मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पूर्वमेघः ८१
ओर फैल रही हैं, (ऐसे) मरकतमणीन् = "मरकत" नामक मणियों को, विद्रुमाणां = मूंगों के, भङ्गान् = टुकड़ों को, दृष्ट्वा = देखकर, सलिलनिधयः = समुद्र, तोयमात्रावशेषाः = केवल जल वाला, संलक्ष्यन्ते = दिखाई देते हैं ।
भावार्थः—हे मेघ ! यस्यामुज्जयिन्यां पण्येषु विक्रयार्थं प्रसारितान् बहून् बहुमूल्यमुक्तास्रजः शङ्खान् शुक्तीः हरितवर्णान् मनोरमाऽङ्कुरान् मरकतमणीन् प्रवालशकलांश्च विलोक्य जनाः रत्नाकराः समुद्राः जलमात्रावशिष्टाः सञ्जाता इत्यनुमीयन्ते ।
हिन्दी—हे मेघ ! जिस उज्जयिनी नगरी में बाजारों में बेचने के लिए फैलाये गये असंख्य बहुमूल्यमोतियों की मालाओं को, जिनमें कि मध्यमणीभूत महारत्न लगे हैं, शङ्खों को, सीपियों को, घास की तरह गाढ़े हरे रंग की जिनकी किरणें ऊपर की ओर फैल रही हैं, ऐसे मरकत मणियों को, और मूँगों के टुकड़ों को देखकर लोग, समुद्र को केवल जलवाला ही (रत्न-विहीन) समझेंगे ।
समासः—विपणिषु रचिता विपणिरचिताः ( स० तत्० ) तान् । तरलाः गुटिकाः येषु ते (बहु०) तान् शङ्खांश्च शुक्तींश्च तान् (द्वन्द्व०) । उद्गताः मयूखाः येषां ते उन्मयूखाः (बहु०) तान् । उन्मयूखाः तादृशाः प्ररोहाः येषां ते उन्मयूखप्ररोहाः (बहु०) तान् । तोयमेव तोयमात्रम् ( रूपक-समासः ) तोयमात्रमवशेषो येषान्ते तोयमात्रावशेषाः (बहु०) । शष्पाणीव श्यामान् (उपमितकर्म० ) ।
कोशः—तरलो हारमध्यगः, इत्यमरः । पिण्डे मणौ महारत्ने गुटिकाबद्धपारदे, इति शब्दार्णवः । मुक्तास्फोटः स्त्रियां शुक्तिः शंखः स्यात् कम्बुरस्त्रियाम्, इत्यमरः । शष्पोः बालतृणं घासः, इत्यमरः । किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः, इत्यमरः ।
टिप्पणी—संलक्ष्यन्ते—यह रूप "सम्" उपसर्गपूर्वक णिजन्त "लक्ष्" धातु के प्रथमपुरुष के बहुवचन का है । यह धातु आत्मनेपदी है 'कर्म में णिच् का विधान किया गया है ।
| ८२ | मेघदूतम् |
|---|
( प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यगन्तून् रमयति जनौ यत्र बन्धूनभिज्ञः ॥ )
अन्वयः — अत्र वत्सराजः प्रतोद्यतस्य प्रियदुहितरम् जह्रे । अत्र तस्यैव राज्ञः हैमम् तालद्रुमवनम् अभूत् अत्र किल नलगिरिः दर्पात् स्तम्भम् उत्पाट्य उद्भ्रान्तः यत्र इति अभिज्ञः जनः आगन्तून् बन्धून् रमयति ।
व्याख्या — अत्र = उज्जयिन्याम्, वत्सराजः = वत्सदेशाधिपः उदयन इति भावः, प्रद्योतस्य = प्रद्योताभिधेयस्य, उज्जयिनीनरेशस्येति भावः, प्रियदुहितरम् = प्रियां पुत्रीम्, वासवदत्तामिति भावः, जह्रे = अपहृतवान् । अत्र = उज्जयिन्याम्, तस्यैव = प्रद्योतस्यैव, राज्ञः = नरेशस्य, हैमम् = सुवर्णमयम्, तालद्रुमवनम् = तालवृक्षकाननम्, अभूत् = आसीत् । अत्र = उज्जयिन्याम्, नलगिरिः = नलगिरि-नामको हस्ती, दर्पात् = मदात्, स्तम्भम् = स्थाणुम्, उत्पाट्य = उद्घृत्य, उद्भ्रान्तः = उद्भ्रमणं चकार, इति = अनेन प्रकारेण, अभिज्ञः = पूर्वोक्तकथा-कोविदः, जनः = नरः, आगन्तून् = प्राघुणिकान्, अन्यस्मात् देशादागतान्, बन्धून् = बान्धवान्, रमयति = विनोदयति ।
शब्दार्थ — अत्र = उज्जयिनी, में वत्सराजः = वत्सदेश के राजा (उदयन) प्रद्योतस्य = प्रद्योतनामक, उज्जयिनी नरेश की, प्रियदुहितरम् = प्रिय पुत्रीका ( वासवदत्ता का ), जह्रे = अपहरण किया था । अत्र = इसी उज्जयिनी में, तस्यैव = प्रद्योत, राज्ञः = नरेश का ही, हैमम् = स्वर्णमय, तालद्रुमवनम् = तालवृक्षों का वन, अभूत् = था । अत्र = यहाँ, किल = निश्चय ही, नलगिरिः = नलगिरि नामक राजा का हाथी, दर्पात् = मदमत्त होकर, स्तम्भम् = खूंटे को, उत्पाट्य = उखाड़कर, उद्भ्रान्तः = घूमा करता था, यत्र = जहाँ, इति = इस प्रकार से अभिज्ञः = उदयन-वासवदत्तादि की कथाओं के जानकार, जनः = लोग, आगन्तून् = दूसरे देशों से आये हुए, बन्धून् = बान्धवों का, रमयति = ( मन ) बहलाया करते हैं ।
पूर्वमेघः ८३
भावार्थः—हे मेघ ! उदयन उज्जयिन्यामेव वासवदत्तमपहृतवान् । अत्रैव प्रद्योतस्य राज्ञः सौवर्णतालवृक्षकाननमासीत्, अस्मिन्नेव प्रदेशे नलगिरिनामा उज्जयिनीनरेशगजः मदात् स्थूणमुत्पाट्य बभ्राम, एतादृशीः कथाः श्रावयित्वा कथाज्ञाता जनः देशान्तरादागतानां बान्धवानां मनांसि रमयति ।
हिन्दी—हे मेघ ! इसी उज्जयिनी में उदयन ने वासवदत्ता का अपहरण किया था । यहीं प्रद्योत का सोने का बना तालवृक्षों का वन था । इसी उज्जयिनी में, नलगिरि नाम के राजा का हाथी मदमत्त होकर खम्भों को उखाड़कर घूमा करता था, इस प्रकार की कथाओं को कहकर जानकार लोग दूसरे देश से आये हुए बन्धुओं का मनोविनोद किया करते हैं।
समासः—वत्सानां राजा = वत्सराजः ( ष० तत्० ) । प्रिया चासौ दुहिता च ताम् = प्रियदुहितरम् ( कर्म० धा० ) । तालानां द्रुमाः = तालद्रुमाः ( ष० तत्० ) तेषां वनम् तम् तालद्रुमवनम् ( ष० तत्० ) ।
