भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

चतुर्थोऽङ्कः

( साकूतम् )

इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः।
निष्फलत्वमलं यान्ति वेश्याविहगमक्षिताः॥ १०॥

किन्तु तुम मुझे अपना मित्र कह रही हो और दूसरे पुरुष (चारुदत्त) के पास भी जा रही है ॥ ९ ॥

**टीका—**मदनिकार्थमकार्यं कुर्वन्तमपि स्वं प्रति तस्याः एकान्तप्रेम्णोऽभावं विचिन्त्य निर्विण्णः शर्विलकः स्वाभिप्रायं प्रकटयति—त्वत्स्नेहेति । सत्=शास्त्रादि-प्रतिपादितम्, वृत्तम्=आचरणम्, येषां ते, सद्वृत्ताः=सदाचारिणः, पूर्वपुरुषाः=पूर्वजाः पितृपितामहादयः, यस्मिन्, तादृशे, कुले = ब्राह्मणवंशे प्रसूतः=जातः, अपि, अहम्=शर्विलकः, तव = मदनिकायाः स्नेहेन=अनुरागेण, बद्धहृदयः=आकृष्टचित्तः, सन्, हि=निश्चयेन, अकार्यम्=अनुचितं चौर्यादिकृत्यम्, करोमि=विदधामि, मन्मथेन=कामभावेन, विपन्नाः = विपर्यस्ताः, नष्टाः, गुणाः=सदाचारविवेकादयः यस्य तादृशः सन्नपि, मानम्=सम्मानम्, गौरवम्, रक्षामि=सुरक्षितं स्थापयामि, न परित्यजामी-त्यर्थः, किन्तु, त्वम्=मदनिका, माम्=शर्विलकम्, मित्रम्=प्रणयिनम्, व्यपदिशसि=कथयसि, च = तथा, अन्यम् = अपरपुरुषम्, चारुदत्तमितिभावः, च=अपि, यासि=उपसरसि, रमणार्थमिति भावः । एवञ्च त्वमपि सामान्यवेश्येव व्यवहरसीति शर्वि-लकस्य तात्पर्यम् । वसन्ततिलकं वृत्तम् ॥ ९ ॥

**विमर्श—**यहाँ शर्विलक का स्वाभिमान जागृत हो उठता है और वह मदनिका को डाटने लगता है। मां मित्रं व्यपदिशसि= मुझे प्रेमी कह रही हो अथवा, मित्रं मां व्यपदिशसि=प्रेमी मुझे धोखा दे रही हो—यह दूसरा अर्थ भी सम्भव है। बाहरी प्रेम प्रकट करके मुझे मूर्ख बना रही है जब कि हृदय से तुम किसी अन्य पुरुष (चारुदत्त) से प्रेम करती हो । इसीलिये चारुदत्त के अप्रिय की सम्भावना से तुम मूच्छित हो गई और उसका अनिष्ट न जानकर—'अच्छा हुआ' कहकर प्रसन्नता व्यक्त कर रही हो ॥ वसन्ततिलका छन्द है ॥ ९ ॥

**अन्वयः—**इह, सर्वस्वफलिनः, कुलपुत्रमहाद्रुमाः, वेश्याविहगभक्षिताः, अलम्, निष्फलत्वम्, यान्ति ॥ १० ॥

**शब्दार्थ—**इह = इस संसार में, सर्व-स्व-फलिनः=सम्पूर्ण धनरूपी फलवाले, कुलपुत्रमहाद्रुमाः=उच्च कुल में उत्पन्न पुत्ररूपी महान वृक्ष, वेश्याविहगभक्षिताः=पक्षियों द्वारा खाये गये, अलम्=पूर्णरूप से, निष्फलत्वम्=फलहीनता (दरिद्रता) को, यान्ति=प्राप्त करते हैं ॥ १० ॥

**अर्थ—**इस संसार में, सारा धन जिनके फल हैं, ऐसे उच्च कुलोत्पन्न पुत्ररूपी

२५० मृच्छकटिकम्

अयञ्च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ ११ ॥

बड़े-बड़े वृक्ष, वेश्यारूपी पक्षियों द्वारा खाये हुये होते हुये पूर्णरूप से फलहीनता [ दरिद्रता ] को प्राप्त करते हैं ॥ १० ॥

टीका—मदनिकायाः वेश्यात्वेन तस्याः दोषान् वर्णयति—इहेति । इह= अस्मिन् संसारे, सर्वम् = समस्तम्, स्वम् = धनम्, एव फलम्=प्रंसवः —इति मत्वर्थे इनिः, अत्र इनिस्तु चिन्त्यः, कुलपुत्राः = कुलीनाः एव महन्तः = विशालाः द्रुमाः= वृक्षाः, वेश्याः=गणिकाः एव विहगाः, तैःभक्षिताः=खादिताः, चूषिताः इति भावः, सन्तः, अलम्=पूर्णतया, निष्फलत्वम् = फलहीनत्वम्, धनाभावं दारिद्र्यमिति भावः, यान्ति=व्रजन्ति । अत्र रूपकमलङ्कारः, पथ्यावक्त्रं वृत्तम् ॥ १० ॥

विमर्श—यहाँ स्व=धनपर फल का, कुलपुत्र पर वृक्ष का और वेश्या पर विहग का आरोप होने से साङ्गरूपक अलङ्कार है । अलम्—यहाँ अत्यधिक अर्थ में है । पथ्यावक्त्र छन्द है ॥ १० ॥

अन्वयः—सुरतज्वालः, प्रणयेन्धनः, अयम्, कामाग्निः, [ अस्ति ], यत्र, नराणाम्, यौवनानि, धनानि, च, हूयन्ते ॥ ११ ॥

शब्दार्थ—सुरतज्वालः = सम्भोगरूपी ज्वालाओंवाला, प्रणयेन्धनः=प्रेमरूपी ईंधनवाला, अयम् = यह, कामाग्निः=कामवासनारूपी अग्नि, ( अस्ति=है ), यत्र=जिस ( आग ) में, नराणाम्=पुरुषों के, यौवनानि=यौवन सम्पन्न शरीर, च=और, धनानि=धन, हूयन्ते=हवन कर दिये जाते हैं ॥ ११ ॥

अर्थ—सम्भोगरूपी ज्वालाओं ( लपटों ) वाला, प्रेमरूपी ईंधनवाला, यह कामरूपी अग्नि है जिसमें पुरुषों के यौवन ( युवावस्थायें ) और धन हवन कर दिये जाते हैं ॥ ११ ॥

टीका—वेश्यामेव दूषयन्नाह—सुरतज्वालः = सुरतम्=सम्भोग एव, ज्वाला=शिखा यस्य सः, प्रणयेन्धनः = प्रणयः = अनुरागः एव इन्धनम्=काष्ठम्, यस्य सः, तादृशः, अयम् = अनुभूयमानः, कामाग्निः = कामरूपो वह्निः, अस्ति=वर्तते, यत्र=यस्मिन् कामाग्नौ, नराणाम् = पुरुषाणाम्, कामातुराणामिति भावः, यौवनानि=तारुण्यानि, धनानि=ऐश्वर्यादीनि, च, हूयन्ते=आहुतय इव प्रक्षिप्यन्ते । अत्र पूर्वार्द्धे रूपकमुत्तरार्द्धे उत्प्रेक्षा च, पथ्यावक्त्र वृत्तम् ॥ ११ ॥

विमर्श—प्रस्तुत श्लोक में कामातुर पुरुषों के विनाश का सुन्दर वर्णन है । सुरत पर ज्वाला का, काम पर अग्नि का और प्रणय पर ईंधन का आरोप होने से रूपक अलंकार है । उत्तरार्द्ध में यौवन एवं धन की आहुति सम्भव नहीं है ।

चतुर्थोऽङ्कः २५१

वसन्तसेना-- (सस्मितम्) अहो ! से अत्थाणे आवेओ ! (अहो ! अस्य अस्थाने आवेगः।)

शर्विलकः--सर्वथा--

अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १२ ॥

अतः 'हूयन्ते' इव' इस उत्प्रेक्षा से ही वाक्यार्थसम्पन्न होने के कारण उत्प्रेक्षा भी है। पथ्यावक्त्र छन्द है ॥ ११ ॥

वसन्तसेना-- (मुस्कराहट के साथ) अहो ! इसका क्रोध अनुचित स्थान पर है। (अर्थात् बिना कारण है।)

अन्वयः-- ये, पुरुषाः, स्त्रीषु, च, श्रीषु, च, विश्वसन्ति, ते, मे, अपण्डिताः, मताः, हि, श्रियः, तथैव, नार्यः, भुजङ्गकन्यापरिसर्पणानि, कुर्वन्ति ॥ १२ ॥

शब्दार्थ-- ये=जो, पुरुषाः = आदमी, स्त्रीषु=स्त्रियों पर, च=और, श्रीषु= लक्ष्मी, सम्पत्ति पर, विश्वसन्ति = विश्वास करते हैं, ते=वे, मे = मुझे, अपण्डिताः= मूर्ख, मताः=प्रतीत होते हैं, हि=क्योंकि, श्रियः = लक्ष्मी (सम्पत्ति), तथैव=उसी प्रकार, नार्यः=स्त्रियाँ, भुजङ्गकन्यापरिसर्पणानि=नागिन के समान टेढ़ी-मेढ़ी चाल, कुर्वन्ति=करती हैं, चलती हैं ॥ १२ ॥

