तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
४८४ तैत्तिरीये आरण्यके
अथ दशमोऽनुवाकः ।
(१)इ॒षे पी॑पिहि । ऊ॒र्जे पी॑पिहि । ब्रह्म॑णे पीपिहि । क्ष॒त्राय॑ पीपिहि । अ॒द्भ्यः पी॑पिहि । ओष॑धीभ्यः पीपिहि । वन॒स्पति॑भ्यः पीपिहि । द्यावा॑पृथि॒वीभ्यां॑ पीपिहि । सु॒भू॒ताय॑ पीपिहि । ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि ॥ १ ॥ यज॑मानाय पीपिहि । मह्यं॒ ज्यैष्ठ्या॑य पीपिहि(१) ।
अथ दशमोऽनुवाकः ।
आहवनीये प्रवर्ग्यद्रव्येण होमो नवमेऽभिहितः । दशमे तद्द्रव्यशेषेणाग्निहोत्रहोमोऽभिधीयते । तत्रादौ किञ्चिदनुमन्त्रणमुच्यते । कल्पः । उपर्याहवनीये धार्य्यमाणं प्रतिप्रस्थाता शृतदध्ना पूरयतीषे पीपिह्यूर्जे पीपिहीति विचरन्तमनुमन्त्रयत इति । पाठस्तु । (१)“इषे पीपिहि ० मह्यं ज्यैष्ठ्याय पीपिहि”(१) इति । आहवनीयस्योपरि महावीरं धारयित्वा तत्रत्ये तप्ते घृते तप्तस्य दध्नः प्रक्षेपे सति प्रवर्ग्यो विचरति विशेषेण पात्रस्योर्द्ध्वं यदोद्गच्छति तदानीमुद्गच्छन्तं प्रवर्ग्यं सम्बोधेदमुच्यते । हे प्रवर्ग्य, ‘इषे’ अन्नार्थं, ‘पीपिहि’ त्वं प्रवृद्धो भव । तथा ‘ऊर्जे’ रसार्थं ब्राह्मणाद्यर्थञ्च, प्रवृद्धो भव । सुभूतं, शोभनं प्राणिजातं, ‘मह्यं ज्यैष्ठ्याय’ अध्वर्य्योर्मम प्रशस्तत्वाय, प्रवर्ग्यस्याभिवृद्ध्या सर्व्वमिदमभिवर्द्धत इत्यर्थः ॥
४ प्रपाठके १० अनुवाकः । ४८५
एतस्याभिवृद्धेर्मन्त्रोक्तायाः वृष्टिहेतुत्वं दर्शयति । "यत् पिन्वते । वर्षुकः पर्जन्यो भवति । तस्मात् पिन्वमानः पुष्टः" इति । (५ प्र० । पञ्च० । १५ म०) । 'पिन्वते' वर्द्धते, पात्रस्योपरि उद्गच्छतीत्यर्थः ॥
हविष उद्गमनं दिग्विषेपेण प्रशंसति । "यत् प्राङ् पिन्वते । तद्देवानां । यद्दक्षिणा । तत्पितॄणां ॥ ४॥ यत् प्रत्यक् । तन्मनुष्याणां । यदुदङ् । तद्रुद्राणां" इति । (५ प्र० । पञ्च० । १६ म०) ॥
इत्थमभिवृद्धिं प्रशस्य प्रागुदग्दिशोः मध्ये चरणं* विधत्ते । "प्राञ्चमुदञ्चं पिन्वयति । देवत्राकः" इति । (५ प्र० । पञ्च० । १७ म०) । प्रागुदङ्ङ्मध्यवर्त्तिनमेतं प्रवर्ग्यं इष्टं 'पिन्वयति' अभिवृद्धं कुर्य्यात् । महावीरमध्ये तस्मिन् प्रदेशे दधिप्रक्षेपेणाभिवर्द्धयेत् । तेन देवत्रा, देवेष्टकः एतं प्रवर्ग्यं करोति ॥
पक्षान्तरं विधत्ते । "अथो खलु । सर्व्वा अनु दिशः पिन्वयति । सर्व्वा दिशः समेधन्ते" इति । (५ प्र० । पञ्च० । १८ म०) । पात्रमध्ये 'सर्व्वा दिशः' 'अनु'लक्ष्य, दधिप्रक्षेपेण तद्धविरुद्गमयेत् । तेन सर्व्वा अपि दिशः सम्यग् वर्द्धन्ते ॥
पात्रादुद्गतस्य हविषः परिधिभ्यो बहिर्द्देशे पतनं वारयितुं विधत्ते । "अन्तः परिधि पिन्वयति ॥ ५॥ तेजोऽस्कन्दाय" इति । (५ प्र० । पञ्च० । १८ म०) । परिधीनां 'अन्तः' एव यथा पतति तथा अभिवर्द्धयेत् । तथा सत्यविनाशितं तेजो भवति ॥
* विद्धरणं इति D चिह्नितपु० पाठः
४८६ तैत्तिरीये आरण्यके
(२)त्विष्यै॑ त्वा । द्यु॒म्नाय॑ त्वा । इ॒न्द्रि॒याय॑ त्वा भू॒त्यै त्वा॑(२)।
