भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

१२६ | नैषधचरितम् । | [ द्वितीयः अनन्तर उसने अपने सदृश रूप-लावण्यादि गुणों के कारण अपने में, समान कान्ति- (लावण्य-) शाली सखियों की सभा में, विशेष शोभायमान, नक्षत्रों की परिषद् के बीच में विराजमान, चन्द्र-लेखा का अनुकरण करने में अतीव निपुण शोभावाली उस राजकुमारी दमयन्ती को, अपने नयनों का अतिथि बनाया ॥१०७॥ भ्रमण-रय-विकीर्ण-स्वर्ण-भासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोच्चैर्मण्डलस्तेन तेने ॥१०८॥ भ्रमणेति । अधः=भूतले, क्वचन=कुत्रचित्पतनयोग्यं देशं=स्थानं अन्वि- ष्यता = गवेषमाणेण । अत एव [भ्रमण-रय-विकीर्ण-स्वर्णभासा ] भ्रमणरयेण विकीर्णा स्वर्णस्य भा दीप्तिर्यस्य तेन, खगेन, अमुष्या अयं अदसीयं । 'वृद्धाच्छः, त्यदादीनि च' इति वृद्धिसंज्ञा । मुखविधुं = मुखेन्दुं सेवितुं लम्बमानः = लंस- मानः, शशिपरिधिः=चन्द्रपरिवेष इव उच्चैः = उपरि मण्डलः=वलयः, तेने= वितेने । तनोतेः कर्मणि लिट् । उत्प्रेक्षास्वभावोक्त्योः सङ्करः ॥१०८॥ ऊपर घूमने के वेग से सुनहली कान्ति फैलाते और नीचे की ओर कहीं उतरने के योग्य जगह ढूँढ़ते हुए, उस राजहंस ने दमयन्ती के मुख-चन्द्र की सेवा करने के लिए, मानों (चन्द्रमण्डल देश को छोड़कर) भूतल पर लटकते (आये) हुए, चन्द्रमा के परिवेष के समान, मुख (रूपी चन्द्र) के ऊपर मण्डल बना दिया (अर्थात् चक्कर लगाया) ॥१०८॥ अनुभवति शचीत्थं सा घृताचीमुखाभि- र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः । इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं विपिनभुवि सखीभिः सार्धमाबद्धखेलाम् ॥१०९॥ अनुभवतीति । विपिनभुवि=वनप्रदेशे, सखीभिः=सहचरीभिः । 'सख्य- शिश्वीति भाषायाम्' इति निपातनात् ङीप् । सार्द्धं आबद्धखेलां = अनुबद्धक्रीडां । 'क्रीडा खेला च कूर्द्दनम्' इत्यमरः । भैमीं प्रेक्ष्य पक्षिणः, सा=प्रसिद्धा शची= इन्द्राणी, घृताचीमुखाभिः, सहचरीभिः सह इत्थम् उच्चैः=उत्कृष्टं नन्दनानन्दं=

नन्दनसुखं नानुभवति स्म। इत्येवं बुद्धिरभूदित्यर्थः । आसीन-स्थिता । अत्र प्रेक्ष्य मतिरिति मननक्रियापेक्षया समानकर्तृकत्वात् पूर्वकालत्वाच्च प्रेक्ष्येति क्त्वानिर्देशोप- पत्तिः। तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात्, प्राधान्यं त्वप्रयोजकमिति न कश्चिद्विरोधः। अत्रोपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालङ्कारः । 'भेदप्रधानसाम्यं- मुपमानोपमेययोः । आधिक्यादल्पकथनाद्व्यतिरेकः स उच्यते। इति लक्षणात् ॥ उपवन स्थल में, सखियों के साथ क्रीड़ा करती हुई दमयन्ती को देखकर, हँस की बुद्धि में यह बात आयी कि इन्द्राणी भी-घृताची आदि सहेलियों के साथ नन्दन-कानन में इस प्रकार विशेष आनन्द का उपभोग न करती होगी ॥१०६॥ श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वैतोयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा- काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥११०॥ श्रीहर्षमित्यादि । व्याख्यातम् । द्वितीय एव द्वैतीयीकः । 'द्वितीयादीकक् स्वार्थे वा वक्तव्यः' इतीकक् । द्वैतीयीकतया मितो द्वितीयत्वेन गणित द्वितीयः, इत्यर्थः, अगमत् ॥११०॥ इति पदवाक्यप्रमाणपारावारपारीण-महोपाध्याय-कोलाचल-मल्लिनाथसूरिविर- चितायां जीवातुसमाख्यायां नैषधटीकायां द्वितीयः सर्गः समाप्तः । कविराज-समूहों के मुकुटों के अलङ्कार रूप -हीरा मणि (अर्थात् असाधारण राष्ट्रकवि) श्रीहीर नामक पिता तथा (अपने सौन्दर्य से मा = रमा को जीतने वाली) मा-मल्लदेवी माता ने जिस जितेन्द्रिय (विद्या-श्री से हर्षित होने वाले) श्रीहर्ष नामक पुत्र को उत्पन्न किया; उसके प्रबन्ध-महाकाव्य-(रस, भाव, अल- ङ्कार आदि से) मनोहर नैषधीय चरित में, स्वभावतः सुन्दर गिना जानेवाला दूसरा सर्ग समाप्त हुआ ॥११०॥ —०:*:०—

१२८ नैषधचरितम् । [ तृतीयः तृतीयः सर्गः । आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसाऽवतीर्य । निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ १ ॥ आकुञ्चिताभ्यामिति । अथ = मण्डलीकरणानन्तरं, हंसः । आकुञ्चिताभ्यां = आवर्जिताभ्यां, पक्षतिभ्यां = पक्षमूलाभ्यां, नभोविभागात् = आकाशदेशात्, तरसा = वेगेनावतीर्य । [ निवेशदेशाततधूतपक्षः ] निवेशदेशे उपनिवेशस्थाने, आततौ विस्तारिता धूतौ कम्पितौ च पक्षौ येन सः, तथा सन् उपभैमि = भैम्याः समीपे । सामीप्येऽव्ययीभावः । नपुंसकं ह्रस्वत्वं च । भूमौ पपात । स्वभावोक्तिरलङ्कारः ॥१॥ ( दमयन्ती के मुख-चन्द्र के ऊपर मण्डले बनाने के ) अनन्तर हंस — अपने सिकुड़े हुए पंखों से, आकाश में से झपट कर, उतरा; और उतरने के स्थान के ऊपर ( पहले ) पंख फैलाकर, फिर उसे फड़फड़ाकर, दमयन्ती के पास जमीन पर जा गिरा ॥ १ ॥ आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार । द्रागन्यविन्यस्तदृशः स तस्याः सम्भ्रान्तमन्तःकरणञ्चकार ॥ २ ॥ आकस्मिक इति । तदा = पतनसमये, पक्षपुटाहतायाः क्षितेः = भूतलात् । अकस्माद्भवः आकस्मिकः = अदृष्टहेतुकः, निर्हेतुक इत्यर्थः । यः स्वनः = ध्वनिरुच्च- चार = उत्थितः, स = स्वनः, अन्यविन्यस्तदृशः = विषयान्तरनिविष्टदृष्टेस्तस्याः = भैम्याः, अन्तःकरणं द्राक् = झटिति, सम्भ्रान्तं = ससम्भ्रमं चकार । अकाण्डे सम्भावितशब्दश्रवणाच्चमत्कृतचित्ताभूदित्यर्थः । स्वभावोक्तिः ॥२॥ हंस के गिरते समय, उसके दोनों पंखों के अगले हिस्से से भूतल पर टकराने के कारण, अचानक जो शब्द हुआ, उस ( शब्द ) ने दमयन्ती — जिसकी दृष्टि अन्यत्र लगी हुई थी उस-के अन्तःकरण में एकवारगी हड़बड़ी पैदा कर दी ॥ २ ॥ नेत्राणि वैदर्भसुतासखीनां विमुक्त-तत्तद्विषयग्रहाणि । प्रापुस्तमेकं निरूपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ ३ ॥ नेत्राणीति । [ वैदर्भ-सुता-सखीनां ] विदर्भाणां राजा वैदर्भो भीमः, तस्य सुतायाः भैम्याः, सखीनां, नेत्राणि [ विमुक्त-तत्तद्विषयग्रहाणि ] विमुक्तास्तत्तद्वि- षयग्रहाः तत्तदर्थग्रहणादिप्रवृत्तयो यैस्तानि सन्ति । एकम् = एक-

