पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
( ८४ )
तं प्रतिगृह्णाति—
यो मे दण्डः परापतद् वैहायसोऽधिभूम्याम् ।
तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसाये'ति । २-२-१५
तम्— आचार्यदत्तं दण्डं प्रतिगृह्णाति— स्वीकारोति माणवकः “यो मे दण्ड” इति मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः यजुः दण्डः तद् ग्रहणे — हे आचार्य ! यः— सुप्रसिद्धः, वैहायसः— विहायसि—आकाशे भवः दण्डः अधिभूम्यां— भूमेः उपरि, मे— मह्यं मदर्थं, परापतत्— आगच्छत्, तं— दण्डम्, अहं— माणवकः आयुषे— आयुर्लाभाय, ब्रह्मणे— वेदलाभाय, ब्रह्मवर्चसाय— वैदिकतेजोलाभाय च पुनः आददे— गृह्णामि । दण्डस्य स्कन्धस्थापनेन पुनरूर्ध्वगमनमिति पुनःशब्दस्यार्थः ।
दीक्षावदेके दीर्घसत्रमुपैतीति वचनात् । २-२-१६
एके— एके आचार्याः, दीक्षावत्— सोमयागे दीक्षायां यथा दण्डप्रदानं तथा अत्र दण्डग्रहणम् इच्छन्ति । तत्र “उच्छ्रयस्व वनस्पत” इत्यादिमन्त्रेण यजमानः दण्डं गृह्णाति, तद्वदत्र ब्रह्मचारी गृह्णातीति तेषां मतम् । तत्र ते कारणमाहुः— 'दीर्घसत्रमुपैतीतिवचनात्— 'दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैति” इत्यारभ्य ब्रह्मचर्यस्य दीर्घसत्रसम्पत्प्रतिपादकवचनबलात् ।
अथास्याऽद्भिरञ्जलिनाऽञ्जलिं पूरयति-
आपोहिष्ठेति तिसृभिः । २-२-१७
अथ— दण्डप्रदानान्तरम्, आचार्यः अस्य— माणवकस्य अञ्जलिम्, अञ्जलिना— निजाञ्जलिना अप आदाय ताभिरद्भिः पूरयति “आपोहिष्ठेत्यादिभिः तिसृभिः ऋग्भिः” । ताश्च ऋचः १-८-६ सूत्रव्याख्यानावसरे प्रदर्शिताः ।
अथैनठूं सूर्यमुदीक्षयति—तच्चक्षुरिति । २-२-१८
( ८५ )
अथ— अञ्जलिपूरणानन्तरम्, आचार्यः एनं—माणवकं, 'सूर्यम् उदीक्षस्व' इति प्रैषेण सूर्यम्—आदित्यम्, उदीक्षयति—उर्ध्वमुखं कारयित्वा प्रदर्शयति । स च प्रेषितः माणवकः "तच्चक्षुरिति मन्त्रं पठन् पश्यति । स च मन्त्रः १-१७-६ सूत्र व्याख्यायां दर्शितः ।
अथाऽस्य दक्षिणाँ समधि हृदयमालभते— मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति । २-२-१९
अथ—सूर्यदर्शनानन्तरम्, अस्य—माणवकस्य, दक्षिणांसम् अधि—दक्षिणस्कन्धस्य उपरि स्वं दक्षिणहस्तं नीत्वा, माणवकस्य हृदयं—वक्षः, आलभते—स्पृशति "मम व्रते ते" इत्यादिना मन्त्रेण । व्याख्यातश्चेदृशो मन्त्रः(१-१-८) विवाहप्रकरणे । तत्र 'प्रजापतिस्त्वा नियुनक्तु मह्यमिति, अत्र तु प्रजापतिस्थाने बृहस्पतिरिति विशेषः ।
बृहस्पतिः—बृहतां—मन्त्राणां पतिः ।
अथाऽस्य दक्षिणं हस्तं गृहोत्वाऽऽह को नामाऽसीति । २-२-२०
अथ—हृदयालम्भनानन्तरम, अस्य—माणवकस्य, दक्षिणं हस्तं स्वदक्षिणहस्तेन गृहीत्वा "को नामासि" इति आह—वदति आचार्यः ।
असावहं भो ! इति प्रत्याह । २-२-२१
माणवकः "असावहं भो !—असौ अमुकशर्माऽहं भो ! इति प्रत्याह—प्रतिवचनं करोति ।
अथैनमाह कस्य ब्रह्मचार्यसीति । २-२-२२
अथ—प्रतिवचनानन्तरम्, एनं—माणवकं "कस्य ब्रह्मचार्यसि" इति पृच्छति आचार्यः ।
( ८६ )
भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्य-
ग्निराचार्यस्तवाहमाचार्यस्तवासाविति । २-२-२३
भवत इति—भवतः इति भवत एव ब्रह्मचारी अस्मि इति माणवकेन उच्यमाने आचार्यो वदति "असौ अमुकशर्मन् इन्द्रस्य ब्रह्मचारी असि, अग्निराचार्यस्तव—तव आचार्यः अग्निरेव, अहं तव आचार्यः।
अथैनं भूतेभ्यः परिददाति—
प्रजापतये त्वा परिददामि, देवाय त्वा सवित्रे ।
परिददाम्यद्भ्यस्त्वौषधिभ्यः परिददामि
द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः
परिददामि, सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यारिष्ट्या इति ।
२-२-२४
अथ—अनन्तरम्, आचार्यः एनं—माणवकं, भूतेभ्यः—प्रजापति-प्रभृतिभ्यः, परिददाति—परितः रक्षणार्थं प्रयच्छति, "प्रजापतये त्वा इत्यादिना मन्त्रेण।
मन्त्रार्थः सुगमः ( प्रजापतिः यजुः प्रजापत्यादयः रक्षणे ) । प्रजापतिः—स्रष्टा । भूतानि द्यावापृथिव्यादीनि पञ्च । अरिष्ट्यै—रक्षायै ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे द्वितीया कण्डिका ॥