मन्त्रेषु चतुर्थीविभक्तेस्तात्पर्यं दर्शयति। "दूषे पीपिह्यूर्जे पीपीहीत्याह। दूषमेवोर्जं यजमाने दधाति" इति। (५ प्र०। ८ अनु०।२० म०)। उत्तरमन्त्रेष्वप्येतदनुसन्धेयं॥ सर्वेषां यजमानार्थत्वे समाने सति पुनर्यजमानायेत्युक्तेस्ता- त्पर्य्यमाह। "यजमानाय पीपिहीत्याह। यजमानायैवैतामा- शिषमाशास्ते" इति। (५ प्र०।८ अनु०।२१ म०)। यजमानस्य फलान्तरानुशासनायेयमुक्तिरित्यर्थः॥ अध्वर्य्योः स्वार्थं मह्यमित्युक्तिरिति दर्शयति। "मह्यं ज्यै- ष्ठ्याय पीपिहीत्याह। आत्मन एवैतामाशिषमाशास्ते" इति। (५ प्र०।८ अनु०।२२ म०)॥ कल्पः। अथैनं दिशोऽनुप्रजावयति त्विष्यै त्वा द्युम्नाय त्वा इन्द्रियाय त्वा भूत्यै त्वेति। (९ मन्त्रः)। हे प्रवर्ग्य, 'त्विष्यै' दीप्तिसिद्धये, त्वां प्राच्यां दिशि हुतं करोमि। 'द्युम्नाय' धनसिद्धये, त्वां दक्षिणास्यां दिशि हुतं करोमि। 'इन्द्रियाय' वीर्यवृद्धये त्वां प्रतीच्यां दिशि हुतं करोमि। 'भूत्यै' ऐश्वर्य्य- सिद्धयर्थं, उदीच्यां दिशि हुतं करोमि॥ मन्त्रस्य स्पष्टार्थतां दर्शयति। "त्विष्यै त्वा द्युम्नाय त्वेन्द्रि- याय त्वा भूत्यै त्वेत्याह। यथा यजुरेवैतत्" इति। (५ प्र०। ८ अनु०।२३ म०)॥
४ प्रपाठके १० अनुवाकः । ४८७
(९)धर्म्मा॑सि सु॒धर्म्मा॒ मेऽन्यस्मै॑ । ब्रह्मा॑णि धारय । क्ष॒- त्राणि॑ धारय । विशं॑ धारय । नेत्त्वा॒ वातः॒ स्कन्द॒- या॑त्(२) ॥ २ ॥
कल्पः । प्रत्याक्रम्योपयमने शेषमानीयन्तर्वेद्युपयमनं नि- धाय पूर्व्वस्मिन् खरे राजतं रुक्मं निधाय तस्मिन् महावीरं प्रतिष्ठापयति धर्म्मासि सुधर्म्मा मेऽन्यस्मै ब्रह्माणि धारयेति क्षत्राणि धारयेति राजन्यस्य विशं धारयेति वैश्यस्येति । (३ मन्त्रः) । (नेत्त्वा वातः स्कन्दयादिति मन्त्रशेषः) । हे महा- वीर, ‘धर्म्मासि’ त्वं धारणशक्तियुक्तोऽसि, ‘मे’ मम, ‘सुधर्म्मा’ सुष्ठु धारको भवेति शेषः । ‘अस्मै’ अस्मासु, ‘ब्रह्माणि’ ब्रा- ह्मणजात्युचितानि कर्म्माणि, ‘धारय’ नितरां सम्पादय, ‘क्षत्राणि’ क्षत्रियजात्युचितानि कर्म्माणि ‘धारय’, ‘विशं’ प्रजां, ‘धारय’ ‘वातः’ वायुः, त्वां, ‘नेत्’ ‘स्कन्दयात्’ नैव शोषयतु ॥
मन्त्रपाठेन ब्राह्मणजात्युचिते* कर्म्मणि यजमानस्य स्थापनं दर्शयति । “धर्म्मासि सुधर्मा मेऽन्यस्मै ब्रह्माणि धारयेत्याह । ॥६॥ ब्रह्मणैवेनं प्रतिष्ठापयति” इति । (५ प्र०।८ अ०।१४ म०) ॥
मन्त्रशेषस्य निगदव्याख्यातत्वमभिप्रेत्य तत्स्वरूपमात्रमुपद- र्शयति । “नेत्त्वा वातः स्कन्दयादिति” (५ प्र०।८ अ०।१५ म०) । ब्राह्मणादिविषयेषु मन्त्रत्रयेष्वनुषङ्गद्योतनाय पृथक्प्रदर्शनं ॥
* ब्राह्मणजात्युचितेन कर्मणा इति तै० पुस्तकपाठः
४८८ तैत्तिरीये आरण्यके
$^{(४)}$अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयामि । अ॒मुना॑ स॒ह नि॒- ऋ॑थं ग॑च्छ । यो॑ऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यं द्वि॒ष्मः$^{(४)}$ । $^{(५)}$पू॒ष्णे शर॑से॒ स्वाहा॑ । ग्राव॑भ्यः॒ स्वाहा॑ । प्रति॒रेभ्यः॑
कल्पः । यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादये- दिति । पाठस्तु । $^{(४)}$“अमुष्य त्वा प्राणे सादयामि ॰ यञ्च वयं द्विष्मः”$^{(४)}$ इति । हे महावीर, द्वेष्टा द्वेष्यश्चेत्युभयविधस्य, ‘अमुष्य’ शत्रोः ‘प्राणे’ त्वां, ‘सादयामि’ । ‘अमुना’ शत्रुुणा, ‘सह’ त्वं ‘निरृथं गच्छ’ प्रयोजनाभावं प्राप्नुहि, तदीयं प्रयो- जनं मा कुर्वित्यर्थः ॥
अनेन मन्त्रेणाभिचारप्रयोगं विधत्ते । “यद्यभिचरेत् । अमुष्य त्वा प्राणे सादयाम्यमुना सह निरृथं गच्छेति ब्रूयाद्यं द्विष्यात् । यमेव द्वेष्टि । तेनैनग् सह निरृथं गमयति” इति । (५ प्र०।८ प्र०।६ म०) । ‘यं’ शत्रुं, यजमानः ‘द्विष्यात्’ शत्रुश्च ‘यमेव’ यजमानं, ‘द्वेष्टि’ ‘एनग्’ द्वेष्यं द्वेष्टारं चेत्युभयविधं शत्रुं स यजमानस्तेन महावीरेण ‘सह’ ‘निरृथं’ पुरुषार्थाभावं प्रापयति ॥
