भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

नवमोऽङ्कः ५५५


अत्थकल्लवत्तश्श कालणादो एशा मालिदा वावादिता अ । (प्रेक्षन्तां प्रेक्षन्ता- मार्याः ! एते खलु तस्यास्तपस्विन्या अलंकाराः ।) (अस्य अर्थकल्यवर्त्तस्य कारणा- देषा मारिता व्यापादिता च ।)

(अधिकृताः सर्वेऽधोमुखाः स्थिताः ।)

चारुदत्तः-- (जनान्तिकम् )

अयमेवंविधे काले दृष्टो भूषणविस्तरः ।
अस्माकं भाग्यवैषम्यात् पतितः पातयिष्यति ॥ ३१ ॥

विदूषकः--भो ! कीस भदत्थं ण णिवेदीअदि ? (भोः ! किमर्थं भूतार्थो न निवेद्यते ? )

चारुदत्तः--वयस्य !

दुर्बलं नृपतेश्चक्षुर्नैतत् तत्त्वं निरीक्षते ।
केवलं वदतो दैन्यमश्लाघ्यं मरणं भवेत् ॥ ३२ ॥


देखिये—ये ही उस बेचारी (वसन्तसेना) के गहने हैं । (चारुदत्त को लक्षित करके) इसी धनरूपी तुच्छ कलेवा के कारण वह मारी गयी, मारी गयी ।

(सभी न्यायाधिकारी मुख नीचा करके बैठ जाते हैं ।)

अन्वयः—एवम्विधे, काले, अस्माकम्, भाग्यवैषम्यात्, पतितः, दृष्टः, अयम्, भूषणविस्तरः पातयिष्यति ॥ ३१ ॥

शब्दार्थः--एवम्विधे=इस प्रकार के, काले=समय में, अस्माकम्=हमलोगों के, भाग्यवैषम्यात्=भाग्य के विपरीत होने से, पतितः=गिरा हुआ, दृष्टः= [ सभी के द्वारा ] देखा गया, अयम्=यह, भूषणविस्तरः=गहनों का समूह, पातयिष्यति=[ हम लोगों को ] गिरा देखा ॥ ३१ ॥

अर्थ-चारुदत्त-(जनान्तिक) ऐसे समय में हमलोगों के भाग्य के विपरीत होने से [तुम्हारी काँख से ] गिरा हुआ [सभी के द्वारा] देखा गया यह गहनों का समूह [हमलोगों को] गिरादेगा ॥३१॥

टीका—विदूषकस्य कक्षात्पतितमाभूषणसमूहं दृष्ट्वा चारुदत्तः स्वविनाशस्या- पशकुनं चिन्तयन् खेदं व्यनक्ति-अयमिति । एवम्विधे=ईदृशे, काले=समये, अस्माकं भाग्यवैषम्यात्=दौर्भाग्यात, पतितः=विदूषकस्य कक्षदेशात् भूमौ निपतितः, अतएव, दृष्टः=विलोकितः, सर्वैरिति शेषः, अयम्=पुरो दृश्यमानः, भूषणविस्तरः=अलङ्कार- समूहः, पातयिष्यति=विनाशयिष्यति मामित्यर्थः । एवञ्च निरपराधस्यापि मे विनाशाय इमानि भूषणानि हेतुत्वमुपगतानीति तद्भावः, पथ्यावक्त्रं वृत्तम् ॥ ३१ ॥

**अर्थ-विदूषक-**अरे ! बीती बात क्यों नहीं कह देते ?

अन्वयः--नृपतेः, चक्षुः, दुर्बलम्, एतत्, तत्त्वम्, न, निरीक्षते, (अतः), केवलम्, दैन्यम्, वदतः, [ मम ], अश्लाघ्यम्, मरणम्, भवेत् ॥ ३२ ॥

४५६ मृच्छकटिकम्

अधिकरणिकः--कष्टं भोः ! कष्टम् ।

अङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः । ग्रहोऽयमपरः पार्श्वे धूमकेतुरिवोत्थितः ॥ ३३ ॥


**शब्दार्थः--**नृपतेः=राजा की [ राजा के पुरुषों की ], चक्षुः= आँख, दुर्बलम्= कमजोर होती है, एतत्=यह, तत्त्वम्=वास्तविकता, न=नहीं, निरीक्षते=देखती है, ( अतः=इसलिये ) केवलम्=केवल, दैन्यम्=दीनता [ से युक्त ], वदतः=बोलते हुये [मम=मेरा], अश्लाघ्यम्=निन्दनीय, मरणम्=मौत, भवेत्=हो जायगी ॥ ३२ ॥

अर्थ-चारुदत्त-मित्र !

राजा [ से सम्बद्ध व्यक्तियों ] की आँख कमजोर होती है। वह इस वास्तविकता को नहीं देख पाती है। केवल दीनतायुक्त वचन बोलना तो मेरा मरण ही होगा। [ अतः दीन वचन नहीं बोलूंगा ] ॥ ३२ ॥

**टीका-**तत्त्वनिरीक्षणासमर्थस्य राज्ञः तत्सम्बन्धिनां च पुरतो दीनवचनं मृत्युतुल्यं भवति, अतोनाहं तादृशं वच्मीति प्रतिपादयितुमाह-दुर्बलमिति । नृपतेः=राज्ञस्तत्सम्बन्धिनश्च, चक्षु;=नेत्रम्, दुर्बलम्=अशक्तम्, अत एतत्=राजचक्षुः, यद्वा भूतं वास्तविकं घटनाक्रमम्, तत्त्वम्=याथार्थ्यम्, न=नैव, निरीक्षते=पश्यति, दैन्यम्=दीनतामयम्, वदतः=कथयतः, मम केवलम अश्लाघ्यम्=निन्दनीयम्, मरणम्=मृत्युः, भवेत्=सम्पद्येत । एवञ्च एतेषां समक्षं दीनभाषणानि केवलं निन्दाजनकानि मृत्युतुल्यानि एव सन्ति, न तु तत्त्वज्ञान-साधकानीति बोध्यम् । पथ्यावक्त्रं वृत्तम् ॥३२॥

**अन्वयः--**अङ्गारकविरुद्धस्य, प्रक्षीणस्य, बृहस्पतेः, पार्श्वे, धूमकेतुः, इव, अयम्, अपरः, ग्रहः उत्थितः ॥ ३३ ॥

**शब्दार्थ--**अङ्गारकविरुद्धस्य=मंगल जिसका विरोधी है ऐसे, प्रक्षीणस्य=दुर्बल, बृहस्पतेः=बृहस्पति के, पार्श्वे= समीप में, धूमकेतुः, इव=धूमकेतु के समान, अयम्=यह, अपरः=दूसरा ग्रहः=ग्रह, उत्थितः=निकला, प्रकट हुआ, है ॥३३॥

अर्थ--अधिकरणिक-- हाय ! कष्ट है कष्ट ।

मंगल जिसका विरोधी है ऐसे अतिक्षीण शक्तिवाले बृहस्पति के समीप में धूमकेतु [ ग्रहविशेष ] के समान यह दूसरा ग्रह प्रकट हुआ है ॥३३॥

**टीका--**पूर्वमेव सिद्धापराधस्य चारुदत्तस्य मृत्युदण्डसाधने विदूषककक्षपतिताभूषणानि हेतुभूतानीति प्रतिपादयत्यधिकरणिकः -अङ्गारकेति । अङ्गारकः=मङ्गलग्रहः, विरुद्धः=विरोधीभूतः यस्य तस्य 'वाऽहिताग्न्यादिषु' इति सूत्रेण 'विरुद्ध' शब्दस्य परनिपातः, प्रक्षीणस्य=दुर्बलस्य, रवेरस्तांशगतत्वेन नीचस्थत्वेन वा स्वशक्तिहीनस्येत्यर्थः, बृहस्पतेः=सुरगुरोः, पार्श्वे=समीपे, धूमकेतुः इव=उत्पातसूचकग्रहविशेष इव, अयम्=पुरोवर्ती, अपरः=अन्यः कश्चिद् ग्रहः उत्थितः=उद्गतः ।

नवमोऽङ्कः १५७

श्रेष्ठिकायस्थौ-- (विलोक्य वसन्तसेनामातरमुद्दिश्य) अवहिता दाव अज्जा एदं सुवण्णभण्डअं अवलोएदु, सो ज्जेव एसो ण वेत्ति। (अवहिता तावत् आर्या एतत् सुवर्णभाण्डकमवलोकयतु तदेवेदं न वेति।)

वृद्धा-- (अवलोक्य) सरिसो एसो, ण उण सो। (सदृशमेतत्, न पुनस्तत्।)

शकारः- आं बुद्धकुट्टिणि! अक्खीहि मन्तिदं वाआए मूकितं। (आं वृद्धकुट्टनि! अक्षिभ्यां मन्त्रितं वाचा मूकितम्।)

वृद्धा हदास! अवेहि। (हताश! अपेहि।)