— ४०४ —
( ८७ )
प्रदक्षिणमग्निं परीत्योपविशति । १
परिदानान्तरं माणवकः अग्निं प्रदक्षिणं यथा स्यात्तथा परीत्य-परिक्रम्य, उपविशति अग्नेः पश्चात्—पश्चिमायां दिशि, आचार्यस्योत्तरभागे ।
अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनं सं
शास्तिब्रह्मचार्यस्यपोशान, कर्म कुरु, मा दिवा सुषुप्या,
वाचं यच्छ, समिधमाधेह्यपोशानेति । २
ततः—अन्वारब्धः—ब्रह्मणा स्पृष्टः आचार्यः, आज्याहुतीः—आघारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीः, हुत्वा प्राशनान्ते—संस्रवप्राशनान्ते अथ—अनन्तरम्, आचार्यः, एनं—समीपे वर्त्तमानं माणवकं संशास्ति—शिक्षयति । यथा—ब्रह्मचारी असि इत्याचार्येण पृष्टः अशानि इति माणवकः ब्रूयात् । तथा अपोऽशान इत्युक्तः अशानि इति, कर्म कुरु इत्युक्तः करवाणि इति, मा दिवा सुषुप्या इत्युक्तः न स्वपामि इति, वाचं यच्छ इत्युक्तः यच्छानि इति, समिधमाधेहि इत्युक्तः आदधानि इति, अपोऽशान इत्युक्तः अशानि इति ब्रूयात् । यच्छ-नियमय । आधेहि—अग्नौ प्रक्षिप ।
अथास्मै सावित्रीमन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टायो-
पसन्नाय समीक्षमाणाय समीक्षिताय । ३
अथ— अनुशासनानन्तरम् आचार्यः अग्नेः उत्तरतः—उत्तरस्यां दिशि उपविष्टाय, प्रत्यङ्मुखार्थ— पश्चिमाभिमुखाय, उपसन्नाय—पादोपसंग्रहणादिना भजमानाय, तथा, समीक्षमाणाय—सम्यगाचार्यमवलोकयते, समीक्षिताय—आचार्येण अवलोकिताय अस्मै—प्रागुक्ताय ब्रह्मचारिणे, सावित्रीं—सवितृदेवत्यां “तत्सवितु”रिति ऋचम् अन्वाह—उपदिशति ।
दक्षिणतस्तिष्ठत आसीनाय वैके । ४
( ८८ )
एके— एके आचार्याः, दक्षिणतः— अग्नेर्दक्षिणभागे, तिष्ठते— दण्डायमानाय वा—पक्षान्तरे आसीनाय— उपविष्टाय सावित्रीं दद्यादिति मन्यन्ते ।
पच्छोऽर्द्धर्चशः सर्वां च तृतीयेन सहानुवर्त्तयन् । ५
सावित्रीप्रदानप्रकारमाह— पच्छः— पादशः, प्रथमं पादं पादं शिक्षयेदिति भावः । ततः अर्द्धर्चशः, अर्द्धर्चम् अर्द्धर्चम् इतिकृत्वा शिक्षयेत् । ततः तृतीयेन वारेण सर्वाम् ऋचं, सह—मिलित्वा अनुवर्त्तयन् पठन्, शिक्षयेदिति शेषः ।
संवत्सरे षड्मास्ये चतुर्विंशत्यहे द्वादशाहे षडहे त्र्यहे वा । ६
सावित्रीप्रदानस्य कालविकल्पमाह— संवत्सरे— उपनयनदिवसमारभ्य पूर्णे वर्षे, षड्मास्ये—षड् एव मासाः षड्मास्यम् , स्वार्थे तद्धितश्छन्दसश्च वृद्धिलोपः, छन्दोवत् सूत्राणि भवन्ति” इति वचनात् “तस्मिन् षड्मास्ये पूर्णे, सप्तममासे इत्यर्थः । चतुर्विंशत्यहे—चतुर्विंशत्या अहोभिरुपलक्षितः कालः चतुर्विंशत्यहः तस्मिन्, तथा द्वादशाहे— द्वादशभिरहोभिरुपलक्षितः कालः द्वादशाहस्तस्मिन्, तथा षडहे, त्र्यहे वा सावित्रीं ब्रूयात् । एते कालविकल्पाः शिष्यगुणतारतम्यापेक्षया द्रष्टव्याः ।
सद्यस्त्वेव गायत्रीं ब्राह्मणायाऽनुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः
तु—किन्तु, सद्यः—उपनयनदिवस, एव—निश्चयेन, ब्राह्मणाय—ब्राह्मणब्रह्मचारिणे, गायत्रीं—तत्सवितुरित्यादिकाम् ऋचम्(शु य.३/३५) अनुब्रूयात्— उपदिशेत् । अत्र कारणमाह— “आग्नेयो वै ब्राह्मणः सद्योवाग्निर्जायते, तस्मात् सद्य एव ब्राह्मणायानुब्रूयात्” इति श्रुतिवचनात् । आग्नेयः—अग्निदेवत्यः । एतेन संवत्सरादिकालविकल्पः क्षत्रियवैश्ययोरेवेति ज्ञायते ।
त्रिष्टुभं राजन्यस्य । ८
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
( ८६ )
त्रिष्टुपं छन्दः यस्याः सा त्रिष्टुप्। तां त्रिष्टुभं—सावित्रीं राजन्यस्य—क्षत्रियस्य ब्रह्मचारिणः अनुब्रूयात्।
त्रिष्टुप् सावित्री यथा—
'देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाजं नः
स्वदतु स्वाहा”। यजुः ९-१
भर्तृयज्ञमतेन "तां सवितु"रित्यादि मन्त्रः यजुः १७-७४
जगतीं वैश्यस्य । ६
जगतीं—जगतीछन्दस्कां सावित्रीं वैश्यस्य ब्रह्मचारिणः अनुब्रूयात् ।
जगती सावित्री यथा—
"विश्वा, रूपाणि प्रतिमुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
विनाकमख्यत् सविता वरेण्योऽनु प्रयाणमुषसो विराजति । यजुः १२-३
