पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
( ८ )
मन्त्रार्थः— (गौत्तम ऋषिः गायत्रीछन्दः, गातुविदोदेवा देवताः आज्याहोमे विनियोगः) हे गातुविदः यज्ञवेत्तारः देवाः अग्नेः ! अग्नि-सम्बन्धि यत् वषट्कृतं—हुतं कर्मणा-विधिना अत्यरीरिचम्—अधिकं कृतवानस्मि तत् भवतां प्रसादात् अयासि—अव्याहतम् अस्तु । ततः ब्रह्मान्वारब्धः भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, त्वन्नोअग्ने, अयाश्चाग्ने, येतेशतम्, उदुत्तमं तथा प्रजापतये स्वाहा इति नवाहुतीः आज्येन जुहुयात् ।
बर्हिर्हुत्वाप्राश्नाति । १-२-१२
ततः बर्हिः—परिस्तरणकुशान् हुत्वा—वन्हौ प्रदीष्य हुतशेषं संस्रवं प्राश्नाति । अत्रहुतशेषप्राशनस्य कर्माङ्गत्वेन विहितत्वात् अकरणे कर्मवैगुण्यात् प्राशनं विधेयम् । तस्मात् अनेन प्राशनेन परवर्त्तिवैश्व-देवादिकर्मसु अधिकारहानिः न भवति । अयं बर्हिहोमः विधानवलात् अग्न्याधाने एव भवति नान्यत्र कर्मसु ।
ततो ब्राह्मणभोजनम् । १-२-१३
ततः—समाप्ते कर्मणि ब्राह्मणभोजनं—ब्राह्मणस्य ब्राह्मणयोः ब्राह्मणानां वा भोजनं यथाशक्ति दद्यात् । आरणेयपक्षे अरणि-निर्माणादि विधानं ग्रन्थान्तरादवलोकनीयम् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे द्वितीया-कण्डिका ॥
षडर्घ्या भवन्ति । १-३-१
षट्—आचार्यादयः षट्पुरुषाः, अर्घ्याः-अर्हार्हाः, मधुपर्कयोग्याः भवन्ति । ते के इत्यपेक्षायाम—
( ६ )
आचार्य्यमृत्विजंवैवाह्यो राजा प्रियः स्नातक इति । १-३-२
आचार्य्यः—उपनयनपूर्वकं वेदाध्यापकः । ऋत्विक्—श्रौतस्मार्त्त-कर्मसंपादनार्थं वृतो ब्रह्मादिः, वैवाह्यः वरः । राजा अभिषेकादि-गुणयुक्तः प्रजापालने अधिकृतः क्षत्रियः । प्रियः—सखा, स च उत्कृष्ट-जातिः समानजातिर्वा, स्नातकः-ब्रह्मचर्याश्रमात् समावृत्तः, स आचार्य्यस्य अर्घ्यो भवति नान्यस्य । तदुक्तं मनुना—
"तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥" ३-३
इति—एते षट् आर्घार्हा भवन्ति !
प्रतिसम्वत्सरानर्हयेयुः । १-३-३
प्रतिसंवत्सरान्—प्रतिसंवत्सरमागतान् एतान् आचार्यादीन् अर्हयेयुः-मधुपर्केण पूजयेयुः । न तु संवत्सरात् पूर्वमागतान् ।
यक्ष्यमाणास्त्वृत्विजः । १-३-४
तु - किन्तु, यक्ष्यमाणाः—यज्ञं करिष्यन्तः यजमानाः, ऋत्विजः याजकान् ब्रह्मप्रभृतीन् संवत्सरमध्येऽपि अर्हयेयुः.नात्रसंवत्सरनियमः संवत्सरात् परमपि यागं विना नैते अर्हणीयाः ।
अहणप्रकारो यथा—
आसनमाहार्याह— साधुभवानास्तामर्चयिष्यामो भवन्त-मिति । १-३-५
यजमानः केनचित् पुरुषेण, आसनं—वारणादिदारुममयीपीठादि आहार्य्य— आनाय्य, आह— वदति "साधुभवानास्तामर्चयिष्यामो भवन्तमिति" अस्यार्थः—भवान्—अर्च्यः, साधु—सुखम्, आस्ताम्—उपविशतु भवन्तम्-अर्चनीयं वयम्, अर्च्चायिष्यामः—पूजयिष्यामः अत्र बहुवचनं भार्यापुत्रादिसर्व—गृहजनापेक्षम् ।
( १० )
आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं दधि मधुघृतमपिहितं कांस्ये कांस्येन । १-३-६
आहरन्ति—आनयन्ति, यजमानपुरुषाः वक्ष्यमाणानि अर्हणोपकरणानि यथा—विष्टरं—पञ्चविंशतिदर्भतरुणमयं कूर्च्चम् । तल्लक्षणं यथा— पञ्चविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिता । विष्टरे सर्वयज्ञेषु लक्षणं परिकीर्त्तितम् ॥ इति
पद्यं—पद्भ्याम् आक्रमणीयं द्वितीयं विष्टरम् । पादार्थं—पादप्रक्षालनार्थं ताम्रादिपात्रस्थम्, उदकं — जलम् । अर्घ—गन्धपुष्पाक्षतकुशतिलशुक्लसर्षप—दधिदूर्वान्वितं सुवर्णादिपात्रस्थम् उदकम् । आचमनीयम्—आचमनार्थं कमण्डलुसंभृतं जलम् । कांस्ये—कांस्यपात्रे वर्त्तमानं कांस्येन—कांस्यपात्रेण अपिहितम् आच्छादितं मधुपर्कं—दधिमधुघृतम् ।
अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि । १-३-७
अन्यः—अर्च्चकात् यजमानात् अपरः कश्चिद् यजमानपक्षः, विष्टरादीनि—उपकरणानि प्रत्येकं, विष्टरो विष्टरो विष्टर इति प्रकारेण त्रिस्त्रिः—त्रीन् त्रीन्वारन्—विष्टरादीन्—अर्च्चनोपकरणभूतान्, प्राह—ब्रूयात् ।
