भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१ प्रपाठके ७ अनुवाकः । 89

यद्याव॑ इन्द्र ते श॒तꣳ श॒तन्त॒ भूमी॑: । उ॒त स्युः । न त्वा॑व- जिन् स॒हस्रꣳ॒ सूर्या॑: ॥ ५ ॥ अनु॑ न जातमष्ट॒ रोद॑सी इति॑⁽१५⁾ । ⁽१६⁾नानालिङ्ग-


अनेनैव प्रकारेण ऋतुधर्मा यत्र सन्ति तत्र तत्सम्पादकः सूर्यो- स्तीतिन्यायेन, 'सहस्रसूर्यतायाः', सहस्रसङ्ख्याकसूर्योपेतत्वपर्यन्तं दिक्षु सूर्यभेदाः कल्पनीयाः, तत्र सप्तसूर्यत्वे किमाश्चर्यमिति 'वैशम्पायनः', आचार्यो मन्यते। आसहस्रमित्युपलक्षणं, अनन्ताः सूर्या इत्यर्थः ॥

अनन्तसूर्यप्रतिपादिकामृचमवतारयति । ⁽१५⁾"तस्यैषा भ- वति * अनुनजातमष्ट रोदसी इति"⁽१५⁾ इति । 'यत्' यदि, हे 'इन्द्र', 'ते' तव, 'शतं द्यावः स्युः' बह्वभिः शतसङ्ख्याभिर्युक्ताः द्युलोकाः सम्भवेयुः, 'उत' अपि च, 'शतं भूमी स्युः' बह्वीभिः शतसङ्ख्याकाभिर्युक्ता भूमयोऽपि यदि सम्भवेयुः, हे 'वज्रिन्', तदानीमपि रोदसीजातं द्यावापृथिव्योर्मध्ये समुत्पन्नं त्वां 'सह- स्रसूर्याः' सहस्रोपलक्षिता अनन्ताः सूर्याः, 'नान्वष्ट' नान्व- श्नुवते, त्वामनु न व्याप्नुवन्ति, एतावत्सु द्युलोकेषु भूलोकेषु च सत्स्वपि तत्र तत्र स्थितं त्वामनु सूर्याव्याप्तेरपर्याप्ता देशाः, सूर्याणामनन्तत्वादित्यर्थः । इत्यनयापीष्टका उपदध्यात् ॥

मन्त्रोक्तमनन्तसूर्यत्वं युक्त्योपपादयति । ⁽१६⁾"नानालिङ्ग- त्वात् * नानासूर्यत्वं"⁽१६⁾ इति । यद्येक एव सूर्यः स्यात्

४८ तैत्तिरीये आरण्यके

त्वादृतूनां नानो॒सूर्य॑त्वं^(१६)। ।^(१७)अ॒ष्टौ तु व्यवसिता इति॑^(१७)। ।^(१८)सूर्य॑मण्ड॒लान्य॒ष्टात् ऊ॒र्ध्वम्। तेषा॑मे॒षा भव॑ति^(१८)।(१९)चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं। चक्षु॑र्मि॒त्रस्य॑


तदानीं वसन्ताद्यृतूनां नानालिङ्गत्वं न स्यात् न हि कारण- भेदमन्तरेण कार्यभेदः सम्भवति । तस्मादृतुधर्मवैलक्षण्यसि- द्धये बहुसूर्यत्वमभ्युपेयं ॥

कथन्तर्हि पूर्वत्रकश्यपोऽष्टम इत्येवं सूर्याणामष्टसङ्ख्या स्वी- कृतेत्याशङ्क्य तदभिप्रायं दर्शयति। (१७)“अष्टौ तु व्यवसिता इति”(१७) इति । बाढं । सन्त्येव तत्तल्लिङ्गकल्पा अनन्ताः सूर्याः किन्तु तत्रास्ति कश्चिद्विशेषः, ‘व्यवसिताः’ निश्चिताः, सूर्याः ‘अष्टौ’ इत्येवंविधः पञ्चकर्णसप्तकर्णाभ्यां सप्तानां सूर्याणां प्रत्य- क्षेण दृष्टत्वात् प्राणवातेनाष्टमस्यापि दृष्टत्वात् ॥

अष्टसङ्ख्यां निगमयति । (१८)“सूर्य्यमण्डलान्यष्टात ॰ तेषा- मेषा भवति”(१८) इति । ‘तेषां’ अनेकसूर्य्यमण्डलानां, प्रतिपा- दिकेयमृग्विच्यते ॥

तामेतामृचं दर्शयति। (१९)“चित्रं देवानामुदगादनीकं ॰ सूर्य्य आत्माजगतस्तस्थुषश्चेति”(१९) इति । ‘चित्रं’ बहुमण्डल- रूपत्वेन विचित्रं, ‘देवानामकनीकं’ अन्धकाररूपवृत्रशरीरा- त्मकस्य शत्रोर्विनाशकत्वेन देवसैन्यरूपमादित्यमण्डलमुदगात् पूर्व्वस्यां दिश्युदेति तच्च मण्डलजातं मित्रादीनां चक्षूरूपं ।

१ प्रपाठके ८ अनुवाकः । ४६

वरु॑णस्याग्ने । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्चेति॑^(१६) ॥ ६ ॥ सा॒कं जा॒क्षिर॒स्तन्नि॑तपा॒ नाना॑सूर्य्याः सूर्य्यो नव॑ च ॥ अनु० ॥ ७ ॥


अष्टमोऽनुवाकः ॥

^(१)क्केदमभ्रं॑ निवि॑शते । कायँ् सं॑वत्स॒रो मि॑थः । क्काहः॒ केयं दे॑व रा॒त्री । क्व मासा॑ ऋ॒तवः॑ श्रिताः^(१) ।


अन्धकार-निवारणेन चक्षुषोऽनुग्राहकत्वात् तादृशं सैन्यं ‘द्यावा- पृथिवी’, ‘अन्तरिक्षं’, च ‘आप्रा’ लोकत्रयं स्वकीयप्रकाशेनापूर्य वर्त्तते, तथाविधमण्डलसमूहस्वामी ‘सूर्य्यः’, ‘जगतः’ जङ्गमस्य, ‘तस्थुषः’ स्थावरस्य, ‘च’, ‘आत्मा’ स्वरूपं। इत्यनेनेष्टकामुपदध्यात्॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥


अथाष्टमोऽनुवाकः ।

कल्पः । पुरस्तात् क्वेदमभ्रमित्येकामिति । पाठस्तु । ^(१)“क्के- दमभ्रं निविशते ० क्व मासा ऋतवः श्रिताः”^(१) इति । आपो बिभ्रतीति ‘अभ्रं’ मेघस्वरूपं, तच्चाकाशे निरालम्बत्वेनास्माभिर्दृ-

H

५० तैत्तिरीये आरण्यके

(१) अर्धमासा॑ मु॒हूर्ताः॑ । निमेषास्त्रुटि॑भिः स॒ह । केमा आपो॑ निवि॑शन्ते । यदीतो यान्ति॒ सम्प्र॑ति(२) । (२) काला अप्सु निवि॑शन्ते । आपः॒ सूर्ये॑ समाहि॑ताः ॥ १ ॥

श्यते अतः कुत्राधारे निवसतौति प्रश्नः । नह्यालम्बनमन्तरेण निर्देष्टुं शक्यं, एतच्चोपलक्षणं, कारणमपि किमिति प्रष्टुरभिप्रायः । एवं 'संवत्सराहोरात्रमासत्र्त्तवः', कस्मिन्नाश्रयेऽवस्थिताः किं वा तेषां कारणमिति हे 'देव' जगत्कर्त्तः, कथय । संवत्सरस्य बह्ववयवसमष्टित्वं द्योतयितुं 'मिथः', इत्युक्तं । बहवः कालावयवाः सम्भूय वसन्ति यत्र सोयं संवत्सरः ॥

कल्पः । अर्धमासा इत्युपरिष्टादिति । (२)"अर्धमासा मुहूर्त्ताः • यदीतो यान्ति सम्प्रति"(२) इति । 'अर्द्धमासमुहूर्त्तनिमेषाः', प्रसिद्धाः । कालपरमाणुद्वयात्मकः कालद्व्यणुकस्त्रुटिः तथाविधैः 'त्रुटिभिः', 'सह', अर्धमासादयः कुत्राधारे स्थिताः कुतश्चोत्पन्नाः । भूमौ वर्त्तमाना आपो याः सन्ति ताः 'यदि', घर्मकाले 'इतः' भूमेः सकाशात्, 'यान्ति' । दृश्यते हि तस्मिन् काले सर्वत्र जलशोषः । 'सम्प्रति' तदानीम्, 'इमाः' 'आपः', 'क निविशन्ते', च आसामाधारः कः ॥

कल्पः । काला अप्सु निविशन्त दूति । तत्र प्रथमामाह । (२)"काला अप्सु निविशन्ते • विद्युत्सूर्ये समाहिता"(१) इति । पूर्वमन्त्रद्वयोक्तानां प्रश्नानामिदमुत्तरं, संवत्सरादयः त्रुट्यन्ता-

१ प्रपाठके ८ अनुवाकः । ५१

अ॒भ्राण्यपः॒ प्र॑पद्यन्ते । वि॒द्युत्सूर्ये॑ समाहि॑ता^(३) ।


दयः कालाः पृष्टाः ते सर्वे 'कालाः', 'अप्सु निविशन्ते', । आपो वा इदमग्रे सलिलमासीत् । इत्यपां जगत्कारणत्वेनाम्नातत्वात् । तत्रैव कालानामवस्थानमुत्पत्तिश्च । तथाहि । मनुना तावदेवं स्मर्यते । अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभमिति । परमेश्वरेण प्रथमं सृष्टास्वप्सु घनीभावसामर्थ्ये प्रक्षिप्ते सति ब्रह्माण्डं निष्पन्नं तच्च ब्रह्माण्डमभिन्नं सद्यावदवस्थितं तावतः कालस्य संवत्सर इति नाम सम्पन्नं । तथा च वाजसनेयिनो बृहदारण्यके समामनन्ति । तद्यद्रेत आसीत्संवत्सरो भवन्नहः पुरा ततः संवत्सर आभाति । एवं ब्रह्माण्डे महाप्सु संवत्सरे समुत्पन्ने सति तदवयवाः कालविशेषाः सर्वेऽप्यद्भ्य एवोत्पन्ना अप्स्वेव 'निविशन्ते', तदिदं कालप्रश्नोत्तरं । या एता 'आपः', भूमौ शुष्यन्ति ताः सर्वा रश्मिद्वारा 'सूर्ये समाहिताः', भवन्ति । घर्मकाले हि तीक्ष्णैः सूर्यरश्मिभिर्जलशोषः सर्वैः प्राणिभिर्दृश्यते । अतएव बुद्धिमद्भिरुक्तं सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविरिति । इदं च केमा आपो निविशन्त इत्यस्योत्तरं । तेभ्यः सूर्यरश्मिभ्यः सकाशात् 'अभ्राणि', जलं प्राप्नुवन्ति । रश्मयो हि खनिजजलं धूमज्योतिर्मरुतां मेलनेनाभ्राकारमापादयन्ति । अतोऽभ्रस्य रश्मिगता आप एवोत्पत्तिकारणमाधारश्च । इदं च केदमभ्रमितिप्रश्नस्योत्तरं । येयं 'विद्युत्', मेघेषु दृश्यते सेयं 'सूर्ये समाहिता' ।

H 2

५२ तैत्तिरीये आरण्यके

(४)अनवर्णे॑ इ॒मे भूमी॑ । इ॒यञ्चा॑सा॒ च रोद॑सी(४) । (५)किँ॒ स्वि॒दचा॒न्तरा॑भूत् । येने॒मे वि॑धृ॒ते उ॒भे । वि॒ष्णु- ना॑ वि॒धृते॒ भूमी॑ । इति॑ व॒त्सस्य॑ वेद॒ना(५) । (६)इरा॑-

सूर्य्यरश्मेरेव विद्युदाकारेण परिणतत्वात् । एतदुत्तरसामर्थ्यात् क्वेयं विद्युन्निविशत इत्यपि प्रश्नोऽत्र द्रष्टव्यः ॥