कोशः—दर्पोऽवलेपोऽहङ्कारः, इत्यमरः । वार्तासंभाव्ययोः किल, इत्यमरः । प्रवीणे निपुणाभिज्ञनिष्णातशिक्षिताः, इत्यमरः । स्युरावैशिक आगन्तुर-तिथिनां गृहागते, इत्यमरः ।
टिप्पणी—वत्सराजः—यहाँ वत्स पद का राजा के साथ समास हो जाने पर ‘‘राजाऽहःसखिभ्यष्टच्’’ इस सूत्र से ‘‘टच्’’ प्रत्यय हुआ है ।
अभिज्ञः—‘‘अभि जानातीति’’ इस विग्रह में ‘‘अभि’’ पूर्वक ज्ञानार्थक ‘‘ज्ञा’’ धातु से ‘‘आतश्चोपसर्गे कः’’ इस सूत्र से ‘‘क’’ प्रत्यय लाकर ‘‘अभिज्ञ’’ ऐसा रूप बना है ।
अलंकार—जयदेव के ‘‘भाविकं भूतभाव्यर्थसाक्षाद्दर्शनवर्णनम् । अलं विलोकयाऽद्यापि युध्यन्तेऽत्र सुराऽसुराः ॥’’
इस लक्षण के अनुसार यहाँ ‘‘भाविक’’ नामक अलङ्कार है, क्योंकि यहाँ वत्सराजादि के बीते हुए वृत्तान्त का साक्षात् दर्शन के समान कथन है ॥
८४ मेघदूतम्
( पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदाद् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहास-व्रणाङ्कैः ॥ )
अन्वयः—यत्र वाहाः पत्रश्यामाः दिनकरहयस्पर्धिनः शैलोदग्राः करिणः प्रभेदात् त्वमिव वृष्टिमन्तः योधाग्रण्यः संयुगे प्रतिदशमुखम् तस्थिवांसः चन्द्रहासव्रणाङ्कैः प्रत्यादिष्टाभरणरुचयः ।
व्याख्या—यत्र=उज्जयिन्याम्, वाहाः=घोटकाः, पत्रश्यामाः=पर्णश्यामाः हरितवर्णाः इत्यर्थः; दिनकरहयस्पर्धिनः=सूर्याश्वतुल्याः, वर्णेन वेगेन च सूर्याश्वतुल्या इति भावः। शैलोदग्राः=पर्वतेवोच्छ्रिताः, करिणः=गजाः, प्रभेदात्=मदस्रवणात्, त्वमिव=भवत्समानः, मेघेवेत्यर्थः, वृष्टिमन्तः=वर्षणशीलाः सन्तीति शेषः। योधाग्रण्यः=सेनानायकाः, संयुगे=युद्धे, प्रतिदशमुखम्=रावणसमक्षम्, तस्थिवांसः=स्थिताः, चन्द्रहासव्रणाङ्कैः=रावणकरवाल-क्षतचिह्नैः, प्रत्यादिष्टाऽऽभरणरुचयः=तिरस्कृतभूषणकान्तिमन्तः सन्तीति भावः।
शब्दार्थः—यत्र=जिस उज्जयिनी में, वाहाः=घोड़े, पत्रश्यामाः=पत्ते के समान हरे रंग के, दिनकरहयस्पर्धिनः=सूर्य के घोड़ों से, रंग में एवं वेग में होड़ लेने वाले हैं। शैलोदग्राः=पर्वत के समान ऊँचे, करिणः=हाथी, प्रभेदात्=मदजल के गिरने के कारण, त्वमिव=तुम्हारी तरह, वृष्टिमन्तः=वर्षा वाले हैं। योधाग्रण्यः=श्रेष्ठ योद्धा-गण, संयुगे=युद्ध में, प्रतिदशमुखम्=रावण के सम्मुख, तस्थिवांसः=स्थिर होकर ( उसके विरुद्ध होकर, ) चन्द्रहासव्रणाङ्कैः=रावण के तलवार के प्रहार के चिह्नों से, प्रत्यादिष्टाभरणरुचयः=आभूषणों को तिरस्कृत करने वाली कान्ति से युक्त है।
भावार्थः—हे मेघ ! यत्रत्याः अश्वाः हरितवर्णत्वात् वेगाच्च सूर्याश्वसंघर्षणशीलाः सन्ति, पर्वतसमानोच्चाः गजाः मदजलवर्षणात् वृष्टिमन्तः सन्ति, श्रेष्ठाः
पूर्वमेघः ८५
योद्धारः रणे रावणं प्रतियुद्ध्यन्तस्तदीयखड्गप्रहारचिह्नैः प्रत्याख्याताऽऽभरण-कान्तयः सन्ति ।
हिन्दी—हे मेघ ! जहाँ घोड़े हरे रंग के होने के कारण ( और वेग के कारण ) सूर्य के घोड़ों से होड़ लेने वाले हैं, पर्वत के समान ऊँचे हाथी मदजल के गिरने से वृष्टि वाले हैं एवं श्रेष्ठ योद्धागण युद्ध में रावण के विरुद्ध युद्ध करते हुए रावण के खड्ग के प्रहार-चिह्न से युक्त होकर आभूषण को तिरस्कृत करने वाली कान्ति से युक्त हैं ।
समासः—पत्रमिव श्यामाः = पत्रश्यामाः (कर्मधारयः) । दिनकरस्य हयाः = दिनकरहयाः ( ष० तत्० ) तैः स्पर्धन्ते तच्छीला इति दिनकरहयस्पर्धिनः । चन्द्रहासस्य व्रणानि चन्द्रहासव्रणानि ( ष० त० ) तान्येव अङ्कास्तैः चन्द्रहास-व्रणाङ्कैः ( रूपकसमासः ) । आभरणानां रुच्यः आभरणरुचयः ( ष० तत्० ) प्रत्यादिष्टा आभरणरुचयो यैस्ते = प्रत्यादिष्टाऽभरणरुचयः ( बहु० ) ।
कोशः—वाजिवाहाऽर्वागन्धर्वहयसैन्धवसप्तयः, इत्यमरः । खड्गे तु निस्त्रिंश-चन्द्रहासाऽसिरिष्टयः, इत्यमरः । स्युः प्रभा रुग् रुचिस्त्वड्भाभाश्छविद्युतिदीप्तयः, इत्यमरः ।
टिप्पणी—वाहाः ═ "वह" धातु से घञ् प्रत्यय करके "वाह" ऐसा रूप बनाया जाता है । दिनकरः—करोतीति करः दिनं करोतीति दिनकरः ॥
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमंसुरभिष्वध्व-खेदं नयेथाः
लक्ष्मीं पश्येल्ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥
अन्वयः—जालोद्गीर्णैः केशसंस्कारधूपैः उपचितवपुः बन्धुप्रीत्या भवन-शिखिभिः दत्तनृत्योपहारः कुसुमसुरभिषु ललितवनितापादरागाङ्कितेषु, हर्म्येषु अस्याः लक्ष्मीम् पश्यन् अध्वखेदम् नयेथाः ।
८६ मेघदूतम्
व्याख्या—जालोद्गीर्णैः=वातायननिर्गतैः, केशसंस्कारधूपैः=कामिनीवेणीसंस्कृतधूपैः, उपचितवपुः=परपुष्टदेहः, बन्धुप्रीत्या=बान्धवस्नेहेन, भवनशिखिभिः=सदनमयूरैः, दत्तनृत्योपहारः=प्रदत्तनर्तन उपहारः, कुसुम सुरभिषु=पुष्प सौरभेषु, ललितवनितापादरागाङ्कितेषु=सुन्दराङ्गनाचरणलाक्षारुचि-चिह्नितेषु, हर्म्येषु=अट्टालिकासु, अस्याः=उज्जयिन्याः, लक्ष्मीम्=शोभाम्, पश्यन्=बिलोकयन्, अध्वखेदम्=मार्गपरिश्रमम्, नयेथाः=दुरीकुरु।