श्रेष्ठिकायस्थौ--अप्पमत्तं कधेहि, सा ज्जेव एसो ण वेत्ति। (अप्रमत्तं

अत्र शकारो भौमेन, चारुदत्तो वृहस्पतिना, विदूषककक्षपतिताभूषणानि धूमकेतुना तुल्यानि प्रतीयन्ते इति भावः। अत्र न्यायाधिकरणिकाः प्रयतमाना अपि चारुदत्त-रक्षणेऽसमर्था इति तन्मरणमवश्यम्भावि मन्यन्ते इति बोध्यम्। अत्राप्रस्तुतेनानेन अङ्गारकविरुद्धवृहस्पतेः पार्श्वे धूमकेतुग्रहसदृशग्रहान्तरोदयवर्णनेन प्रस्तुतस्य शकारा-भियुक्तचारुदत्तस्य वसन्तसेनाऽलङ्कारपातरूपप्रमाणोप-स्थितिबोधादप्रस्तुतप्रशंसेय-मलङ्कृतिः, सा च धूमकेतुरिवेत्युपमया सङ्कीर्यते-इति जीवानन्दः। पध्यावक्त्रं वृत्तम्॥ ३३॥

विमर्श- यहाँ ज्योतिषशास्त्रोक्त दुर्योग का वर्णन है। मंगल विरोधी हो, बृहस्पति क्षीण हो पास में धूमकेतु का उदय हो तो अनिवार्यतया अनिष्ट होता है। यहाँ क्रूरस्वभाववाला शकार मंगल और सात्त्विक वृत्ति वाला चारुदत्त क्षीणशक्ति वाला बृहस्पति माना गया है। विदूषक की काँख से अचानक गहनों का गिर जाना धूमकेतु ग्रह का उदय माना गया है। प्रबल कुयोग में चारुदत्त का मृत्युदण्ड सुनिश्चित है, यह भाव है॥ ३३॥

शब्दार्थ- अवहिता = सावधान, मन्त्रितम् = धीरे से कह दिया, मूकितम् = नहीं कहा, छिपा दिया, अप्रमत्तम् = ठीक तरह, साफ साफ, अवबध्नाति = आकृष्ट करता है, अनभिज्ञातः = न जाना हुआ।

अर्थ--श्रेष्ठी और कायस्थ- (देखकर वसन्तसेनाकी माता को लक्षित करके) आर्या आप सावधान होकर इस सुवर्ण-आभूषणसमूह को देखिये, क्या वही है अथवा नहीं ?

वृद्धा- (देखकर) समान तो है लेकिन वही नहीं है।

शकार- अच्छा बूढ़ी कुट्टिनी! आँखों से कह दिया किन्तु वाणी से छिपा लिया। [नहीं कहा।]

वृद्धा- अभागे! दूर हट जा।

३५८मृच्छकटिकम्

कथय, स एव एष न वेति ।)

वृद्धा--अज्ज ! सिप्पिकुशलशाये ओबन्धेदि दिट्टिं, ण उण सो।
( आर्य ! शिल्पि कुशलतया अवबध्नाति दृष्टिम्, न पुनस्तत् । )
अधिकरणिकः--भद्रे ! अपि जानासि एतान्याभरणानि ?
वृद्धा--णं भणामि,-णहु णहु अणभिजाणिदो अहवा कदावि सिप्पिणा घड़िदो भवे । ( ननु भणामि--न खलु न खलु अनभिज्ञातः, अथवा कदापि शिल्पिना घटितो भवेत् । )
अधिकरणिकः--पश्य श्रेष्ठिन् ! ।

वस्त्वन्तराणि सदृशानि भवन्ति नूनं
रूपस्य भूषणगुणस्य च कृत्रिमस्य ।
दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः
सादृश्यमेव कृतहस्ततया च दृष्टम ॥ ३४ ॥


श्रेष्ठी ओर कायस्थ --सावधान होकर कहिये -- यह वही है अथवा नहीं ।

वृद्धा--मान्यवर ! कारीगर की कुशलता के कारण आँख को आकृष्ट करता है किन्तु वही नहीं है।

अधिकरणिक--भद्रे ! आप इन गहनों को जानती हैं ?

वृद्धा--मैं कहती हूँ कि अपरिचित नहीं है अथवा कदाचित् कारीगर ने बना दिया होगा ।

**अन्वयः--**कृत्रिमस्य, रूपस्य, भूषणगुणस्य, च, सदृशानि, वस्त्वन्तराणि नूनम्, भवन्ति, हि, शिल्पिवर्गः, दृष्ट्वा, क्रियाम्, अनुकरोति, कृतहस्ततया, एव, च, सादृश्यम्, दृष्टम् ॥ ३४ ॥

**शब्दार्थ--**कृत्रिमस्य=बनावटी, रूपस्य=रूप के, च=और, भूषणगुणस्य=गहने की सुन्दरता आदि गुण के, सदृशानि=समान, वस्त्वन्तराणि=दूसरी चीजें, नूनम्=निश्चित रूप से, भवन्ति=होतीं ही हैं, हि=क्योंकि, शिल्पिवर्गः=कारीगरों का समुदाय, दृष्ट्वा=देखकर, क्रियाम्=बनावट का, अनुकरोति=नकल कर लेता है, च=और, कृतहस्ततया=हाथ के कौशल के कारण, एव=ही, सादृश्यम्=समान-रूपता, दृष्टम्=देखी जाती है ॥ ३४ ॥

अर्थ--अधिकरणिक--सेठ जी ! देखिये--

बनावटी [ बनाये गये ] रूप और गहने की सुन्दरता के समान दूसरी चीजें [ गहने आदि ] होतीं ही हैं क्योंकि कारीगर लोग बनाये गये काम [ आभूषण आदि ] को देखकर उसकी नकल कर लेते हैं । और हाथ की कुशलता के कारण ही सादृश्य देखा जाता है ॥ ३४ ॥

नवमोऽङ्कः ५५९

**श्रेष्ठिकायस्थौ--**अज्जचारुदत्तस्स केरकाई एदाइं ? ( आर्य-चारुदत्तीय- न्येतानि ? )

**चारुदत्तः--**न खलु न खलु ।

**श्रेष्ठिकायस्थौ--**ता कस्स ? ( तदा कस्य ? )

**चारुदत्तः--**इहात्रभवत्याः दुहितुः ।

**श्रेष्ठिकायस्थौ--**कधं एदाइं ताए विओअं गदाइं ? ( कथमेतानि तस्याः वियोगं गतानि ? )

**चारुदत्तः--**एवं गतानि । आं, इदम् ।

**श्रेष्ठिकायस्थौ--**अज्जचारुदत्त ! एत्थ सच्चं वत्तव्वं । पेक्ख पेक्ख । ( आर्य चारुदत्त ! अत्र सत्यं वक्तव्यम् । प्रेक्षस्व प्रेक्षस्व । )

सच्चेण सुहं खु लब्भइ सच्चालावि ण होइ पादई । सच्चं त्ति दुवेवि अक्खरा मा सच्चं अलिएण गूहेहि ॥ ३५ ॥


**टीका--**वसन्तसेनायाः मात्रोक्तं साम्यं समर्थयमानोऽधिकरणिक आह= वस्त्विति । कृत्रिमस्य=क्रियया निर्वृत्तस्य, मानवनिर्मितस्येत्यर्थः, रूपस्य=आकारस्य, भूषणगुणस्य=अलंकारस्य सौन्दर्यादेः, च, सदृशानि=तुल्यानि, वस्त्रन्तराणि=अन्यानि वस्तूनि, नूनम्=निश्चितरूपेण भवन्ति=जायन्ते, हि=यतः, शिल्पिवर्गः=कारुजन- समूहः, क्रियाम्=कार्यम्, रचनाकौशलमित्यर्थः, दृष्ट्वा=विलोक्य, अनुकरोति= तादृशमेव निर्मिमीते इति भावः, कृतः=अभ्यस्तः, हस्तः=कटकादिनिर्माणे हस्तपाटवं यैः तस्य भावः--कृतहस्तता, तया, हस्तकौशलेन, एव, सादृश्यम्=समानरूपत्वम्, दृष्टम्=विलोकितम् ।

यद्वा क्रियां दृष्ट्वा कृतहस्ततया अनुकरोति, तत्र सादृश्यं दृष्टमेवेत्यपि अन्वयः । एवञ्चैते अलंकारा न वसन्तसेनायाः, अपि तु, तत्तुल्या इति भाव । अत्रा- र्थान्तरन्यासोऽलंकारः, वसन्ततिलकं वृत्तम् ॥ ३४ ॥

**अर्थ--श्रेष्ठो और कायस्थ--**ये गहने चारुदत्त के हैं ?

**चारुदत्त--**नहीं, नहीं ।

**श्रेष्ठो और कायस्थ--**तो फिर किसके हैं ?

**चारुदत्त--**सम्माननीया वृद्धा की पुत्री के हैं ।

**श्रेष्ठो और कायस्थ--**ये उस [ वसन्तसेना ] से अलग कैसे हुये ?

**चारुदत्त--**इस प्रकार [ अलग हो ] गये । हाँ, यह--

**अन्वयः--**सत्येन, सुखम्, लभ्यते, खलु, सत्यालापी, पातकी, न, भवति, सत्यम्, इति, द्वे, अपि, अक्षरे, अलीकेन, मा, गूहय ॥ ३५ ॥