अथ द्वितीयामाह । (४)"अनवर्णे ॰ रोदसी"(४) इति । वर्णो रूपविशेषः । तद्राहित्यमवर्णत्वं कुरूपत्वं केनापि कुरूप- त्वेन रहितम् अनवर्णत्वं सुरूपत्वं, 'इमे भूमी', उभे 'अनवर्णे', सुरूपे दृश्येते । अत्र द्विवचनान्तभूमिशब्देन विवक्षितमर्थं श्रुति- रेव ब्रूते । 'इयं च' भूमिरपि, 'असौ च' द्यौरपि, एते 'रोदसी' द्यावापृथिव्यौ, भूमिशब्देन विवक्षिते इत्यर्थः । द्यावापृथिव्योः सुरूपत्वं नाम बहुविधदेवपरिपूर्णत्वं ॥

कल्पः । किंस्विद्वेति पञ्च वैष्णवीति । तत्र प्रथमामाह । (५)"किँ स्वि दचान्तराभूत् ॰ वेदना"(५) इति । 'येन' वस्तुना, 'इमे' द्यावापृथिव्यौ, 'उभे', अपि 'विधृते' विशेषेण सर्वजग- दाधारत्वेन धृते, 'अत्रान्तरा' अनयोर्द्यावापृथिव्योर्मध्ये 'किं- स्विद्भूतं' किं नाम वस्तु तादृशं विधारकम्भूत्, इति प्रश्नः । 'विष्णुना' व्यापिना परमेश्वरेण, 'भूमी' द्यावापृथिव्यौ, 'विधृते', 'इति' एवं, 'वत्साख्यस्य', महर्षेः 'वेदना' विज्ञानं । वत्सो हि स्तुतिकर्त्ता, स च विष्णुमेव द्यावापृथिव्योर्विधारकं स्मरति । इदञ्च किंस्विद्वेति प्रश्नस्योत्तरं ॥

१ प्रपाठके ८ अनुवाकः। ५३

वती॑ धे॒नुम॑ती॒ हि भू॒तं। सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये॑ ॥ ॥ २ ॥ व्य॑ष्टभा॒द्रोद॑सी॒ विष्ण॑वे॒ते। दा॒धर्ध॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑।^(६)। ^(७)किं तद्विष्णो॒र्बल॑माहुः*। का दी॒प्तिः किं प॒राय॑णं। एको॒ यद्दार॑यद्दे॒वः। रेज॑ती॒ रोद॑सी उ॒भे^(७)।


अथ द्वितीयामाह । ^(१)“इरावती ० मयूखैः”^(१) इति । ‘मनुषे’ मनुष्यार्थम्, ‘एते’ द्यावापृथिव्यौ, ‘इरावती’ अन्नवत्यौ बह्वन्नयुक्ते, ‘धेनुमती’ धेनुमत्यौ, ‘सूयवसिनी’ शोभनैर्यवसै- र्भक्ष्यैर्युक्ते, ‘दशस्ये’ दातुमर्हे, ‘भूतं’ अन्नादिदानशक्ते भवतः । ‘रोदसी’ द्यावापृथिव्यावेतादृश्यौ, ‘व्यष्टभ्नात्’ विष्णुर्विशेषेण धृतवान् । हे ‘विष्णो’, त्वं ‘पृथिवीम्’ एतां द्युलोकसहितां, ‘अभितः’ अध उपरि च, ‘मयूखैः’ शङ्कुस्थानीयै रश्मिभिः ‘दाधर्थ’ धृतवानसि ॥

अथ तृतीयामाह । ^(७)“किं तद्विष्णोर्बलमाहुः ० रोदसी उभे”^(७) इति। ‘यद्देवः’ यो विष्णुः ‘एकः’, एव, ‘रेजती’ राज- माने, ‘रोदसी’ द्यावापृथिव्यौ, ‘उभे’, ‘धारयत्’ धृतवान् । तस्य ‘विष्णोः’, ‘किं तद्वलं’ तादृशी शक्तिः कुत आगता, यैर्मयूखै- र्धृतवान् सा ‘दीप्तिः’, ‘का’ कुतत्या, ‘किं’, च ‘परायणं’ तस्य सहायभूतं वस्तु, इति प्रष्टारः ‘आहुः’ ॥


* B. is here defective.

५४ तैत्तिरीये आरण्यके

^(८)वाता॒द्विष्णो॒र्बल॑माहुः । अक्ष॑रा॒द्दीप्ति॒रुच्य॑ते । त्रि॒प॒दाद्द्वा॑रयद्देवः । यदिष्णो॑रे॒कमु॑त्त॒मम्^(८) ॥ ३ ॥

अथ चतुर्थीमाह । ^(८)“वाताद्विष्णोर्बलमाहुः ॰ यदिष्णोरेकमुत्तमं”^(८) इति । विष्णुर्हि वातरूपं सूत्रात्मानमुत्पाद्य तेन सूत्रेण सर्वं जगद्धारयति । तथा च वाजसनेयिन आमनन्ति । वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । तस्मात् ‘विष्णोः’, ‘बलं’ धारणसामर्थ्यं, ‘वातात्’, आगतम् इत्यभिज्ञा उत्तरं ‘आहुः’ । ‘दीप्तिः’ जगदवभासकं ज्योतिः, तच्च विष्णोः ‘अक्षरात्’ विनाशरहितात् स्वकीयात् परमपदात्, भवतीत्यभिज्ञैः ‘उच्यते’ । ‘विष्णोर्हि जगत्सृष्ट्यादिनिर्वाहकमुपासकैरुपास्यमिदम्, अपरं, यच्च ज्ञानिभिर्ज्ञेयं, परमम् । अतएवाम्नायते । तद्विष्णोः परमम्पदं सदा पश्यन्ति सूरय इति । तत्र परविद्यागम्यं स्वरूपं विनाशराहित्यादक्षरम् । अतएवाथर्वणिका आमनन्ति । अथ परा यया तदक्षरमधिगम्यत इति । तस्मादक्षरात् जगदवभासिका चैतन्यरूपा दीप्तिर्लभ्यते । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति श्रुतेः । इदृच्च का दीप्तिरित्यस्योत्तरं । पुरुषसूक्ते । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीत्याम्नायते । सर्वमप्येतज्जगत् अस्य परमेश्वरस्य चतुर्थोंऽशः । अवशिष्टमंशत्रयं व्यवहारातीतत्वादमृतमविनश्वरं । स द्योतनात्मके स्वस्वरूपे सर्वदावतिष्ठते । तादृशात् ‘त्रि-

