहट्टीकावाक्यं राणक उद्धृतम् ॥ ननु निःश्रेयसं ज्ञानात्, बन्धहेतोर्न कर्मणः ॥ नैकस्मादपि तत्किंतु ज्ञानकर्मसमुच्चयात् । नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ॥ ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत् । वैराग्यात्पक्वविज्ञानः कैवल्यं च व्रजेदिति ॥ M.R. 74
386 मानमेयरहस्यश्लोकवार्त्तिके निषिद्धकाम्यकर्मभ्यः सम्यग्व्यावृत्तचेतसः । नित्यनैमित्तिकप्रायश्चित्तप्रध्वस्तदुष्कृतेः ॥ सुखदुःखानुभूतिभ्यां क्षीणप्रारब्धकर्मणः । ध्यायतः परमात्मानं मुक्तिस्स्यादिति निर्णयः ॥ 6 इत्थं सिद्धान्तकर्तॄणामेतेषां श्लोकवार्त्तिके । योऽसावभिप्रायभेदः तत्संक्षेपोऽवधार्यताम् ॥ आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं न च चोदितम् । कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यते ॥ विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः । साऽर्थवादो भवेदेव न स्वर्गादेः फलान्तरम् ॥ कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् । फलस्याल्पस्य दानं वा राजपुत्रापराधवत् ॥ सुखोपभोगरूपश्च यदि मोक्षः प्रसज्यते । स्वर्ग एव भवेदेषः पर्यायेण क्षयी च सः ॥ नहि कारणवत्किंचिदक्षयित्वेन गम्यते । तस्मात्कर्मक्षयादेव हेत्वभावेन मुच्यते ॥ नह्यभावात्मकं मुक्त्वा मोक्षनित्यत्वकारणम् । न च क्रियायाः कस्याश्चिदभावः फलमिष्यते ॥ तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये । उत्तरप्रचयाभावाद्देहो नोत्पद्यते पुनः ॥
कर्मजन्योपभोगार्थं शरीरं न प्रवर्तते । तदभावे न कश्चिद्धि हेतुस्तत्रावतिष्ठते ॥ मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥ प्रार्थ्यमानं फलं ज्ञातं न चानिच्छोर्भविष्यति । आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते ॥ सर्गप्रलयविज्ञानं समस्तजगदाश्रयम् । दैवप्रभावज्ञानार्थं धर्मानुष्ठानसिद्धये । तत्परत्वेऽप्युपाख्यानेष्वतीव विबुधोत्तमैः । नचैव कार्यस्तत्त्वाभिनिवेश इति निर्णयः ॥ तस्मादद्यवदेवात्र सर्गप्रलयकल्पना । समस्तक्षयजन्मभ्यां न सिद्ध्यत्यप्रमाणिका ॥ सर्वज्ञत्वनिषेध्या च स्रष्टुः सद्भावकल्पना । नच धर्मादृते तस्य भवेल्लोकादिशिष्टता ॥ नचाननुष्ठितो धर्मः नानुष्ठानमृते मतेः । नच वेदादृते सा स्यात् वेदो नच पदादिभिः ॥ तस्मात्प्रागपि सर्वेऽमी स्रष्टुरासन् पदादयः । स्यात्तत्पूर्वकता चास्य चैतन्यादस्मदादिवत् ॥ एवं ये युक्तिभिः प्राहुः तेषां दुर्लभमुत्तरम् । अन्वेष्यो व्यवहारोऽयमनादिर्वेदवादिभिः ॥