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १२९ रम्, अद्वितीयञ्च । [निरुपाख्यस्वरूपं] नोपाख्यायत इति निरुपाख्यमवाच्यं रूपमा- कारः, स्वस्वरूपं च यस्य तं पुरोवर्तिनं हंसं तत्पदार्थभूतञ्च । यतव्रतानां = योगिनां चेतांसि ब्रह्म = परमात्मानम् इव, आपुः = अत्यादरेणाद्राक्षुरित्यर्थः ॥३॥ दमयन्ती की सखियों की आँखें—तत् तत् विषयों (चौसर का खेल, माला- गुम्फन, चन्दन का लेप, दर्शनीय पदार्थों के अवलोकन आदि) का ग्रहण करना (देखना) छोड़ कर—अवर्णनीय सौन्दर्यवाले, एकमात्र हंस की ओर, उसी प्रकार जा लगीं; जिस प्रकार योगियों के चित्त, —सांसारिक विषय-वासनाओं को छोड़- कर,—अनिर्वचनीय स्वरूप (आकृति) वाले, अद्वितीय, ब्रह्म की ओर, आकृष्ट होते हैं ॥ ३ ॥ हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामाऽदरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ४ ॥ हंसमिति । असौ = दमयन्ती, मुनेः=योगिनो मनोवृत्तिरिव स्विकायां= स्वकीयायां । 'प्रत्ययस्थात्कात् पूर्वस्य'इतीकारः । तनौ = शरीरान्तिके, अन्यत्र तद- भ्यन्तरे, सन्निहितम् = आसन्नम् ; आविर्भूतं च; चरन्तं = सञ्चरन्तं, वर्त्तमानं च; हंसं = मरालं, परमात्मानं च । 'हंसो विहङ्गभेदे च परमात्मनि मत्सरे'इति विश्वः । अदरिणा = निर्भीकेण, शयेन = पाणिना । 'दरो स्त्रियां भये श्वभ्रे; पञ्चशाखः शयः पाणिः'इत्यमरः । अन्यत्र, आदरिणा = आदरवता, आशयेन = चित्तेन, ग्रहीतु- कामा = साक्षात् कर्तुकामा च यत्नात् निश्चलतां = निश्चलाङ्गत्वं, निश्चलचित्तत्वं च जगाहे = जगाम ॥ ४ ॥ निकट में चलते हुए हंस को, मजबूत हाथों से ग्रहण करने (पकड़ने) के लिए, दमयन्ती अपने शरीर को खूब यत्नपूर्वक निश्चल करके, उसी प्रकार खड़ी हो गयी; जैसे मुनियों की चित्तवृत्ति-सर्वत्र व्यापक, भूत-भविष्यत्-वर्त्तमानकालात्मक उस हंस (परमात्मा) के ग्रहण (परिज्ञान) के लिए—उस (ब्रह्म-साक्षात्कार) के प्रति आदरशाली आशय (अभिप्राय) से, निश्चल (स्थिर) हो जाती है ॥४॥ तामिङ्गितैरप्यनुमाय मायामयं न धैर्याद्वियदुत्पपात । तत्पाणिमात्रोपरिपात्तुकं तु मोघं वितेने प्लुतिलाघवेन ॥ ५ ॥ तामिति । अयं = हंसः, तां = पूर्वोक्तां मायां = कपटं, इङ्गितैः = चेष्टितैः, अनुमाय = निश्चित्य, अपि धैर्यात् = स्थैर्यमास्थाय । ल्यब्लोपे पञ्चमी । वियत्= ह

१३० नैषधचरितम् । [ तृतीयः आकाशं प्रति, नोत्पपात = नोत्पतितवान् [ आत्मोपरिपांतुकं ] आत्मन उपरि पांतुकं पत्यालुं । 'लषपत'इत्यादिना उकञ् प्रत्ययः । तस्याः पाणिं [ तत्पाणि ] तु प्लुतिलाघवेन = उत्पतनकौशलेन मोघं वितेने = विफलत्वम् अकरोत्; आशाञ् जनयति, न तु पाणौ लगतीत्यर्थः ॥ ५ ॥ दमयन्ती के माया-जाल ( निश्चलरूप से खड़े होकर, पकड़ने की चालबाजी ) को, उसकी चेष्टाओं ( एकटक नज़र से हंस की ओर देखनेवाली हरकतों ) से अनुमान करके भी, वह हंस आकाश में नहीं उड़ा; पर अपने ऊपर गिरनेवाले दमयन्ती के हाथों को, नज़दीक-नज़दीक उड़ने की सफाई से, व्यर्थ कर दिया ( अर्थात् हाथों की पकड़ में वह नहीं आया ) ॥ ५ ॥ व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः । परस्परमर्पितहस्ततालं तत्कालमाळीभिरहस्यतालम् ॥ ६ ॥ व्यर्थीकृतमिति । अस्याः = भैम्याः, व्यवसायं = हंसग्रहणोद्योगं, तेन पत्ररथेन = पक्षिणा व्यर्थीकृतं तथा, अवसाय = ज्ञात्वा, तत्कालं = तस्मिन् काले । अत्यन्तसंयोगे द्वितीया । स एव कालो यस्येति बहुव्रीहौ क्रियाविशेषणं वा । परस्परां = परस्परस्यामित्यर्थः । कर्मव्यतीहारे सर्वनाम्नो द्विर्भावः । 'समासवच्च बहुलम्'इति बहुलग्रहणादसमासवद्भावे पूर्वपदस्य प्रथमैकवचने कस्कादित्वाद्विसर्जनी- यस्य सत्वम् । उत्तरपदस्य यथायोगं द्वितीयाद्येकवचनम् । 'स्त्रीनपुंसकयोरुत्तरपदस्थयो र्विभक्तेराम्भावो वक्तव्यः'इति विकल्पादाम्रादेशः । अर्पितहस्ततालं=दत्तहस्तताडनं यथा तथा । आळीभिः=सखीभिः, अलं=अत्यर्थं अहस्यत=हसितम् । भावे लङ् ॥ उस हंस ने दमयन्ती के पकड़ने के उद्योग को उस प्रकार ( अर्थात् प्लुत- लाघव ) से बेकार कर दिया — यह जानकर, तत्काल ही आपस में हाथों से ताली पीट-पीटकर, सखियाँ खूब हँसीं ॥ ६ ॥ उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः । यान्वेति मां द्रुह्यति मह्यमेव सात्रेत्युपालम्भि तयाऽलिवर्गः ॥ ७ ॥ उच्चाटनीय इति । हे सख्यः ! इदानीं भवतीभिः एषः = हंसः, कर- तालिकानां दानात् = अन्योन्यहस्तताडनकरणात् उच्चाटनीयः = निष्कासनीयः किमिति काकुः । नोच्चाटनीय एवेत्यर्थः । अत्र = युष्मन्मध्ये, या मामन्वेति सा मह्यमेव द्रुह्यति = मां जिघांसतीत्यर्थः । 'क्रुधद्रुह'इत्यादिना सम्प्रदानत्वात् चतुर्थी ।