१ प्रपाठके ८ अनुवाकः । ५५

(९)अ॒ग्नयो॑ वाय॒वश्चै॑व । ए॒तद॑स्य परा॒यण॑म्(९) । (१०)पृ॒च्छामि॑ त्वा॒ परं॑ मृ॒त्युं । अ॒व॒मं म॑ध्य॒मं च॑तुं । लो॒कञ्च॑ पु॒ण्यपा॒पानां॑ । ए॒तत् पृ॑च्छा॒मि सम्प्र॑ति(१०) । (११)अ॒मु-

पात्'स्वरूपाद्ब्रह्मणो लब्धसामर्थ्यो 'देवः' विष्णुः, 'धारयत्', सर्वं जगद्धारयति, 'यत्' त्रिपादमृतु, 'विष्णोरेकम्', एव 'उत्तमं', स्वरूपं तस्मात्त्रिपादादिति पूर्वत्रान्वयः । अथवा एतदुत्तरवशात् पूर्वेत्रैको यद्धारयदिति वाक्ये कथमेको धृतवानिति प्रश्न उन्नेयः ॥

अथ पञ्चमोमाह । (९)“अग्नयो ० परायणं”(९) इति । य एते 'अग्नयः' सावित्रादय आरुणकेतुकान्ताः, ये च तत्-सखिभूता 'वायवः', 'च'काराद्येऽप्यादित्याः, 'एतत्' सर्वं देवता-जातं, 'अस्य' विष्णोः, 'परायणं' सहकारिभूतं, इदञ्च किं परायणमित्यस्योत्तरं ॥

कल्पः । पृच्छामि त्वा परं मृत्युमिति चतस्रो मृत्युमतीरिति । तत्र प्रथमामाह। (१०)“पृच्छामि ० सम्प्रति”(१०) इति। अत्र कश्चिन्मुनिर्जिज्ञासुरभिज्ञमन्यं मुनिं पृच्छति । हे अभिज्ञमुने 'त्वां', प्रति चतुर्विधान् मृत्यून् 'पृच्छामि' । परोऽवमो मध्यमश्चतुर्थश्चेत्येते मृत्यवः तेषां स्वरूपं ब्रूहि । चतुर्थ इत्येतस्मिन्नर्थे 'चतुः' शब्दः, तथा पुण्यकृतां पापिनाञ्च 'लोकं', ब्रूहि । एतत् सर्वमिदानीं 'पृच्छामि' ॥

अथ द्वितीयामाह । (११)“अमुमाङ्कः ० चन्द्रमाश्चतुरुच्य-

५६ तैत्तिरीये आरण्यके

मा॑हुः परं॑ मृ॒त्युम् । प॒वमा॑नन्तु म॒ध्य॒मम् । अ॒ग्निरे॒वाव॑मो॒ मृ॒त्युः । च॒न्द्रमा॑श्चतु॒रुच्य॑ते^{(११)} ॥ ४ ॥ ^{(१२)}अ॒ना॒भो॒गाः परं॑ मृ॒त्युम् । पा॒पाः संय॑न्ति स॒र्वदा॑ । आ॒भो॒गास्त्वेव संय॑न्ति । यत्र॑ पु॒ण्यकृ॑तो॒ जनाः॑^{(१२)} ।


ते''(११) इति । इदमभिज्ञस्योत्तरं । योऽसावादित्यः 'अमुं', एव 'परं मृत्युं', पूर्वे महर्षयः 'आहुः' । आदित्यस्य परिस्पन्दबाहुल्येनायुषः क्षये सति मृत्योरलङ्घनीयत्वात् । 'पवमानं', वायुं 'मध्यमं', 'मृत्युमाहुः' । प्राणवायोर्नाडीष्वन्यथासञ्चारे सति तत्क्लेशेन मृत्युः प्राप्यते । स च प्राणायामकुशलैर्योगिभिः क्लेशेन समाधातुं शक्यते । तस्मान्मध्यमो मृत्युः । जाठराग्निर्यदा मन्दो भवति तदा व्याधिद्वारा मृत्युः प्राप्नोति स च चिकित्सकैरल्पप्रयासेन समाधातुं शक्यते तस्मात् 'अग्निरवमो मृत्युः' । 'चन्द्रमाः', ओषधीनामधिपतिः, तदनुग्रहाभावे सत्यन्नाभावान्मृत्युः प्राप्नोति । तस्मादसौ चतुर्थो मृत्युः ॥

अथ तृतीयामाह । (१२)“अनाभोगाः परं मृत्युं ० यत्र पुण्यकृतो जनाः”(१२) इति । 'पापाः' श्रुतिस्मृत्युल्लङ्घनेन पापमेवाचरन्तः पुरुषाः, 'अनाभोगाः' सुखलेशेनापि हीनाः कृमिकीटादयः सन्तः, 'सर्वदा परं मृत्युं', 'संयन्ति' कतिपयैरेवादित्यपरिस्पन्दैरल्पायुषः सन्तः पुनः पुनर्जायन्ते म्रियन्ते च, सेयं सर्वदा परं

१ प्रपाठके ८ अनुवाकः ॥ ५७

(१३)ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुर्म॑ग्निं च॒ सम्प्र॑ति⁽१३⁾॥ (१४)पृच्छा॑मि त्वा॑ पाप॒कृतः॑ । यत्र॒ यात॑यते य॒मः । त्व- नस्तद्ब्रह्मन् प्रब्रू॑हि । य॒दि वेत्थाऽस॑तो गृ॒हान्⁽१४⁾ ॥ ५ ॥ (१५)क॒श्यपा॑दुदि॒ताः सूय्याः॑ । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।