विष्टरं प्रतिगृह्णाति । १-३-८
केनचिद् यजमानपक्षेण विष्टरो विष्टरो विष्टर इति त्रिरुक्ते यजमानदत्तं विष्टरं प्रतिगृह्णाति—स्वीकरोति अर्च्च्यः प्राङ्मुखस्तिष्ठन् ।
वर्षोऽस्मि समानाना-मुद्यतामिव सूर्य्यः । इमं तमधितिष्ठामि यो मा कश्चाभिदासति, इत्येनमभ्युपविशति । १-३-६
अनेन—वर्षोऽस्मीति मन्त्रेण अर्थात् इमं मन्त्रं पठित्वा अभ्युपविशति—एवं विष्टरम् उत्तराग्रम् । आसने निधाय तत्र उपविशति ।
( ११ )
मन्त्रार्थः ( आथर्वणऋषिः अनुष्टुप्छन्दः विष्टरो देवता उपवेशने विनियोगः ) अहं यजमानः समानानां — समानजातीयानां मध्ये उद्यताम् — उदयशीलानां ग्रहनक्षत्रादीनां मध्ये सूर्य्य इव वर्ष्मः — पोषकः अस्मि — भवामि । यः कश्च कश्चन मा-मां यजमानम् अभिदासति — हिनस्ति तं पुरुषम् । उद्दिश्य अथवा तत् सदृशमिमं विष्टरम् 'अभितिष्ठामि'—अभिक्रम्य तिष्ठामि तदुपरि तिष्ठामीतिभावः ।
पादयोरन्यं विष्टर आसीनाय । १-३-१०
विष्टरे — विष्टरोपरि यथाशास्त्रम् आसीनाय — उपविष्टाय यजमानाय अन्यं द्वितीयं विष्टरं पादयोः प्रयच्छति तद्वत् ।
सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति । १-३-११
ततः अन्येन पाद्यं पाद्यं पाद्याद्यम् इति त्रिः उक्ते यजमानेन दत्तं पाद्यं गृहीत्वा प्रथमं सव्यं वामं पादं प्रक्षाल्य ततः दक्षिणपादं प्रक्षालयति क्षत्रियादिवरः ।
ब्राह्मणश्चेद्दक्षिणं प्रथमम् । १-३-१२
ब्राह्मणश्चेत् अर्घ्यस्तर्हि दक्षिणं पादं प्रथमं प्रक्षालयेत् ततो वाममिति क्रमः । प्रक्षालने “विराजो दोहोसि” इति मन्त्र आवर्तनीयः ।
विराजोदोहोऽसि विराजोदोहमशीय
मयिपद्यायै विराजो दोह इति । १-३-१३
( प्रजापति , यजुः, आपः, पादयोः जलप्रक्षेपे )
हे जल ! त्वं विराज.—विशेषेण राजते विराट् अन्नं, तस्य दोहः—परिणामसारः रसः असि । अहं तं विराजः दोहं—मन्त्रसंस्कृतं रसम् अशीय—व्याप्नुयाम् मयि—मद् विषये सः दोहः पाद्यायै—पादयोः साध्वी सपर्या—पूजा पाद्या तस्यै भवेति ।
( १२ )
अर्घं प्रतिगृह्णाति आपः स्थ युष्माभिः सर्वान् कामान-
वाप्नवानि इति । १-३-१४
ततः पुरुषान्तरेण वारत्रयमुक्तं यजमानप्रदत्तम् अर्घ्यं प्रतिगृह्णाति अर्च्य आपः स्थ इति मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः यजुः, आपः, आदाने)—हे आप ! यू आपः—आप्तिहेतवः स्थ-भवथ । युष्माभिः—अद्भिः सर्वान् कामान्-अभीष्टार्थान्, आवाप्नवानि लभेयम् अहमिति शेषः ।
निनयन्नभिमन्त्रयते “समुद्रं व प्रहिणोमि स्वां योनिमभि-
गच्छत् । अरिष्टा अस्माकं वीरा मा पराचि सत् पय इति ।
१-३-१५
ततः यजमानदत्तं जलं निनयन्—भूमौ प्रवाहयन् अभिमन्त्रयते मन्त्रं पठति समुद्रं व इति मन्त्रार्थः (आथर्वणः अनुष्टुप्, आपः अघप्रतिक्षेपे) हे आपः वः—युष्मान् समुद्रम्—उत्पत्तिस्थान—प्रहिणोमि-प्रेषयामि । यूयं स्वां योनि--स्वकारणभूतं समुद्रम् अभिगच्छत-अभिलक्ष्य गच्छत । अस्माकं वीराः—पुत्राः अन्ये च अरिष्टाः—अनुपहताः सन्तु । मत्—मत्सकाशात् एवम्भूतम् अर्घादिरूपं जलं मा परासेचि—अपगतं न भवतु इति ।
आचामत्यामागन् यशसा संसृज वर्चसा ।
तं मा कुरुप्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् ॥
१-३-१६
ततः अन्येन उच्चैस्त्रिवारमुक्तं यजमानेन दत्तम् आचमनीयं प्रतिगृह्य अर्च्यः सकृत्—एकवारम्, आचामति—प्राश्नाति, आमागन् इति मन्त्रेण ।
( १३ )
मन्त्रार्थः—(परमेष्ठी, बृहती, वरुणः, आचमने) हे वरुण ! मा-मां यजमानं, यशसा आगन्-संयोजय । तथा वर्चसा—तेजसा, संसृज—संयुक्तं कुरु । पुनश्च तं—त्वद्भक्तं मा—मां प्रजानां—पुत्रपौत्रादीनां प्रियं कुरु, पशूनां-गवाश्वादीनाम्, अधिपतिं कुरु, तथा तनूनां—देहावयवानाम्, अरिष्टि—नीरोगतां कुरु ।
मित्रस्य त्वा इति मधुपर्कं प्रतीक्षते । १-३-१७
ततः अन्यपुरुषेण त्रिवारमुक्तं यजमानहस्तगतं मधुपर्कम् अर्च्चनीयः प्रतीक्षते—पश्यति, मित्रस्येति मन्त्रेण । संपूर्णमन्त्रः—"मित्रस्य त्वा चक्षुषा प्रतीक्षे"।
देवस्य त्वेति प्रतिगृह्णाति । १-३-१८