: ३ ] जीवातू-मदयन्तिकासहितम् । १३१ ति = इत्थं तया = भैम्या, आलिवर्गः = सखीसंघः, उपालम्भि = अशापि; पायैनैव निवारित इत्यर्थः ॥ ७ ॥ ' ( मालूम पड़ता है कि ) तुम सब अब तालियाँ पीट-पीटकर, इसको उड़ा ोगी। अतः (समझ लो कि ) अब तुम में से जो कोई इस काम में ( इसके कड़ने के लिए जाती हुई ) मेरे पीछे-पीछे आवेगी, वह मेरी वैरिन ही होगी'-- इस तरह दमयन्ती ने अपनी सहेलियों को उलाहना देते हुए, झिड़की दी ॥ ७ ॥ धृतालपकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः । श्यामाथ हंसस्य करानवाप्तेर्मन्दाक्षलक्ष्या लगति स्म पश्चात् ॥ ८ ॥ धृतेति । अथ = सखीनिवारणानन्तरं, सखीनां हसिते = हासनिमित्ते धृता- ल्पकोपा = तासु ईषत्कोपा इत्यर्थः । भास्वन्तमभिप्रयातुः = सूर्याभिमुखं गच्छतः छाया = अनातपरेखा इव श्यामा = यौवनमध्यस्था । 'श्यामा यौवनमध्यस्था' इत्युत्पलमालायाम् । अन्यत्र, श्यामा = नीला । हंसस्य कर्मणि षष्ठी । [ करान- वाप्तेः ] करेण हस्तेन, अनवाप्तेर्ग्रहणाद्धेतोः [ मन्दाक्षलक्ष्या ] मन्दाक्षं हीस्तेन लक्ष्या उपलक्ष्या, हीणा सतीत्यर्थः । अन्यत्र, हंसस्य = सूर्यस्य करानवाप्तेः = अंशुसंस्पर्शाभावात् [ मन्दाक्षलक्ष्या ] मन्दाक्षैरपटुदृष्टिभिः, लक्ष्या ग्राह्या । तैः छाया लक्ष्यते; न प्रकाश इति भावः । पश्चाल्लगति स्म = पृष्ठे लग्नाभूत्; प्राप्त्याशया तमन्वगात् । 'रविश्चेतच्छ्रदौ हंसौ'; 'बलिहस्तांशवः कराः' इति चामरः ॥ ८ ॥ तब सखियों के हँसने पर कुछ-कुछ कुपित होती हुई और हंस को हाथ से न पकड़ने के कारण लजाती हुई, वह श्यामा ( नव-युवती ) दमयन्ती-हंस के पीछे-पीछे उसी प्रकार चली, जिस प्रकार सूर्य के सम्मुख जानेवाले व्यक्ति के पीछे, उसकी छाया जाती है ॥ ८ ॥ शस्ता न हंसाभिमुखी तवेयं यात्रेति ताभिश्च्छलहस्यमाना । साह स्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः ॥ ९ ॥ शस्तेति । तवेयं [ हंसाभिमुखी ] हंसस्य श्वेतच्छदस्य सूर्यस्य च, अभिमुखी यात्रा = गमनं, न शस्ता = न प्रशस्ता, श्रेयस्करी न । शास्त्रविरोधात् श्रमसन्ताप- दृष्टदोषाच्चेति भावः । सा इति = इत्थं ताभिः = सखीभिः, [ छलहस्यमाना ] छलेन व्याजोक्त्या, हस्यमाना परिहास्यमाना सती भाविप्रियावेदकः = मङ्गल- मूर्त्तित्वादागामिशुभसूचकः एष हंसः, मे = मम न वाशकुनीभवेदेव; किन्तु

१३२ नैषधचरितम् । [ तृतीयः शकुनमेव विपक्षो न भवेदिति च गम्यते । 'शकुनं तु शुभाशंसा निमित्ते शकुनः पुमान्' इति विश्वः । अभूत तद्भावे च्विः । विध्यादिसूत्रेण प्रार्थने लिङ् । इत्याहस्म = अवोचत् । 'ब्रुवः पञ्चानाम्' इत्याहादेशः । एतेन तदीययात्रानिषे- धोक्तदोषः परिहृतो वेदितव्यः ॥६॥ 'हंस (सूर्य) के सामने तुम्हारा जाना (अशास्त्रानुमोदित होने के कारण) शुभकारी नहीं होगा'—इस प्रकार सखियों ने, शब्दश्लेष के बहाने ताना मारते हुए, जब उससे कहा तो दमयन्ती ने उत्तर दिया कि 'यह हंस (पक्षी) मेरा अशकुनि (अ-पक्षी, विपक्षी) न होगा (क्योंकि यह तो हंस नामक पक्षी है, अतः अशकुनकारक—अशुभसूचक—न होगा); प्रत्युत यह भावी प्रिय (नल) के बारे शुभ का सूचक ही होगा' ॥६॥ हंसोऽप्यसौ हंसगतेः सुदत्याः पुरः पुरश्चारु चलन् बभासे । वैलक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥१०॥ एवं दमयन्ती व्यापारमुक्त्वा सम्प्रति हंसस्य व्यापारमाह-हसोऽपीति । असौ हंसोऽपि [हंसगतेः] हंसस्य गतिरिव गतिर्यस्यास्तस्याः, सुदत्याः = शोभन- दन्तायाः भैम्याः । सुदती व्याख्याता । पुरःपुरः वीप्सायां द्विर्भावः । अग्रे = सम- न्तात्, चारु चलन् = रम्यं गच्छन् सन्, वैलक्ष्यमेव हेतुस्तस्य वैलक्ष्यहेतोः, अहो मामयमतिविडम्बयतीति तस्या अपि विस्मयजननार्थमित्यर्थः । 'विलक्षो विस्मयान्वितः' इत्यमरः । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । एतदीयां गतिमनु- कृत्य = अभिनीय उच्चैरुपहसन्निव इत्युत्प्रेक्षा बभासे = बभौ । यथा लोके परि- हासकाः तच्चेष्टायनुकरणेन परान् विलक्षयन्ति तद्वदिति भावः ॥१०॥ हंस के समान चाल चलनेवाली और सुन्दर दाँतवाली दमयन्ती के आगे-आगे चलता हुआ, वह हंस ऐसा सुन्दर मालूम पड़ता था—मानों वह उसकी चाल का, उसके सामने ही अनुकरण करके, उसे लज्जित करने के अभिप्राय से, उसका खूब मजाक उड़ा रहा हो ॥१०॥ पदे पदे भाविनि भाविनीं तं यथा करप्राप्यमवैति नूनम् । तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥११॥ पदे पद इति । भावयतीति भाविनी हंसग्रहणमेव मनसा भावयन्ती कृशाङ्गी = भैमी भावनि = भविष्यत्यनन्तर इत्यर्थः । 'भविष्यति गम्यादयः' इति

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १३३ Digitized by Sarayu Trust Foundation and eGangotri माधुः । पदे पदे तं = हंसं यथा। करप्राप्य = करग्राह्यं नूनं = निश्चितमवैति = अध्येति, तथा सखेल = सलीलं चलता = गच्छता, तेन = हंसेन प्रतार्य = वञ्च- यित्वा लतासु, आचकृषे = आकृष्टा, एकान्तं नीतेत्यर्थः ॥११॥ हंस पकड़ने की भावना वाली दमयन्ती — भावी प्रत्येक पग पर, उसे निश्चय ही अपने हाथ में, आया समझती थी ( कि अब की पकड़ लूंगी, पर पकड़ नहीं पाती थी ), इस प्रकार खेल के साथ चलता हुआ वह हंस कृशाङ्गी दमयन्ती को, चकमा देकर, लताओं के बीच ले गया ॥ ११ ॥ रुषा निषिद्धाळिजनां यदैनां छायाद्वितीयां कलयाञ्चकार । तदा श्रमाम्भःकणभूषिताङ्गीं स कीरवन्मानुषवागवादीत् ॥१२॥ रुपेति । रुषा निषिद्धाळिजनां = निवारितसखीजनां, एनां यदा [ छाया- द्वितीयां ] च्छाया एव द्वितीया यस्यास्तामेकाकिनीं, कळयांचकार = विवेद; तदा श्रमाम्भःकणभूषिताङ्गीं = स्वेदाम्बुलवपरिष्कृतशरीरां स्विन्नगात्रां तां स = हंसः कीरवत् = शुकवत् [ मानुषवाक् ] मनुष्यस्येव वाग्यस्य स सन् अवादीत् ।१२। रुष्ट होकर, जिसने अपनी सखियों को साथ आने से मना कर दिया था, अपनी परछाईं के अतिरिक्त जिसके साथ और कोई दूसरी सहेली नहीं थी एवं परिश्रम के कारण जिसके अङ्ग पर पसीने की बूँदें झलक रही थीं—ऐसी दमयन्ती से हंस, तोते की तरह, मनुष्य की बोली, बोलने लगा—॥१२॥ अये ! कियद्यावदुपैषि दूरं व्यर्थं परिश्राम्यसि वा किमर्थम् । उदेति ते भीरपि किन्नु बाले ! विलोकयन्त्या न घना वनालीः ॥१३॥ अय इति । अये ! बाले ! व्यर्थं कियद्दूरं यावदुपैषि = उपैष्यसि ? 'यावत्पुरानिपातयोर्लट्' । किमर्थं परिश्राम्यसि वा ? घनाः = सान्द्राः, बनाळीः = वनपंक्तीः विलोकयन्त्यास्ते भीरपि नोदेति किन्नु ? ॥१३॥ अरी ! कितनी दूरतक पीछा करती रहोगी ? ऐसा व्यर्थ परिश्रम क्यों कर रही हो ? अरी बाले ! वनों की इस घनी कतार को देखकर भी, क्या तुम्हें डर नहीं लग रहा है ? ॥१३॥ वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः । आळीव पश्य प्रतिषेधतीदं कपोतहुङ्कारगिरा वनाळिः ॥१४॥ CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. वृथेति । वृथा =व्यर्थमेव । न पन्था अपथम् । 'नञ्' इत्यादिना समासान्तः