मृत्युं प्राप्ताः । ये तु श्रुतिस्मृतिमार्गवर्त्तिनः ते सर्वेऽपि 'आभोगाः' सम्पूर्णाः सर्वभोगयुक्ताः सन्तः, तादृशं स्थानं प्राप्नुवन्ति । 'यत्र' यस्मिन् स्वर्गे, पूर्वे 'पुण्यकृतो जनाः' देवाः, वर्त्तन्ते तत्र गच्छन्ति । एतत्तु लोकञ्च पुण्यपापानामित्यस्योत्तरं ॥

अथ चतुर्थीमाह । (१३)“ततो ० सम्प्रति”(१३) इति । 'ततः' पूर्वोक्तेभ्योऽत्यन्तपापकृद्भ्योऽत्यन्तपुण्यकृद्भ्यश्च, अन्ये ये पुरुषाः मिश्राणि पुण्यपापान्याचरन्ति ते 'सम्प्रति' मनुष्यजन्मनि, मध्य- माधमचतुर्थमृत्युञ्च तदा प्राप्य प्रतीकारैः समादधते । एतदपि पुण्यपापलोकप्रश्नस्योत्तरं ॥

कल्पः । पृच्छामि त्वा पापकृतस्ततस्रो निरयवतीरिति । तत्र प्रथमामाह । (१४)“पृच्छामि ० गृहान्”(१) इति । हे 'ब्रह्मन्', 'त्वां' इन्द्रं, 'पृच्छामि' । किं पृच्छसीति तदुच्यते । 'पापकृतः', प्राणिनो 'यमः', 'यत्र' स्थाने, 'यातयते' क्लेशयति, तत्र स्थानं 'नः' अस्मभ्यं, त्वं 'प्रब्रूहि' । 'यदि', 'असत:' पापिनो जन्तोः, 'गृहान्' पातकानि, 'वेत्थ', तर्हि शुश्रूषवे मह्यं ब्रूहि ॥

अथ द्वितीयामाह । (१५)“कश्यपादुदिताः ० वासवैः”(१५)

५८ तैत्तिरीये आरण्यके

रोद॑स्योरन्त॒र्देशेषु॑ । तत्र॒ न्यस्य॑न्ते वास॒वैः^{(१५)} । ^{(१६)}तेऽ- शरीराः प्र॑पद्यन्ते । यथा॑ऽपुण्य॒स्य कर्म॑णः । अ॒पाण्यपा- द॑केशासः । तत्र॒ तेऽयो॑नि॒जा जनाः॑^{(१६)} । ^{(१७)}मृत्वा


इति । योऽयं कश्यपाख्योऽष्टमः सूर्य्यो महामेरौ नित्यं वसति । तस्मादुत्पन्ना आरोगरादयः सप्तसूर्याः तदीयमूर्त्तिविशेषा अन्ये सहस्रसङ्ख्याकाः ते सर्वेऽपि ‘रोदस्योरन्तः’ द्यावापृथिव्योर्मध्यदेशेषु रौरवादिनरकप्रदेशेषु, ‘पापान्’ पापिनः प्राणिनः, ‘सर्वदा’, ‘निर्घ्नन्ति’ निःशेषेण मारयन्ति, मारिताश्च ते पापिनः ‘वासवैः’ निवासहेतुभिः सूर्य्यरश्मिरूपैर्देवैः, ‘तत्र’, ‘न्यस्यन्ते । तेष्वेव नरकप्रदेशेषु पुनरपि बाधिता उत्पाद्य स्थाप्यन्ते ॥

अथ तृतीयामाह । ^{(१६)}“तेऽशरीराः ० निजा जनाः”^{(१६)} इति । ‘ते’ पापिनः, तेषु नरकस्थानेषु ‘अशरीराः’ सम्पूर्णावयवसमीचीनावयवरहिताः, ‘प्रपद्यन्ते’ जन्म प्राप्नुवन्ति, ‘अपुण्यस्य कर्मणो यथा’, योग्यं तथा प्राप्नुवन्ति । तत्र कश्चित्पाणिशून्यः कुणिर्भवति । अपरः पादहीनः पङ्गुर्भवति । अपरः केशहीनः खलतिर्भवति । एवम् ‘अपाण्यपादकेशासः’, विकृतशरीरा जायन्ते । किञ्च तेषु नरकस्थानेषु केचित् ‘अयोनिशाः’, जन्तवो भवन्ति । तन्मध्ये केचित्स्वेदजाः कृमिदंशाद्याः । अपरे उद्भिदाः तरुगुल्माद्या भवन्ति । अतएव वाजसनेयिनः । पञ्चाग्निविद्यायां दक्षिणोत्तरमार्गरहितानां पा-

१ प्रपाठके ८ अनुवाकः । ५६

पुन॑र्मृ॒त्युमाप॑द्यन्ते । अ॒द्यमा॑नाः स्वक॒र्मभिः॑ ॥ ६ ॥

आशा॑तिकाः कृम॑य इव । ततः॑ पूयन्ते वास॒वैः(१७)।

(१८)अपैतं मृत्युं जयति । य एवं वेद॑ । स खल्वे॒वंवि॒द्ब्रा-

पिनामीदृशं जन्माम॑नन्ति । अथ य एतौ पन्थानौ न विदुः, आ कीटाः पतङ्गा यदिदं दन्दशूकमिति । छान्दोगाश्चैवमामनन्ति तानीमानि क्षुद्राण्यसकृदावृत्तानि भूतानि भवन्तीति ॥

अथ चतुर्थीमाह । (१७)"मृत्वा ० वासवैः"(१७) इति । तेषु नरकस्थानेषूत्पन्नाः प्राणिनः सकृत् 'मृत्वा पुनः', उत्पद्यन्ते 'मृत्युं', प्राप्नुवन्ति, जन्ममरणसहस्राणि प्रतिपद्यन्त इत्यर्थः । ते च 'स्वकर्मभिः' स्वकीयैः पापैः, 'अद्यमानाः' भक्ष्यमाणाः, कर्मपरवशा इत्यर्थः । तेषामेव मध्ये अस्मत्प्रत्यक्षसिद्धो दृष्टान्त उदाह्रियते । 'आशातिकाः' आगत्य शात्यमानाः अस्माभिरेव बाध्यमानाः शिरोवस्त्रखट्टादिषु वर्त्तमानाः, 'कृमय इव' यूकामत्कुणादय इव, यूकादयः पापिनो यथास्माभिः प्रति- क्षणं मार्यन्ते एवमन्येपि पापिनो देवैर्मार्यन्ते इत्यर्थः ॥

