वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
१०२ वेणीसंहारं नाटकं रामाल्लब्धसमस्तहेतिगुरणो वीर्यस्य तत्साम्प्रतम्। लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥ ५ ॥ (पृष्ठतो विलोक्य ।) तत्कोऽत्र । रथमुपनयतु । अथवाऽलमिदानीं मम रथप्रतीक्षया । सशस्त्र एवास्मि सजलजलधरप्रभाभास्वरेण सुग्रहविमल कलधौतत्सरुणाऽमुना खड्गेन यावत्समरभुवमवतरामि । (परिक्रम्य वामाक्षि- स्पन्दनं सूचयित्वा ।) अये, ममापि नामाश्वत्थाम्नः समरमहत्सवप्रमोद- निर्भरस्य तातविक्रमदर्शनलालसस्यानिवित्तानि समरगमनविघ्नमुत्पाद- ज्वाला च हेतयः' इत्यमरः । वीर्यस्य = पराक्रमस्य, यत्, साम्प्रतम् = युक्तम्, लोके = जगति, सर्वधनुष्मताम् = अखिलधनुर्धारिणाम्, अधिपतेः = स्वामिनः, रुषः = क्रोधस्य, यच्च अनुरूपम् = योग्यम्, तत्- कर्म = कार्यम्, मे रिपुघस्मरेण = शत्रुभक्ष- केण तातेन = पित्रा द्रोणेन, प्रारब्धम्, नियतम्-उत्प्रेक्ष्यते, नियतमित्युत्प्रेक्षायाम्, उत्प्रेक्षा चोत्कटकोटिकसंशयः । अत्र रूपकालङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ ५ ॥ सजलजलधरप्रभाभास्वरेण = सजलो यो जलधरः मेघः तस्य या प्रभा विद्युत् तद्वत् भास्वरं दीप्यमान तेन, सुग्रहविमलधौतत्सरुणा = सुग्रहणः सुखेन ग्रहणयोग्यः, विमलः कलधौतः सुवर्णनिर्मितः त्सरु खड्गमुष्टिः यस्य तेन खड्गेन = असिना, समरभुवम् = सङ्ग्रामस्थानम्, अवतरामि । वामाक्षिस्पन्दम्=सव्य- नेत्रपरिस्फुरणम्, पुरुषाणां वामनेत्रस्पन्दनं शास्त्रेष्वहितकरं कथितम् । द्रोणवध- हेतुकं वामनेत्रस्पन्दनमिति भावः । समरमहोत्सवप्रमोदनिर्भरस्य = समर एव महा नुत्सवः तेन यः प्रमोदः आनन्दः तत्र निर्भरस्य प्रमग्नस्य, तातविक्रमदर्शनलालसस्य = पितृविक्रमदर्शनेच्छस्य, अनिमित्तानि = अनिष्टसूचकानि, समरगमनविघ्नम् = दुर्योधन के पक्षाश्रय के लिये होना चाहिये तथा हाथ में शस्त्रग्रहण करने पर जो उचित हो सकता है। परशुराम से प्राप्त अनेकविध अस्त्रों से असह्यपराक्रमशाली होने की सफलता भी उन्होंने दिखलायी है तथा विश्व के सभी धनुर्धरों में श्रेष्ठ पुरुष का क्रोध जैसा होना चाहिये उसी के अनुरूप यह कार्य है ॥ ५ ॥ ( पीछे की ओर देखकर ) यहाँ कोई है ? रथ लाओ । अथवा अब रथके लिये मुझे प्रतीक्षा करने की आवश्यकता नहीं । सजल जलद ( जल से परिपूर्ण मेघ ) की नील कान्ति सदृश कान्तियुक्त इस कृपाण से, जिसकी मुष्टि सुवर्णनिर्मित होने के कारण चमक रही है; तथा पकड़ने में सुविधाजनक है, मैं सशस्त्र हूँ । अब रणभूमि की ओर प्रस्थान करता हूँ । ( परिक्रमण करके वाम नेत्र के फड़कने का अभिनय करते हुए ) अरे ! क्यों रणमहोत्सवा-