588 मानमेयरहस्यश्लोकवार्तिके तथाऽर्थवादाधिकृतौ सर्वोपनिषदामपि । नैराकाङ्क्ष्यं च कण्ठोक्तं क्रत्वर्थात्मोपपादनात् ॥ 7 आपाततो विरोधोऽस्ति प्रबन्धे धीमतामपि । परिहाररहस्यं तु तैरेवात्रैव सूचितम् ॥ एवं ये युक्तिभिः प्राहुरित्युक्त्या भावगर्भया । अत्रायमाशयः वेदनित्यतास्थापनाय हि ॥ अतिवादाः कृता युक्त्या परमार्थोऽन्य एव यः । सच प्रोक्तस्स्फुटः तन्त्रवार्तिके त्विति निर्णयः ॥ 8 एवं परिहारयुक्तौ स्फुटायां राणके पुनः । आत्मज्ञाने विरोधो यः विधानप्रतिषेधयोः ॥ संसार्यसंसार्यात्मोपलब्धिभेदात्स चोद्धृतः । यश्चाप्यभ्युदयश्रेयःफलभेदविकल्पना ॥ प्रत्युक्ता साऽपि सगुणनिर्गुणोपास्तिभेदतः । रीतिरेषा स्वसिद्धान्तवासनैकनिबन्धना ॥ 9 तत्र भाट्टाशयविदां पन्थानः बहुधा स्थिताः । तथाऽप्येकं सूचयामि किंचिद्विस्तरकातरः ॥ संसारादुद्विजन्ते ये दृष्टलोकपरावराः । तेषामेवाधिकारस्स्यात् मुक्तिशास्त्रे मनीषिणाम् । तेनाभावात्मकत्वेऽपि मुक्तेर्नापुरुषार्थता । सुखदुःखोपभोगो हि संसार इति शब्द्यते ॥
भाट्टसिद्धान्तः 58 तयोरनुपभोगं तु मोक्षं मोक्षविदो विदुः । श्रुतिरप्येवमेवाह भेदं संसारमोक्षयोः ॥ न ह वै सशरीरस्य प्रियाप्रियविहीनता । अशरीरं वाव सन्तं स्पृशतो न प्रियाप्रिये ॥ सुषुप्तावप्रकाशेन नात्मनस्स्वप्रकाशता । दुःखाभावाद्यवहृतिः सुखरूप इति स्थितम् ॥ आनन्दात्मकमात्मानं ये वदन्ति स्वयंप्रभम् । तन्मतेऽपि च संसारान्मुक्तेरेतावती भिदा ॥ आत्मा ह्यानन्दरूपोऽसौ संसारेऽपि प्रकाशते । तावानेव स मोक्षेऽपि नाधिक्यं तस्य किंचन ॥ अथ संसारवेलायामानन्दो न प्रकाशते । नह्यप्रकाशनं युक्तं स्वप्रकाशस्य वस्तुनः ॥ यद्यसौ न प्रकाशेत किं तर्ह्यन्यत्प्रकाशते । आत्मस्वरूपमितिचेन्ननु चानन्द एव तत् ॥ तच्चेत्प्रकाशते नूनमानन्दोऽपि प्रकाशते । तेन शब्दादिविषयजन्ययोस्सुखदुःखयोः ॥ निवृत्तिरेव संसारादपवर्ग इतीर्यते । सुखदुःखविहीनस्तु मुक्तः स्वस्थोऽवतिष्ठते ॥ तस्मान्मोक्षो निरानन्दः दुःखलोपात्पुमर्थता । पार्थसारथिमिश्राणामाहैवं शास्त्रदीपिका ॥