भर्तृयज्ञमतेन “युञ्जते मन इत्यादि मन्त्रः । यजुः ५-१४
सर्वेषां वा गायत्रीम् । १०
वा – पक्षान्तरे, सर्वेषां—ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां गायत्रीं—गायत्रीछन्दस्कां 'तत्सवितु'रित्यादिकां सावित्रीम् अनुब्रूयात् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे तृतीया कण्डिका ॥
— ४८४ —
अत्र समिदाधानम् । १
अत्र—सावित्रीप्रदानोत्तरकाले, समिदाधानम्—अग्नौ समिधाम्—आधानं—प्रक्षेपः, ब्रह्मचारिणो भवति, सावित्रीग्रहणानन्तरं तस्य होमेऽधिकारात् । नेतः पूर्वम् । तस्य अनधिकारित्वात् । 'शूद्रेण हि समस्तावद् यावद् वेदे न जायते" इति मनुवचनात् । अस्मिन् सूत्रे अत्रशब्दः अग्निपर इति कर्कगदाधरौ । तन्मते अत्र—अग्नौ इति अर्थः । नायमर्थः उपयोगी । समिदाधानस्य अग्नावेव, विधीयमानत्वेन सिद्धत्वात्
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
( ६० )
प्रदक्षिणमग्निं पर्युक्ष्येत्यादि वक्ष्यमाणसूत्रे तथा निर्देशाच्च ।
पाणिनाऽग्निं परिसमूहति—
अग्ने ! सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने
सुश्रवः सुश्रवा असि एवं मार्ठं सुश्रवःसौश्रवसं
कुरु । यथा त्वमग्ने देवानां यज्ञस्य निधिपा असि,
एवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति । २
पाणिना— दक्षिणहस्तेन, अग्निम्—उपनयनाङ्गहोमाधिकरणं, परिसमूहति— इन्धनप्रक्षेपेण सन्धुक्षयति "अग्ने सुश्रवः इत्यादिभिः पञ्चभिर्मन्त्रैः । केषांचित् मते एते त्रयो मन्त्राः । तन्मते कुरु कुरु भूयासमिति पदेषु मन्त्रसमाप्तिः ।
मन्त्रार्थः(प्रजापतिः यजुः अग्निः समिन्धने)—हे सुश्रवः—सु-शोभनं श्रवः—कीर्त्तिः यस्यासौ सुश्रवाः तत्सम्बोधने सुश्रवः—सुकीर्त्ते ! अग्ने ! मा—मां ब्रह्मचारिणं सुश्रवसं शोभनकीर्तियुक्तं कुरु । हे सुश्रवः अग्ने, यथा—येन प्रकारेण त्वं सुश्रवा—कीर्त्तिमान् असि—भवसि, एवम्—अनेन प्रकारेण, मां ब्रह्मचारिणं, सुस्रवःसौश्रवसं—सुस्रवसः—शोभनकीर्तियुक्तस्य गुरोः शिष्यत्वेन सुश्रवसः अयं सौश्रवसः इति अनेनप्रकारेण मां सौश्रवसं कुरु । अर्थात् मां मम गुरुं च कीर्त्तिमन्तं कुरु । हे अग्ने ! त्वं यथा देवानां यज्ञस्य च निधिपा—निधिरक्षकः असि—भवसि, एवम् अहम् मनुष्याणां वेदस्य च निधिपा—रक्षकः भूयासम्—भवेयम् ।
प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन् समिधमादधाति—
"अग्नये समिधमाहार्षं बृहते जातवेदसे, यथा त्वमग्ने
समिधा समिध्यस एवमहमायुषा, मेधया, वर्चसा प्रजया,
पशुभिर्ब्रह्मवर्चसेन समिन्धे, जीवपुत्रो ममाचार्यो मेधाव्यह-
मसान्यनिराकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासठ्ँ
स्वाहेति । ३
( ६१ )
ततः ब्रह्मचारी, प्रदक्षिण—प्रदक्षिणरीत्या अग्निं पर्युक्ष्य—दक्षिण-हस्तगृहीतेन उदकेन परिषिच्य, उत्तिष्ठन्—प्राङ्मुखः तिष्ठन् समिधं—समिध्यते दीप्यते अग्निरनयेति समित् ताम्, आदधाति—प्रक्षिपति, "अग्नये समिधमाहार्ष"मित्यादिना मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः आकृतिः अग्निः तदाधाने —अहं ब्रह्मचारी, बृहते—महते, जातवेदसे—जातं जातं वेत्तीति जातवेदाः तस्मै, अग्नये—अग्न्यर्थम् अग्निपरितोषायेति यावत्, समिधम् आहार्षम्—आहृतवानस्मि । हे अग्ने ! त्वं यथा—येनप्रकारेण समिधा—मद्दत्तया, समिध्यसे—दीप्यसे, एवम्—अनेन प्रकारेण अहं—ब्रह्मचारी, आयुष—जीवनकालेन, मेधया—धारणावत्या बुद्ध्या, वर्चसा—तेजसा, प्रजया—पुत्रादिभिः, पशुभिः—गवादिभिः ब्रह्मवर्चसेन—वेदार्थज्ञानेन, समिन्धे—सन्दीपितो भवामि । मम—ब्रह्मचारिणः आचार्यः—"यस्माद्धर्म्मानचिनोति स आचार्य इत्युक्तलक्षणः, जीवपुत्रः—दीर्घायुःपुत्रयुक्तः अस्तु । अहं च मेधावी—मेधा-धारणशक्तिः तद्युक्तः असानि—भवामि "तथा अनि-राकरिष्णुः—अविस्मरणशीलः, यशस्वी, तेजस्वी, ब्रह्मवर्चसी अन्नादः—अन्नभक्षणसमर्थश्च भूयासम्—भवेयम् 'स्वाहा-सुहुतमस्तु' ।
एवं द्वितीयां तथा तृतीयाम् । ४
एवम्—अनेन मन्त्रेण द्वितीयां—द्वितीयां समिधं, तथा—तेनैव मन्त्रेण तृतीयां—तृतीयां समिधं च आदधाति !
