तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
प्रथमोऽनुवाकः ॥ १ ॥
तैत्तिरीयब्राह्मणम् (१.१.१) ५ कल्पः-“अप्रो॑क्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तौ षण्डामर्को सहामुनेति निरस्तः षण्ड इति वाऽ ध्वर्युर्द्वेष्यं मनसाः ध्यायन्निरस्तो मर्क इति प्रति प्रस्थाता ” इति । अत्र द्विवचनान्तो मन्त्रः शाखान्तरगतः । योऽयं षण्डाख्योऽसुरपुरोहितः सोऽयं यज्ञभूमेर्वेदेर्बहिर्निष्कासितः । यश्च मर्काख्योऽसुरपुरोहितः सोऽपि बहिर्निष्कासित इत्याभ्यां मन्त्राभ्यामुभाव- प्रोक्षितौ काष्ठशकलौ बहिर्निरस्यतः । अप॑नुत्तौ षण्डा॒मर्का॑व॒सहा॒मुना॑ । कल्पः-“तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्याम- धस्तात्पांसुनपध्वंसयत । अपनूत्तौ षण्डामर्को सहामुना” इति । अयं च मन्त्रोऽर्थक्रमानुसारेण शकलनिरसनमन्त्रात्प्रागेव द्रष्टव्यः । पात्रयोरधस्तनपांसुरूपेणावस्थितौ षण्डामर्कावसुरावमुनाऽस्मद्द्वेष्येण सहापनुत्तौ निराकृतौ । शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थि॒नः स॒मिद॑सि । कल्पः-“प्रो॑क्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युर्मन्थिनः समिदसीति प्रतिप्रस्थातेत्यप्रोक्षितौ शकलौ बहिर्निरस्य प्रोक्षितौ शकलावन्यावाधत्तः” (इति) । हे शकल त्वं शुक्रग्रहस्य समिन्धनहेतुरसि। तथा हे शकल त्वं मन्थिग्रहस्य समिन्धनहेतुरसि । स प्र॑थ॒मः सं॒कृति॒र्विश्वकर्म॑ा । स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चकि॒त्वान् । तस्मा॒ इन्द्रा॑य सु॒तमाजु॑होमि (५) न॒य॒न्त्व॒पान ँसंध॑त्तं॒ तं मे॑ जिन्वतं॒ प्रा॒णं य॒ज्ञाय॑ धतं॒ मानु॑षीर॒ग्निर्दू॒- र्च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथम प्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ कल्पः-“शुक्रामन्थिनोः प्रतिनिगद्य होमः-स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोमि” इति । इतरग्रहेषु होतृप्रयुक्तवषट्कारेणैव होमः । न त्वध्वर्योर्मन्त्रपाठोऽस्ति । इह त्वेनं मन्त्रं प्रतिनिगद्य होमः कर्तव्यः । स इन्द्रः प्रथमो देवानां मध्ये मुख्यः। संकृतिः
६ (१.१.२) तैत्तिरीयब्राह्मणम् समीचींना कृतिर्जगद्रक्षणरूपव्यापारो यस्यासौ संकृतिः। विश्वानि कर्माणि जगद्रक्षणहेतुभूतान्यसुरयुद्धादीनि यस्यासौ विश्वकर्मा । स एव मुख्य इन्द्रो मूर्तिविशेषान्धृत्वा मित्रादिरूपः संपन्नः । स एवेन्द्रश्चिकित्सान्सर्वज्ञानकुशलो बृहस्पतिरपि संपन्नः । तस्मै तादृशायेन्द्राय सुतमपिषुतमिमं सोममा सर्वतो जुहोमि । अत्र विनियोगसंग्रहः- अध्वर्युश्च प्रतिप्रस्थाता चाऽऽदाय ग्रहावुभौ । ब्रह्म शुक्रामन्थिपात्रं संधत्ते वेदिपश्चिमे ।। स्तुतौ ग्रहावाददीत सुवीर्यातो दिशोर्द्वयोः । संजग्म वेदेः पुरतः संधत्तः पूर्ववद् ग्रहौ ।। आयुर्मन्त्रयतेऽध्वर्युर्निरस्तः शकलौ त्यजेत् । अथ पांसुमपध्वस्य शुक्रामन्थिद्वयादुभौ ।। प्रोक्षितौ शकलौ क्षिप्त्वा स प्रेति ग्रहयोर्हुतिः । स्तुतः स्तुतो निरस्तेति द्वयं द्वयमुदीरितम् । आद्यानुवाके कथिता मन्त्रा एत त्रयोदश । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ।। १ ।। अथ द्वितीयोऽनुवाकः । प्रथमानुवाके सोमयागशेषभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः । अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते-- कृत्तिकास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्रम् । यत्कृत्ति॑काः स्वाया॑मे॒वैनं॑ दे॒वता॑या॒माधा॑य॒ ब्र॒ह्म॑व॒र्च॒सी॒ भ॑वति, इति । अग्निचयनकाण्डेऽम्बादुला नितल्लिरित्याद्याः कृत्तिकास्ता यस्मिन्दिने चन्द्रेण संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं प्राप्तास्वग्न्याधानं कुर्यात् । यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंबन्धि नक्षत्रम् । अत एवान्यत्राऽऽ म्नातम्-“कृत्तिका नक्षत्रमग्निर्देवता” इति ।
तैत्तिरीयब्राह्मणम् (१.१.२) ७ अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति स्वरूपभूतायामेव देवतायामाधानं कृतं भवति । अग्नेर्ब्राह्मणाभिमानित्वात्तत्प्रसादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो भवति । प्रकारान्तरेण प्रशंसति- मुखं॒ वा ए॒तन्नक्ष॑त्राणाम् । यत्कृत्ति॑काः यः कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मु॒ख्य॑ ए॒व भ॑वति, इति । कृत्तिका इति यत्तदेतन्नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता ” इत्येकत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात् ” इत्यन्यत्र । “अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रियम्” इत्यन्यत्र । तदेतत्सर्वं मन्त्रानुवाकेष्टिप्रविधायकेऽप्यनुवाक एतदीयैवेष्टिरादावाम्नाता “अग्निर्वा अकामयत । अन्नादो देवाना ँस्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्” इति । अतो सुखभूतासु