अर्थ--शर्विलक-हर प्रकार से--
जो पुरुष स्त्रियों पर और लक्ष्मी पर विश्वास करते हैं, वे मुझे मूर्ख लगते हैं, क्योंकि लक्ष्मी के समान स्त्रियाँ भी नागिन के सदृश टेढ़ी-मेढ़ी चाल चलती हैं। १२।

टीका--पूर्वं वेश्याभावस्य निन्दां कृत्वाऽधुना स्त्रीसामान्यमेव निन्दन्नाह--
अपण्डिता इति। ये, पुरुषाः = मनुष्याः, स्त्रीषु = नारीषु, च, स्त्रीषु = लक्ष्मीषु, सम्पत्तिषु, च, विश्वसन्ति = प्रत्ययं गच्छन्ति, ते = पुरुषाः, मे = मम, अपण्डिताः= मूर्खाः, मताः = स्वीकृताः, हि = यतः, श्रियः = लक्ष्म्यः, सम्पत्तय, तथैवः=तद्वदेव, नार्यः=स्त्रियः, भुजङ्गकन्यापरिसर्पणानि=भुजङ्गिनीनाम् इव परितः वक्रगमनानि, वञ्चनार्थं विविधाचरणानि, कुर्वन्ति = विदधति । अत्रार्थान्तरन्यासः, दीपकं चालङ्कारद्वयम् । उपजातिवृत्तम् ॥ १२ ॥

विमर्श--स्त्रीषु च श्रीषु च--यहाँ दो का प्रयोग प्रत्येक की प्रधानताख्यापनार्थ है। मे मता यहाँ-'क्तस्य च वर्तमाने' [ पा. सू. २।३।६७ ] से षष्ठी हुई है। अतः 'न लोकाव्यय० [ पा. सू. २।३।६९ ] से निषेध की शंका नहीं करनी चाहिये। यहाँ पूर्वार्द्धप्रतिपादित वाक्यार्थ के प्रति परार्द्धप्रतिपादितवाक्यार्थ हेतु है। अतः कारण से कार्य का समर्थनरूप अर्थान्तरन्यास है। अप्रस्तुत श्री और प्रस्तुत नारियों का भुजङ्गकन्यापरिसर्पणाकादित्वरूप एक धर्माभिसम्बन्ध होने से

२५२ मृच्छकटिकम्

स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति ।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ १३ ॥

सुष्ठु खल्विदमुच्यते—

एता हसन्ति च रुदन्ति च वित्तहेतो-
विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन
वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ १४ ॥


दीपक है । भुजंगकन्यानामिव—यहाँ उपमा भी है । परस्पर अङ्गाङ्गिभाव से सङ्कर है । उपेन्द्रवज्रा और इन्द्रवज्रा के योग से उपजाति छन्द है ॥ १२ ॥

अन्वयः—स्त्रीषु, रागः, न, कार्यः, (यतः), स्त्रियः, रक्तम्, पुरुषम्, परभवन्ति, हि, रक्ता, एव, रन्तव्या, विरक्तभावा, तु, हातव्या ॥ १३ ॥

शब्दार्थ—स्त्रीषु = स्त्रियों पर, रागः=प्रेम, न=नहीं, कार्यः=करना चाहिये, (यतः=क्योंकि) स्त्रियः=स्त्रियाँ, रक्तम्=अनुरक्त, प्रेमी, पुरुषम्=पुरुष को; परिभवन्ति=अपमानित कर देती है, हि=अतः, रक्ता=(अपने प्रति) अनुरक्त, एव=ही, रन्तव्या=रमण=प्रेम योग्य होती है, विरक्तभावा=न चाहनेवाली, उदासीन को, तु=तो, हातव्या=छोड़ देना चाहिये ॥ १३ ॥

अर्थ—स्त्रियों पर (अनपेक्षित) अनुराग नहीं करना चाहिये, क्योंकि स्त्रियाँ अनुरागी (प्रेमी) पुरुष को अपमानित कर देती हैं। (अपने प्रति) अनुराग रखनेवाली के साथ ही रमण (प्रेम) करना चाहिये, न चाहनेवाली को छोड़ देना चाहिये, उससे प्रेम नहीं करना चाहिये ॥ १३ ॥

टीका—पुनः स्त्रीसामान्यविषयिणीं निन्दां करोति-स्त्रीष्विति । स्त्रीषु=नारीषु, रागः=अनपेक्षितोऽनुरागः, न=नैव, कार्यः=विधेयः, (हि=यतः), स्त्रियः=नार्यः, रक्तम्=स्वस्यां परमानुरागिणम्, पुरुषम्=नरम्, परिभवन्ति=अपमानयन्ति, वञ्चयन्तीति यावत्; हि=अतः, रक्ता=आत्मनि अनुरागवती, एव, रन्तव्या=रमणार्या, विरक्तभावा-विरक्तः=अनुरागरहितः, भावः=चित्तम्, यस्याः, तादृशानुरागशून्येति भावः, हातव्या=परिवर्जनीया । काव्यलिङ्गमलङ्कारः, आर्या वृत्तम् ॥ १३ ॥

विमर्श—यहाँ अनुरागवती के साथ ही अनुराग करने का औचित्य प्रस्तुत किया है। यहाँ 'रक्ता एव' यह एवकार अन्ययोगव्यवच्छेद करा ही देता है, अर्थात् रक्ता से भिन्न के साथ रमण=अनुराग नहीं करना चाहिये—यह अर्थ प्रतीत हो जाता है। पुनः 'विरक्तभावा तु हातव्या' इस कथन से पुनरुक्तता दोष है। इसके लिये 'सुरक्ता हि रन्तव्या' ऐसा पाठ परिवर्तन कर लेना चाहिये—ऐसा जीवानन्दविद्यासागर का परामर्श है ॥१३॥

अन्वयः—एताः, वित्तहेतोः, हसन्ति, च, रुदन्ति, च, पुरुषम्, विश्वासयन्ति,

चतुर्थोऽङ्कः २५३

अपि च—

समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्त्तंरागाः
स्त्रियो हतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत् त्यजन्ति ॥ १५ ॥

तु, न, विश्वसन्ति, तस्मात्, कुलशीलसमन्वितेन, नरेण, श्मशानसुमनाः, इव, वेश्याः, वर्जनीयाः ॥ १४ ॥

शब्दार्थ— एताः = ये (वेश्या में), वित्तहेतोः = धन प्राप्त करने के लिये, हसन्ति=हसती हैं। च=और, रुदन्ति=रोती हैं; पुरुषम्=पुरुष को, विश्वासयन्ति=विश्वास दिलाती हैं; तु=किन्तु, स्वयम् = स्वयम्, न=नहीं, विश्वसन्ति=विश्वास करती है; तस्मात्=इसलिये, कुलशीलसमन्वितेन=उच्च कुल एवं स्वभाव से युक्त, नरेण=पुरुष को, वेश्याः=वेश्यायें, श्मशानसुमनाः=श्मशानस्थल पर लगने वाले फूल के, इव=समान, वर्जनीयाः=छोड़ देनी चाहिये। (उनसे किसी प्रकार का सम्बन्ध नहीं रखना चाहिये।) ॥ १४ ॥

अर्थ— वस्तुतः यह उचित ही कहा जाता है—
ये (वेश्यायें) धन कमाने के लिये (प्रेमी के प्रति) हसती हैं और रोती हैं। पुरुष को (अपने ऊपर) विश्वास दिलाती है परन्तु (स्वयं पुरुषों पर) विश्वास नहीं करती हैं। अतः उत्तम कुल एवं स्वभाव वाले पुरुष को वेश्याओं का परित्याग श्मशानस्थल पर लगे हुये फूलों के समान कर देना चाहिये ॥ १४ ॥

टीका— स्त्रीसामान्यं विनिन्द्य पुनः स्त्रीविशेषां वेश्यां निन्दति—एता इति। एताः=वारनार्यः, वेश्याः, वित्तहेतोः=धनस्य कारणात्, अनुरागिपुरुषं प्रति, हसन्ति=हासं कुर्वन्ति, रुदन्ति=विलपन्ति, कदाचित् हासप्रदर्शनं कदाचिच्च अश्रु प्रदर्शनं कृत्वा विमोहयन्तीति भावः, पुरुषम्=अनुरागिणं जनम् विश्वासयन्ति=प्रत्याययन्ति, च, तु=किन्तु स्वयम्, न=नैव, विश्वसन्ति = प्रतियन्ति, विश्वासं कुर्वन्तीत्यर्थः, तस्मात्=पूर्वोक्तहेतोः, कुलेन = सद्वंशेन, स्वभावेन = उत्तमप्रकृत्या च समन्वितेन=युक्तेन, नरेण=पुरुषेण, वेश्याः=वारनार्यः, श्मशाने=श्मशानक्षेत्रे उत्पन्नाः, सुमनाः=पुष्पम् इव=तुल्याः, वर्जनीया=परिहातव्याः, यत्र दीपकमुपमा चालङ्कारः, वसन्त-तिलकं वृत्तम् ॥ १४ ॥