एषा त इति वा । ५
समिदाधाने मन्त्रविकल्पमाह—एषा ते अग्ने इत्यादिना मन्त्रेण वा—पक्षान्तरे समिदाधानं कुर्यात् ।
एषा त इति मन्त्रो यथा—
एषा ते अग्ने समित्तया वर्द्धस्व चाचप्यायस्व । वर्द्धिषीमहिच वयमाचप्यासिषीमहि। अग्ने वाजजिद् वाजं त्वा ससृवाꣳसं वाजजितꣳसंमार्ज्म । यजुः २-१४
समुच्चयो वा । ६
अथवा "अग्नये समिधमाहार्ष"मित्यादिमन्त्रः तथा "एषाते अग्ने
( ६२ )
इत्यादिमन्त्रश्च अनयोः द्वयोः समुच्चयः—ऐक्यं समिदाधाने। एतस्मिन् समुच्चयपक्षे मन्त्रद्वयपाठान्ते समित्प्रक्षेपः विधेयः।
पूर्ववत् परिसमूहनपर्युक्षणे । ७
पूर्ववत्—पूर्वं यथा उपदिष्टं तद्वत् ‘अग्ने सुश्रव” इत्यादिभिर्मन्त्रैः परिसमूहनं कर्त्तव्यं तथा पर्युक्षणमपि।
पाणी प्रतप्य मुखं विमृष्टे—
तनूपा अग्नेऽसि तन्वं मे पाहि । आयुर्दा अग्नेऽस्यायुर्मे देहि । वर्चोदा अग्नेऽसि वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण । मेधां मे देवः सविता, मेधां मे देवी सरस्वती, मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति । ८
पाणी—करतलौ, प्रतप्य—अग्नौ तूष्णीं तापयित्वा, मुखं—ललाटादिचिबुकान्तं, विमृष्टे—प्रोञ्छति "तनूपा अग्नेऽसि इत्यादिभिः सप्तभिर्मन्त्रैः। पञ्चमषष्ठमन्त्रयोः सवितासरस्वतीपदानन्तरम् आदधातु इति पदं योज्यम्।
मन्त्रार्थः सुगमः "यत् मे—मम ब्रह्मचारिणः तन्वा—शरीरस्य ऊनं—न्यूनता अस्ति, मे—मम तत्—न्यूनम् आपृण–पूरय इति प्रार्थना।
अत्र अङ्गालम्भनत्र्यायुषकरणाभिवादनानि गृह्यकारानुक्तान्यपि आचारतोऽनुष्ठेयानीति हरिहरादयः।
इति पारस्करगृह्यसूत्रव्याख्यायो मार्गदर्शिन्यां द्वितीयकाण्डे चतुर्थी कण्डिका।
अत्र भिक्षाचर्यचरणम् । १
अत्र—एतदवसरे समिदाधानानन्तरं, भिक्षाचर्यचरणं—भिक्षाचर्यानुष्ठानम्।
भवत् पूर्वा ब्राह्मणो भिक्षेत । २
( ६३ )
भवत्पूर्वां—भवच्छब्दः पूर्वः यस्याः सा भवत्पूर्वा तां भिक्षां, ब्राह्मणः—ब्राह्मणब्रह्मचारी भिक्षेत—याचेत । यथा— “भवति भिक्षां देहि” इति ।
भवन्मध्यां राजन्यः । ३
भवच्छब्दः मध्ये यस्याः सा भवन्मध्या तां भिक्षां राजन्यः—क्षत्रियः ब्रह्मचारी भिक्षेत । यथा “भिक्षां भवति ! देहि” इति ।
भवदन्त्यां वैश्यः । ४
भवच्छब्दः अन्त्यः यस्याः सा भवदन्त्या, तां भिक्षां वैश्यः ब्रह्मचारी भिक्षेत, यथा “भिक्षां देहि भवति” इति ।
तिस्रोऽप्रत्याख्यायिन्यः षड् द्वादशाऽपरिमिता वा । ५
प्रत्याख्यातुं—निराकर्तुं शीलं यासां ताः प्रत्याख्यायिन्यः, न प्रत्याख्यायिन्यः—अप्रत्याख्यायिन्यः । अत्र द्वितीयार्थे प्रथमा । अतएव एवम्भूताः तिस्रः स्त्रीः भिक्षेत । षड् वा द्वादश वा अपरिमिता वा स्त्रीः भिक्षेत इति विकल्पाः देशकालावस्थादृष्ट्या आदरणीयाः ।
मातरं प्रथमामेके । ६
एके आचार्याः मातरं—जननीं प्रथमाम्—अप्रत्याख्यायिनीषु आद्यां मन्यन्ते ।
आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहःशेषं तिष्ठेदित्येके । ७
आचार्याय—गुरवे, भैक्षं—भिक्षालब्धान्नं निवेदयित्वा—निवेद्य वाग्यतः—मौनी अहःशेषं—यावदस्तमयं, तिष्ठेत्— न उपविशेत् न शयीत इति एके आचार्या मन्यन्ते ! अस्माकं मते तु अत्र न नियमः ।
अहिंत्सन्नरण्यात् समिध आहृत्य तस्मिन्नग्नौ पूर्ववदाधाय वाचं विसृजते । ८
अहिंसन्—अच्छिन्दन्, अरण्यात्—न तु ग्रामात्, समिध आहृत्य—आनीय, तस्मिन्नग्नौ—यत्र उपनयनाङ्गहोमः कृतस्तस्मिन्नग्नौ, पूर्ववत्—समूहनादित्यायुषकरणान्तविधिना, आधाय—हुत्वा, वाचं विसृजति—
( ६४ )
मौनं त्यजति । अयं नियमः वाग्यमपक्षे इति भाष्यकाराः ।
अधः शाय्यक्षारालवणाशी स्यात् । ९
इत आरभ्य ब्रह्मचारिणो यमनियमा उच्यन्ते । ब्रह्मचारी अधः-शायी—अधः शयितुं शीलमस्य इति अधःशायी, पुनः अक्षारालवणाशी- अक्षारं च अलवणं च अशितुं शीलमस्येति अक्षारालवणाशी स्यात्—भवेत् ।
दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या । १०
