तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
५०२ तैत्तिरीये आरण्यके
पर॒स्याया॑ः । क्ष॒त्रस्य॑ त॒नुव॑: पाहि । वि॒शस्त्वा॒ धर्म॑णा । वयमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से^(५) । ⁽६⁾प्रा॒णस्य॑ त्वा पर॒स्यायै॑ । चक्षु॑षस्त॒नुव॑: पाहि । श्रोत्र॑स्य त्वा॒ धर्म॑- णा । वयमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से^(६) । ⁽७⁾वल्गु॒- र॑सि॒ शंयुधा॑याः ॥ ३ ॥
मन्त्रेण द्वितीयमार्गभागे प्रब्रजेयुरित्यर्थः । पाठस्तु । ⁽५⁾"ब्र- ह्मणस्त्वा परस्यायाः ० वयमनुक्रामाम सुविताय नव्यसे"⁽५⁾ इति । पूर्व्ववद्व्याख्येयं ॥
लोकविषयमन्त्रानन्तरं ब्राह्मणादिजातिविषयमन्त्रेण लो- केषु प्रजानां धारणं सिद्ध्यतीति दर्शयति । "ब्रह्मणस्त्वा पर- स्याया इत्याह ॥ १ ॥ एष्वेव लोकेषु प्रजा दाधार" इति । (५ प्र०।६ अ०।५ म०) ॥
कल्पः । प्राणस्य त्वा परस्याया इति तृतीय इति । अनेन मन्त्रेण मार्गस्य तृतीयभागे प्रब्रजेयुः । पाठस्तु । ⁽६⁾"प्राणस्य त्वा परस्यायै ० वयमनुक्रामाम सुविताय नव्यसे"⁽६⁾ इति । 'चक्षुषस्तनुवः' इत्यनेन चक्षुष्मन्ति शरीराणीत्यर्थो विवक्षितः । अन्यत् पूर्व्ववद्व्याख्येयं ॥
ब्रह्मक्षत्रादिप्रजाविषयानन्तरं* प्राणचक्षुरादिविषयमन्त्रेण
* विषयमन्त्रानन्तरं इति तै० पु० पाठः ।
४ प्रपाठके ११ अनुवाकः। ५०३
प्रजासु प्राणधारणसिद्धिं दर्शयति । "प्राणस्य त्वा परस्याया इत्याह। प्रजास्वेव प्राणान्दधार।" इति। (५ प्र० । ८ अ० । ६ म०) ॥
प्रवर्ग्यस्य पूर्व्वदिक्ष्युद्वासनं विधत्ते । "शिरो वा एतद्यज्ञस्य । यत् प्रवर्ग्यः। असौ खलु वा आदित्यः प्रवर्ग्यः। तं यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत्। जिह्मं यज्ञस्य शिरो हरेत्। प्राञ्च- मुद्वासयति। पुरस्तादेव यज्ञस्य शिरः प्रतिदधाति ॥ २ ॥ प्राञ्चमुद्वासयति । तस्मादसावादित्यः पुरस्तादुदेति।" इति । (५ प्र० । ६ अ० । ७ म०)। प्रवर्ग्यस्य यज्ञशिरोरूपस्य दक्षिणा- दिषु तिसृषु दिक्षूद्वासने सति 'शिरः', 'जिह्मं' कुटिलं यथा भवति तथा, हृतं स्यात्। अतः 'पुरस्तादेव' आर्ज्जवेन यज्ञशिरः- प्रतिधानाय प्रवर्ग्यं प्राङ्मुखमेव, 'उद्वासयेत्'। किञ्च प्रवर्ग्य- स्यादित्यरूपत्वात् आदित्यस्य च पुरस्तात् एवोदयात् प्रागु- द्वासनं युक्तं ॥
शफादीनां तत्रानयनं विधत्ते । "शफोपयमान्धवित्राणि धृष्टी इत्यन्ववहरन्ति । सात्मानमेवैनग्ँ सतनूं करोति।" इति । (५ प्र० । ८ अ० । ८ म०)। तप्तस्य महावीरस्य हस्तेन स्प्रष्टुमशक्य- त्वात् तद्धारणार्थौ काष्ठविशेषौ शफौ। उपयमः पात्रविशेषः धृष्टी अङ्गारनिर्हणार्थौ साधनविशेषौ । साधनान्तराणा- मप्युपदर्शनार्थः 'इति'शब्दः। एतानि सर्व्वाण्यपि महावीरमनु- प्रवर्ग्योद्वासनदेशे हरेयुः । तेन 'एनग्ँ' प्रवर्ग्यं, आत्मसहितं शरीरसहितं 'करोति' ॥
3 E
५०४ तैत्तिरीये आरण्यके
एतद्वेदनं प्रशंसति । “सात्मामुष्मिँल्लोके भवति । य एवं वेद ।” इति । (५ प्र० । ६ अ० । ८ म०) ॥
साधनानां कारणं वृक्षविशेषं विधत्ते । “औदुम्बराणि भवन्ति । ऊर्ग्वा उदुम्बरः । ऊर्ज्जमेवावरुन्धे ।” इति । (५ प्र० । ६ अ० । १० म०) । उदुम्बरफलस्य भक्ष्यत्वेनोग्पत्वात् तद्वृक्षेणोर्क्प्राप्तिः* ॥
गमनकाले साधनीभूतं सामगानं विधत्ते । “वर्त्मना वा अन्वेत्य ॥ ३ ॥ यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति । साम्ना प्रस्तोतान्वेति । साम वै रक्षोहा । रक्षसामपहत्यै ।” इति । (५ प्र० । ६ अ० । ११ म०) ॥ गमनवेलायां प्रस्तोतुं सामगानेन सहितः† ‘प्रस्तोता’, तान् सर्व्वाननुगच्छेत् । साम्नो रक्षोघ्नत्वात् तद्गानं रक्षोऽपघाताय भवति ॥