कृत्तिकास्वाधानः पुमान्सर्वेषु स्वयं मुख्यो भवति । अस्मिन्यक्षे गुणमुक्त्वा दोषमपि कंचिद्दर्शयति- अथो॒ खलु॑ (१) अ॒ग्निनक्ष॑त्रमित्यप॑चा यन्ति । गृ॒हान्ह॑ दा॒हुको भवति, इति । पूर्वोक्तगुणवैलक्षण्यद्योतनायाथोशब्दः । अभिज्ञाः खल्वग्निदेवता- कमिदं नक्षत्रमित्येवं निन्दन्ति तस्मिन्नक्षत्र आधानस्य यजमानस्य गृहान्सोऽग्निर्दाहुको दहनशीलो भवति । अथ निर्दोषं नक्षत्रं विधत्ते- प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा रोहि॑ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒न्रोहा॑न्रोहति, इति । रुह्यन्ते प्राप्यन्त इति रोहाः कामास्ते च यस्यां रुह्यन्ते सा रोहिणी । ऋध्नोत्येव समृद्धो भवत्येव । समृद्धिरेव सर्वानित्यनेन विशदीकृता । नक्षत्रान्तरं विधत्ते-
८ (१.१.२) तैत्तिरीयब्राह्मणम् दे॒वा वै भ॒द्राः सन्तोऽग्निमाधि॑त्सन्त (२) तेषा॒मना॑हितोऽग्निरासी॑त् । अथै॑क्यो वा॒मं वस्व॑पा॑क्रामत् । ते पुन॑र्व॒स्वोराद॑धत । ततो॒ वै तान्वा॒मं वसू॒पाव॑र्तत । यः पु॒रा भ॒द्रः सन्पापी॑यान्स्यात् । स पुन॑र्व॒स्वोर॒ग्निमाद॑धीत । पुन॒रिवै॒नं वा॒मं वसू॒पाव॑र्तते । भ॒द्रो भ॑वति, इति । भद्रा धनसंपन्ना आधित्सन्ताऽऽधातुमैच्छन् । तेषां धनगर्वेण श्रद्धाराहित्यादग्निः सम्यगाहितो नाऽऽसीत् । अनन्तरं तेन विकलानुष्ठानेन तदीयं वामं वननीयं मणिमुक्तादिकं धनं तेभ्योऽपगतम् । ततस्ते देवाः श्रद्धालवां भूत्वा पुनर्वसू नक्षत्रवयवौ तारकाविशेषौ यस्मिन्दिने चन्द्रेण युक्तौ तस्मिन्दिनेऽग्निं सम्यगाधाय तद्धनं पुनर्लब्धवन्तः । ततोऽप्यन्योऽपि पूर्वं धनिकः सन्केनापि निमित्तेन पश्चात्पापीयान्स्यादत्यन्तनिर्धनो भवेत् । स पुनर्वस्वोरग्निमाधाय पूर्ववद्धनं प्राप्य सर्वेषां मध्ये भद्रः पूज्यो भवति । पुनरपि वसु लभ्यते ययोस्तौ पुनर्वसू । अथ नक्षत्रान्तरं विधत्ते- यः कामये॑त दान॑कामा मे प्र॒जाः स्यु॒रिति॑ । स पूर्व॑योः फल्गु॑न्योर॒ग्निमाद॑धीत (३) । अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्रम् । यत्पूर्वे॑ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति । दान॑कामा अ॒स्मै प्र॒जा भ॑वन्ति, इति । सर्वाः प्रजा मे मह्यं धनं दातुमिच्छन्त्विति यो यजमानः कामयेत सोऽयं पूर्वयोः फल्गुन्योराधाय प्रजाभिर्दत्तं धनं लभते । एतच्च नक्षत्रमर्यमदेवताकम् । “फल्गुनी नक्षत्रमर्यमा देवता” इत्यन्यत्राऽऽम्नानात् । अरीन्यमयति धनदानेन वशी करोतीत्यर्यमा धनस्य दाता । नक्षत्रान्तरं विधत्ते- यः कामये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयोः फल्गु॑न्योर॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्रम् । यदुत्त॑रे फल्गु॑नी । भ॒ग्यै॑व भ॑वति, इति ।
तैत्तिरीयब्राह्मणम् (१.१.२) ९ भगी, ऐश्वर्यादिगुणषट्ककामः । तथा च स्मर्यते- ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। इति । सत्काम उत्तरयोः फल्गुन्योराधाय तत्फलं प्राप्नोति । उत्तरयोः फल्गुन्योर्भगदेवताकत्वमन्यत्राऽऽम्नातम् । "फल्गुनी नक्षत्रं भगो देवता" इति । अथ नक्षत्रान्तरं विधत्ते- का॒ल॒क॒ञ्जा वै नामासु॑रा आसन् (४) । ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत । पुरु॑ष॒ इष्ट॑कामुपा॑दधात्पु॒रुष॒ इष्ट॑काम् । स इन्द्रो॑ ब्रा॒ह्म॒णो ब्रुवा॒ण इष्ट॑कामुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गँल्लो॒कमाप्रारो॑हन् । स इन्द्र॒ इष्ट॑का॒मावृ॑हत् । तेऽवा॑कीर्यन्त । येऽवाकी॑र्यन्त । त ऊर्णाव॑भयोऽभवन् । द्वावुद॑पतताम् (५) । तौ दि॒व्यौ श्वानाव॑भवताम् । यो भ्रातृ॑व्या॒न्त्सयात् । स चि॒त्राया॑म॒ग्निमाद॑धीत अव॑की॒र्यैव भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते, इति । कालकञ्जशब्दोऽसुरविशेषनामधेयम् । ते चासुरा इति स्वर्गार्थमग्निं चेतुं प्रारभन्त तदानीमेकैकोऽसुर एकैकामिष्टकामुपादधत् । तानसुराञ्जेतुकाम इन्द्रो वेषान्तरं कृत्वा ब्राह्मणोऽहमिति ब्रुवाणस्तन्मध्ये प्रविश्य कांचिदिष्टकामुपाधत्त । तदानीं मनस्येषा मे मदीयेष्टका चित्रेति नामधेयेन युक्ताऽपेक्षितविचित्रफलमदातृत्वादित्यमन्यत । तेन चाग्निचयनेनासुराः स्वर्गमारोढुं प्रारभन्त । तदानीं स इन्द्रः स्वकीयां तामिष्टां चितेरुद्धृतवान् । चितिभ्रंशेन मार्गमध्य एवासुराः प्रभ्रष्टाः । ते चोर्णनाभिनामका लूताः कीटा अभवन् । तेन कीटेन संसृष्टं तन्तुजालमूर्णशब्देनोच्यते । ऊर्णो तस्मिन्नूर्णे सूत्रजाले स्थिता अभयो भीतिरहिता आसते । ते ह्याधारयोः काष्ठयोर्मध्य आकाशे तन्तुजालं सृष्ट्वा तत्र निर्भयास्तिष्ठन्तीत्येतत्सर्वं लोकप्रसिद्धम् । ऊर्णावभय इति पदद्वयं