दण्डधारणं—दण्डस्य स्ववर्णविहितस्य पालाशादेः शास्त्रोक्तलक्षणलक्षितस्य धारणं—ग्रहणम्, अग्निपरिचरणम्—अग्नेः परिचरणं,—सायं प्रातः परिसमूहनादित्यायुषान्तसमिदाधानं, गुरुशुश्रूषा—गुरोः परिचर्या, भिक्षाचर्या—भिक्षार्थं चर्या भैक्षचरणमितियावत् ।
मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् । ११
मधु—क्षौद्रं, मांसं—पललं, मज्जनं—नद्यादौ प्लवनं, स्नानं तु उद्धृतोदकेन विधेयम् । उपर्यासनम्—उपरि खट्वादौ आसनम्—उपवेशनम्, आसनस्योपरि मसूरिकाद्यासनं वा, स्त्रीगमनं—स्त्रीणां मध्ये अवस्थानम्, अनृतम्—असत्यभाषणम्, अदत्तादानम्—अदत्तस्य परद्रव्यस्य आदानं—ग्रहणं स्तेयमित्यर्थः । एतानि मध्वादीनि ब्रह्मचारी वर्जयेत् ।
अष्टचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरेत् । १२
अष्टाभिरधिकानि चत्वारिंशत् अष्टचत्वारिंशत् तानि वर्षाणि अत्रनैरन्तर्ये द्वितीया, वेदब्रह्मचर्यं—वेदार्थं ब्रह्मचर्यं चरेत्—आचरेत् । अत्र पक्षे चतुर्णां वेदानामेक एव व्रतादेशः ।
द्वादश द्वादश वा प्रतिवेदम् । १३
एकवेदादेशासामर्थ्ये प्रतिवेदं—वेदं वेदं प्रति द्वादशवर्षाणि ब्रह्मचर्यं चरेत् ।
यावद् ग्रहणं वा । १४
( ६५ )
वा--पक्षान्तरे। यावद्ग्रहणं—यावता कालेन वेदःग्रहीतुं शक्यते तावन्तं वा कालं, तथा वेदौ वा,वेदा वा ग्रहीतुं शक्यन्ते यावता कालेन तावन्तं वा कालं, ब्रह्मचर्यं चरेत्।
वासांसि शाणक्षौमाविकानि। १५
ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां वासांसि—अधोवस्त्राणि यथाक्रमं शाणक्षौमाविकानि भवन्ति।
ऐनेय मजिनमुत्तरीयं ब्राह्मणस्य। १६
एणी—हरिणी तस्या इदम् ऐणेयम् अजिनं—चर्म, ब्राह्मणस्य—ब्राह्मणस्य ब्रह्मचारिणः उत्तरीयम्—उत्तरवस्त्रं स्कन्धधार्यं वस्त्रं भवति।
रौरवं राजन्यस्य। १७
रुरुः शम्बराख्यो मृगविशेषः तस्य इदं रौरवं चर्म राजन्यस्य—क्षत्रियस्य ब्रह्मचारिण उत्तरीयम् भवति।
आजं गव्यं वा वैश्यस्य। १८
अजस्य—वस्तस्य इदम् आजम् अजिनं वैश्यस्य ब्रह्मचारिण उत्तरीयम्। अथवा गव्यं—गोः इदं गव्यम् अजिनं वैश्यस्य उत्तरीयम् भवति।
सर्वेषां वा गव्यमसति प्रधानत्वात्। १९
अत्रपक्षान्तरमाह—सर्वे।—ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां गव्यम् अजिनं वा उत्तरीयम् भवति। कदा? असति—अविद्यमाने मुख्ये ऐणेयाद्यजिने। कस्मात्? प्रधानत्वात्—श्रेष्ठ्यात्। गव्यं हि अजिनम् अजिनानां प्रधानम् एण्याद्यपेक्षया गोः प्राधान्यात्। गोश्चात्र पुंस एव ग्रहणमित्याचार्याः।
मौञ्जी रशना ब्राह्मणस्य। २०
मुञ्जः—शरः तन्मयी मौञ्जी,रसना—मेखला ब्राह्मणस्य ब्रह्मचारिणो भवति।
धनुर्ज्या राजन्यस्य। २१
( ६६ )
धनुर्ज्या—धनुषः ज्या—गुणः राजन्यस्य—क्षत्रियस्य ब्रह्मचारिणो मेखला भवति।
मौर्वी वैश्यस्य । २२
मूर्वा—तृणविशेषः तन्मयी मेखला वैश्यस्य। मुरुरिति तृणविशेषः स्तन्मयी मौर्वी इति गदाधरः। मुर्व्वामयी ज्या धनुर्गुणरूपा इति मन्वर्थमुक्तावल्यां कुल्लूकः (२.४२)।
मुञ्जाऽभावे कुशाऽश्मन्तकबल्वजानाम् । २३
मुञ्जाऽभावे—मुञ्जाद्यभावे, ब्राह्मणादीनां कुशाश्मन्तकवल्वजानां कुशादीनां तृणानां विकारभूता रशना भवति। यथा कुशमयी ब्राह्मणस्य, अश्मन्तकमयी क्षत्रियस्य, वल्वजमयी वैश्यस्य इति।
पालाशो ब्राह्मणस्य दण्डः । २४
पालाशः—ब्रह्मवृक्षः, तस्यायं पालाशः दण्डः ब्राह्मणस्य ब्रह्मचारिणो भवति। स च केशमूर्द्धावधिप्रमाणकः कार्यः।
वैल्वोराजन्यस्य । २५
वैल्वः—बिल्ववृक्षोद्भवो दण्डः राजन्यस्य—क्षत्रियस्य, ब्रह्मचारिणो भवति। स च ललाटसम्मितः कार्यः।
औदुम्बरो वैश्यस्य । २६
उदुम्बरः—यज्ञियवृक्षविशेषः। तस्यायमौदुम्बरो दण्डः वैश्यस्य ब्रह्मचारिणो भवति। स च दण्डः नासान्तिकः कार्यः। स्यात्तुनासान्तिको विश इति मनुवचनात्। हरिहरमृते तु ओष्ठपुटावधिरिति।
सर्वे वा सर्वेषाम् । २७
अथवा सर्वेषां—ब्राह्मणक्षत्रियविशां, सर्वे—पालाशवैल्वाौदुम्बरा दण्डा अनियमेन भवन्ति। ततः मुख्यालाभे यथालाभमुपादेयम्।
आचार्येणाहूत उत्थाय प्रतिशृणुयात् । २८