यदुक्तं सूत्रकारेण, सर्व्वे सहपत्नीकाः त्रिः साम्नो निधनमुपयन्ति । अर्द्धाचे द्वितीयं प्राप्यापरेणोत्तरवेदिं तृतीयमिति ॥ तदिदमुत्तरं विधास्यन्नादौ प्रस्तोतुर्निधनावृत्तिं विधत्ते । “त्रिर्निधनमुपैति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो रक्षाꣳस्यपहन्ति ।” इति । (५ प्र० । ६ अ० । १२ म०) । पञ्चभागयुक्तस्य साम्नश्चरमो भागो ‘निधनं’, तत्तित्रवारं पठेत् । तेन लोकत्रयाद्रक्षसामपहतिर्भवति ॥
पत्नीसहितानां सर्व्वेषां प्रस्तोर्द्धानिधनभागाच्चारणं विधत्ते ।
* ऊर्ग्वत्प्राप्तिः इति D चिह्नितपुस्तकपाठः ।
† रक्षांसि चेद्रवन्मार्गेणैव पृष्ठत आगत्य यज्ञं हन्तुं गच्छन्ति । अतस्तत्परिहाराय सामगानेन सहित इति तै० पुस्तकपाठः ।
‡ प्रस्तोतृवत् इति तै० पुस्तकपाठः ।
४ प्रपाठके ११ अनुवाकः । ५०५
शिशु॒र्जन॑धायाः^(७) । ^(८)शं च॑ वक्षि॒ परि॑ च॒ वक्षि^(८) ।
“पुरुषः पुरुषो निधनमुपैति । पुरुषः पुरुषो हि रक्षस्वी । रक्षमामपहत्यै ॥ ४ ॥” इति । (५ प्र० । ६ अ० । १२ म०) । सर्व्वे- ष्वपि पुरुषेषु बाधकानि रक्षांस्यनुगच्छन्ति अतः सर्व्वोऽपि 'पुरुषः', 'रक्षस्वी'। निधनपाठेन तानि रक्षांस्यपहन्यन्ते ॥
उद्वासनदेशे हिरण्यस्थापनं विधत्ते । “यत् पृथिव्यामुद्दा- सयेत् । पृथिवीꣳ शुचार्पयेत् । यदप्सु । अपः शुचार्पयेत् । यदोषधीषु । ओषधीः शुचार्पयेत् । यद्वनस्पतिषु । वनस्पती- ञ्छुचार्पयेत् । हिरण्यं निधायोद्वासयति । अमृतं वै हिरण्यं ॥ ५ ॥ अमृत एवैनं प्रतिष्ठापयति ।” इति । (५ प्र० । ६ अ० । १४ म०) । प्रवर्ग्यस्य दाहकत्वात् पृथिव्यादीनां दाहो माभूदिति हि- रण्ये तदुद्वासनं अग्निसंयोगेऽपि विनाशाभावात् ‘हिरण्यं’, ‘अमृतं’ । अतस्तत्रैव प्रवर्ग्यं ‘प्रतिष्ठापयति’ ॥
कल्पः । उदकुम्भमादायाध्वर्युर्वल्गुरसि शंयुधाया इति त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन् पर्येतीति । पाठस्तु । ^(७)“बल्गुरसि शंयुधायाः ॥ ३ ॥ शिशुर्जर्नधायाः”^(७) इति । हे परिषेक, त्वं 'शंयुधायाः' सुखप्राप्तेः, दुःखवियोगस्य धारकः,* 'बल्गुः' सुन्दरः, 'असि' । 'जनधायाः' जनस्य धारकः, 'शिशुः' बालवदुपलालनीयः, 'असि' । उत्तरवेदिपरत्वेन व्याख्येयं ॥
* भावकः इति तै० पुस्तकपाठः ।
3 R 2
५०६ तैत्तिरीये आरण्यके
$^{(९)}$चतु॑:स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑$^{(९)}$। $^{(१०)}$सदौ॒ विश्वा॑युः॒ शर्म॑
एतन्मन्त्रसाध्यं परिषेचनं विधत्ते । “बल्बूरसि शुंयुधाया इति त्रिः परिषिञ्चन् पर्येति । त्रिवृद्वा अग्निः । यावानेवाग्निः । तस्य शुचं शमयति ।” इति । (५ प्र० । ६ अ० । १५ म०) । आहवनीयादिरूपेणाग्नेस्त्रिगुणत्वात् त्रिवारपरिषेचनेन सर्वस्याग्नेः शोकः शाम्यति ॥
कल्पः । निधाय कुम्भं शं च वक्षि परि च वक्षीति त्रिः परिषिञ्चन् प्रतिपर्येतीति । (८ मन्त्रः) । हे उत्तरवेदि, ‘शं च वक्षि’ सुखमपि वहसि, ‘परि च वक्षि’ दुःखपरिहारमपि वहसि ॥
एतन्मन्त्रसाध्यां प्रदक्षिणावृत्तिं विधत्ते । “त्रिः पुनः पर्येति । षट् सम्पद्यन्ते । षड् वा ऋतवः । ऋतुभिरेवास्य शुचं शमयति ।” इति । (५ प्र० । ६ अ० । १६ म०) । त्रीणि प्रदक्षिणानि त्रीण्यप्रदक्षिणानीति ‘षट्’-सम्पत्तिः ॥
कल्पः । चतुःस्रक्तिर्नाभिरृतस्येत्युत्तरवेदिमभिमृशेति । (९ मन्त्रः) । ‘चतुःस्रक्तिः’ कोणचतुष्टयोपेतोत्तरवेदिः, इयं ‘ऋतस्य’ यज्ञस्य, नाभिस्थानीया । यद्वा ‘ऋतस्य’ सत्यभूतायाः भूमेर्नाभिस्थानीया ॥