विमर्शः— वेश्याओं के सारे क्रियाकलाप धन=प्राप्ति के लिये ही होते हैं। अतः इनके हसने या रोने के चक्कर में नहीं फँसना चाहिये। यहाँ 'एताः' एक ही कर्ता (कर्त्री) का हास, रुदन, विश्वासोत्पादन आदि अनेक क्रियाओं के साथ सम्बन्ध होने से दीपक अलंकार है। उत्तरार्ध में, श्मशानपुष्पों के साथ वेश्याओं का परित्याग बताया गया है। अतः उपमा भी है। वसन्ततिलका छन्द है ॥ १४ ॥

अन्वयः— समुद्रवीची, इव, चलस्वभावाः, सन्ध्याभ्रलेखा, इव, मुहूर्त्तरागाः, स्त्रियः, हतार्थाः, (सत्यः), निरर्थम्, पुरुषम्, निष्पीडितालक्तकवत्, त्यजन्ति ॥१५॥

२५४ | मृच्छकटिकम्

स्त्रियो नाम चपलाः—

अन्यं मनुष्यं हृदयेन कृत्वा ह्यन्यं ततो दृष्टिभिराह्वयन्ति ।
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥


शब्दार्थ—समुद्रवीची इव = सागर की तरङ्ग के समान, चलस्वभावाः = चञ्चलस्वभाव वाली; सन्ध्याभ्रलेखा इव = सायंकालीन मेघों की पंक्ति के समान, मुहूर्तरागाः = क्षणिक अनुराग करने वालीं, स्त्रियः = औरतें ( = वेश्यायें ), हृतार्थाः = सारा धन हरण कर लेने वाली, [ सत्यः = होती हुई ], निरर्थम् = धनहीन, पुरुषम् = पुरुष को, निष्पीडितालक्तकवत् = निचोड़े गये आलता = महावर के समान, त्यजन्ति = छोड़ देती हैं, फेंक देती हैं ॥ १५ ॥

अर्थ—और भी—
सागर की तरङ्गों के समान चञ्चल स्वभाववाली, सायंकालीन मेघों की पंक्ति के समान क्षण भर के लिये रागवाली (मेघ पक्ष में राग = लालिमा, से युक्त, वेश्यापक्ष में राग = अनुराग से युक्त), स्त्रियाँ (वेश्यायें) सारा धन हरण कर लेने के बाद धनहीन पुरुष को निचोड़े गये आलता (महावरं) के समान छोड़ देती हैं, फेंक देती हैं ॥ १५ ॥

टीका—पुनः वेश्याभावमेव निन्दन्नाह—समुद्रवीचीति । समुद्रवीचीव = सागरतरङ्ग इव, चलः = चञ्चलः, स्वभावः = प्रकृतिर्यासां ताः, अतिचपला इत्यर्थः, **सन्ध्याऽभ्रलेखा—**सन्ध्यायाम् = सायंकाले यद् अभ्रम् = अस्तगमनोन्मुखसूर्यकिरण-रञ्जितो मेघः, तस्य, लेखा = रेखा, इव = यथा, मुहूर्तम् = अत्यल्पकालम्, रागः = अनुरागः, मेघपक्षे—रक्तिमा, यासां ताः, स्त्रियः = वेश्याः, हृतः = वञ्चितः, पुरुषात् गृहीतः, अर्थः = धनं याभिः तथाभूताः, सत्यः, निरर्थम् = धनहीनम्, पुरुषम्, निष्पीडितम् = निःसारितम्, यद् अलक्तकम् = लाक्षारसः, तद्वत्, त्यजन्ति = परित्यजन्ति ॥ उपमाऽलङ्कारः उपजातिः वृत्तम् ॥ १५ ॥

**विमर्श—**इसमें स्त्रीजाति का समुद्रवीची एवम् अभ्रलेखा के साथ सादृश्य होने से मालोपमा है। अलक्तकवत्—इसमें तद्धितगत श्रौती उपमा है। रुई में आलता (महावर) भरा रहता है। उसे पानी में भिगा कर स्त्रियाँ पैरों में लगाती हैं। जब तक लगाने लायक होता है लगाती रहती हैं। पूरी तरह निचोड़ने के बाद फेंक देती हैं। उसी प्रकार वेश्यायें भी मनुष्य का सर्वथा शोषण करके छोड़ देती हैं ॥ १५ ॥

अन्वयः—(स्त्रियः ), हृदयेन, अन्यम्, मनुष्यम्, कृत्वा, ततः, अन्यम्, दृष्टिभिः, आह्वयन्ति, अन्यत्र, मदप्रसेकम्, मुञ्चति, अन्यम्, च, शरीरेण, कामयन्ते ॥ १६ ॥

चतुर्थोऽङ्कः २५५

सूक्तं खलु कस्यापि---

न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति। यवाः प्रकीर्णा न भवन्ति शालयो न वेशजाताः शुचयस्तथाऽङ्गना ॥१७॥

शब्दार्थ---( स्त्रियः=वेश्यायें ), हृदयेन=हृदय से, मन से, अन्यम्=दूसरे, मनुष्यम्=मनुष्य को, कृत्वा=चाह कर या स्थापित करके, ततः=उसके बाद, अन्यम्=किसी दूसरे व्यक्ति को, दृष्टिभिः=आंखों के ( संकेतों ) से, आह्वयन्ति=बुलाती हैं; अन्यत्र=किसी अन्य पुरुष में, मदप्रसेकम्=अपने यौवन मद के हाव भावादि को, मुञ्चन्ति=छोड़ती हैं; च=और शरीरेण=शरीर द्वारा, अन्यम्=किसी दूसरे को, कामयन्ते=चाहती हैं ।। १६ ।।

**अर्थ---**अत्यन्त चञ्चल वेश्या स्त्रियाँ-- हृदय में किसी दूसरे को रख कर उससे भिन्न पुरुष को आँख के संकेतों से बुलाती हैं । किसी अन्य पुरुष के विषय में ( अपने यौवन ), मद के हाव भाव छोड़ती हैं या मदिरा का कुल्ला करती हैं । और किसी अन्य को शरीर से चाहती हैं ।। १६ ।।

**टीका---**वेश्यात्वमेव निन्दन्नाह--अन्यमिति। अत्र सर्वत्र गद्यस्थेन 'स्त्रिय' इति कर्तृपदेनान्वयः । हृदयेन = मनसा, अन्यम्=एकम्, जनम्=पुरुषम् कृत्वा=निश्चित्य, संस्थाप्य वा, एकस्मिन् मनुष्ये मनः आधाय इति यावत् ; ततः=तस्मात् जनात्, अन्यम्=भिन्नम्, दृष्टिभिः=कटाक्षैः, आह्वयन्ति=सङ्केतयन्ति; अन्यत्र=तस्मात् अपरस्मिन् जने, मदप्रसेकम् = यौवनजनितसाहङ्कारव्यवहारम् अथवा मदस्य=सुरागण्डूषस्य, प्रसेकम्=मुखात् क्षेपम्, मुञ्चन्ति=त्यजन्ति । शरीरेण=देहेन, च, अन्यम्=ततो भिन्नम्, कामयन्ते=अभिलषन्ति । अत्र दीपकालङ्कारः, इन्द्रवज्रा वृत्तम् ।। १६ ।।

विमर्श- इस श्लोक के चारो पादों में 'अन्य' शब्द के प्रयोग के कारण अनवीकृतत्व दोष है । एक स्त्रीरूप कर्तृपद का स्थापन, आह्वान, परित्याग एवं कामना रूपी क्रियाओं के साथ अन्वय होने से दीपक अलङ्कार है । ततः अन्यम्-यहाँ पृथक् अर्थ मान कर पञ्चमी में तसिल् प्रत्यय मानना चाहिये ।। १६ ।।

**अन्वय---**नलिनी, पर्वताग्रे, न, प्ररोहति, गर्दभाः, वाजिधुरम्, न, वहन्ति; प्रकीर्णाः, यवाः, शालयः, न, भवन्ति; तथा, वेशजाताः अङ्गनाः, शुचयः, न भवन्ति ॥ १७ ॥

**शब्दार्थ---**नलिनी = कमलिनी, पर्वताग्रे = पहाड़ की चोटी पर, न=नहीं, प्ररोहति=पैदा होती है; गर्दभाः=गधे, वाजिधुरम्=घोड़े के बोझे को, न=नहीं, वहन्ति=ढोते हैं; प्रकीर्णाः=बिखेरे गये, यवा=जौं, शालयः=धान, न=नहीं, भवन्ति=

२५६ मृच्छकटिकम्

आः, दुरात्मन् चारुदत्तहतक ! अयं न भवसि । ( इति कतिचित् पदानि गच्छति )

मदनिका-- ( अञ्चले गृहीत्ता ) अइ अम्बद्धभासअ ! असम्भावणीए कुप्पसि । ( अयि असम्बद्धभाषक ! असम्भावनीये कुप्यसि । )