ततः यजमानदत्तं मधुपर्कं प्रतिगृह्णाति अर्च्चनीयः—देवस्यत्वेतिमन्त्रेण । मन्त्रो-यथा—"देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि", इति प्रतिगृह्णाति ।
सव्ये पाणौ कृत्वा दक्षिणस्यानामिकया त्रिः प्रयौति "नमः श्यावास्वायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि इति १-३-१९
मधुपर्कं सव्ये पाणौ—वामहस्ते, कृत्वा दक्षिणस्य—दक्षिणहस्तस्य अनामिकया उपकनिष्ठिकया अङ्गुल्या, त्रिः—त्रिवारं, प्रयौति—आलोडयति नमः श्यावेतिमन्त्रेण ।
मन्त्रार्थः—(प्रजापतिः, यजुः, सविता, निरुक्षणे)—हे अग्ने ! श्यावास्वाय — कपिशमुखाय ते तव अन्नशने — अन्नाशने अदनीये मधुपर्के यत् अनुपयोगि द्रव्यम्, आविद्धं - संश्लिष्टं, तत् ते—तुभ्यं त्वदर्थं, निष्कृन्तामि—अपनयामि ।
( १४ )
अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति । १-३-२०
ततः अर्च्यः मधुपर्कम् अनामिकाङ्गुष्ठेन—अनामिका च अङ्गुष्ठश्च अनामिकाङ्गुष्ठौ, तयोः समाहारः अनामिकाङगुष्ठं, तेन त्रिः—त्रिवारं, निरुक्षयति—पात्राद् बहिः निःसारयति ।
तस्य त्रिः प्राश्नाति “यन्मधुनो मधव्यं परमꣳरूपमन्नाद्यम् तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोसानीति । १-३-२१
ततः तस्य— मधुपर्कस्य एकदेशम् आदाय त्रिः—त्रिवारं प्राश्नाति—भक्षयति यन्मधुन इति मन्त्रेण ।
मन्त्रार्थः ( कुत्सो जगती, मधुपर्कः प्राशने )—हे देवाः ! मधुनः यत् परमं—श्रेष्ठं, मधव्यं-स्वादु, यच्च परमं रूपं, यच्च अन्नाद्यं-समुचितभोज्यम् अन्नं वा, तेन सर्वरूपेण मधुनः मधव्येन—मधुनः उत्कृष्टरसेन, परमेण—उत्कृष्टरूपेण अन्नाद्येन च परमः उत्कृष्टः मधव्यः—मधुपर्काईः, अन्नादः—सदन्नभोक्ता, असानि—भवानि ।
मधुमतीभिर्वा प्रत्यृचम् । १-३-२२
अथवा मधुमतीभिः—मधुवाताऋतायतइत्यादिभिः तिसृभिः ऋग्भिः प्रत्यृचं सकृत् सकृत् प्राश्नाति । मन्त्रा यथा—
(१) मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः । शु. य. १३/२७
(२) मधुनक्तमुतोषसो मधुमत् पार्थिवꣳरजः । मधुद्यौरस्तु नः पिता । शु. य. १३/२८
(३) मधुमान्नो वनस्पति र्मधुमाँ अस्तु सूर्य्यः । माध्वीर्गावो भवन्तु नः । शु. य. १३/२६
( १५ )
पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात् ।
१-३-२३
प्राशनानन्तरम् अर्च्चनीयस्य उत्तरतः — उत्तरस्यां दिशि, आसीनाय पुत्राय अन्तेवासिने—उपनयनप्रभृति-विद्यार्थित्वेन समीपे वर्त्तमानाय शिष्याय वा उच्छिष्टं—भोजनावशिष्टं मधुपर्कं दद्यात् ।
सर्वं वा प्राश्नीयात् । १-३-२४
प्राग् वासञ्चरे निनयेत् । १-३-२५
सर्वं-मधुपर्कं प्राश्नीयात् । अथवा प्राक् — प्राच्यां दिशि असञ्चरे—जनसंचारवर्जिते देशे, निनयेत्—प्रवाहयेत् ।
आचम्य प्राणान् संमृशति “वाङ् म आस्ये नसोः प्राणोऽक्षणो-श्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि-तनूस्तन्वा मे सहेति । १-३-२६
तत आचम्य — सकृत् आचमनं कृत्वा, प्राणान्—इन्द्रियाणि संमृशति—जलेन स्पृशति वाङ्म आस्य इत्यादि मन्त्रेण । वाङ्म आस्ये अस्तु इति जलसहितेन कराग्रेण मुखम् । नसोर्मे प्राणोऽस्तु इति तर्जन्यङ्गुष्ठाभ्यां युगपद् दक्षिणवामनासारन्ध्रे । अक्ष्णोर्मे चक्षुरस्तु इति मन्त्रावृत्त्या दक्षिणोत्तरकर्णौ । बाह्वोर्मे बलमस्तु इति मन्त्रावृत्त्या दक्षिणोत्तरौ बाहू । ऊर्वोर्मे ओजोऽस्तु इति युगपत् ऊरू । अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्तु इति शिरःप्रभृतीनि पादान्तानि सर्वाणि अङ्गानि उभाभ्यां हस्ताभ्याम् आलभते ।
आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह । १-३-२७
आचान्तोदकाय—आचान्तम् उदकं येन स आचान्तोदकः तस्मै अर्ध्याय । अत्र तादर्थ्ये चतुर्थी । शासं – खड्गम् आदाय-गृहीत्वा, स्वयं यजमानः गौ—गौ—गौ रिति त्रिः—त्रिवारं, प्राह—ब्रवीति ।
( १६ )
प्रत्याह—“माता रुद्राणां दुहिता वसूनां स्वसादित्याना- ममृतस्य नाभिः। प्रणुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ठ। मम चामुष्य च पाप्मानँ हतोतीति यद्यालभेत। १-३-