शब्दार्थः—जालोद्गीर्णैः=जालियों से (खिड़की से) निकलते हुए, केशसंस्कारधूपैः=(कामिनियों के) केशों को सुगन्धित करने वाले धूप से, उपचितवपु=परिपुष्ट देह वाला, बन्धुप्रीत्या=बान्धव स्नेह से, भवनशिखिभिः=घर के (पालतू) मोरों द्वारा, दत्तनृत्योपहारः=जिसे नृत्य का उपहार दिया गया है, कुसुम-सुरभिषु=फूलों के सुगन्ध से सुगन्धित, ललितवनितापादरागाऽङ्कितेषु=सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्न से चिह्नित, हर्म्येषु=महलों में, अस्याः=इस उज्जयिनी की, लक्ष्मीं=शोभा को, पश्यन्=देखता हुआ, अध्वखेदम्=रास्ते के परिश्रम को, नयेथाः=दूर करना।
भावार्थः—हे मेघ ! तत्रोज्जयिन्यां वातायनमार्गेनिर्गतैः कामिनीकचवासनार्थैः गन्धद्रव्यधूपैः परिपुष्टशरीरः भ्रातृस्नेहेन सदनमयूरेण नृत्यद्वारा कृतातिथ्यः (त्वम्) पुष्पपरिमलेषु सुन्दरललनाचरणालक्तकचिह्नितेषु भवनेषु उज्जयिन्याः शोभामवलोकयन् मार्गगमनजन्यपरिश्रममपनय ।
हिन्दी—हे मेघ ! वहाँ उज्जयिनी में खिड़की की जालियों से स्त्रियों के केशों को सुगन्धित करनेवाले धूप से परिपुष्ट देहवाले भ्रातृस्नेह से घर के पालतू मयूरों के द्वारा सत्कृत तुम पुष्प के सुगन्ध से सुगन्धित, सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्नों से युक्त महलों में उज्जयिनी की शोभा को देखते हुए मार्ग में चलने के कारण उत्पन्न परिश्रम को दूर करना ।
समासः—जालेभ्यः उद्गीर्णाः तैः (ष० तत्०)। केशानां संस्कारः केशसंस्कारः (ष० तत्०) तस्य धूपस्तैः (ष० तत्०)। बन्धोः प्रीतिः तया बन्धुप्रीत्या (ष० तत्०)। उपचितं वपुर्यस्य स उपचितवपुः (बहु०)। भवनेषु
पूर्वमेघः | ८७
शिखिनः भवनशिखिनः तैः (स० तत्०) । नृत्यमेवोपहारः नृत्योपहारः (रूपक-समासः) दत्तः नृत्योपहारः यस्मै सः (बहुव्रीहिः) । कुसुमैः सुरभिषु = कुसुम-सुरभिषु (तृ० तत्०) । ललिताश्च ताः वनिताः = ललितवनिताः (कर्म०धा०), पादयोः रागः = पादरागः (स० तत्०) ललितवनितानां पादरागः = ललित-वनितापादरागः (ष० तत्०) तेन अङ्कितेषु (तृ० तत्०) = ललितवनिता-पादरागाङ्कितेषु ।
कोशः—जालं गवाक्ष आनाये जालके कपटे गणे, इति यादवः । निदिग्धो-पचिते, इत्यमरः । उपायनमुपग्राह्यमुपहारस्तथोपदा, इत्यमरः । ललितं त्रिषु सुन्दरम्, इति शब्दार्णवः । अयनं वर्त्म मार्गाऽध्वः, इत्यमरः । हर्म्यादि धनिनां वासः, इत्यमरः ।
टिप्पणी—उद्गीर्णः—"उद्" उपसर्गपूर्वक निगरणार्थक "गॄ" धातु से "क्त" प्रत्यय करके णत्व करके "उद्गीर्णः" ऐसा रूप बनता है । संस्कारः—"सम्" उपसर्गपूर्वक करणार्थक (डु) "कृ" धातु से घञ् प्रत्यय करके ञित्त्वात् आदि वृद्धि करके "सम्पूरिभ्यां करोतौ भूषणे" इस सूत्र से सुडागम करके अनुस्वारादि करके "संस्कार" ऐसा रूप बना है । (सम् + सकार + अ = संस्कार) शिखिनः—"शिखा" शब्द व्रीह्यादिगण में पढ़ा गया है । अतः व्रीह्यादिभ्यश्च" इस सूत्र से 'इनि' प्रत्यय करके 'शिखिन्' ऐसा रूप बनता है । उक्त रूप उसी शब्द के बहुवचन का है । नृत्यम्—गात्र विक्षेपार्थक "नृती" धातु से "ऋदुपध-चाऽकॢपिचृतेः" इस सूत्र से "क्यप्" प्रत्यय करके "नृत्य" ऐसा रूप बनता है । उपहारः—"उपसर्गपूर्वक "हृ" धातु से "घञ्" प्रत्यय करके "उपहार" ऐसा रूप बनता है । कुछ टीकाकार "अध्वखेदं नयेथाः" के स्थान पर "अध्व-खिन्नान्तरात्मा" ऐसा पाठ मानते हैं और इसका सम्बन्ध आगे वाले श्लोक के साथ कर इन दोनों को "युग्मक" मानते हैं ॥ ३२ ॥
भर्तुः कण्ठच्छविरितिगणैः सादरं वीक्ष्यमाणः
पुष्पं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
८८ मेघदूतम्
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥
अन्वयः—भर्तुः कण्ठच्छविः इति गणैः सादरं वीक्ष्यमाणः कुवलयरजोगन्धिभिः तोयक्रीडानिरतयुवतिस्नानतिक्तैः गन्धवत्याः मरुद्भिः धूतोद्यानं त्रिभुवनगुरोः चण्डीश्वरस्य पुण्यं धाम यायाः ।
व्याख्या—भर्तुः = स्वामिनो नीलकण्ठस्य, कण्ठच्छविः = गलशोभा, इति = अस्माद्धेतोः, गणैः = दूतैः, सादरम् = सम्मानपूर्वकम्, वीक्ष्यमाणः = अवलोक्यमानः ( सन् ), कुवलयरजोगन्धिभिः = पद्मपरागसुगन्धितैः, तोयक्रीडानिरतयुवतिस्नानतिक्तैः = जलक्रीडातत्परवनिताऽवगाहनसुगन्धितैः, गन्धवत्याः = एतन्नामिकायाः सरितः, मरुद्भिः = वायुभिः, धूतोद्यानम् = प्रकम्पिताऽऽरामम्, त्रिभुवनगुरोः = त्रैलोक्यनाथस्य, चण्डीश्वरस्य = भवानीपतेः, पुण्यम् = पवित्रम्, धाम = स्थानम्, महाकालमिति भावः, यायाः = गच्छेः ।