शर्विलकः--कथमसम्भावनीयं नाम ! ।

मदनिका--एसो क्खु अलङ्कारओ अज्जआकेरओ ( एष खल्वलङ्कारः आर्य्यासम्बन्धी । )


होते हैं; तथा = इसी प्रकार, वेशजाताः = वेश्या के घर में उत्पन्न होने वाली; अङ्गनाः=स्त्रियाँ, शुचयः=पवित्र, न=नहीं, भवन्ति=होती हैं ॥ १७ ॥

अर्थ-- किसी का समुचित कथन है--

कमलिनी पहाड़ की चोटी पर नहीं पैदा होती है । गधे घोड़े के बोझे को नहीं ढोते हैं । ( खेत आदि में ) छींटे गये, बिखेरे गये जौ धान नहीं बन जाते हैं । उसी प्रकार वेश्यागृह में उत्पन्न स्त्रियाँ पवित्र नहीं होती हैं ॥ १७ ॥

टीका-- वेश्यानां निरतिशयनीचतां प्रकटयितुं शिष्टोक्तिमुदाहरति--नेति । नलिनी=पद्मिनी, पर्वताग्रे = गिरिशिखरे, न=नैव, प्ररोहति=जायते; गर्दभाः=रासभाः, बाजिधुरम्=अश्ववाह्यं भारम्, न=नैव, वहन्ति=धारयन्ति; प्रकीर्णाः=उप्ताः, यवाः=एतन्नाम्ना प्रसिद्धा धान्यविशेषाः, शालयः=तन्नाम्ना प्रसिद्धाः धान्य-विशेषाः, न=नैव, भवन्ति=जायन्ते; तथा=तेनैव प्रकारेण, वेशजाताः=वेश्याजनाश्रये उत्पन्नाः, = स्त्रियः, वेश्या इति भावः, शुचयः=पवित्राचरणाः, न=नैव, भवन्ति । अत्र द्वितीयपादे एकाक्षरन्यूनत्वात् हतवृत्तता दोषः, वंशस्थबिलं वृत्तम् । दृष्टान्ता-लङ्कारः ॥ १७ ॥

विमर्श-- यहाँ तीन के असम्भवत्व के समान वेश्याजनों की पवित्रता का असम्भवत्व प्रतिपादित किया गया है । द्वितीय से चतुर्थपाद तक कर्ता बहुवचन है परन्तु प्रथमपाद में एकवचन है । अतः भग्नप्रक्रमता दोष है । यहाँ दृष्टान्त अलङ्कार फलित होता है । इसमें वंशस्थ छन्द है । परन्तु द्वितीयपाद में एक अक्षर न्यून होने के कारण हतवृत्तता दोष है ॥ १७ ॥

अर्थ-- अरे नीच चारुदत्त ! यह तुम ( अब जीवित ) नहीं हो । ( अर्थात् मैं अभी तुम्हें मार डालता हूँ ! ) ( यह कह कर कुछ कदम चलता है । )

मदनिका-- ( आँचल में पकड़ कर ) अरे ऊटपटांग बोलने वाले ! असम्भाव-नीय ( जिसकी सम्भावना नहीं की जा सकती उस ) पर क्रोध कर रहे हो ।

शर्विलक-- असम्भावनीय कैसे ?

मदनिका-- यह अलङ्कार आर्या ( वसन्तसेना ) का है ।

चतुर्थोऽङ्कः २५७

शर्विलकः-ततः किम् ?
मदनिका-स च तस्य अज्जस्स हत्थे विणिक्खित्तो। (स च तस्य आर्यस्य हस्ते विनिक्षिप्तः ।)
शविलकः-किमर्थम् ?
मदनिका--( कर्णे ) एव्वं विअ । ( एवमिव । )
शविलकः-( सवैलक्ष्यम् ) भोः ! कष्टम् ।

छायार्थं ग्रीष्मसन्तप्तो यामेवाहं समाश्रितः।
अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥


शर्विलक-तो इससे क्या ?
मदनिका-यह उन आर्य ( चारुदत्त ) के हाँथ गिरवीं रखा गया था ।
शर्विलक-किस लिये ?
मदनिका--( कान में ) इस लिये ।
शविलक--( लज्जा के साथ ) हाय ! कष्ट है ।

**अन्वयः-**ग्रीष्मसन्तप्तः, अहम्, छायार्थम्, याम्, एव, समाश्रितः, अजानता, मया, सा, एव, शाखा, पत्रैः, वियोजिता ॥ १८ ॥

**शब्दार्थ-**ग्रीष्मसन्तप्तः=गर्मी=धूप से परेशान, अहम् = मैंने, छायार्थम्=छाया के लिये, याम्=जिस ( शाखा ) का, समाश्रितः=सहारा लिया था; अजानता=न जानते हुये, मया=मैंने, सा=उसी, शाखा=शाखा ( पेड़ की डाल ) को, पत्रैः=पत्तों से, वियोजिता=रहित कर दिया ॥ १८ ॥

**अर्थ-**गर्मी ( की धूप ) के कारण परेशान मैंने छाया ( प्राप्त ) करने के लिये ( वृक्ष की ) जिस शाखा का सहारा लिया था; अज्ञानवश उसे मैंने पत्तों से रहित बना डाला । ( अर्थात् वसन्तसेना से छुड़वाने के लिये कोशिश की परन्तु ये गहने वसन्तसेना के ही हैं अतः अब मदनिका को छुड़वा सकना सम्भव नहीं हैं। यह सब अज्ञानता से हो गया । ) ॥ १८ ॥

**टीका-**मदनिकामुक्त्यर्थमेवमकार्यं कुर्वन् शर्विलकः वसन्तसेनाया एव अनभिलषितं समाचरन् पश्चात्तपति छायार्थमिति। ग्रीष्मसन्तप्तः=निदाघपीडितः, अहम्=शर्विलकः, छायार्थम्=सन्ताप दूरीकरणाम छायाप्राप्त्यर्थम्, यामेव=वृक्षशाखामेव, समाश्रितः=अवलम्बितवान्, अजानता=अनभिज्ञेन, मया=शर्विलकेन, सैव=तादृशी आश्रयीभूता शाखैव, पत्रैः = पल्लवैः, वियोजिता = पत्रशूनीकृता । अत्राप्रस्तुतप्रशंसालङ्कारः, पथ्यावक्त्रं वृत्तम् ॥ १८ ॥

**विमर्श-**यहाँ शर्विलक अपनी गलती का पश्चात्ताप कर रहा है। यहाँ ग्रीष्मसन्तप्त का छायाप्राप्ति के लिये आश्रित शाखा के पत्तों का उजाड़ना अप्रस्तुत

१७ मृ०

२५८ मृच्छकटिकम्

बसन्तसेना—कधं एसो वि सन्तप्पदि ज्जेव। ता अजाणन्तेण एदिणा एव्वं अणुचिट्ठिदं। (कथमेषोऽपि सन्तप्यते एव। तदजानता एतेन एवमनुष्ठितम्।)
शर्विलकः—मदनिके ! किमिदानीं युक्तम् ?
मदनिका—इत्थं तुमं ज्जेव पण्डिओ। ( अत्र त्वमेव पण्डितः । )
शर्विलकः—नैवम्। पश्य—

स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः।
पुरुषाणान्तु पाण्डित्यं शास्त्रैरेवोपदिष्यते ॥ १९ ॥


है, इसके द्वारा कामाग्नि से सन्तप्त शर्विलक का मदनिकाप्राप्ति के लिये आश्रित वसन्तसेना के धरोहर के गहनों का चुरा लेना—इस प्रस्तुत का ज्ञान होने से अप्रस्तुतप्रशंसा अलंकार है। इसके माध्यम से मदनिका को न पा सकना द्योतित कर रहा है। पथ्यावक्त्र छन्द है ॥ १८ ॥

**अर्थ—वसन्तसेना—**क्या, यह भी दुःखी हो रहा है ? तो निश्चित ही इसने अनजान में चोरी की है।

**शर्विलकः—**अब क्या करना ठीक होगा ?

**मदनिका—**इस विषय में तो तुम्हीं चतुर हो।

**शर्विलक—**ऐसा नहीं। देखो—

**अन्वयः—**एताः, स्त्रियः, हि, निसर्गात्, एव, पण्डिताः, खलु, नाम, तु, पुरुषाणाम्, पाण्डित्यम्, शास्त्रैः, एव, उपदिश्यते ॥ १९ ॥

**शब्दार्थ—**एताः=ये, स्त्रियः=स्त्रियाँ, हि=निश्चय ही, निसर्गात्=प्रकृति से, एव=ही, पण्डिताः=चतुर, ( होती हैं ), खलु नाम=ऐसा माना जाता है। तु=किन्तु, पुरुषाणाम् = मनुष्यों का, पाण्डित्यम्=चातुर्य, शास्त्रैः=शास्त्रों के द्वारा, एव=ही उपदिश्यते=उपदिष्ट होता है, सिखाया जाता है ॥ १९ ॥