कल्पः । अथैतान् शकलानुपयमने जुहोति । पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रमिति । पाठस्तु । $^{(५)}$“पूष्णे शरसे स्वाहा ॰ पितृभ्यो घर्मपेभ्यः स्वाहा”$^{(५)}$ इति । अनिष्टस्य हिंसकः शराः तादृशाय ‘शरसे’ ‘पूष्णे’ पोषकाय देवाय, स्वाहुतमिद-
४ प्रपाठके १० अनुवाकः । ४८९
स्वाहा॑ । द्यावा॑पृथि॒वीभ्या॒ꣳ स्वाहा॑ । पि॒तृभ्यो॑ घ॒र्म-
मस्तु । ‘ग्रावभ्यः’ पाषाणजन्यध्वनिरूपाभ्यः वाग्देवताभ्यः, ‘प्रतिरेभ्यः’ अभिवृद्धिहेतुभ्यः प्राणदेवेभ्यः ॥
प्रथममन्त्रे पूषन्-शब्देन बहुदेवताविवक्षां दर्शयति । “पूष्णे शरसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति” इति । (५ प्र० । ८ अ० । २७ म०) । द्विविधा हि ‘देवताः’ हुतभागा अहुतभागाश्चेति । तथा चान्यत्राम्नातं । हुतादो वा अन्ये देवा अहुतादोऽन्ये इति । तासु ‘हुतभागाः’ सर्वा *अप्युपलक्षिताः ‘ताभ्यः’ सर्वाभ्यः, ‘एनं’ उक्तं शकलं ‘जुहोति’ ॥
ग्रावशब्देन तज्जन्यध्वनिविवक्षां दर्शयति । “ग्रावभ्यः स्वाहेत्याह । या एवान्तरिक्षे वाचः ॥ ७ ॥ ताभ्य एवैनं जुहोति” इति । (५ प्र० । ८ अ० । २८ म०) ॥
प्रतिरशब्देन प्राणविवक्षां दर्शयति । “प्रतिरेभ्यः स्वाहेत्याह । प्राणा वै देवाः प्रतिराः । तेभ्य एवैनं जुहोति” इति । (५ प्र० । ८ अ० । २९ म०) ॥
द्यावापृथिवीशब्देन मुख्यार्थविवक्षां दर्शयति । “द्यावापृथिवीभ्याꣳ स्वाहेत्याह । द्यावापृथिवीभ्यामेवैनं जुहोति” इति । (५ प्र० । ८ अ० । ३० म०) ॥
* अन्य इति D (घ, ङ, स) पुस्तकपाठः ।
3 P 2
४६० तैत्तिरीये आरण्यके
पेभ्यः॒ स्वाहा॑^(५) । ^(१)रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहा॑^(१) ॥ ३ ॥
घर्म्मपेभ्य इति विशेष्येण* सोमयागं कृत्वा पितृलोकगतानां पितॄणां विवक्षां दर्शयति । "पितृभ्यो घर्म्मपेभ्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्म्मपाः । तेभ्य एवैनं जुहोति" इति ॥८॥ (५प्र०।८अनु०।३१म०) । यज्वनां स्वकीययागकाले प्रवर्ग्यपानमस्तीति ते घर्म्मपाः ॥
कल्पः । षष्ठं शकलं सर्व्वेषु लेपेष्वक्तानन्ववेक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहेति । (६ मन्त्रः) । रुद्राः सहस्रसंख्याका होतार आह्वातारो यस्य मुख्यरुद्रस्य तस्मै 'रुद्रहोत्रे' मुख्य-'रुद्राय' स्वाहुतमिदं शकलमस्तु ॥
अनेन मुख्यरुद्रस्य भागसमृद्धिं दर्शयति । "रुद्राय रुद्रहोत्रे स्वाहेत्याह । रुद्रमेव भागधेयेन समर्द्धयति" इति । (५प्र०।८अनु०।३२म०) ॥
अस्य शकलस्याज्यपयः पिष्टलेपेषु सर्व्वेष्वञ्जनं विधत्ते । "सर्व्वतः समनक्ति । सर्व्वत एव रुद्रं निरवदयते" इति । (५प्र०।८अनु०।३३म०) । सर्व्वाञ्जनेन क्रूरदेवस्य रुद्रस्य 'सर्व्वतः' अपसारणं कृतं भवति ॥
शकलपरित्यागस्य दिग्विशेषं विधत्ते । "उदञ्चं निरस्यति । एषा वै रुद्रस्य दिक् । एषायामेव दिशि रुद्रं निरवदयते" इति । (५प्र०।८अनु०।३४म०) । ऐशान्याः समीपे वर्त्तत इति उदीच्यपि 'रुद्रस्य दिक्' भवति ॥
* विशेष्येन इति तै० पुस्तकपाठः ।
४ प्रपाठके १० अनुवाकः । ४६१
(७)अह॒र्ज्योति॑: के॒तुना॑ जुषता॒ꣳ॒ । सु॒ज्योति॒र्ज्योति॑- षा॒ꣳ॒ स्वाहा॑ । रात्रि॒र्ज्योति॑: के॒तुना॑ जुषता॒ꣳ॒ । सु॒ज्योति॒- र्ज्योति॑षा॒ꣳ॒ स्वाहा॑(७) । (८)अपो॑परो॒ माह्नो॒ रात्र्यै॒ मा पाहि । ए॒षा ते॑ अग्ने समि॒त् । तया॒ समि॑ध्यस्व । आ-
हस्तेन जलस्पर्शं विधत्ते । "अप उपस्पृशति मेध्यत्वाय" इति। (५प्र०।८अ०।३५म०) । रुद्रार्थशकलस्पर्शेन यज्ञयो- ग्यत्वं विनष्टं पुनर्जलस्पर्शेन तद्योग्यता सम्पद्यते ॥