अथ ब्राह्मणं । (१८)"अपैतं ० सिद्धागमनः"(१८) इति । 'यः' पुमान्, 'एवं' कश्यपादुदिताः सूर्या इत्याद्युक्तप्रकारेण, कश्यपमहिमानं जानाति असौ 'एतमपमृत्युं' कृमिकीटाद- केषूक्तमपकृष्टमृत्युं, 'जयति' । विदुषः पापेष्वप्रवृत्तेर्युक्तो मृत्यु- ञ्जयः । किञ्च 'स खलु' 'ब्राह्मणः', 'एवंवित्' कश्यपमहिमा-

६० तैत्तिरीये आरण्यके

द्वाणः । दीर्घ॑श्रुत्त॒मो भ॑वति । क॒श्यप॑स्याति॒थिः सि॒द्ध- र्गम॑नः सि॒द्धाग॑मनः^{(१८)} । ^{(१९)}तस्यै॒षा भ॑वति^{(१९)}। ^{(२०)}आ यस्मि॑न्त्स॒प्त वास॑वाः । रोह॑न्ति पू॒र्व्या रुहः॑ ॥ ७ ॥ ऋषि॑र्ह दीर्घ॑श्रुत्त॒मः । इन्द्र॑स्य घ॒र्मो अति॑थिरि-


भिज्ज्ञः सन्, 'दीर्घश्रुत्तमो भवति' दीर्घं चिरकालं कश्यपोप- श्रूयते, सम्यगनुष्ठाताऽयमिति ततोऽप्यतिशयो बहूनां देवानां मुखाच्छ्रवणं बहवोऽपि देवाः कश्यपसमीपं गत्वा ब्राह्मणोऽय- मारुणकेतुकं सम्यगनुतिष्ठति इति पुनः पुनः कथयन्ति अतोऽयं दीर्घश्रुत्तमः । परलोके 'कश्यपस्यातिथिः', इव पूज्यो भवति । किञ्च स ब्राह्मणः स्वेच्छया कश्यपसमीपगमनागमनयोः समर्थो भवति ॥

अथ ब्राह्मणोक्तार्थस्य प्रतिपादिकामृचमवतारयति । ^{(१९)}“तस्यैषा भवति”^{(१९)} इति ॥

तामेतामृचं दर्शयति । ^{(२०)}“आ यस्मिन्सप्त ० अतिथिरिति”^{(२०)} इति । 'यस्मिन्' कश्यपे, सप्तसङ्ख्याका आरोग्यादयः सूर्याः 'आरोहन्ति', कश्यपादेवोत्पद्य स्थितिं लभन्त इत्यर्थः । कीदृशाः सप्त सूर्याः, 'वासवाः' जगन्निवासहेतवः, 'पूर्व्यासः' सृष्ट्यादावुत्पन्नतया प्रथमाङ्कुरभूताः, तस्य 'इन्द्रस्य' परमैश्वर्य- युक्तस्य कश्यपस्य, 'दीर्घश्रुत्तमनामकः', कश्चित् 'ऋषिः', 'घर्मः' दीप्यमानः सन्, 'अतिथिः', सम्पन्नः । इत्यनयेष्टकामुपदध्यात् । अतएव बौधायनः । आ यस्मिन्नग्ने नयेति द्वे इति ॥

१ प्रपाठके ८ अनुवादः। ६१

ति^{(२०)}। ^{(२१)}कश्य॑पः पश्य॑को भवति। यत्स॒र्वं परि॒प- श्यतीति॑ सौक्ष्म्यात्^{(२१)}। ^{(२२)}अथाग्ने॑रष्टपु॑रुष॒स्य। तस्यै॒- षा भव॑ति^{(२२)}। ^{(२३)}अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्। विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य॒स्मज्जु॑हुरा॒ण- मेनः॑। भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेमेति॑^{(२३)}॥ ८॥


अथ ब्राह्मणमुच्यते। ^{(२१)}“कश्यपः ० सौक्ष्म्यात्”^{(२१)} इति। योऽयमष्टमः सूर्यः रूढ्या ‘कश्यपः’, इति नाम्नाभिधीयते स एवावयवार्थपर्यालोचनायामाद्यन्तयोरक्षरयोर्व्यत्यासेन ‘पश्यकः’, भवति। ‘यत्’ यस्मात् कारणात्, अत्यन्तसूक्ष्मत्वेन दिव्यदृष्ट्या ‘सर्वं’ अतीतानागतादिकं, परितः ‘पश्यति’॥

तदेवं कश्यपप्रकरणं समाप्याग्निप्रकरणमारभते। ^{(२२)}“अथाग्नेरष्टपुरुषस्य ० भवति”^{(२२)} इति। ‘अथ’ कश्यपमहिमाकथनानन्तरं, ‘अष्टपुरुषस्य’, ‘अष्टसङ्ख्याकमूर्त्तियुक्तस्य, ‘अग्नेः’, महिमा कथ्यत इति शेषः। ‘तस्य’ अग्नेः, महिमप्रतिपादिकेयमृग्विद्यते॥

तामेतामृचं दर्शयति। ^{(२३)}“अग्ने नय ० विधेमेति”^{(२३)} इति। हे ‘अग्ने’, ‘राये’ धनप्राप्त्यर्थम्, ‘अस्मान्’, ‘सुपथा नय’ शोभनेन मार्गेण प्रापय। हे ‘देव’, त्वं ‘विश्वानि वयुनानि’ सर्वान् मार्गान्, जानन् सन् वर्त्तसे। ‘जुहुराणं’ कुटिलम्, ‘एनः’ पापम्, ‘अस्मत् युयोधि’ अस्मत्सकाशाद्वियोजय, ‘ते’ तुभ्यं, ‘भू-