ततोऽर्ध्यः मातारुद्राणामिति मन्त्रं पठित्वा मम च अमुक- शर्मणः यजमानस्य च पाप्मानं हतोसि इति प्रत्याह=वदति, यदि गाम् आलभते—व्यापादयति।
मन्त्रार्थः (ब्रह्मा त्रिष्टुप् गौः अभिमन्त्रणे)—इयं गौः रुद्राणां माता, रुद्रास्त्वेकादश। तदाह हेमाद्रौ योगियाज्ञवल्क्यः— “अजैकपादहिर्बुध्नो विरूपाक्षोथ रैवतः हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः एते रुद्राः समाख्याता एकादश सुरोत्तमाः ॥ इति
पुनश्चेयं गौः वसूनाम्—अष्टविधानां दुहिता कन्या, वसवश्चोक्ता मिताक्षरायाम् (२-१०२) धरो ध्रुव-स्तथा, सोम आपश्चैवानिलोऽनल । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥
पुनश्च सा आदित्यानां द्वादशसंख्याकानां स्वसा—भगिनी। आदित्या- श्चोक्ता हेमाद्रौ योगियाज्ञवल्क्येन— इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोऽर्यमा । अत्रिर्विवस्वांस्त्वष्टा च सविता विष्णुरेव च । एते वै द्वादशादित्या देवानां प्रवरा मताः ॥ इति
तथाचेयं गौः अमृतस्य—क्षीरादेः नाभिः—उत्पत्तिस्थानम् चिकितुषे- चेतनावते जनाय, प्रवोचम्—अहं ब्रवीमि, त्वं इमाम्—अनागाम्— अनपराधाम्, अदितिं—देवमातरम् अवध्यां वा, गां मावधिष्ठ—तु मारय, नु इति अनुनये। “नुस्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः" इति विश्वः ।
अथ यद्युत्सिसृक्षेन् मम चामुष्य च पाप्मा हत ओं ँ उत्सृजत तृणान्यत्त्विति ब्रूयात् । १-३-२९
उत्सर्गपक्षे—यदि गाम् उत्सिसृक्षेत्—न हत्वा उत्स्रष्टुमिच्छेत् तदा मम च अमुष्य—अमुकशर्म्मणो यजमानस्य च पाप्मा—पापं हतः—विनष्ट एव, ॐ उत्सृजत तृणान्यत्तु" इति ब्रूयात् । अत्र ॐ इत्यन्तम् उपांशु पठित्वा उत्सृजत तृणान्यत्तु इति उच्चैः ब्रूयात्—वदेत् ।
न त्वेवामां ँसोऽर्घः स्यात् । १-३-३०
मधुपर्के पक्षद्वयमुपन्यस्य गवालम्भनपक्षं द्रढयति । तु—किन्तु सत्यपि पक्षद्वये अर्घः—अर्चना अमांसः मांसवर्जितः पश्वालम्भरहितः न स्यात्—न भवेत् ।
आधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयान् । १-३-३१
अधियज्ञं—यज्ञमधिकृत्य यज्ञ इत्यर्थः । तथा अधिविवाहं—विवाहे कन्यादानकर्मणि, कुरुत—गवालम्भं कुरुत इति ब्रूयात्—वदेत् एव—निश्चयार्थे । अत्र कुरुत इति पदं प्रसिद्ध्या गवालम्भं कुरुत इति अर्थं प्रकाशयति गृह्यसूत्रान्तरेषु तथा प्रयोगात् ।
यद्यप्येवं मधुपर्के गवालम्भ आचाय्र्येण समर्थितः तथापि अस्वर्ग्यत्वात् लोकविद्विष्टत्वाच्च न विधेयः । "अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्नतु" १-१५६ इति याज्ञवल्क्येन निषिद्धत्वात् । शास्त्रान्तरेष्वपि गवालम्भः कलौ निषिद्धः ।
"अश्वालम्भं गवालम्भं संन्यासं पलपैतृकम् ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति ॥
यद्यप्यसकृत् सम्वत्सरस्य सोमेन यजेत कृताघ्र्या एवैनं याजयेयुर्नाकृताघ्र्या इति श्रुतेः । १-३-३२
यदि कश्चित्, सम्वत्सरस्य—सम्वत्सरस्य मध्ये, असकृत्—पुनः पुनः, सोमेन—ज्योतिष्टोमादिना यजेत, तदा ऋत्विजः एनं—
( १८ )
यजमानं कृतार्घ्याः—कृतः अर्घः येषां ते एव याजयेयुः,। कारणं चात्र निर्दिशति “नाकृताध्यांः इति श्रुतेः” अकृतार्घ्याः ऋत्विजः न याजयेयुरिति श्रुतिवचनात् ! एतेन सोमयागे एव ऋत्विजः अर्ध्याः न यागान्तरे इति ज्ञायते ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे तृतीयाकण्डिका ।।
चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति । १-४-१
पच्यते श्रप्यते ओदनादिकम् अनेनेति पाकः गृह्याग्निः । अस्मिन् पाके यज्ञाः पाकयज्ञाः । ते च चत्वारः—चतुष्प्रकारा भवन्ति । यथा—हुतः—होममात्रं, यथा सायं प्रातर्होमः । अहुतः—होमबलिरहितं कर्म यथा स्त्रस्तराारोहणम् । प्रहुतः—यत्र होमः बलिकर्म भक्षणं च यथा पक्षादिकर्म । प्राशितः—यत्र प्राशनमात्रं न होमः न वलिः, यथा ब्राह्मणभोजनम् । (सर्वासां गवां पयसि पायसश्रपणानन्तरं ब्राह्मणभोजनम् ।)
पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयने । १-४-२
पञ्चसु—पञ्चसु संस्कारकर्मसु, बहिःशालायां—मण्डपे कर्म भवति । केषु पञ्चसु इति प्रश्ने—विवाहे—परिणयने, चूडाकरणे—क्षौरकर्मणि, उपनयने—मेखलाबन्धे, केशान्ते—गोदानकर्मणि सीमन्तोन्नयने गर्भसंस्कारे । एषु पञ्चसु वहिःशालायां कर्म भवति । अन्यत्र गृहाभ्यन्तरे एव ।
उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय । १-४-३
उपलिप्ते—गोमयोदकेन उपलिप्ते, उद्धतावोक्षिते—उद्धतश्च अवोक्षितश्च उद्धतावोक्षितः तस्मिन् उद्धते— स्फ्येन उल्लिखिते,
( १६ )
अवोक्षिते—उदकेन अभ्युक्षिते अर्थात् पञ्चभूसंस्कारसंस्कृते । यतः पञ्चभूसंस्कारविधेरयमनुवादः । नापूर्वविधिः । एवम्भूते प्रदेशे अग्निमुपसमाधाय—संस्थाप्य ।
निर्मन्ध्यमेके विवाहे । १-४-४
एके—एके आचार्याः विवाहे—विवाहसंस्कारे, निर्मन्ध्यम् आरणेयम् अग्निम् इच्छन्ति । नैतन्मतं पारस्कराचार्यस्य एके इति निर्देशात् ।
उदगयने आपूर्यमाणपक्षे पुण्याहे । १-४-५
उदगयने—उत्तरायणे, आपूर्यमाणपक्षे—शुक्लपक्षे पुण्याहे—ज्योतिःशास्त्रोक्तविष्ट्यादिदोषरहिते दिवसे ॥
कुमार्याः पाणिं गृह्णीयात् । १-४-६
कुमार्याः—अनन्यपूर्विकायाः वाचा मन्त्रेण वा न दत्तायाः कन्यायाः, पाणि—हस्तं, गृह्णीयात् स्वगृह्योक्तविधिना । अनेन विशति-प्रसूतायाः स्मृत्यन्तरविहितस्य पुनर्विवाहस्य न नियमः ।
त्रिषु त्रिषूत्तरादिषु । १-४-७
नक्षत्रनियममाह—उत्तरा आदि येषां तानि उत्तरादीनि, तेषु त्रिषु त्रिषु—उत्तराफाल्गुनीहस्ताचित्रा इति त्रीणि उत्तराषाढाश्रवणधनिष्ठा इति त्रीणि तथा उत्तराभाद्रपदारेवत्यश्विन्य इति त्रीणि इति एतेषु नवसु नक्षत्रेषु विवाहकर्म भवेत् ।
स्वातौ मृगशिरसि रोहिण्यां वा । १-४-८
एतेषां नक्षत्राणामन्यतमे विवाहं कुर्यादिति भावः ।
तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण । १-४-९
ब्राह्मणस्य—द्विजाग्र्यस्य, वर्णानुपूर्व्येण—वर्णक्रमेण तिस्रः—ब्राह्मणी क्षत्रिया वैश्या चेति तिस्रः विवाह्या भवन्ति ॥
( २० )
द्वे राजन्यस्य । १-४-१०
राजन्यस्य—क्षत्रियस्य द्वे—क्षत्रियावैश्ये विवाह्ये भवतः ।
एका वैश्यस्य । १-४-११
वैश्यस्य—तृतीयवर्णस्य एका—वैश्यैव विवाह्या भवति । वर्णानुपूर्व्या ग्रहणात् व्युत्क्रमो निषिद्धः ।
सर्वेषां शूद्रामप्येके मन्त्रवर्जम् । १-४-१२
एके आचार्याः सर्वेषां—ब्राह्मणादीनां शूद्रामपि, मन्त्रवर्जं मन्त्ररहिततया विवाह्यां मन्यन्ते । शूद्रापरिणयनं भोगार्थं न तु धर्मार्थं प्रजार्थं वेति हरिहरः । रामा रमणायोपेयन्ते न धर्माय कृष्णजातीया इति निरुक्तकारयास्काचार्यवचनात् ।
अथैनां वासः परिधापयति—जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रयिं च पुत्राननु संव्ययस्वायुष्मतीदंपरिधत्स्व वासः । १-४-१३
अथ—अग्निस्थापनानन्तरं वरः एनां विवाह्यां कन्यां वासः अहतं सदृशं वस्त्रं परिधापयति—परिहितं कारयति । वरः जरां गच्छेति मन्त्रं पठति, कन्या स्वयं परिधत्ते इति हरिहरः । पाकयज्ञेषु स्वयं यजमान एव कर्त्ता, न ऋत्विक् नान्यश्च प्रतिनिधिरिति स एव ।
मन्त्रार्थः (प्रजापतिः त्रिष्टुप् तन्तुदेव्यः परिधापने) हे आयुष्मति कन्ये ! त्वं जरां गच्छ—मया सह वृद्धावस्थां यावत् जीव । वासः—वस्त्रं, परिधत्स्व परिधेहि । आकृष्टीनाम्—इत्यत्र प्रथमार्ये षष्ठी । तेन आकृष्टी— मनोहारिणी भव । अभिशस्तिपावा— अभिशस्तिः शयनं तत्र पावा—पवित्रा भव, शरदः शतं—वर्षाणि च जीव—जीविता भव । सुवर्चाः — शोभनकान्तियुक्ता, सती रयिं — धनं, पुत्रान्— तनयान् च अनुसंव्ययस्व—धारयस्व । इदं वासः परिधत्स्व ।
( २१ )
अथोत्तरीयम्—"या अकृन्तन्नवयन् या अतन्वत । याश्च-
देवीस्तन्तूनभितो ततन्थ, तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं
परिधत्स्ववास इति । १-४-१४
अथ—अनन्तरं, पूर्ववत् उत्तरीयम् परिधापयति वरः या अकृन्त-
न्निति मन्त्रेण ।
मन्त्रार्थः ( प्रजापतिः गायत्री विधात्र्यः वस्त्रधारणे )—हे