१० (१.१.२) तैत्तिरीयब्राह्मणम् मिलित्वैकं नामधेयम् । अपानपादिति पदद्वयं यथैकस्याग्नेर्नाम तद्वत् । तेषामसुराणां मध्ये द्वावसुरौ श्रद्धातिशयात्स्वर्गं प्राप्य चितिभ्रंशात्तत्र देवलोके श्वानावभूताम् । यस्मादत्रेन्द्रश्चित्रेणैकापातेन तानसुराम्बिनाशितवांस्तस्माद्यजमानश्चित्रानक्षत्रेऽग्निमाधाय भ्रातृव्या- न्विनाश्य स्वस्मिन्नोज आदिकं स्थापयति । ओजो बलहेतुरष्टमो धातुः । बलं प्रसिद्धम् । इन्द्रियं चक्षुरादिकम् । वीर्यं तदीयव्यवहारपाटवम् । इत्थं नक्षत्राणि विधायाधिकारिविशेषादृतून्विधत्ते- व॒सन्ता ब्रा॑ह्म॒णोऽग्निमाद॑धीत । व॒सन्तो वै ब्रा॑ह्म॒णस्य॒र्तु॒ः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तदृ॑तू॒नाम् (६) । यद्व॑स॒न्तः । यो व॒सन्ता॒ऽग्निमाद॑ध॒त्ते । मु॒ख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैनं॑ प्र॒जात॒माध॑त्ते । ग्री॒ष्मे रा॑ज॒न्य॑ आ॒दधीत । ग्री॒ष्मो वै रा॑ज॒न्यस्य॒र्तु॒ः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॑ आ॒द॑धीत । श॒रद्वै वैश्य॑स्य॒र्तु॒ः (७)। स्व ए॒वैन॑मृ॒तावा॒धाय॑ । प॒शु॒मान्भ॑वति, इति । वसन्तो वसन्तर्तुस्तस्य च ब्राह्मणस्य च प्राथम्य- साम्यात्स्वस्वामिभावात्स्वकीयऋतावाधानस्य ब्राह्मणस्य स्वोचितं ब्रह्मवर्चसमेव फलम् । किंच 'मधुश्च माधवश्च वासन्तिकावृतू ' इत्याम्नानान्मुखत्वं प्राथम्यं वसन्तस्याप्यवगन्तव्यम् । अपि च यथा स्त्रीणामृतुविशेषे प्रवृत्तः पुरुषः प्रजननसमर्थो भवति तथर्तुविशेषे योनिमन्तं प्रजननसामर्थ्यवन्तं प्रादुर्भूतं प्रजातं चाग्निमाधत्ते । एवं ग्रीष्मशरद्वाक्योरपि व्याख्येयम् । पूर्वं काम्य आधाने पूर्वोत्तरफल्गुनीनक्षत्रद्वयं विहितम् । इदानीं तु नित्य आधाने नक्षत्रमेकं निषिध्येतरद्विधत्ते - न पूर्वे॑यो॒ः फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या रात्रि॑ः । सं॒व॒त्स॒रस्य॑ । यत्पूर्वे॑ फल्गु॑नी । पृ॒ष्ठित ए॒व 'सं॒व॒त्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति । उत्त॑र॒योरादधीत । ए॒षा वै प्रथ॑मा रात्रि॑ः संवत्स॒रस्य॑ ।
द्वितीयोऽनुवाकः ॥ २ ॥
तैत्तिरीयब्राह्मणम् (१.१.२) ११ यदु॒त्तरे॑ फल्गु॒नी । मुख॒त ए॒वं सं॑वत्स॒रस्या॒ग्निमा॒धाय॑ । वसी॑यान्भवति, इति । फाल्गुनमासे येयं पूर्णिमा तत्र प्राप्तं यत्पूर्वफल्गुनीनक्षत्रं तद्युक्ता रात्रिः पूर्वसंवत्सरस्य समाप्तिस्थानीया । अतस्तत्राऽऽ दधानः संवत्सरस्य पृष्टितः पृष्ठभागेऽनुष्ठानाद्दरिद्रो भवति । उत्तरफल्गुनीनक्षत्रे भाविसंवत्सरादित्वात्तन्नाऽऽदधानः संवत्सरप्रारम्भ एवाऽऽधायात्यन्त- धनिको भवति । पक्षान्तरं विधत्ते- अथो॒ खलु॑ । यदे॒वैनं॑ य॒ज्ञ 'उपनमे॑त् । अथाऽऽद॑धीत । सैवा॒स्यर्धि॑ : (९), इति । खल्वधित्सन्त फल्गु॒न्योर॑ग्निमाद॑धीतासन्नपततामृतूनां वैश्य- स्यु॒र्तुरुत्त॑रे फल्गु॒नी षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अन्येऽभिज्ञा एवमाहुः खलु यस्मिन्नेव काल एनं पुरुषं सोमयज्ञः प्राप्नुयात्सोमयागं करिष्याम्यहमिति बुद्धिरुदियात्तदानीमेवाऽऽदधीत । न तु नक्षत्रादिकं परीक्षितव्यम् । सैव सोमयागबुद्धिरेवास्य पुरुषस्य नक्षत्रादिकृत्स्नविहितकालसमृद्धिः । अत एव सूत्रकारेणोक्तम्-“सोमेन यक्ष्यमाणो नर्तुं सूर्क्षेन नक्षत्रम्” इति । अत्र मीमांसा । तृतीयाध्यायस्य षष्ठपादं चिन्तितम्- आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम् । संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम् ॥ लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः । पर्णस्याऽऽहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता ॥ अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रना(णा)ड्या प्रकृतौ निविष्टं तथैवाग्निप्रना (णा)ड्या तत्संस्काररूपमाधानं प्रकृतौ निविशत इति चेत् । मैवम् । वैषम्यात् । द्विविधो हि जुह्वा आकारः । लौकिकः शास्त्रीयश्च । अरत्निमात्रदैर्ध्यहंसमुखत्वावाग्विलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः । तयोरपूर्वीयत्वं
१२ (१.१.२) तैत्तिरीयब्राह्मणम् क्रतुप्रवेशमन्तरेण नास्ति । तच्च यदि लौकिकाकारमात्रं पर्यवस्येत्तदा पर्णमयीत्वं विफलं भवेत् । काष्ठान्तरेणापि तदाकारस्य सुसंपादकत्वात् । अतोऽपूर्वीयत्वाय पर्णता क्रतौ प्रविष्टा । आहवनीयादीनां त्वेक एव शास्त्रीयाकारः । स च विधिबलादाधानेनैव जन्यते नान्यथा । तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकार- संपादनसमर्थत्वादग्निमात्रेण तत्संयुज्यते । तथा सति पर्णवैषम्यात्क्रतावप्रविश्याग्नीनुत्पाद्य क्रतुर्वत्स्वा- तन्त्र्येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदा- धानसंपादितानां स्वतन्त्राणामेवाऽऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु । तत्रैवान्यच्चिन्तितम्- आधानं पवमानादरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद् द्वाराऽस्य तदङ्गता ॥ अनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तसमेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ इदमाम्नायते-“अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ” इति । “वसन्त ब्राह्मणोऽग्निमादधीत ” इति च । तत्राऽऽधानं पवमानादीनामिष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीना- मिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽऽधानस्यापि तदङ्गताया अनिवार्यत्वादिति चेत् । मैवम् । न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितं किंत्वनारभ्याधीतम् । अतो न कस्याप्यङ्गम् । किंवाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गि- भावशङ्का । ननु पवमानेष्ट्यङ्गत्वभावाऽग्निसंस्कार वैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तमिति चेत् । न संस्कृतानामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् । तस्मान्नाऽऽधानमङ्गम् । द्वितीयाध्यायस्य तृतीयपादे चिन्तितम्- वसन्ते विप्र आदध्यात्तत्रैवोपनयीत् तम् । अनुवादः प्रापणं वाऽनुवादः कालसिद्धये ॥ अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् । क्लृप्ते आधानोपनेती प्राप्ता विप्रादयस्ततः ।
ब्राह्मणाद्युपनयनं कल्पयतीति तत्प्राप्तिरिति चेत् । मैवम् । लौकिकाग्नौ
तैत्तिरीयब्राह्मणम् (१.१.३) १३ लौकिकाग्नेः पुस्तकाच्च तत्सिद्धेर्नास्ति कल्पनम् । कालविप्रादिसंयुक्तोऽप्राप्तं विधीयते ॥ “वसन्ते ब्राह्मणोऽग्निमादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः” इति श्रूयते । “वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्” इति च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते । न च तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या क्लृप्तत्वात् । न ह्याहुत्याधारभूतमग्निमनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति । विद्या चोपनयनपूर्वकाध्ययनमन्तरेण न संभवतीति ब्राह्मणाद्युपनयनं कल्पयतीति तत्प्राप्तिरिति चेत् । मैवम् । लौकिकाग्नौ होतुं पुस्तकपाठनाधिगन्तुं च शक्यत्वेनाऽऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्माद्वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते । षष्ठाध्यायस्य प्रथमपादे चिन्तितम्-पुंसोरेकस्य वाऽऽधानं वसानावित्यतो द्वयोः । एष क्षौमविधिर्द्वित्वं दंपत्योरेकता ततः ॥ आंधाने श्रूयते-“क्षौमे वसानावग्निमादधीयाताम् ” इति । तत्र वसानाविति पुंलिङ्गद्विवचनादुभयोः पुंसोराधानेऽधिकार इति चेत् । मैवम् । क्षौमस्याप्राप्तस्य विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न तद्विधीयतं । किंतु दंपत्योः सहाधिकारेण प्राप्तं द्वित्वमनूद्यते । पतिश्च पत्नी चेति विगृह्य पतिशब्दस्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम् । तस्मादाधानेऽधिकारिणः पुंस एकत्वमेव । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः द्वितीयानुवाके आधानार्थं नक्षत्रादिकालोऽभिहितः । तृतीये देवयजनार्थाः संभारा उच्यन्ते । ‘यदुक्तं सूत्रकारेण-‘प्राचीनप्रवणं देवयजनमुद्धृत्य’ इति । तदिदं विधत्ते-
१४ (१.१.३) तैत्तिरीयब्राह्मणम् उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति, इति । भूमेरूर्ध्वभागं खनित्रादिना खनेत् । तेन निष्ठीवनादिनिमित्तं यदमेध्यं तदपहतं भवति । उद्धननमन्त्रस्तु-‘उद्धन्यमान-“ इत्यादि । स चोपरि तनप्रपाठकादावाम्नातत्वात्तत्रैव व्याख्यास्यते । एवमुत्तरेष्वपि विधिषु द्रष्टव्यम् । अथ विधत्ते- अ॒पो वोक्ष॑ति॒ शान्त्यै॑, इति । उद्धननकृता भूमेर्वेदना जलेन शाम्यति । ‘आपो वै शान्ताः’ इत्यन्यत्रोपशमहेतुत्वश्रवणात् । विधत्ते - सिर्कता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वै॑श्वान॒रमव॑रुन्द्धे, इति । सिकतानां तद्रूपत्वं ‘वैश्वानरस्य रूपम्’ इति मन्त्रादवगन्तव्यम् । सिकतादयो द्रव्यविशेषा देवयजनभूमौ प्रक्षेपणीयाः संभाराः । अत एव सूत्रकारेणोक्तम्-‘सप्त पार्थिवान्संभारानाहरत्येवं वानस्पत्यान्' इति । तत्र पार्थिवेषु सिकतारूप एकः संभार उक्तः । ऊषा॒न्निर्व॑पति । पुष्टि॒र्वा ए॒षा प्र॒जनन॒म् । यदूषा॑: (१) । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथा॒ संज्ञान॑ ए॒व । सं॒ज्ञान॒ ँ ह्येतत्प॑शू॒नाम् । यदूषा॑:, इति । पशवो ह्युषरक्षेत्रोत्पन्नं तृणादिकं रसान्तरयुक्तत्वादादरेण भक्षयित्वा पुष्टाः सन्तोऽपत्यान्युत्पादयन्ति । तस्मादूषा लवणाम्भसा मिश्रिता भूम्यवयवा इति यावत् । सैषा पुष्टिः प्रजननं च तस्मादूषनिर्वापेन तदुभयप्राप्तिः । अपि च संज्ञाने प्रदेश एवाग्निराहितो भवति । एतच्चोषरक्षेत्रं पशूनां संज्ञानम् । पशवो ह्याघ्राणेन तत्संस्थानं जानन्ति । तस्मादूषा आधानस्य स्थाने निवपनीयाः । एतन्निर्वपणकाले ध्यानविशेषं विधत्ते
