तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६८४ तैत्तिरीये आरण्यके
(१५)यस्मि॑न् वृ॒क्षे सु॑प॒ला॒शे दे॒वैः सम्पि॑बते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति^(१५)॥ ३॥
प॒थि॒कृद्भ्यः॑, वि॒जान॒ते, अनु॑वेनति ॥ अनु० ५ ॥
यन्ते दानादिकर्मनिष्ठास्तु स्वर्गलोके नीयन्ते इति तद्विवेकः। 'अथ' यस्मादेवं तस्मात्, सर्वेऽपि हे यम 'त्वामुपयन्ति'॥
अथ सप्तमीमाह। ^(१५)“यस्मिन् वृक्ष ० अनुवेनति”^(१५) इति। 'यमः', राजा, 'देवैः', अन्यैः सह, 'सुपलाशे' शोभन-पर्णोपेते, 'यस्मिन् वृक्षे' सोमसवननामके, तदश्वत्थः सोमसवन इति श्रुत्यन्तरात्। 'सम्पिबते' सम्भूय सोमपानं करोति। 'अत्र' अस्मिन् वृक्षे, 'विशपतिः' प्रजानां स्वामी, 'नः' अस्माकं, 'पिता', 'पुराणाः' पुरातनान् देवान्, 'अनुवेनति' अनुगच्छति। त एते श्चापि मन्त्रा यममाहात्म्यप्रतिपादकाः॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-रण्यके षष्ठप्रपाठके पञ्चमोऽनुवाकः॥ ५॥
६ प्रपाठके ६ अनुवाकः। ६८५
अथ षष्ठोऽनुवाकः ।
(१)वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि सा॒ह॒स्रमु॒त्सꣳ शत॑धार- मे॒तं । तस्मि॑न्ने॒ष पि॒तरं॑ पि॒ताम॒हं प्रपि॑तामहं बिभृत्यि- न्व॑माने(१) । (२)द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ यो-
अथ षष्ठोऽनुवाकः ।
पूर्वानुवाके पितृमेधगतयमविशेषमन्त्रप्रसङ्गात् बुद्धिस्थो यम- यज्ञोऽभिहितः । स च स्वतन्त्रपुरुषार्थो नतु पितृमेधाङ्गभूतः । अथ प्रासङ्गिकम्परिसमाप्य प्रकृतः पितृमेधशेष एवोच्यते । च- यनान्तमग्निश्चित इति सूत्रादभिहितत्वात् अग्निचिद्विषयं लोष्टचयन- मुच्यते । कल्पः । अग्निमुपसमाधाय जघनेन अग्निं तिस्रः पालाश्यो मेथ्यो निहत्य तासामन्तरेण अस्थिकुम्भं निधाय तदुपरिष्टात् कटं तृणामध्युद्यम्य दध्ना मधुमिश्रेण पूरयति, वैश्वानरे हविरिदं जु- होमीति । पाठस्तु । (१)“वैश्वान॒रे हविरिदं ० बिभरत्यिन्वमाने”(१) इति । ‘वैश्वानरे’ अग्निसदृशे कुम्भे, ‘इदं’ वाजिनमिश्रदधिरूपं, ‘हविः’, ‘जुहोमि’ । कीदृशं हविः, ‘साहस्रं’ सहस्रसङ्ख्योपेतं, ‘उत्सं’ प्रवाहरूपं, ‘शतधारं’ शतच्छिद्रेषु पतन्तीभिर्धाराभिर्युक्तं, ‘एषः’ वैश्वानरो देवः, ‘पिन्वमाने, वर्धमाने, पूर्यमाणे कुम्भे, ‘एतं’ अस्मदीयं, ‘पितरं’, ‘पितामहं’, ‘प्रपितामहं’, च ‘बिभरत्’ बिभर्तु ॥
कल्पः । विचत्तन्तं अभिमन्त्रयते, द्रप्सश्चस्कन्दे, इमं समुद्रमिति द्वाभ्यामिति । तत्र प्रथमामाह । (२)“द्रप्सश्चस्कन्द ० सप्तहोत्राः”(२)
३८६ तैत्तिरीये आरण्यके
निमन् यश्च॒ पूर्व॑: । तृतीयं॒ योनि॒मनु॑सञ्चरन्तं द्र॒प्सं जु॑- हो॒म्यनु॑स॒प्तहोत्रा॑:⁽२⁾ । ⁽३⁾इ॒मꣳ स॑मु॒द्रꣳ श॒तधा॑र॒मुत्सं॒ व्यच्य॑मानं॒ भुव॑नस्य॒ मध्ये॑ । घृ॒तन्दुहा॑ना॒मदि॑तिं॒ जना॑-
इति । 'द्रप्सः' बिन्दुः, सः 'पृथिवीमनु चस्कन्द', पृथिव्यां पतित इत्यर्थः । स च द्रप्सो हुतः सन् स्थानत्रयेऽनुसञ्चरति, द्युलोके, अ- न्तरिक्षलोके, भूलोके च । तदेतदभिप्रेत्य स्मर्यते, अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा इति । सोऽयमर्थो द्वामित्यादिनाऽभिधीयते । 'द्यामिमद्य योनिमनु' अन्तरिक्षरूपमिदं स्थानमनुसञ्चरति, 'यश्च पूर्वं' योपि पूर्वः* पृथि- वीमनुचस्कन्देतिपूर्वोक्तस्थानविशेषः, तमप्यनुसञ्चरति । 'तृतीयं योनिं' द्युलोकरूपमादित्यस्थानं, 'अनु', सञ्चरति । तमिमं त्रिषु स्थानेषु 'अनुसञ्चरन्तं', 'द्रप्सं', 'जुहोमि' मनसा हुतमिव भावयामि । कुत्र होम इति तदुच्यते, 'अनुसप्तहोत्राः', इति । यस्यान्दिशि द्रप्सः पतितः तद्वतिरिक्ता होमयोग्याः, सप्त दिशो याः सन्ति, तास्वनु- क्रमेण जुहोमि । यथा अयं द्रप्सः हुतः आदित्यादिस्थानत्रयेषु सञ्चरन् उपकरोति तथा भावयामीत्यर्थः ॥