१३४ नैषधचरितम् । [तृतीयः अः । 'अपथं नपुंसकं तस्मिन्, अपथे=दुर्मागे, अकृत्ये च; पदं=पादं, व्यवसायं च; अपयन्ती = कुर्वन्ती । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । [ मरु- ल्ललत्पल्लवपाणिकम्पैः ] मरुता ललन् चलन्, पल्लव एव पाणिस्तस्य कम्पैः, कपोतहुङ्कारगिरा च इयं वनालिः आली इव = सखी इव, त्वां प्रतिषेधति = निवारयति । पश्य । इति वाक्यार्थः कर्म । यथा लोके अमार्गप्रवृत्तं सुहृज्जनः पाणिना वाचा च वारयति, तद्वदित्यर्थः । अत एव पल्लवपाणीत्यादौ रूपकाश्रयणं, तत्सङ्कीर्णा वनाल्यालीवेत्युपमा ॥१४॥ तुमको कु-पथ (मेरे पकड़ने के असम्भव कार्य; कुमार्ग) पर पद (परिश्रम; पैर) अर्पण (करते; रखते) करते देखकर, पवन से चञ्चल हुए पल्लव रूपी हाथ को हिलाकर और कबूतरों की 'हुँ'कार रूप बोली से, देखो, - यह वनाली (वन- श्रेणी) आली (सखी) के समान, तुम्हें मना कर रही है ॥१४॥ धाय्र्यः कथंकारमहं भवत्या वियद्विहारी वसुधैकगत्या । अहो ! शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥१५॥ धाय्र्य इति । [ वसुधैकगत्या ] एकत्रैव गतिर्यस्यास्तया एकगत्या, वसुधा- यामेकगत्या, भूमात्रचारिण्येत्यर्थः । शिवभागवतवत्समासः । भवत्या वियद्विहारी = खेचरोऽहं कथङ्कारं = कथमित्यर्थः । 'अन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत्' इति कथंशब्दोपपदात्करोतेर्णमुल् । धाय्र्यः = धर्तुं ग्रहीतुं शक्य इत्यर्थः । 'शकि लिङ् च' इति चकाराच्छक्यार्थे कृत्यप्रत्ययः । अनेन स्मरस्य सख्या = सखिना तदु- द्दीपकेन वयसा यौवनेन । सखिशब्दस्य भाषितपुंस्कत्वात् पुंवद्भावः । तव शिशुत्वं = शैशवं न खण्डितं = न निवर्तितं । अहो = विरुद्धवयसोरेकत्र समावेशादाश्चर्य्य- मित्यर्थः । अत्राधार्यत्वस्य वसुधागतिवियद्विहारपदार्थहेतुकत्वादेकः काव्यलिङ्गभेदः, तथा शैशवाखण्डनस्य पूर्ववाक्यार्थहेतुकत्वादपर इति सजातीयसङ्करः ॥१५॥ भला बताओ तो सही कि तुम मुझे कैसे पकड़ोगी ? क्योंकि मैं आकाश में विहार करने वाला हूँ और तुम्हारी गति एकमात्र पृथ्वी पर ही है। कामदेव के मित्र इस नव-यौवन से तुम्हारा शैशव नहीं खण्डित हुआ-यही बड़े आश्चर्य की बात है (कहाँ तो यह युवावस्था और कहाँ ऐसी बाल-सुलभ चपलता) ॥१५॥ सहस्रपत्रासन-पत्र-हंस-वंशस्य पत्राणि पतत्रिणः ममः । अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥१६॥

गः ३ ] जीवातु-मद्यन्तिकासहितम् । १३५ अथ प्रस्तुतोपयोगितया निजान्वयं विवृणोति—सहस्रेति । [ सहस्रपत्रासन- पत्र-हंस-वंशस्य ] सहस्रपत्रासनस्य कमलासनस्य, पत्रहंसा वाहनहंसाः, तेषां वंशस्य कुलस्य, वेणोश्च, पत्राणि = वाहनानि, पर्णानि च । ‘वंशो वेणौ कुले वर्गे । 'पत्रं स्याद्वाहने पर्णे' इति च विश्वः । पत्रत्रिणः स्मः = ब्रह्मवाहनहंसवंश्याः वयमित्यर्थः । अस्मानिव पश्यन्तीति अस्मादृशाम् = अस्मद्विधानाम् । 'त्यदादिषु' इत्यादिना दृशेः क्विन् । [ चाटुरसामृतानि ] चाटुषु सुभाषितेषु, ये रसाः शृङ्गारादयः, त एव अमॄतानि । [ स्वर्लोक-लोकेतर-दुर्लभानि च ] स्वर्लोके लोका जनाः । 'लोकस्तु भुवने जने' इत्यमरः । तेभ्यः इतरैर्मनुष्यैर्दुर्लभानि लब्धुमशक्यानीत्यर्थः ॥१६॥ कमलासन (ब्रह्मा) के पत्र (वाहन) हंस के वंश (कुटुम्ब, बाँस) के पत्र (पत्ते) रूप हम पक्षी हैं (अर्थात् जिस प्रकार बाँस में पत्ते उत्पन्न होते हैं उसी प्रकार ब्रह्मा के वाहनभूत हंस के कुल में हमारी उत्पत्ति हुई है, यह हमारा वंश-परिचय है)। इसलिए मेरे जैसे (उच्च कुलोत्पन्न) पक्षियों की प्यारी और मीठी बात में जो रसामृत भरा है, वह—स्वर्गलोक में निवास करनेवाले देवताओं के अतिरिक्त—सामान्य मनुष्यों को दुर्लभ है ॥१६॥ स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो भजामः । अन्नानुरूपां तानुरूपऋद्धिं कार्यं निदानाद्धि गुणानधीते ॥१७॥ अथ स्वाकारस्य कनकमयत्वे कारणमाह—स्वर्गेति । [ स्वर्गापगा-हेममृणा- लिनीनां ] स्वर्गापगा स्वर्णदी, तस्या हेममृणालिन्यः कनककमलिन्यः, तासां [ नाला-मृगालाग्र-भुजः ] या नालाः काण्डाः, यानि मृणालानि कन्दाश्च । अत्र नालामृणालशब्दस्य शब्दानुशासनं केषां शब्दानामितिवत्समासे गुणभूतेन सम्बन्धः सोढव्यः । 'नाला नालमथास्त्रियो' इत्यमरवचनान्नालेति स्त्रीलिङ्गनिर्देशः, न च तत्रापि सन्देहः । तद्व्याख्यानेषु देशान्तरकोशेषु च, स्त्रीलिङ्गपाठस्यैव दर्शनात्; तथा च दशमे सर्गे प्रयोक्ष्यते । 'मृदुत्वमप्रौढमृणालनाल्या' इति । 'नाला स्याद्विसकन्दः' इति विश्वः । तेषामग्राणि भुञ्जत इति तद्भुजः, वयमिति शेषः । अन्नानुरूपां = आहार- सदृशीं [तनु-रूप-ऋद्धिं ] तनोः शरीरस्य, रूपऋद्धिं वर्णसमृद्धिम् 'ऋत्यकः' इति प्रकृतिभावः । भजामः = प्राप्ता स्म इत्यर्थः । तथा हि-कार्यं = जन्यं द्रव्यं, निदानात् = उपादानात् । 'आख्यातोपयोगे' इत्यपादानता । गुणान् = रूपादिविशेष- गुणान्, अधीते = प्राप्नोतीत्यर्थः । प्रतिनियतोपादानजनिनस्तत्सामान्यलक्षणात्, प्रायेण

