भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०९ कामानवाप्य विविधान् कीर्तिमारोग्यमेव च । भुक्त्वा भोगांश्च कैलासे कल्पान्ते२ यावदीप्सितम् ॥ ३शार्वं पदमवाप्नोति शान्तं ध्रुवमनामयम् । कैलासः ॥ त्रिविष्टपमथ ब्रूमः प्रासादममरप्रिय१म् ॥ सेवितं यक्षगन्धर्वसिद्धविद्याधरादिभिः । चतुरश्रीकृते क्षेत्रे विंशत्यंशविभाजिते ॥ षड्भागविस्तृता शाला स्याच्चतुर्भागनिर्गमा । चतु४रंश(इश)५ती कोष्ठकानां द्वासप्तत्यधिका भवेत् ॥ आशात्रयस्थितैर्भद्रैः सार्धमेवं६ प्रजायते । कुर्याद् गर्भगृहाण्यष्टौ (दिक्षु७ष्वाखपि ?) तानि तु ॥ कोणे तु८ षोडशांशानि तन्मध्ये९ चतुरोऽशकान् (?) । भित्तिर्द्वादशभिर्भागैगर्भाणामिति निर्णयः ॥ चतुःषष्टिपदः कार्यो मध्ये प्रासादनायकः । पदैः षोडशभिस्तस्य मध्ये गर्भं प्रकल्पयेत् ॥ द्विभागविस्तृता भित्तिः कर्तव्या तस्य बाह्यतः । (च१०तुर्दिशतं भ्रमन्ती स्य?) ++पञ्चपदायता ॥ वलभीः कारयेत् तद्वद् द्वि(दिग्)११भागेषु चतुर्ष्वपि । प्रत्यङ्गं द्विपदं कर्णशालावल्लभिकान्तरे ॥ तच्च द्विपदमुद्दिष्टं जलमार्गे पदार्धिके । पदैर्द्वादशभिर्दिक्षु चतसृष्वपि मण्डपान् ॥ प्रासादस्य प्रकुर्वीत कर्मशोभाविभूषितान् । मूला(ल) प्रासादगर्भस्य कुर्याद् द्वारचतुष्टयम् ॥ विज्ञेये(यं) तच्च दिग्भद्रे१२ सूत्रमार्गानुसारतः । जलान्तराणि कुर्वीत प्रत्यङ्गे१३ पार्श्वयोरपि ॥ १ द. 'पिनं' । २ द. न्तं । ३ द. सार्वस्पदम° । ४ द. या । ५ द. शती को° । ६ द. व । ७ 'दिक्ष्वष्टास्वपि' इति स्यात् । ८ द. षु । ९ द. र्ध्यं । १० 'चतुर्दिशं भ्रमन्ती स्यात् तस्याः' इत्येवजातीयं पाठ्यं स्यात् । द. चतुर्दिशं भ्रं° । ११ द. वि । १२ द. द्र । १३ द. ङ्ग । वा. ५२

४१० समराङ्गणसूत्रधारे बाह्यभित्तिं तु कुर्वीत भागेनैकेन संमिताम् । एवं विभज्य कुर्वीत पुरतो मुखमण्डपम् ॥ ऊर्ध्वमानमथ(स्त्रिंशा¹ ?)तत्र पीठं चतुष्पदम् । मध्यप्रासादजङ्घा च तद्वदेव समुच्छ्रिता ॥ अतः पदैः स्याद् विस्ताराद् द्विगुणा शिखरोन्नतिः । तस्याश्च मध्ये कुर्वीत षोडशांशं तुलोदयम् ॥ तुलोदयस्य मध्ये द्वे वेदीबन्धं सपञ्चकम्² (?) । जङ्घा चाष्टपदा कार्या मध्ये³ चासनपट्टिका ॥ ⁴एषा त(मन्तर)पत्रं च कर्तव्यं त्रिपदोच्छ्रितम् । तुलोदयस्योपरिष्टात् प्रमाणमथ कथ्यते ॥ चतुष्पदेषु कर्णेषु कूटं पञ्चपदोदयम् । ग्रीवा पदस्य पादोन(ना)त्रिभिः पादैस्तथाण्डकम् ॥ चन्द्रिकाकलशोत्सेधं पादेनैकेन कल्पयेत् । प्रत्यङ्गे तिलकास्त्र्यंशा घण्टाकलशसंयुताः⁵ ॥ मध्ये तु वलभीशृङ्गमून्नतं⁶ सप्तभिः पदैः । ऊर्ध्वतस्तिलकानां स्यादुरोमञ्जरिका दश ॥ विस्तारेण पदान्यूर्ध्वं भवेद् द्वादशभागिका । स्कन्धं(पट्टादि ?)विस्तारो ग्रीवा पादोनभागिका ॥ अण्डकं सार्धभागेन चन्द्रिका भागमुच्छ्रिता । द्विपदः कलशोच्छ्रायस्तदूर्द(दू ?)बीजपूरकम् ॥ विस्तारो मूलमञ्जर्याः कार्यः षोडशभिः पदैः । उच्छ्रायः सप्तदशभिः स्कन्धो नवपदः स्मृतः ॥ कार्या सप्रलतोपेता प्रशस्ता मूलमञ्जरी । ग्रीवास्य भागिकीं भागद्वयमामलसारकम् ॥ १ द. त्रिंशस्तत्र । २ द. कं । ३ द. मध्ये वासंतपट्टिका । ४ द. मेक्षांतरपत्रं । ५ द. ता । ६ द. च्छि्र । ७ द. स्कंधः पद्यद विं । ८ द. का । ९ द. स्तदूर्द्धर्वा । १० द. की ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४११ चन्द्रिका¹ भागमेकं स्यात् त्रिपदा कलशोच्छ्रितिः । उक्ता या मूलमञ्जर्यः प्राक् प्रासादेषु तास्विह्यम् ॥ कार्ये महामोकारा(?) चारुकर्मविशोभिता । बाह्यभित्तिसमायुक्तं प्रासादस्य चतुर्दिशम् ॥ मल्लच्छाद्यं प्रकुर्वीत यथाशोभं³ विचक्षणैः⁴ । सर्वतश्चारुरूपाद्यैर्विचित्रैः शुभलक्षणैः ॥ विभूषयेत् सिंहकर्णैर्मल्लच्छाद्यं मनोहरैः । वलभीत्रयसंयुक्तं कर्णकूटचतुष्टयम् ॥ यथाशोभं विधातव्यं प्रासादेऽस्मिंस्त्रिविष्टपे । वास्तौ शतपदे यानि मर्माप्युक्तानि सर्वतः ॥ उत्सृज्यै तानि यत्नेन परिकर्मात्र कारयेत् । प्रासादं कारयित्वैनमुक्तदूपं त्रिविष्टपम् ॥ लभेतेह यशो⁶ राज्यं परत्रानन्त्यमेव च । कृत्वा त्रिविष्टपं दिव्यं प्रासादं पुरभूषणम् ॥ वसेत् त्रिविष्टपे तावद् यावदाभूतसंप्लवम् । तस्यान्ते तु परे तत्त्वे लयमाप्नोति मानवः ॥ त्रिविष्टपः ॥ अथाभिधीयते सम्यक् प्रासादः पृथिवीजयः । किन्नरासुरयक्षाद्यैर्वन्दितः सुरसत्तमैः ॥ चतुरश्रीकृते क्षेत्रे (१०विभागाष्व ?) विभाजिते । चतुर्भागा भवेच्छाला सपादै(दैां)शवनिर्गता ॥ कर्णशृङ्गद्वयं कार्यं प्रत्येकं भागविस्तृतम् । पादोनैर्पद१२निष्क्रान्तं ++++++++ ॥ १ द. कां । २ द. माहाकरो चा° । ३ द. भां । ४ द. णाः । ५ द. ष्टा । ६ द. यत्सौ° । ७ द. शंत्य° । ८ द. (ता च यावदा° ?) । ९ द. त । १० मुद्रित पुस्तके 'भा्राष्टक' इति स्यात्; परन्तु द. पुस्तके 'विभागाष्ट' इत्येव पाठः । ११ द. °दोंश° । १२ द. पा ।