अथ द्वितीयामाह । ⁽३⁾"इमꣳ समुद्रꣳ ० परमे व्योमन्"⁽३⁾ इति । हे 'अग्ने', 'इमं' कुम्भं, 'जनाय' प्रेतपुरुषार्थं, 'मा हिꣳसीः'
* योऽपि पय इति E चिह्नितपुस्तकपाठः ।
६ प्रपाठके ६ अनुवाकः। ६८७
याऽग्ने॒ मा हि॑ग्ं॒सीः प॒रमे व्यो॑मन्^(३)। ^(४)अपे॑त॒ वीत॒ वि च॑ सर्पतात॒ो येऽत्र॒स्थ पु॑रा॒णा ये च॒ नूत॑नाः। अहो॑भि॒र- द्धि॒रक्तुभि॒र्व्यक्तं॑ य॒मो द॑दात्वव॒सान॑मस्मै^(४)। ^(५)स॒वितै-
हिंसितं मा कुरु, किन्तु 'परमे व्योमन्' उत्तमे विविधरक्षणे, स्थित- मुरु। कीदृशमिमं, 'समुद्रं' समुद्रवत् प्रभूतं, 'शतधारं' शतसङ्ख्या- कधारोपेतं, 'उत्सं' प्रस्रवणयुक्तं, 'भुवनस्य मध्ये', 'व्यच्यमानं' सेव्यमानं, अभिव्यज्यमानं वा, 'घृतं दुहानां' घृतकारणं दधि दुहानं, 'अदितिं' अखण्डनीयं॥
कल्पः। षष्ट्यायां हरिण्या पलाशशाखया शमीशाखया वा श्म- शानायतनं सम्मार्ष्टि, अपेत वीतेति । पाठस्तु। ^(४)"अपे॑त॒ वीत॒ वि च॑ ॰ ददात्ववसानमस्मै"^(४) इति। यमेन नियुक्ताः पुरुषाः पुरातना नूतनाश्च सर्व्वस्यां भूमौ व्याप्य वर्त्तन्ते, तान् सम्बोध्य इदमू- च्यते, हे यमदूताः यूयं 'पुराणाः', 'अत्र' अग्निचेत्रे, 'स्थ' पूर्व्वं स्थिताः। 'ये च नूतनाः', यूयं अत्र स्थ, ते सर्व्वे यूयं 'अपेत' अस्मात् स्थानात् अपगच्छत, 'वीत' परस्परं वियुज्य गच्छत, 'अतो विसर्पतः' अस्मात् स्थानाद्विदूरं गच्छत, 'अहोभिः' दिवसैः, 'अक्तुभिः' रात्रिभिश्च, 'अद्भिः' जलैश्च, 'व्यक्तं' विशेषेण सम्बद्धं, 'अवसानं' इदं स्थानं, 'अस्मै' यजमानाय, 'यमो ददातु' ॥
कल्पः। सवितैतानि शरीराणि इति सीरं युनक्ति, षड्गवं द्वाद- शगवं चतुर्विंशतिगवं वेति। पाठस्तु। ^(५)"सवितैतानि शरीराणि
40
६८८ तैत्तिरीये आरण्यके
तानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरुप॑स्थ॒ आद॑धे । तेभि॑-
र्युज्यन्ताम॒घ्नियाः॑(५) ॥ १ ॥
(६)शुनं॒ वाहाः॑ शुनन्नराः॒ शुनं॑ कर्षतु॒ लाङ्ग॑लं ।
• तेऽभियुज्यन्तामघ्नियाः”(५) इति । 'सविता' प्रेरकः परमेश्वरः, 'मातुः' मातृस्थानीयायाः पृथिव्याः, 'उपस्थे' उत्सङ्गे, 'एतानि' 'शरीराणि' शरीरावयवरूपाण्यस्थीनि, 'आदधे' स्थापितवान्, 'तेभिः', तैर्निमित्तभूतैः, 'अघ्नियाः' गावः, बलीवर्दाः, 'युज्यन्तां' लाङ्गलेन सम्बद्ध्यन्तां ॥
कल्पः । शुनं वाहा इति द्वाभ्यां प्रसव्यावृत्तः षट् पराचीः सीताः कृषति । तत्र प्रथमामाह । (६)“शुनं वाहाः शुनन्नराः • शुनमस्मासु धत्तं”(६) इति । लाङ्गलं वहन्ति इति 'वाहाः' बली- वर्दाः, ते 'शुनं' सुखं यथा भवति तथा, वहन्त्विति शेषः । बली- वर्दानां प्रेरका मनुष्याः 'शुनं' सुखं यथा भवति तथा, प्रेरयन्त्विति शेषः । 'लाङ्गलं', च 'शुनं' सुखं यथा भवति तथा, 'कर्षतु' । 'वरत्राः' चर्ममय्यो रज्जवोपि, 'शुनं' सुखं यथा भवति तथा, 'बध्यन्तां' । 'अष्ट्रां' आराम्, तीक्ष्णाग्रलोहयुक्तं बलीवर्दप्रेरकं दण्डञ्च, 'उदिङ्गय' हे कीनाश, बलीवर्दप्रेरणार्थमुद्यताङ्कुरु, 'शुनासीरा' हे वाय्वा- दित्यौ, 'शुनं' सुखं, 'अस्मासु', 'धत्तं' सम्पादयतं ॥
६ प्रपाठके ६ अनुवाकः। ६८६