आचार्येण—गुरुणा, आहूतः—आकारितः, उत्थाय—ऊर्ध्वो भूत्वा प्रतिशृणुयात्—प्रतिवचनं दद्यात् ब्रह्मचारी।
( ६७ )
शयानं चेदासीन आसीनं चेत्तिष्ठंस्तिष्ठन्तं
चेदभिक्रामन्नभिक्रामन्तं चेदभिधावन् । २६
चेत्—यदि शयानं—स्वपन्तं ब्रह्मचारिणं गुरुराह्वयति, तदा आसीनः—उपविष्टः सन् ब्रह्मचारी प्रतिवचनं दद्यात् । आसीनम्—उपविष्टं चेत्—यदि आह्वयति, तदा तिष्ठन्—उत्थितः सन्, तिष्ठन्तम्—उत्थितं चेत्, ब्रह्मचारिणं गुरुराह्वयति तदा, अभिक्रामन्—गुरुमभिमुखं गच्छन्, अभिक्रामन्तम्—आभिमुख्यमागच्छन्तं चेत् ब्रह्मचारिणं गुरुराह्वयति तदा स ब्रह्मचारी अभिमुखं धावन् सन् प्रतिशृणुयात् ।
स एवं वर्त्तमानोऽमुत्राद्य वसत्यमुत्राद्य वसतीति । ३०
स—ब्रह्मचारी, एवम्—उक्तप्रकारेण, वर्त्तमानः—ब्रह्मचर्ये तिष्ठन् अद्य—इहाद्य वर्त्तमानः सन् अमुत्र—स्वर्गे वसति—वर्त्तते । अत्र द्विरुक्तिः स्तुत्यर्था ।
तस्य स्नातकस्य कीर्त्तिर्भवति । ३१
तस्य—ब्रह्मचारिणः, स्नातकस्य—समावृत्तस्य, कीर्त्तिः—यशः, लोके ख्यातिः भवति इति यथोक्तधर्मानुष्ठातुः ब्रह्मचारिणः फलकथनम् ।
त्रयः स्नातका भवन्ति विद्यास्नातको
व्रतस्नातको विद्याव्रतस्नातक इति । ३२
त्रयः—त्रिप्रकाराः, स्नातकाः भवन्ति । यथा, एको—विद्यास्नातकः, अपरो व्रतस्नातकः, अन्यो विद्याव्रतस्नातकश्चेति ।
समाप्य वेदमसमाप्य व्रतं यः समावर्त्तते सविद्यास्नातकः । ३४
वेदं—वेदस्य मन्त्रब्राह्मणात्मिकां शाखां समाप्य—पाठतः अर्थतश्च अवसानं नीत्वा, व्रतं—ब्रह्मचर्य्यकालम् असमाप्य यः ब्रह्मचारी समावर्त्तते—स्नात्वा स्वगृहाभिमुखेन आवर्तते स विद्यास्नातको भवति ।
समाप्य व्रतमसमाप्य वेदं यः समावर्त्तते स व्रतस्नातकः । ३४
व्रतं—द्वादशवार्षिकादिरूपं व्रतं समाप्य वेदं—वेदस्य एकां शाखाम्
( ६८ )
असमाप्य—असम्पूर्णमधीत्य यः ब्रह्मचारी समावर्त्तते स व्रतस्नातको भवति।
उभयं समाप्य यः समावर्त्तते स विद्याव्रतस्नातक इति । ३५ उभयं—वेदं ब्रह्मचर्य्यकालं च समाप्य—अन्तं नीत्वा यः—ब्रह्मचारी समावर्त्तते—स्नाति स विद्याव्रतस्नातको भवति।
उपनयनकालस्य परमावधिमाह—
आ षोडशाद् वर्षाद् ब्राह्मणस्यानतीतः कालो भवति । ३६
आषोडशात्—षोडशात् वर्षात् प्राक्, ब्राह्मणस्य—विप्रस्य कालः—उपनयनकालः अनतीतः न अतीतः अनतीतो भवति ।
आ द्वाविंशाद् राजन्यस्य । ३७ आ द्वाविंशात्—द्वाविंशात् वर्षात् पूर्वं, राजन्यस्य—क्षत्रियस्य उपनयनकालः अनतीतो भवतीति योज्यम् ।
आ चतुर्विंशाद् वैश्यस्य । ३८ आ चतुर्विंशात्—चतुर्विंशात् वर्षात् पूर्वं वैश्यस्य उपनयनकालः अनतीतो भवतीति शेषः ।
अतऊर्ध्वं पतितसावित्रीकाः भवन्ति । ३६ अतः—पञ्चदशात् एकविंशात् त्रयोविंशात् वर्षादूर्द्धम् अनुपनीताः ब्राह्मणक्षत्रियवैश्याः यथाक्रमं पतितसावित्रीकाः,—पतिता स्खलिता अधिकाराभावान्निवृत्ता सावित्री—गायत्र्यादिरूपा येभ्यस्ते पतितसावित्रीका भवन्ति—सम्पद्यन्ते ।
नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयुः । ४० एनान्—एतान् पूर्वोक्तान् पतितसावित्रीकान् व्रात्यान् न उपनयेयुः—न उपनयाख्येन संस्कारकर्मणा संस्कुर्युः आर्याः । तथैव नाध्यापयेयुः—केनापि अतिक्रान्तनिषेधेन उपनीतानपि तान् न अध्यापयेयुः—वेदं न पाठयेयुः । तथा च अतिक्रान्तनिषेधेन केनचित् पाठितानपि तान् न याजयेयुः—न यज्ञं कारयेयुः । पुनश्च एभिः—पतितसावित्रीकैः सह न व्यवहरेयुः—स्नानाशनविवाहादिभिः कर्मभिः व्यवहारं न कुर्युः ।
( ६६ )
कालातिक्रमे नियतवत् । ४१
गर्भाधानादीनि उपनयनान्तानि कर्माणि नियतकालानि अभिहितानि यदि दैववशात् पुरुषापराधाद्वा तेषां नियतस्य कालस्य अतिक्रमो भवति तदा किं कर्त्तव्यमिति सन्देहे निर्णयमाह—कालातिक्रमे—यस्य संस्कारकर्मणः यः कालः नियतः, तस्य अतिक्रमे—लङ्घने, नियतवत्—नित्यवत् नित्ये श्रौतकल्पे यद् विहितं तद्वत् अनादिष्टं प्रायश्चित्तं कृत्वा तदेवकार्यमित्यर्थः । अनादेशप्रायश्चित्ते भूरादिभिर्व्याहृतिभिः तिस्रः आहुतयः । भूरादिभिस्तिसृभिश्चैका आहुतिः । ततः सर्वप्रायश्चित्तं पञ्च मन्त्राः तैश्च पञ्चाहुतयः । एवं मिलित्वा नवाहुतयो भवन्ति ।