६२ तैत्तिरीये आरण्यके

• सभाहि॑ता, दृ॒श्ये, उत्त॑म॒म्, उच्य॑ते, गृ॒हान्,
स्व॒कर्म॑भिः, पू॒र्व्या, रु॒हं, इ॒ति* ॥ अनु० ८ ॥


नवमोऽनुवाकः ।

$^{(१)}$अ॒ग्निश्च॑ जात॑वेदाश्च । सहो॑जा अ॑जिरा॒ प्रभुः॑ ।
वै॒श्वा॒न॒रो नर्या॑पाश्च । प॒ङ्क्तिरा॑धाश्च स॒प्तमः॑ । विसर्पे-


यिष्ठाम्' अत्यधिकाम्, 'नमउक्तिं' नमस्कारप्रतिपादकं वाक्यं,
'विधेम' कुर्यास्म । इत्यनयेष्टकामुपदध्यात् ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके प्रथमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥


अथ नवमोऽनुवाकः ।

कल्पः । अग्निश्च जातवेदाश्चेत्यष्टाविति । पाठस्तु । $^{(१)}$“अ-
ग्निश्च • चिता इति”$^{(१)}$ इति । अग्न्यादयः शब्दा मूर्त्तिवि-
शेषाणां नामधेयानि । तत्र, 'पङ्क्तिराधाः', योऽग्नीनां मूर्त्ति-
विशेषाणां मध्ये 'सप्तमः', ज्ञेयः विसर्पंच्छब्देन विसर्पीति नाम
विवक्ष्यते । सोऽयम् 'अग्नीनां', मध्ये 'अष्टमः', 'एते' अग्न्या-
दयः, 'अष्टौ', मूर्त्तिविशेषाः 'वसवः' सर्वेषां प्राणिनां निवास-
हेतवः, स्वयञ्च 'चिताः' सुखेन निवासं प्राप्ताः । 'इति' शब्द


* अत्र प्रतीकसंग्रहे अष्टमकण्डिकायाः विधेमेतीति प्रतीकं नास्ति ।

१ प्रपाठके ६ अनुवाकः । ६३

वा॒ष्टमो॑ऽग्नी॒नां । ए॒तेऽष्टौ॒ वसवः॑ क्षि॒ता इति॑⁽¹⁾। ⁽²⁾यथ॑- र्त्वे॑वा॒ग्नेर॑र्चिर्वर्णविशेषाः । नी॒लार्चि॑श्च पी॒तका॑र्चि॒श्चे- ति॑⁽²⁾। ⁽³⁾अथ॑ वा॒योरेका॑दशपुरुषस्यैकादशस्त्रीकस्य⁽³⁾। ⁽⁴⁾प्र॒भ्राज॑माना॒ व्य॑वदा॒ताः ॥ १ ॥ याश्च॑ वासुकि॒ वै॒द्यु॑ताः । रजताः प॑रु॒षा श्या॒माः ।

उपधानप्रदर्शनार्थः । अस्यामृच्यभिहितानि नामान्येवोपधान- मन्त्राः । अग्निस्तया देवतयाऽङ्गिरखद्ब्रुवासीदेत्येवं सर्वत्रोपधानं ॥

अथ ब्राह्मणमुच्यते । ⁽²⁾“यथर्त्वेवाग्ने ॰ पीतकार्चिश्चेति”⁽²⁾ इति । ऋतूननतिक्रम्य ‘यथर्तु’, यस्यर्त्तौर्यादृशो वर्णविशेषः । तस्मिन् ऋतौ ‘अग्नेः’, अपि ‘वर्णविशेषः’, तादृगेव भवति । एवं सति क्वचिदृत्तौ ‘नीलार्चिः’, क्वचिच्च ‘पीतार्चिः’, इत्या- दिकं द्रष्टव्यं ॥

कल्पः । प्रभ्राजमाना इत्येकादश रुद्राः प्रभ्राजमान्य इत्ये- कादशरुद्राण्य इति । तदेतदुभयविधं विधत्ते । ⁽³⁾“अथ ॰ स्त्रीकस्य”⁽³⁾ इति । ‘अथ’ अग्नेरष्टविधस्य मन्त्रस्य कथनादन- न्तरम्, एकादशभिः पुरुषमूर्त्तिभिरेकादशभिः स्त्रीमूर्त्तिभिश्च युक्तस्य वायोरिष्टका उपधेयाः ॥

तत्र पूर्ववन्नामधेयरूपान् मन्त्रान् दर्शयति । ⁽⁴⁾प्रभ्राज- मानाः ॰ इत्येकादश”⁽⁴⁾ इति । अत्रापि प्रभ्राजमानास्तया देवतयाऽङ्गिरखद्ब्रुवासीदेत्यादिकं द्रष्टव्यं । ‘याश्च’, इत्युपन्यासा- र्थमुच्यते । नतु नामान्तःपाती वैद्युतपर्यन्ता ये उक्तास्ताः ‘इति’,

६४ तैत्तिरीये आरण्यके

क॒पिला अति॑लोहिताः। ऊ॒र्ध्वा अ॑वप॑तं॒ ताश्च॑। वैद्यु॒त इत्येकादश॑^(४)। ^(५)नैनं॑ वैद्यु॒तो हि॑नस्ति। य ए॒वं वेद॑^(५)। ^(६)सहोवाच॒ व्यासः॑ पाराश॒र्यः। वि॒द्युद्व॒धमे॒- वाहं मृ॒त्युमैच्छ॒मिति॑^(६)*॥ २॥

शब्देन परामृश्यन्ते। इत्येकादशवायुसम्बन्धिपुरुषगणः। एकै- कस्मिन् गणे पुरुषबाहुल्यात् 'प्रभ्राजमानाः', इत्यादिबहुव- चननिर्देशः। एकादशस्त्रीगणकस्येति† विवक्षितत्वादान्नाता अपि स्त्रीनाममन्त्रा अत्रानेयाः। तथा च प्रभ्राजमान्यस्तया देवतयाङ्गिरस्वद्ध्रुवासीदेति मन्त्रपाठः सम्पद्यते॥