शु॒नं वर॑त्रा बध्यन्ता॒ᳪ॒ शुनम॒ष्ट्रामुदि॑ङ्गय शुना॑सीरा शु॒- नम॒स्मासु॑ धत्तं॑^(६)। ^(७)शुना॑सीरावि॒मां वाचं॒ यदि॑वि च॑- क्रथुः॒ पय॑ः। तेने॒मामुप॑सिञ्चतं^(७)। ^(८)सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभग भव। यथा॑ नः सु॒भगा स॑सि॒ यथा॑ नः सु॒फला संसि॑^(८)। ^(९)स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒-
अथ द्वितीयामाह । ^(७)“शुनासीराविमां वाचं ० तेनेमामु- पसिञ्चतं”^(७) इति। शुनः वायुः, सीरः, आदित्यः, हे ‘शुनासीरौ’ वाय्वादित्यौ, ‘इमां’ पूर्वोक्तां शुनमस्मासु धत्त मित्येतादृशीं, ‘वाचं’, श्रुत्वा ‘दिवि’ अन्तरिक्षे, ‘यत्’ ‘पयः’ उदकं, ‘चक्रथुः’ सम्पादितव- न्तौ, ‘तेन’ उदकेन, ‘इमां’ भूमिं, ‘उपसिञ्चतं’ सिक्तां, कुरुतं ॥
कल्पः । उद्यम्य लाङ्गलं, सीते वन्दामहे इति सीताः प्रत्यवेक्ष्यते, इति । पाठस्तु । ^(८)“सीते वन्दामहे त्वार्वाची ० यथा नः शुफ- ला ससि”^(८) इति । लाङ्गलपद्धतिः सीता, हे ‘सीते’, त्वां ‘वन्दामहे’ नमस्कुर्मः। हे ‘सुभगे’ सौभाग्ययुक्ते सीते, ‘अर्वाची’ अधः प्रसृता,* ‘भव’ । ‘नः’ अस्मान् प्रति, ‘यथा’ येन प्रकारेण, ‘सुभगा’ सौभाग्य- युक्ता, ‘ससि’ भवसि, ‘यथा’, च ‘सुफला ससि’ शोभनफलोपेता भवसि । तथा अर्वाची भवेति पूर्वत्रान्वयः ॥
कल्पः । सवितैतानि शरीराणि इति मध्ये कष्टस्य अस्थिकुम्भन्नि- दधाति, इति । पाठस्तु । ^(९)“सवितैतानि शरीराणि ० तेभिरदिते
* अधःप्रसता इति E चिह्नितपुस्तकपाठः ।
402
६६० तैत्तिरीये आरण्यके
तुरु॒पस्थ॒ आद॑धे । तेभि॑रदिते॒ शम्भ॑व^{(९)} । ^{(१०)}विमु॑च्य-
ध्वम॒घ्निया॑ दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य । ज्यो-
ति॒रापा॑म॒ सुव॑रगन्म^{(१०)} ॥ ^{(११)}प्र वाता॑ वान्ति प॒त-
य॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुव॑ः । इरा॒
विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् पर्ज॑न्यः पृथि॒वीꣳ
शम्भव"^{(९)} इति । सवितेत्यादिः पूर्ववत् । 'तेभिः' अस्थिभिः निमि-
त्तभूतैः, हे 'अदिते' भूमे, 'शं' सुखहेतुः, 'भव' ॥
कल्पः । विमुच्यध्वमघ्निया देवयाना इति दक्षिणे अंसे बली-
वर्दान्विमुच्य, इति । पाठस्तु । ^{(१०)}"विमुच्यध्वमघ्नियाः ० ज्योति-
रापाम सुवरगन्म"^{(१०)} इति । हे 'अघ्नियाः' बलीवर्दाः, 'विमुच्यध्वं'
विमुक्ता भवत । 'देवयानाः' देवान् प्रति गमनवन्तः, * वयं, 'अस्य'
मनुष्यजन्मरूपस्य, 'तमसः' अन्धकारस्य, 'पारं' परभागं प्रति, 'अ-
तारिष्म' तारितवन्तः । 'ज्योतिः' स्वर्गमार्गप्रकाशकं सुकृतरूपं साधनं,
'आपाम' प्राप्नुवाम, 'सुवः' स्वर्गं, 'अगन्म' वयं प्राप्तवन्तः ॥
कल्पः । उदपात्रेण उदुम्बरशाखया वा उक्षति, प्र वाता वान्ति
इति । पाठस्तु । ^{(११)}"प्र वाता वान्ति पतयन्ति ० पृथिवीꣳ रेतसाऽ-
वति"^{(११)} इति । 'वाताः' पुरोवायवः, 'प्रवान्ति' प्रकर्षेण गच्छन्ति,
तेन वायवः 'विद्युतः', 'पतयन्ति' पतिताः कुर्वन्ति । 'ओषधीः'
* प्रतिगच्छन्त इति K चिह्नितपुस्तकपाठः
६ प्रपाठके ६ अनुवाकः । ६६१
रेत॒साऽव॑ति।^{(११)} ।^{(१२)}यथा॑ य॒माय॑ ह॒र्म्यमव॑प॒न् पञ्च॑ मा-
न॒वाः । ए॒वं व॑पामि ह॒र्म्यं यथा॒ऽसाम॑ जीवलो॒के भूर॑-
यः।^{(१२)} । ^{(१३)}चित॑ स्थ परि॒चित॑ ऊ॒र्ध्वचि॑तः श्रयध्वं पि॒तरौ
ओषधयश्च, ‘उज्जिहते’ उद्गच्छन्ति । ‘सुवः’ तन्निमित्तं सुखं, ‘पिन्वते’ वर्धते । ‘विश्वस्मै भुवनाय’ सर्वप्राण्युपकारार्थं, ‘इरा’ अन्नं, ‘जायते’ । ‘यत्’ यस्मात्कारणात्, ‘पर्जन्यः’ मेघः, ‘पृथिवीं’, ‘रेतसा’ स्वकीयेनोदकेन, ‘अवति’ रक्षति । तस्मात् पूर्वोक्तमन्नादिकमुपपन्नं ॥
कल्पः । पाच्यां सर्वाषधोः संयुत्य आवपति, यथा यमायेति ।
पाठस्तु । ^{(१२)}“यथा यमाय हर्म्यमवपन् पञ्च॰जीवलोके भूरयः”^{(१२)} इति । ‘यथा’, यमलोके ‘पञ्च मानवाः’ पञ्चसङ्ख्याकाः मनुष्यरूपाः मुख्या यमदूताः, ‘हर्म्यं’ हर्म्यस्य योग्यं गृहोपकरणजातं, ‘अवपन्’ सम्पादितवन्तः । ‘एवं’, अहमपि ‘हर्म्यं’ हर्म्यस्य गृहस्य योग्यं गृहोपकरणभूतमोषधिजातं, ‘वपामि’ प्रक्षिपामि । ‘यथा’ येन प्रकारेण, ‘जीवलोके’ जनसमूहे, ‘भूरयः’ प्रभूता , वयं ‘असाम’ अभवाम, तथा कुर्म इति शेषः ॥
कल्पः । चित स्थ परिचित इत्यपरिमिताभिः शर्कराभिः परिश्रित्य, इति । पाठस्तु । ^{(१३)}“चित स्थ परिचितः ० तया देवतया”^{(१३)} इति । हे शर्कराः यूयं ‘चितः’ सम्पादिता भवत, ‘परिचितः स्थ’ परितः स्थापिताः भवत, ‘ऊर्ध्वचितः’ सर्वाभ्य इष्टकाभ्य
६६२ तैत्तिरीये आरण्यके
दे॒वता॑ । प्र॒जाप॑तिर्वः सादयतु तर्या॒ दे॒वत॑या^{(१२)} । ^{(१४, १५)}आ॒प्याय॑स्व, सन्ते^{(१४, १५)} ॥ २ ॥ अ॒ग्नियाः॑, अग॑न्म, सप्त च॑ ॥ अनु० ६ ॥
अथ सप्तमोऽनुवाकः । ^{(१)}उत्ते॑ तभ्नोमि पृथि॒वीं त्वत्परीमं लो॒कं निद॑धन्मो अ॒हꣲ रि॑षं । ए॒ताः स्थूणां॑ पितरो॑ धारयन्तु तेऽत्र॑ य॒मः
ऊर्ध्वं सम्पादिताः स्थ, तादृशीनां युष्माकं ‘पितरो देवता’ पितृदे- वत्या यूयं, ‘प्रजापतिः’, देवः, तादृशीः ‘वः’ युष्मान्, ‘सादयतु’ अत्र स्थापयतु । ‘तया’ प्रजापतिरूपया, ‘देवतया’, अङ्गिरखद्बु- वासीदेति शेषः । अङ्गिरोभिः स्थापिताः यथा ध्रुवास्तथात्रापि ध्रुवाः सत्यस्तिष्ठत ॥
कल्पः । आप्यायस्व समेतु त इति सिकता व्यूहति, उत्तरया त्रिष्टुभा राजन्यस्येति । उभयोः प्रतीके दर्शयति । आप्यायस्व, सन्ते इति । आप्यायस्व समेतु ते, सन्ते पयांऽसि समुयन्तु वाजा इति मन्त्र- द्वयं, (१४,१५ मन्त्रौ ।) मा नो धीऽसीर्जनितेत्यनुवाके व्याख्यातं ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
कल्पः । लोष्टान् प्रतिदिशमन्वीक्षमाण उपदधाति, उत्ते त- भ्नोमि इत्येतैः प्रतिमन्त्रमिति । तत्र प्रथमामाह । ^{(१)}“उत्ते तभ्नोमि
६ प्रपाठके ७ अनुवाकः । ६६३
साद॑नात्ते मिनोतु^(१) । ^(२)उप॑सर्प मा॒तरं॒ भूमि॑मे॒तामु॑- रुव्यच॑सं पृथि॒वीꣳ सु॒शेवां॑ । ऊ॒र्णम्र॑दा यु॒वति॒र्द- क्षि॑णावत्ये॒षा त्वा॑ पातु॒ निर्ऋ॑त्या उप॒स्थे^(२) । ^(३)उच्छ्व॑ञ्च-
पृथिवीं ॰ सादनात्ते मिनोतु^(१) इति । हे लोष्ट 'ते' त्वदर्थं, 'पृथिवीं', 'उत्तभ्नोमि' उत्कर्षेण स्तब्धां करोमि । हे पृथिवि 'त्वत्परि' तवोपरि, 'इमं' 'लोकं' लोक्यते दृश्यते इति लोकः लोष्टः, तं, 'निदधन्' स्थापयन्, 'अहं', 'मो रिषं' तव हिंसां मा करोमि, 'एतां' लोष्टरूपां, 'स्थूणां' स्तम्भं, 'ते' तव, भारो यथा न भवति तथा 'पितरो धारयन्तु' । 'अत्र' अस्मिन् देशे, 'यमः', देवः, हे लोष्ट 'ते' तव, 'सादनात्' स्थापननिमित्तं, 'मि- नोतु' स्थानं करोतु ॥
अथ द्वितीयामाह । ^(२)"उपसर्प मातरं ॰ निर्ऋत्या उपस्थे"^(२) इति । हे लोष्ट 'एतां' 'भूमिं', 'उपसर्प' प्राप्नुहि । कीदृशीं, 'मातरं' मातृस्थानीयां, 'उरुव्यचसं' बहुविस्तारां, 'पृ- थिवीं' प्रथितां प्रसिद्धां, 'सुशेवां' सुष्ठु सेवितुं योग्यां । 'ऊर्णम्रदा' कम्बलवत् मृदुभूता, 'युवतिः' नित्यतरुणी, 'दक्षिणावती' कौशलयुक्ता, सा 'एषा' पृथिवी, 'उपस्थे' खोत्सङ्गे, 'निर्ऋत्याः' पापदेवतायाः सकाशात्, हे लोष्ट त्वां 'पातु' ॥