शकलपरित्यागकाले तद्दर्शनं निषेधति । "नान्वीक्षेत । यदन्वीक्षेत ॥ ६॥ चक्षुरस्य प्रमायुकꣳ स्यात् । तस्मान्नान्वीक्ष्यः" इति । (५प्र०।८अ०।३६म०) । 'प्रमायुकम्' विनश्वरं ॥
कल्पः । प्रतिप्रस्थाता दक्षिणे रौहिणे प्रतितिष्ठन्तं जुहो- त्यहर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाꣳ स्वाहेति । रात्रिर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाꣳ स्वाहेति । (७ मन्त्रः) । तावेतौ मन्त्रौ पूर्व्वस्मिन्ननुवाके ब्राह्मणोदाह- रणप्रसङ्गेन व्याख्यातौ ॥
कल्पः । अपोपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित् तया समिध्यस्वायुर्मे दा वर्च्च मा माङ्क्षीरिति सायं समिध*मादधत्यपोपरो मा रात्रिया अह्नो मा पाहीति प्रा- तरिति । तन्मन्त्रशेषस्तु । एषा ते अग्ने समित् । तया समि-
* समिधमभिजुहोति इति D चिह्नितपुस्तकपाठः ।
३६२ तैत्तिरीये आरण्यके
यु॑र्मे दा॒:। वच॑सा मा॒ञ्जीः। अपी॑परो॒ मा॒ रात्रिया॒ अह्नो॑ मा पाहि ॥ ४ ॥
ए॒षा ते॑ अग्ने समि॒त्। तया॒ समि॑ध्यस्व। आयु॑र्मे दा॒:। वच॑सा मा॒ञ्जीः^(८)। ^(९)अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः
ध्यस्व। आयुर्मे दाः। वर्चसा माञ्जीरिति। (८ मन्त्रः)। हे अग्ने मां, यजमानं 'अपीपरः' पारं नीतवानसि। तस्मात् 'अह्नः' रात्रेः, च सकाशान्मां 'पाहि'। हे 'अग्ने' 'ते' तव, 'एषा' समिदाधीयते 'तया' समिधा त्वं 'समिध्यस्व' सन्दीप्तो भव, 'मे' मह्यं, 'आयुर्दाः' देहि, 'वर्चसा' तेजसा, मां, यजमानं, 'आञ्जीः' अक्तं कुरु संयोजयेत्यर्थः। अपीपरो मा रात्रिया इति मन्त्रोऽपि तद्वत् व्याख्येयः। अहःशब्दस्य रात्रिशब्दस्य च पाठपौर्वापर्य्यमात्रं विशेषः॥
मन्त्रद्वयेऽपि यजमानस्यायुर्वर्चः प्राप्तिं दर्शयति। “अपोपरो माह्नो रात्रियै मा पाहेषा ते अग्ने समिच्चया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह। आयुरेवास्मिन् वर्चो दधाति। अपीपरो मा रात्रिया अह्नो मा पाहेषा ते अग्ने समिच्चया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह। आयुरेवास्मिन् वर्चो दधाति” इति। (५ प्र०। ८ अनु०। ३७ म०॥
कल्पः। अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोतीति सूर्य्यो ज्योतिर्ज्योतिः सूर्य्यः स्वाहेति प्रातरिति।
४ प्रपाठके १० अनुवाकः । ४८३
स्वाहा॑ । सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑^(९) । ^(१०)भूः स्वाहा॑^(१०) । ^(११)हुतꣳ॑ ह॒विः । मधु॑ ह॒विः । इन्द्र॑तमे॒ऽग्नौ ॥
(९ मन्त्रः) । योऽयं 'अग्निः' स ज्योतिःस्वरूपः यश्च ज्योतिः- स्वरूपः सोऽप्यग्निः अग्नेर्ज्योतिषश्चात्यन्तमभेदं द्योतयितुं व्यति- हारेण द्विरुपन्यासः । तस्मात् अग्नये स्वाहुतमिदमस्तु । सूर्य्य- मन्त्रोऽप्येवं व्याख्येयः ॥ मन्त्रद्वयस्य स्पष्टार्थतां दर्शयति । “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिःसूर्यः स्वाहेत्याह । यथा यजुरेवै- तत्” इति । (५ प्र० । ८ पञ्च० । २८ म०) ॥ कल्पः । अथाप उपस्पृश्य तूष्णीं काष्ट्रीं समिधमाधाये- तस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोतीति भूः स्वाहेति । (१० मन्त्रः) । 'भूः' सत्तास्वभावः, सदेव सौम्येदमग्र आसी- दित्यादिशास्त्रप्रतिपाद्यस्य परमात्मनः स्वरूपभूतो योऽग्निः तस्मै स्वाहुतमिदमस्तु ॥ अत्र मीमांसया भूः स्वाहेति मन्त्रं प्रथमप्रवर्ग्यकालीनाग्नि- होत्रविषयत्वेन व्यवस्थापयति* । “ब्रह्मवादिनो वदन्ति । होत- व्यमग्निहोत्रा३न्न होतव्या३मिति ॥१०॥ यद्यजुषा जुहुयात् । अयथा पूर्व्वमाहुतीर्जुहुयात् । यन्न जुहुयात् । अग्निः पराभ- वेत् । भूः स्वाहेत्येव होतव्यं । यथा पूर्व्वमाहुतीर्जुहोति । नाग्निः