त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च । ४२
सम्प्रति प्रतिप्रसवमाह—(निषिद्धस्य पुनरभ्यनुज्ञानं प्रतिप्रसवः) । त्रिपुरुषं—त्रीन् पुरुषान् यावत् पतितसावित्रीकाणां ये पतितसावित्रीकाः पितृपुत्रपौत्रास्तेषाम् अपत्ये—पुत्रे संस्कारः—उपनयनं भवति, किन्तु अध्यापनं—वेदाध्यापनं न भवति ।
तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहार्या भवन्तीति वचनात् । ४३
तेषां—पुरुषत्रयवर्त्तिनां पितृपुत्रपौत्राणाम् असंस्कृतानां मध्ये संस्कारेप्सुः—आत्मनः संस्कारकामी व्रात्यस्तोमेन—व्रात्यस्तोमाख्येन यज्ञेन इष्ट्वा—व्यवहार्यो भवति उपनयनादिसंस्कारयोग्यो भवति । कामम्—इच्छया व्रात्यस्तोमेन इष्ट्वा—व्रात्यस्तोमं कृत्वा अधीयीरन्—वेदं पठेयुः, व्यवहार्याः—लोके शिष्टानाम् अध्यापनादिकर्मसु योग्या भवन्ति इति वचनात्—श्रुतिप्रमाणात् । श्रुतिवचनात् सम्पादितेन व्रात्यस्तोमेन संस्कारयोग्यता सम्पाद्यते इति भावः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे पञ्चमी कण्डिका ॥
—४०४ —
( १०० )
वेदं समाप्य स्नायात् । १
वेदं—मन्त्रब्राह्मणात्मकं, समाप्य—सम्यक् पाठतः अर्थतश्च अन्तं नीत्वा, स्नायात्—समावर्त्तनसंस्कारकर्माङ्गस्नानं कुर्यात् वक्ष्यमाण-विधिना ।
ब्रह्मचर्यं वाष्टाचत्वारिंशं शकं निर्वर्त्त्य । २
पक्षान्तरमाह—वा—अथवा, ब्रह्मचर्यं—ब्रह्मचारिव्रतम् अष्टचत्वा-रिंशद्वर्षाणि, निर्वर्त्त्य—समाप्य स्नायादिति शेषः ।
द्वादशकेऽप्येके । ३
पुनः पक्षान्तरमाह—एके—एके आचार्याः, द्वादशके—द्वादशवर्षं समाप्ये अपि व्रते चरिते स्नायादिति मन्यन्ते ।
गुरुणानुज्ञातः । ४
गुरुणा—आचार्येण, अनुज्ञातः—अनुमतः । उक्तेषु सर्वेषु पक्षेषु गुरोरनुमतिः कर्माङ्गत्वेनापेक्ष्यते ।
विधिर्विधेयस्तर्कश्च वेदः । ५
वेदं समाप्य स्नायादित्युक्तं, तत्र कियान् वेद इत्यपेक्षायामाह—विधिः—विधीयते इति विधिः "अग्निमादधीत, "अग्निहोत्रं जुहुयात्" इत्यादि विधायकं ब्राह्मणवाक्यम् । विधेयः—विधीयते—विनियुज्यते ब्राह्मणवाक्येन कर्माङ्गत्वेनेति विधयो मन्त्रः इषेत्वादिः । तर्कः—अर्थवादः । यथा "तेजो वै घृतम्" इति कर्काचार्याः । हरिहरगदाधरयो-रपीदमेव मतम् । तर्को मीमांसेति कल्पतरुः । कल्पसूत्रभाग इति भर्तृयज्ञः ।
षडङ्गमेके । ६
एके आचार्याः, षडङ्गं— षट् शिक्षाकल्पव्याकरणनिरुक्तज्योतिष-छन्दांसि अङ्गानि यस्य स षडङ्गः वेदः, तं समाप्य स्नायादित्याहुः ।
न कल्पमात्रे । ७
कल्पमात्रे—ग्रन्थमात्रे मन्त्रे ब्राह्मणे वा अधीते स्नानं न इच्छन्ति ।
कामं तु याज्ञिकस्य । ८
( १०१ )
याज्ञिकस्य—आध्वर्यवादियज्ञविद्याकुशलस्य कामम्— इच्छया स्नानम् इच्छन्ति । अतएवात्र पक्षत्रयमुपन्यस्तम् । तद् यथा—मन्त्रब्राह्मणात्मकं वेदमधीत्य अवबुध्य च स्नायादित्येकः पक्षः । साङ्गं वेदमधीत्य अवबुध्य च स्नायादित्यपरः पक्षः । ग्रन्थमात्रं यज्ञविद्यां चाभ्यस्य स्नायादिति तृतीयः पक्षः । तु शब्दः पक्षव्यावृत्तौ ॥
उपसंगृह्य गुरुँ समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तात् स्थित्वाऽष्टानामुदकुम्भानां- "ये अप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूखो मनोहा स्खलो विरूजस्तनूदूषुरिन्द्रियहा तान् विजहामि यो रोचनस्तमिहगृह्णामि" इत्येकस्मादपोगृहीत्वा तेनाभिषिञ्चते- "तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति । ६
गुरुम्—आचार्यम्, उपसंगृह्य—उपसंग्रहविधिना प्रणम्य समिधः— तिस्रः समिधः, आचार्यसम्पादितसमावर्त्तनाङ्गहोमाग्नौ अभ्याधाय— प्रक्षिप्य, परिश्रितस्य—सर्वत आच्छादितस्य अग्नेः, उत्तरतः —उत्तरस्यां दिशि, स्थापितानाम् अष्टानाम् उदकुम्भानां—जलकलशानां दक्षिणोत्तरायतानां पुरस्तात् प्राच्यां दिशि, प्रागग्रेषु— आस्तीर्णेषु कुशेषु, स्थित्वा—ऊर्ध्वोभूय "ये अप्स्वन्तरिति दक्षिणकुम्भात् अपः— जलं दक्षिणहस्तेन गृहीत्वा तेन-जलेन शिरः अभिषिञ्चते—अभ्युक्षति "तेन-मामभिषिञ्चामि इत्यादिना मन्त्रेण ।