भागैश्चतुर्भिर्गर्भः स्याद् भित्तिः कार्या तु भागिका । भ्रमन्तिकापि भागेन बाह्यभित्तिश्च भागिकी ॥ भागद्वयेन कुर्वीत दिक्त्रयेऽस्य चतुष्किकाम् । पुरतो मण्डपं कुर्यादुपेतं कर्मशोभया ॥ एवं विभागान् संकल्प्य यथोद्देशं विचक्षणः । मन्दरस्येव कुर्वीत कर्मशोभां समन्ततः ॥ ऊर्ध्वतो यत् प्रमाणं स्यात् तदस्येहाभिधीयते । अधस्तान्नागपीठः स्यात् प्रमाणेन पदद्वयम् ॥ हीरकं भागपादेन तस्य मध्ये निवेशयेत् । विस्ताराद् द्विगुणं चोर्ध्वमानं भागार्धसंयुतम् ॥ ऊर्ध्वमानस्य मध्ये स्यात् षट्पदानिबर्हणादयः(?) । वेदीबन्धश्च तन्मध्ये कर्तव्यः सार्धभागिकः ॥ ततो हीरकसंयुक्ता जङ्घा पदचतुष्टयौ । मेखलान्तरपत्रं च कार्यं भागार्धसंमितम् ॥ भागद्वयेन कर्तव्यं वेदिका राजसेरका । चन्द्रावलोकं भागेन विदधीत विचक्षणः ॥ कुर्यात् पदस्य पादेन तत्रैवासनपट्टकम् । पदद्वयेन सांशेन स्तम्भमूर्ध्वं निवेशयेत् ॥ अर्धभागेन कुर्वीत भरणं स्तम्भशीर्षके । अर्धभागेन पट्टं च छाद्यं सार्धपदायतम् ॥ (द्वे सन्त पठिका ?) कार्या ततो भागार्धसंमिता । ऊर्ध्वमन्तरपत्रस्य (कथमोध ?) यथाक्रमम् ॥ कुर्याद् ग्रीवाण्डकलशं र्चन्द्रिकाभिः समं बुधः । उच्छ्रायं कर्णशृङ्गाणां सार्धभागं प्रमाणतः ॥ स्तम्भसूत्रेण कर्तव्यं नष्टशृङ्गं विचक्षणैः । कूटानि पञ्च कुर्वीत यथावत् प्रथमक्षितौ ॥ १ द. ॰णैः । २ द. ठा । ३ द. परुक्खं । ४ द. ॰बंध्याश्च । ५ द. ॰यां । ६ द. कं । ७ द. द्विसंत पट्टिका का॰ । ८ द. सच । ९ द. कौ ।

मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ४१३ प्रा (त्री) णि भूमौ द्वितीयायां तृतीयायां तु कूटकम् । कुर्यात् तुल्यसमुच्छ्रायविस्तारं तच्च मानतः ॥ कर्णे कर्णे तु कूटानि भवन्त्येवं पृथङ् नव । शुकनासोन्नतिः कार्या सार्धभागद्वयं बुधैः ॥ स्यादुरोमञ्जरी पूर्वा नष्टशृङ्गस्य चोपरि । विस्तारात् त्रिपदा सा स्यात् सार्धभागत्रयोन्नता ॥ भागं सपादं कुर्वीत ग्रीवां सकलशाण्डकम् । द्वितीयशृङ्गस्योर्ध्वं स्यादुरोमञ्जरिकापरा ॥ विस्तीर्णा चतुरो भागान् कार्या पञ्चपदोच्छ्रिता । स्कन्धावरोहणग्रीवाचन्द्रिकाकलशैः सह ॥ एतेषां तु समुच्छ्रायः सार्धभागं विधीयते । उरःशिखरकाण्यष्टावेवं कुर्याच्चतुर्दिशम् ॥ तृतीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी । सा भवेत् षट्पदोच्छाया पदपञ्चकविस्तृता ॥ त्रिपदः स्कन्धविस्तारो दिक्षु स्याच्चतसृष्वपि । कूटैश्च विविधन्यासैरलङ्कुर्वीत मञ्जरीम् ३ ॥ अर्धभागोच्छ्रिता ग्रीवा सार्धांशाद्वयविस्तृता । अण्डकस्य समुच्छ्रायस्त्रिभागोनपदं भवेत् ॥ कर्परं चार्धभागेन कलशः पदमुच्छ्रितः । नवभिः शिखरैर्युक्तः कर्तव्योऽयं समन्ततः ॥ वेदीबन्धस्तु सर्वत्र कर्तव्यः शतवास्तुवत् । कुर्यात् तेन विभागेन कलशानपि शोभनान् ॥ मञ्जरीः पद्मपत्राग्रतुल्याः सर्वत्र कारयेत् । अण्डकानि भवन्त्यत्र चत्वारिंशच्च पञ्च चै५ ॥ एवंविधं विधत्ते यः प्रासादं पृथिवीजयम् । पृथ्वीं विजयते कृत्स्नां निर्जितारिः स पार्थिवः ॥ १ द. त्र । २ द. कूटैर्विविधं न्यां । ३ द. री । ४ द. री । ५ द. वा ।