अथ तृतीयामाह । ^(३)"उच्छ्वञ्चस्व पृथिवि मा ॰
६६४ तैत्तिरीये आरण्यके
ञ्चस्व पृथिवि मा वि॒बा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूप- व॒ञ्चना । मा॒ता पु॒त्रं यथा॑ सि॒चाऽभ्ये॑नं भूमि वृणु^(३) । ^(४)उञ्चञ्च॑माना पृथिवी हि तिष्ठ॑सि सहस्रं॒ मित् उप॑ हि श्र॒यन्तां । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वा॑हाऽस्मै शर॒णाः
सिचाऽभ्येनं भूमि वृणु”^(३) इति । हे 'पृथिवि', लोष्टमेनं 'उञ्चञ्चस्व' उत्कर्षेण सुखयुक्तङ्कुरु । 'मा विबाधिथाः' अस्य बाधां माकार्षीः, । 'अस्मै' लोष्टाय, सूपायनं निवासस्थानं, भोग्यद्रव्यं वा, यस्याः सा 'सूपायना', । सुष्ठु उपवञ्चनं, स्वेच्छा- गमनं, यस्याः सा 'सूपवञ्चना', । तादृशी भव । 'यथा', लोके 'माता', 'पुत्रं', 'सिचं' वस्त्रेण प्रावृणोति, तथा 'एनं' लोष्टं, 'अभिवृणु' अस्य प्रावरणं कुरु ॥
अथ चतुर्थीमाह । ^(४)“उञ्चञ्चमाना पृथिवी हि, ० शरणाः सन्त्वत्र”^(४) इति । हे 'पृथिवि', 'हि' यस्मात्, 'उञ्चञ्चमाना' उत्कर्षेण सुखं कुर्वाणा, 'तिष्ठसि' । तस्मात् कारणात् 'मितः' मीयमानाः, 'सहस्रं' लोष्टाः, 'उपश्रयन्तां' त्वामाश्रयन्तु, एतं वा मुख्यं लोष्टमाश्रयन्तु । 'ते' सर्वे लोष्टाः, 'मधुश्चुतः' माधुर्यर- सस्त्राविणः, 'गृहाः', भूत्वा 'विश्वाहा' सर्वेष्वप्यहःसु, 'अस्मै' स्था- प्यमानलोष्टाय, 'शरणाः', 'अत्र', रक्षितारः, 'सन्तु' ॥
कल्पः । तिलमिश्राभिर्धानाभिः चिरपशव्यं परिकिरति, एणी-
६ प्रपाठके ७ अनुवाकः। ६६५
स॒न्वच॑^{(४)}। ^{(५)}ए॒णीर्धाना॑ हरि॑णीर॒र्जुनी॑: सन्तु धे॒नव॑:। ति॒लव॑त्सा॒ ऊर्ज॑म॒स्मै॒ दुहा॑ना॒ विश्वा॑हा॒ सन्व॑न- पस्फुरन्तीः^{(५)}॥ १ ॥ ^{(६)}ए॒षा ते॑ यमसाद॑ने स्व॒धा नि॒धीय॑ते गृ॒हे। अ- क्षिति॒र्नाम॑ ते अ॒सौ^{(६)}। ^{(७)}इ॒दं पि॒तृभ्य॑: प्रभरेम ब॒र्हि-
धाना॑ इति॑। पाठस्तु। ^{(५)}"एणीर्धाना हरिणीरर्जुनी: ० सन्वन- पस्फुरन्तीः"^{(५)} इति। याः 'धानाः', सन्ति ताः 'एणीः' मिश्र- वर्णाः, 'हरिणीः' हरितवर्णाः, 'अर्जुनीः' श्वेतवर्णाश्च, 'धेनवः', सन्तु। तिलाः वत्सस्थानीया यासामन्ताः 'तिलवत्साः', तादृश्यो धानाः 'अस्मै' प्रेताय, 'ऊर्जं' अन्नरसं, 'दुहानाः', 'विश्वाहा' सर्वेष्वहःसु, 'अनपस्फुरन्तीः' अपस्फुरणेन प्रातिकूल्यप्रतिभासेन रहिताः, 'सन्तु'॥
कल्पः। अभिवात्यायै दुग्धस्यार्धशरावे मन्थः त्रिरपसव्योपम- थितः* आमपात्रस्थः तं दक्षिणत उपदधाति, एषा ते यमसादने इति। पाठस्तु। ^{(६)}'एषा ते यमसादने ० नाम ते असौ'^{(६)} इति। हे प्रेत 'ते' तव, 'यमसादने' यमस्य स्थाने 'गृहे', 'एषा' मन्थरूपा, 'स्वधा' अन्नात्मिका, 'निधीयते' स्थाप्यते। 'असौ', हे देवदत्त- नामक प्रेत 'ते' तव, 'अक्षितिर्नाम' क्षयरहिता खलु॥
कल्पः। समूलं बर्हिर्दक्षिणा स्तृणाति, इदं पितृभ्यः प्रभरे- म बर्हिः इति। पाठस्तु। ^{(७)}"इदं पितृभ्यः ० यम्या संविदानः"^{(७)}
* त्रिः प्रसव्योपमंथित इति F, K, चिह्नितपुस्तकद्वयपाठः। 4 P
६६६ तैत्तिरीये आरण्यके
दे॒वेभ्यो॑ जीवन्त॒ उत्त॑रम्भरेम । तत्त्व॑मारोहा॒सो मेध्यो॑ भव य॒मेन॒ त्वं य॒म्या सं॑विदानः॑।^{(७)}। ^{(८)}मा त्वा॑ वृ॒क्षौ स॑- म्बाधिष्ठां॒ मा मा॒ता पृ॑थि॒वि त्वं । पि॒तॄन् ह्यत्र॒ गच्छा॑- स्येधासं यमरा॒ज्ये॑।^{(८)}। ^{(९)}मा त्वा॑ वृ॒क्षौ सम्बा॑धेथां॒ मा