**शब्दार्थ--**सत्येन=सच ( बोलने ) से, सुखम्=सुख, लभ्यते=प्राप्त होता है,

५६० | मृच्छकटिकम्

( सत्येन सुखं खलु लभ्यते सत्यालापी न भवति पातकी ।
सत्यमिति द्वे अपि अक्षरे मा सत्यमलीकेन गूहय ॥ ३५ ॥ )

**चारुदत्तः—**आभरणानि आभरणानीति न जाने, किन्त्वस्मद्गृहादानीतानीति जाने।

**शकारः—**उज्जाणं पवेशिअ पढमं मालेशि, कवड-कावेड़ि-आए शम्पदं णिगूहेशि ! (उद्यानं प्रवेश्य प्रथमं मारयसि, कपट-कापटिकया साम्प्रतं निगूहसि ।)

**अधिकरणिकः—**आर्यचारुदत्त ! सत्यमभिधीयताम् ।

इदानीं सुकुमारेऽस्मिन् निःशङ्कं कर्कशाः कशाः ।
तव गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ ३६ ॥


खलु=यह निश्चित है, सत्यालापी=सच बोलने वाला, पातकी=पापी, =नहीं, भवति होता है, सत्यम्=सत्य, इति=ये, द्वे अपि=दो भी, अक्षरे=अक्षरों को, अलीकेन=असत्य से, मा=मत, गूहय=छिपाओ ॥ ३५ ॥

**अर्थ—श्रेष्ठौ और कायस्थ—**आर्य चारुदत्त ! यहाँ सच बोलना चाहिये। देखो, देखो—

सच [ बोलने ] से सुख मिलता है, यह निश्चित है। सच बोलने वाला पाप में नहीं गिरता है। 'सत्य' इन दो भी अक्षरों को असत्य से मत छिपाओ ॥ ३५ ॥

**टीका—**चारुदत्तेनोक्तम् 'एवं गतानि, आं इदम्' इति अस्पष्टं वचनमाकर्ण्य तौ सत्यं भाषयितुं प्रेरयन्तावाहतुः—सत्येनेति । सत्येन=सत्यभाषणेनेत्यर्थः, सुखम्=आनन्दः, लभ्यते=प्राप्यते, जनैरिति शेषः, खलु=इदं निश्चितम्, सत्यालापी=सत्यवक्ता, पातकी=पापग्रस्तः, =नैव, भवति=जायते, सत्यम् इति=इदं स्वरूपबोधकम्, द्वे अपि=द्वयक्षरमात्रम्, अपि, अलीकेन=असत्येन, मा=नैव, गूहय=गोपाय । एवञ्च न्यायालये भय परित्यज्य सत्यमेव वक्तव्यमिति तद्भावः । वैतालीय वृत्तम् ॥ ३५ ॥

**अर्थ—चारुदत्त—**गहने, गहने [ वे ही ] हैं—यह तो नहीं जानता हूँ किन्तु हमारे घर से लाये गये हैं—यह जानता हूँ ।

**शकार—**पहले तो बगीचे में ले जाकर मार डाली है और अब कपटपूर्वक छिपा रहे हो ?

**अन्वयः—**इदानीम्, सुकुमारे, अस्मिन्, तव, गात्रे, कर्कशाः, कशाः, अस्माकम्, मनोरथैः, सह, निःशङ्कम्, पतिष्यन्ति ॥ ३६ ॥

**शब्दार्थः—**इदानीम्=इस समय, सुकुमारे=अति कोमल, अस्मिन्=इस, तव=तुम्हारे, गात्रे=शरीर पर, कर्कशाः=कठोर, कशाः=कोड़े, अस्माकम्=हम लोगों के, मनोरथैः=मनोरथों के, सह=साथ, निःशङ्कम्=निश्चितरूप से, पतिष्यन्ति=गिरेंगे, पड़ेंगे ॥ ३६ ॥

नवमोऽङ्कः ५६१

चारुदत्तः—

अपापानां कुले जाते मयि पापं न विद्यते । यदि सम्भाव्यते पापमपापेन च किं मया ॥ ३७ ॥

अर्थ—श्रेष्ठी और कायस्थ—आर्यचारुदत्त ! सच बोलिये —
इस समय तुम्हारे सुकोमल शरीर पर कठोर कोड़े हम लोगों के मनोरथों के साथ साथ निश्चितरूप से गिरेंगे । अर्थात् हमारी अभिलाषाओं और तुम्हारे ऊपर दण्ड रूप में कोड़ों का गिरना साथ साथ होगा ॥ ३६ ॥

टीका —न्यायालये मिथ्याभाषणस्य भयानकं फलं प्रतिपादयतः-इदानीमिति । इदानीम्=अधुना, अतिशीघ्रमेवेत्यर्थः सुकुमारे=सुकोमले, अस्मिन्=पुरोवर्तिनि, तव=चारुदत्तस्येत्यर्थः, गात्रे=शरीरे, कर्कशाः=कठोराः, कशाः=अश्वादेस्ताडन्यः, अस्माकम्=न्यायाधिकारिणाम्, मनोरथैः=अभिलाषैः, तव निर्दोषताप्रमाणानुसन्धानार्थं सततमेव व्याकुलैः, सह=सार्द्धम्, निःशङ्कम्=शंकारहितम्, अन्यत्र निर्णीयमित्यर्थः, पतिष्यन्ति=तवोपरि निक्षिप्ता भविष्यन्ति, अस्माकं मनोरथा विफलाः भविष्यन्तीति भावः । एवञ्च तवास्माकञ्च सममेव कष्टोत्पत्तिरिति तद्भावः । सहोक्तिरलंकारः, पथ्यावक्त्रं वृत्तम् ॥३६॥

**अन्वयः—**अपापानाम्, कुले, जाते, मयि, पापम्, न, विद्यते, यदि; [ मयि ] पापम्, सम्भाव्यते, ( तदा ) अपापेन, च, मया, किम् ॥३७॥

**शब्दार्थ—**अपापानाम्=पापरहित लोगों के, कुले=वंश में, जाते=पैदा होने वाले, मयि=मुझ चारुदत्त में, पापम्=पाप, न=नहीं, विद्यते=वर्तमान है, यदि=अगर, ( मयि=मुझ में ) पापम्=पाप, सम्भाव्यते=सम्भावित किया जाता है, सोंचा जाता है, ( तदा=तब ), अपापेन=निष्पाप, च=भी, मया=मेरे द्वारा, किम्=क्या ( लाभ ) ? ॥३७॥

अर्थ--चारुदत्त —
पापरहित लोगों के कुल में उत्पन्न होने वाले मुझ में पाप नहीं है। यदि ( लोगों द्वारा मुझ पर ) पाप सोंचा जाता है तब पापरहित भी मुझसे क्या ( लाभ ) ? अर्थात् निष्पाप होना ही पर्याप्त नहीं, लोगों द्वारा निष्पाप समझा जाना ही उचित होता है ॥३७॥

टीका—स्वस्य दोषरहितत्वेऽपि लोकैर्यदि दोषवत्त्वमुच्यते तदा जीवनं व्यर्थमिति प्रतिपादयति—अपापानामिति । अपापानाम्=पापरहितानाम्, पुण्यवतामित्यर्थः, कुले=वंशे, जाते=उत्पन्ने, मयि=चारुदत्ते, पापम्=कल्मषम्, न=नैव विद्यते=वर्तते, एवंस्थितौ सत्यामपि यदि लोकैः मयि, पापम्=अधमंम्, सम्भाव्यते=

३६ मृ०

५६२ मृच्छकटिकम्

(स्वगतम्) न च मे वसन्तसेना विरहितस्य जीवितेन कृत्यम् ।
(प्रकाशम्) भोः ! किं बहुना ।

मया किल नृशंसेन लोकद्वयमजानता ।
स्त्रीरत्नञ्च विशेषेण शेषमेषोऽभिधास्यति ॥३८॥

मन्यते, कल्प्यते वा, तदा अपापेन = पापशून्येन मया = चारुदत्तेन, किम् ? न किमपि प्रयोजनमिति भावः । अतो भवद्भिर्यदि मम अपराधो मन्यते तदा वस्तुतोऽनपराधस्यापि मम जीवनस्य वैफल्यं सुनिश्चितमिति तद्भावः । अत्र चारुदत्ते पापासत्त्वं प्रति प्रथमपादार्थस्य हेतुतया उपन्यासात् काव्यलिङ्गमलंकारः । पथ्यावक्त्रं वृत्तम् ॥३७॥

विमर्श— चारुदत्त कहता है मैं ही नहीं, अपि तु मेरे कुल में किसी ने भी पाप नहीं किया है। ऐसे निष्कलंक कुल में पैदा हुआ हूँ। फिर भी यदि आप लोग मुझे वसन्तसेना की हत्या का अपराधी मानते हैं तो वस्तुतः निरपराधी भी मेरा जीवन व्यर्थ है। क्योंकि लोगों द्वारा अपराधी समझा जाना अति कष्टकारक होता है ॥३७॥