४१४ समराङ्गणसूत्रधारे अन्योऽपि कश्चिद् यः कुर्याद् (वेर्णाच्छतं ?) भक्तिमानिमम् । सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥ पृथिवीजयः ॥ अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् । अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥ गर्भं षोडशभिर्भागैस्तस्य कुर्याद् विचक्षणः । कर्तव्या पदविंशत्याँ कन्दभित्तिः समन्ततः ॥ प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम् । पट्टि(दि)का बाह्यभित्तिः स्याद् द्विपदो भद्रनिर्गमः ॥ जलान्तरं तु भागस्तु ++++ गवाक्षकाः । भद्राणां मध्यतः पञ्च(स?) प्रकाशाः स(सु)मनोरमाः ॥ बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् । तस्योपरिष्टात् कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥ ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे' । क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥ अस्योच्छ्रायतस्तः सार्धं°(पदाः स्यात् ?) पञ्चविंशतिः । एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥ रेखा पञ्चदशांशा स्यात् स्कन्धशीर्षं पदार्धकम् । वेदीबन्धस्तु कर्तव्यः सार्धभागद्वयं बुधैः ॥ जङ्घा षड्भागिकोच्छ्राया भागार्धे(षेचराः ?) शुभाः । मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥ कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता । तदूर्ध्वतः क्रमः कार्यों द्विपदोऽन्योऽधिकं पदम् ॥ १ द. दथः । २ मुद्रित पुस्तके 'वर्णानाम्' इति स्यात् । ३ द. तः । ४ द. मां । ५ द. च प्रवक्ष्यामः । ६ द. त्यां । ७ द. तु भागार्द्धं द्विभागस्तु ग° । ८. द. तां । ९ द. णे । १० द. द्वे । ११ द. र्द्वि°।

मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९ भूमयः पञ्च कर्तव्या १न्यूना(+च ?) यथोत्तरम् । प्रथमा भूमिका (का)र्या सार्ध२ (द्विभागास्तु गवाक्ष ?) भागत्रयं बुधैः ॥ सपादास्तु त्रयो भागा द्वितीयाया ( स ) मुदाहृता३ । ४तृतीया त्रिपदा ++++++++ परा ॥ ५++++++++ पञ्चमी भूमिरिष्यते । पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥ चन्द्रिका भागमेकं स्यात् पद्मपत्रनिभा शुभा । त्रिपदं कलशं ६विद्यान्मातुलिङ्गसमन्वितम् ॥ द्राविडं नागरं वापि वाराटं वास्तु शोभनम् । ( यदेकं तेवते कर्तु ? ) तद्रूपं तं प्रकल्पयेत् ॥ नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः । कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥ कृत्रिमग्रासयुक्ताभिश्चन्द्रशालाभिरन्वितम् । मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः७ ॥ (कोणोत्कण्ठै ?)र्विचित्रैश्च रूपैश्चित्रैश्च शोभितम् । कर्म रम्यं प्रकुर्वीत यथावद् वित्तैविस्तृतम् ॥ गुणवान् नृपतिर्यद्वद् भूषयत्यखिलां महीम् । क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥ द्रव्येषु रेणुसंख्या या सुधायामपि यावती । तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥ क्षितिभूषणः ॥ संस्थानं सर्वतोभद्रस्याधुना परिकीर्त्यते । चतुरश्रीकृतं क्षेत्रं१० विभजेद् दशभिः पदैः ॥ १ मुद्रित पुस्तके ‘न्यूनास्ताश्च’ इति स्यात् । २ द. सार्ध द्विभागास्तु । ३ द. ताः । ४-५ मुद्रित पुस्तके ‘तृतीया त्रिपदा कार्या पादोनत्रिपदा परां ।’ इति पाठ्यं स्यात् । ‘अर्धहानित्रिभागा तु पञ्चमी भूमिरिष्यते’ इति पाठ्यं स्यात् । द. पुस्तकेऽपि ‘तृतीया त्रिपदा परा’, ‘पंचमी भूमिरिष्यते’ इत्येव पाठः । ६ द. विं । ७ द. ताः । ८ द. कोणे कूटैर्विचित्रैश्च । ९ द. त । १० द. याः । ११ द. त्रे ।