तैत्तिरीयब्राह्मणम् (१.१.३) १५ द्यावा॑पृथि॒वी स॒हाऽऽ॑स्ताम् । ते वि॑यती॒ अब्रूताम् । अस्त्वे॒व 'नौ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासी॑त् । तद॒स्या॑मदधात् । त ऊ॒षा अ॑भवन् (२) । यद॒स्या य॒ज्ञिय॒मासी॑त् तद॒मुष्या॑मदधात् । तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊ॒षान्निव॑पन्न॒दो ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते, इति । सृष्टिकाले द्यावापृथिव्यौ मध्यगतान्तरिक्षव्यवधानरहिते अभूतां तदा प्राणिनामवकाशार्थमीश्वरानुज्ञया परस्परवियोगं गते वियोगकाले च स्नेहातिशयात्परस्परमेवमब्रूतामावयोर्यज्ञयोग्यं यत्सारमस्ति तत्सहैव तिष्ठतु । भूसारस्य दिवो वियोगो मा भूद् द्युसारस्य च भूमेर्वियोगो मा भूदिति । ततोऽमुष्या दिवः संबन्धि यद्यज्ञियं सारं तदस्यां पृथिव्यां सा द्यौरस्थापयत् । ते च द्युलोकसारांशा एते दृश्यमाना भूम्यवयवा ऊषरूपा अभवन् । तस्यां पृथिव्यां यद्यज्ञियं सारमासीत्तदमुष्यां दिवि भूमिरस्थापयत् । तच्च स्थापितं भूसारमदो दृश्यमानं चन्द्रमसि कलङ्करूपं कृष्णम् । तस्माद्भूसारत्वादूषाणां निवपनकाले तत्कृष्णरूपमत्र तिष्ठतीति ध्यायेत् । तथा सति द्युलोकसंबन्धिन्यूषे भूलोकसंबन्धिनि कृष्णे चाग्निराहितो भवति । अथ तृतीयं संभारं विधत्ते- अ॒ग्नि॒र्दे॒वेभ्यो॒ निला॑यत । आ॒खुरू॒पं कृ॒त्वा । स पृ॑थि॒वीं प्रावि॑शत् । ऊतीः कु॒र्वाणः॑ पृथि॒वीमनु॒सम॑चरत् । तदा॑शुकरी॒षम॑भवत् (३) । यदा॑खुकरी॒ष ँसंभा॒रो भव॑ति यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्द्धे, इति । अग्निः कदाचित्केनापि निमित्तेन देवेभ्योऽपरक्तः सन्मूषको भूत्वा तदीयं रूप च संपूर्णं कृत्वा निलीनो देवैरदृश्यो भूत्वा स च पृथिवीं प्रविष्टां बिलानि कुर्वाणोऽनुक्रमेण भूमेरन्तरेव समचरत् । यद्विलनिर्माणं निःसारितं पांसुरूपं तदेतदाखुकरीषं तस्मिन्संभृते सति तत्र निगूढं यदग्नेस्तेजस्तत्सर्वं प्राप्नोति । अथ चतुर्थं संभारं विधत्ते- ऊर्जं॒ वा ए॒त ँ रसं॑ पृथि॒व्या 'उ॒पर्दी॑का उ॒द्दिह॑न्ति ।
१६ (१.१.३) तैत्तिरीयब्राह्मणम् यद्वल्मी॒कम् । यद्व॑ल्मीकव॒पा सं॒भारो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्द्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ ँ ह्येतत्पृ॑थि॒व्याः । यद्वल्मीकः॑ (४), इति । उपदीकाः पिपीलिकासमाना आर्द्रीकृतमृत्तिकोपचयक्षमा जन्तवस्ते हि पृथिव्याः संबन्धिनभूर्शब्दाभिधेयं रसं पृथिव्याः सकाशादूर्ध्वमानीयोपचिन्वन्ति । तत्संभारेण भूसारं प्राप्नोति । अपि च श्रोत्रेन्द्रियसामर्थ्यमपि प्राप्नोति । वल्मीकस्य पृथिवीश्रोत्रत्वात् । एतद्वेदनं प्रशंसति- अब॑धिरो भवति । य ए॒वं वेद॑, इति । अथ पञ्चमं संभारं विधत्ते - प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तासा॒मन्न॑मुपा॑क्षीयत । ताभ्यः॑ सू॒दमु॑प॒प्राभि॑नत् । ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत । यस्य॑ सू॒दः सं॒भारो भव॑ति । नास्य॑ गृ॒हेऽन्नं॑ क्षीयते, इति । पुरा कदाचित्प्रजापतिः सृष्टानां प्रजानां यदन्नं तद्भुज्यमानमुपक्षीणमभूत् । ततः प्रजार्थं सूदमशोषजलप्रदेशावस्थितं कर्दममुपानीय प्राभिनत् । तेषु तेषु पृथिवीप्रदेशेषु पृथक्पृथक्प्रसारितवान् । ततस्तत्र तत्र तस्योत्पत्तौ सत्यां तासां प्रजानामन्नमक्षीणमभूत् । अतस्तत्संभारेण गृहेऽन्नमक्षयं भवति । अथ षष्ठं संभारं विधत्ते- आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत् (५) । क॒थमि॒द ँ स्यादि॑ति । 'सोऽप॑श्यत्पुष्करप॒र्णं तिष्ठ॑त् । 'सोऽम॑न्यत । अ॒स्ति वै तत् । यस्मि॑न्नि॒दमधि॑ति॒ष्ठतीति॑ । स·'वरा॒हो रू॒पं कृ॒त्वोप॑न्यमज्जत् स पृ॑थि॒वीमध॒ आर्च्छ॑त् । तस्या॑ उप॒हत्योद॑मज्जत् । तत्पु॑ष्करप॒र्णेऽप्र॑थयत् । यदप्र॑थयत् (६) तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भू॒म्यै भूमि॒त्वम् । तां दिशोऽनु॒ वातः॒ समर्॑वहत । ता ँ
शर्क॑राभिदृ ँ हत् । शं वै नो॑ऽभूदिति॑ । तच्छर्क॑राणा शर्क॑रत्वम् । यद्व॑रा॒हवि॑हत ँ सं॒भारो॑ भव॑ति । अ॒स्यामे॒वाच्छ॑म्बट्कारम॒ग्निमार्ध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै॑ (७) । अथो॒ शंत्वार्य॒, इति॑ ।
इदमिदानीं दृश्यमानं गिरिनदीसमुद्रादिकं स्थावरं मनुष्यगवादिकं जंगमं च सृष्टेः पूर्वमीदृशं नाऽऽसीत् । किंतु सलिलरूपमासीत् । 'षलगत्तौ' औणादिक इलच् । इदं दृश्यमानं जगत्सटिलं कारणेन संगतमविभागापन्नम् । यद्वा “इमे वै लोकाः सरिरम्” इति श्रुतेः सरिरशब्देन लोका उच्यन्ते । रलयोरभेदात्सलिलरूपमासीत्तत्राप्याप एव न तु भूमिरूपम् । तदानीं प्रजापतिस्तेन सिसृक्षित- जगन्निमित्तेनाश्राम्यत् । पर्यालोचनरूपं तपोऽकुरुत । कथं नामेदं सर्वं जगद्भवेदिति विचार्य तस्य सलिलस्य मध्ये दीर्घनालाग्रेऽवस्थितमेकं पद्मपत्रमपश्यत् । तच्च दृष्ट्वा मनस्येवमतर्कयत् यस्मिन्नाधार इदं सनालं पद्मपत्रमधिश्रित्य तिष्ठति किंचिदधस्तादस्त्येवेति तर्कयित्वा च स प्रजापतिर्वराहो भूत्वा तदीयं रूपं च सम्यक्कृत्वा तस्य पद्मपत्रनालस्य समीपे जलमध्ये निमग्नोऽभूत् । मग्नश्चासावधस्ताद् भूमिं प्राप्तवान् । तस्या भूमेः सकाशात्कियतीमप्यार्द्रां मृदं स्वदंष्ट्रया