* व्यवस्थां दर्शयति इति तै० पुस्तकपाठः ।
४६४ तैत्तिरीये आरण्यके
पि॒ता नो॑ऽसि॒ मा मा॑ हिँ॑सीः । अ॒श्याम॑ ते देवघर्म । मधु॑मतो॒ वाज॑वतः पितु॑मतः । अङ्गिर॑स्वतः स्वधावि॒- नः॑ । अशीमहि॑ त्वा मा मा॑ हिँ॑सीः(११) । ⁽¹²⁾स्वाहा॑
पराभवति” इति। (५ प्र०।८ अ०. १८ म०) । अत्र प्रथमप्रवर्ग्ये प्रातःकालीने तदीयद्रव्येणाग्निहोत्रं जुहुयात् न वेति वि- चारः होमपक्षे प्रथमाम्नातेनाग्निर्ज्योतिरिति मन्त्रेण होतव्यं, स च मन्त्रो नित्याग्निहोत्रे सायङ्कालीनः अतो यथा पूर्व्व- मनुष्ठानं न स्यात् । अहोमपक्षे लाहुत्यभावादग्निः क्षुधया पराभूतो भवेत् । अतो दोषद्वयपरिहाराय भूः स्वाहेति म- न्त्रेण प्रथमप्रवर्ग्यकाले जुहुयात् । ततः सायमग्निर्ज्योतिरिरिति मन्त्रः परेद्युः प्रातःसूर्य्यो ज्योतिरिति मन्त्रः एवं सति यथा पूर्व्वं नित्याग्निहोत्रवदेवेमा आहुतीर्जुहोति । अग्निश्चाहुति- सद्भावान्न पराभवति ॥
कल्पः । हुतग्ं हविर्मधुर्हविरिति भक्षयित्वेति । पाठस्तु । (११)“हुतग्ं हविः ० अशीमहि त्वा मा मा हिग्ंसीः”(११) इति। इदं प्रवर्ग्याख्यं ‘हविः’ उत्तराग्नौ ‘हुतं’ तच्च ‘हवि- र्मधु’ स्वादुभूतं, कुत्र हुतमिति तदुच्यते । ‘इन्द्रतमेऽग्नौ’ अति- शयेन परमैश्वर्य्ययुक्ते जाठरे प्राणरूपेऽग्नौ, हे प्रवर्ग्य त्वं ‘नः’ अस्माकं, ‘पिता’ पालकः ‘असि’ अतो मां, ‘मा हिग्ंसीः’ हे ‘घर्म’ प्रवर्ग्यदेव, ‘मधुमतः’ माधुर्य्ययुक्तस्य, ‘वाजवतः’ शरीर-
४ प्रपाठके १० अनुवाकः । ४६५
व्यापित्वेन गतियुक्तस्य, 'पितुमतः' अन्नसाधनत्वेनान्नयुक्तस्य, 'अङ्गिरस्वतः' अङ्गसौष्ठवहेतोः, 'स्वधाविनः' अमृतयुक्तस्य, 'ते' तव सारं, 'अश्याम्' भक्षयेम् । अथवा 'स्वधाविनः' इत्युत्तर- चान्वेतव्यं । यस्मात् स्वधाविनोऽमृतत्वार्थिनो वयं त्वां 'अशी- महि' तस्मान्मां 'मा हिंसीः' ॥
मधुशब्देन स्वादुत्वं विवक्षितमिति दर्शयति । "घृतवद् हविर्मधुमद्धविरित्याह । स्वदयत्येवैनं" इति । (५ प्र०।८अ०। ४० म०) ॥
अग्निशब्देन प्राणविवक्षां दर्शयति । "इन्द्रतमेऽग्नावित्याह ॥११॥ प्राणो वा इन्द्रतमोऽग्निः । प्राण एवैनमिन्द्रतमेऽग्नौ जुहोति" । (५ प्र०।८अ०।४१म०) ॥
मा हिंसीरिति प्रार्थनाया अन्तरणादिहिंसापरिहा- रार्थत्वं दर्शयति । "पिता नोऽसि मा मा हिंसीरित्याहा- हिंसायै" इति । (५ प्र०।८अ०।४२ म०) ॥
अश्याम इत्यस्य लिङ्प्रत्ययस्याशिरर्थविवक्षां दर्शयति । "अ- श्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आ- शिषमेवैतामाशास्ते" इति । (५ प्र०।८अ०।४३ म०) ॥
मा हिंसीरित्यनेन देवताशरीरभक्षणप्रयुक्तहिंसानिवा- रणविवक्षां दर्शयति । "स्वधाविनोऽशीमहि त्वा मा मा हिंसीरित्याहाहिंसायै" इति । (५ प्र०।८अ०।४४ म०) ॥
उक्तमन्त्रसाध्यं भक्षणं विधत्ते । "तेजसा वा एते व्यृध्यन्ते । ये प्रवर्गेण चरन्ति । प्राश्नन्ति । तेज एवात्मन् दधते" इति ॥१२॥
३ ९
४६६ तैत्तिरीये आरण्यक
(५ प्र०। ८ अनु०। ४५ म०)। प्रवर्ग्र्यप्रचरणप्रयासेन क्षीणा शक्ति- र्हविर्भक्षणेन समाहिता भवति ॥
नियमान् विधत्ते । "संवत्सरं न मांसमश्नीयात् । न रामामूपेयात् । न मृण्मयेन पिवेत् । नास्य राम उच्छिष्टं पिवेत् । तेज एव तत् सᳵश्यति" इति । (५ प्र०। ८ अनु०। ४६ म०) प्रवर्ग्र्यानुष्ठायी 'संवत्सर'-मात्रं 'मांसं' 'न' भक्षयेत् । स्त्रियं 'न' 'उपेयात्' 'मृण्मयेन' करकादिना, जलं 'न' 'पिवेत्' । 'अस्य' यजमानस्य, 'उच्छिष्टं' 'रामः' रमणीयः पुत्रः, 'न' 'पिवेत्' । 'तत्' तेन नियमेन, स्वकीयं 'तेजएव' सम्यक् तीक्ष्णी करोति ॥