४१६ समराङ्गणसूत्रधारे तत्र गर्भो भवेत् तावान् यावत् स्याद् ब्रह्मणः पदम् । १++++++++भित्तिश्चेति पदं पदम् ॥ भागषट्केन भद्रं स्यात् सार्धभागैविनिर्गतम् । ३कैर्णं द्विभागिकं कुर्यात् ४+लमाग्रसमन्वितम् ॥ पदपादस्य पादेन विस्तारो जलवर्त्मनः । यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥ स(सं)मोददं स्यात् तद् वस्तु धनधान्यसुखावहम् । चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् ॥ भद्रस्यैवाग्रतो भद्रं तच्छौ(च्च) बाह्योदरं विदुः । विस्ताराद् द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥ कुम्भकं भागिकं कुर्याद् भागार्धेन मसूरकम् । भागपादेन कुर्वीत ततश्चान्तरपत्रकम् ॥ मेखलायाः समुच्छ्रायमर्धभागेन कारयेत् । चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता५ ॥ पदं पादविहीनं स्यात् (कृप्तं६ ?)स्थानेषु हीरकम् । मेखलान्तरपत्रं च पदार्धेन समुद्यं(च्छ्रि)तम् ॥ त्रिभागविनतं कुर्याद् भागे चन्द्रावलोकनम् । ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात् पदद्वयम् ॥ हीरग्रहणशीर्षं च पदेनैकेन कारयेत् । भागेनैकेन कुर्वीत पट्टपिण्डं१० विचक्षणः ॥ द्विपदं छाद्यविस्तारं तदर्धेन(तुलस्वनमः ?) । जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥ जङ्घोत्सेधश्च कर्णश्च+++यथा ११भवेत् । कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् ॥ १ द. भित्तिम्र्मंतिकां बाह्यभिं । २ द. ॰गेननिर्गतं । ३ द. प्रतौ इतः पूर्वं ‘समोददं स्यात्तद्वस्तु धनधान्यसुखावहम्’ । अयं अधिकः पाठः । ४ द. ॰जलमार्गासं । ५ द. तु । ६ द. कां । ७ द. र्तां । ८ द. ष्ठं । ९ द. दृतं । १० द. ण्ड विं । ११ द. मेरो तथा ।

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१७ द्वितीया द्विपदोच्छ्रा¹यां रथिकां² परिकीर्त्तिताँ³ । उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥ पदद्वयं द्वितीयस्य न⁴न एव समुन्नतिः । शृङ्गाणां स्यान्मिथः क्षेपो भागं ( प⁶+?)यथोत्तरम् ॥ भागान् सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं +⁷षट् । अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ॥ चन्द्रिकाऽर्धपदेन स्यात् सार्धं तु कलशः पदम् । मञ्जरीः⁸ पद्मपत्राग्रे तुल्याः सर्वत्र कारयेत् ॥ अधस्ताद् भद्रपीठं तु वास्तुवां⁹(पा)देन शोभनम् । यः कुर्यात् सर्वतोभद्रं सर्वलक्षणसंयुतम् ॥ जयश्रीर्जायते तस्य १०++++++++। सर्वतोभद्रः ॥ ब्रूमो (¹¹विमानं दस्या सादस्याथ ?) लक्षणम् ॥ ग¹²र्गेगन्धर्वजुष्टस्य वल्लभस्य दिवस्पतेः । चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ॥ विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् । भद्रैश्चतुर्भिस्तं कुर्यात् कर्णप्राग्ग्रीवकै¹³स्तैथा ॥ विस्ताराधं भवेद् गर्भो यच्छेषं तेन भित्तयः । (¹⁴त्रिंशद्वा) मतो ज्येष्ठो मध्यमः ¹⁵ पञ्चविंशतिः ॥ कनीयांस्तु विधातव्यः ¹⁶ षोडशाप्येकविंशतिः । जातिशुद्धो भवेदेको मञ्जरीभिस्तथापरः ॥ मिश्रकस्य¹⁷ विमानस्य त्रैविध्यमिति कीर्तितम् । (ज्येष्ठो मिश्रको निर्मार्गेः ¹⁸ सर्वः कैलास द्रवान् ?) ॥ १ द. याः । २ द. काः । ३ द. ताः । ४ द. घ । ५ द. रा । ६ द. भाग । ७ द. च (तु) । ८ द. री । ९ द. देवेन । १० द. सर्वकामफलैर्युताः । ११ द. विमानं छंऽस्य प्रासादस्याथल° । मुद्रितपुस्तकानुसारेण 'विमानसंज्ञस्य प्रासादस्याथ' इति पाठ्यं स्यात् । १२ द. र्ण । १३ द. ॅस्तया । १४ द. विंशस्तांम°; मुद्रित पुस्तके 'त्रिंशत्पदो' इति स्यात् । १५ द. मा । १६ द. व्याः । १७ द. श्व । १८ द. °णः स च कैलासद्रवान् ॥ वा. ५३

मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः । कनीयांश्च विधातव्यो मञ्जरीभिरलङ्कृतः ॥ कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसम्मितः । भागार्धं क्षोभणा कार्या यच्छेषं तच्च कर्णवत् ॥ भागस्यार्धेन कुर्वीत तस्माद् भद्रस्य निर्गमम् । मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥ मूलसूत्रानुसारेण पार्श्वयोः पदिकौ रथौ । ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ॥ द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम् । स्कन्धं यावच्च भागानां द्वाविंशतिरुदाहृता ॥ (वेदीबन्धो तु +++ सार्धभागद्व + १भवेत् ? ) । (चतुर्भागो२ऽत्र + छाद्या भागार्धेन + किन्नरा ? ) ॥ मेखलान्तरपत्रं च पदमेकं समुन्नतम् । रूपाणि जङ्घागात्रे स्युर्वा (चारिणां रथके३ ? ) ॥ ५(सैनरसेका ?)तस्य मध्ये स्यान्मकरग्रासभूषिता । मल्लिकानोरणैश्चारुघण्टाचमरकिन्नरैः ॥ ऊर्ध्वं तुलाप्रमाणस्य चतुर्भोमं तु प्रथमं६ (?) । ++++ भूमिकायां चतुर्भागसमुन्नता ॥ (७सोर्धभागा त्वपरा विस्तारा ?) सार्धभागिकी । संक्षेपः प्रथमोऽस्याः कलशान्ते पदं भवेत् (?) ॥ तृतीया त्रिपदा कार्या सपादपदविस्तृता । ८पदार्धेन तु संक्षेपस्तस्याः कार्यों विचक्षणैः ॥ चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह । ललिता९ मञ्जरीमिश्च नीलोत्पलदलाकृतिः ॥


१ द. द्वं । २ द. गोट्टताद्या भागार्डेन किंनरेः । ३ द. पुस्तके नास्ति । ४ द. इतः पूर्वं रथके सूरसेनं स्यादुच्छ्रयेण चतुष्पदम् । पंचभागं प्रविस्तारं ग्रासैर्वा राहुतुंडेः ॥ इति अधिकः पाठः । ५ द. रथिका तस्य । ६ द. मा । ७ द. सा । ८ द. पा । ९ द. ललितो मंजरीमिश्च ।