कन्यके ! याः देवीः—देव्यः, अत्र प्रथमाथे द्वितीया । तन्तून्—सूत्रतन्तून्
अकृन्तन्—कर्त्तितवत्यः याः—अवयन्—वयनं कृतवत्यः या अतन्वत—
विस्तारितवत्यः याश्च तन्तून्—पूर्वोक्ततन्तून्, अभितः—ओतप्रोतभावेन
ततन्थ—तेनुः ताः देवीः—देव्यः त्वा—त्वां जरसे—निर्दुष्टचिरजीवनाय
संव्ययस्व — परिधापयन्तु । हे आयुष्मति ! इदं वासः — वस्त्रं
परिधत्स्व—उत्तरीयरूपेण परिधेहि ।
अथैनौ समञ्जयति—समञ्जन्तु विश्वेदेवाः समापो हृदयानि
नौ । सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नौ इति । १-४-१५
अथ—वस्त्रपरिधानान्तरं कन्यापिता एनौ—वधूवरौ “परस्परं
समञ्जेथाम्” इति प्रैषेण समञ्जयति—सम्मुखीकरोति । तत्र वरः
कन्यायाः सम्मुखीभूतः समञ्जन्तु विश्वेदेवा” इत्यादिमन्त्रं पठति ।
मन्त्रार्थः (आथर्वणः अनुष्टुप् लिङ्गोक्ता मैत्रीकरणे)—हे कन्ये !
नौ—आवयोः, हृदयानि—मनांसि विश्वेदेवाः आपश्च समञ्जन्तु —
परस्परमनुकूलानि कुर्वन्तु । मातरिश्वा—पवनः, धाता — प्रजापतिः,
उदेष्ट्रीदेवता—कामश्च आवयोः हृदयानि सन्दधातु—संयोजयतु ।
अत्र वरकन्योभयवर्गस्य स्वजनानुकूल्यापेक्षया हृदयशब्दस्य बहुवचनम् ।
समञ्जनानन्तरं कन्यादानम् ।
( २२ )
कन्यादानविधिः यथा—
वरगोत्रं समुच्चार्य्य प्रपितामहपूर्वकम् ।
नाम संकीर्त्तयेद् विद्वान् कन्यायाश्चैवमेव हि ॥
यथा— अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः प्रपौत्राय अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः पौत्राय अमुकसगोत्रस्यामुकप्रवरस्यामुक शर्म्मणः पुत्राय इति वरपक्षे ततः अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः प्रपौत्रीं अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः पौत्रीम् अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः पुत्रीम् इति वारत्रयमुच्चार्य्य अमुकसगोत्राय अमुकप्रवराय अमुकशर्म्मणे ब्राह्मणाय अथवा अमुकवर्मणे, अमुकगुप्ताय इति विशेषः, अमुकसगोत्राम् अमुकप्रवराम् अमुकनाम्नीमिमां कन्यां प्रजापतिदेवतां यथाशक्त्यलंकृतां पुराणोक्तकन्यादानफलकामो भार्यात्वेन तुभ्यमहं सम्प्रददे इति सकुशल जलेन कन्याहस्तं वरहस्ते दद्यात् । वरश्च 'द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णातु' इति मन्त्रेण प्रतिगृह्णीयात् । ततः “कोदात्” इत्यादिकामस्तुति पठेत् ।
पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामति—यदेषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो वैकर्णः स त्वा मन्मनसां करोत्वित्यसौ इति । १-४-१६
उक्तेन विधिना पित्रा—कन्यापित्रा कन्यादानाधिकारिणा प्रत्तां भार्यात्वेन प्रदत्तां कन्याम् आदाय—स्वीकृत्य गृहीत्वा—हस्तावच्छेदे धृत्वा अग्निसमीपं निष्क्रामति वरः "यदेषि" इत्यादि मन्त्रेण ।
मन्त्रार्थः (आथर्वणः अनुष्टुप् पवमानः निष्क्रमणे)— हे कन्ये ! त्वं यत् मनसा पवमानः—पवनः, वा-इव दिशः—अनु—अनुलक्ष्यीकृत्य दूरं—दूरदेशम् एषि—गच्छसि, ततः दूरदेशगमनव्यापारात् पवमानः, स—हिरण्यपर्णः—सुवर्णपक्षः, वैकर्णः—विकर्णपुत्रः गरुडः त्वा—त्वां कन्यां मन्मनसां मद्गतचित्तां करोतु । अथवा वाशब्दः समुच्चयार्थः । तेन पवमानः गरुडश्चत्वा मन्मनसं करोतु इति ।
( २३ )
अथैनौ समीक्षयति—
१) “अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
वीरसूर्देवकामा स्योना शन्नोभव द्विपदे शं चतुष्पदे ॥
२) सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥
३) सोमोऽददद् गन्धर्वाय गन्धर्वोऽदददग्नये ।
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥
४) सा नः पूषा शिवतमा मैरय सा न ऊरू उशती विहर ।
यस्यामुशन्तः प्रहराम शेपँ यस्या मुकामा बहवो निविष्ट्या ॥
इति १-४-१७
अथ—निष्क्रमणानन्तरं “परस्परं समीक्षेथाम्” इति प्रैषेण कन्यापिता एनौ—वधूवरौ समीक्षयति—समीक्षणं कारयति । तत्र समीक्षमाणो वरः “अघोरचक्षु”रित्यादिमन्त्रचतुष्टयं पठति ।