इति । 'इदं' 'बर्हिः', 'पितृभ्यः' पित्रर्थं, 'प्रभरेम' प्रकर्षेण स्तृणीम । वयन्तु 'जीवन्तः', एव 'तत्त्वमारोहासः' परमार्थतत्त्वमारोढुकामाः, 'देवेभ्यः' देवार्थं, 'उत्तरं' उन्नततरं, अतिशयेनोत्कृष्टतरं, बर्हिः 'भरेम' सम्पादयाम । हे प्रेत 'त्वं', 'यमेन', 'यम्या', च 'संविदानः' ऐकमत्यङ्गतः, 'मेध्यो भव' अमृतसेवनयोग्यो भव ॥
कल्पः। पालाशान् परिधीन् परिदधाति, मा त्वा वृक्षाविति, पूर्वापरावुत्तरया दक्षिणोत्तरावेति । तत्र प्रथमामाह । ^{(८)}“मा त्वा वृक्षौ सम्बाधिष्ठां ० गच्छास्येधासं यमराज्ये”,^{(८)} इति । हे प्रेत त्वां 'वृक्षौ' पूर्वापरपरिधिरूपावेतौ, 'मा सम्बाधिष्टां' बाधितं मा कुरुतं । हे 'पृथिवि', 'त्वं', अपि 'माता' मातृस्थानीया सती, मा बाधिष्ठाः । 'हि' प्रसिद्धान्, 'पितॄन्', 'अत्र' स्थाने, 'गच्छासि' हे प्रेत प्राप्नुहि । 'यमराज्ये' यमस्य देशे, 'एधासं' एधस्व, वर्धस्व ॥
अथ द्वितीयामाह । ^{(९)}“मा त्वा वृक्षौ सम्बाधेथां ० यमराज्ये विराजसि”^{(९)} इति । हे प्रेत त्वां 'वृक्षौ' दक्षिणोत्तर-
६ प्रपाठके ७ अनुवाक । ६८७
माता पृ॑थि॒वी म॒ही । वै॒व॒स्वत॑ꣳ हि गच्छा॑सि य॒मरा॒ज्ये॒ वि॒राज॑सि^{(९)}। ^{(१०)}नलं॑ प्ल॒वमा॒रोहैतन्न॒लेन॒ पथो॒ऽन्वि॑हि । स त्वं न॑ल॒प्ल॒वो भू॒त्वा सन्त॑र॒ प्रत॑रो॒त्तर॑^{(१०)} ॥ २ ॥ ^{(११)}स॒वि॒तैतानि॑ श॒रीरा॑णि पृथि॒व्यै मा॒तुरुप॑स्थ॒-
परिधिरूपावेतो, 'मा सम्बाधेयां' सम्बाधितं मा कुरुतां । 'माता' मातृस्थानीया, 'मही' महतो, 'पृथिवी', मा बाधिष्ट । 'हि' प्रसिद्धं, 'वैवस्वतं' सूर्य्यपुत्रं यमं, 'गच्छासि' प्राप्नुहि । 'यमराज्ये' यमस्य देशे, 'विराजसि' विशेषेण राजमानो भव ॥
कल्पः । मध्ये नलेषीकान् निदधाति, नलं प्लवमिति । पाठस्तु । ^{(१०)}"नलं प्लवमारोह ॰ सन्तर प्रतरोत्तर"^{(१०)} इति । नल- शब्देन जलमध्ये समुत्पन्नः तृणविशेष उच्यते । हे प्रेत त्वं 'नलं' 'प्लवं' तृणविशेषरूपं प्लवनहेतुं, 'एतं' 'आरोह' । तेन 'नलेन', 'पथः' मार्गान्, 'अन्विहि' त्वं अनुक्रमेण प्राप्नुहि । 'सः' तादृशः, 'त्वं', 'नलप्लवः' नलरूपेण प्लवेन युक्तः, 'भूत्वा', 'सन्तर' पितृलोक- मार्गरूपं समुद्रं सम्यक् तर, 'प्रतर' प्रकर्षेण तर, 'उत्तर' उत्कर्षेण तर । मार्गे नानाविधोपद्रवपरिहाराभिप्रायेण नानाविधन्तरण- मुच्यते ॥
कल्पः । पुराणेन सर्पिषा शरीराणि सुसन्तृप्तानि सन्तर्प्य उत्त- रत आसीनः अनन्वीक्षमाणो दर्भेषु निवपति, सवितैतानि शरीराणि इति । पाठस्तु । ^{(११)}"सवितैतानि शरीराणि ॰ तेभ्यः पृथिवि
4P2
६६८ तैत्तिरीये आरण्यके
आद॑धे । तेभ्य॑: पृथि॒वि॒ शम्भ॑व^(११) । ^(१२)षड्ढोता॒ सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॒ गच्छ॒ यदि॑ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रै:^(१२) । ^(१३)परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॑ स्व-
शम्भव”^(११) इति । ‘एतानि’ ‘शरीराणि’ शरीरावयवरूपाणि अस्थीनि, मातृस्थानीयाया: पृथिव्या: ‘उपस्थे’ उत्सङ्गे, ‘सविता’ प्रेरको देव:, ‘आदधे’ सर्वत: स्थापयति । हे ‘पृथिवि’, ‘तेभ्य:’ अस्थिभ्य:, ‘शं’ सुखहेतु:, ‘भव’ ॥
कल्प: । अथैनमुपतिष्ठन्ते, षड्ढोता सूर्यन्ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतिष्ठा शरीरै: इति । (१२मन्त्र: ।) य: षड्ढोतृसञ्ज्ञको मन्त्राभिमानी देव: अस्ति तदनुग्रहेण हे प्रेत त्वदीयं ‘चक्षु:’, ‘सूर्यङ्गच्छतु’, इति योजनीयं । अयञ्च मन्त्र: प्रथमानुवाके व्याख्यातः ॥