यथोक्तं संवत्सरमांसवर्जनादिव्रतं प्रशंसति । "देवा- सुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । विभ्राजि सौर्ये ब्रह्म सन्न्यदधत । यत्किञ्च दिवाकीर्त्यं । तदेतेनैव व्रते- नागोपायत् ॥ तस्मादेतत् व्रतं चर्य्यं । तेजसो गोपीथाय । तस्मादेतानि यजूंषि विभ्राजः सौर्य्यस्येत्याहुः" इति । (५ प्र०। ८ अनु०। ४७ म०) । देवाश्चासुराश्च यदा परस्परं योद्धुं सन्नद्धाः 'आसन्' तदानीं 'ते' 'देवाः' 'विजयं' प्राप्तुमिच्छन्तः, सूर्य्यस्य पुत्रे विभ्राटनामके देवे 'ब्रह्म' वेदजातं, सम्यङ्निहितवन्तः । स च विभ्राड्देवो वेदे 'यत्किञ्चित्'* 'दिवाकीर्त्यं' अह्न्येव पठनीयमनुवाकजातं अस्ति । 'तत्' सर्व्वं 'एतेन' पूर्व्वोक्तनि- रूपणेन† 'एव' 'व्रतेन' युक्तो रक्षितवान्, 'तस्मात्' कारणात्,
* किमपि इति D चिह्नितपु० पाठः ।
† नियमेन इति D चिह्नितपु० पाठः
४ प्रपाठके १० अनुवाकः । ४६७
त्वा॒ सूर्य्य॑स्य र॒श्मिभ्यः॑ । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्यः⁽१२⁾ ॥ ५ ॥
ब्रह्म॑वर्च॒साय॑ पीपिहि, स्क॒न्द्यात्, रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहा॑, अ॒ह्नो मा पा॒हि, अ॒ग्नौ, सप्त च॑ ॥ अनु० १० ॥
दिवाकीर्त्त्येन प्रवर्ग्याध्यायेनानुष्ठानं कुर्व्वता पुरुषेण पूर्व्वोक्तं 'एतद्व्रतं' चरणीयं। यस्मात् विभ्राट्नामको देवो दिवाकीर्त्यानि नमो वाचे या चोदितेत्यादीनि यजूंषि रचितवान्। 'तस्मादेतानि यजूंषि' सूर्य्यपुत्रस्य विभ्राड्देवस्य, सम्बन्धीनीत्येवमभिज्ञाः कथयन्ति। तदीयानुष्ठाने तेजो रक्षणार्थं व्रत चरणं ॥
कल्पः। अग्रेणाहवनीयं पर्याहृत्य साम्राज्यमसन्द्यां* सम्पादयति स्वाहा त्वा सूर्य्यस्य रश्मिभ्य इति प्रातः स्वाहा त्वा नक्षत्रेभ्य इति सायमिति। (१२ मन्त्रः)। हे घर्म पात्रसमूह त्वां, 'सूर्य्यस्य' 'रश्मिभ्यः' 'स्वाहा' समर्पयामि, ततस्त्वां 'नक्षत्रेभ्यः' समर्पयामि ॥
एतन्मन्त्रद्वयसाध्यं घर्म्मपात्रसादनं विधत्ते। "स्वाहा त्वा सूर्य्यस्य रश्मिभ्य इति प्रातः सᳵसादयति। स्वाहा त्वा नक्षत्रेभ्य इति सायं। एता वा एतस्य देवताः। ताभिरेवैनᳵ समर्द्धयति" इति ॥ १३ ॥ (५ प्र० । ८ य० । ४८ म०)। सूर्य्यो नक्षत्राणि चेति 'एताः' प्रवर्ग्यपात्रसमूहस्य, स्वामिभूताः, अतः 'ताभिरेव' देवताभिः, 'एनम्' पात्रसमूहं, समृद्धं करोतीति ॥
* सन्द्यां इति D चिह्नितपु० पाठः।
३ Q २
४६८ तैत्तिरीये आरण्यके
अथैकादशोऽनुवाकः ।
(१)घ॒र्म्म या ते॑ दि॒वि शु॑क् । या गा॑य॒त्रे छन्द॑सि । या ब्रा॑ह्म॒णे । या ह॒विर्द्धाने॑ । तां ते॑ ए॒तेनाव॑यजे॒ स्वाहा॑(१) ।
अकः, अश्विनैत्याह, प्रदिशो गच्छेदित्याह, पितॄणां, अन्तः-
परिधि पिन्वयति, धारयेत्याह, वाचः, घर्मपाः तेभ्य एवैनं
जुहोति, अन्वीक्षेत, होतव्या३मिति, अग्नावित्याह, दधते,
अगोपायत, सप्त च ॥
इति पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥
अथैकादशोऽनुवाकः ।
दशमे प्रवर्ग्यशेषेणाग्निहोत्रहोम उक्तः, एकादशे प्रवर्ग्यो-
द्वासनमुच्यते । कल्पः । प्रवर्ग्यमुद्वासयिष्यन्नजमग्नीध्रे ददात्यै।
हि ब्रह्मणे धेनुं होत्रे रुक्ममध्वर्य्यवे षट् अपरं खरं पूर्व्व-
स्मिन् खरे न्यस्यो*च्छिष्टखरं सङ्ख्योत्तरेणाहवनीयं सम्राडा-
सन्दीं प्रतिष्ठाप्य तस्यां सर्व्वं परिघर्मं समाधायौ†दुम्बर्य्यां स्रुवि