**मन्त्रार्थः (प्रजापतिः त्रिष्टुप्, कुमारी समीक्षणे)—**हे कन्ये ! त्वम् अघोरचक्षुः— न घोरे चक्षुषी यस्याः सा तथाविधा एधि—भव, । तथा अपतिघ्नी—न पतिघ्नी भव पुनश्च पशुभ्यः—गोमहिषादिगृहपालितपशुभ्यः शिवा—कल्याणकारिणी सुमनाः—शोभनं मनः यस्याः सा, शोभनमनस्का, सुवर्चाः—सु—शोभनं वर्चः कान्तिः यस्याः सा सुकान्तिरित्यर्थः, वीरसूः—वीरं पुत्रं प्रसूते इति वीरसूः—पुत्रवती, देवकामा—देवभक्ता स्योना—सुखिनो, पुनरपि नः—अस्माकं द्विपदे—मनुष्यवर्गाय, चतुष्पदे—पशुवर्गाय शं—सुखहेतु र्भव ।
(२) (प्रजापतिः अनुष्टुप्, कुमारी समीक्षणे) हे कन्ये ! त्वां—कन्यां सोमः—चन्द्रः, प्रथमः—आद्यः प्रथमपतित्वेनेत्यर्थः विविदे—लब्धवान् । ततः उत्तरः—परवर्त्ती गन्धर्वः,—देवताविशेषः विविदे,—लब्धवान् । ततः अग्निः प्रसिद्धः, स च तृतीयः पतिः त्वां विविदे, मनुष्यजाः—मनुष्यकुले जातः अहं तव चतुर्थः पतिः अस्मि ।
( २४ )
(३) (प्रजापतिः त्रिष्टुप् कुमारी समीक्षणे)—हे कन्ये ! सोमः-तव प्रथमपतिः त्वां गन्धर्वाय अददत्—अददात्, गन्धर्वश्च अग्नये-तृतीयवराय अददत्—दत्तवान् । अथो—अनन्तरम् अग्निः मह्यं-चतुर्थवराय इमां—कन्यां त्वां, न केवलं त्वाम् अपितु रयिं—धनं पुत्रांश्च अदात्—दत्तवान् ।
(४) (प्रजापतिः त्रिष्टुप् कुमारी समीक्षणे) हे कन्ये ! सा-सर्वलोकप्रसिद्धा पूषा शिवतमां—कल्याणगुणसंपन्नां त्वां, मां प्रति ऐरय—प्रेरयतु । सा त्वम् च उशती—कामयमाना, नः—अस्मान् प्रति ऊरू—ऊरुद्वयं विहर प्रसारय । उशन्तः—कामयमाना वयं यस्यां शेप॑—जननेन्द्रियं प्रहराम । यस्यां—त्वयि च बहवः कामाः—अभिलाषाः धर्मपुत्ररतिसुखरूपाः, निविष्टैच—निवेशिताः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे चतुर्थी कण्डिका ।
प्रदक्षिणमग्निं पर्याणीयैके । १-५-१
एके—एके आचार्याः परि—परितः प्रदक्षिणं यथा—स्यात्तथा आनीय, अर्थात् अग्नेः प्रदक्षिणं कारयित्वा वासः—परिधानं समञ्जनं समीक्षणं च मन्यन्ते । एके न मन्यन्ते । अतो विकल्पः ।
पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रवृत्त्योपविशति १-५-२
समीक्षणानन्तरं वरः अग्निं प्रदक्षिणीकृत्य, अग्नेः पश्चात्—पश्चिमभागे तेजनीं—तृणपूलिकां, कटं—तृणमयं संस्तरं वा दक्षिणपादेन प्रवृत्त्य—आक्रम्य उपविशति प्राङ्मुखः सन् सवधूकः, उभयोर्वरकन्ययोः संस्कार्यत्वात् ।
( २५ )
अन्वारब्ध आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यं स्विष्टकृच्च ॥ १-५-३ ॥
ततः होमारम्भे अन्वारब्धे — वरस्य दक्षिणहस्ते ब्रह्मणा कुशेन स्पृष्टे, वरः आधारौ आज्यभागौ च तान् पूर्वोक्तान् तथा महाव्याहृतयः भूर्भुवःस्वरितित्रिभिर्महाव्याहृतिभिराहुतित्रयम् तथा सर्वप्रायश्चित्तं "त्वं नो अग्ने, स त्वं नो अग्ने, अयाश्चाग्ने, ये ते शतम्, उदुत्तममिति पञ्चभिर्मन्त्रैः सर्वप्रायश्चित्तसंज्ञकाः पञ्चाहुतयः तथा प्राजापत्यं— प्रजापतये स्वाहा इति प्रजापतिदेवताको होमः, स्विष्टकृत् — स्विष्ट-कृद्धोमश्चेत्येतान् सर्वान् जुहुयात् ॥
एतन्नित्यं सर्वत्र ॥ १-५-४ ॥
एतत् — आधारादि, स्विष्टकृदन्तं होमकर्म, सर्वत्र — सर्वेषु होमेषु नित्यम् । यत्र होमाभावः यथा स्रस्तरारोहणलाङ्गल्योजन-पायसब्राह्मणभोजनानि तत्रे नास्ति ।
अन्ते विहितस्य स्विष्टकृद्धोमस्य कर्मविशेषे स्थानान्तरमाह—
प्राङ् महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः ॥ १-५-५ ॥
महाव्याहृतिभ्यः — भूरादिमहाव्याहृतिहोमेभ्यः प्राक् — पूर्वं स्विष्टकृत् — स्विष्टकृद्यागः, चेद् — यदि आज्यात् — घृतात् अन्यच्चरु-प्रभृति हविः — हवनीयं भवति । केवलाज्ययागे सर्वाहुतिशेषे स्विष्टकृद्धोमः, अन्यत्र महाव्याहृतिहोमात् पूर्वमिति सारः ।
सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदावापस्थानं विकल्पे ॥ १-५-६ ॥
सर्वप्रायश्चित्तं — पूर्वोक्तं "त्वं नो अग्ने इत्यादिभिः पञ्चभिर्मन्त्रै-राहुतिपञ्चकम् । प्राजापत्यं— प्रजापतये स्वाहेति प्रजापतिविहित...