शब्दार्थः—भर्तुः = स्वामी नीलकण्ठ के, कण्ठच्छविः = गले की शोभा के समान (तुम हो), इति = इस कारण, गणैः = शिवजी के गणों द्वारा, सादरम् = ससम्मान, वीक्ष्यमाणः = देखा जाता हुआ, कुवलयरजोगन्धिभिः = कमल के पराग से सुगन्धित, तोयक्रीडानिरतयुवतिस्नानतिक्तैः = जलक्रीडा में आसक्त युवतियों के स्नान से सुगन्धित, गन्धवत्याः = गन्धवती नाम की नदी के, मरुद्भिः = वायु के द्वारा, धूतोद्यानम् = जहाँ का बगीचा कँपाया गया है, त्रिभुवनगुरोः = त्रैलोक्यनाथ, चण्डीश्वरस्य = पार्वतीपति ( शिवजी के उस ) पुण्यम् = पवित्र, धाम = स्थान को ( महाकाल को ), यायाः = जाना ।
भावार्थः—हे मेघ ! शिवस्य गलशोभामिव त्वां प्रमथाः सादरमवलोकयिष्यन्ति त्वञ्चोज्जयिन्यां पद्मपरिमलसुगन्धितैः जलक्रीडाऽऽसक्तकामिनीस्नान-( चन्दनादिभिः ) सुरभितैः गन्धवत्याः नद्याः वायुभिः कम्पिताऽऽरामं भवानीभर्तुः महाकालेश्वरस्य पवित्रं धाम गच्छ ।
हिन्दी—हे मेघ ! शिवजी के गले की शोभा के समान तुम्हें शिवजी के गण सादर देखेंगे । तुम भी वहाँ कमल के पराग से सुगन्धित जलक्रीड़ा में लगी
पूर्वमेघः ८९
कामिनियों के स्नान से (देह में लगे चन्दनादि से) सुवासित गन्धवती के वायु के द्वारा जहाँ का बगीचा कँपा दिया गया है, महाकालेश्वर के उस पवित्र स्थान में जाना ।
समासः- कण्ठस्येव छविर्यस्य स कण्ठच्छविः (बहु०) । कुवलयानां रजः = कुवलयरजः ( ष० तत्० ) तेषां गन्धः = कुवलयरजोगन्धः ( ष० तत्० ) सः, येषामस्तीति तैः = कुवलयरजोगन्धिभिः ( बहुव्री० ) । तोये क्रीडा = तोयक्रीडा ( स० तत्० ) तस्यां निरताः = तोयक्रीडानिरताः, ताश्च युवतयः = तोयक्रीडा-निरतयुवतयः ( कर्मधा० ) तासां स्नानं ( ष० तत्० ) तेन तिक्तास्तैः ( तृ० तत्० ) । कम्पितानि उद्यानानि यस्मिन् तत् कम्पितोद्यानम् ( बहुव्री० ) । त्रयाणां भुवनानां समाहारः = त्रिभुवनम् ( समाहारद्विगुः ) तस्य गुरुः, तस्य ( ष० तत्० ) ।
कोशः- कण्ठो गलः, इत्यमरः । गणस्तु गणनायां स्याद् गणेशे प्रमथे चये, इति शब्दार्णवः । प्रमथाः स्युः पारिषदाः, इत्यमरः । स्नानीयेऽभिषये स्नानम्, इति यादवः । कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः, इति हलायुधः । गृहदेह-त्विट् प्रभावाद्यामान्यथ इत्यमरः ।
**टिप्पणी—कण्ठच्छविः—**यहाँ “सप्तमीविशेषणे बहुव्रीहौ” इस सूत्र के “सप्तमी” पद से ज्ञापित “व्यधिकरण बहुव्रीहि” समास हुआ है । समुद्र-मन्थन के समय निकले विष को शिवजी ने संसार की रक्षा के लिए पी लिया था, उसके ताप से उनका गला मेघ की तरह “नीला” हो गया था इसलिए शिवजी को नीलकण्ठ कहा गया है । वीक्षमाणः—“वि” उपसर्गपूर्वक “ईक्ष” धातु से “शानच्” प्रत्यय करके “वीक्षमाणः” ऐसा रूप बना है ।
**अलङ्कार—**यहाँ “उदात्तालङ्कार” है ॥ ३३ ॥
अप्यन्यस्मिञ्जलधर ! महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
९० मेघदूतम्
कुर्वन् सन्ध्याबलिपठहतां शूलिनः श्लाघनीया मामन्द्राणां फलमविकलं लप्स्यते गर्जितानाम् ॥ ३४ ॥
**अन्वयः—**हे जलधर ! महाकालम् अन्यस्मिन् अपि काले आसाद्य ते स्थातव्यम्, यावत् भानुः नयनविषयम् अत्येति । श्लाघनीयाम् शूलिनः सन्ध्या-बलिपठहतां कुर्वन् आमन्द्राणाम् गर्जितानाम् अविकलम् फलम् लप्स्यसे ।
**व्याख्या—**हे जलधर ! = हे मेघ ! महाकालम् = एतन्नामकज्योतिर्लिङ्ग-स्थानम्, अन्यस्मिन्नपि = अपरस्मिन्नपि, काले = समये, आसाद्य = प्राप्य, ते = त्वया, स्थातव्यम् = निवसितव्यम्, यावत् = यावत् कालम्, भानु = दिनकरः, नयनविषयम् = दृष्टिगोचरताम्, अत्येति = अतिक्रामति, सूर्यास्तसमयपर्यन्तं त्वया तत्र स्थातव्यम् इति भावः । श्लाघनीयाम् = प्रशंसनीयाम्, शूलिनः = महाकाले-श्वरस्य, शिवस्येत्यर्थः, सन्ध्याबलिपटरहताम् = सायङ्कालिकपूजापटहभावम्, कुर्वन् = विदधत्, आमन्द्राणाम् = ईषदगम्भीराणाम्, गर्जितानाम् = स्तनितानाम्, अविकलम् = सम्पूर्णम्, फलम् = पुण्यम्, लप्स्यसे = प्राप्स्यसि ।
**शब्दार्थः—**हे जलधर ! = हे मेघ ! महाकालम् = चण्डीश्वर के स्थान में, अन्यस्मिन्नपि = सन्ध्या के अतिरिक्त, काले = समय में भी, आसाद्य = जाकर, ते = तुम्हें, स्थातव्यम् = ( वहाँ ) ठहरना चाहिए, यावत् = जब तक, भानुः = सूर्य, नयनविषयम् = दृष्टिगोचरता को, अत्येति = अतिक्रमण करता है, अर्थात् जब तक सूर्य डूब नहीं जाते हैं, तब तक । श्लाघनीयाम् = प्रशंसनीय, शूलिनः = शिवजी की, सन्ध्याबलिपठहताम् = सन्ध्या की पूजा ( आरती ) में नगाड़े का काम, विदधतः = करता हुआ ( तुम ), आमन्द्राणाम् = किञ्चिद् गम्भीर, गर्जि-तानाम् = गर्जन का, अविकलम् = सम्पूर्ण, फलम् = फल को, लप्स्यसे = प्राप्त करेगा ।
**भावार्थः—**हे मेघ ! सन्ध्याऽतिरिक्तसमयेऽपि महाकालेश्वरस्य पुण्यं धाम गत्वा त्वं सूर्यो यावत्कालपर्यन्तमस्ताचलं न गच्छेत् तावत्कालपर्यन्तं स्थास्यसि । ( यतो हि ) सायन्तनपूजापटहतां विदधत् ईषदगम्भीरनादस्त्वं गर्जितानां सम्पूर्ण फलं प्राप्स्यसि ।
पूर्वमेघः ९४
हिन्दी—हे मेघ ! सन्ध्या के अतिरिक्त दूसरे समय में भी महाकाल के पवित्र स्थान में जाकर जबतक सूर्य डूब नहीं जाते तब तक ठहरना। (क्योंकि) महाकालेश्वर की सायंकाल की पूजा ( आरती ) में नगाड़े के काम को करते हुए तुम थोड़े गम्भीर गर्जन का सम्पूर्ण फल प्राप्त करोगे।