मन्त्रस्य भूमिसन्निभपरत्वं दर्शयति । “चतुःस्रक्तिर्नाभिर्ऋतस्येत्याह ॥ ६ ॥ इयं वा ऋतं । तस्या एष एव नाभिः । यत्प्रवर्ग्यः । तस्मादेवमाह ।” इति । (५ प्र० । ६ अ० । १७ म०) । प्रवर्ग्यहोमाधारत्वादुत्तरवेदिः ‘प्रवर्ग्यः’, इत्युच्यते ॥
४ प्रपाठके ११ अनुवाकः । ५०७
सप्र॒थाः(१०) । (११)अप॒ द्वेषो॒ अप॒ ह्वर॑ः । अन्यद्व्र॒तस्य॑ सश्चिमः(११) । (१२)घ॒र्म्मत॑त्ते॒ऽन्नमे॒तत् पुरी॑षम् । तेन॑ वर्द्धस्व
कल्पः । सदो विश्वायुरित्युत्तरेणोत्तरवेदिं खरौ न्युष्या-* नुव्यूहतीति । शर्म सप्रथा इति मन्त्रशेषः । (१०मन्त्रः) । 'सदः' भूप्रदेशविशेषः †उत्तरवेद्युत्तरदेशरूपः, 'विश्वायुः' कृत्स्नायु- र्हेतुः, अतएव 'सप्रथाः' ख्यातियुक्तः, 'शर्म' सुखहेतुः ॥
‡शर्मशब्देन भूमिविवक्षां दर्शयति । "सदो विश्वायुरि- त्याह । सदो हीयं।" इति । (५ प्र० । ६ अ० । १८ म०) ॥
कल्पः । अप द्वेषो अप ह्वर इति मार्जारीयदेशे उच्छिष्ट- खरमिति न्युष्यानुव्यूहतीत्यनुवर्त्तते । अन्यद्व्रतस्य सश्चिमेति मन्त्रशेषः । (११मन्त्रः) । 'द्वेषः' द्वेष्टा शत्रुः, अपनीतः, 'ह्वरः' कौटिल्यकारी चापनीतः । 'व्रतस्य' अनुष्ठीयमानस्य कर्मणः, 'अन्यत् सश्चिमः' पूर्वोक्तद्वेषकौटिल्याभ्यामतिरिक्तं क्षेमेणानु- ष्ठानं वयं सम्पादितवन्तः ॥
अनेन मन्त्रेण शत्रुनिराकरणं दर्शयति । "अप द्वेषो अप ह्वर इत्याह भ्रातृव्यापनुत्यै।" इति । (५ प्र० । ६ अ० । १८ म०) ॥
कल्पः । घर्म्मतत्तेऽन्नमेतत् पुरीषमिति दध्ना मधुमिश्रेण पात्राणि पूरयतीति । पाठस्तु । (१२)घर्म्मतत्तेऽन्नमेतत्पुरीषं । •
* नाभिं खरावन्युष्या इति तै० पुस्तकपाठः ।
† उत्तरनाभ्युत्तरदेशः इति तै० पुस्तकपाठः ।
‡ सदःशब्देन इति तै० पु० पाठः ।
५०८ तैत्तिरीये आरण्यके
चाच॑प्यायस्व । वर्द्धी॒षीमहि॑ च व॒यं । आच॑प्यासिषी॒महि॑(१२) ॥ ४ ॥
(१३)र॒न्तिर्नामा॑सि दि॒व्यो ग॑न्ध॒र्व्वः । तस्य॑ ते य॒द्- द्वेवि॒द्दानं॑ । अ॒ग्निरध्य॑क्षाः । रु॒द्रोऽधि॑पतिः(१३) । (१४)स-
आचप्यासिषीमहि ।”(१२) इति । हे ‘घर्म’, ‘एतत्’ मधुमिश्रं दधि, ‘ते’ तव, ‘अन्नं’, ‘एतत्’, च ‘पुरीषं’ सम्पूर्णं, ‘तेन’ मधुमिश्रेण दध्ना, त्वं ‘वर्द्धस्व’ ‘आप्यायस्व च’, अभिवृद्धिसुखरूपबाहुल्यं आप्यायनं मानसः परितोषः, त्वत्प्रसादात् ‘वयं’, अपि वृद्धिमाप्यायनञ्च प्राप्नुवाम ॥
एतन्मन्त्रसाध्यं पूरणं विधत्ते । “घर्मैतत्तेऽन्नमेतत् पुरीषमिति दध्ना मधुमिश्रेण पूरयति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्ज्जैवेनमन्नाद्येन समर्द्धयति ॥ ७ ॥” इति । (५ प्र०।६ अ०। २० म०) । ऊर्क्शब्देन खादुलमुच्यते ॥
अन्नाद्यशब्देनोदरपूर्त्तिहेतुत्वं वेदनं प्रशंसति । “अनशनारुको भवति । य एवं वेद ।” इति । (५ प्र०।६ अ०।२१ म०) । अशनेच्छाशीलः अशनायुको दरिद्रः ‘अनशनायुकः’ तृप्तः ॥
कल्पः । अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्व्व इति । रन्तिरित्यादयः परिजानादहीनमित्यन्ता बहवो मन्त्राः । तेषु प्रथमं मन्त्रमाह । पाठस्तु । (१३)“रन्तिर्नामासि ० रुद्रोऽधिपतिः”(१३) इति । रन्तिनामको द्युलोकवर्त्ती यः ‘गन्धर्व्वः’,
४ प्रपाठके ११ अनुवाकः । ५०६
म॒हमायु॑षा । सं प्रा॒णेन॑ । सं वर्चे॑सा । सं पय॑सा । सं गौपत्ये॑न । सꣳ रायस्पोषे॑ण^(१४) ॥ ५ ॥
असि, हे प्रवर्ग्य, तद्रूपस्त्वं ‘असि’, ‘तस्य ते’ तादृशस्य गन्धर्व्व- रूपस्य तव, ‘हविर्द्धानं’, ‘यदत्’ हविर्द्धानाख्यमण्डपादिसदृशं* उत्तरवेद्यां प्राक् शिरस्त्वेनावस्थितस्य तवाधोभागवर्त्तित्वात्, योऽयं ‘अग्निः’, उत्तरवेदिं गतः, सोऽयं ‘अध्यक्षः’ तव स्वामी, योऽयं ‘रुद्रः’ क्रूरो देवः, सोऽयं ‘अधिपतिः’ अनिष्टनिवार- णेनाधिकपालकः ॥