उक्तवायुगणवेदनं प्रशंसति। ^(५)"नैनं • एवं वेद"^(५) इति। 'यः' पुमान्, वायुगणमाहात्म्यं 'वेद', 'एनं', 'वैद्युतः', अग्निरशनिरूपः 'न हिनस्ति'॥

एतस्योत्तमफलत्वं द्योतयितुं वैद्युतबधस्य कष्टतां दर्शय- ति। ^(६)"सहोवाच • मृत्युमैच्छमिति"^(६) इति। पराशरस्य पुत्रो 'व्यासाख्यः', महर्षिः योऽस्ति 'सः', खल्वेवम् 'उवाच', विद्यु- ताग्निना क्रियमाणे यो बधः तमेव 'अहं', 'मृत्युमैच्छं' तस्य मरणस्यातिकष्टत्वात् स एव बध एको मृत्युशब्दस्य मु- ख्यार्थः। तदपेक्षयान्येषां पापिष्ठत्वाभावादितरे बधा मृत्यव एव न भवन्तीत्यहं मन्ये॥


* अत्र रेखापातक्रमेण नवपादाः सन्ति, अर्थापेक्षयास्तु दश।
† D पुस्तके "गण" शब्दो नास्ति।

१ प्रपाठके ६ अनुवाकः । ६५

(७)न त्व॑काम॒ꣳ ह॑न्ति । य ए॒वं वेद॑(७) । (८)अथ॑ ग- न्ध॒र्व्वग॒णाः(८) । (९)स्वान॒भ्राट् । अङ्घा॑रि॒र्बम्भा॑रिः । ह॒- स्तः सुह॑स्तः । कृ॒शानुर्विश्ववा॑वसुः । मूर्द्धन्वात्सूर्य्य॑वर्चाः । कृ॒तिरित्येकादश ग॑न्धर्व्वग॒णाः(९) । (१०)देवा॑श्च म॑हादे- वाः । र॒श्मय॑श्च दे॒वा ग॑र॒गिरः॑(१०) ॥ ३ ॥*


विद्युद्वधस्यातिकष्टत्वं प्रदर्श्य वेदितुस्तदधराहित्यलक्षणं फलं पूर्वोक्तमुपसंहरति । (७)“न त्वकामꣳ ० एवं वेद”(७) इति । एवं वेदितुर्विद्युद्वधपरिहारार्थित्वाद्दिद्युद्वधे कामरहितं वेदितारं स वैद्युतोऽग्निर्नैव ‘हन्ति’ ॥

कल्पः । स्वानभ्राडित्येकादश गन्धर्वाः पदशः पश्चादिति । तदेतद्विधत्ते । (८)“अथ गन्धर्वगणाः”(८) इति । वायुगणानन्तरं ‘गन्धर्वगणाः’, उपधेयाः ॥

गन्धर्वाणां नाममन्त्रान् दर्शयति । (९)“स्वानभ्राट् ० गन्धर्वगणाः”(९) इति । स्वानादीनि गणनामधेयानि स्वानतया देवतयाङ्गिरस्वद्ध्रुवासीदेत्येवमुपधानं कर्त्तव्यम् ॥

एकादशसङ्ख्याका य एते गन्धर्वगणास्तान् प्रशंसति । (१०)“देवाश्च ० देवा गरगिरः”(१०)इति । ‘देवाः’ स्वयं द्योतमानाः । ‘महादेवाः’ इतरेषु देवेषु मध्ये गुणैर्महान्तः, ‘रश्मयः’ दीप्तिमन्तः, ‘देवाः’ इतरेषामपि द्योतयितारः । ‘गरगिरः’ विषमपि निगीर्य जरयन्ति ॥


* अत्रैकादशपादाः सन्ति । नियमस्तु सर्वत्र दशपादानां । रेखापातभ्रमेणातिरिक्तपादोऽत्र जातः स्यादित्यनुमीयते ।

६६ तैत्तिरीये आरण्यके

(११)नैनं॑ गरो॒ हिन॑स्ति । य ए॒वं वेद॑(११) । (१२)गौरी॑र्मिमाय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ । स॒हस्रा॑क्षरा पर॒मे व्यो॑मन्निति(१२) । (१३)वाचो॑ विशेष॒णम्(१३) । (१४)अथ

एतद्वेदनं प्रशंसति । (११)“नैनं गरो ० एवं वेद”(११) इति । वेदितुर्विषबाधा नास्ति ॥

कल्पः । गौरी मिमायेत्येकेति । (१२)“गौरी मिमाय ० व्योमन्निति”(१२) इति । ‘गौरी’ शुक्लवर्णा सरस्वती या शब्दब्रह्मात्मिका, सा ‘मिमाय’ मिमीते, स्वकीयैः शब्दैरभिधेयं सर्वं जगत् परिच्छिनत्ति । किं कुर्वती, ‘सलिलानि’ उदकजन्यानि सर्वाणि भूतजातानि, ‘तक्षती’ स्वव्याप्त्या नानाकुर्वती । एकैकस्य हि पदार्थस्य बहूनि नामधेयानि, वृक्षो महीरुहः शाखीत्येवं पर्यायबहुलदर्शनात् । यद्यप्यत्र प्रवृत्तिनिमित्तभूता अवयवार्था भिद्यन्ते तथापि देशभेदेन भिन्नभाषासु नास्ति प्रवृत्तिनिमित्तभेदः । अतः शब्दप्रपञ्चस्य बाहुल्यादर्थप्रपञ्चोऽपि स्वल्पो भवति, सा च सरस्वती छन्दोभेदादेकपद्यादिरूपेण वर्द्धमाना ‘सहस्राक्षरा’ सहस्रशब्दस्यानन्तपर्यायत्वादनन्ताक्षरा, अत्र ‘बभूवुषी’ भवितुमिच्छां कृतवती, ‘परमे व्योमन्’ विविधरचके परमे जगत्कारणे ब्रह्मणि स्थिता, इत्यनयैष्टकामुपदध्यात् ॥

अस्या ऋचस्तात्पर्यं दर्शयति । (१३)“वाचो विशेषणं”(१३) इति । वाग्देवतायास्तुतिरस्यामृचि क्रियत इत्यर्थः ॥