समासः—धरतीति धरः जलानां धरः=जलधरः (ष० तत्०)। नयनयोः विषयः = नयनविषयः ( ष० तत् ० ) तम् । सन्ध्यायाः बलिः = सन्ध्याबलिः ( ष० तत् ० ) तस्य पटहः=सन्ध्याबलिपटहः ( ष० तत् ० ) तस्य भावस्तम्=सन्ध्याबलिपटहताम् । विगताः कलाः यस्मात् तत् विकलम् (बहु०) न विकलम् =अविकलम् ( नञ् ) ।
कोशः—यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे, इत्यमरः । शिवः शूली महेश्वरः, इत्यमरः । बलिः पूजापहारे च, इति वैजयन्ती । कलो मन्द्रस्तु गम्भीरे, इत्यमरः । आनकः पटहोऽस्त्री स्यात्, इत्यमरः । स्तनितं गर्जितं मेघनिर्घोषे-रसितादि च, इत्यमरः ।
टिप्पणी—धरतीति धरः = यहाँ धारण अर्थ में विद्यमान ‘धृञ्’ धातु से ‘‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’’ इस सूत्र से पचादित्वात् ‘अच्’ प्रत्यय किया गया है। आसाद्य—‘आङ्’ उपसर्गपूर्वक ( ष ) ‘‘सद्’’ धातु से क्त्वा प्रत्यय करके एवं उसके स्थान पर ल्यबादेश करके ‘‘आसाद्य’’ ऐसा रूप बनता है। अत्येति—‘‘अति’’ उपसर्गपूर्वक गत्यर्थक ‘इण्’ धातु के लट् लकार के प्रथमपुरुष के एकवचन का ‘अत्येति’ यह रूप है। स्थातव्यं ते—तव्यत् प्रत्यय के कृत्य होने के कारण ‘स्थातव्यम्’ के योग में ‘कृत्यानां कर्तरि वा’ इस सूत्र से विकल्प से षष्ठी यहाँ हुई है, जिसका अर्थ ‘त्वया’ है । यहाँ इस बात का ध्यान रखना चाहिए कि युष्मद् अस्मद् शब्द को ते, मे, आदेश वाक्य के आदि में नहीं होता है, जैसा कि ‘गन्तव्या ते वसतिः’ यहाँ पर भी ‘ते’ प्रयोग वाक्य के आदि में नहीं किया गया है। सन्ध्या—‘सम्’ उपसर्गपूर्वक चिन्ता अर्थ में विद्यमान् ‘ध्यै’ धातु से आत्व करके ‘आतश्चोपसर्गे’ इस सूत्र से ‘अङ्’ प्रत्यय करके स्त्रीत्व विवक्षा में टाप् करके ‘संध्या’ ऐसा रूप निष्पन्न होता है।
५२ | मेघदूतम्
अलंकार—यहाँ पूर्वार्ध कथित वाक्यों का उत्तरार्ध कथित वाक्य हेतु है, अतः यहाँ 'काव्यलिङ्ग' नामक अलङ्कार है ॥ ३४ ॥
पादन्यासैः क्वणित-रशनास्तत्र लीलावधूतैः
रत्नच्छायाखचित-वलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपद-सुखान् प्राप्यवर्षाग्रबिन्दू-
नामोक्ष्यन्ते त्वयि मधुकर-श्रेणि-दीर्घान् कटाक्षान् ॥ ३५ ॥
अन्वयः—तत्र पादन्यासैः क्वणितरशनाः लीलावधूतैः रत्नच्छायाखचित-वलिभिः चामरैः क्लान्तहस्ताः वेश्याः त्वत्तः नखपदसुखान् वर्षाग्रबिन्दून् प्राप्य त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् आमोक्ष्यन्ते ।
व्याख्या—तत्र = सन्ध्यासमये, पादन्यासैः = चरणप्रक्षेपैः, क्वणितरशनाः = मुखरितमेखलाः, लीलावधूतैः = विलाससञ्चलितैः, रत्नच्छायाखचितवलिभिः = कङ्कणमणिप्रभाव्याप्तदण्डैः, चामरैः = बालव्यजनैः, क्लान्तहस्ताः = खिन्नहस्ताः, वेश्याः = वाराङ्गनाः, त्वत्तः = भवतः मेघादिति भावः, नखपदसुखान् = नखक्षत-सुखदान्, वर्षाग्रबिन्दून् = वृष्टिप्रथमकणान्, प्राप्य = लब्ध्वा, त्वयि = मेघे, मधु-करश्रेणिदीर्घान् = भ्रमरपंक्तीवायतान्, कटाक्षान् = अपाङ्गान्, आमोक्ष्यन्ते = परित्यक्ष्यन्ति ।
शब्दार्थः—तत्र = संध्या समय में, पादन्यासैः = पैरों के सञ्चालन से, क्वणितरशनाः = जिनकी करधनियाँ बजती रहती हैं, लीलावधूतैः = विलासपूर्वक डुलाये गये, रत्नच्छायाखचितवलिभिः = मणियों की प्रभा से व्याप्तदण्डवाले, चामरैः = चँवरों से, क्लान्तहस्ताः = थके हुए हाथों वाली, वेश्याः = नर्तकियां = त्वत्तः = तुमसे, नखपदसुखान् = नखक्षत को सुख देनेवाली, वर्षाग्रबिन्दून् = वर्षा की पहली बूंदों को, प्राप्य = पाकर, त्वयि = तुम्हारे ऊपर, मधुकरश्रेणि-दीर्घान् = भ्रमरों की पंक्ति की तरह लम्बी, कटाक्षान् = कटाक्ष, आमोक्ष्यन्ते = फेकेंगी ।
पूर्वमेघः ९३
भावार्थः—हे मेघ ! सायंकाले चरणविक्षेपैः मुखरितमेखलाः सविलासं मणिमयदण्डयुक्तचामरसञ्चालनेन खिन्नहस्ताः गणिकाः त्वत्तः नखक्षतशान्ति-प्रदान् वृष्टेः प्रथमबिन्दून् लब्ध्वा त्वयि भ्रमरपंक्तीवायतान् कटाक्षान् परित्य-क्ष्यन्ति । कामिनीकटाक्षरूपं शिवस्तुतिफलं सद्यः लप्स्यसे इति भावः ।
हिन्दी—हे मेघ ! सायंकाल वहाँ, चरणसंचालन से जिनकी करधनियां बजती रहती हैं, विलासपूर्वक मणिमयदण्डवाले चँवरों को डुलाने के कारण थके हुए हाथों वाली, (ऐसी) नतंर्कियां, तुमसे नखक्षत को सुख देने वाली वर्षा की प्रथम बिन्दुओं को पाकर, तुम्हारे ऊपर भौरों की पंक्ति के समान लम्बी कटाक्षें फेंकेंगी । इस तरह शिवजी की स्तुति का कामिनी के कटाक्षरूप फल तुरन्त पा जाओगे ।