( २६ )
सर्वप्रायश्चित्तं च प्राजापत्यश्च सर्वप्रायश्चित्तप्राजापत्यौ । तयो अन्तरं—मध्यं सर्वप्रायश्चित्तप्राजापत्यान्तरम् । एतत्—स्थानं विवाहे—विवाहहोमकर्मणि, आवापस्थानम्—अन्यत्र विहितस्य जयादिहोमस्य कर्मान्तरप्रक्षेपः आवापः । तस्य आवापस्य स्थानमिदमिति भावः । यद्यपि आवापस्य आगन्तुकत्वेन अन्ते निवेशो युक्तस्तथापि अत्र तथा न भवति ।
राष्ट्रभृत इच्छन् जयाभ्यातानांश्च जानन् । १-५-७
इच्छन्—राष्ट्रभृतादीनां होमफलं कामयमानः, राष्ट्रभृतः—राष्ट्रभृत्संज्ञका आहुतीः जयाभ्यातानान्—जयाश्च अभ्यातानाश्च जयाभ्यातानाः तान् जयाभ्यातानान् च आवपेत् । अत्र प्रमाणमाह—
जानन् येन कर्मणेत्सेदिति वचनात् । १-५-८
येन—क्रियमाणेन कर्मणा ऋद्धिमित्सेत्—इच्छेत् तत्र जयान् जुहुयात् इति वचनात् जयाहोमेन समृद्धिर्भवतीति जानन् जयाहोमं कुर्यादिति शेषः । जयाहोममन्त्रानाह—
चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्वरीश्च दर्शश्च पूर्णमासं च बृहच्च रथन्तरं च । प्रजापतिर्जयानन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाजयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इ हव्यो बभूव स्वाहा इति । १-५-६
चित्तं च चित्तिश्चेत्यादीनि रथन्तरपर्य्यन्तानि न देवतापदानि अपितु मन्त्राः । अतएव यथाम्नाता एव होमे प्रयुज्यन्ते । ये तु चतुर्थ्यन्तानां तेषां प्रयोगमिच्छन्ति तदसङ्गतम् ।
प्रजापतिरित्यादिमन्त्रस्य अर्थः (परमेष्ठी, त्रिष्टुप्, इन्द्रः जयाहोमे)—प्रजापतिः—परमेश्वरः, जयान्—जयन्ति शत्रून् इति जयाः
( २७ )
तान् मन्त्रान्, वृष्णे—अभिमतवर्षरणशीलाय इन्द्राय प्रायच्छत्—ददौ । ततः स पृतनाज्येषु—शत्रुसैन्यजयकर्मणि उग्रः—प्रचण्डः वभूव इति शेषः । तस्मै—इन्द्राय सर्वाः विशः—प्रजाः समनमन्त—सम्यक् नेमुः । स—इन्द्रः इ—च, हव्यः—हवनीयः इज्यः वभूव । स्वाहा—तस्मै सुहुतमस्तु । एते चित्तादित्रयोदशमन्त्राः जयासंज्ञकाः ।
अथ अभ्यातानसंज्ञकान् मन्त्रानाह—
अग्निर्भूतानामधिपतिः स माऽवत्विन्द्रो ज्येष्ठानां, यमः पृथिव्या, वायुरन्तरिक्षस्य, सूर्य्योदिवश्चन्द्रमा नक्षत्राणां, बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां, वरुणोऽपा ँ, समुद्रः स्रोत्याना-मन्नं साम्राज्यानामधिपति, तन्मावतु, सोम ओषधीना ँ, सविता प्रसवाना ँ, रुद्रः पशूनां, त्वष्टा रूपाणां, विष्णुः पर्वतानां,, मरुतो गणानामधिपतयस्ते माँवन्तु पितरः पितामहाः परेवरे तता-स्ततामहाः । इह मावन्त्वस्मिन् ब्रह्मरणमस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ँ स्वाहेति सर्व्वत्रानु-षजति । १-५-१०
अग्निर्भूतानामधिपतिरित्यादयः अष्टादश मन्त्रा अभ्यातान-संज्ञकाः । अग्निभूतानामित्यादि “सुगं नु पन्थामित्यन्ता द्वाविंशति-रभ्याताना इति कर्काचार्य्याः । अग्निभूतानामधिपतिरित्यादिषु अष्टादशसु मन्त्रेषु सर्वत्र समावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्याँ स्वाहा इति वाक्यैकदेशं यथालिङ्गं यथावचनम् अनुषजति—संयुनक्ति ।
मन्त्रार्थः—अग्निः भूतानां स्थावरादीनाम् अधिपतिः—ईशः, स मा—माम् अवतु—रक्षतु क्व ? अस्मिन् ब्रह्मणि—ब्रह्मकर्मणि होमादौ, अस्मिन् क्षत्रे—क्षत्रियकर्मणि प्रजापालनादौ, अस्याम् आशिषि-