अन्वयः— लोकद्वयम्, अजानता, नृशंसेन, मया, किल, विशेषेण स्त्रीरत्नम्, च, शेषम्, एषः, अभिधास्यति ॥३८॥

शब्दार्थ— लोकद्वयम् = इस लोक और परलोक दोनों को, अजानता = न जानने वाले, नृशंसेन = क्रूर, मया = मेरे द्वारा, किल = निश्चित रूप से, विशेषेण = विशेषरूप से, स्त्रीरत्नम् = स्त्रीरत्न वसन्तसेना-(मार डाली गयी यह-) शेषम् = शेष बात, एषः = यह शकार, अभिधास्यति = कहेगा ॥३८॥

अर्थ— (अपने में) और वसन्तसेना से रहित मेरे जीने से क्या लाभ ?
(प्रकट रूप में) अरे ! अधिक क्या—
इस लोक और परलोक दोनों को न जानने वाले क्रूर मेरे द्वारा विशेष-रूप से स्त्रीरत्न (वसन्तसेना मार दी गयी—यह)-इस शेष बात को यह शकार कहेगा ॥३८॥

टीका— वसन्तसेना विरहितं जीवनमसह्यं मत्वा प्राणत्यागमेव वरं मन्यमानश्चारुदत्त आह-मयेति । लोकद्वयम्-इहलोकं परलोकं च, इह राजदण्डादिभयं परत्र यमादिदण्डभयं नरकादिगमनं च, अजानता = अविदता, नृशंसेन = क्रूरेण, मया = चारुदत्तेन, विशेषेण, स्त्रीरत्नम् = रत्नरूपा वसन्तसेनेत्यर्थः, 'मारितेति' शेषम् = अवशिष्टं वचनम्, एषः = पुरोवर्ती शकारः, अभिधास्यति = कथयिष्यति । अत्र 'स्त्रीरतिश्च' इत्यपि पाठः, अत्र साक्षाद् रतिरूपा वसन्तसेनेत्यर्थः । इदं पद्यं यत्किञ्चिद्भेदेन पूर्वमपि उपन्यस्तम् । तत्रापि व्याख्यातमिति बोध्यम् ॥३८॥

नवमोऽङ्कः ५६३

शकारः—वावादिदा । अले ! तुमं पि भण—'मये वावादिता' त्ति ।
( व्यापादिता । अरे ! त्वमपि भण—'मया व्यापादिता' इति )
चारुदत्तः—त्वयैवोक्तम् ।
शकारः—शुणेध शुणेध भट्टालका ! एदेण मारिदा, एदेण ज्जेव संशए छिण्णे । एदश्श दलिद्दचारुदत्तश्श शलीले दण्डे घालीअदु ।
( शृणुत, शृणुत भट्टारकाः ! एतेन मारिता, एतेनैव संशयश्छिन्नः । एतस्य दरिद्रचारुदत्तस्य शारीरो दण्डो धार्यताम् । )
अधिकरणिकः—शोधनक ! यथाह राष्ट्रियः । भो राजपुरुषाः ! गृह्यतामयं चारुदत्तः ।

( राजपुरुषाः गृह्णन्ति । )

वृद्धा—पसीदन्तु पसीदन्तु अज्जमिस्सा (जो तदाणि चोरेहिं अवहिदस्स इत्यादिपूर्वोक्तं पठति ।) ता जदि वावादिदा मम दारिआ, वावादिदा, जीवदु मे दीहाऊ । अण्णं च—अत्थि-पच्चत्थिणं ववहारो, अहं अत्थिणी, ता मुञ्चध एदं । ( प्रसीदन्तु, प्रसीदन्तु आर्यमिश्राः ! तद् यदि व्यापादिता मम


**विमर्श—**इसी नवम अंक में श्लोक संख्या ३० में भी यही श्लोक है । दोनों में कुछ पाठभेद हैं । वहाँ भी इस की व्याख्या की जा चुकी है । 'परलोकम्' के स्थान पर 'लोकद्वयम्' यह पाठ अधिक अच्छा है। क्योंकि स्त्रीवध का दण्ड यहाँ भी मिलना है और परलोक में भी । 'स्त्रीरत्नञ्च' के स्थानपर 'स्त्रीरत्निश्च' ऐसा भी पाठ है । यहाँ चारुदत्त मृत्यु की इच्छा करने लगता है । अतः पद्य में कुछ अन्तर स्वाभाविक है ॥३८॥

**शब्दार्थः—**व्यापादिता=मार डाली, छिन्नः=दूर कर दिया, शारीरः=शरीर-सम्बन्धी, आरा आदि से शरीर को काटना, दारिका=कन्या, अर्थिप्रत्यर्थिनोः=वादी-प्रतिवादी का, आत्मनः सदृशम्=अपनी इच्छा के अनुरूप ॥

**अर्थ—शकार—**मार दिया । अरे तुम भी कहो 'मैंने मार दिया ।'
**चारुदत्त—**तुम्हीं ने कहा है ।
**शकार—**महाशयों ! सुनिये सुनिये ! इसीने मार डाला । इसी ने संदेह ( भी ) दूर कर दिया । इस दरिद्र चारुदत्त को शारीरिक दण्ड दीजिये ।
**अधिकरणिक—**शोधनक ! जैसा राजा के शाले ने कहा है ( वैसा करो ) । इस चारुदत्त को पकड़ लो ।

( सिपाही पकड़ लेते हैं । )

**वृद्धा—**माननीय विद्वानों ! प्रसन्न हो जाइये, प्रसन्न हो जाइये । यदि मारा है तो मेरी पुत्री को मारा है। मेरा दीर्घायु जीवित रहे । दूसरी बात यह है कि

५६४ मृच्छकटिकम्

दारिका, व्यापादिता, जीवतु मे दीर्घायुः । अन्यच्च अर्थिप्रत्यर्थिनोर्व्यवहारः अहम- र्थिनी, तत् मुञ्चत एनम् । ) शकारः- अवेहि गब्भदाशि ? गच्छ, किं तव एदिणा ? ( अपेहि गर्भदासि ! गच्छ, किं तव एतेन ? ) अधिकरणिकः- आर्ये ! गम्यताम् । हे राजपुरुषाः ! निष्क्रामयतैनाम् । वृद्धा -- हा जाद ! हा पुत्तअ ! । ( हा जात ! हा पुत्रक ! ) ( इति रुदती निष्क्रान्ता । ) शकारः- ( स्वगतम् ) किदं मए एदश्श अत्तणो शलिशं । शम्पदं गच्छामि । ( कृतं मया एतस्य आत्मनः सदृशम् । साम्प्रतं गच्छामि । ) ( इति निष्क्रान्तः । ) अधिकरणिकः- आर्यचारुदत्त ! निर्णये वयं प्रमाणम्, शेषे तु राजा । तथापि शोधनक ! विज्ञाप्यतां राजा पालकः—

अयं हि पातकी विप्रो न वध्यो मनुरब्रवीत् । राष्ट्रादस्मात्तु निर्वास्यो विभवैरक्षतैः सह ॥३६॥


वादी और प्रतिवादी का मुकदमा है । मैं वादी हूँ । अतः इसको छोड़ दीजिये । शकार— अरे गर्भदासी ! दूर हट जा, चली जा, तुझे इससे क्या ? अधिकरणिक— आर्ये ! आप जाइये । हे सिपाहियो ! इसको बाहर करो । वृद्धा— हाय बेटी ! हाय बेटा ! ( ऐसा कहती हुई रोती हुई निकल गयी ।) शकार— (अपने में) मैंने इस चारुदत्त के लिये अपनी इच्छानुसार काम कर लिया है । अब चलता हूँ । ( यह कहकर चला जाता है । )

अन्वयः- अयम्, विप्रः, पातकी, ( तथापि ) वध्यः, न, इति, मनुः, अब्रवीत्, तु, अक्षतैः, विभवैः, सह, अस्मात्, राष्ट्रात्, निर्वास्यः ॥ ३९ ॥

शब्दार्थ - अयम्= यह, विप्रः=ब्राह्मण, पातकी=पापी है. ( तथापि=फिर भी ) वध्यः=वधयोग्य, न=नहीं है, इति=ऐसा, मनुः=मनु ने, अब्रवीत्=कहा है, तु=लेकिन अक्षतैः=बिना हानि के सम्पूर्ण, विभवैः=धनादि के, सह=साथ, अस्मात्=इस, राष्ट्रात्=राष्ट्र से, निर्वास्यः=बाहर करने योग्य है ॥ ३६ ॥

अर्थ--अधिकरणिक--आर्य चारुदत्त ! निर्णय करने में हम प्रमाण ( अधिकारी ) हैं, शेष में अर्थात् दण्ड देने में राजा । तथापि शोधनक ! राजा पालक से निवेदन कर दो –