कल्प: । भुक्तभोगेन वाससा अस्थिकुम्भन्निमृज्योपर्य्युपरि शिरो दक्षिणा व्युदस्यति, परं मृत्यो अनुपरेहि पन्थामिति, अथास्य कपालानि सुसभिन्नानि सम्भिनत्ति यथा एषु उदकन्न तिष्ठेत्, इति । पाठस्तु । ^(१३)“परम्मृत्यो अनुपरेहि०रीरिषो मोत वीरान्”^(१३) इति । हे ‘मृत्यो’, ‘देवयानादितर’, ‘य:’ पन्था:, ‘ते स्व:’ तव
६ प्रपाठके ७ अनुवाकः। ६६
इत॑रो दे॒वयाना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान्^{(१३)}} । ^{(१४)}शं वातः॑ शꣳ हि ते॑ घृ॒णिः शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां मे॒ दिशः॑
खभूतः, तं, ‘परं पन्थां’ देवयानात् इतरं तं मार्गं, ‘अनुपरेहि’ अनुक्रमेण प्राप्नुहि । ‘चक्षुष्मते’ साधुदर्शिने, ‘शृण्वते’ अस्मद्विज्ञप्तीनां श्रोत्रे, ‘ते’ तुभ्यं, एकं वचनं ‘ब्रवीमि’ । ‘नः’ अस्मदीयां, ‘प्रजां’ पुत्रादिरूपां, ‘मा रीरिषः’ मा विनाशय, ‘उत’ अपिच, ‘वीरान्’ शूरान् भृत्यानपि, मा रीरिषः, ॥
कल्पः । भुक्तभोगेन वाससा शरीराणि प्रच्छाद्य उदपात्रेण उदुम्बरशाखया वोक्षति, शं वात इति । पाठस्तु । ^{(१४)}“शं वातः शꣳ हि ते घृणिः ० कल्पन्ताम्मे दिशः शग्माः”^{(१४)} इति । ‘वातः’ वायुः, ‘ते’ तव, ‘शं’ सुखं, करोतु । ‘घृणिः’ दीप्यमानः आदित्यः, ‘हि’ प्रसिद्धः, ‘ते’ तव, ‘शं’ सुखं, करोतु । ओषध्यश्च ‘ते’ तव, शं, सुखं प्रति हेतवः, ‘सन्तु’ । ‘दिशः’, सर्वाः, ‘मे’ मम, ‘शग्माः’ सुखप्रापिकाः,* ‘कल्पन्तां’ समर्था भवन्तु ॥
कल्पः । इष्टकाः प्रतिदिशमन्वन्वीक्षमाणां उपदधाति, पृथिव्यास्त्वा
* सुखदायिका इति E चिह्नितपुस्तकपाठः ।
† प्रतिदिशमन्वीक्षमाण इति F चिह्नितपुस्तकपाठः ।
७०० तैत्तिरीये आरण्यक
श॒र्माः^{(१४)}} । ^{(१५)}पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दया॒म्यमुष्य॑ श॒र्माऽसि॒ पितरौ॑ दे॒वतं॑ । प्र॒जाप॑तिस्त्वा॒ सा॑दयतु तया॑ दे॒वत॑या^{(१५)}} ॥ ^{(१६, २०)}अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑ दि॒शां त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॑ श॒र्मा-
लोके सादयामि इत्येतैः प्रतिमन्त्रं प्रतिदिशं मध्ये पञ्चमोन्तां दक्षिणेन षष्ठीमिति । तत्र प्रथममन्त्रमाह । ^{(१५)}"पृथिव्यास्त्वा लोके ० तया देवतया"^{(१५)} इति । हे इष्टके त्वां 'पृथिव्याः', 'लोके' स्थाने, 'सादयामि' स्थापयामि । 'अमुष्य' प्रेतस्य, 'शर्मासि' सुखहेतुरसि । 'पितरः', तव 'देवताः' स्वामिभूताः, 'प्रजापतिः', देवः, त्वां अत्र 'सादयतु' स्थापयतु । 'तया' प्रजापति'देवतया' स्थापिता सती, ध्रुवा सीद, यथाङ्गिरोभिः स्थापिता, तद्वत् । अत्राङ्गिरस्वद्ध्रुवा सीदेत्येतावदध्याहर्त्तव्यं ॥
अथ द्वितीयादीन् षष्ठ्यन्तान् पञ्चमन्त्रानाह । ^{(१६, २०)}"अन्तरिक्षस्य त्वा दिवस्त्वा ० प्रजापतिस्त्वा सादयतु तया देवतया"^{(१६, २०)} इति । हे द्वितीयेष्टके त्वां 'अन्तरिक्षस्य', लोके सादयामीत्यनुषज्य पूर्ववद्व्याख्येयं । हे तृतीयेष्टके त्वां 'दिवः', लोके सादयामि । हे चतुर्थ्येष्टके त्वां 'दिशां', लोके सादयामि । हे पञ्चमेष्टके त्वां 'नाकस्य पृष्ठे' स्वर्गस्योपरि, साद-
६ प्रपाठके ८ अनुवाकः । ७०१
ऽसि॑ पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या^(१६, २०) ॥ ३ ॥ अन॑पस्फुरन्तीः, उत्त॑र, दे॒वत॑या, दे च॑ ॥ अनु० ७ ॥
अथाष्टमोऽनुवाकः ।
^(१)अपू॑पवान् घृ॒तवाँ॑श्च॒रुरे॒ह सी॑दतू॒त्तम्भुवन् पृ॑थि-