मन्त्रार्थः ( प्रजापतिः अग्निः गायत्री आपः देवताः जलादाने )— ये गोह्यप्रभृतयः अष्टौ अग्नयः अप्सु अन्तः— जलमध्ये प्रविष्टाः तान् अमङ्गलकरान् अग्नीन् विजहामि— पृथक् करोमि । यः—अग्निः, रोचनः—मङ्गलसम्पादकः इह—अस्मिन् कर्मणि तम्—अग्निं गृह्णामि स्नानार्थमिति शेषः ।
तेनेति ( प्रजापतिः यजुः आपः अभिषेचने —तेन—उदकेन, माम्—
( १०२ )
आत्मानं श्रिये—सम्पत्तये, यशसे कीर्त्यै, ब्रह्मणे—वेदाय, ब्रह्मवर्चसाय च अभिषिञ्चामि।
येन श्रियमकृणुतां येनावमृशता ँ सुराम्।
येनाक्षावभ्यषिञ्चतां यद्वां तदश्विना यश इति
आपोहिष्ठेति च प्रत्यृचं त्रिभिस्तूष्णीमितरैः। १०
सर्वेभ्यः कुम्भेभ्यः जलग्रहणे 'ये अप्स्वन्त'रिति एक एव मन्त्रः। स्नाने तु विशेषः। "येनश्रिय"मिति द्वितीयकलशजलम्, अभिषिञ्चेत्। “आपोहिष्ठे”ति प्रत्यृचम्—'आपो हिष्ठे''ति तृतीयकलशजलं, "यो वः शिवतम" इति चतुर्थकलशजलं, "तस्मा अर"मिति पञ्चमकलशजलम् अभिषिञ्चेत्। ततः इतरैस्त्रिभिः कुम्भैस्तूष्णीम् अभिषेकः कार्यः।
मन्त्रार्थः—हे अश्विनौ येन जलेन भवन्तौ श्रियं—सम्पदम् अकृणुतां—कृतवन्तौ, येन च सुरां—सुराजनितदोषम् अवमृशतां—मार्जितवन्तौ, येन च अक्षौ उपमन्योरक्षिणी अभ्यषिञ्चताम्—अभिषिक्तवन्तौ, वां—युवयोः, यद्—यशः, तत् मम स्नानेन अस्तु इति भावः।
उदुत्तममिति मेखलामुन्मुच्य निधाय वासोन्यत् परिधायादित्यमुपतिष्ठते—
उद्यन् भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात् प्रातर्यावभिरस्था-
दृशसनिरसि दशसनिं मा कुर्वाविदन्मा गमय।
उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थाद्दिवा यावभिरस्था-
च्छतसनिरसि शतसनिं मा कुर्वाविदन्मा गमय।
उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायं यावभिरस्थात्
सहस्रसनिरसि सहस्रसनिं मा कुर्वाविदन्मा गमयेति। ११
उदुत्तममिति (१-२-८) मन्त्रेण मेखलां—कटिसूत्रम्, उन्मुच्य—शिरोमार्गेण निःसार्य, तां निधाय—भूमौ निक्षिप्य, अन्यत्—कार्पासादि वासः—वस्त्रं परिधाय—परिहितं कृत्वा, आदित्यं—सूर्यम् उपतिष्ठते—
( १०३ )
स्तौति, "उद्यन्भ्राजभृष्णु"रित्यादिना ।
मन्त्रार्थः (प्रजापतिः शक्वरी सविता उपस्थाने)—हे सूर्य ! उद्यन्—उद्गच्छन्, आजभृष्णुः—स्वप्रभया अन्यतेजउत्पादकः, इन्द्रः—ऐश्वर्य्य-शाली भवान्, प्रातः—प्रातःसवने यावभिः—गमनशीलैः ऋष्यादि-सप्तकगणैः, मरुद्भिः—देवैः सेवितः सन्, अस्थात्—तिष्ठति । यथा त्वं प्रातःसवने, दशसनिः—दशसंख्यकानां गवादीनां दाता, असि—भवसि, अतः मां यजमानमपि, दशसनिं—दशगुणदक्षिणादिदातारं कुरु । एवं दिवा—मध्यन्दिनसवने, सायं—सायंसवने च यथाक्रमं शतसनिं सहस्र-सनिं च मां कुरु । पुनश्च मां वेदयन्—ज्ञापयन् ज्ञानेन समृद्धं कुर्वन् प्रतिष्ठां गमय—प्रापय ।
दधि तिलान् वा प्राश्य जटालोमनखानि सँहृत्यौदुम्बरेण दन्तान् धावेत्— अन्नाद्याय व्यूहध्वँ सोमो राजाऽयमागमत् । स मे मुखं प्रमार्क्ष्यते यशसा च भगेन च ॥ १२
दधि, वा—अथवा तिलान्, प्राश्य—अशित्वा, जटालोमनखानि—जटाः—केशाः, च लोमानि—मुखलोमानि च नखानि च जटालोमनखानि तानि संहृत्य—वापयित्वा औदुम्बरेण—उदुम्बरवृक्षसम्बन्धिना दन्त-काष्ठेन दन्तान् धावेत् “अन्नाद्याय व्यूहध्वमिति मन्त्रेण ।
मन्त्रार्थः—हे दन्ताः, यूयम्, अन्नाद्याय—अन्नभोजनाय, व्यूहध्वं—सज्जीभवत । अयं—सुप्रसिद्धः राजा सोमः काष्ठरूपेण आगमत्—आगच्छत् । सः—सोमः, मे—मम, मुखं, प्रमार्क्ष्यते—शोधयिष्यति । केन इति प्रश्ने यशसा—कीर्त्त्या, भगेन—भाग्येन च शोधयिष्यति ।
उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिकयोर्मुखस्य चोपगृह्णीते— “प्राणापानौ मे तर्पय, चक्षुर्मे तर्पय, श्रोत्रं मे तर्पयेति । १३
उत्साद्य—सुगन्धिद्रव्येण शरीरमुद्वर्त्त्य, पुनः—पुनर्वारं स्नात्वा—