मन्त्राक्षरैः प्रवर्ग्यमहिम्नः स्पष्टप्रतिभानं दर्शयति। “रन्ति- र्नामासि दिव्यो गन्धर्व्व इत्याह। रूपमेवास्यैतन्महिमानम्† रन्तिं बन्धुतां व्याचष्टे।” इति। (५ प्र०।६ अ०।२२म०)। ‘रन्तिः’ बन्धुत्वं, रमणहेतुत्वात्, मन्त्रस्य यत् स्वरूपमस्ति रन्त्यादि- शब्दोपेतं एतदेव प्रवर्ग्यस्य बन्धुत्वलक्षणं महिमानं प्रका- शयति ॥
द्वितीयं मन्त्रमाह। ^(१४)“समहमायुषा ॰ सꣳ रायस्पो- षेण”^(१४) इति । ‘अहं’, अस्य प्रवर्ग्यस्य प्रसादादायूरादिना रायस्पोषान्तेन फलषट्केन सङ्गतो भूयासं ॥
मन्त्रस्याशीरर्थतां दर्शयति । “समहमायुषा सं प्राणेने-
* मण्डपं पादसदृशमिति तै० पुस्तकपाठः
† खस्य महिमानमिति तै० पुस्तकपाठः।
५१० तैत्तिरीये आरण्यके
(१४)॒व्यसौ॑ । यो᳭स्मान्द्वेष्टि॑ । यञ्च॑ व॒यं द्वि॒षः(१५) ।
(१६)॒अचि॑क्रदद्वृषा॒ हरि॑: । म॒हान्मि॒त्रो न दर्श॑तः । सꣳ
सूर्ये॑ण रोचते(१६) । (१७)चि॒दसि॑ समु॒द्रयो॑निः । इन्दु॑-
त्याह । आशिषमेवैतामाशास्ते” इति । (५ प्र०।६ अ०, २३ म०) ॥
तृतीयं मन्त्रमाह । (१५)“व्यसौ • यञ्च वयं द्विषः”(१५) इति । ‘यः’, अस्माकं द्वेष्टा, यश्चास्माभिर्द्वेष्यः, उभयविधः ‘असौ’ शत्रुः, प्रवर्येण विनाशितः ॥
मन्त्रस्य परविनाशपरत्वेनाभिचाररूपतां दर्शयति । “व्यसौ योऽस्मान् द्वेष्टि यञ्च वयं द्विष इत्याह । अभिचार एवास्येषः ।” इति । (५ प्र०।६अ०।२४म०) । ‘अस्य’ शत्रोः, ‘एषः’ मन्त्रपाठः यजमानेन कृतोऽभिचारः, तेनासौ विनश्यतीत्यर्थः ॥
चतुर्थं मन्त्रमाह । (१६)“अचिक्रदद् वृषा हरिः • सꣳ सूर्येण रोचते”(१६) इति । अयं प्रवर्त्यः ‘वृषा’ कामानां वर्षयिता, ‘हरिः’ पापस्य हर्त्ता, तादृशः सन् ‘अचिक्रदत्’ *क्रन्दनमुत्साहेनास्फोटनं कृतवान् । स च प्रवर्त्यः ‘महान्’ गुणैरधिकः, ‘मित्रो न’ मित्र इव, ‘दर्शतः’ दर्शनीयः, तादृशः ‘सूर्येण’ सङ्भूय ‘रोचते’ प्रकाशयति ॥
प्रथमपादे विशेषणयोः प्रसिद्धिं दर्शयति । “अचिक्रदद्
* क्रन्दनमुत्साहेनाखान्दं इति D चिह्नितपुस्तकपाठः । क्रन्दनमुत्साहोद्घाटनं इति तै० पुस्तकपाठः ।
४ प्रपाठक ११ अनुवाकः । ५११
दक्ष॑: श्ये॒न ऋ॒तवा॑* । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आनि॑षत्तः ॥ ६ ॥
नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः^(१७) । ^(१८)विश्वाव॑सु॒र्
वृषा हरिरित्याह । वृषा ह्येषः ॥ ८ ॥ वृषा हरिः” । इति ।
(५ प्र० । ६ अ० । २५ म०) । यथा वृषत्वं प्रसिद्धं तथा हरि-
त्वमपीति वक्तुं 'वृषः' इति पुनरुक्तिः ॥
द्वितीयपादस्य स्तुतिपरतां दर्शयति । “महान्मित्रा न
दर्शंत इत्याह । स्तौत्यैवनमेतत्” । इति । (५ प्र० । ६ अ० । २६ म०)॥
पञ्चमं मन्त्रमाह । ^(१७)“चिदसि समुद्रयोनिः ० नमस्ते
अस्तु मा मा हिग्ंसीः”^(१७) इति । हे प्रवर्ग्य, त्वं चिदादि-
विशेषणविशिष्टः, 'असि' । 'चिद्' अभिज्ञः, 'समुद्रयोनिः' याग-
द्वारा समुद्रस्यापि कारणभूतः, 'इन्दुः' चन्द्रवदाह्लादकारो,
'दक्षः' उत्साहवान्, 'श्येनः' श्येनवद्वेगवान्, 'ऋतवा' कर्मफल-
युक्तः, 'हिरण्यपक्षः' चित्याग्नावन्ष्ठीयमानः सन् सुवर्णसमान-
पक्षोपेतः, 'शकुनः' पक्ष्याकारः, 'भुरण्युः' जगद्धरणसमर्थः,
'महान्' गुणैरधिकः, 'सधस्थे' कर्मकर्तृभिः सहावस्थानप्रदेशे,
'ध्रुवः' स्थिरः, 'आनिशत्तः' आभिमुख्येनोपविष्टः । हे प्रवर्ग्य,
'ते नमः', मां 'मा हिग्ंसीः' ॥
समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति । “चिदसि समुद्र-
* ऋतावा इति A, B, C, D, E, G, चिह्नितपुस्तकषट्कपाठः ।
3 s