१३६ नैषधचरितम् [ तृतीयः आहारपरिणतिविशेषेण तत्संभवस्योचितत्वाद् इति भावः। सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासः ॥ १७ स्वर्ग की मन्दाकिनी नदी की स्वर्ण-कमलिनी के दण्ड और मृणालतन्तु के अग्रभाग को खानेवाले हम हैं। अतः खाद्य-सामग्री के अनुकूल ही हमे शरीर के सौन्दर्य की समृद्धि (पीलापन) प्राप्त हुई है; क्योंकि 'कारण' से ही 'कार्य' (रूपादि) गुणों को प्राप्त करता है ॥ १७ ॥ धातुर्नियोगादिह नैषधीयं लीलासरः सेवितुमागतेषु । हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः ॥ १८॥ अथात्मनः क्ष्मालोकसञ्चरणे कारणमाह-धातुरीति। धातुः = ब्रह्मणो नियो- गात् = आदेशात्, इह = भूलोके नैषधीयं = नलीयं लीलासरः सेवितुं = क्रीडा- सरसि विहर्तुमित्यर्थः । आगतेषु हैमेषु = हेमविकारेषु । विकारार्थेऽण् प्रत्ययः । 'नस्तद्धिते' इति टिलोपः । हंसेषु मध्ये अहमेक एव [ भूलोक-विलोकनोत्कः ] भूलोकविलोकने उत्कः उत्सुकः सन् । 'दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः' इत्यमरः । उच्छब्दात्कन् प्रत्ययान्तो निपातः । भ्रमामि = पर्यटामि ॥ १८॥ ब्रह्मा के आदेश से, मर्त्यलोक में नल के क्रीडा-सरोवर में, विहार करने के लिए आये हुए, स्वर्णमय हंसों में से, केवल एक मैं ही, भूलोक देखने की उत्सु- कता के कारण, (अब तक) विचरण कर रहा हूँ ॥ १८ ॥ विधेः कदाचिद् भ्रमणविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यः । स्कन्धस्य विश्रान्तिमदां तदादि श्राम्यामि नाविश्रमविश्वगोऽपि ॥ १९॥ अनवरतभ्रमणेऽपि श्रमजये कारणमाह- विधेरिति । कदाचिद्विधेः = ब्रह्मणो भ्रमणविलासे = भुवनभ्रमणविनोदे श्रमातुरेभ्यः = अवसन्नेभ्यः स्वमहत्त- रेभ्यः = स्वकुलवृद्धेभ्यः स्कन्धस्य = अंसस्य । 'स्कन्धो भुजशिरांडसो स्त्री' इत्य- मरः । विश्रान्तिम् अदां = प्रादाम्, स्वयमेक एवाहमित्यर्थः । ददातेर्लुङि । 'गाति- स्था' इत्यादिना सिचो लुक् । तदादि = तत्प्रभृति [ अविश्रम-विश्वगः ] अवि- श्रमम् अनवरतं । 'नोदात्तोपदेशो' इत्यादिना श्रमेर्घञि वृद्धिप्रतिषेधः । विश्वगो विश्वं गच्छन्नपि । अन्यत्रापि दृश्यत इति गमेर्डप्रत्ययः । न श्राम्यामि = न खिद्ये । १९ । एक समय की बात है कि ब्रह्मा के भ्रमण-विलास में, थके हुए, अपने पूर्व-

: ३ ] जीवातु-मदयन्तिकासहितम् । १३७ : ओं के कन्धों को विश्राम (आराम) दिया था; तभी से अखिल विश्व की अन- : त प्रदक्षिणा करने पर भी मैं (ब्रह्मा के वरदान तथा अपने पूर्वजों के आशी- : र्वचन से ) थकता नहीं ॥१९॥ : बन्धाय दिव्ये न तिरश्चि कश्चित् पाशादिरासादितपौरुषः स्यात् । : एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥२०॥ : अथ व्याधादिबन्धनभयमपि न मेऽस्तीत्याह--बन्धायेति । मादृशि दिव्ये : तिरश्चि विषये विरलोदयस्य = दुर्लभजन्मनो नरस्य = मर्त्यस्य, प्रायेणैवंविधो : नास्तीत्यर्थः । अन्यत्र, विरो विगतरेफः, स चासौ लोदयो लोदयवांश्च । मत्वर्थीयोऽ- : कारः । तस्य रेफस्थानाधिष्ठितलकारस्य नलस्येत्यर्थः । शब्दधर्मोऽर्थ उपचर्यते । : [स्वर्भोगभाग्यं ] भुज्यत इति भोगः सुखं, स्वर्भोगस्य स्वर्गसुखस्य भाग्यं, तत्प्राप- : कदृष्टमित्यर्थः । स्वप्राप्तेस्तत्प्रापकत्वादिति भावः । तत् एकं विना कश्चित् : पाशादिः=पाशाद्युपायः । बन्धाय=बन्धनार्थम् आसादितपौरुष =प्राप्तव्यापारो : न स्यात् । स्वर्भोगभाग्यैकसुलभा वयं, नोपायान्तरसाध्या इत्यर्थः । अस्मत्संसर्गा- : दन्यः को नाम स्वर्गपदार्थ इति भावः ॥२०॥ : धरती पर विरले ही जन्म लेनेवाले, किसी मानव के, स्वर्गलोक में भोग : करने योग्य असाधारण भाग्य के बिना, मुझ जैसे दिव्य पक्षी को बन्धन में पकड़ने : के लिए, किसी पाश आदि की इतनी शक्ति नहीं है ॥२०॥ : इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि सृजन्त्यमर्त्याः । : महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति ॥२१॥ : तच्च भाग्यं नलस्यैवास्तीत्याह--इष्टेनेति । इष्टेन = यागेन पूर्तेन = खाता- : दिकर्मणा च । 'त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि' इत्यमरः । वश्याः=वशङ्गताः । : 'वशंगतः' इति प्राग्दीव्यतीये यत्प्रत्ययः । अमर्त्याः = देवाः, नलस्य, अत्र= : भूलोके, अपि स्वर्भोगं सृजन्ति = स्वर्गसुखं सम्पादयन्तीत्यर्थः । ननु देवाश्च कथं : लोकान्तरकालान्तरभोग्यं स्वर्गमिदानीं सृजन्तीत्याशंकां दृष्टान्तेन परिहरति--मही- : रुहाः = वृक्षाः [ दोहद-सेक-शक्तेः ] दोहदस्य अकालप्रसवोत्पादनद्रव्यस्य, सेकस्य : जलसेकस्य शक्तेः सामर्थ्यात् । [आकालिकं] समानकालावायन्तौ उत्पत्तिविनाशा- : वस्येत्याकालिकः, उत्पत्त्यनन्तरविनाशीत्यर्थः । 'आकालिकडाद्यन्तवचने' इति समान- : कालशब्दस्याकालशब्दादेशे ठञ्प्रत्ययान्तो निपातः । प्रकृते त्वल्पमयं कोरकमुद्गि-

१३८ नैषधचरितम् । [ तृतीयः रन्ति, इत्यर्थः । 'तरु-गुल्म-लतादीनामकाले कुशलः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया' इति शब्दार्णवे । दोहदवशाद्वृक्षा इव देवता अपि उत्कटपुण्य- वशाद्देशकालेऽपि फलं प्रयच्छन्तीत्यर्थः । दृष्टान्तालङ्कारः ॥२१॥ यज्ञ और पूर्तकर्म (कुँआ बावली खुदवाने) के कारण वशीभूत हुए देवता लोग--नल के लिए, स्वर्गीय उपभोगों को, यहीं (मर्त्य लोक में ही) उसी प्रकार प्रदान करते हैं, जिस प्रकार धूपदान और सिंचाई की शक्ति के कारण, पेड़-- अनवसर में (अर्थात् अपने फलने-फूलने के समय के पूर्व ही) कलियों को प्रस्फुटित करते हैं ॥२१॥ सुवर्णशैलादवतीर्य तूर्णं स्वर्वाहिनीवारिकणावकीर्णैः । तं वीजयामः स्मरकेलिक़ाले पक्षैर्नृपं चामरबद्धसख्यैः ॥२२॥ स्वभोगमेवाह--सुवर्णेति । सुवर्णशैलात् = मेरोः, तूर्णम् अवतीर्य = अव- रुह्य स्वर्वाहिनीवारिकणावकीर्णैः = मन्दाकिनीजलबिन्दुसम्पृक्तैः [चामर- बद्ध-सख्यैः ] चामरेषु बद्धसख्यैः, तत्सदृशैः पक्षैः = पतत्रैः स्मरकेलिक़ाले तं नृपं वीजयामः । तादृक्पक्षवीजनैः सुरतश्रान्तिमपनुदाम इत्यर्थः ॥२२॥ हम सुमेरु पर्वत से झट उतर कर, मन्दाकिनी की जल-बूँदों से सिक्त और चँवर के साथ मित्रता में बँधे हुए (अर्थात् चँवरतुल्य सफेद रंग के) अपने पंखों से, सम्भोग के समय नल को हवा करते हैं ॥२२॥ क्रियेत चेत् साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासैस्तावत् क्षमानामपदं बहु स्यात् ॥२३॥ क्रियेतेति । साधुविभक्तिचिन्ता = सज्जनविभागविचारः क्रियेत चेत् सा = नलाभिधाना व्यक्तिः = मूर्तिः प्रथमाभिधेया = प्रथमं परिगणनीया । कुतः ? या = व्यक्तिः स्वौजसां विलासैः = व्याप्तिभिः, तावद्बहु = तथा प्रभूतं । [ अनाम- पदं ] नास्ति नामो नतिर्यस्येति अनामम्, अनम्रं पदं परराष्ट्रं साधयितुं = स्वायत्ती- कर्तुं क्षमा = समर्था स्यात् । अन्यत्र, साधुविभक्तिचिन्ता = सत्यविभक्तिविचारः क्रियेत चेत् तदा सा प्रथमा व्यक्तिः = प्रथमाविभक्तिः, अभिधेया = विचार्या, या स्वौजसां = सु, औ, जस्, इत्येतेषां प्रत्ययानां विलासैः = विस्तारैस्तावद्बहु = अनेकं नामपद = सुबन्तपदं, वृत्त इत्यादिकं पदं, साधयितुं = निष्पादयितुं, क्षमा ।