यह ब्राह्मण पातकी है फिर भी वधयोग्य नहीं है--ऐसा मनु ने कहा हैं किन्तु सम्पूर्ण सम्पत्ति के साथ यह इस राष्ट्र (राज्य) से बाहर करने योग्य है अर्थात् इसे सम्पूर्ण सम्पत्ति के साथ राज्य से बाहर निकाल दीजिये ॥ ३६ ॥

नवमोऽङ्कः ५६५

शोधनकः— जं अज्जो आणवेदि। (इति निष्क्रम्य पुनः प्रविश्य सास्रम्) अज्जा ! गदम्हि तर्हि। राजा पालओ भणादि—'जेण अत्थकल्लवत्तस्स कारणादो वसन्तसेणा वावादिदा, तं ताइं ज्जेव आहरणाई गले बन्धिय डिण्डिमं ताडिअ दक्खिण-मसाणं णइअ सूले भज्जेध त्ति। जो को वि अवरो एदिसं अकज्जं अणुचिट्ठदि, सो एदिणा सणिआरदण्डेन सासाअदि।' (यदार्थं आज्ञापयति ।) (आर्याः ! गतोऽस्मि तस्मिन् । राजा पालको भणति 'येन अर्थकल्यवर्त्तस्य कारणात् वसन्तसेना व्यापादिता, तं तान्येव आभरणानि गले बद्ध्वा डिण्डिमं ताडयित्वा, दक्षिण-श्मशानं नीत्वा, शूले भङ्क्त' इति । यः कोऽपि अपर ईदृशमकार्यमनुतिष्ठति, स एतेन सनिकारदण्डेन शिष्यते ।)

चारुदत्तः— अहो ! अविमृश्यकारी राजा पालकः। अथवा—

ईदृशे व्यवहारान्नौ मन्त्रिभिः परिपातिताः।
स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥४०॥

टीका— वधकत्वं मृत्युदण्डविधाने सत्यपि ब्राह्मणविषये न तथाऽचारणीयमिति मनूक्तां दण्डव्यवस्थां राजानं सूचयितुमाह—अियमिति। **अयम्=**पुरोवर्ती, अभियुक्तः **विप्रः=**ब्राह्मणः, चारुदत्तः, पातकी=वसन्तसेनाहत्यारूपपापकर्ता, अस्ति, तथापि, **न=**नैव, वध्यः=प्राणदण्डार्हः, इति=इत्थम्, **मनुः=**धर्मशास्त्रप्रणेता, **अब्रवीत्=**उक्तवान्, **तु=**परन्तु, अक्षतै=अविनष्टैः, सम्पूर्णैरित्यर्थः, **विभवै=**धनादिभिः, **सह=**सार्द्धम्, **अस्मात्=**भवदधिकृतात्, **राष्ट्रात्=**राज्यात्, **निर्वास्यः=**बहिष्करणीयः। तथा चोक्तं मनुना —

'न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् ।
राष्ट्रादेनं बहिस्कुर्यात् समग्रधनमक्षतम् ॥ मनु० ८।३८० ॥

एवञ्च चारुदत्तो राज्याद् बहिष्करणीय इति न्यायाधिकारिणां सम्मतिः। पथ्यावक्त्रं वृत्तम् ॥ ३६ ॥

शब्दार्थ— सास्रम् = आसुओं के साथ, अर्थकल्यवर्त्तस्य = धनरूपी कलेवा के कारण, व्यापादिता = मार डाली, ताडयित्वा = पीटकर बजाकर, भङ्क्त = चढ़ा दो, मार दो, सनिकारदण्डेन = अपमानसहित दण्ड से, शास्यते = दण्डित किया जायगा।

शोधनक— श्रीमान् की जैसी आज्ञा। (यह कहकर निकलकर, पुनः प्रवेश करके आसुओं के साथ) आर्यों ! वहाँ (राजा के पास) गया था। राजा पालक कहते है—'जिसने कलेवातुल्य धन के कारण वसन्तसेना को मारा है उसे वे ही गहने गले में बांधकर, ढिंढोरा पीटकर दक्षिण श्मशान में ले जाकर शूली पर चढ़ा दो।' जो कोई दूसरा भी इस प्रकार का अनुचित काम करेगा उसे इसी प्रकार अपमानसहित दण्डित किया जायगा।

५६६ मृच्छकटिकम्

अपि च—ईदृशैः श्वेतकाकीयैः राज्ञः शासनदूषकैः । अपापानां सहस्राणि हन्यन्ते च हतानि च ॥४१॥


अन्वयः—मन्त्रिभिः, ईदृशे, व्यवहाराग्नौ, परिपातिताः, महीपालाः, कृपणम्, दशाम्, गच्छन्ति, स्थाने, खलु ॥ ४० ॥

शब्दार्थमन्त्रिभिः=मन्त्रियों के द्वारा, ईदृशे=इस प्रकार के, व्यवहाराग्नौ=मुकदमारूपी आग में, परिपातिताः=गिराये गये, झोंके गये, महीपालाः=राजा लोग, कृपणम्=शोचनीय, दशाम्=अवस्था को, गच्छन्ति=प्राप्त करते हैं, इति=यह, स्थाने=ठीक, खलु=निश्चितरूप से, है ॥ ४० ॥

अर्थचारुदत्त—ओह ! राजा पालक बिना विचारे काम करने वाला है। अथवा

मन्त्रियों के द्वारा इस प्रकार की मुकद्दमाविचाररूपी आग में झोंके गये राजा लोग शोचनीय स्थिति को प्राप्त करते हैं, यह ठीक ही है ॥ ४० ॥

टीका—कुमन्त्रिपरार्मशादि राज्ञो दूषणमाह—ईदृशे इति । मन्त्रिभिः=कुत्सितपरामर्शदातृभिः, ईदृशे=एवम्प्रकारे, व्यवहाराग्नौ=विवादनिर्णय-रूपवह्नौ परिपातिताः=सर्वतोभावेन निक्षिप्ताः, अधोगमिता इत्यर्थः, महीपालाः=राजानः, कृपणम्=शोच्याम्, दीनामित्यर्थः, दशाम्=अवस्थांम्, गच्छन्ति=प्राप्नुवन्ति, इति यत् तत् स्थाने खलु=युक्तमेव ‘युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः । मन्त्रिणां समुचित-निर्णयासामर्थ्यत्वात् निर्दोषजनानां दण्डप्रदानेन राज्ञां पतनमवश्यम्भावीति तद्भावः । रूपकमलङ्कारः । पथ्यावक्त्रं वृत्तम् ॥ ४० ॥

अन्वयः—श्वेतकाकीयैः, ईदृशैः, राज्ञः, शासनदूषकैः, अपापानाम्, सहस्राणि, हतानि, च, हन्यन्ते, च ॥ ४१ ॥

शब्दार्थश्वेतकाकीयैः=श्वेतवर्ण के कौवों के तुल्य, ईदृशैः=ऐसे, राज्ञः=राजा के, शासनदूषकैः=शासन को दूषित करने वालों के द्वारा, अपापानाम्=पाप-रहित, निरपराध व्यक्तियों के, सहस्राणि=हजारों, हतानि=मारे गये हैं, =और, हन्यन्ते=मारे जा रहे हैं ॥ ४१ ॥

अर्थऔर भी

सफेद कौवे के समान [ बाहर सफेद किन्तु भीतर से काले ] इस प्रकार के राजा के शासन [ दण्डविधान ] को दूषित करने वालों के द्वारा हजारों लोग मारे गये हैं और मारे जा रहे हैं ॥ ४१ ॥

टीका—अपराधरहितानामपि दण्डविधाने ईदृशानां कुमन्त्रिणां न्यायाधिक-रणिकानामेव दोष इति प्रतिपादयितुमाह—ईदृशैरितिश्वेतकाकीयैः=श्वेत-वर्णकाकतुल्यैः, बहिः, श्वेतैरन्तर्मलिनैः, यद्वा अविद्यमानमपि श्वेतकाकं स्वीकुर्वद्-

नवमोऽङ्कः ५६७

सखे मैत्रेय ! गच्छ, मद्वचनादम्बामपश्चिममभिवादयस्व । पुत्रञ्च मे रोहसेनं परिपालयस्व ।

विदूषकः—मूले छिण्णे कुदो पादवस्स पालगं ? ( मूले छिन्ने कुतः पादपस्य पालनम् ? )

चारुदत्तः—मा मैवम् ।

नृणां लोकान्तरस्थानां देहप्रतिकृतिः सुतः ।
मयि यो वै तव स्नेहो रोहसेने स युज्यताम् ॥४२॥

भिरविवेकिभिरिति भावः, ईदृशैः=एवम्प्रकारैः, राज्ञः=नृपस्य, शासनम्=दण्डादिविधानम्, दूषयन्ति=ये तैः, अयथाव्यवहारदर्शिभिः मन्त्रिभिरित्यर्थः, अपापानाम्=पापरहितानाम्, सहस्राणि=बहूनि, हतानि=घातितानि, च, हन्यन्ते=मार्यन्ते, प्राग् इदानीं चेति शेषः । पथ्यावक्त्रं वृत्तम् ॥ ४१ ॥