समासः—पादयोः न्यासः=पादन्यासः ( ष० तत्० ) तैः क्वणिता रशना यासां ताः पादन्यासक्वशणितरशनाः (बहुव्री०) । लीलया अवधूतैः=लीलावधूतैः (तृ० तत्०) । रत्नानां छाया=रत्नच्छाया ( ष० तत्० ) तया खचिता वलयो येषां तैः=रत्नच्छायाखचितवलिभिः ( बहुव्री० ) । क्लान्तो हस्तो यासां ताः क्लान्तहस्ताः ( बहुव्री० ) । नखानां पदानि=नखपदानि (ष० तत्०) तेषु सुखाः तान् नखपदसुखान् ( स० तत्० ) । अग्राश्च ते विन्दवः=अग्रबिन्दवः (कर्मधा०) वर्षस्य अग्रबिन्दवः=वर्षाग्रबिन्दवः (ष० तत्०) । मधुकराणां श्रेणी मधुकर श्रेणी तद्वद्दीर्घान् मधुकरश्रेणिदीर्घान् ( उपमानानि सामान्यवचनैरिति समासः ) ।
कोशः—पदं व्यवसितत्राणस्थानलक्ष्मांध्रिवस्तुषु, इत्यमरः । वलिश्चामरदण्डे च जरा विश्लथचर्मणि, इति विश्वः । करोपहारयोः पुंसि वलिः, इत्यमरः । सुखहेतौ सुखे सुखम्, इति शब्दार्णवः । दीर्घमायतम्, इत्यमरः । कटाक्षोऽपाङ्गदर्शने, इत्यमरः । पृषन्ति बिन्दुवृषतः पुमांसो विप्रुषः स्त्रियाम्, इत्यमरः ।
टिप्पणी—न्यास—"नि" उपसर्गपूर्वक "अस्" धातु से भाव में "घञ्" प्रत्यय करके आदिवृद्धि करके "न्यास" शब्द निष्पन्न होता है । क्वणित—यहाँ शब्दार्थक "क्वण्" धातु से कर्ता में "क्त" प्रत्यय हुआ है, क्योंकि यह धातु,
| ९४ | मेघदूतम् |
|---|
अकर्मक है, इसलिए "गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च" इस सूत्र से कर्ता में "क्त" प्रत्यय का विधान किया जाता है । त्वत्तः—यहाँ "युष्मद्" शब्द से "पञ्चम्यास्तसिल्" इस सूत्र से तसिल् प्रत्यय करके उसके परे रहते "प्रत्ययोत्तरपदयोश्च" इस सूत्र से "युष्मद्" शब्द के स्थान पर "त्वत्" आदेश का विधान करके "त्वत्तः" ऐसा रूप बना है । मधुकरः—मधु करोतीति = मधुकरः, यहाँ करोति तच्छीलः इस अर्थ में "कृ" धातु से "कृञो हेतुताच्छील्याऽनुलोम्येषु" इस सूत्र से "ट" प्रत्यय करके गुण करके मधुकर ऐसा रूप बनता है ।
अलंकार—यहाँ "मधुकरश्रेणिदीर्घान्" इस स्थल पर "इव" आदि उपमानवाची सामान्य शब्द का लोप होने के कारण "लुप्तोपमा" नामक अलङ्कार है ॥ ३५ ॥
पश्चादुच्चैर्भुज--तरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥३६॥
अन्वयः—पश्चात् नृत्यारम्भे प्रतिनवजपापुष्परक्तम् सान्ध्यम्, तेजः दधानः उच्चैः भुजतरुवनम् मण्डलेन अभिलीनः भवान्या शान्तोद्वेगस्तिमितनयनम् दृष्टभक्तिः पशुपतेः आर्द्रनागाजिनेच्छाम् हर ।
व्याख्या—पश्चात् सायन्तनपूजावसाने, नृत्यारम्भे = ताण्डवोपक्रमे शिवस्येति शेषः; प्रतिनवजपापुष्परक्तम् = नूतनजपाकुसुमारुणम्, सान्ध्यम् = सन्ध्याकालिकम्, तेजः = कान्तिम्, दधानः = धारयन्, उच्चैः = उन्नतम्, भुजतरुवनम् = बाहुवृक्षकाननम्, मण्डलेन = वृत्ताकारतया, अभिलीनः = अभिव्याप्तः, (सन्) भवान्या = पार्वत्या, शान्तोद्वेगस्तिमितनयनम् = विगतभयस्थिरनेत्रम् यथास्यात्तथा, (त्वम्) दृष्टभक्तिः = अवलोकितानुरागः, पशुपतेः = महाकालेश्वरस्य आर्द्रनागाजिनेच्छाम् = क्लिन्नगजचर्माऽऽकांक्षाम्, हर = दूरी कुरु, त्वमेव गजचर्मास्थानी कृष्णवर्णत्वेन भवेति भावः ।
पूर्वमेघः ९५
शब्दार्थः—पश्चात् = सायंकाल की पूजा के बाद, नृत्यारम्भे = ताण्डव के प्रारम्भ में, प्रतिनवजपापुष्परक्तम् = नवीन जपा (अड़हुल) पुष्प के समान लाल, सान्ध्यम् = सायंकालिक, तेजः = प्रकाश को, दधानः = धारण करते हुए, उच्चैर्भुजतरुवनम् = ऊँचे बाहुरूपी वृक्षों के वन पर, मण्डलेन = वृत्ताकारतया, अभिलोनः = व्याप्त होकर, भवान्या = पार्वती के द्वारा, शान्तोद्वेगस्तिमितनयनम् = निर्भय होकर निश्चल आँखों से, दृष्टभक्तिः = देखी गयी है भक्ति जिनकी (ऐसे तुम) पशुपतेः = शिवजी की, आर्द्रनागाजिनेच्छाम् = (शोणित से) गीले हाथी के चमड़े की इच्छा को, हर = दूर करना।
भावार्थः—सायङ्कालिक-पूजावसाने ताण्डवारम्भे नवीन-जपापुष्पाऽऽरुण्यमिव सायङ्कालिकं प्रकाशं धारयन् उच्छ्रितबाहुरूपे वृक्षवने मण्डलाकारेणाच्छन्नः सन् पार्वत्या विगतभयस्थिरलोचनेनावलोक्यमानः, अवलोकितपूज्यानुरागस्त्वं शिवस्य आर्द्रगजचर्माऽऽभिलापमपनय।
हिन्दी—सायं समय की पूजा के बाद ताण्डव (नृत्य) के प्रारम्भ में नवीन जपाकुसुम के समान सायङ्कालिक तेज को धारण करते हुए, ऊँचे बाहुरूपी वृक्षों के वनों पर वृत्ताकार रूप से व्याप्त होकर, पार्वती के द्वारा निर्भयपूर्वक निश्चल आँखों से देखे जाते हुए तुम शिवजी के ताजे हाथी के चमड़े की (ओढ़ने की) इच्छा को दूर करना।
समासः—पशूनां पतिः=पशुपतिः (ष० तत्०) तस्य। नृत्यस्य, आरम्भे=नृत्यारम्भे (ष० तत्०), नवं प्रतिगतं = प्रतिनवं च तत् जपापुष्पम् = प्रतिनवजपापुष्पम् (कर्म० धा०) तद्वत् रक्तम्=(उपमानकर्म०)। उच्चैर्भुजा एव तरवः (रूपक०) भुजतरूणां वनम् = उच्चैर्भुजतरुवनम् (ष० तत्०)। शान्त उद्वेगो ययोस्ते शान्तोद्वेगे (बहुव्री०) अतएव स्तिमिते नयने यस्मिंस्तत् यथा तथा (बहुव्री०) क्रियाविशेषणम्। (दृष्टं वस्तु) भक्तिरेव यस्य सः दृष्टभक्तिः (बहुव्री०)।
कोशः—नाट्यं नृत्यञ्च नर्तने, इत्यमरः। प्रत्यग्रोऽभिनवो नव्यः, इत्यमरः उद्वेगरत्तवदिते क्लेशे भये मन्थरगामिनि, इति शब्दार्णवः। मण्डलं परिधौ कोष्ठे