पृथकृत्य सलिलस्योपर्यन्मज्जनं कृतवान् । तच्च मृद्रूपं तस्मिन्पुष्करपर्णे प्रसारितवान् । यस्मादियं मृत्तिका प्रथिता तस्मात्पृथिवीनाम संपन्नम् । ततः संतुष्ट इदं स्थावरजंगमाधारभूतं वस्त्वभूदित्युवाच । ततो भवतीति व्युत्पत्या भूमिनाम संपन्नम् । तामाद्रीं भूमिमनुलक्ष्य शोषयितुं चतस्रो दिशोऽप्यनुप्रजापतिसंकल्पाद्वायुः स (सं) प्रवृत्तः। शुष्यन्तीं तां भूमिं स प्रजापतिः शर्कराभिः क्षुद्रपाषाणैर्दृढीचकार । कृत्वा च नोऽस्माकं शं सुखमभूदित्युवाच । तस्मात्कारणाच्छं सुखं कृतमाभिरीति व्युत्पत्या शर्करेति नाम संपन्नम् । यस्माद्वराहेणाऽऽनीताया मृद ईदृशो महिमा तस्माद्वराहेण भूमौ विहतं खनितमस्यां मृत्स्वरूपं संभरणीयम् । तथा सत्यस्यां भूम्यामेव वैयर्थ्यं, यथा न भवति तथाऽग्निमाधत्ते । यस्माच्छर्कराभिर्भूमिर्दृढीकृता तस्मादत्रापि धृत्यै दाढर्याय शर्कराः प्रक्षेप्सव्याः । अथो अपि च शंत्याय सुखसिद्धये शर्कराः कार्याः ।
अथ सप्तमं संभारं विधत्ते- सरैता अ॒ग्निराधेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्नय आसन् । ता अ॒ग्निर॒भ्य॑ध्यायत् । ताः सम॑भवन् । तस्य
१८ (१.१.३) तैत्तिरीयब्राह्मणम् रेतः॒ परा॑ऽपतत् । तद्धि॑र॑ण्यमभवत् । यद्धि॑र॑ण्यमु॒पास्य॑ति । सरै॑तसमे॒वाग्निमाध॑त्ते, इति । या अब्देवता वरुणस्य भार्यास्ताः कामुकोऽग्निर्ध्यात्वा , संभोगं कृतवान् । तदानीं व्यग्रस्य तस्य रेतो भूमौ हिरण्यमभूत् । अतोऽत्र हिरण्ये प्रक्षिप्ते सति सरेतस्कोऽग्निराहितो भवति । एतस्य हिरण्य प्रक्षेपस्थानं विधत्ते- पुरु॑ष॒ इन्वै रु॒वाव्रेत॑सो बीभत्स॒त इत्या॑हुः (८) । उत्त॑र॒त उपा॑ स्ये॒द्विभित्सायै, इति । इन्वा इति निपातत्रयं मिलित्वा प्रसिद्धिमाचष्टे । लोके सर्वोऽपि पुरुषः स्वकीयं रेतो हस्तेन स्प्रष्टुं जुगुप्सते । तदेतत्प्रसिद्धमित्यभिज्ञा आहुः । तस्मादत्राग्निस्थापनप्रदेशं विहायोत्तरस्मिन्पार्श्वे हिरण्यं प्रक्षिपेत् । तच्चाविभित्सायै संपद्यते । यदुक्तं सूत्रकारेण- "द्वेष्याय रजतं प्रयच्छति' इति । तदिदं विधत्ते- अति॑ प्रय॑च्छति । आर्ति॑ मे॒वाति॒प्रय॑च्छति, इति । देवयजने प्रक्षिप्तं सुवर्णमतिक्रम्यान्यद्रजतं प्रयच्छेत् । तथा सति स्वात्मानमतिक्रम्यान्यस्मै द्वेष्याय स्वकीयामार्तिं दत्तवान्भवति । तदेवं पार्थिवाः संभारा विहिताः । तथा वानस्पत्येषु सप्तसु संभारेषु प्रथमं संभारं विधत्ते- अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । 'सोऽश्व॒त्थे 'संवत्स॒रमति॑ष्ठत् । तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् । यदा॑श्व॒त्थः संभा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्यक्त॑म् । तदे॒वाव॑रुन्द्धे (९), इति । कदाचिदग्निर्देवेभ्योऽपक्रम्याश्वो भूत्वा तदीयं रूपं स्वस्य कृत्वाऽश्वत्थवृक्षे निरूढः संवत्सरमात्रमतिष्ठत् । अश्वस्तिष्ठत्यस्मिन्निति व्युत्पत्त्या तस्य वृक्षस्याश्वत्थनाम संपन्नम् । तस्मादश्वत्थसंभारेण तत्र निरूढमग्नेस्तेजः प्राप्नोति । द्वितीयं संभारं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.१.३) १९ दे॒वा वा ऊर्जा॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदुम्बरः॒ संभारो॒ भव॑ति । ऊर्ज॑मे॒वाव॑रुन्द्धे, इति । देवाः सर्वे कदाचिदेकत्रोपविश्यान्नरसं विभक्तवन्तस्तदा तस्मिन्स्थाने पतितादन्नरसादुदुम्बरवृक्ष उदतिष्ठत् । तस्मादन्नरसस्यैवोदुम्बरत्वात्तत्संभारेणान्नरसं प्राप्नोत्येव । अथ तृतीयं संभारं विधत्ते- तृ॒ती॒यस्या॑मि॒तो दि॒वि सोम॑ आसीत् । तं गाय॒त्र्यह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णोऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । (१०) । यस्य॑ प॒र्णम॒यः सं॒भारो भव॑ति । सो॒म॒पी॒थ॒मे॒वा॒व॑रुन्द्धे॒ इति । इतो भूलोकादारभ्य गणनायामन्तरिक्षमतिक्रम्य परतो वर्तमाना या द्यौस्तृतीया तस्यां सोमवल्ली स्थिता । तं च सोमं गायत्री देवता तत्रत्यैः सोमरक्षकैः सह युद्धं कृत्वा समाहरत् । अयं च वृत्तान्तः “कद्रूश्च वै सुपर्णी च” इत्यनुवाके प्रपञ्चितः। सहसा समानीयमानस्य तस्य सोमस्यैकं पर्णं छिन्नं सद्भूमौ पतित्वा पलाशवृक्षोऽभवत् । पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम् । सोमजन्यस्य तस्य संभरणेन सोमपानमेव प्राप्नोति । पुनरपि तमेव संभारं प्रशंसति- दे॒वा वै ब्रह्म॑न्वदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मयः॒ संभारो॒ भव॑ति । ब्र॒ह्म॒व॒र्च॒स॒मे॒वाव॑रुन्द्धे, इति । देवाः कदाचिदेकान्ते पलाशवृक्षच्छायायामुपविश्य परस्मिन्ब्रह्मणि संवादं कृतवन्तः । तत्सर्वं समीपे स्थितः पलाशवृक्षोऽऽशृणोत् । शोभनं वस्तु श्रुतवानिति व्युत्पत्त्या सुश्रवा इति नाम संपन्नम् । तस्मात्परं ब्रह्म श्रुतवतो वृक्षस्य संभरणेन ब्रह्मवर्चसमेव प्राप्नोति । अथ चतुर्थं संभारं विधत्ते-
तृतीयोऽनुवाकः ॥ ३ ॥