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १३९ न्त्राभिधायाः प्रकृतार्थमात्रनियन्त्रितत्वाल्लक्षणायाश्चानुपपत्त्यभावेनाभावादप्रकृतार्थ- प्रतीतिर्ध्वनिरेव ॥ २३ ॥ यदि सदाचारी पुरुषों के वर्गीकरण (विभक्ति) का विचार किया जाय तो नल का व्यक्तित्व पहले परिगणन किया जायगा - जो (व्यक्तित्व) अपने तेज के प्रभाव से असंख्य शत्रु-राष्ट्रों के समस्त स्थल को अपने अधीन करने में, पूर्णतया समर्थ है। (पक्षान्तर में) यदि प्रथमा आदि ७ विभक्तियों में कौन-सी विभक्ति साधु (सबसे उत्तम) है - इसका विचार किया जाय तो 'प्रथमा' नामक विभक्ति (व्यक्ति) मूर्द्धन्य स्थान में गिनी जायगी; जो (प्रथमा विभक्ति) 'सु- औ जस्-' इन प्रथमाविभक्ति घटक एक-द्वि-बहु वचनों के विलास (विसर्गादि रूप परिणाम) से वाक्यालङ्कार में नाम (सुबन्त) और पद (रामो हरिः इत्यादि प्रयोग) के साधने के लिए पूर्णतया समर्थ है ॥ २३ ॥ राजा स यज्वा विबुधव्रजत्रा कृत्वाऽध्वराज्यौपमयेव राज्यम् । भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्वं त्वहो शेषमशेषमन्त्यम् ॥२४॥ राजेति । यज्वा तु विधिनेष्टवान् । 'सुयजोर्ड्वनिप्' [श्रितश्रोत्रियसा- त्कृतश्रीः] श्रिताः आश्रिताः ये श्रोत्रियाः छान्दसाः, अधीतवेदा इत्यर्थः । 'श्रोत्रिय- च्छान्दसौ समौ'इत्यमरः । 'श्रोत्रियश्छन्दोऽधीते'इति निपातः । तत्सात्कृता दानेन तदधीना कृता, श्रीः सम्पद्येन सः राजा=नलः, [अध्वराज्यौपमया एव] अध्वरेषु यज्ञेषु, यदाज्यं तदुपमया तत्सादृश्येनैव, तद्वदेवेत्यर्थः । राज्यं, [ विबुधव्रजत्रा ] विबुधा देवाः विद्वांसश्च, तद्व्रजत्रा दानेन तत्सङ्घाधीनं कृत्वा 'देये त्रा च'इति चकारादितरत्र सातिप्रत्ययश्च । 'तद्धितश्चासर्वविभक्तिः'इत्यव्ययत्वम् । पूर्वं = पूर्व- निर्दिष्टमध्वराज्यं शेष = हुतशेषं भुंक्ते । अन्त्यं = पश्चान्निर्दिष्टं राज्यं त्वशेषं = कृत्स्नमखण्डं भुक्ते । अहो ! उपयुक्तादन्यः शेषः । पूर्वस्याशेषस्य तथात्वं अन्त्यस्य अशेषत्वं कथं विरोधादित्याश्चर्यम् । अत एव विरोधाभासोऽलङ्कारः । अखण्डमिति परिहारः ॥ २४ ॥ वह राजा विधान के साथ यज्ञ करनेवाला है और अपने आश्रित श्रोत्रिय (वेदज्ञ षट्कर्मा) ब्राह्मणों के अधीन अपनी राज्यलक्ष्मी कर दी है। जिस प्रकार वह विबुध समूहों (देवताओं) के 'देय' (अधीन) करने के बाद यज्ञ का 'आज्य' ग्रहण करता है उसी प्रकार विबुध-समुदाय (विद्वानों) के अधीन करने

१४० नैषधचरितम् । [ तृतीयः के वा उपभोग करता है। लेकिन आश्चर्य की बात है कि 'पहले' का 'शेष' और 'पिछले' का 'अशेष' उपभोग करता है। (इसमें विरोधाभास अल- ङ्कार है कि जो पहले ग्रहण किया गया उसका शेष कैसा ? और जो पीछे उपभोग किया उसका अशेष कैसा ? तो इसका परिहार यह है कि 'आज्य' का यज्ञ से बाकी बचा हुआ भाग लेता है और 'राज्य' का अशेष (समूचा) उपभोग करता है ॥ दारिद्य-दारि-द्रविणौघ-वर्षैरमोघ-मेघ-व्रतमर्थिसार्थे । सन्तुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् ॥२५॥ दारिद्र्येति । [दारिद्र्य-दारि-द्रविणौघ-वर्षैः ] दारिद्र्यं दारयति निवर्तयतीति तस्य दारिद्र्यदारिणो द्रविणौघस्य धनराशेर्वर्षैः, अर्थिसार्थे विषये अमोघमेघव्रतं वर्षुकत्वलक्षणं यस्य तं । सन्तुष्टं = दानहृष्टं इष्टदेवं = यक्षाराधित- सुरं लोकनाथं, त = नलं, के नाम इष्टानि = ईप्सितानि न नाथन्ति=न याचन्ते सर्वेऽपि नाथन्त्येवेत्यर्थः । नाथतेर्याच्ञार्थस्य दुहादित्वात् द्विकर्मकत्वम् ॥ २५ ॥ दरिद्रता को विदारण करनेवाले, धनसमूहों की वर्षा द्वारा, याचक-समुदाय को मेघ-वर्षा के समान सन्तुष्ट कर देने का जिसका अव्यर्थ नियम है--ऐसे सन्तोष युक्त ( याचकों के माँगने पर भी विरक्त भाव न रखने वाले ), इष्ट-देव (लोक- प्रिय, देव-तुल्य ) और लोकनाथ ( भूपति ) नल से--ऐसा कौन व्यक्ति है जो अपने अभीष्ट की याचना न करता हो ? ॥ २५ ॥ अस्मत्किल श्रोत्रसुधां विधाय रम्भा चिरम्भामतुलां नलस्य । तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धान्नलकूबर सा ॥२६॥ अस्मदिति । सा = प्रसिद्धा रम्भा, नलस्य, अतुलम् = अनुपमां, भां = सौन्दर्यं चिरं अस्मत् = मत्तः श्रोत्रसुधां विधाय = कर्णे अमृतं कृत्वा, रसादा- कर्ण्यत्यर्थः । तत्र = तस्मिन्नले, अनुरक्ता सती तं = नलम् अनाप्य = अप्राप्य । आङ्पूर्वादामोतेः क्त्वो ल्यबादेशः नञ्समासः । अन्यथा त्वसमासे ल्यबादेशो न स्यात् । तन्नामगन्धात् = तस्य नलस्य नामाक्षरसंस्पर्शाद्धेतोः, नलकूबर = कुबेरा- त्मजं भेजे किल । तादृक् तस्य सौन्दर्यमिति भावः ॥२६॥ रम्भा (नाम की त्रैलोक्यसुन्दरी अप्सरा) शुकमुख से नल के अनुपम लावण्य के बारे में बहुत दिनों तक अपने कर्णामृत द्वारा श्रवणकर,--उन पर अनुरक्त