७ मे० दू०
| ९६ | मेघदूतम् |
|---|
देशे द्वादशराशिषु, इति मेदिनी। स्तिमितोऽञ्च्चलाद्रेयः, इति मेदिनी। आर्द्रं क्लिन्नं निमित्तं स्तिमितं सम्मुन्नतं मुक्तञ्च, इत्यमरः। अजिनं चर्म कृत्तिः स्त्री, इत्यमरः।
टिप्पणी— पश्चात् यह अव्यय है। "अपरस्मिन्" ऐसा विग्रह करके "अपर" के स्थान में "पश्चात्" इस सूत्र से "पश्चात्" आदेश किया गया है। दधानः— धारणार्थक "धा" धातु से लट्लकार में तिप् के स्थान पर "लटः शतृशानचावप्रथमासमानाधिकरणे" इस सूत्र से "शानच्" आदेश किया गया है। उच्चैः— यह अव्यय है; इस शब्द से आयी विभक्ति का "अव्ययादाप्सुपः' इस सूत्र से 'लुक्' हो गया है।
इसका सभी वचनों एवं सभी विभक्तियों में और तीनों लिङ्गों में एक-सा ही रूप रहता है। क्योंकि अव्यय का सामान्य लक्षण है—
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
सान्ध्यम्— सन्ध्यायां भवः = सान्ध्यम् यहाँ सन्ध्या शब्द से "तत्र भव" इस सूत्र से अण् प्रत्यय लाकर "सान्ध्यम्" ऐसा रूप बनता है।
भवानी— भवस्य स्त्री इस विग्रह में "भव" शब्द से स्त्रीत्व विवक्षा में ‘इन्द्रवरुणभवशर्वरुद्रमृडहिमाऽरण्ययवयवनमातुलाऽऽचार्याणामानुक्’ इस सूत्र से "ङीप्" प्रत्यय एवं "आनुक्" का आगम हुआ है।
दृष्टभक्तिः— महाकवि का यह प्रयोग पाणिनीय व्याकरण के विरुद्ध प्रयोगों में अन्यतम है। "दृष्टा भक्तिर्यस्य" इस विग्रह में समास हो जाने के पश्चात् "स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु" इस सूत्र से "दृष्टा" इस पद को पुंवद्भाव नहीं हो सकता, क्योंकि उक्त सूत्र "प्रियादि" गणपठित शब्द से भिन्न शब्दों के परे रहते ही पुंवद्भाव करता है, जब कि "भक्ति" शब्द का पाठ "प्रियादि" गण में आता है। अतः पाणिनीय व्याकरण-सम्मत तो "दृष्टा भक्तिः' ऐसा ही प्रयोग होगा। कुछ विद्वानों ने इसको व्याकरण-सम्मत बनाने का परिश्रम किया है। उनका विग्रह "दृष्टं"
पूर्वमेघः ९७
( वस्तु ) भक्तिः यस्य" इस प्रकार है। उनका अभिप्राय है "दृष्ट" शब्द "भक्ति" का विशेषण न होकर स्वतन्त्र विशेष्य है और "प्रमाणम्—वेदः" की तरह शुद्ध है। परन्तु यह केवल खींचा-तानी ही प्रतीत होता है क्योंकि महाकवि का अभिप्राय वही है जो "दृष्टा भक्ति" से ध्वनित हो रहा है।
अलङ्कार—इस श्लोक में "भुजतरुवनम्" यहाँ भुजाओं में रूपक का आरोप होने से "रूपक" अलंकार है। "प्रतिनवजपापुष्परक्तम्" यहाँ उपमानवाची सामान्य शब्द इवादि के लोप होने से लुप्तोपमा है, एवं सान्ध्यतेज को मेघ के धारण करने से असंभव वस्तु सम्बन्ध बिम्बप्रतिबिम्बभाव व्यक्त हो रहे हैं। अतः यहाँ "निदर्शना" नामक अलंकार है। इस प्रकार तीनों की संसृष्टि होने से "संकर" नामक अलंकार है ॥ ३६ ॥
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मास्मभूर्विक्लवास्ताः ॥३७॥
अन्वयः—तत्र नक्तं रमणवसतिं गच्छन्तीनां योषितां सूचिभेद्यैः तमोभिः रुद्धालोके नरपतिपथे कनकनिकषस्निग्धया सौदामन्या उर्वीम् दर्शय तोयोत्सर्गस्तनितमुखरः मास्मभूः ताः विक्लवाः ।
व्याख्या—तत्र =उज्जयिन्याम्, नक्तम् =निशायाम्, रमणवसतिम् =प्रेमीसदनम्, गच्छन्तीनाम् =यान्तीनाम्, योषिताम् =स्त्रीणाम्, अभिसारिकाणामित्यभिप्रायः । सूचिभेद्यैः =निविडैः (कविप्रसिद्धोऽयं शब्दः), तमोभिः =अन्धकारैः, रुद्धालोके =आवृत्तप्रकाशे, नरपतिपथे =राजमार्गे, कनकनिकषस्निग्धया =हैमशाणरेखातेजसा, सौदामन्या =तडिता, उर्वीम् =पृथ्वीम् मार्गमितिभावः, दर्शय =आलोकय, तोयोत्सर्गस्तनितमुखरः =वृष्टिगर्जनवाचालः, मास्मभूः =नो भव, ( यतो हि ) ताः =प्रियसदनगन्तुमुत्सुकाः अभिसारिकाः, विक्लवाः =भीरुका भवन्ति अतः ताः त्वया न भेतव्याः ।
९८ मेघदूतम्
शब्दार्थः— तत्र = उज्जयिनी में, नक्तम् = रात्रि में, रमणवसतिम् = प्रिय के घर, गच्छन्तीनाम् = जाती हुई, योषिताम् = अभिसारिकाओं का, सूचिभेद्यैः = गहन, तमोभिः = अन्धकार से, रुद्धालोके = आवृत्त-प्रकाशवाले, नरपतिपथे = राजमार्ग पर, कनक-निकषस्निग्धया = सोने की कसौटी की रेखा की तरह तेज वाली, सौदामन्या = बिजली के द्वारा, उर्वीम् = पृथ्वी को अर्थात् मार्ग को, दर्शय = प्रदर्शन करो ( अर्थात् उन्हें रास्ता दिखलाओ ) तोयोत्सर्ग-स्तनितमुखरः = वृष्टि से तथा गर्जन से शब्दायमान, मास्मभूः = मत होना, क्योंकि, ताः = वे अभिसारिकायें, विक्लवाः = डरपोक ( भवन्ति = होती हैं )।
भावार्थः— हे मेघ ! उज्जयिन्यां रात्रौ प्रियसदनं यान्तीनां अभिसारिकाणां निविडैस्तमोभिः प्रकाशरहिते राजमार्गे स्वर्णशलाकातेजसेव विद्युता मार्गेनिदर्शनं कुरु। वृष्टिगर्जनेन ताः न भेतव्याः स्वभावेन ताः विक्लवाः भवन्ति ।