[Header] तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १०३ यन्ति। भवतु। गच्छामि। (सावष्टम्भं परिक्रम्याग्रतो विलोक्य।) कथमव- धीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामि- सत्कारलघुचेतसां द्विरदतुरङ्गमचरणचारिणामगणितकुलयशःसदृशपराक्रम- व्रतानां रणभूमेः समन्तादपक्रामतामयं महाह्लादो बलानाम् (निरूप्य) हा हा धिक्कष्टम्। कथमेते महारथाः कर्णादयोऽपि समरात्पराङ्मुखा भवन्ति। कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत्। भवतु संस्तम्भयामि। भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा सङ्ग्रामावतरणान्तरायम्। अवधीरितक्षात्रधर्माणाम् = अवधीरितः तिरस्कृतः क्षात्र- धर्मो यैः तेषाम्, 'धर्मादनिच् केवलात्' इत्यनिच्प्रत्ययः। 'उज्झितसत्पुरुषोचितलज्जा- वगुण्ठनानाम्= सत्पुरुषस्य मनस्विनः उचिता या लज्जा सैव अवगुण्ठनम् आवरणम् तद् उज्झितं यैः। द्विरदतुरङ्गमचरणचारिणाम् = द्विरदतुरङ्गमाः हस्त्यश्वाः तेषां शरणैः संचरणशीलानाम्, हस्त्यश्वैः गच्छतामिति यावत्। त्यक्तद्विरदतुरङ्गमेतिपाठे- त्यक्ता द्विरदतुरङ्गमा यैः अत एव चरणचारिणः पदातयः, तेषाम्। अगणितकुलयश- सदृशपराक्रमव्रतानाम्= कुलस्य वंशस्य यशसश्च अनुरूपम् यत् पराक्रमव्रतम् तदगणितं यैः तेषाम्, रणभूमेः, समन्तात् = सर्वतोभावेन, अपक्रामताम् = पृथग्गच्छताम्, बला- नाम् = सैन्यानाम्, कथम्, अयं महान्, नादः = शब्दो, भवतीति शेषः। एतादृशोऽभूत- पूर्वशब्दे कि कारणमिति भावः। अयमाशयः सङ्ग्रामस्थानाद्बहिर्भूमेरागच्छन् द्रोण- वधमजानन्नेव तर्कयत्यश्वत्थामा। पराङ्मुखाः = पराचीनाः, विमुखा इत्यर्थः। संस्तम्भयामि = अवरोधयामि। भिलाषी और पितृपराक्रमदर्शनोत्कण्ठित मुझ अश्वत्थामा को युद्धार्थ प्रस्थान करते समय विघ्न उत्पन्न हो रहे हैं ? अच्छा, विघ्न होने दो। मैं जाऊँगा ही। (सगर्व कुछ दूर चल कर सामने देखता हुआ) क्यों! क्या समग्र क्षात्रधर्म की अवहेलना करके, सज्जनानुरूप लज्जा के आवरण को प्रक्षिप्त करके, तथा स्वामी के सत्कार को भूलकर क्षुद्रवृत्ति धारण करके हाथी-घोड़ों को छोड़कर पैदल भागते हुए, अपने वंश की मर्यादा के अनुकूल नियमों का उल्लंघन करते हुए, तथा समर-भूमि परित्याग करके इधर-उधर भागते हुए सैनिक वीरों का यह भीषण तुमुलनाद ? (दूसरी ओर देखकर) खेद! धिक्कार!! बड़े दुःख की बात है क्या कारण है, - ये कर्णप्रभृति महारथचारी योद्धा रणस्थली की ओर से भागते हुए चले आ रहे हैं ? जिस सैन्य के मेरे पिता सेनानायक हों उसकी यह दशा ? कुछ कारण ध्यान में नहीं आ रहा है अच्छा इन्हें यहीं रोक रखता हूँ। अये, अये, कौरवीय- सैन्यसिन्धुतटमर्यादापालनसमर्थ, विशाल पर्वतसदृश शूरवीर राजाओ ! बस, बस, यह रण-