1 अथातो मोक्षशास्त्रस्य वर्णाश्रमविशेषतः । अधिकारिविकल्पोऽयं संक्षेपादवधार्यताम् ॥ अथात्र प्राञ्च आचार्याः बादरिप्रमुखाः पुनः । इच्छन्ति वेदशास्त्रादिं नरमात्राधिकारिकम् ॥ 2 अपशूद्राधिकारास्तु वेदाः जैमिनिसम्मताः । तथैवचोपनिषदः बादरायणसम्मताः ॥ 3 तमेतमिति शास्त्रे च ब्राह्मणग्रहणात्तथा । अथ ब्राह्मण इत्यत्र ब्राह्मणग्रहणादपि ॥ न कर्मणेत्यादिशास्त्रे त्यागसंन्यासकीर्तनात् । संन्यासिनो ब्राह्मणास्स्युरिह मोक्षाधिकारिणः ॥ तत्साधने मोक्षशास्त्रेऽप्येत एवाधिकारिणः । इति सिद्धान्तयामासुः प्राञ्चः केचन सूरयः ॥ 4 सर्वेषां च द्विजातीनां तथैवाश्रमिणामपि । अधिकारं विदुर्धीराः सुरेश्वरमुखाः परे ॥ श्रुतिस्थब्राह्मणपदमुपलक्षणमित्यपि । व्याख्याय चापशूद्राणामधिकारं विदुर्हि ते ॥ ज्ञानमात्रे तु सर्वेषामधिकारोऽस्ति यद्यपि । संन्यासनिष्ठा विद्यैव मोक्षसाधनमिष्यते ॥ यल्लिङ्गं गृहिणां विद्यासंप्रदायादिकर्तृता । न तत् स्थितन्यायबाधं कर्तुमुत्सहते क्वचित् ॥
अधिकारी ५
न हि शास्त्रशतेनापि क्वचिद्ध्वान्तप्रकाशयोः । संभवः शक्यते कर्तुं लिङ्गैः किमुत केवलैः ॥ इति मुण्डकभाष्यस्थः श्रीशाङ्करविनिर्णयः । अत्र श्रीरामकृष्णार्यवाक्यमेतन्निशम्यताम् ॥ केचित्तु भिक्षवः स्वीयमाश्रमं केवलं पुनः । मोक्षाश्रममिति भ्रान्ताः ख्यातिपूजापरायणाः गृहस्थादिकृताष्टाङ्गप्रणामाद्यैश्च केवलम् । आत्मानमधिकंमन्याः तेषु प्रद्वेषमात्रतः ॥ तेषां ब्रह्मविचाराधिकारो नास्तीति मन्वते । तथा वसिष्ठजनकरैक्वाद्याख्यायिका अपि ॥ प्रच्छादयन्तो दृश्यन्ते इत्युक्तिरवलोक्यते । ५ अथापि केचिद्विबुधाः धीरोदारा भवन्ति ये ॥ निर्गुणब्रह्मविद्यायां शूद्राणामपि ते स्फुटम् । स्ववर्णधर्मानुष्ठानादधिकारं प्रचक्षते ॥ इतिहासपुराणाभ्यामर्थितैतेषु युज्यते । अपित्वध्ययनोपात्तज्ञानमूला निषिध्यते ॥ विद्योत्पत्तिस्तु विमलदेहद्वारा भविष्यति । तस्माच्छूद्रोऽपि विद्यार्थं कर्म कर्तुमिहार्हति ॥ ६ एवं संन्यासाश्रमोऽपि पापभेदविनाशकृत् । चित्तशुद्धिमुखात्कैश्चिद्विद्यायामङ्गमिष्यते ॥
592 मानमेयरहस्यश्लोकवार्तिके जनकप्रमुखा ये तु विद्यावन्त इति श्रुताः । तेषां प्राग्जन्मसंन्यासाद्विद्यावाप्तिं विदुर्हि ते ॥ इच्छन्ति केचिच्छ्रवणाद्याधिकारिविशेषणम् । संन्यासमित्यतो विद्यासाधनत्वेन स श्रुतः ॥ अनन्यव्यापारतया श्रवणाद्यनुतिष्ठतः । दृष्टद्वारैव विद्यायामस्याङ्गत्वं विदुः परे ॥ संन्यस्य श्रवणं कुर्यादित्येष नियमे विधिः । यतश्च श्रवणाद्यर्हः कर्मच्छिद्रेषु गृह्यपि ॥ द्विजानामविशेषेण संन्यासः श्रूयते ततः । श्रवणं निर्निरोधं स्यात् अत्र क्षत्रियवैश्ययोः ॥ केचित्तु ब्राह्मणस्यैव संन्यासाश्रमशास्त्रतः । विट्शूद्रयोस्तु श्रवणं तदनङ्गं प्रचक्षते ॥ अन्ये संन्यासिनां मुख्यमधिकारं प्रचक्षते । इतरेषां तु गौणं तं क्रामिकं विधुरादिवत् ॥ 7 सर्वाश्रमपरित्यागो ब्राह्मण्यमिति केचन । नग्नचर्येषु संवर्तदुर्वासःप्रभृतिष्वपि ॥ विद्यासंदर्शनात्सर्वाश्रमिष्वत्याश्रमिष्वपि । अधिकारं विदुर्ब्रह्मविद्यायास्तत्र च स्मृतिः ॥ यं न सन्तं नवा सन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥
अधिकारी 59. गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत् । अन्धवज्जडवच्चैव मूकवच्च महीं चरेत् ॥ 8 इत्येवं मतभेदे च स्थिते केचिद्विपश्चितः । स्वातन्त्र्येण विचार्येत्थमुल्लिखन्ति सिराग्रहाः ॥ छान्दोग्योपनिषन्निष्ठाः ये चैकाश्रम्यवादिनः । गृहस्थ एव विद्यायामधिकारीति तन्मतम् ॥ ये वाज्युपनिषन्निष्ठाः ते तु संन्यासिलक्षणः । ब्राह्मणस्सोऽधिकारीति यथाश्रुत्याऽभिमेनिरे ॥ इतरेषु प्रबन्धेषु परस्परविनिन्दया । सर्वेषामधिकारोऽपि ज्ञायते तत्रतत्र हि ॥ ज्ञानकर्मविवादोऽयं जगतस्सदसत्त्वतः । दृष्टिमूलः यतो बन्धोऽप्यास्ते सदसदात्मकः ॥ 9 अथान्ये ब्रह्मविद्यायां सर्वेषां मोक्षसाधने । अधिकारं विदुर्धीराः तद्विशेषव्यवस्थया ॥ ब्रह्मविद्या द्विधा भक्तिः प्रपत्तिश्चेति शास्त्रतः । आद्यायामधिकारस्तु यज्ञदानाद्युपस्कृतः ॥ अपात्याश्रमिणां सर्वाश्रमिणां च द्विजन्मनाम् । अत्याश्रमी नग्नचर्यो बाह्य इत्येव तन्मतम् ॥ आनुकूल्याद्युपकृता प्रपत्तिर्या त्वनन्तरा । तस्यां हि प्राणिमात्रस्य स्यादसाविति निर्णयः । M.R. 75
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ अपिचेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । भक्त्या परमया वापि प्रपत्त्या वा महामुने ॥ प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्य लिप्सुभिः। इत्याह भगवान् साक्षात्सर्वस्य शरणं सुहृत् ॥ प्रपत्त्या भजमानास्तु यादृशास्तादृशा अपि । भगवान् सर्वपापेभ्यो मोक्षयिष्यत्यसंशयम् ॥ भक्तिमार्गोऽपि सर्वेषां यद्यपि श्रूयते तथा । विशिष्टदेहावच्छिन्नप्रारम्भोऽसौ न दुष्यति ॥ धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते । वर्णावरत्वे संप्राप्तास्संसिद्धिमिति निर्णयः ॥ शूद्रार्चनादिप्रसङ्गे श्रीकृष्णमुनिभिः पुनः । उक्तैषा प्रतिबन्दीति वेदान्तार्यैरुदाहृतम् ॥