हिन्दी— हे मेघ ! उज्जयिनी में रात्रि में प्रेमी के घर जाती हुई अभिसारिकाओं का घोर अन्धकार के कारण प्रकाशहीन राजमार्ग पर कसौटी पर स्वर्ण-रेखा के तेज के समान तेजवाली बिजली के द्वारा पथ-प्रदर्शन करना। वृष्टि से तथा गर्जन से शब्दायमान मत होना क्योंकि वे अभिसारिकायें डरपोक होती हैं ।
समासः— रमणानां वसतिः ताम् = रमणवसतिम् ( ष० तत्० )। रुद्धः आलोकः यस्मिंस्तस्मिन् रुद्धालोके ( बहुव्री० )। नराणां पतिः नरपतिः ( ष० तत्० ) तस्य पथे नरपतिपथे (ष० तत्०)। सूचिभिः भेद्याः (तृ० तत्०) तैः। कनकस्य निकषः कनकनिकषः ( ष० तत्० )। तद्वत् स्निग्धं यस्याः तथा ( व्यधिकरण बहु० ), तोयोत्सर्गश्च स्तनितञ्च = तोयोत्सर्गस्तनितम् ( द्वन्द्व ) ताभ्यां मुखरः ( तृ० तत्० )।
कोशः— दोषा च नक्तञ्च रजनाविति, इत्यमरः। आलोको दर्शनोद्योतौ, इत्यमरः। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि, इत्यमरः। वसुधोर्वी वसुन्धरा, इत्यमरः।
पूर्वमेघः ९९
टिप्पणी—नक्तम्=यह अव्यय है। रमणः—रमायतीति विग्रह में क्रीडार्थक "रम्" धातु से णिच् प्रत्यय करके कर्ता में "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" इस सूत्र से ल्यु प्रत्यय करके ह्रस्वादि करके "रमण" ऐसा रूप बनता है। सूचिभेद्यैः—सूई से छेदने योग्य, यह इस शब्द का अर्थ है। परन्तु यह गाढ़े अन्धकार के लिए प्रयुक्त होता है, ऐसी कविप्रसिद्धि है। नरपतिपथेः—यहाँ नरपति शब्द का "पथिन्" शब्द के साथ समास हो जाने पर 'ऋक्पूरब्धूःपथामानक्षे' इस सूत्र से समासान्त "अ" प्रत्यय करके उपधालोपादि करके "नरपतिपथ" ऐसा रूप बनता है ! उक्तरूप उसी शब्द के सप्तमी विभक्ति का है। मुखरः—मुखमस्यास्ती विग्रह में मुख शब्द से "रप्रकरणे खमुखकुञ्जेभ्यः रः" इससे रप्रत्यय करके "मुखर" ऐसा रूप बनाया जाता है।
अलङ्कारः—यहाँ "कनक-निकषस्निग्धया" इसमें लुप्तोपमा नामक अलङ्कार है। एवं "तोयोत्सर्गस्तनितमुखरः" इसका हेतु "विक्लवास्ताः" यह पद है इसलिए वाक्यार्थहेतुक-"काव्यलिङ्ग" नामक अलङ्कार है। अतः यहाँ दोनों का "संसृष्टि" नामक अलङ्कार है ॥ ३७ ॥
तां कस्यांचिद्भवन-वलभौ सुप्तपारावतायां नीत्वा रात्रिं चिर-विलसनात्खिन्नविद्युत्कलत्रः। दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८ ॥
अन्वयः—चिरविलसनात् खिन्न-विद्युत्कलत्रः भवान् सुप्तपारावतायाम् कस्यांचित् भवनवलभौ ताम् रात्रिम् नीत्वा सूर्ये दृष्टे पुनरपि अध्वशेषम् वाहयेत्, सुहृदाम् अभ्युपेताऽर्थकृत्याः न मन्दायन्ते खलु।
व्याख्या—(हे मेघ) चिरविलसनात्=बहुकालं यावत्-स्फुरणात्, खिन्नविद्युत्कलत्रः=श्रान्तचञ्चलभार्यः, भवान्=मेघः, सुप्तपारावतायाम्=निद्रितकपोतानाम्, कस्यांचिद्=अन्यतमायाम्, भवन-वलभौ=हर्म्याच्छादनोपरि-भागे, तां रात्रिम्=तां रजनीम्, नीत्वा=व्यतीत्य सूर्ये=भानौ, दृष्टे=उदिते, पुनरपि=भूयोऽपि, अध्व-
१०० मेघदूतम्
शेषम् = मार्गावशेषम्, वाहयेत् = प्राप्नुयात्, सुहृदाम् = मित्राणाम्, अभ्युपेतार्थ- कृत्याः = अङ्गीकृत-क्रियाः, (जनाः), न खलु मन्दायन्ते = नैव मन्दाः भवन्ति ।
शब्दार्थः—चिरविलसनात् = बहुत समय तक चमकने के कारण, खिन्न- विद्युत्कलत्रः = थक गयी है बिजलीरूपी स्त्री जिसकी (ऐसे), भवान् = आप, सुप्तपारावतायाम् = जहाँ कबूतर सो गये हैं ऐसे, कस्यांचित् = किसी, भवन- वलभौ = महल के ऊपरी भाग पर, तां रात्रिम् = उस रात्रि को, नीत्वा = बिता- कर, सूर्ये = सूरज के, दृष्टे = दीखने पर अर्थात् उग जाने पर, अध्वशेषम् = अवशिष्ट मार्ग को, वाहयेत् = पार करना (क्योंकि), सुहृदाम् = मित्रों के, अभ्युपेतार्थ-कृत्याः = कार्य को (करने के लिए) अङ्गीकार कर लिया है, जिन्होंने ऐसे पुरुष, न खलु मन्दायन्ते = कभी आलस्य नहीं करते हैं ।
भावार्थः—बहु-कालं यावत् स्फुरणात् खिन्न-चञ्चलभार्यः त्वं सुप्तपारावते कस्मिश्चित् भवनस्योपरिभागे तां रात्रिमतिवाह्य सूर्योदये सति पुनः मार्गावशेषं वाहयेः । यतो हि मित्राणामङ्गी-कृतकर्तव्याः जनाः न मन्दायन्ते ।
हिन्दी—हे मेघ ! बहुत समय तक चमकने के कारण थकी हुई बिजली- रूपी पत्नीवाले तुम जहाँ कबूतर सो गये हैं ऐसे किसी भवन के ऊपरी भाग पर उस रात्रि को बिताकर सूर्योदय हो जाने पर जो मार्ग बच गया हो उसे भी पार करना, क्योंकि जिन्होंने मित्रों के कार्यों को करना स्वीकार कर लिया है, वे पुरुष कभी आलस्य नहीं करते ।
समासः—चिरं विलसनं तस्मात् (सुप्सुपेति समासः) । खिन्नं विद्युदेव कलत्रं यस्य सः = खिन्नविद्युत्कलत्रः (बहुव्री०) । सुप्ताः पारावताः यस्यां सा सुप्तपारावता (बहुव्री०) तस्याम् । भवनस्य वलभी = भवनवलभी (ष० तत्०) तस्याम् । अध्वनः शेषम् = अध्वशेषम् (ष० तत्०) । अभ्युपेता अर्थस्य कृत्या यैस्ते अभ्युपेतार्थंकृत्याः (बहु०) ।
कोशः—कलत्रं श्रोणिभार्ययोः, इत्यमरः । पारावतः कलरवः कपोतोऽथ, इत्यमरः । आच्छादन्तु वलभी छादने वक्रदारुणि, इत्यमरः । आच्छादनं स्याद्वल-