१०४ वेणीसंहार नाटकं नरपतयः, कृतं कृतममुना समरपरित्यागसाहसेन । यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वे ॥ ६ ॥ अपि च । अस्त्रज्वालावलीढप्रतिबलजलधेरन्त रौर्वायमाणे । अन्वयः - समरम्, अपास्य, ( गच्छतः ) मृत्योः, भयम् , न अस्ति, इति यदि ( तर्हि ) इतः, अन्यतः, प्रयातुम् , युक्तम् , अथ, जन्तोः, मरणम्, अवश्यमेव, किमिति, मुधा, यशः, मलिनम्, कुरुध्वे ॥ ६ ॥ समरपरित्यागो न कर्तव्य इत्यत्र हेतुमाह - यदि समरमपास्येति । समरम् = सङ्ग्रामम्, अपास्य=त्यक्त्वा, गच्छतस्तथेति शेषः । मृत्योः=मरणाद्, भयम्, नास्ति, इति, यदि ( तर्हि ), इतः = सङ्ग्रामात्, अन्यतः = अन्यत्र, प्रयातुं = गन्तुम्, युक्तम्, अथ = तदभावपक्षे, जन्तोः = प्राणिनः, मरणम् = मृत्युः, अवश्यमेव= ध्रुवमेव, किमिति = कस्य हेतोः, मुधा = व्यर्थम् , यशः = कीर्तिम् मलिनम् = मली- मसम्, कुरुध्वे = सम्पादयध्वे । पूर्वसञ्चितयशोरक्षणार्थमपि समरेऽवत रत यूयमिति भावः । पुष्पिताग्रा छन्दः । अयुजि, नयुगरेफतो यकारो, युजि च नजो जरगाव पुष्पिताग्रेतिलक्षणात् ॥ ६ ॥ अन्वयः-अस्त्रज्वालावलीढप्रतिबलजलधेः, अन्तः, और्वायमाणे, सर्वधन्वीश्व- राणाम्, गुरौ, अस्मिन्, मम, पितरि, सेनानाथे, स्थिते, ( सति ) हे कर्ण, सम्भ्र- मेण, अलम्, हे कृप, समरम्, व्रज, हार्दिक्यशङ्काम्, मुञ्च, रणधुराम्, वहति, चापद्वितीये, ताते, ( सति ) भयस्य, कः, अवकाशः ॥ ७ ॥ तव भयं सम्भवत्यपि नेत्याह -- अस्त्रज्वालेति । अस्त्रज्वालादलीढप्रतिबलजलधेः = अस्त्रज्वालया अवलीढः आस्वादितः प्रतिबल- जलधिः युधिष्ठिरसैन्यसमुद्रः तस्य, अन्तः = मध्ये, और्वायमाणे = और्वो वडवानलः स इवाचरन् तस्मिन्, और्वायमाणे, 'कर्तु क्यङ् सलोपश्चे'तिक्यङ्प्रत्ययस्ततो लटः स्थाने शानच् । सर्वधन्वीश्वराणाम् = निखिलधनुर्धराधिपानाम्, गुरो = श्रेष्ठे, अस्मिन् , विमुख होने की धृष्टता हो चुकी । यदि रण छोड़ देने से किसी दूसरे स्थान पर मृत्यु की आशङ्का न हो तो ( युद्धक्षेत्र का परित्याग कर ) अन्यत्र भाग जाना उचित है। यदि जीवों को मृत्यु अवश्यम्भावी है तो फिर व्यर्थ ही कीर्ति को कलङ्कित कर रहे हो ? ॥ ६ ॥ हे कर्ण, दिव्य शस्त्रों की ज्वाला से व्याप्त विपक्षीसेनारूपो समुद्र के अन्तस्तलमें वडवाग्नि
तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १०५
सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् !