मेर्वादि१स्त्रिंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९ सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत् । (व्यासहर्वसममान्ना२ ? ) प्रवेशः प्रथमो भुवः ॥ ततोऽर्धवृद्धिर्वृद्धौ३ द्वावन्यस्तुर्यस्तु तत्समः । पदार्थं४ वेदिकोत्सेध(धाटू) विस्तारात् पञ्चभागिकी ॥ ग्रीवा पादोनभागं स्यात् सपा५दं भागमण्डकम् । कङ्कतीफलरूपं च मन्दारकुसुमाकृति ॥ चन्द्रिका ग्रीवया तुल्या कलशो द्विपदोन्नतः । विमानं छन्दकं कुर्यात् सर्वलक्षणसंयुतम् ॥ अश्वमेधप्रधानैर्यदिष्टैः (क्र) तुशतैर्भवेत् । तदेकेन विमानेन फलमाप्नोति मानवः ॥ विमानम् ॥ नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम् । द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ॥ चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत् । भागेनैकेन निष्क्रान्तं७ प्राग्ग्रीवं चास्य शोभनम् ॥ मूलकर्णस्य पदिकौ कर्तव्यौ पार्श्वगौ रथौ । षडङ्गुलं त्र्यङ्गुलं वा८ चतुरङ्गुलमेव९ चं१० ॥ जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी । गर्भश्चतुर्भिर्भागैः स्याच्छेषं भित्त्यन्धकारिका ॥ द्विपदं कन्दभद्रं स्यात् पदपादेन निर्गतम् । पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥ द्वैगुण्यं मूर्धविस्तारार्धे भै११ +++वेदिका । रेखामस्य तथा कुर्यात् कैलासस्य यथोदिता ॥ भूमयः षड् विधातव्या द्वादशाण्डाः पृथक् पृथक् । नन्दयत्येष कर्तारमिह लोके परे च यत् ॥ १ द. स्र । २ द. न्नाः । ३ द. द्वा द्वावन्यो तुर्यंस्तु । ४ द. थं । ५ द. सपादभागमंजकं । ६ द. णे । ७ द. न्त । ८ द. द्यं । ९ द. षि । १० द. वा । ११ द. द्विरतारद्वैनवेदिका ।

४२० समराङ्गणसूत्रधारे नन्दनो नाम तेनोक्तः प्राज्ञैः प्रासादसत्तमः । नन्दनः ॥ अ(था)भिदध्मः प्रासादं स्वस्तिकं स्वस्तिदायकम् ॥ देवासुरगणैर्वन्द्यं¹ यक्षसिद्धमहोरगैः । ज्येष्ठमध्यकनिष्ठस्य तलच्छन्दोऽस्य यद्देशः² (यादृशः) ॥ यादृगूर्ध्वप्रमाणं च तत् सम्यगिह³ कथ्यते । चतुरश्रे समे क्षेत्रे पञ्चविंशतिहस्तके ॥ सूत्रपातं प्रकुर्वीत कर्णतिर्यङ्मुखायतम् । ततः सीमार्थसूत्रेण वृत्तमालिख्य निश्चितम् ॥ द्वात्रिंशता समन्ता(त्त)रेखामिर्विभजेत् ततः । वृत्तं (तैथोमुघाताक्षि⁴र्दिर्विदे ?)स्थाभिरङ्कयेत् ॥ दिक्कर्णसूत्रयोर्मध्यं (र्ततो सेव ?)⁶त्रयं बुधः । कुर्याद् द्वात्रिंशदेवं⁵ स्युर्भागास्तुल्यप्रमाणकाः⁷ ॥ ऐन्द्र्यादिष्वीशपर्यन्तास्वष्टौ शालाः प्रकल्पयेत् । शालान्तरेषु कुर्वीत कोणानष्टौ⁸ यथाक्रमम् ॥ कोणात् कोणं नयेत् सूत्रं त्यक्त्वा शालाद्वयं मुहुः । विदिक्ष्वष्टसु सूत्राग्रं⁹ पद्मपत्रवदानयेत् ॥ कोणाश्च रथिकांश्चैव¹⁰ भवन्त्येवं सुलक्षणाः । चतुरश्रा भवन्त्यष्टौ शाला भागद्वयायताः¹¹ ॥ द्व्यंशानि कर्णभद्राणि पद्मपत्रनिभानि च । ऊर्ध्वमानं भवत्यस्य द्विगुणं (ह्यूर्ध्वमा+नैात्¹² ?) ॥ विंशत्या विभजेदूर्ध्वं तत्राष्टै¹³ष्टांशस्तुलोदयः । शेषां तु मञ्जरीं कुर्यादास्कन्धावेधि¹⁴ बुद्धिमान् ॥ १ द. ॰गणो वद्यं यं॰ । २ द. र्वि । ३ द. म । ४ मुद्रित पुस्तके ‘दिग्विदिक्रम्थाभिः’ इति स्यात् । ५ द. प्रतौ तु दे । ६ द. ततो सेवात्रयं । ७ द. कः । ८ द. ष्टो । ९ द. य । १० द. थ । ११ द. तः । १२ द. नत । १३ द. पुस्तके नास्ति । १४ द. ॰विधि॰ ।