* न्यस्योपोच्छिष्ट इति तै० पु० पाठः
† समवधायौ इति तै० पु० पाठः ।
४ प्रपाठके ११ अनुवाकः। ४६६
(१)घ॒र्म या ते॑ऽन्त॒रि॑क्षे शु॒क्। या त्रै॒ष्टुभे॒ छन्द॑सि। या रा॒ज॒न्ये॑। याऽऽग्नी॒ध्रे। तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॑॥ १॥ घ॒र्म या ते॑ पृथि॒व्याꣳ शु॒क्। या जाग॑ते॒ छन्द॑सि। या वैश्ये॑। या सद॑सि। तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॑(२)॥
चतुर्गृहीतं गृहीत्वा घर्म या ते दिवि शुगित्येतैर्यथा लिङ्गं जुहोत्यपि वा प्रतिप्रस्थाता त्रीन् सन्नखान् शलाकान् मुष्ट्योना- दाय तेषामेकमाहवनीये प्रदीष्यास्यदघ्ने धारयति तमध्व- र्य्युरभिजुहोति घर्म या ते दिवि शुगिति। पाठस्तु। (१)"घर्म या ते दिवि शुक् ॰ तां त एतेनावयजे स्वाहा"(१) इति। हे 'घर्म' प्रवर्ग्य, 'ते' तव सम्बन्धिनी, 'शुक्' सन्तापः, 'या' 'दिवि' द्युलोके, 'गायत्रे' 'छन्दसि' 'या' 'ब्राह्मणे' पुरुषे, 'या' 'हविर्द्धाने' मण्डपे च विद्यते। 'तां' सर्व्वां, 'ते' त्वदीयां, शुचं, 'एतेन' होमेन, अहं 'अवयजे' नाशयामि॥
कल्पः। तस्मिन्नपरं प्रदीष्याहवनीये पूर्व्वं प्रहृत्य नाभि- दघ्ने धारयति तमध्वर्य्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुगिति। तस्मिन्नपरं प्रदीष्याहवनीये पूर्व्वं प्रहृत्य जानुदघ्ने धारयति तमध्वर्य्युरभिजुहोति घर्म या ते पृथिव्याꣳ शुगि- ति। पाठस्तु। (२)"घर्म या तेऽन्तरिक्षे शुक् ॰ तां तएते- नावयजे स्वाहा"(१) इति। एतौ मन्त्रौ प्रथममन्त्रवद्व्याख्येयौ॥
एतन्मन्त्रसाध्यं होमं विधत्ते। "घर्म या ते दिवि शुगिति
५०० तैत्तिरीये आरण्यके
^{(३)}अनु॑नो॒ऽद्यानु॑मतिः। अन्वि॒द॑नुमते॒ त्वं^{(२)}। ^{(४)}दि॒व्-
तिस्र आहुतीर्जुहोति। छन्दोभिरेवास्मैभ्यो लोकेभ्यः शुचम- वयजते” इति। (५ प्र०।६ अ०।१ म०)। ‘अस्य’ घर्मस्य, सम्ब- न्धिनीं ‘शुचं’ छन्दोदेवताभिरेव सहायभूताभिः लोकत्रया- दपनयति॥
प्रदीप्यमानस्य शलाकामुष्टेर्धारणे क्रमेण मुखनाभिजानु- प्रमाणानि हस्तेनाभिनीय विधत्ते। “इयत्यग्रे जुहोति। अथे- यत्यथेयति। त्रय इमे लोकाः। एभ्य एव लोकेभ्यः शुच- मवयजते” इति। (५ प्र०।६ अ०।२ म०)। ‘अग्रे’ प्रथमं, ‘इयति’ आस्यदघ्ने देशे ‘जुहोति’। ‘अथ’ अनन्तरं, ‘इयति’ नाभिदघ्ने देशे धारयित्वा ‘जुहोति’। ‘अथ’ अनन्तरं, ‘इयति’ जानुदघ्ने देशे धारयित्वा ‘जुहोति’। एते च ‘त्रयः’ देशा लोकत्रय- रूपाः, अतो ‘लोकेभ्यः’ ‘शुचं’ निराकरोति॥
कल्पः। आहवनीय एवैनमनुप्रचरति अनुनोऽद्यानुम- तिरति परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयत्यन्विदनुमत इति। (३ मन्त्रः)। अनुनोऽद्यानुमतिरित्येकस्या ऋचः प्रतीकं, अन्विदनुमते त्वमित्यपरस्या ऋचः प्रतीकं, एते ऋचाविदं वामास्ये हविरित्यनुवाके व्याख्यास्येते॥
अनयोर्देवतानुरूपतां* दर्शयति। “अनु॑नो॒ऽद्यानु॑मतिरि- त्याहा॒नु॒मत्यै” इति। (५ प्र०।६ अ०।३ म०)॥
* ज्ञानार्थतां इति तै० पु० पाठः।
४ प्रपाठके ११ अनुवाकः। ५०१
स्त्वा॑ प॒र॒स्यायाः॑ । अ॒न्तरि॑क्षस्य त॒नुवः॑ पाहि । पृथि॒व्यास्त्वा॒ धर्म्म॑णा ॥ २ ॥
व॒यमनु॑क्रामाम सु॒विता॑य॒ नव्य॑से^(४) । ^(५)ब्रह्म॑णस्त्वा
कल्पः । दिवस्त्वा परस्याया* इति प्रथमेऽभिप्रव्रजन्ति ।