**विमर्श—**श्वेतकाकीयैः—( १ ) श्वेतवर्ण का कौवा नहीं होता है फिर भी लोगों के कहने पर ऐसा ही स्वीकार करने वाले अर्थात् वास्तविकता से अनभिज्ञ । ( २ ) बाहर तो हंसके समान उज्ज्वल वेशधारी हैं किन्तु भीतर से कौवा के समान काले अर्थात् कलुषित वृत्ति वाले । इस पद की व्याख्या करते हुये जगद्धर ने यह लिखा है—

"ईदृशैः श्वेतकाकीयैः श्वेतः काक इति विततार्थं वाक्यं श्वेतकाकीयम् । 'इवे प्रतिकृतौ' ( पा. सू. ५।३।९६ ) इत्यधिकारस्थितेन 'समासाच्च तद्विषयात्' ( पा. सू. ५।३।१०६ ) इत्यनेन छ प्रत्ययः । तद्वादिनः श्वेतकाकीयाः विततार्थदर्शिनस्तैः ।" ॥ ४१ ॥

**अर्थ—**सखे मैत्रेय ! जाओ, मेरी ओर से माता को अन्तिम प्रणाम कह देना । और मेरे बेटे रोहसेन का पालन करना ।

**विदूषक—**मूल कट जाने पर पेड़ का पालन कैसे ?

**अन्वयः—**सुतः, लोकान्तरस्थानाम्, नृणाम्, देहप्रतिकृतिः, [ भवति ], मयि, तव, यः, स्नेहः, सः, रोहसेने, युज्यताम् ॥ ४२ ॥

**शब्दार्थ—**सुतः=पुत्र, लोकान्तरस्थानाम्=परलोक में गये हुये, नृणाम्=मनुष्यों का, देहप्रतिकृतिः=शरीर का प्रतिनिधि अथवा दूसरा शरीर ही, (भवति=होता है), मयि=मेरे ऊपर, तव=तुम्हारा, यः=जो, स्नेहः=प्रेम, ( है ), सः=उसे, रोहसेने=रोहसेन पर, युज्यताम्=लगा देना ॥ ४२ ॥

**अर्थ—चारुदत्त—**नहीं, ऐसा मत कहो ।

५६८ मृच्छकटिकम्

विदूषकः-भो वयस्स ! अहं ते पिअवअस्सो भविअ, तुए विरहिदाईं पाणाईं धारेमि ? । ( भो वयस्य ! अहं ते प्रियवयस्यो भूत्वा त्वया विरहितान् प्राणान् धारयामि ? )

चारुदत्तः--रोहसेनमपि तावद्दर्शय ।

विदूषकः - एव्वं जुज्जदि । ( एवं युज्यते । )

अधिकरणिकः--भद्र शोधनक ! अपसार्यतामयं बटुः ।

( शोधनकस्तथा करोति । )

अधिकरणिकः--कः कोऽत्र भोः ! चाण्डालानां दीयतामादेशः ।

( इति चारुदत्तं विसृज्य निष्क्रान्ताः सर्वे राजपुरुषाः । )

शोधनकः--इदो आअच्छदु अज्जो । ( इत आगच्छतु आर्यः । )

चारुदत्तः--( सकरुणम् 'मैत्रेय भोः ! 'किमिदमद्य' ६।२६ इत्यादि पठति । अकाशे )


पुत्र दूसरे लोक में गये हुये लोगों [ पिता ] का दूसरा शरीर या प्रतिनिधि होता है अतः तुम्हारा जो प्रेम मुझ पर है उसे ( मेरे पुत्र ) रोहसेन पर लगा देना, करना ॥ ४२ ॥

टीका---'छिन्ने मूले' इत्यादिकं विदूषकवचनमाकर्ण्य तन्निराकुर्वन् पुत्रं स्व-प्रतिरूपमेव प्रतिपादयति-नृणामिति । सुतः=पुत्रः, लोकान्तरस्थानाम्=परलोके गतानाम्, नृणाम्=पुरुषाणाम्, देहस्य=शरीरस्य, प्रतिकृतिः=प्रतिरूपम्, पुत्रः पितुः द्वितीयं शरीरमिति भावः, 'आत्मा वै जायते पुत्रः' इत्यादौ तथोक्तेरिति बोध्यम्, अतः, मयि=चारुदत्ते, तव=विदूषकस्य, यः=यावान्, स्नेहः=अनुरागः, सः=तावान्, रोहसेने=एतन्नामके मम पुत्रे, युज्यताम्=समर्प्यताम् । एवञ्च मम मरणेऽपि तव स्नेहो मम पुत्रेऽवश्यमेव भवितव्य इति तद्भावः । पथ्यावक्त्रं वृत्तम् ॥४२॥

**अर्थ--विदूषक--**हे मित्र ! तुम्हारा प्रिय मित्र हो कर तुम्हारे विना प्राणों को धारण करूँगा ?

चारुदत्त - तब तक रोहसेन को भी दिखा दो ।

विदूषक -- यह ठीक ही है ।

अधिकरणिक - भद्र शोधनक ! इस ब्राह्मण को हटा दो ।

( शोधनक ब्राह्मण चारुदत्त को हटाता है । )

**अधिकरणिक--**यहाँ कौन है ? चाण्डालों को आदेश दे दो ।

( चारुदत्त को छोड़कर सभी राजपुरुष निकल गये । )

शोधनक - आर्य इधर आइये ।

नवमोऽङ्कः ५६६

विष-सलिल-तुलाग्नि-प्रार्थिते मे विचारे क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य । अथ रिपुवचनात्त्वं ब्राह्मणं मां निहंसि पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥४३॥

अयमागतोऽस्मि ।

( इति निष्क्रान्ताः सर्वे । )

॥ इति व्यवहारो नाम नवमोऽङ्कः ॥


अन्वयः---विषसलिलतुलाग्निप्रार्थिते, मे, विचारे, ( सति ), वीक्ष्य, अद्य, इह, शरीरे, क्रकचम्, दातव्यम्, अथ रिपुवचनात् वा, ब्राह्मणम्, माम्, निहंसि, ( तदा ), पुत्रपौत्रैः, समेतः, नरकमध्ये, पतसि ॥४३॥

शब्दार्थः---विषसलिलतुलाग्निप्रार्थिते=विष, जल, तराजू और आग के द्वारा परीक्षा करने योग्य, मे=मेरे ( चारुदत्त के ), विचारे=मुकदमा का निर्णय, ( सति=रहने पर ) वीक्ष्य=अच्छी तरह देख कर, समझ कर, अद्य=आज, इह=इस, ( मेरे ) शरीरे=देह पर, क्रकचम्=आरा, दातव्यम्=चलाना चाहिये, देना चाहिये । अथ=अगर, रिपुवचनात्=शत्रु शकार के कहने से, वा=ही, ब्राह्मणम्=ब्राह्मण, माम्=मुझ चारुदत्त को, निहंसि=मार डालते हो, ( तदा=तब ) पुत्रपौत्रैः=पुत्र तथा पौत्रों के, समेतः=साथ, नरकमध्ये=नरक के बीच में, पतसि=गिरते हो, गिरोगे ॥ ४३ ॥

अर्थ--चारुदत्त-- ( करुणापूर्वक 'मैत्रेय भोः ! किमिदमद्य' इत्यादि (९।२६) श्लोक पढ़ता है । आकाश की ओर - )

विष, पानी, तराजू और आग से ( मेरे द्वारा ) परीक्षा के लिये प्रार्थित मेरे मुकदमे के निर्णय में ठीक प्रकार से विचार करके आज मेरे शरीर पर आरा चलवाना चाहिये । यदि शत्रु शकार के वचन से ही मुझ ब्राह्मण को मार डालते हो तो पुत्र तथा पौत्र आदि के साथ नरक के बीच में गिरोगे ॥ ४३ ॥

यह मैं आ गया ।

( इस प्रकार सभी निकल जाते हैं । )

॥ व्यवहार-नामक नवम अंक समाप्त हुआ ॥

**टीका--**निरपराधस्यापि स्वस्य मृत्युदण्डविधाने सर्वेषां नरकपतनमिति आक्रोशं प्रकटयन्नाह — विषेति । विषेण=गरलेन, गरलपानेनेत्यर्थः, सलिलेन=जलेन, जलनिमज्जनेनेत्यर्थः, तुलया=तुलाख्यपरिमापकयन्त्रेण, तुलोपरि समारोपणेनेत्यर्थः,