५१२ तैत्तिरीये आरण्यके
सोम॑गन्ध॒र्व्वं । आपो॑ ददृ॒शुषीः॑ । तदृ॒तेना॑व्यायन् । तद॒न्व॑वैत् । इन्द्रो॑ रार॒हाण आ॑सां । परि॒ सूर्य्य॑स्य*
योनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति । (५ प्र० । ६ अ० । २७ म०) । समुद्रादिकं जगत्कर्मरूपं, स्वकीयां ‘योनिं’, प्रापयति । यद्वा समुद्रो योनैर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः, समुद्रसदृशः परमात्मा तस्य कारणं, ततो मन्त्रपाठेन स्वकीययोनिप्राप्तिः ॥
वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति । “नमस्ते अस्तु मा मा हिंसीरित्याहाहिंसायै” । इति । (५ प्र० । ६ अ० । २८ म०) ॥
षष्ठं मन्त्रमाह । (१५)“विश्वावसुᳵ सोमगन्धर्व्वं ॰ परिसूर्य्यस्य परिधीन् रपश्यत्”(१८) इति । सोमस्य परिमोषको गन्धर्व्वः ‘सोमगन्धर्व्वः’ । स च ‘विश्वावसु’नामकः, अतएव सोमप्रकरणे श्रूयते, तँ सोममाह्रियमाणं गन्धर्व्वो विश्वावसुः पर्य्यमुष्णादिति । सोमस्यापहर्त्तारं तं, ‘विश्वावसुं’, ‘आपो ददृशुषीः’ अब्देवता दृष्टवत्यः, ताश्चाब्देवताः ‘ऋतेन’ यज्ञेन निमित्तेन, ‘तत्’ तदा, ‘अव्यायन्’ विशेषेण गन्धर्व्वसमीपं प्रत्यागच्छन्, ‘इन्द्रः’, देवः, ‘तत्’ अपां गमनं, ‘अन्ववैत्’ अनुक्रमेण ज्ञातवान्, स च इन्द्रः, ‘आसां’ अपां समीपे, ‘रारहाणः’ भृशं गच्छन्, ‘सूर्य्यस्य’,
* B चिह्नितपुस्तके परिसूर्य्यस्य इति पाठो नास्ति ।
४ प्रपाठक ११ अनुवाकः । ५१३
परिधीँ॒रप॑श्यत्^(१८) । ^(१९)विश्वाव॑सुर॒भि तन्नो॑ गृणा- तु । दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑: । यद्धा॒द्य स॒त्य- मु॒त यन्न वि॒द्म ॥ ७ ॥
‘परिधीन्’ परिधिसदृशान्, दम्याभिमानिनो देवान्, ‘पर्य्य- पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्वः सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद- भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित- वानित्यर्थः ॥
विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श- यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय- माणस्यान्र्तयन्ति । तदेवास्यैतेनाप्याययति* ।” इति । (५ प्र० । अ० । २६ म०) । अनुष्ठीयमानस्य प्रवर्ग्यस्य ‘यत्’ अङ्गम्, ऋत्विजः अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं करोति । गन्धर्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा- हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥
सप्तमं मन्त्रमाह। ^(१९)“विश्वावसुरभि तन्नो गृणातु । • धियो हिन्वानो धिय इन्नो अव्यात् ।”^(१९) इति। अस्मिन् कर्म्मणि ‘यद्धाद्य’ यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’ अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,
* काप्यायति इति F, H, चिह्नितपुस्तकद्वयपाठः ।
3 s 2
५१४ तैत्तिरीये आरण्यके
धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात्^(१९)। ^(२०)स-
सि॑म॒विन्दच्चर॑णे न॒दीना॑म्। अपा॑वृणो॒द् दुरो॒ अश्म॑-
'विश्वावसुः', 'गृणातु' कथयतु। कीदृशः, 'दिव्यो गन्धर्व्वः' दिवि भवो गन्धर्व्वजातिः, अतः सर्व्वज्ञ इत्यर्थः। 'रजसो विमानः' रञ्जकस्य गीतस्य विशेषेण निर्माता, 'धियो हिन्वानः' बुद्धेः प्रीणयिता, स गन्धर्व्वः 'नः' अस्मदीयाः, 'धिय इत्' बुद्धीः सर्व्वा अपि, 'अव्यात्' रक्षतु॥
पूर्व्वमन्त्रे* यथाङ्गवैकल्यसमाधानहेतुत्वं, तद्वदस्यापि वैकल्यसमाधानहेतुतां दर्शयति। “विश्वावसुरभितन्नो गृणात्वित्याह॥ ९॥ पूर्व्वमेवोदितं। उत्तरेणाभिगृणातु”। इति। (५ प्र०। ८ अ०। ३० म०)॥