अधिकारी ५ हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः । निर्वाहः क्रियते तद्वत् शास्त्रस्यास्यापि नान्यथा 10 स्त्रीणां निर्वाणदीक्षा च स्थापिता जैनपण्डितैः । तथा मोक्षाधिकारश्च प्रयासेन समर्थितः ॥ स्त्रीणां च ब्रह्मविद्यायां वेदाचार्येण बोधितः । अधिकारश्रुतो ब्रह्मवादिनीनां क्वचित्क्वचित् ॥ स्त्रीणां तु पारिव्राज्यायामधिकारो निरूपितः । बोधायनेनेति पुनः मस्करी प्राह धर्मवित् ॥ स्त्रीणां तथैव शूद्राणां दीक्षा आगमबोधिताः । तथाच सर्वे सर्वानुग्रहणैकधियो बुधाः ॥ 11 एवंविचारे द्विविधो मार्गो निष्कृष्य लभ्यते । एकस्त्विदानीं सर्वेषां यथाशक्त्यधिकारकृत् ॥ विशिष्टदेहे विद्यायाः निष्पत्तिमभिधित्सति । अन्यो विशुद्धं जन्मैव विद्यारम्भेऽभिवाञ्छति ॥ समाप्तैः फलसिद्धेश्च नियमं नाभिधित्सति । अपि मार्गद्वयं सर्वानुग्रहैकप्रवृत्तिमत् ॥ अयं विशेषस्त्वनयोः कल्पयोरवधार्यते । तारतम्यव्यवस्थाऽद्ये प्रायस्साम्यमनन्तरे ॥ 12 अत्र तत्त्वमिदं बोध्यमधिकारनिरूपणे । अधिकारनिषेधोऽयं न स्वभावनिबन्धनः ॥
596 मानमेयरहस्यश्लोकवार्तिके आचार्यानुग्रहाभावमूलशास्त्रनिबन्धनः । इति प्राहुर्महाचार्याः पाराशर्यजये स्फुटम् ॥ मानं रहस्याम्नायस्थं असूयायाः परस्परम् । प्रादुर्भावप्रकरणं इति तत्त्वविदां मतम् ॥ तस्मिन् प्रकरणे सर्वाधिकारं ज्ञानमुच्यते । ज्ञानपर्युत्थानकर्मा शूद्र इत्यंशदर्शनात् ॥ न पर्युत्थास्याम इति यदाऽवोचन्नसूयया । न वो वक्ष्याम इतिच ब्राह्मणा अपिचाब्रुवन् ॥ पर्युत्थानं हि शुश्रूषा तत्तस्मादाभ्यसूयकम् । दूरीकरणमित्येवं रहस्यं प्रकटीकृतम् । अधिकारविचारोऽयं गम्भीरोऽपि निरूपितः । सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥ (119) कर्मज्ञानतत्त्वम्. 1 अथ कर्मज्ञानतत्त्वं सूक्ष्मदृष्ट्या विचार्यते । लौकिका हि विदुः कर्मज्ञानयोर्महदन्तरम् ॥ परीक्षकास्तु तत्त्वज्ञाः प्रविवेकं न कंचन । परिभाषामन्तरेण न निरूपयितुं क्षमाः ॥ ज्ञानं कर्मैव सूक्ष्मं स्यादान्तरं स्फुरणं हि तत् । बाह्यं तु स्फुरणं लोके क्रिया कर्मेति कथ्यते ॥