५७० | मृच्छकटिकम्

अग्निना=वह्निना, अग्निमध्ये निक्षेपेण अग्निग्रहणेन वेत्यर्थः प्रार्थितः=याचितः, परीक्षणार्थं मया इति शेषः, तादृशे, पूर्वोक्तपदार्थैः ममापराधस्य निर्णयो विधेय इति मया प्रार्थिते, मे=मम, चारुदत्तस्य, विचारे=मयि आरोपितस्यापराधस्य तत्त्वनिर्णये सतीत्यर्थः, यदि मयि पापं न स्यात्तदा पूर्वोक्तैः परीक्षितोऽहं न मरिष्यामीति तद्भावः, वीक्ष्य=विशेषेण विचार्य, अद्य-अस्मिन् दिने, इह=अस्मिन्, शरीरे=मम देहे, क्रकचम्=करपत्रम्, काष्ठकर्तनयन्त्रविशेषः 'आरा' इति हिन्द्याम्, दातव्यम्=दातुमुचितम्, तेन मम शरीरं कर्तनीयमिति भावः । यदि सम्यक् परीक्षामकृत्वैव मृत्युदण्डविधानं क्रियते तदाऽक्रोशं व्यनक्ति--अथ=यदि, रिपुवचनात्=रिपोः शकारस्य कथनात्, वा=एव, ब्राह्मणम्=सदाचारिणं निरपराधं विप्रम्, माम्=चारुदत्तम्, निहंसि=मारयसि, तदा, पुत्रपौत्रै.=पुत्रैः तत्पुत्रैश्चेत्यर्थः भाविसन्ततिभिरिति भावः समेतः=सहितः, नरकमध्ये=नरकस्याभ्यन्तरे, पतसि=गच्छसि, गमिष्यसीत्यर्थः, वर्तमानसामीप्ये लटः प्रयोगः । निरपराधस्य दण्डदाने नरक-पतनमाह मनुः--

'अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशो महदाप्नोति नरकं चैव गच्छति ॥' मनुः ८।१२८।।

अत्र काव्यलिङ्गमलङ्कारः, मालिनी वृत्तम् ।। ४३ ।।

।। इति नवमोऽङ्कः ।।

विमर्श प्राचीनकाल में अपराधी का निर्णय करने के लिये दिव्य परीक्षा प्रचलित थी । (१) विष खिलाने पर भी मृत्यु का न होना । (२) पानी में डुबाने पर भी न मरना । (३) बराबर का वजन रखने पर भी उसके द्वारा चढ़ा हुआ पलड़ा ऊपर हो जाना (४) हाथ पर पीपल आदि के पत्ते रखकर जलता हुआ आग का गोला रखने पर भी हाथ का न जलना--ये किसी के निर्दोष होने में प्रमाण माने जाते थे । चारुदत्त के कथनानुसार उसने इनके द्वारा अपनी परीक्षा की प्रार्थना की थी । किन्तु शकार की बातों को ही सब कुछ मान कर उसे मृत्युदण्ड दे दिया गया है । वह अपने को निर्दोष मानता है । अतः उसे दण्ड देने वाले राजा की तीनों पीढ़ियां तक नरक भोगेंगी--यह शाप देता है ।

तत्कालीन न्याय-प्रणाली और आज की न्यायप्रणाली समान सी प्रतीत होती है । गम्भीरतापूर्वक निर्णय लेना उस समय भी सम्भव नहीं था ।। ४३ ।।

।। इस प्रकार जय-शङ्कर-लाल-त्रिपाठि-विरचित संस्कृत-हिन्दी-व्याख्या में मृच्छकटिक का नवम अङ्क समाप्त हुआ ॥

दशमोऽङ्कः

( ततः प्रविशति चाण्डालद्वयेनानुगम्यमानश्चारुदत्तः । )

उभौ—

तक्किकं ण कलअ कालणं णव-वह-बन्ध-णअणे णिउणा ।
अचिरेण शीश-च्छेअण शूलालोवेसु कुशलम्ह ॥ १ ॥

( तत् किं न कलय कारणं नव-वध-बन्ध-नयने निपुणौ ।
अचिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥ १ ॥ )

ओशलध अज्जा ! ओशलध । एशे अज्जचारुदत्त । ( अपसरत आर्याः ! अपसरत । एष आर्यचारुदत्तः । )


( इसके बाद दो चाण्डालों द्वारा पीछा किया जाता हुआ चारुदत्त प्रवेश करता है । )

**अन्वयः—**तत्, कारणम्, किम्, न, कलय, ( आवाम् ), नवबध-बन्धनयने, निपुणौ, अचिरेण, शीर्षच्छेदनशूलारोपेषु, कुशलौ, स्वः ॥ १ ॥

**शब्दार्थ—**तत्=उस, कारणम्=प्रयोजन को, किम्=क्या, न=नहीं, कलय=समझते हो, ( आवाम्=हम दोनों ), नववधबन्धनयने=नये वध और बन्धन के लिये ले जाने में, निपुणौ=अच्छे जानकार, हैं, अचिरेण=शीघ्र ही, शीर्षच्छेदनशूलारोपेषु=शिर काटने और शूली पर चढ़ाने में, कुशलौ=चतुर, स्वः=हैं ॥ १ ॥

अर्थ—दोनों ( चाण्डाल )—
क्या उस ( श्मशान जाने के ) कारण को नहीं जानते हो ? ( हम दोनों चाण्डाल ) नये वध और बन्धन के लिये ( अपराधी व्यक्ति को ) ले जाने में चतुर हैं और शिर काटने तथा शूली पर चढ़ाने में दक्ष हैं ॥ १ ॥

**टीका—**वधार्थं चारुदत्तं नयन्तावुभौ चाण्डालौ गमन-कारणमजानन्तं कंचित् प्रत्याहतुः—तदिति । तत्=सर्वविदितम्, प्रसिद्धमित्यर्थः, कारणम्=हेतुम्, किम् न कलय=किं न जानासि, जानीहि तत् । नवे=नूतने, वधे=मारणे, तथा बन्धे=बन्धने, नयने=प्रापणे अपराधिनामिति शेषः, निपुणौ=विज्ञौ, स्वः, अचिरेण=शीघ्रमेव, शीष्णः=शिरसः, छेदनेषु=कर्तनेषु तथा शूलेषु=शूलस्योपरि आरोपेषु=आरोपेषु वध्यस्येति शेषः, कुशलौ=दक्षौ, स्वः=भवावः । 'आयुक्तकुशलाभ्याम्, ( पा, सू- २।३।४० ) इति कुशलयोगे सप्तमी । 'कलय' इति लोट्: प्रयोगोऽसमीचीनः, उपगीतिः छन्दः ॥ १ ॥

५७२मृच्छकटिकम्

दिण्ण-कलवील-दामे गहिदे अम्हेहिं बज्झपुलिसेहिं । दीवे व्व मन्दणेहे थोअं थोअं खअं जादि ॥ २ ॥ ( दत्त-करवीर-दामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ २ ॥ )

चारुदत्तः—(सविषादम् )

नयनसलिलसिक्तं पांशुरूक्षीकृताङ्गं पितृवनसुमनोभिर्वेष्टितं मे शरीरम् ।

**अन्वयः—**दत्त-करवीरदामा, वध्यपुरुषाभ्याम्, आवाभ्याम्, गृहीतः, [ एष आर्यचारुदत्तः-इति गद्यस्थेनान्वयः ] मन्दस्नेहः, दीपः, इव, स्तोकम्, स्तोकम्, क्षयम्, याति ॥ २ ॥

**शब्दार्थ—**दत्तकरवीरदामा=पहनायी गयी कनेर पुष्प की माला वाला, आवाभ्याम् वध्यपुरुषाभ्याम्=वध्ययोग्य पुरुषों के लिये नियुक्त हम दोनों, के द्वारा गृहीतः=पकड़ा गया, [ एष आर्यचारुदत्तः=यह आर्य चारुदत्त ], मन्दस्नेहः=अल्प तेल वाले, दीपः=दीपक, इव=के समान, स्तोकम् स्तोकम्=धीरे-धीरे, क्षयम्=विनाश को, याति=प्राप्त कर रहा है ॥ २ ॥

**अर्थ—**हटिये सज्जनों ! हटिये । यह आर्य चारुदत्त .. पहनायी गई कनेर फूलों की मालावाला, वध्ययोग्य पुरुषों के लिये नियुक्त हम दोनों ( चाण्डालों ) के द्वारा पकड़ा गया, [ यह आर्य चारुदत्त ] थोड़े तेल वाले दीपक की तरह धीरे-धीरे विनाश [ मृत्यु ] को प्राप्त कर रहा है ॥ २ ॥