**अर्थ—**ये स्त्रियाँ जन्म से ही अथवा स्वभाव से ही चतुर होती हैं। किन्तु पुरुषों की चतुरता तो शास्त्रों के द्वारा ही सिखाई जाती है । ( अर्थात् स्त्रियां बिना सिखाये ही चतुर होती हैं परन्तु पुरुष सिखाये जाने के बाद ही चतुर हो पाते हैं ) ॥ १९ ॥

**टीका—**उपस्थितसमस्यायां मदनिकाया एवोपायनिर्धारकत्वं व्यवस्थापयितु स्त्रीबुद्धेर्निसर्गसूक्ष्मत्वमाह—स्त्रिः इति। एताः=इमाः, स्त्रियः=नार्यः, निसर्गात्=स्वभावात्, जन्मतओ वा, एव, पण्डिताः = चतुराः, खलु नाम = सम्भावनायाम्, ताः पण्डिता इति सम्भावयामि, तु = परन्तु, पुरुषाणाम् = मनुष्याणाम्, पाण्डित्यम्=चातुर्यम्, शास्त्रैः=शास्त्रदर्शनैः, एव, उपदिश्यते=शिक्ष्यते, कथ्यते वा विद्वद्भिरिति शेषः। एवञ्च अत्र मदनिकाया एव निर्धारकत्वक्षमत्वमिति बोध्यम् ॥ १९ ॥

चतुर्थोऽङ्कः २५६

मदनिका--सव्विलअ ! जइ मम वअणं सुणोअदि, ता तस्य ज्जेव महा- णुभावस्स पडिणिज्जादेहि। (शर्विलक ! यदि मम वचनं श्रूयते, तत् तस्यैव महानुभावस्य प्रतिनिर्यातय ।)
शर्विलकः--मदनिके ! यद्यसौ राजकुले मां कथयति ?
मदनिका--ण चन्दादो आदवो होदि । ( न चन्द्रादातपो भवति । )
वसन्तसेना--साहु, मदणिए ! साहु । ( साधु, मदनिके ! साधु । )
शर्विलकः--मदनिके !

न खलु मम विषादः साहसेऽस्मिन् भयं वा
कथयसि हि किमर्थं तस्य साधोगु णांस्त्वम् ।
जनयति मम चेदं कुत्सितं कर्म लज्जां
नृपतिरिह शठानां मादृशां किं नु कुर्यात् ? ॥ २० ॥


विमर्श--पुरुष एवं स्त्री की चतुरता के बारे में यहाँ सुन्दर चित्रण किया गया है। यहाँ स्त्रीजाति के उत्कर्ष का कथन होने से व्यतिरेक अलङ्कार है। पथ्यावक्र छन्द है ॥ १९ ॥

मदनिका—हे शर्विलक ! यदि मेरी बात सुनते हो (मानते हो) तो उन्हीं महानुभाव (चारुदत्त) को वापस दे आओ।
शर्विलक--मदनिके ! यदि ये (चारुदत्त) न्यायालय में कह दें तो ?
मदनिका--अरे, चन्द्रमा से धूप नहीं होती । (अर्थात् चारुदत्त ऐसा कृत्य नहीं कर सकता ।)
वसन्तसेना—धन्य हो मदनिके ! धन्य हो ।

टीका--मम=मदनिकायाः, श्रूयते=स्वीक्रियते, तत्=तस्मात्, तस्यैव=चारु-दत्तस्यैव, सम्बन्धसामान्ये षष्ठी बोध्या, प्रतिनिर्यातय = प्रत्यर्पय, राजकुले = राज-सभायाम्, न्यायालये इत्यर्थः, कथयति=वर्तमानसामीप्ये लट्, आतपः=घर्मः, यथा चन्द्रात् आतपो न समुदेति तथैव चारुदत्तेनेदं न सम्भाव्यते ।

अन्वयः--अस्मिन्, साहसे, मम, विषादः, भयम् वा, न, खलु, (अस्ति), त्वम्, तस्य, साधोः, गुणान्, कथम्, कथयसि ? हि, इदम्, कुत्सितम्, कर्म, वा, मम, लज्जाम्, जनयति, इह, नृपतिः, मादृशाम्, शठानाम्, किम्, नु, कुर्यात् ॥ २० ॥

शब्दार्थ--अस्मिन्=इस, साहसे=दुस्साहसिक चौर्य कार्य में, मम=मुझ शर्विलक का, विषादः=खेद, वा=अथवा, भयम्=डर, न=नहीं है, खलु=निश्चय ही, त्वम्=तुम मदनिका, तस्य = उस, साधोः = सज्जन (चारुदत्त) के, गुणान् = सद्गुणों को, किमर्थम्=किसलिये, कथयसि = कह रही हो ? हि=क्योंकि, इदम्=यह, कुत्सितं

२६० मृच्छकटिकम्

तथापि नीतिविरुद्धमेतत् । अन्य उपायश्चिन्त्यताम् । मदनिका—सो अअ अवरो उवाओ । ( सोऽयमपर उपायः । ) वसन्तसेना—को क्खु अवरो उवाओ भविस्सदि ? (कः खलु अपरं उपायो भविष्यति ? )


कर्म=निन्दित चोरी का कार्य ही, वा=निश्चित रूप से, मम=मुझ शर्विलक की, लज्जाम्=लाज को, जनयति=उत्पन्न कर रहा है । ( अर्थात् चोरी करने से ही मुझे लज्जा हो रही है । ) इह=इस विषय में, नृपतिः=राजा, मादृशाम्=हमारे जैसे, शठानाम्=धूतों का, किम् नु=क्या, कुर्यात्=कर सकेगा ? ॥ २० ॥

अर्थ—शर्विलक—मदनिके !

इस दुस्साहसिक ( चोरी के ) कार्य में, सचमुच, न तो किसी प्रकार का खेद ( पश्चात्ताप ) है और न ( राजा के दण्ड का ) भय है । इस स्थिति में तुम उन सज्जन चारुदत्त के गुणों का वर्णन क्यों कर रही हो ? क्योंकि यह चोरी करना कुत्सित कार्य ही मेरी लज्जा उत्पन्न कर रहा है। इस विषय में मेरे जैसे धूर्तों का राजा क्या कर सकता है ? अर्थात् कुछ नहीं कर सकता है ॥ २० ॥

टीका-—आत्मनः सामर्थ्यं प्रकटयन् मदनिकायाः, वचनं नीतिविरुद्धं प्रतिपाद- यन्नाह--न खल्विति । अस्मिन्=उपस्थिते, साहसे=चौर्यरूपे साहसिकर्मणि, मम=शर्विलकस्य, विषादः = खेदः, पश्चात्तापो वा, न खलु = नैवास्ति, त्वम्=मदनिका, साधोः = सज्जनस्य, तस्य = चारुदत्तस्य, गुणान् = दयादाक्षिण्यादीन्, किमर्थम्=किन्निमित्तम्, कथयसि=वर्णयसि ? हि=अवधारणे, वा=अथवा, इदम्=मयाचरितम्, इदम्, कुत्सितम्=निन्दितम्, कर्म = चौर्यम्, मम=शर्विलकस्य, लज्जाम्=ह्रियम्, जनयति = उत्पादयति, इह = अस्मिन् विषये, नगरे वा, नृपतिः = राजा, मादृशाम्=मादृशानाम्, शठानाम्=धूर्तानाम्, किम् नु, कुर्यात्=किं कतुं शक्नुयात्, न किमपीत्यर्थः । काव्यलिङ्गमलंकारः, मालिनी वृत्तम् ॥ २० ॥

विमर्श—साहसे—सहसा = बलेन, अविचारेण वा कृतम्-साहसम् = चौर्या- दिकम्, तत्र । विषादः=खेद, पश्चात्ताप । इह=इस नगर में, इस विषय में । यहाँ काव्यलिङ्ग अलंकार और मालिनी छन्द है ॥ २० ॥

**अर्थ—**फिर भी यह [ चोरों की ] नीति [ सिद्धान्त ] के विरुद्ध है । कोई दूसरा उपाय सोंचो ।

**मदनिका—**तो फिर यह दूसरा उपाय है ।

**वसन्तसेना—**दूसरा उपाय क्या होगा ?

चतुर्थोऽङ्कः <span style="float: right;">२६१</span>

मदनिका—तस्स ज्जेव अज्जस्स केरओ भविअ एदं अलङ्कारं अज्ज-आए उवणेहि। (तस्यैव आर्य्यस्य सम्बन्धी भूत्वा एतमलङ्कारमार्य्याया उपनय।)
शर्विलकः—एवं कृते किं भवति ?
मदनिका—तुमं दाव अचोरो, सो वि अज्जो अऋणो, अज्जआए सकं अलङ्कारं उवगदं भोदि। (त्वं तावदचौरः, सोऽपि आर्य्यः अनृणः, आर्य्यायाः स्वकः अलङ्कारक उपगतो भवति।)
शर्विलकः—ननु ! अतिसाहसमेतत्।
मदनिका—अइ ! उवणेहि। अण्णधा अदिसाहसं। (अयि ! उपनय। अन्यथा अतिसाहसम्।)
वसन्तसेना—साहु मदणिए ! साहु। अभुजिस्सए विअ मन्तिदं। (साधु, मदनिके ! साधु ! अभुजिष्ययेव मन्त्रितम्।)
शर्विलकः