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२१ विस्तारेपञ्चमांशेन पीठोच्छ्रायं प्रकल्पयेत् । ^१त्रिपदं वेदिकाबन्धं (सुैकेण ? )समन्वितम् ॥ जङ्घांशालं(ब)नां कुर्याच्चतुर्भागसमुच्छ्रिताम् । मेखलान्तरपत्रं च भागेनैकेन कारयेत् ॥ द्वादशांशोच्छ्रिता रेखा कार्या सप्त च भूमयः । अर्धभागोच्छ्रिता ग्रीवा विस्तारेण चतुष्पदा ॥ स्कन्धः षड्भागविस्तारः कार्यो वृत्त: सुशोभनः । समालिखेदेषु कोशं विस्तारात् त्रिगुणात्मना ॥ सूत्रेण येन वा स्कन्धो भवेत् षड्भागविस्तृतः । हस्तैः स्यात् पञ्चविंशत्या ज्येष्ठः षोडशभिः परः ॥ कनीयान् स्वस्तिको ज्ञेयः करैर्द्वादशभिः पुनः । भागषट्कसमुच्छाया जङ्घा ज्येष्ठस्य कीर्तिता ॥ मध्यमाधमयोः पञ्चचतुर्भागोच्छ्रिता क्रमात् । स्वस्तिके कारिते खस्ति सर्वलोकस्य जायते ॥ विशेषतश्च भूपानां कर्तुश्च स्यात् समीहितम् । स्वस्तिकम् ॥ मुक्तकोणमथ ब्रूमः प्रासादं स्यात् स च त्रिधा ॥ हस्तैः क्रमेण ज्येष्ठादिः षोडशद्वादशाष्टभिः । ज्येष्ठो(ऽष्टा)दश भागान् स्यानमध्यमस्तु चतुर्दश ॥ कनीयान् दश भागा(न्) य(स्या)त् सदस्तस्याभिधीयते । चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ॥ कोष्ठकानां विधातव्यं चतुर्विशं शतत्रयम् । भागषट्त्रिंशता कुर्यान्मध्ये गर्भगृहं शुभम् ॥ बाह्य भित्तिस्तथान्धारी मध्यभित्तिरिति त्रयम् । पृथक् पृथक् स्याद् द्विपदविस्तारं परिमाणतः ॥ १ द. रं । २ द. द्वि° । ३ द. स्तु । ४ द. तं । ५ द. 'द्वेषु । ६ द. ताः । ७ द. कः । ८ द. सकनीयांश्च भागां यं छंदस्त° । ९ द. रैः ।

चतुर्भागायता शाला भागेनैकेन निर्गता । शालाया भूषणं भद्रं विधायैतत् पदद्वयम् ॥ तत्पार्श्वद्वितये कुर्यात् त्वधिके भागिके बुधः । वार्यन्तराणि कुर्वीत दिक्ष्वष्टचतसृष्वपि ॥ वार्यन्तरानन्तरं तु भागद्वितयसंमितान् । अष्टौ कुर्वीत रथिकांश्चतुर्दिशमनुत्तमान् ॥ कोणे द्विभागिकैः कुर्याद् रथानामांससंमिनाँ (?) । कोणे रथान् परित्यज्य शेषं कुर्याद् यथोदितम् ॥ मध्यमोऽयं समाख्यातः कनीयान् कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ चतुर्भागा भवेच्छाला भागेनैकेन निर्गता । एकभागप्रमाणानि पार्श्वे वार्यन्तराणि च ॥ तेषां मध्ये प्रकुर्वीत सरोजदलसंनिभम् । रथकर्णोन्य (र्णे य) थावच्च सलिलान्तरभूषणम् ॥ भागार्ध क्षोभणा कार्या चतुष्कोणे व्यवस्थित । सार्धभागोन्मितान् कुर्यात् कर्णप्राग्ग्रीवकांन् शुभान् ॥ वार्यन्तराणां (+प्रोक्ता भूषश्रोभि ?) कनीयसि । प्रासादे मध्यमेऽप्येषा ज्यायस्यपि च कल्प्यवै (ते) ॥ त्रिविधोऽयं समाख्यातो मुक्तकोणः समासतः । ऊर्ध्वमानं भवेदस्य विस्ताराद् द्विगुणोच्छ्रयम् ॥ (असिस्तु ?) पञ्चदशाभिस्तन्मध्यं स्यात् तुलोदयः । चतुष्पदो वेदिबन्धो जङ्घा सार्धैश्च सप्तभिः ॥ मेखलान्तरपत्रं (चार्ध सार्ध ?) हीरकं पदम् । त्रिपदों कर्णशृङ्गस्य कलशान्तैसमुच्छ्रयान् (?) ॥ १ द. विधीयेत प° । २ द. वी (?) । ३ द. दिक्षाष्टा । ४ द. वी । ५ द. का । ६ द. ताः । ७ द. वी । ८ द. भां । ९ द. °णव्यवस्थितः । १० द. °विका शुभान् । ११ मु. पुस्तके 'या प्रोक्ता :भूषणश्रीः' इति स्यात् । द. पुस्तके °णां या प्रोक्ता भूश्रोभिः । १२ द. द । १३ द. च द्वे सार्धं हीं । १४ द. दाः । १५ द. न्ता ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२३ सिंहकर्णश्च कर्तव्यः स्व+¹ भागे समुन्नतः । ऊर्ध्वतः कर्णशृङ्गे²(स्य) विधेया मूलमञ्जरी ॥ (³सावषो विस्तरो++)पदान्यष्टादशोच्छ्रिनाः (?) । चतुर्दिशं समायामः स्कन्धः स्यान्नवभागिकैः⁴ ॥ मञ्जर्यार्द्धांशपुरेमनः(?) शुकनाससमुच्छ्रितिः । ग्रीवा+मेन भागेन कुर्याद् द्विपदमण्डकम् ॥ चण्डिकां सार्धभागेन त्रिपदं कलशोच्छ्रयम् । ⁶+++ यन्नरः कश्चिन्मुक्तकोणं महायशाः ॥ (सं)प्राप्नो ते मं⁷हासौख्यं विमुक्तः सर्वपातकैः । सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितैः ॥ सर्वपापविनिर्मुक्तो भोगं मोक्षं च विन्दति । मुक्तकोणः ॥ श्रीवत्समथ वक्ष्यामः प्रासादं सुरपूजितम् ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । षड्भिर्भागैर्भवेद् ग र्भो भित्तिः कार्या द्विभागिकी ॥ रथकं त्रिपदं कुर्यात् प्रत्यङ्गात् सार्धभागिकात् । द्विपदं कर्णमस्याहुर्विदिक्षु चतसृष्व.⁵पे ॥ भागार्धं क्षोभणा क्षेपात् तदर्थार्धं जलान्तरम् । प्रक्षेपः स्यात् पदार्धेन पदमानस्य बाह्यतः ॥ ९द्वे पदे निर्गतं चास्य शुकनासं नि(वे )शयेत् । वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥ द्वारोच्छ्राय(स्तुं)विस्तारात् कर्तव्यो द्विगुणो बुधैः । ऊर्ध्वमानमथ ब्रूमः श्रीवत्सस्य यथोदितम् ॥ १ द. स्व । २ द. ङ्गैं । ३ द. सा च थो पदान्यष्टा द । ४ दं. षिकः । ५ द. न्द्रि । ६ द. प्रतौ नास्ति परन्तु मुद्रितपुस्तके 'निर्माण्यन् नरः' इति स्यात् । ७ द. महत् । ८ द. सद्वन्द्व । ९ द. ताः । १० द. स्य ।