कर्मज्ञानतत्त्वम् ५ २ आत्मनः परिणामोऽयं ज्ञानमित्याह जैमिनिः । आत्मनः स्रवणं ज्ञानमित्यर्हत्प्रमुखा विदुः ॥ अन्तःकरणवृत्तिस्स्यादिति कापिलपद्धतिः । आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥ स्फुरणं स्फुरतो धर्मः नित्यो वह्न्युज्ज्वलत्ववत् तमेव मार्गं प्रायेण द्वैताद्वैतविदो विदुः ॥ आत्मनो धर्मभूतं च नित्यं द्रव्यान्तरं स्थितम् । तस्य च प्रसरः ज्ञानं विशिष्टाद्वैतसम्मतम् ॥ बुद्धिनित्यत्ववादश्च योऽसौ शाबरसंमतः । स पर्यवस्यत्यत्रेति प्रायो मीमांसका विदुः ॥ ज्ञानं विषयभेदेन भिन्नं व्यापारलक्षणम् । तस्याश्रयो बुद्धिरेका नित्येति च समर्थिता ॥ सा च प्रमात्रात्मिकेति न्यायरत्नाकरोदिता । यदि बुद्धिः प्रमातृस्था शक्तिरेकेति कथ्यते ॥ तादात्म्यानभ्युपगमे विशिष्टाद्वैतनिर्णयः । अत्यन्ताभेदपक्षे तु स्यादद्वैतविनिर्णयः ॥ तादात्म्यपक्षः भाट्टेष्टः शक्तिशक्तिमतोरपि। स च भर्तृप्रपञ्चेष्टो वादस्स्यादिति निर्णयः ॥ एवं स्थिते विनाशं चाप्युद्भवं च निरन्वयम् । आहुर्ये न्यायनिपुणाः ते ज्ञानं गुणमब्रुवन् ॥
मानमेयरहस्यश्लोकवार्तिके न तेन कश्चिद्विकृतिरात्मनामिति मेनिरे । अन्ये कर्मापि विकृतिर्न स्यादिति विदुर्बुधाः ॥ अतो भूतपरिस्पन्दं भूतचैतन्यवादिनः । ज्ञानधातुं विजानन्ति स स्पन्दः पारिणामिकः ॥ ३ ज्ञानानां कर्मशब्देन ज्ञानशब्देन कर्मणाम् । प्रयोगस्य व्यतिकरः प्रायेणाभेदगोचरः ॥ प्रचोदयाद्धिय इति धीशब्दः कर्मवाचकः । जातवेदाश्चेति वेदशब्दः कर्मार्थको मतः ॥ जानात्यर्थः करोतिश्च सूत्रितश्शब्ददर्दुरे । गत्यर्थाश्चापि बुद्ध्यर्था इति न्यायोऽपि सम्मतः ॥ योऽश्वमेधेन यजते य एनं वेद चेत्यपि । समप्रधाननिर्देशस्स्थूलसूक्ष्मनिबन्धनः ॥ तं समन्वारभेते द्वे ये विद्याकर्मणी इति । वेदान्तवादोऽप्यत्रैव संधिमिच्छति तत्त्वतः ॥ प्राकट्यं व्यवहारो वा संवित्तिर्विषयस्य वा । तथाऽऽवरणभङ्गो वा ज्ञानस्य फलमुच्यते ॥ तथाच तदवच्छिन्नव्यापारो धातुबोधितः । ततश्च पाकादितुल्यं ज्ञानं स्यात्सर्वसंमतम् ॥ वाचिकैः पक्षिम्गता मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैः याति स्थावरतां नरः ॥
प्रत्यक्षप्राबल्यवादः 59 इत्यत्र मानसं कर्म ज्ञानं हि मनुनोदितम् । उपासनात्मके कर्मणीतिच क्वचिदुच्यते ॥ 4 ततः कर्माङ्गकं ज्ञानं ज्ञानाङ्गं कर्म चेत्यपि । विवादोऽपि स्थूलसूक्ष्मभेदात्प्राधान्यलिप्सया ॥ ततश्च विस्तरस्तस्य स्फुट एवाहि धीमताम् । इत्थं तत्त्वं सूक्ष्मदृष्ट्या सूचितं बुद्धिकर्मणोः ॥ अनाग्रहदृशामत्र सामरस्यं निराकुलम् । परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम् ॥ आक्षिपात्रं भवेद्विद्वान् कर्मणामिति कीर्तनम् । प्राधान्यतोऽतिवादास्स्युरिति सर्वं समंजसम् ॥ (120) प्रत्यक्षप्राबल्यवादः. 1 प्रमाणानां विरोधो हि मिथस्संपरिदृश्यते । प्रत्यक्षयोरागमयोः तथाचैवानुमानयोः ॥ प्रत्यक्षागमयोश्चापि तथाऽध्यक्षानुमानयोः । तथाऽनुमानागमयोः अन्यत्राप्येवमूह्यताम् ॥ तत्र प्राबल्यदौर्बल्यचिन्तेत्थं तीर्थकृन्मता । तत्र प्रत्यक्षैकमानवादिसिद्धान्तसंग्रहः ॥ प्रत्यक्षं हि प्रमाणानां प्रथमं सर्वसम्मतम् । तत्रापि दुष्टकरणमूलं नार्हति मानताम् ॥
मानमेयरहस्यश्लोकवार्तिके यादृच्छिकात्तु संवादाल्लिङ्गादौ मानताभ्रमः । वस्तुतस्तादृशी बुद्धिः प्रत्यक्षेऽन्तर्भवत्यपि ॥ औषधायस्सूर्यचन्द्रकान्तादिन्यायतोऽखिलः । विषघ्नमन्त्रयन्त्रादिफलसंवाद इष्यते ॥ प्रत्यक्षं तदधीनं चाप्यन्वयव्यतिरेकयोः । दर्शनं चावलम्ब्योत्थं शास्त्रं लोकायतं मतम् ॥ लोकसिद्धानुमानादौ क्वचित्प्रामाण्यमिष्यते । नैतावताऽतीन्द्रियाणामर्थानां सिद्धिसंभवः ॥ नीतिशास्त्रं स्तेयशास्त्रं कामशास्त्रं च तादृशम् । समन्वेत्यत्र सिद्धान्ते प्रत्यक्षैकावलम्बिनि ॥ नैवार्हतीदं प्रत्यक्षं बाधं केनापि हेतुना । प्रत्यक्षेण पुनर्बाधः प्रस्फुटस्सर्वसंविदाम् ॥ २ इति प्रत्यक्षसिद्धान्तेऽध्यक्षप्राबल्यनिर्णयः । ये पुनः कल्पनापोढनिर्विकल्पैकवादिनः ॥ तेषां तु निर्विकल्पस्य प्राबल्यं पूर्ववन्मतम् । तत्साधनं च लिङ्गेन निश्चयेनेत्यनूदितम् ॥ निर्विकल्पस्य विषयः स्वलक्षणमितीरितम् । शब्दलिङ्गेन्द्रियभवः विकल्पः दुर्बलो मतः ॥ निर्विकल्पस्य विषयं सन्मात्रं ये विदुर्बुधाः । शब्दादप्यस्य चोत्पत्तिं निर्बाधामुपयन्ति ते ॥
प्रत्यक्षप्राबल्यवादः 60 3 प्रत्यक्षा द्वैतसिद्धान्ते ऽध्यक्षप्राबल्यवर्णनाम् । हसन्ति लौकिका यस्मात्स्वयं स्वकुचमर्दनम् ॥ सर्वेष्वपि प्रमाणेषु नूनमाभाससंभवः । तस्य मूलं च करणदोष इत्यपि निर्णयः ॥ तद्विज्ञानं तु बाधादिनिबन्धनमिति स्थितम् । क्वचित्स्वारसिको बाधः कुत्राचिद्यौक्तिको मतः । प्रथमश्शुक्तिरूप्यादौ ज्वालाभेदे त्वनन्तरः । प्रायशो विभ्रमा एते सर्वेषामात्मसाक्षिकाः ॥ शुक्तिकारजतभ्रान्तिः मृगतृष्णाभ्रमस्तथा । पीतश्शङ्खः द्वौ च चन्द्रौ स्थाणुः पुरुष इत्यपि । अयो दहति वक्त्रं च मलिनं स्फटिकोऽरुणः । स्वप्नो माया च गन्धर्वनगरं चेति विभ्रमाः ॥ देहात्मविभ्रमः खे च तलमालिन्यविभ्रमः । रवीन्दुमण्डलादौ च ख्यातः प्रादेशिकभ्रमः ॥ प्रात्यक्षिकभ्रमा एते एवं मानान्तरेष्वपि । परीक्षकाणां विदिताः तत्रैवं निर्णयक्रमः ॥ इन्द्रियेण यथा ज्ञानं तथा लिङ्गादिना सदा । ज्ञानमुत्पद्यते पुंसां न विशेषोऽत्र कश्चन ॥ निमित्तशिल्पमन्त्रायुर्ज्योतिस्स्वप्रहृदादिषु । अन्वयव्यतिरेकादेरगम्ये विषये बुधाः ॥ M.R. 76