चतुर्थपादे धीरक्षणेन ऋतुसमृद्धिर्विवक्षितेति दर्शयति। “धियो हिन्वानो धिय इन्नो अव्यादित्याह। ऋतूनेवास्मै कल्पयति”। इति। (५ प्र०। ८ अ०। ३१ म०)। ऋतवो यदा स्वस्वकार्य्यकराः तदा प्राणिनां बुद्धयः स्वस्था भवन्ति। अतो धीरक्षणं ऋतुषु प्रवाहरूपेण प्रवर्त्तते॥
अष्टममन्त्रमाह। ^(२०)“ससिमविन्दच्चरणे नदीनां। ० इन्द्रो दृढं परिजानादहीनं”^(१०) इति। यः पूर्व्वों गन्धर्व्वः अस्ति सः
* पूर्व्वमन्त्रो यथाङ्गवैकल्यसमाधानहेतुः। इति F, H, चिह्नितपुस्तकद्वयपाठः।
४ प्रपाठके ११ अनुवाकः। ५१५
व्रजा॒नां । प्रासां॑ गन्ध॒र्व्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्षं॑ परि॑जानादही॒नं⁽२०⁾ ।(११) ए॒तत्वं॑ दे॑व घ॒र्म्म दे॒वो दे॒वा-
अयं 'नदीनां' गङ्गायमुनादीनां, 'चरणे' प्रवाहरूपे प्रवर्त्तके, 'मन्झिमविन्दत्' शुद्धिं लब्धवान्, नदीप्रवहणेन पङ्कादि- प्रक्षालनात् शुद्धिं दृष्टवान् । अश्मसु पाषाणेषु व्रजन्ति प्रवहन्ति इति, 'अश्मव्रजाः' नद्यः, तासां, 'दुरः' द्वाराणि, 'अपावृणोत्' अपनीतवान्, नदीषु प्रवेष्टुं द्वारस्थानीया- स्तीर्थभूताः मार्गाः अश्मभिर्य्ये अवरुद्धाः, तत्र पाषाणान् अपनीय नदीः सेवितुं योग्याः कृतवान् । ततः 'आसां' नदीनां, 'अमृतानि' शुद्धिकारणानि जलानि, सः 'गन्धर्व्वः', 'प्रवोचत्' प्राणिनामग्रे कथितवान् । ततः 'इन्द्रः', 'दक्षं' कुशलं गन्धर्व्वं, 'अहीनं' क्वापि वैकल्यरहितं, 'परिजानात्' परितो ज्ञातवान् ॥
अत्र जलवाचिना अमृतशब्देन मरणरहितानां प्राणाना- मपि सूचनं दर्शयति । "प्रासां गन्धर्व्वो अमृतानि वोचदि- त्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति" । इति । (५ प्र० । ६ अ० । ३२ म०) । अमृतशब्दपाठेने यजमानस्य प्राणान् सुस्थितान् करोति ॥
कल्पः । एतत्वं देव घर्म देवो देवानुपागा इति अभि- मन्त्रयेत । (११ मन्त्रः) । हे 'घर्म देव', 'त्वं', 'देवः' देवतारूपः
| ५१६ | तैत्तिरीये आरण्यके |
|---|
नुपा॑गाः(११)। (१२)इ॒दम॒हं मंनु॒ष्यो॑ मनु॒ष्या॑न्। सोम॑पी-
सन्, ‘एतत्’ अस्माकं प्रत्यक्षं यथा भवति तथा, ‘देवान्’, ‘उपागाः’ प्राप्तवानसि ॥
अत्र प्रवर्ग्यस्य देवत्वं सर्व्वदेवप्रापणञ्च* प्रसिद्धमित्येतद्दर्शयति । “एतत्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन् देवानुपैति” । इति । (५ प्र० । ६ अ० । ३३ म०) ॥
कल्पः । इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्त्येति । पाठस्तु । (१२)“इदमहं मनुष्यो मनुष्यान् । ० सह रायस्पोषेण”(१२) इति । ‘अहं’ यजमानः, ‘मनुष्यः’, सन् ‘इदं’ प्रत्यक्षं यथा भवति तथा, ‘मनुष्यान्’, प्राप्नोमीति शेषः। हे ‘सोमपीथ’ सोमपान, ‘मां’, आभिमुख्येन ‘अन्विहि’ प्राप्नुहि, न केवलं त्वमेव, किन्तु ‘प्रजया रायस्पोषेण’, च ‘सह’, तदुभयमपि मां प्राप्नोतु ॥
यजमानस्य मनुष्यत्वं मनुष्यत्वप्राप्तिश्च प्रसिद्धा इत्येतद्दर्शयति । “इदमहं मनुष्यो मनुष्यानित्याह ॥ १० ॥ मनुष्यो हि । एष सन् मनुष्यानुपैति” । इति । (५ प्र० । ६ अ० । ३४ म०) ॥
सोमपानप्रार्थनायां कारणं दर्शयति । “ईश्वरो वै प्रवर्-र्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमन्वूदासः सोमपीथानुमेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते” । इति । (५ प्र० । ६ अ० । ३५ म०) । यः
* अत्र प्रवर्ग्यस्य देवप्रापणमिति D चिह्नितपुस्तकपाठः ।
४ प्रपाठके ११ अनुवाकः। ५१०
थाऽऽनु॒ मेहि॑। सह॒ प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण^{(९२)* }।
^{(९२)}सु॒मित्रा॒ न॒ आप॒ ओष॑धयः सन्तु॥ दु॒र्म्मित्रा॒स्तस्मै॑