४२४ समराङ्गणसूत्रधारे पीठं प्रासादपादेन खुरकश्च पदार्धकैः । विस्ताराद् द्विगुणं१ ( चार्ध ?) कर्तव्यं कुम्भकादितः ॥ अंशैर्द्वादशभिस्तेषु कुर्याच्छिखरमायनम् । अष्टभागं तुलोच्छ्रायं वेदी सार्धद्विभागिकी ॥ कुम्भकं पदिकं कुर्यात् पादोनांशं३ मसूरकम् । ( पादोनं पादेन स्यात् ? ) मेखलान्तरपत्रकम् ॥ चतुर्भागोच्छ्रिता जङ्घा भागार्ध हीरकं भवेत् । मेखलान्तरपत्रं तु भागेनैकेन कारयेत् ॥ षड्भागविस्तृतं स्कन्धं भाजयेद् दशभिः पदैः । यथा मूले तथा स्कन्धेऽप्यङ्गप्रत्यङ्गकल्पना ॥ स्कन्धपार्श्वे तु या रेखा व्यक्ताश्च स्कन्धबाह्यतः । भजेत् ता दशभिर्भागै( रूढ ? )मेवं विभा/जयेत् ॥ ( ऊर्ध्वाधः प्रतिभागस्तन्त्रास्यात् ? ) पत्रसंहतिः । तदाकृतिं बाह्यरेखां गात्रे गात्रे प्रकल्पयेत् ॥ अनुमात्रगुणं सूत्रं त्रिभागेन समन्वितम् । भ्रमयेत् ( कोणरेखा स्यात् प्रत्यङ्गेऽस्नत्रपञ्चकान् ? ) ॥ षड्गुणेन तु सूत्रेण रथरेखां समालिखेत् । अत्र स्युर्भूमयः सप्त प्रथमांशद्वयोच्छ्रिता ॥ द्वितीया पदपादार्धहीना भूमितस्ततो भवेत् । पादद्वयं भागहीनं तृतीयायां भवेद् भुवि ॥ सार्धभागविहीनं च चतुर्थी स्यात् पदद्वयम् । पञ्चमा सार्धभागेन पदं स्यात् स्कन्धशीर्षकम् ॥ एवं परस्परं भागं पादार्धेन( जिता ? ) भुवः । त्रिभागीकृत्य शिखरं तत्रैकं भागमुत्सृजेत् ॥ १ द. द्वि। २ द. 'णं चोद्ध्र्वं कं०। ३ द. 'स' इति अधिकः पाठः। ४ द. स्थ। ५ द. ॰मन्त्रि०। ६ द. सूत्रं।

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२५ शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत् । पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥ रेखा १++ विधा( त )व्यं ++ न्यूनाधिकमण्डकम् । सपादभागमानेन कर्तव्यं चन्द्रिकाद्वयम् ॥ पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारि(काम् ) । द्विपदं कलशं कुर्याद् बीजपूरकवर्जितम् ॥ श्रीवत्सं कारयेद् यस्तु प्रासादमतिसुन्दरम् । कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥ श्रीवत्सः ॥ अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् । चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥ भागैश्चतुर्भिर्गर्भः स्याद् २भित्तिर्द्वादशभागिकी । भागद्वयेन भद्राणि ततश्च परिकल्पयेत् ॥ चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते । भागस्य षोडशांशेन कुर्याद् नीरै३(रा)न्तराणि च ॥ ४पीठिका वेदिकाबन्धो जङ्घा मेखलया सह । ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥ मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः । उपरि व्यालहारांश्च पीठमेवं विभूषयेत् ॥ त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः । नागरं द्रावि(डे५ ?)श्चेति कर्णे कर्णे निवेशयेत् ॥ भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च । रथिके रथिका (?) कुर्याद् ( विन्य ? ) नागरकर्मणा ॥ विस्ताराधेन वेदी स्याद् ग्रीवा७ चास्य पदार्धिका । अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥ १ द. विवे। २ द. र्भृं । ३ द. रत। ४ द. पीठकं वेँ। ५ द. इतः परं 'वराटं द्राविडं चापि नागरं वा विशेषतः । जङ्घामध्ये विश्रान्तव्यं कर्मलोकेक्षणोत्सवम् ॥ इत्यधिकः पाठः । ६ द. डश्चेति । ७ द. ग्रवो । वा. ५४