मयाप्ता महती बुद्धिर्भवतीमनुगच्छता।
निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥


मदनिका—उन आर्य चारुदत्त का ही सम्बन्धी बनकर इस अलंकार-समुदाय को आर्या [वसन्तसेना] के पास ले जाओ।
शर्विलक—ऐसा करने पर क्या होगा ?
मदनिका—पहली बात, तुम चोर नहीं रहोगे, [दूसरी बात] वे आर्य भी उऋण [धरोहर वापस करने वाले] हो जायेंगे और [तीसरी बात] आर्या बसन्तसेना को अपने आभूषण प्राप्त हो जायेगें।
शर्विलक—यह तो अतिदुःसाहस होगा।
मदनिका—अरे ले जाओ। अन्यथा [न ले जाने पर ही] अतिदुःसाहस [की बात] है।
वसन्तसेना—वाह मदनिके ! वाह ! विवाहिता स्त्री के समान सलाह दी है।

अन्वयः—भवतीम्, अनुगच्छता, मया, महती, बुद्धिः, आप्ता, नष्टचन्द्रायाम्, निशायाम्, मार्गदर्शकः, दुर्लभः [भवति] ॥ २१ ॥

शब्दार्थभवतीम्=आप मदनिका का, अनुगच्छता=अनुसरण करते हुये, मया=मुझ शर्विलक ने, महती=बड़ी, बुद्धिः=बुद्धि, सूझबूझ, आप्ता=प्राप्त कर ली है; नष्टचन्द्रायाम्=चन्द्रमा से रहित, निशायाम्=रात में, मार्गदर्शकः=राह दिखाने वाला, दुर्लभः=मिलना कठिन [होता] है ॥ २१ ॥

अर्थ—तुम्हारा अनुसरण करते हुये मुझ शर्विलक ने बहुत बड़ी बुद्धि=सूझ बूझ प्राप्त की है। चन्द्रमा [के प्रकाश] से रहित रात में राह दिखाने वाला कष्ट से प्राप्त होता है ॥ २१ ॥

२६२ मृच्छकटिकम्

मदनिका—तेण हि तुमं इमस्सिं कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्जआए तुह आगमणं णिवेदेमि। (तेन हि त्वमस्मिन् कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि।)

शर्विलकः—एवं भवतु।

मदनिका—(उपसृत्य) अज्जए! एसो क्खु चारुदत्तस्स सकासादो बह्मणो आअदो। (आर्ये! एष खलु चारुदत्तस्य सकाशात् ब्राह्मणः आगतः।)

वसन्तसेना—हञ्जे! तस्स केरअं त्ति कथं तुमं जाणासि? (हञ्जे! तस्य सम्बन्धीति कथं त्वं जानासि?)

मदनिका—अज्जए! अत्तणकेरअं वि ण जानामि?। (आय्ये! आत्म-सम्बन्धिनमपि न जानामि?)

वसन्तसेना—(स्वगतं। सशिरःकम्पं विहस्य) जुज्जदि। (प्रकाशम्) पविसदु। (युज्यते। प्रविशतु)


टीका—मदनिकया पुनः प्रदर्शितस्य उपायस्य महत्त्वं स्वीकुर्वन् शर्विलकः तामेव प्रशंसन्नाह-मयेति। भवतीम्=मदनिकाम्, अनुगच्छता=अनुसरता सता, मया=शर्विलकेन, महती=उत्कृष्टा, बुद्धिः=ज्ञानम्, चातुर्यं वा, आप्ता=प्राप्ता; नष्ट-चन्द्रायाम्=लुप्तचन्द्रायाम् निशायाम्=रजन्याम्, मार्गदर्शकः=सत्पथप्रदर्शकः, दुर्लभः=दुष्प्रापः, भवति। अत्र भाग्यवशात् भवती मम मार्गदर्शिका जातेति भावः। अत्र वैधम्र्येण साम्यस्य गम्यतया दृष्टान्तालङ्कार इति बोध्यम्। अर्थान्तरन्यास इत्यपि केचित्। पथ्यावक्त्रं वृत्तम् ॥ २१ ॥

विमर्श—यहाँ मदनिका के बुद्धिकौशल की प्रशंसा करता हुआ शर्विलक उसे अपनी ओर और अधिक आकृष्ट करना चाहता है ॥ २१ ॥

अर्थमदनिका—इस लिये तुम इस कामदेवगृह में कुछ देर के लिये ठहरो। तब तक मैं तुम्हारे आगमन की सूचना आर्या [वसन्ततिलका] को दे आती हूँ।

शर्विलक—ऐसा ही हो।

मदनिका—[वसन्तसेना के] (पास जाकर) आर्ये! आर्य चारुदत्त के पास से यह ब्राह्मण आया है।

वसन्तसेना—सखि! तुम कैसे जानती हो कि उन [आर्य चारुदत्त] का सम्बन्धी है?

मदनिका—आर्ये! अपने सम्बन्धीजन को भी नहीं पहचानूँगी?

वसन्तसेना—[अपने में, सिर हिलाकर हँसती हुई] ठीक है। (प्रकटरूप से) उन्हें आने दो।

चतुर्थोऽङ्कः २६३

मदनिका— जं अज्जआ आणवेदि । ( उपगम्य ) पविसदु सव्विल ओ ।
( यदार्या आज्ञापयति । प्रविशतु शर्विलकः । )
शर्विलकः— ( उपसृत्य । संवैलक्ष्यम् ) स्वस्ति भवत्यै ।
वसन्तसेना— अज्ज ! वन्दामि ! उवविसदु अज्जो । ( आर्य ! वन्दे । उपविशतु आर्यः । )
शर्विलकः— सार्थवाहस्त्वां विज्ञापयति—जर्जरत्वाद् गृहस्यं दूरक्ष्यमिदं भाण्डम्, तद् गृह्यताम् । ( इति मदनिकायाः समर्प्य प्रस्थितः । )
वसन्तसेना— अज्ज ! ममावि दाव पडिसन्देसं तहिं अज्जो णेदु ।
( आर्य ! ममापि तावत् प्रतिसन्देशं तत्रार्यो नयतु । )
शर्विलकः— (स्वगतम्) कस्तत्र यास्यति ? (प्रकाशम्) कः प्रतिसन्देशः ?
वसन्तसेना— पडिच्छदु अज्जो मदणिअं । ( प्रतीच्छतु आर्यो मदनिकाम् ।)
शर्विलक— भवति ! न खल्ववगच्छामि ।
वसन्तसेना— अहं अत्रगच्छामि । ( अहमवगच्छामि । )
शर्विलकः— कथमिव ? ।
वसन्तसेना— अहं अज्जचारुदत्तेण भणिदा—'जो इमं अलङ्कारअं समप्पइस्यदि, तस्म तुए मदणिआ दादव्वा ।' ता सो ज्जेव एदं दे देदित्ति एव्वं अज्जेण अवगच्छिद्वव्वं । ( अहमार्यचारुदत्तेन भणिता—य इममलङ्कारकं


मदनिका— आपकी जो आज्ञा । ( जाकर ) शर्विलक ! अन्दर चलिये ।
शर्विलक— ( आकर, लज्जाजनितव्यग्रता से ) आपका कल्याण हो ।
वसन्तसेना— आर्य ! प्रणाम करती हूँ । श्रीमान् बैठिये ।
शर्विलक— सार्थवाह ( चारुदत्त ) आप से निवेदन करते हैं—घर जीर्ण होने के कारण इस स्वर्णाभूषणभाण्ड की सुरक्षा कठिन हो गयी है, अतः इसे ले लीजिये । ( इस प्रकार मदनिका को देकर चल देता है । )
वसन्तसेना— आर्य ! मेरा भी प्रतिसन्देश उनके पास ले जाइये ।
शर्विलक— ( स्वगत ) वहाँ कौन जायगा ? ( प्रकाश ) क्या प्रतिसन्देश है ?
वसन्तसेना— आप मदनिका को स्वीकार करें ।
शर्विलक— आर्ये ! [ आपका तात्पर्य ] मैं नहीं समझ पा रहा हूँ ।
वसन्तसेना— मैं समझ रही हूँ ।
शर्विलक— किस प्रकार ?
वसन्तसेना— 'आर्य चारुदत्त ने मुझसे कहा था—'जो इस आभूषणसमुदाय को वापस लौटाये, उसको तुम [ वसन्तसेना ] मदनिका दे देना ।' इस प्रकार

२६४ | मृच्छकटिकम्

समर्पयिष्यति, तस्य त्वया मदनिका दातव्या' तत् स एव एतां ते ददातीति एवमार्येण अवगन्तव्यम् । )

शर्विलकः-- ( स्वगतम् ) अये ! विज्ञातोऽहमनया । ( प्रकाशम् ) साधु, आर्यचारुदत्त ! साधु ।

गुणेष्वेव हि कर्त्तव्यः प्रयत्नः पुरुषैः सदा ।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ २२ ॥

अपि च--

गुणेषु यत्नः पुरुषेण कार्यो न किञ्चिदप्राप्यतमं गुणानाम् ।
गुणप्रकर्षादुडुपेन शम्भोरलङ्घयमुल्लङ्घितमुत्तमाङ्गम् ॥ २३ ॥


वे [ चारुदत्त ] ही आपको मदनिका दे रहे हैं—इस प्रकार आपको समझ लेना चाहिये ।

शर्विलक—( मन में ) क्या इसने मुझे पहचान लिया ? ( प्रकट में ) धन्य हो आर्य चारुदत्त ! धन्य हो !