**टीका—**हत्यापराधज्ञापकवेशं वर्णयन् वध्यत्वेनास्य स्वयमेव क्रमशः क्षयितामाहतुः—दत्तेति । दत्तम्=ग्रीवादौ अर्पितम्, करवीरस्य=रक्तवर्णपुष्पविशेषस्य ‘कनेर’ इति हिन्द्यां ख्यातस्य, दाम=माला यस्मै सः, करवीरपुष्पनिर्मित-मालालिङ्गित इत्यर्थः, वध्यपुरुषाभ्याम्—वधे=हत्यायाम्, साधू=समर्थो वधनिपुणौ इत्यर्थः, ‘तत्र साधुः’ (पा. सू. ४।४।९८ ) इति यप्रत्ययः तौ च पुरुषौ च, ताभ्याम्, हन्तृभ्याम्, आवाभ्याम्=चाण्डालाभ्याम्, गृहीतः=धृतः, ‘एष आर्यचारुदत्तः’ इति गद्यस्थेनान्वयः, मन्दः=अल्पः, स्नेहः=तैलम् पक्षे प्रेमा, यस्य तादृशः, दीपः=प्रदीपः, इव=यथा, स्तोकम् स्तोकम्=शनैः शनैः, अल्पमल्पं वा, क्षयम्=विनाशम्, याति=गच्छतीत्यर्थः । यथा खलु अल्पतैलः दीपः शनैः शनैः स्वयमेव नष्टो भवति तथैवायं चारुदत्तोऽपि अपराधिवेषधारेण मृत्युदण्डनिश्चयेन स्वयमेव मृत्युमुखमुपगच्छतीति भावः ॥ आर्या वृत्तम् ॥ २ ॥

**अन्वयः—**इह, विरसम्, रटन्तः, वायसाः, नयनसलिलसिक्तम्, पांशुरूक्षीकृता-

दशमोऽङ्कः ५७३

विरसमिह रटन्तो रक्तगन्धानुलिप्तं
बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥

**चाण्डालौ—**ओशलध अज्जा ! ओशलध । (अपसरत आर्याः ! अपसरत ।)

किं पेक्खध छिञ्जन्तं शप्पुरुलिशं काल-पलशु-धालाहिं ।
शुअण-शउणाधिवाशं सज्जणपुलिश-द्दुमं एदं ॥ ४ ॥


ङ्गम्, पितृवनसुमनोभिः, वेष्टितम्, रक्तगन्धानुलिप्तम्, मे, शरीरम्, बलिम्, इव, परिभोक्तुम्, तर्कयन्ति ॥ ३ ॥

**शब्दार्थ—**इह=यहाँ, विरसम्=कर्कश, रटन्तः=आवाज करते हुये, वायसाः=कौवे, नयनसलिलसिक्तम्=आँसुओं के पानी से भीगे हुये, पांशुरुक्षीकृताङ्गम्=धूलि लगने से रूखे अंगों वाले, पितृवनसुमनोभिः=श्मशान भूमि में पैदा हुये फूलों के द्वारा, वेष्टितम्=लिपटे हुये, रक्तगन्धानुलिप्तम्=लाल चन्दन से लिप्त, मे=मेरे, चारुदत्त के, शरीरम्=शरीर को, बलिम्=बलि, इव=के सामान, परिभोक्तुम्=खाने के लिये, तर्कयन्ति=सोचते हैं ॥ ३ ॥

अर्थ--चारुदत्त--( विषादपूर्वक )—
यहाँ कर्कश आवाज करते हुये कौवे आँसुओं से गीले, धूलि से धूसरित अवयवों वाले, श्मशान भूमि में पैदा हुये फूलों से लिपटे हुये, लाल चन्दन से पोते हुये मेरे शरीर को बलि (पूजनादि में समर्पित तथा पक्षियों आदि को दी जाने वाली वस्तु) के समान समझ रहें हैं, अर्थात् - मेरे शरीर को बलि के समान भक्षणीय पदार्थ समझ रहे हैं ॥ ३ ॥

**टीका—**तत्र वध्यवेश-धारिणमात्मानं दृष्ट्वा व्यथां व्यनक्ति—नयनेति । इह=अस्मिन् स्थाने, विरसम्=कर्कशम्, रटन्तः=शब्दं कुर्वन्तः, वायसाः=काकाः, नयनसलिलेन=अश्रुजलेन, सिक्तम्=क्लिन्नम्, तथा पांशुभिः=धूलिभिः, रुक्षीकृतानि=धूसरितानि अङ्गानि=अवयवाः, यस्य, तत्, पितृवनम्=श्मशानम् 'श्मशानं स्यात् पितृवनम्' इत्यमरः, तत्र भवैः सुमनोभिः=पुष्पैः, वेष्टितम्=परिवृत्तम्, रक्तगन्धेन=रक्तवर्णेन घृष्टचन्दनेन, अनुलिप्तम्=सर्वतो व्याप्तम्, मे=चारुदत्तस्य, शरीरम्=देहम्, बलिम् इव=काकादिभ्यः प्रदेयं वक्षीयद्रव्यम् इव, परिभोक्तुम्=भक्षयितुम्, तर्कयन्ति=सम्भावयन्ति । तत्र चारुदत्तः स्वकीयं शरीरं काकादिभिः भक्ष्यं चिन्तयति । उपमालंकारः, मालिनी वृत्तम् ॥ ३ ॥

**अन्वयः—**सज्जनाः !, सुजनशकुनाधिवासम्, एतम्, सज्जनपुरुषद्रुमम्, काल-परशुधाराभिः, छिद्यमानम्, किम्, पश्यत ? ॥ ४ ॥

**शब्दार्थ—**सज्जनाः !=हे सज्जनों !, सुजनशकुनाधिवासम्=सज्जनरूपी पक्षियों के निवास-स्थल, एतम्=इस, सज्जन पुरुषद्रुमम्=सज्जनपुरुषरूपी वृक्ष को,

.५३४मृच्छकटिकम्

( किं प्रेक्षध्वे छिद्यमानं सत्पुरुषं कालपरशु-धाराभ्याम् ।
सुजन-शकुनाधिवासं सज्जन-पुरुषद्रुममेतम् ॥ ४ ॥ )

आअच्छ ले चालुदत्त ! आअच्छ । ( आगच्छ रे चारुदत्त ! आगच्छ । )
चारुदत्त:--पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः; यदहमीदृशीं दशामनुप्राप्तः ।

सर्वाङ्गात्रेषु विन्यस्तैः रक्तचन्दनहस्तकैः ।
पिष्टचूर्णावकीर्णश्च पुरुषोऽहं पशूकृतः ॥ ५ ॥


कालपरशुधाराभिः = कालरूपी फरसे की धाराओं से, छिद्यमानम् = काटे जाते हुये, किम् = क्यों, प्रेक्षध्वे = देख रहे हो ? ॥ ४ ॥

अर्थ--दोनों चाण्डाल--हटो सज्जनों ! हटो ।
हे सज्जनों ! सज्जनरूपी पक्षियों के निवास-स्थल, इस सज्जनरूपी वृक्ष को कालरूपी फरसे की धाराओं से काटे जाते हुये क्यों देख रहे हो ? अर्थात् इस सज्जन चारुदत्त का वध मत देखो ॥ ४ ॥

**टीका--**सज्जनस्य मृत्युर्न दर्शनीय इति कृत्वाऽन्यान वारयन्तावाहतुः-किमिति । हे सज्जनाः = हे सत्पुरुषाः !, चारुदत्तस्य वधं श्रुत्वा तत्रैकत्रीभूता इति भावः. सुजनाः = साधवः एव शकुनाः = पक्षिणः तेषाम् अधिवासः = आश्रयः, तम्, एतम् = पुरोवर्त्तिनम्, सज्जनपुरुषः एव द्रुमः = वृक्षस्तम्, यथा शोभने वृक्षे शोभनाः पक्षिणस्तिष्ठन्ति तथैव सज्जनं चारुदत्तं सत्पुरुषा एवाश्रयन्तीति तद्भावः, कालपरशुधाराभ्याम् = कालः = कृतान्तः एव, यद्वा कालः = कृतान्तः इव, परशुः = कुठार-स्तस्यधा राम्याम् = तीक्ष्णाग्रभागाभ्याम्ः [ अत्र चाण्डालस्य द्वित्वात् द्विवचनमिति तत्त्वविदः ] छिद्यमानम् = भिद्यमानम्, किं पश्यत = कथमवलोकयत, नावलोकनीय-मिति भावः । अत्र सुजन-सज्जन-पुरुषपदयोरावृत्तिर्न शोभनेति बोध्यम् । एवमेव 'सज्जनद्रुमम्' इत्यनेनैवाभीष्टार्थसम्भवे पुनः 'पुरुष'-पद प्रयोगात् पुनरुक्तता दोषः । रूपकमलङ्कारः, आर्या वृत्तम् ॥४॥

**विमर्श--**यहाँ 'सुजन' 'सज्जन' इनकी आवृत्ति ठीक नहीं है । इसके अतिरिक्त 'सज्जनद्रुमम्' इसी से अभीष्ट अर्थ सम्भव है पुनः 'पुरुष' पद के प्रयोग से पुनरुक्तता दोष भी है ॥४॥

**अर्थ--**आ रे चारुदत्त ! आ ! ।

**अन्वयः--**सर्वाङ्गात्रेषु, विन्यस्तैः, रक्तचन्दनहस्तकैः, पिष्टचूर्णावकीर्णः, च, अहम्, पुरुषः, पशूकृतः ॥५॥

शब्दार्थ--सर्वाङ्गात्रेषु = सभी अवयवों में, विन्यस्तैः = लगाये गये, रक्तचन्दन-हस्तकैः = लाल चन्दन के हाथ के छापों से, च = और, पिष्टचूर्णावकीर्णः = पीसे गये