भूयासुः। यो॑ऽस्मान् द्वेष्टि॑। यञ्च॑ व॒यं द्वि॒ष्मः^{(९३)}}।
प्रवर्ग्यं उद्वासयति असौ तदानीं तं 'प्रवर्ग्यम्', 'अनु', स्वकीयां
'प्रजां' पुत्रादिकां, 'पशून्' गवादीन्, 'सोमपीथं' करिष्यमाणं
सोमपानञ्च, 'उद्वासः' 'ईश्वरः' उद्वासयितुं समर्थो भवति।
प्रवर्ग्योद्वासनमनु सर्व्वमिदं नश्यतीत्यर्थः†। अतः सोमपीथे-
त्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि सम्पादयति॥
कल्पः। सुमित्रा न आप ओषधयः इति मार्ज्जालीयदेशे
उच्छिष्टखरे मार्ज्जयिलेति। पाठस्तु। (९२)“सुमित्रा न आपः
ओषधयः सन्तु ० यञ्च वयं द्विष्मः”(९३) इति। एताः
'आपः', तत्कार्याः 'ओषधयः', च 'नः' अस्माकं, 'सुमित्राः'
सुस्निग्धाः, 'सन्तु'। 'यः' द्वेष्टा, यश्च द्वेष्यः, 'तस्मै' उभयस्मै,
'दुर्मित्राः' शत्रवः, 'सन्तु'॥
प्रथमपादस्याशीःपरतां दर्शयति। “सुमित्रा न आप
ओषधयः सन्त्वित्याह। आशिषमेवैतामाशास्ते”। इति। (५प्र०।
८अ०।३६म०)॥
उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति। “दुर्मित्रा-
* B चिह्नितपुस्तके सह प्रजयेति पाठो नास्ति। G, B, चिह्नित-पुस्तकेयोः 'स्पो'कार उदात्तो अन्यत्र 'षे'कारः।
† न पश्यतीत्यर्थः इति E चिह्नितपुस्तकपाठः।
५१८ तैत्तिरीये आरण्यके
(२४)उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रं(२४) । (२५)इ॒ममू॒षु
स्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्याह । अभि- चार एवाश्लेषः” ॥ इति । (५ प्र० । ६ अ० । ३१ म०) ॥
कल्पः । उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्र- मिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठते इति । उद्वयमिति मन्त्रः, समास्त्वाग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं चित्रं देवानामिति मन्त्रद्वयं उदु त्यमित्यनुवाके व्याख्यातं ।
एतन्मन्त्रद्वयसाध्यहोमं विधत्ते । “प्र वा एषोऽस्माँल्लोका- च्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरी- भ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आ- दित्यः सुवर्गो लोकः । यत् सौरी भवतः । तेनैव सुवर्गाँल्लोका- न्नैति”* ॥११॥ इति । (५ प्र० । ६ अ० । ३२ म०) । प्रवर्ग्यस्योद्वासनेन स्वयमेव ‘अस्माँल्लोकात्’, भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूप- त्वेन तत्र होमे सति स्वयं ‘अस्मिन्’, लोके, प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात् सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।
ब्रह्मणस्त्वा परस्याया इत्याह, दधाति, अनित्य, रक्षसो रक्षसामपहत्यै, वै हिरण्यं, आह, अर्द्धयति, श्लेष, गृह्णातीत्याह, मनुष्यानित्याह, अश्लेषः, अष्टौ च ॥
इति माधवीये पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
* लोकान्नवैति इति H, F, चिह्नितपुस्तकद्वयपाठः ।
४ प्रपाठक ११ अनुवाकः। ५११
द॑क्षः श्ये॒न ऋ॒तवा॑* । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्त्स॒धस्थे॑ ध्रु॒व आनि॑षत्तः ॥ ६ ॥ नम॑स्ते अस्तु॒ मा मा॑ हिंसीः^(१७) । ^(१८)विश्वा॒वसु॑ꣳ
वृषा हरिरित्याह। वृषा ह्येषः ॥ ८ ॥ वृषा हरिः” । इति। (५ प्र० । ८ अ० । २५ म०) । यथा वृषत्वं प्रसिद्धं तथा हरि त्वमपीति वक्तुं 'वृषः' इति पुनरुक्तिः ॥
द्वितीयपादस्य स्तुतिपरतां दर्शयति । “महान्मित्रा न दर्शत इत्याह । स्तौत्येवैनमेतत्” । इति । (५ प्र० । ६ अ० । २६ म०) ॥