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १४१ हो गयी; पर उन्हें न पाकर, उनके नाम के प्रथम अंश के मिलते जुलते अक्षर होने के कारण नल-कूबर के साथ विहार करने लगी ॥ २६ ॥ स्वर्लोकमास्माभिरितः प्रयातैः केलीषु तद्गानगुणान् निपीय । हा हेति गायन् यदशोचि तेन नाम्नैव हाहा हरिगायनोऽभूत् ॥२७॥ स्वर्लोकमिति । केलीषु = विनोदगोष्ठीषु, [ तद्गानगुणान् ] तस्य नलस्य, कृतगाने गुणान् , निपीय = आस्वाद्य, इतः = अस्माल्लोकात् स्वर्लोकं प्रयातै- स्माभिः, हरिगायनः = इन्द्रगायको गन्धर्वः । 'ण्युट्-च' इति गायतेः शिल्पिनि ष्युट्प्रत्ययः । गायन् यत् = यस्मात् हा हा इत्यशोचि = शोचितः तेनैव = कार- नाम्ना हाहा अभूत्, आलापाक्षरानुकारादिति भावः । 'हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्' इत्यमरः । आलापाक्षरानुकारनिमित्तोऽयम् हाहाशब्दा- कारान्तः, पुंसि चेति केचित् । 'हाहा खेदे, हूहू हर्षे, गन्धर्वेऽभू त्वनव्यये' इति विश्वः । अव्ययमेवेति भोजः । अत्र शोकनिमित्तासम्बन्धेऽपि सम्बन्धादतिशयोक्तिः । तथा च गन्धर्वातिशायि गानमस्येति वस्तु व्यज्यते ॥२७॥ संगीत-परिषद् में नल के गायन के ( ताल लय शुद्धि माधुर्यादि ) गुणों को सादर सुनकर, यहाँ ( मर्त्यलोक ) से स्वर्गलोक जाते हमने गान करते हुए इन्द्र के गवैयों ( गन्धर्वों ) को 'हा हा' ( अर्थात् हा ! हा ! नल के गाने के सुनने के बाद इसका गाना सुनकर, ऐसा आभास होता है मानों कोयल की सुरीली तान सुनकर, कोई मेढ़कों की टर्र-टर्र की आवाज़ सुने ) ऐसा कहकर जो शोक प्रकट किया उससे ( इन्द्र के गायक का ) नाम ही 'हाहा' पड़ गया ॥ २७ ॥ शृण्वन् सदारस्तदुदारभावं हृष्यन्मुहुर्लोम पुलोमजायाः । पुण्येन नालोकत नाकपालः प्रमोद-बाष्पावृत-नेत्र-मालः ॥२८॥ शृण्वन्निति । नाकपालः = इन्द्रः, सदारः = सवधूकः, [ तदुदारभावं ] तस्य नलस्य, उदारभावमौदार्यं शृण्वन् अत एव [ प्रमोद-बाष्पावृत-नेत्र- मालः ] प्रमोदबाष्पैः आनन्दाश्रुभिः, आवृतनेत्रमालस्तिरोहितदृष्टिव्रजः सन्, पुलो- मजायाः=शच्याः, मुहुर्हृष्यत्=नलानुरागादुल्लसत्, लोम=रोमाञ्चं पुण्येन=शच्या भाग्येन, नालोकत=नापश्यत् । अन्यथा, मानसव्यभिचारापराधाद्दण्ड्यैवेत्यर्थः ॥२८॥ नल के उदारभाव को सुनकर, स-पत्नीक अमरावती-पति इन्द्र के ( सहस्र ) नेत्र आनन्दाश्रु के कारण मूँद से गये । अतः वे ( पर-पुरुष के गुणों को सुनकर,

१४२ नैषधचरितम् । [तृतीयः कामवासना से युक्त होने के कारण हर्षित होती हुई इन्द्राणी के रोमाञ्च को, उसके पुण्य-प्रताप से नहीं देख पाये (अन्यथा उसे असती समझकर, उसका परित्याग कर देते) ॥ २८ ॥ सापीश्वरे शृण्वति तद्गुणौघान् प्रसह्य चेतो हरतोऽर्धशम्भुः । अभूदपर्णाङ्गुलिरुद्धकर्णा कदा न कण्डूयनकैतवेन ॥ २९ ॥ सेति । ईश्वरे = हरे प्रसह्य चेतो हरतः = बलान्मनोहारिणः [तद्गुणौ- घान्] तस्य नलस्य, गुणौघान् शृण्वति सति । सा = प्रसिद्धा, अर्धे शम्भोरर्ध- शम्भुः = शम्भोरर्धाङ्गभूतेत्यर्थः । तथा चापसरणमशक्यमिति भावः । अपर्णा = पार्वती अपि कदा कण्डूयनकैतवेन = कण्डूनोदनव्याजेन [अंगुलिरुद्धकर्णा ] अङ्गुल्या रुद्धः पिहितः, कर्णौ यया सा, नाभूत् = अभूदेवेत्यर्थः । अन्यथा, चित्त- चलनादिति भावः ॥ २६ ॥ महेश्वर शिवजी के—बलात् चित्त को आकृष्ट करनेवाले नल के (विविध) गुण-गणों के सुनने पर, अर्द्धाङ्ग जिसके शिवजी हैं ऐसी पतिव्रता (जिसने उनकी प्राप्ति के लिए उत्कट तपस्या करते समय पर्णाशन करना भी छोड़ दिया था, उस) अ-पर्णा पार्वती ने भी, कान खुजलाने के बहाने, कब अंगुलियों से अपने कान बन्द नहीं किये ? (अर्थात् ऐसे अवसरों पर, वे सदा कानों में अंगुलि डाल लिया करती थीं; क्योंकि आधे अङ्ग में शिव जी के होने के कारण वे वहाँ से हट नहीं सकती थीं और दूसरी ओर नल का गुणानुवाद सुनने से, चित्त में विकार उत्पन्न होने पर उनका पातिव्रत्य भङ्ग होता) ॥ २६ ॥ अलं सजन् धर्मविधौ विधाता रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्ग्य रसस्य तृप्तां न वेद तां वेदजडः स वक्ताम् ॥ ३० ॥ अलमिति । विधाता = ब्रह्मा, अलम् = अत्यन्तं, धर्मविधौ = सुकृताचरणे सजन् = धर्मासक्तः सन्नित्यर्थः । वाणीं = स्वभार्यां वाग्देवीं वर्णात्मिकाञ्च, मौनस्य = वाग्यमनव्रतस्य, मिषेण रुणद्धि । नलकथाप्रसङ्गान्निरुन्धे तस्या उभय्या अपि तदा- सङ्गभयादिति भावः । किन्तु, वेदजडः = छान्दसः स = विधाता ताम् = उभयीमपि वाणीं । [तत्कण्ठं] तस्य नलस्य, कण्ठं ग्रीवाम् आलिङ्ग्य सुखमाश्रित्य च, रसस्य तृप्तां = तद्रागसन्तुष्टाम्, अन्यत्र शृङ्गारादिरसपुष्टाञ्च । सम्बन्धसामान्ये षष्ठी । 'पूरणगुण...' इत्यादिना षष्ठीनिषेधोऽवेव ज्ञापकादिति केचित् । वक्तां = प्रति-

Digitized by Sarayu Trust Foundation and eGangotri लङ्कारिणीं, वक्रोक्त्यलङ्कारयुक्ताञ्च, न वेद = न वेत्ति । 'विदो लटो वा' इति लादेशः । अशक्यरक्षाः स्त्रिय इति भावः । यत्र प्रस्तुतवाग्देवीकथनादप्रस्तुतवर्णा- मकवाणीवृत्तान्तप्रतीतेः प्रागुक्तरीत्या ध्वनिरेवेत्यनुसन्धेयम् ॥३०॥ सन्ध्या-वन्दन आदि धर्मानुष्ठान में आसक्त हुए ब्रह्मा, मौन रहने के बहाने, अपनी भार्या वाणी (सरस्वती) को जो हृदय के भीतर रोके रहते हैं, वह उनका प्रयास व्यर्थ है क्योंकि उनकी पत्नी नल के कण्ठ का आश्रय लेकर, (शृङ्गारादि) रस से तृप्त (पूर्ण) तथा वक्रोक्ति-बाहुल्य से कर्कशा हो गयी है-इस बात का पता, सदा वेद का पाठ करते-करते, दूसरे सांसारिक विषयों से अनभिज्ञ रहनेवाले बूढ़े विधाता को नहीं है । [जिस प्रकार कोठरी के भीतर ताला में बन्द की हुई, सांसारिक अनुभवों से शून्य किसी वृद्ध की, पर-पुरुष-परायणा युवती पत्नी किसी उपाय से बाहर निकल कर, अपने उपपति के कण्ठ से लिपट कर, उसके द्वारा 'रस-तृप्त' (प्रेम-प्रदर्शक-कर्म सम्भोग से सन्तुष्ट) होती है और वह कितनी 'वक्रा' (कुटिल, खोटी) हो गयी है, इन दोनों बातों का पता उसके मूर्ख पतिदेव को नहीं होता; वह तो कोठरी में ताला बन्द कर, निश्चिन्त हो जाता है। ठीक यही दशा ब्रह्माजी की भी है, जो पूजा पाठ करने के बहाने मौन रह कर, यह सोचते हैं कि अपनी पत्नी को हृदय-मन्दिर में बन्द किये हूँ और उधर वाणी नल के पास पहुँच जाती है ] ॥ ३० ॥ श्रियस्तदालिङ्गनभूर्न भूता व्रतक्षतिः कापि पतिव्रतायाः । समस्तभूतात्मतया न भूतं तद्भर्तुरीर्ष्याकलुषाऽणुनापि ॥३१॥ श्रिय इति । पतिव्रतायाः श्रियः = श्रीदेवीव्याः, तद्भर्तुर्विष्णोः, समस्तभूता- त्मतया = सर्वभूतात्मकत्वेन, नलस्यापि विष्णुरूपत्वेनेत्यर्थः । तदालिङ्गनभू = नलाश्लेषप्रभवा । कापि व्रतक्षतिः = पातिव्रतभङ्गो न भूता = नाभूत् । अत एव तद्भर्तुः = विष्णोश्च [ईर्ष्याकलुषाणुना] ईर्ष्या नललिङ्गनभुवा अक्षमया, यत्कलुषं कालुष्यं मनःक्षोभः, दुःखादित्वेन अस्य धर्मधर्मिवचनत्वात् । अत एव क्षीरस्वामी 'शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च' इत्यत्र आदिशब्दाच्छ्रेयः कलुषशिवभद्रादय इति उभयवचनेषु संजग्राह । तस्याणुना लेशेन अपि, न भूतं = नाभावि । नपुंसके भावे क्तः । अत्र शच्यादिचित्तचाञ्चल्योक्तेर्नलासौन्दर्ये तात्पर्यान्ना- नौचित्यदोषः ॥ ३१ ॥ CC-0. Prof. Satya Vrat Shastri Collection.