२० (१.१.३) तैत्तिरीयब्राह्मणम् प्र॒जाप॑तिर॒ग्निम॑सृजत । सोऽबिभे॒न्मा मा॑ धक्ष्यतीति॑ । त ँ श॒म्या॑ऽशमयत् (११) । तच्छ॒म्यै॑ शमित्त्वम् । तच्छमीम॒यः॑ सं॒भारो भ॒वति । शान्त्या॒ अप्र॑दाहाय, इति । प्रजापतिरग्निं सृष्ट्वा मामयमग्निः परातीति भीतः शमीशाखया ज्वालामशमयत् । शमयत्यनेनेति व्युत्पत्या शमीति नाम संपन्नम् । अतस्तत्संभारः पूर्वं विद्यमानस्य दाहस्योपशान्त्यै, इतः परमदाहाय च संपद्यते । अथ पञ्चमं संभारं विधत्ते- अ॒ग्नेः सृ॒ष्टस्य॒ यतः॑ । वि॒क॑ङ्क॒तं॒ भा आ॑र्च्छत् । यद्वै क॑ङ्क॒तः सं॒भारो भव॑ति । भा ए॒वाव॑रुन्द्धे, इति । प्रजापतिना सृष्टोऽग्निस्त्वरया गच्छन्विकङ्कतवृक्षमपश्यत् । तदा तदीयं तेजो वृक्षं प्राप्नोत् । अतस्तत्संभारं सति भा एव दीप्तिमेवावरुन्धे । अथ षष्ठं संभारं विधत्ते- सह॑दयो॒ऽग्निराधे॑य॒ इत्या॑हुः । म॒रुतो॒ऽद्भि॑र॒ग्निम॑तमयन् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् । साऽश॑निरभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ सं॒भारो॒ भव॑ति । सह॑दयमे॒वाग्निमाध॑त्ते (१२), इति । उ॒र्शा अ॑भवन्नभवद्वल्मीके॑श्राम्यदप्र॑थयद्वैतसै बीभत्स॒त इत्या॑हू रुन्द्धे पर्ण॒त्वम॑शमयदच्छिन्द ँ॒स्त्रीणि॑ च ॥ ३ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ मरुतः कदाचिदग्निना सह विरोधे सति तमग्निमद्भिरतमयन्ग्लानिं प्रापयन् । ततो निष्क्लिन्नस्याग्नेर्हृदयमाच्छिन्दन् । तस्य हृदयमशनिरूपेणोद्भूत् । तस्मादशनिहतस्य वृक्षस्य संभारेण सहृदयोऽग्निराहितो भवति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमपाठके तृतीयोऽनुवाकः ॥ ३ ॥
तैत्तिरीयब्राह्मणम् (१.१.४) २१ अथ चतुर्थोऽनुवाकः । तृतीये देवयजनदेशे प्रक्षेप्सव्याः संभारा उक्ताः । अथ चतुर्थे तैः संभारैर्युक्तेष्वायतनेषु वह्न्याधानमभिधीयते । यदुक्तं सूत्रकारेण- “प्राचीनप्रवणं देवयजनमुद्धृत्य तस्मिन्नुदीचीनव ँश ँशरणं करोति तस्याग्रेण मध्यमं व ँ गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राजन्यस्य द्वादशसु वैश्यस्य चतुर्वि ँ शत्यामपरिमिते वा यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ” इति । तत्रैकं पक्षं विधत्ते- द्वाद॑शसु॒ विक्र॑मेष्व॒ग्निमाद॑धीत । द्वाद॑श॒ मासा॑: सं॑वत्स॒रः । सं॑वत्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति । विक्रमः प्रक्रमः । स च द्विपदः । तथा चोक्तम्- “प्रक्रमो द्विपदस्त्रिपदो वा” इति । गार्हपत्याद्द्वादशसु विक्रमेषु समाप्तेष्वाहवनीयायतनं कृत्वा तत्राऽग्निमादध्यात् । संख्यासाम्येन मासद्वारा संवत्सरबलादेनमग्निमवरुध्याऽऽधानं कृतवान् । पक्षान्तरं विधत्ते- यद्द्वाद॑शसु॒ विक्र॑मेष्वाद॒धीत॑ । परी॑मित॒मव॑रुन्धीत । चक्षु॑र्निमि॒त आद॑धीत । इ॒यद्द्वाद॑शविक्रा॒मा ३ इति॑ । परि॑मितं चै॒वाप॑रिमितं॒ चार्व॑रुन्द्धे, इति । द्वादशसु विक्रमेष्वाधाने सति देशस्य पादेन परिमितत्वात्फलमपि परिमितमेव भवति । तस्माद्देशो न पादेन परिमातव्यः । किंतु चक्षुषा दृष्ट्वा प्रायेणैतावान्देशो द्वादशविक्रामः संभवतीति निश्चित्य तत्राऽऽद- धीत । एवं सति पादेन परिमितत्वाभावात्परिमितदोषोऽपि न भविष्यति। चक्षुषा परिमितत्वात्तदीयगुणश्च भविष्यति । चाक्षुषनिश्चयद्योतनार्था प्लुतिः । इममेव पक्षं पुनः प्रशंसति- अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति (१) । चक्षु॒र्वे स॒त्यम् । अ॒द्रा॒गित्या॑ह । अदर्श॒मिति॑ । तत्स॒त्यम् । यश्चक्षु॑र्निमिते॒ऽग्निमाध॑त्ते । स॒त्य ए॒वैन॒माध॑त्ते, इति ।
२२ (१.१.४) तैत्तिरीयब्राह्मणम् वाङ्मनसयोरनृतविषयत्वमपि क्वचिद् दृष्टम् । चक्षुस्तु पुरोवर्तिवस्तुनो याथात्म्यमेव पश्यतीति तत्सत्यस्वरूपम् । अत एव लोकेऽपि दूरदेशवृत्तान्तं पुरुषमुखादाकर्ण्य किं त्वमेव दृष्टवानुत श्रुतवानसीत्येवं सत्यत्वनिश्चयाय पृच्छन्ति । विचारार्था प्लुतिः । सोऽप्यहमेव दृष्टवानस्मीति यदा ब्रूते तदा तत्सत्यमिति निश्चिन्वन्ति । तस्माच्चक्षुर्निमित्तस्य सत्यत्वात्सत्यदेशेऽग्निराहितो भवति । यत्तु लोके शुक्तिरजतादिदर्शनं तच्च काचकामलादिदोषकृतमिति न कदाचिदपि चक्षुः सत्यं व्यभिचरति । इदानीं प्रसङ्गादाहिताग्नेः कंचिद्धर्मं दर्शयति- तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽना॑श्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः, इति । यस्माच्चक्षुर्निमित्तत्वेनसत्यभूतेदेशेऽ यमग्निराहितस्तस्मादाहिताग्निः सत्यमेव वदेत् । न त्वनृतम् । सत्यानृतयोरेकत्र विरोधात् । गृहस्थस्य गृहे ब्राह्मणस्यानश्नतो यो निवासः सोऽप्यनृतसमानः । तस्मात्तं भोजयेदेव । देशविशेषं विधाय कालविशेषं विधत्ते- आ॒ग्ने॒यी वै रात्रिः॑ (२) आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गार्ह॑पत्य॒माद॑धाति । प॒शूने॒वाव॑रुन्द्धे । दिवा॑ऽऽह॑वनी॒यम् । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे इति । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । एतच्चाग्निहोत्रब्राह्मण एवोपपादितम्-“अग्निं वावाऽऽदित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे” इति । अग्नेः पशुप्रदत्वात्पशूनामाग्नेयत्वम् । एतच्चाग्न्युपस्थानब्राह्मणे देवैरभिहितम्“इममेवाग्नि ँ स्तवाम स नः स्तुतः पशून्पुनर्दास्यतीति । तेऽग्निमस्तुवन्स एभ्यः स्तुतो रात्रिया अध्यहरभिपशून्निराजत् ” इति । एवमिन्द्रस्याहः संबन्धो ब्राह्मणान्तराद् द्रष्टव्यः । तस्माद्रात्रौ गार्हपत्याधानेन पशून्प्राप्नोति । अहन्याहवनीयाधानेन्द्रियं प्राप्नोति । अहन्यपि विशेषं विधत्ते- अ॒र्धोदि॑ते॒ सूर्ये॑ आहवनी॒यमाद॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जा ए॒व तद्यज॑मानः सृजते । अथो॑ भू॒तं चैव भवि॑ष्यच्च॒र्वरु॑न्द्धे (३), इति ।
तैत्तिरीयब्राह्मणम् (१.१.४) २३ लोक्यतऽवगम्यत इति व्युत्पत्त्या लोकशब्दः कालपरः । अर्धोदयकाले प्रजानां सृष्टत्वात्तत्राऽऽधानं प्रजाथं भवति । अपि चोदयस्यासंपूर्णत्वाद्वृतमतीतं रात्रिरूपं च भविष्यदागाम्यहश्चेत्युभयं प्राप्तं भवति । अथाऽऽधातव्यानामग्नीनां क्रमं निर्णेतुमाहवनीयस्य प्राथम्यं निराचष्टे- इडा॒ वै मान॒वी य॒ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आह॑व॒नीय॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑न्वाहार्य॒पच॑नम् । साऽब्र॑वीत् प्रती॒च्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ (४) । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्रती॒च्य॑स्य॒ श्रीरे॑ति । भ॒द्रोभू॒त्वा परा॑भवति॒, इति॑ । इडा नाम गोरूपा काचिद्देवता । सा च मनुसंबन्धिनी । तत्संबन्धश्च मानवी घृतपदी मैत्रावरुणीतीडोपाव्हानस्य ब्राह्मणे स्पष्टमाम्नातः- “मानवीत्याह मनुह्येतामग्रेऽपश्यत्” इति । सा चेडा यज्ञानूकाशिनी यज्ञतत्त्वप्रकाशनसमर्थाऽऽसीत् । सा कदाचिदसुराणामग्न्याधानवार्तां श्रुत्वा द्रष्टुं गता । दृष्ट्वा मनोः पार्श्वे समागत्यैवमुवाच-“असुराः प्रथमं पूर्वदिगवस्थितमाहवनीयमाधाय ततः पश्चिमदिगवस्थितं गार्हपत्यमाधाय दक्षिणदिगवस्थितमन्वाहार्यपचनं चाऽऽहितवन्तः । तथा चाऽऽधानस्कृतेन कंचित्कालं धनिका भूत्वा पश्चाद्विनाशं प्राप्स्यन्ति । एतेषां पश्चिमभिमुखत्वे प्रवृत्तत्वादेषां श्रीरपि प्रतीची प्रतिकूलगमना सती तेभ्योऽसुरेभ्यो निवर्तिष्यते' इति । अतोऽसुरवदिदानींतनस्या- ऽऽहिताग्नेरप्यन्तं पराभवो भवति । अथान्वाहार्यपचनस्य प्राथम्यं निराचष्टे-. साऽशृ॑णोत् । दे॒वा अ॒ग्निमार्द॑धत॒ इति॑ । तद॑गच्छत् । तैऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑ऽऽहव॒नीय॑म् । साऽब्र॑वीत् (५) । प्राच्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमै॑ष्यन्ति । प्र॒जां तु न वैत्स्य॒न्त इति॑ । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्राच्य॑स्य॒ श्रीरे॑त्ति । भ॒द्रो
२४ (१.१.४) तैत्तिरीयब्राह्मणम् भू॒त्वा सु॑व॒र्गं लो॒कमै॑ति । प्र॒जां तु न वि॑न्दते , इति । पूर्ववद्व्याख्येयम् । अत्र गार्हपत्यादूर्ध्वं प्राङ्मुखप्रवृत्तेर्देवानां श्रीरपि प्राची प्रवृत्ता । प्रकृष्टं पूर्वदिगवस्थितं स्वर्गमञ्चति गच्छतीति प्राची । तस्माद्देवानां स्वर्गप्राप्तिर्भविष्यति, किंतु प्रजाहेतोर्गार्हपत्यस्य पूर्वमाधानाभावात्प्रजां न लप्स्यन्ते । एवं तादृगाधानकर्तरि यजमानेऽपि द्रष्टव्यम् । अथ गार्हपत्यस्य प्राथम्यं विधत्ते- साऽब्र॑वीदि॒डा मनु॑म् । तथा॒ वा अ॒हं त्वा॒ग्निमधा॑स्यामि । यथा॒ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे॑ (६) । प्रत्य॒स्मिँल्लो॒के स्था॒स्यासि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॑ष्यसीति॑ । गार्ह॑पत्य॒मग्र॑ आद॑धात् । गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते । गार्ह॑पत्येनै॒वास्मै॑ प्र॒जां प॒शून्प्रार्ज॑नयत् । अथा॑न्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑ऽऽहव॒नीय॑म् । तेनै॒व सु॑व॒र्गं लो॒कम॒भ्यज॑यत् (७) । यस्यै॒वम॒ग्निरा॑धी॒यतै॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जायते । प्रत्य॒स्मिँल्लो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति, इति । गार्हपत्यस्य प्रजापशुस्वामित्वात्तस्य प्रथमाधानेन तत्प्राप्तिः। गार्हपत्यस्य दक्षिणभागे स्थितो योऽ यमन्वाहार्यपचनस्तस्य तिर्यक्त्वेन वर्तमानस्योर्ध्वगमनाभावेन मनुष्यलोकसदृशत्वात्तदाधानेन मनुष्यलोके प्रतिष्ठा। तत ऊर्ध्वमाहवनीयाधानाय प्राङ्मुखप्रवृत्तेः स्वर्गस्य च प्राग्वर्तित्वात्तत्प्राप्तिः । अथाधिकारिभेदेनाऽऽधानमन्त्रविशेषान्विधत्ते- यस्य॑ वा अय॑थादेवत॒मग्निरा॑धी॒यते॑ । आ दे॒वता॑भ्यो वृ॒श्च्यते॑ । पापी॑यान्भवति । यस्य॑ यथादे॒वत॑म् । न दे॒वता॑भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । भृगू॒णां त्वाऽङ्गिर॑सां व्रतपते व्र॒तेनाऽऽद॑धामीति॑