यामि । हे षष्ठेष्टके त्वां ‘ब्रध्नस्य’ आदित्यस्य, ‘विष्टपे’ स्थाने, ‘साद- यामि’ । सर्वत्रानुषङ्गद्योतनाय सादयामीत्यादेः पुनः पाठः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमोऽनुवाकः ।
कल्पः । एवं चरून्, अपूपवानिति, प्रतिमन्त्रमिति । तत्र प्रथममन्त्रमाह । ^(१, ४)“अपूपवान् घृतवाँश्चरुरेह सीदतूत्तम्भुवन्० प्रजापतिस्त्वा सादयतु तया देवतया^(१, ४) । पक्वा भक्ष्याः पिष्टविका- राः अपूपाः, ते यस्य चरोः सन्ति सः अयं ‘अपूपवान्’ । तथा ‘घृतवान्’ प्रभूतघृतयुक्तः, तादृशः ‘चरुः’, ‘इह’ अस्मिन् स्थाने, पूर्वस्यां दिशि ‘आसीदतु’ उपविशतु, । किं कुर्वन्, ‘पृथिवीं’, एतां
७०२ तैत्तिरीये आरण्यके
वीं द्यामु॒तोप॑रि॑ । यो॒नि॒कृतः॑ पथि॒कृतः॑ सप॒र्यत॒ ये दे॒वानां॑ घृत॒भागा इ॒ह स्थ॑ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हैंऽसौ । दशा॑क्षरा ताꣳ रक्ष॑स्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां॑ त्वा॒ मा द॑भन् पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या^(१) । (२, ५)
'उत्तभ्नुवन्' ऊर्ध्वं स्तम्भां कुर्वन्, 'उत अपि च, 'द्यां' द्युलोकं, 'उपरि' ऊर्ध्वभागे, उत्तभ्नुवन् । 'देवानां', मध्ये ये देवविशेषा यूयं 'इह' अस्मिन् उपधाने, 'घृतभागाः स्थ' घृतसेविनो भवत । ये यूयं 'योनिकृतः' स्थानकारिणः, 'पथिकृतः' मार्गकारिणश्च, सन्तः 'सपर्यत' परिचरत । 'असौ' देवदत्तादिनामक हे प्रेत, 'ते' तव, 'यमसादने' यमस्य स्थाने, 'गृहे', 'एषा स्वधा' एतच्चरुरूपमन्नं, 'निधीयते' नितरां स्थाप्यते । दशसङ्ख्याकानि अक्षराणि मन्त्रविशे-षरूपेण प्रतिपादकानि यस्याश्चरुरूपायाः स्वधायाः सन्ति, सा इयं 'दशाक्षरा', तादृशी या स्वधा विद्यते, 'तां' स्वधां, हे प्रेत 'रक्षस्व' । 'तां गोपायस्व' । स्वरूपस्योपद्रवाभावः, रक्षणं । भोगदशायामपि उपद्रवाभावः, गोपायेत्यनेनोच्यते । 'तां' तादृशीं स्वधां, 'ते' तुभ्यं, 'परिददामि' । अत्र देवतारूपा ये पितरः ते सर्वे 'तस्यां' स्वधायां, त्वां प्रेतं, 'मा दभन्' हिंसितं मा कुर्वन्तु । प्रजापतिरित्यादि पूर्ववत् ॥
६ प्रपाठके ८ अनुवाकः। ७०३
अपू॒पवा॒ञ्छृतवा॒न् क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माग्ँश्च॒- रु॒रेह सी॑दतूत्त॒म्भुव॑न् पृ॑थि॒वीं द्यामु॒तोप॑रि । योनि॑- कृतः पथि॒कृतः॑ सपर्यत॒ । ये दे॒वानाग्ँ॑ शृतभागाः॑ क्षी॒र- भा॒गा द॑धिभा॒गा मधु॑भागा॒ इ॒ह स्थ॑ । ए॒षा ते॑ यमसा॒दने॑ स्व॒धा नि॒धीय॑ते गृ॒हैः सौ॑ । श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒ऽयुता॑- क्षरा॒ऽच्युता॑क्षरा॒ ताग्ँ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑- ददा॒मि तस्यां॑ त्वामाद॑भन् पि॒तरौ॑ । दे॒वता॑ । प्र॒जा- प॑तिस्त्वा॒ साद॑यतु॒ तया॑ दे॒वत॑या^{(१, ४)} ॥ १ ॥ अ॒पू॒पवा॑न॒सौ, दश॑* ॥ अनु० ८ ॥
अथ दक्षिणादिमध्यान्तचतुर्दिक्षु चरूपधानविषयान् मन्त्रा- नाह। (१, ४) "अपूपवान् शृतवान् क्षीरवान् ० सादयतु तया देवतया" (१, ५) इति। अत्र शृतवानित्यादिपदचतुष्टयेन मन्त्रभेदो द्रष्टव्यः। शृतभागा इत्यादीन्यपि चत्वारि पदानि, शताक्षरे- त्यादीन्यपि चत्वारि पदानि, चतुर्ष्वपि मन्त्रेषु विभज्य योजनीयानि। 'शृतं' सम्यक् पक्वं पयः, 'क्षीरं' पयोमात्रं। अन्यत् पूर्ववत्॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके अष्टमोऽनुवाकः॥ ८॥
* अपूपवान् दश इति J चिह्नितपुस्तकपाठः।
4 Q