१४४ नैषधचरितम् । [तृतीयः न आलिङ्गन करने से, पतिव्रता श्री (लक्ष्मी, शोभा ) के पातिव्रत के किसी नियम का भङ्ग नहीं हुआ और न तो उनके पति विष्णु को ( पर-पुरुष को आलिङ्गन करते देखकर ) ईर्ष्या का रञ्चमात्र भी कालुष्य हुआ; क्योंकि वे (विष्णु) सकल प्राणियों की आत्मा हैं ॥ ३१ ॥ धिक् तं विधेः पाणिमजातसज्जं निर्माति यः पर्वणि पूर्णमिन्दुम् । मन्ये स विज्ञः स्मृततन्मुखश्रीः कृतार्धमौज्झद्भवमूर्ध्नि यस्तम् ॥३२॥ धिगिति । तम् अजातसज्जं = निरपत्रपं विधेः पाणिं धिक् । यः = पाणिः स्मृततन्मुखश्रीरपि, पर्वणि । जातावेकवचनम् । पर्वस्वित्यर्थः । पूर्णमिन्दुं निर्माति । अद्यापीति भावः । स विज्ञः = अभिज्ञ इति मन्ये । यः = पाणिः, स्मृततन्मुखश्रीः सन् तम् = इन्दुं । कृतः अर्द्धं एकदेशो यस्य तं कृतार्द्धम् = अनिर्मितमेव, भवमूर्ध्नि = हरशिरसि । औज्झत् = अत्यजत् । अतिसौन्दर्य- मस्यास्यमिति भावः ॥ ३२ ॥ विधाता के उस निर्लज्ज हाथ को—जो नल के मुख की शोभा का स्मरण करके भी—पूर्णिमा को पूर्णचन्द्र बनाता है, धिक्कार है; पर स्यात् ( मालूम पड़ता है कि ) : चन्द्रमा के आधा बन जाने पर, फिर उसे नल के मुख की शोभा की सुधि आ गयी इससे उसने शिवजी के मस्तक पर फेंक दिया, अतः वह हाथ वस्तुतः विज्ञ (भले-बुरे का ज्ञान रखनेवाला) है (वह धन्यवाद का पात्र है) ॥३२॥ निलीयते ह्रीविधुरः स्वजैत्रं श्रुत्वा विधुस्तस्य मुखं मुखान्नः । सूर्ये समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्भे ॥ ३३ ॥ निलीयत इति । विधुः=चन्द्रः, [ स्वजैत्रं ] स्वस्य जैत्रं । तृन्नन्तात्प्राज्ञा- दित्वात् स्वार्थेऽण् प्रत्ययः । तस्य = नलस्य मुखं, नः=अस्माकं मुखाच्छ्रुत्वा, ह्रीविधुरः=लज्जाविधुरः सन्, कदापि सूर्ये=सूर्ये, दर्शोवित्यर्थः, कदापि समुद्रस्य पूरे=प्रवाहे तदुत्पन्नत्वात् , कदाचिदभ्रभ्रमदभ्रगर्भे = अभ्रे खे, भ्रमताम् अट- ताम् , अभ्राणां मेघानां, गर्भे उदरे आकाशे सञ्चरमाणमेघोदरे, निलीयते=अन्त- र्धत्ते, न कदाचिदग्रतः स्थातुमुत्सह्त इति भावः । अत्र विधोः स्वाभाविकसूर्यादि- प्रवेशे पराजयप्रयुक्तह्रीनिलीनत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद् गम्या ॥३३॥ हमारे मुख से यह सुनकर, कि नल के मुख ने, उसके मुख को ( सुन्दरता में ) जीत लिया है तो, चन्द्रमा लज्जा से विकल हो, कभी (अमावस्या को)

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १४५ Digitized by Sarayu Trust Foundation and eGangotri सूर्य में, कभी (सन्ध्या समय) समुद्र के ज्वार-भाटे में, कभी (बरसात के दिनों में) आकाश में चक्कर काटते हुए मेघों में-छिप जाया करता है। (ठीक ही है क्योंकि पराजय के कारण लज्जित मनुष्य अपना मुँह छिपाता रहता है) ॥३३॥ संज्ञाप्य नः स्वध्वजभृत्यवर्गान् दैत्यारिस्त्यब्जनलास्यनुत्यै । तत्संकुचन्नाभिसरोजपीताद्धातुर्बिलज्जं रमते रमायाम् ॥३४॥ संज्ञाप्येति । दैत्यारिः=विष्णुः, [स्व-ध्वज-भृत्य-वर्गान्] स्वध्वजस्य गरु- डस्य पक्षिराजस्य भृत्यवर्गान् नः=अस्मान् [अत्यब्ज-नलास्य-नुत्यै ] अतिक्रान्त- मब्जमत्यब्जम्, अब्जविजयीत्यर्थः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीया' इति समासः । तस्य नलास्यस्य नुत्यै स्तोत्राय । 'स्तवः स्तोत्रं स्तुतिर्नुतिः इत्यमरः । संज्ञाप्य = संकेत्य [तत्सङ्कुचन्नाभि-सरोज-पीतात् ] तत्सङ्कुचता तया नुत्या सङ्कुचता निमीलत्ता, नाभिसरोजेन पीतात्तिरोहितात् धातुः = ब्रह्मणो विलज्जं यथा तथा रमायां रमते । अत्र विष्णोरुक्तव्यापारासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः ॥३४॥ दैत्यारि विष्णु-सुन्दरता में कमल को अतिक्रान्त करने (जीतने) वाले, नल के मुख की स्तुति करने के लिए, अपनी ध्वजा के लाञ्छन गरुड के अनु- चरों-हम लोगों-को सङ्केत (आँखों से इशारा) करके, हम लोगों के द्वारा नल की स्तुति सुनने पर (अपनी पराजय समझ) सकुचते हुए नाभिकमल द्वारा पान किये जाने वाले ब्रह्मा के सन्निकट ही-लज्जारहित हो, लक्ष्मी के साथ विहार करते हैं। (ब्रह्मा भगवान् के नाभिकमल में ही सदा निवास करते हैं । अतः लज्जा के कारण उन्हें लक्ष्मी जी के साथ रमण करने का कभी सु-अवसर ही नहीं मिलता। पर जब हंस लोग नल के मुख की प्रशंसा करते हैं कि उनका मुख कमल से भी कई गुना बढ़ कर है तो लज्जा के मारे कमल संकुचित हो जाता है और ब्रह्मा जी उसके भीतर रह जाते हैं । बस, भगवान् को रमा के साथ रमण करने के लिए उपयुक्त अवसर मिल जाता है और वे बेखटके इस कार्य में प्रवृत्त हो जाते हैं) ॥ ३४ ॥ रेखाभिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीभिरन्तः । चतुर्दशाष्टादश चात्र विद्या द्वेधापि सन्तीति शशंस वेधाः ॥३५॥ रेखाभिरिति । अस्य = नलस्य, आस्ये, अन्तः दन्तमयीभिः = दन्तरूपाभि- र्द्वात्रिंशता रेखाभिः गणनात्=संख्यानाच्चतुर्दश चाष्टादश च विद्याः द्वेधा अपि १०