४२६ समराङ्गणसूत्रधारे ¹+ चण्डिका(चोर्धेन ?)कलशः स्यात् पदोच्छ्रितः । यथा विराजते हंसो(हंसोमाशिरसि ? )स्थितः ॥ प्रासादोऽपि तथा हंसः पुरमध्ये विराजते । हंसारूयमेनं प्रासादं कारयेद् यो(नँरोत्तमा ? ) ॥ तावत् स्वर्गे वसेच्छ्रीमान् यावदिन्द्राश्चतुर्दश । हंसः ॥ रुचकाख्यँमथ ब्रूमः प्रासादं पुरभूषणम् ॥ आदौ समस्तवस्तूनां कल्पितं पद्मजन्मना । चतुरश्रीकृते क्षेत्रे⁶ चतुर्भिर्भाजिते पदैः ॥ भागमेकं भवेद् भित्तिस्तस्य गर्भः पदद्वयम् । ⁷वेदीबन्धं तथा जङ्घां मेखलामूर्ध्वमेखलाम् ॥ मानमूर्ध्वमधश्चास्य श्रीवत्सस्येर्व कारयेत् । कोणेषु स्तम्भकाः कार्या(हाँइ हीइसार्ष ? )समन्विता ॥ मध्ये तु रथिका कार्या चारुकर्मविभूषिता । चतुर्भौममिदं कार्य(स्तैवैवसट ? )कर्मणा ॥ युक्तं मध्ये तु रथिका प्रतिभूमि विधीयते । रुचकैः¹² कारितो येन प्रासादः शुभँ¹³वास्तुनि ॥ कुलानां तारितं¹⁴ तेन शतमात्मा तथोद्धृतः । रुचकः ॥ • वर्धमानमथ ब्रूमो धर्मारोग्ययशस्करम् ॥ तस्याष्टगुणमैश्वर्यँ¹⁵ भवेद् यः कारयेद् यदि । चतुरश्रं समं क्षेत्रं भाजयेद् दशभिः पदैः ॥ १ द. चन्द्रिका चार्धेनक°। २ मुद्रित पुस्तके 'च पदार्थेन' इति स्यात् । ३ द. ह्वामेन प्रा° । ४ द. °तरोत्तमः । मुद्रित पाठस्तु 'नरोत्तमः' इति स्यात् । ५ द. ख्या° । ६ द. प्रतौ 'क्षेत्रे' पाठः नास्ति । ७ द. वेदबंधे । ८ द. °स्यै । ९ द. °हीरसर्पे स°; मुद्रित प्रतौ 'हीरशीर्ष' इति स्यात् । १० द. °रु । ११ द. स्तस्यैवं सटकर्मणा । १२ द. रुचका कारितौ । १३ द. द्ध । १४ द. तां । १५ द. मैल्यर्थ ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२७ ततो भागचतुष्केण कर्तव्यो मध्यमो रथः । एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥ (१कर्णांस्तु पदा कार्या वर्जं चारिधर्माभिः ? ) । भद्रस्य निर्गमं तत्र भागेनैकेन कारयेत् ॥ भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम्२ । विस्तारार्धेन गर्भः स्याद्३ यच्छेषं तेन भित्तयः ॥ ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् । ४वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥ वर्धमानः ॥ गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् । प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥ द्वाविंशतिपदं क्षेत्रं ( ५भैक्त्वाल्या समायतम् ? ) । पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥ कुर्वीत मध्ये प्रासादं तस्मिञ् शतपदं बुधः । द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥ उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः । अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥ शेषेण षट्पदौ ++ सहसायामविस्तृतौ (?) । गर्भः षोडशभिर्भागैर्भित्तिः स्यात् पदमेतयोः ॥ श्रीवत्सउंस६रुचकवर्धमानेषु कोऽपि यः । रोचते गरुडं कुर्यात् तमेकं स्वेच्छया बुधः ॥ तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षिणम् । एवमेते त्रयो गर्भा गरुडे७ परिकीर्तिताः ॥ गरुडः ॥ १ द. कर्णास्तु द्विपदाः कार्या वर्जिता चारिध० । २ द. मम् । ३ द. प्रतौ ' द् ' नास्ति । ४ द. उर्द्ध । ५ द. पक्षाभ्या समायातं । ६ द. सं । ७ द. डं ।

४२८ समराङ्गणसूत्रधारे प्रासादस्य गजस्याथ लक्षणं सम्प्रचक्ष्महे । चतुःषष्टिपदं क्षेत्रं विधाय विभजेद् गजम् ॥ ततः सीमार्थसूत्रेण पृष्ठतो वृत्तमालिखेत् । गर्भं कुर्यात् तदर्धेन ++ रेखाकृतिं त ²+ ॥ ऊर्ध्वप्रमाणमधुना गजस्य स्पष्टमुच्यते । स्तम्भाश्चतुष्पदोच्छ्रायाः कार्याः कोणचतुष्टये ॥ जङ्घेयमस्य निर्दिष्टा (खल्लैस्तम्भान्तरं ?) भवेत् । पट्टिकान्तरपत्राभ्यां समैर्भागेन मेखला ॥ अग्रतः शूरसेनं स्यात् पृष्ठतस्तु गजाकृतिः । गजः ॥ ⁶प्रासादस्या( धुना ) लक्ष्म सिंहसंज्ञस्य कथ्यते ॥ चतुरश्रं समं क्षेत्रं विभजेन्नन्दने यथा । गर्भो ⁸भागैश्चतुर्भिः स्यात् कञ्च( न्द )भित्तिस्तु भागिकी ॥ भागेनान्धारिका कार्या बाह्यभित्तिश्च भागिकी । भद्रं भागैश्चतुर्भिः स्याद् भागेनैकेन निर्गतम् ॥ कर्णस्तु द्विपदः कार्यों जलमार्गसमन्वितः । द्विपदं पीठमुत्सेधात् सिंहै९रूपैरधिष्ठितं¹⁰म् ॥ ¹¹खुरकं च पदार्धेन कुर्यात् पीठस्य मध्यै¹²तः । ¹³कुर्यादूर्ध्वं + विस्ताराद् द्विगुणं कलयाधिकम् ॥ द्विपदं वेदिकाबन्धं जङ्घा चास्य चतुष्पदम् । मेखलान्तरपत्रं च विदध्याद् भागिकोदयम् ॥ त्र्यंशानि¹⁴ कर्णशृङ्गाणि ग्रीवाण्डकलशैः सह । सिंहकर्णस्तु कर्तव्यः समुच्छ्रायाच्चतुष्पदः ॥ सिंहरूपसमाक्रान्ते¹५ प्रासादे सिंहसंज्ञिते¹⁶ । ऊर्ध्वतः कर्णशृङ्गस्य षट्पदा मूलमञ्जरी ॥


१ द. संप्रवक्षसे । २ द. ततः । ३ द. लँ । ४ द. ०म्व । ५ द. मं । ६ द. प्र । ७ द. प्रतौ नास्ति । ८ द. र्भा । ९ द. हे । १० द. ०तैः । ११ द. सुं० । १२ द. मव्ययः । १३ द. कुर्यादूर्ध्वं वि । १४ द. न्वि । १५ द. न्तः । १६ द. के ।