पाठस्तु । ^(४)“दिवस्त्वा परस्यायाः ० वयमनुक्रामाम सुविताय नव्यसे”^(४) इति। सर्वे मिलित्वा प्रवर्ग्योद्वासनदेशं प्रति यदा† गच्छन्ति तदा‡ मार्गं त्रेधा विभज्य प्रथमे भागे मन्त्रेणानेन प्रव्रजन्ति । हे प्रवर्ग्य, ‘दिवः’ द्युलोकस्य, ‘परस्यायाः’ अतिशयेन पालननिमित्तं त्वां, ‘वयमनुक्रामाम’, त्वं च ‘अन्तरिक्षस्य’ सम्बन्धिनीः, ‘तनुवः’ प्राणिशरीराणि, ‘पाहि’ रक्ष । तथा ‘पृथिव्या धर्म्मणा’ धारणनिमित्तं त्वां, ‘वयमनुक्रामाम’ एतदनुक्रमग्रहणं, ‘नव्यसे’ नूतनाय, ‘सुविताय’ शोभनगमनाय, सम्पद्यतां ॥
अस्य मन्त्रस्य लोकत्रयधारणे तात्पर्यं दर्शयति । “दिवस्त्वा परस्याया इत्याह । दिव एवेमाँल्लोकान्दाधार” इति । (५ प्र०।६ अ०।४ म०) । ‘दिवः’ द्युलोकदेवतायाः, रक्षणेन लोकत्रयं धृतं भवतीत्यर्थः ॥
कल्पः । ब्रह्मणस्त्वा परस्याया इति द्वितीय इति । अनेन
* परख्या इति तै० पु० पाठः ।
† यथा इति तै० पु० पाठः ।
‡ तथा इति तै० पु० पाठः ।
५०२ तैत्तिरीये आरण्यके
पर॒स्याया॑ः । क्ष॒त्रस्य॑ त॒नुव॑: पाहि । वि॒शस्त्वा॒ धर्म॑णा । वयमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से^(५) । ⁽६⁾प्रा॒णस्य॑ त्वा पर॒स्यायै॑ । चक्षु॑षस्त॒नुव॑: पाहि । श्रोत्र॑स्य त्वा॒ धर्म॑- णा । वयमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से^(६) । ⁽७⁾वल्गु॒- र॑सि॒ शंयुधा॑याः ॥ ३ ॥
मन्त्रेण द्वितीयमार्गभागे प्रब्रजेयुरित्यर्थः । पाठस्तु । ⁽५⁾"ब्र- ह्मणस्त्वा परस्यायाः ० वयमनुक्रामाम सुविताय नव्यसे"⁽५⁾ इति । पूर्व्ववद्व्याख्येयं ॥
लोकविषयमन्त्रानन्तरं ब्राह्मणादिजातिविषयमन्त्रेण लो- केषु प्रजानां धारणं सिद्ध्यतीति दर्शयति । "ब्रह्मणस्त्वा पर- स्याया इत्याह ॥ १ ॥ एष्वेव लोकेषु प्रजा दाधार" इति । (५ प्र०।६ अ०।५ म०) ॥
कल्पः । प्राणस्य त्वा परस्याया इति तृतीय इति । अनेन मन्त्रेण मार्गस्य तृतीयभागे प्रब्रजेयुः । पाठस्तु । ⁽६⁾"प्राणस्य त्वा परस्यायै ० वयमनुक्रामाम सुविताय नव्यसे"⁽६⁾ इति । 'चक्षुषस्तनुवः' इत्यनेन चक्षुष्मन्ति शरीराणीत्यर्थो विवक्षितः । अन्यत् पूर्व्ववद्व्याख्येयं ॥
ब्रह्मक्षत्रादिप्रजाविषयानन्तरं* प्राणचक्षुरादिविषयमन्त्रेण
* विषयमन्त्रानन्तरं इति तै० पु० पाठः ।
४ प्रपाठके ११ अनुवाकः। ५०३
प्रजासु प्राणधारणसिद्धिं दर्शयति । "प्राणस्य त्वा परस्याया इत्याह। प्रजास्वेव प्राणान्दधार।" इति। (५ प्र० । ८ अ० । ६ म०) ॥
प्रवर्ग्यस्य पूर्व्वदिक्ष्युद्वासनं विधत्ते । "शिरो वा एतद्यज्ञस्य । यत् प्रवर्ग्यः। असौ खलु वा आदित्यः प्रवर्ग्यः। तं यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत्। जिह्मं यज्ञस्य शिरो हरेत्। प्राञ्च- मुद्वासयति। पुरस्तादेव यज्ञस्य शिरः प्रतिदधाति ॥ २ ॥ प्राञ्चमुद्वासयति । तस्मादसावादित्यः पुरस्तादुदेति।" इति । (५ प्र० । ६ अ० । ७ म०)। प्रवर्ग्यस्य यज्ञशिरोरूपस्य दक्षिणा- दिषु तिसृषु दिक्षूद्वासने सति 'शिरः', 'जिह्मं' कुटिलं यथा भवति तथा, हृतं स्यात्। अतः 'पुरस्तादेव' आर्ज्जवेन यज्ञशिरः- प्रतिधानाय प्रवर्ग्यं प्राङ्मुखमेव, 'उद्वासयेत्'। किञ्च प्रवर्ग्य- स्यादित्यरूपत्वात् आदित्यस्य च पुरस्तात् एवोदयात् प्रागु- द्वासनं युक्तं ॥
शफादीनां तत्रानयनं विधत्ते । "शफोपयमान्धवित्राणि धृष्टी इत्यन्ववहरन्ति । सात्मानमेवैनग्ँ सतनूं करोति।" इति । (५ प्र० । ८ अ० । ८ म०)। तप्तस्य महावीरस्य हस्तेन स्प्रष्टुमशक्य- त्वात् तद्धारणार्थौ काष्ठविशेषौ शफौ। उपयमः पात्रविशेषः धृष्टी अङ्गारनिर्हणार्थौ साधनविशेषौ । साधनान्तराणा- मप्युपदर्शनार्थः 'इति'शब्दः। एतानि सर्व्वाण्यपि महावीरमनु- प्रवर्ग्योद्वासनदेशे हरेयुः । तेन 'एनग्ँ' प्रवर्ग्यं, आत्मसहितं शरीरसहितं 'करोति' ॥
3 E