पञ्चमं मन्त्रमाह । ^(१७)“चिदसि समुद्रयोनिः ० नमस्ते अस्तु मा मा हिꣳसीः”^(१७) इति । हे प्रवर्ग्य, त्वं चिदादि- विशेषणविशिष्टः, 'असि' । 'चित्' अभिज्ञः, 'समुद्रयोनिः' याग- द्वारा समुद्रस्यापि कारणभूतः, 'इन्दुः' चन्द्रवदाह्लादकारो, 'दक्षः' उत्साहवान्, 'श्येनः' श्येनवद्वेगवान्, 'ऋतवा' कर्मफल- युक्तः, 'हिरण्यपक्षः' चित्याग्नावुनुष्ठीयमानः सन् सुवर्णसमान- पक्षोपेतः, 'शकुनः' पक्ष्याकारः, 'भुरण्युः' जगद्भरणसमर्थः, 'महान्' गुणैरधिकः, 'सधस्थे' कर्मकर्तृभिःसहावस्थानप्रदेशे, 'ध्रुवः' स्थिरः, 'आनिषत्तः' आभिमुख्येनोपविष्टः । हे प्रवर्ग्य, 'ते नमः', मां 'मा हिꣳसीः' ॥
समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति । “चिदसि समुद्र-
* ऋतावा इति A, B, C, D, E, G, चिह्नितपुस्तकषट्कपाठः ।
३ ४
५१२ तैत्तिरीये आरण्यके
सोम॑गन्ध॒र्व्वं । आपो॑ ददृशुषी॑: । ऋ॒तेना॑व्यायन् । तद॒न्ववै॑त् । इन्द्रो॑ रारहा॒ण आ॑सां । परि॒ सूर्य्य॑स्य*
योनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति । (५ प्र० । ८ अनु० । २७ म०) । समुद्रादिकं जगत्कर्म्मरूपां, स्वकीयां 'योनिं', प्रापयति । यद्वा समुद्रो योनैर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः, समुद्रसदृशः परमात्मा तस्य कारणं, ततो मन्त्रपाठेन स्व- कीययोनिप्राप्तिः ॥
वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति । “नमस्ते अस्तु मा मा हिंसीरित्याहाहिंसायै” । इति । (५ प्र० । ८ अ० । २८ म०) ॥
षष्ठं मन्त्रमाह । $^{(१२)}$“विश्वावसुर् सोमगन्धर्व्वं ० परिसूर्य्यस्य परिधीँ रपश्यत्”$^{(१८)}$ इति। सोमस्य परिमोषको गन्धर्व्वः 'सोम- गन्धर्व्वः' । स च ‘विश्वावसु'नामकः, अतएव सोमप्रकरणे श्रूय- ते, तर् सोममाह्रियमाणं गन्धर्व्वो विश्वावसुः पर्य्यमुष्णादिति । सोमस्यापहर्त्तारं तं, 'विश्वावसुं', 'आपो ददृशुषीः' अब्दे- वता दृष्टवत्यः, ताश्चाब्देवताः ‘ऋतेन’ यज्ञेन निमित्तेन, ‘तत्’ तदा, ‘अव्यायन्’ विशेषेण गन्धर्व्वसमीपं प्रत्यागच्छन्, 'इन्द्रः', देवः, ‘तत्’ अपां गमनं, ‘अन्ववैत्’ अनुक्रमेण ज्ञातवान्, स च इन्द्रः, ‘आसां' अपां समीपे, ‘रारहाणः' भृशं गच्छन्, 'सूर्य्यस्य',
* B चिह्नितपुस्तके परिसूर्य्यस्य इति पाठो नास्ति ।
४ प्रपाठक ११ अनुवाकः। ५१३
परि॒धीँर॑पश्यत्^{(१५)}। ^{(१६)}विश्वा॑वसुरभि॒ तन्नो॑ गृणा- तु। दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑:। यद्वा॒द्य स॒त्य- मु॒त यन्न वि॒द्म ॥ ७ ॥
‘परिधीन्’ परिधिसदृशान्, दग्धाभिमानिनो देवान्, ‘पर्य- पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्व: सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद- भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित- वानित्यर्थः ॥
विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श- यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय- माणस्यान्तर्य्यन्ति । तदेवास्मैतेनाप्याययति* ।” इति । (५ प्र० । ६ अ० । १६ म०) । अनुष्ठीयमानस्य प्रवर्ग्र्यस्य ‘यत्’ अङ्गम्, ऋत्विजः अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं करोति । गन्धर्व्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा- हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥
सप्तमं मन्त्रमाह । ^{(१६)}“विश्वावसूरभि तन्नो गृणातु । ० धियो हिन्वानो धिय इन्नो अव्यात् ।”^{(१६)} इति। अस्मिन् कर्म्मणि ‘यद्वाद्य’ यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’ अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,
* प्याययति इति F, H, चिह्नितपुस्तकद्वयपाठः।
3 s 2