अन्वयः—पुरुषैः, सदा, गुणेषु, एव, प्रयत्नः कर्तव्यः, हि, गुणयुक्तः, दरिद्रः, अपि, अगुणैः, ईश्वरैः, समः, न, भवति ॥ २२ ॥

शब्दार्थ—पुरुषैः=लोगों के द्वारा, सदा=सर्वदा, गुणेषु=गुणों के विषय में, एव=ही, प्रयत्नः=उद्योग, कर्त्तव्यः=करना चाहिये, हि=क्योंकि, गुणवान्=गुणी, दरिद्रः=निर्धनः, अपि=भी, अगुणैः=गुणहीन, ईश्वरै=धनियों के, समः=बराबर, न=नहीं, भवति=होता है ॥ २२ ॥

अर्थ—लोगों को सदैव गुणों के विषय में [ उनकी प्राप्ति के लिये ] ही प्रयास करना चाहिये, क्योंकि गुणवान् निर्धन व्यक्ति भी गुणहीन धनियों के बराबर नहीं होता, अर्थात् उनसे श्रेष्ठ ही रहता है ॥ २२ ॥

टीका—गुणवता चारुदत्तेन पूर्वमेव विहितां स्वाभीष्टसिद्धिं शृण्वन् हृष्टः शर्विलकः चारुदत्तं प्रशंसति —गुणेष्वेवेति । पुरुषैः = सर्वैः जनैः, सदा = सर्वदा, गुणेषु = दयादाक्षिण्यादिषु, विषयसप्तमी, निमित्तसप्तमी वेति बोध्यम्, एव=निश्चयेन, प्रयत्नः=प्रयासः, कर्तव्यः=विधेयः, हि=यतः, गुणयुक्तः=गुणी, दरिद्रः=निर्धनः, अपि, अगुणैः=गुणहीनः, ईश्वरैः=धनिकैः, समः=तुल्यः, न=नैव, भवति=जायते, गुणी निर्धनोऽपि धनिकात् निर्गुणात् प्रशस्यतर इति भावः । अत्र कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः । अनुष्टुप् वृत्तम् ॥ २२ ॥

विमर्शः—निर्धन होते हुये भी गुणों के कारण चारुदत्त की श्रेष्ठता ही है । अतः धन की अपेक्षा गुणों की प्राप्ति में प्रयास करना उचित है ॥ २२ ॥

अन्वयः—पुरुषेण, गुणेषु, यत्नः, कार्य, गुणानाम्, किञ्चित्, अपि, अप्राप्य-

चतुर्थोऽङ्कः २६५

वसन्तसेना---को एत्थ पवहणिओ । ( कोऽत्र प्रवहणिकः ? ) ( प्रविश्य सप्रवहणः )

तमम्, न, [ भवति ], उडुपेन, शम्भोः, अलङ्घ्यम्, उत्तमाङ्गम्, गुणप्रकर्षात्,
लङ्घितम् ॥ २३ ॥

**शब्दार्थः---**पुरुषेण=पुरुष के द्वारा, गुणेषु=दयादाक्षिण्य आदि गुणों के विषय में, यत्नः=प्रयास, कायः=किया जाना चाहिये, ( पुरुष को गुणों के विषय में प्रयास करना चाहिये । ) गुणानाम्=दया दाक्षिण्यादि गुणों को, किञ्चित्=कुछ, अपि=भी, वस्तु, अप्राप्यतमम्=दुर्लभ, ( प्राप्त करना कठिन ), न=नहीं, ( भवति=होती है ), उडुपेन=चन्द्रमा ने, शम्भोः=शंकर के, अलङ्घ्यम्=न उल्लङ्घनयोग्य, उत्तमाङ्गम्=मस्तक को, गुणप्रकर्षात्=गुणों के अतिशय ( महत्त्व ) के कारण, लङ्घितम्=लांघ लिया, उसके ऊपर स्थित हो गया ॥ २३ ॥

**अर्थ---**और भी,

पुरुष को ( दया दाक्षिण्यादि ) गुणों के विषय में प्रयास करना चाहिये, क्योंकि गुणों को कोई भी वस्तु प्राप्त करना कठिन नहीं है, चन्द्रमा ने शंकर के अलंघनीय मस्तक को गुणों के प्रकर्ष के कारण ही लांघ लिया, अर्थात् उसके ऊपर स्थित हो गया ॥ २३ ॥

**टीका---**चारुदत्तस्य गुणवत्तामेव प्रदर्शयन्नाह -गुणेष्विति । पुरुषेण=जनेन, गुणेषु=दयादाक्षिण्यादिषु, विषयसप्तमी चैषा, यत्नः=प्रयासः, कार्यः=करणीयः, गुणानाम्=दया-दाक्षिण्यादीनाम्, कर्तरि षष्ठीति बोध्यम्, किञ्चित् अपि=किमपि वस्तु, अप्राप्यतमम्=अतिदुष्प्रापम् न=नैव, ( भवति=विद्यते ) ; उडुपेन=तारापतिना, चन्द्रेणेत्यर्थः, कर्तरि तृतीया, शम्भोः=शङ्करस्य, अलङ्घ्यम्=केनापि अलङ्घनीयम् उत्तमाङ्गम् = 'उत्तमाङ्गं शिरः शीर्षम् इत्यमरः गुणप्रकर्षात् = गुणातिशयादेव, लङ्घितम् = उल्लङ्घ्य तदुपरि स्थितमिति भावः । अस्मिन् श्लोके तुणप्रकर्षात् चन्द्रकर्तृकशिरोलंघनरूपेण विशेषेण गुणवतः पुरुषस्य सकलकार्यक्षमत्वरूपस्य सामान्यस्य समर्थनात् विशेषेण सामान्यस्य समर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः । उपेन्द्रवज्रा वृत्तम् ॥ २३ ॥

**विमर्श---**भगवान् शंकर सर्वोपरि हैं। उनके अंगों में मस्तक सर्वोपरि है। किन्तु चन्द्रमा उस मस्तक के भी ऊपर बैठा है। इसमें चन्द्रमा के गुणों का प्रकर्ष ही कारण है। अतः गुणीजन की श्रेष्ठता स्पष्ट है। यहाँ विशेष के द्वारा सामान्य का समर्थन होने से अर्थान्तरन्यास अलङ्कार है ॥ २३ ॥

अर्थ---
**वसन्तसेना---**यहाँ कोई गाड़ीवान है ?
( गाड़ी के साथ प्रवेश करके )

२६६ मृच्छकटिकम्

चेटः—अज्जए ! सज्जं पवहणं । ( आर्ये ! सज्जं प्रवहणम् । )

वसन्तसेना—हञ्जे मदणिए ! सुंदिदठं मं करेहि । दिण्णासि । आरोह पवहणं । सुमरेसि मं । ( हञ्जे मदनिके ! सुदृष्टां मां कुरु । दत्ताऽसि । आरोह प्रवहणम् । स्मरसि माम् । )

मदनिका—( रुदती ) परिच्चत्तेम्हि अज्जआए । ( परित्यक्ताऽस्मि आर्य्यया । ) ( इति पादयोः पतति । )

वसन्तसेना—सम्पदं तुमं ज्जेव वन्दणीआ संवुत्ता । ता गच्छ, आरोह पवहणं । सुमरेसि मं । ( साम्प्रतं त्वमेव वन्दनीया संवृत्ता । तद् गच्छ, आरोह प्रवहणम्, स्मरसि माम् )

शर्विलकः—स्वस्ति भवत्यै । मदनिके !

सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः ।
यत्र ते दुर्लभं प्राप्तं वधूशब्दावगुण्ठनम् ॥ २४ ॥


चेट—आर्ये ! गाड़ी तैयार है ।

वसन्तसेना—सखी मदनिके ! मुझे अच्छी प्रकार देख लेने दो । तुम ( शर्विलक को ) समर्पित की जा चुकी हो । गाड़ी पर सवार हो जाओ । मुझे याद रखना ।

मदनिका—( रोती हुई ) आपने मुझे छोड़ दिया । ( इस प्रकार पैरों पर गिर पड़ती है । )

वसन्तसेना—इस समय तुम्हीं पूजनीया हो गई हो । अतः जाओ, गाड़ी पर सवार हो जाओ । मुझे याद रखना ।

शर्विलक—( वसन्तसेना जी ! ) आप का कल्याण हो ।

अन्वयः—मदनिके !, एषः, जनः, सुदृष्टः, क्रियताम्, ( तथा ) शिरसा, वन्द्यताम्; यत्र, ते, दुर्लभम्, वधूशब्दावगुण्ठनम्, प्राप्तम् ॥ २४ ॥

शब्दार्थ—मदनिके ! एषः=यह ( वसन्तसेना ), जनः=व्यक्ति, सुदृष्टः=अच्छी प्रकार देखा गया, क्रियताम्=कर दिया जाय, ( तथा=और ) शिरसा=मस्तक से, वन्द्यताम्=बन्दना की जाय अर्थात् इनका दर्शन अच्छी प्रकार से करो और इन्हें शिर झुका कर प्रणाम करो । यत्र=जिसके कारण अथवा जिसके अनुकम्पायुक्त होने पर, ते=तुमको, दुर्लभम्=दुर्लभ, वधूशब्दावगुण्ठनम्=वधू-विवाहित स्त्री शब्दरूपी घूंघट, प्राप्तम्=प्राप्त हो सका ॥ २४ ॥

अर्थ—मदनिके ! इन [ वसन्तसेना जी ] का दर्शन अच्छी प्रकार से करो ( और ) शिर से प्रणाम करो । इनके कारण [ अथवा इनके अनुकम्पायुक्त होने पर ही ] तुमको दुर्लभ वधू (विवाहित स्त्री)-शब्दरूपी घूंघट प्राप्त हो सका ॥२४॥

चतुर्थोऽङ्कः २६७

( इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः । )

( नेपथ्ये ) कः कोऽत्र भोः ! राष्ट्रियः समाज्ञापयति—'एष खलु आर्य्यको गोपालदारको राजा भविष्यती'ति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः। ततः स्वेषु स्वेषु स्थानेषु अप्रमत्तैर्भवद्भिर्भवितव्यम्।

टीका—वसन्तसेनायाः अनुकम्पातः प्राप्ताभीष्टः शर्विलकः तां प्रति कृतज्ञत्वं विज्ञापयितुं मदनिकामादिशन्नाह—सुदृष्ट इति। मदनिके ! एषः=पुरः स्थितः, जनः=वसन्तसेनारूपः, सुदृष्टः = शोभनावलोकितः, क्रियताम्=विधीयताम्; तथा, शिरसा = मस्तकेन, मस्तकमनमनपूर्वमित्यर्थः, वन्द्यताम् = अभिवाद्यताम्। यत्र=अस्मिन् जने अनुकम्पमाने सति, हेतौ आधारविवक्षायां वा सप्तमी बोध्या, ते=तव ( कर्त्तरि षष्ठी ), मदनिकायाः इत्यर्थः, दुर्लभम्=वेश्यादासीत्वेन दुर्लभम्, वधूशब्दावगुण्ठनम् = वधूशब्दवाच्यरूपम् एव अवगुण्ठनम् = आवरणम्, वधूशब्देन सह अवगुण्ठनम् वधूशब्दः अवगुण्ठनञ्चैतद् द्वयमित्यभिप्रायः। एवञ्च ते सामाजिकी प्रतिष्ठा सञ्जातेति कृतज्ञतां दर्शयेति भावः। अत्र पूर्वार्द्धगतवाक्यार्थं प्रति परार्द्धगतवाक्यार्थस्य हेतुतया काव्यलिङ्गमलङ्कारः। पथ्यावक्त्रं वृत्तम् ॥ २४ ॥

विमर्श—सामान्यरूप से दासीत्व से मुक्ति पाना कठिन है और उस पर भी वधू=विवाहित पत्नी का पद प्राप्त करना और भी कठिन है। परन्तु वसन्तसेना की कृपा से यह सम्भव हो सका है। अतः उसके प्रति कृतज्ञता व्यक्त करना अत्यन्त आवश्यक है। वधू बन जाने के बाद वेश्या वसन्तसेना के घर आना समाजविरुद्ध है। अतः उस उपकारिका का भलीभाँति दर्शन और प्रणाम करने के लिये शर्विलक का कहना सर्वथा उचित है। पूर्व के वाक्यार्थ के प्रति उत्तरार्ध वाक्यार्थ हेतु है। अतः काव्यलिङ्ग अलंकार और पथ्यावक्र छन्द है ॥ २४ ॥

( इस प्रकार मदनिका के साथ गाड़ी पर चढ़ कर चलने लगता है । )

अर्थ ( नेपथ्य में ) अरे यहाँ कौन कौन है ? राष्ट्रिय ( राजा का शाला शकार अथवा राजपुरुष) यह सूचित करते हैं—'यह गोपालदारक (अहीर का लड़का) राजा होगा'—इस प्रकार के किसी सिद्ध पुरुष के वचन पर विश्वास करने से घबड़ाये हुये राजा पालक ने घोष ( अहीरों की वस्ती ) से लाकर कठोर जेलखाने में बन्द कर रखा है। इस लिये सभी ( पहरेदारों ) को अपने अपने स्थानों पर सावधान हो जाना चाहिये।

टीका—राष्ट्रियः = राजश्यालकः अथवा राष्ट्ररक्षायां नियुक्तोऽधिकारी। 'राष्ट्रावारपाराद्घखौ' इति घ-प्रत्ययः। गोपालस्य=आभीरकस्य, दारकः=पुत्रः, सिद्धस्य=सिद्धिम्रत ऋषेः, आदेशे=कथने, भविष्यद्वाण्यामिति भावः, यः प्रत्ययः=

२६८ मृच्छकटिकम्

शर्विलकः-- ( आकर्ण्य ) कथं राज्ञा पालकेन प्रियसुकृद्दार्यको मे बद्धः। कलत्रवांश्चास्मि संवृत्तः। आः, कष्टम्। अथवा--

द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । सम्प्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्टतमः ॥ २५ ॥


विश्वासः, तेन त्रस्तः = भीतः, तेन, घोषः = आभीरपल्ली, तस्मात् । अप्रमत्तैः= सावधानैः, स्थानेषु=पदेषु कर्त्तव्येषु वा ।

अर्थ-- शर्विलक -( सुनकर ) क्या राजा पालक ने मेरे प्रिय मित्र आर्यक को जेल में बन्द कर दिया हैं ? इधर मैं स्त्रीवाला हो गया हूँ । ओह ! कष्ट है ।

**अन्वयः--**लोके, सुहृत्, वनिता, च, इदम्, द्वयम्, नराणाम्, अतीव, प्रियम्, तु, सम्प्रति, सुन्दरीणाम्, शतात्, अपि, सुहृत्, विशिष्टतमः, ( अस्ति ) ॥ २५ ॥

**शब्दार्थ --**लोके = संसार में, सुहृत् = मित्र, च = और, वनिता = स्त्री, इदम् = यें, द्वयम् = दोनों, नराणाम् = लोगों की, अतीव = बहुत अधिक, प्रियम् = प्रिय ( होती हैं ); तु = किन्तु, सम्प्रति = इस समय, सुन्दरीणाम् = सुन्दर स्त्रियों के, शतात् = सौ से, अपि = भी अर्थात् सैकड़ों सुन्दर स्त्रियों से भी, सुहृत् = मित्र, विशिष्टतमः = श्रेष्ठ, सबसे प्रिय, ( अस्ति = है ) ॥ २५ ॥

**अर्थ --**अथवा, इस संसार में मित्र और स्त्री ये दो वस्तुये लोगों को सबसे अधिक प्रिय होती हैं । किन्तु इस समय सैकड़ों सुन्दर स्त्रियों से भी मित्र अधिक प्रिय है अर्थात् मित्र की उपेक्षा नहीं कर सकता हूँ ॥ २५ ॥

**टीका --**सुहृत्कलत्रयोरुभयोरेव प्रियतमत्वेऽपि कलत्रापेक्षया सुहृद एव प्रियतमत्वमधिकमिति प्रतिपादयन्नाह--द्वयमिति । लोके=संसारे, सुहृत्=मित्रम्, वनिता=प्रेयसी स्त्री, च, इदम्=एतद्द्वयम्, अतीव = अत्यधिकम्, प्रियम्=प्रीतिकरम्, भवति; तु = किन्तु, सम्प्रति = इदानीं सकलत्रतावस्थायाम्, सुन्दरीणाम्=स्त्रीणाम्, शतात्=शतसंख्यायाः, अपि, सुहृत्=मित्रम्, विशिष्टतमः=अधिकप्रिय इत्यर्थः । विपत्तिकाले स्त्रियमपेक्ष्यापि मित्रस्य साहाय्यं कार्यमिति भावः । अत्र द्वयोर्मध्ये प्रकर्षकथने तरप्प्रत्ययस्यैवौचित्यम् । अत्र 'आश्रयो' नाम नाट्यालङ्कार इति जीवानन्दः । आर्या वृत्तम् ॥ २५ ॥

**विमर्श --**मित्र और स्त्री में विपत्ति के समय मित्र की सहायता करनी उचित हैं। यहाँ मित्रता का उत्कृष्टत्व माना है । **विशिष्टतमः--**यहाँ तमप् की अपेक्षा तरप् प्रत्यय उचित है, क्योंकि दो में ही एक का प्रकर्ष निर्धारित करना है ॥ २५ ॥