602 मानमेयरहस्यश्लोकवार्तिके संवाददर्शनात्प्रायः विषये पारलौकिके । अतिशङ्कां न कुर्वन्ति श्रद्दधानाः श्रुतिस्मृतीः ॥ असत्यपि परे लोके त्याज्यं कर्माशुभं विदुः । यदि न स्यात्तदा किं स्यादस्तिचेन्नास्तिको हतः । यादृच्छिकश्चेत् संवादः क्वचिद्बाधादिदर्शनात् । प्रत्यक्षेऽपि तथा ज्ञातुं शक्यते युक्तिचिन्तकैः ॥ तस्याप्यप्रामाण्यपक्षे व्यवहारो विलीयते । सर्वत्र भ्रान्तिक्लृप्तिश्चेत्कल्पको न विशिष्यते ॥ प्रत्यक्षमनुमानं च यथा मानं तथाऽऽगमः । उपजीव्यविरोधेन ज्येष्ठं ताभ्यां न हन्यते ॥ तत्र यत्सावकाशत्वात् अन्यथासिद्धिमश्रुते । तद्दुर्बलं स्यान्निरवकाशं तु प्रबलं मतम् ॥ अनन्यथासिद्धमेतत्, अवकाशस्त्वसौ मतः । विषयान्तरलाभाख्यः क्वचित्स्यात्पदहोमवत् ॥ अथाप्रमाणकोट्यन्तर्भावः रज्जूरगादिषु । एवं प्रायेण विश्वस्य सत्यतावादिनो विदुः ॥
- अथ प्रपञ्चमिथ्यात्ववाद्यविद्याविदां मते । प्राबल्यरीतिरेषोक्ता निर्विशेषपरश्रुतेः ॥ दोषमूलप्रसूतत्वादन्यथासिद्धिसंभवात् । भेदावलम्बाध्यक्षं शास्त्रबाध्यमितीर्यते ॥
प्रत्यक्षप्राबल्यवादः 60 तत्र दोषोऽनादिभेदवासनेति विनिर्णयः । निषेद्धृशास्त्रप्रामाण्यमन्यथानोपपद्यते ॥ अनादिनिधनाच्छिन्नसंप्रदायसमागतम् । संभावनानर्हदोषगन्धं शास्त्रं प्रतीयते ॥ ज्योतिष्टोमेनेतिशास्त्रं यत्तु भेदावलम्बि तत् । बाध्यते मोक्षशास्त्रेण परेणापच्छिदानयात् ॥ मोक्षशास्त्रेऽपि सगुणब्रह्मणो बोधकं तु यत् । बाध्यते निर्गुणपरशास्त्रेणापि परेण तत् ॥ 5 अथ प्रकारान्तरेण विरोधविनिवारणा । असन्निकृष्टविज्ञानं शब्दविज्ञानतश्च यत् ॥ तच्छास्त्रमित्यौपवर्षं लक्षणं शबरोदितम् । असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ॥ ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपिवा । इति कौमारिलव्याख्या पठ्यते श्लोकवार्तिके ॥ तद्विरोधात्सानुशयैः अन्यथा प्रोच्यते यथा । प्रत्यक्षादिविरोधे हि बलीयश्शास्त्रमिष्यते ॥ न विरोधं प्रपश्यामोऽध्यक्षं सन्मात्रगोचरम् । भेदे किंचिन्न प्रमाणं नैपुण्येन निरूपणे ॥ घटोऽस्तीतिपटोऽस्तीतिप्रतीतिव्यवहारयोः । अस्तित्वमध्यक्षभास्यं भ्रान्तिभास्यं घटादिकम्