कर्णांलं सम्भ्रमेण व्रज कृप समरं मुञ्च हार्दिव्यशङ्कां
ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥ ७ ॥
( नेपथ्ये । )
कुतोऽद्यापि ते तातः ।
अश्वत्थामा-( श्रुत्वा । ) किं ब्रूथ-'कुतोऽद्यापि ते तातः' इति ।
( सरोपम् ) आः क्षुद्राः भीरवः, कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया
जिह्वया ।
.मम, पितरि = जनके द्रोणे, सेनानाथे = सैन्यपतौ स्थिते सति, हे कर्ण = राधेय,
सम्भ्रमेण = उद्वेगेन, अलम् = व्यर्थम्, हे कृप, समरं, व्रज = गच्छ, हार्दिक्यशङ्का =
हृदयजातसन्देहं, मुञ्च = त्यज, रणधुरां = सङ्ग्रामस्य भारं, वहति = धारयति, शतृ-
प्रत्ययान्तामदम्, चापद्वितीये = गृहीतचापे, ताते = पितरि द्रोणे सति, भयस्य = भीतेः,
कोऽवकाशः । भयस्य न सम्भावनेति भावः । अत्र, और्वायमाणे इत्यत्रोपमालङ्कारः ।
चतुर्थचरणे काव्यलिङ्गम् । स्रग्धरा छन्दः ॥ ७ ॥
नेपथ्ये = जवनिकान्तर्भूमी ।
कुत इति-तव तातो मृत इति भावः । वः = युष्माकम्, एवम् = कुतोऽद्यापि
ते तात इति, प्रलपतां = कथयताम् अनया, जिह्वया - रसनया, कथं, न, सहस्रधा =
सहस्रकृत्व , दीर्णम् = विदीर्णम् ।
की भाँति अपनी ज्वाला से सन्तप्त करते हुए, सेनानायक के पद पर स्थित; सब धनुर्धारियों में
श्रेष्ठ मेरे पिता [ द्रोणाचार्य ] की उपस्थिति में अब अधिक भय की कोई आवश्यकता नहीं।
ऐ कर्ण, सङ्ग्राम में जाइये । ऐ कृपाचार्य, किसी प्रकार का सन्देह न कीजिए । धनुष
के साथ मेरे पिता के हाथ में जब तक रण का भार है तब तक भय के लिए अवसर ही कहाँ
हो सकता है ? ॥ ७ ॥
( नेपथ्य में )
आज तुम्हारे पिता कहाँ ?
अश्वत्थामा-( सुनकर ) क्या कहते हो-'आज तुम्हारे पिता कहाँ ?' ( क्रुद्ध होकर )
अरे नीच कायरपुरुषो ! इस जिह्वा से इस प्रकार की वाणी निकालते हुए तुम लोगों की जिह्वा
असंख्य टुकड़े होकर क्यों नहीं गिर जातीं ? (क्योंकि)-
१०६. वेणीसंहारं नाटकं दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का- वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः । छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ॥ ८ ॥ अन्वयः—विश्वम्, दग्धुम्, दहनकिरणैः, द्वादश, अर्काः न, उदिताः सप्तवाताः, सप्तधा, भिन्नाः, दिशि दिशि, न, वा, वाताः, पुष्करावर्तकाद्यैः, मेघैः, गगनतलं, न छन्नं, (तदा) हे पापाः, शौर्यराशेः मे, पितुः, पापं, कथं, कथयत ॥ ८ ॥ मम तातस्य साम्प्रतं न मृत्युकाल इत्याह—दग्धुं विश्वमिति । विश्वं = लोकं, दग्धुं = भस्मसात् कर्तुम्, दहनकिरणैः = दाहकरश्मिभिः, द्वाद- शार्काः = द्वादशसूर्याः, न उदितः = उदयं न प्राप्ताः, प्रलयंकाले धातृमित्रार्यमादयः सूर्या उदिता भवन्ति ते च साम्प्रतं न सन्ति तथा च कल्पान्तपर्यन्तस्थायिनो मम तातस्य कथं मृत्युः स्यादिति भावः । सप्त, वाताः = वायवः, सप्तधा भिन्ना सन्तः, दिशि दिशि न, वा, वाता = अवहन्, श्वसनादय एकोनपञ्चाशद्वाताः प्रलयकालिका न वाता इति भावः । पुष्करावर्तकाद्यैः = प्रलयकालिकैः पुष्करादिनामकैः, मेघैः = जलदैः गगनतलम् = आकाशमण्डलम्, न छन्नम् = आच्छादितम्, अन्तर्भावितण्यर्थः । तदा, हे पापाः = पापिनः, मे = मम, शौर्यराशेः = शूरतासमूहस्य पराक्रमिण इत्यर्थः । पितुः = जनकस्य, पापं = मृत्युम्, कथं कथयत = ब्रूत । प्रलयलक्षणाभावात् मम पितुः न मृत्युः सम्भवतीत्याकूतम् । मन्दाक्रान्ता छन्दः ॥ ८ ॥ बारहो सूर्य अपनी अग्निमयी किरणों से अखिलविश्व को भस्म कर देने के लिये उदित नहीं हुए हैं । प्रतिदिशाओं में उनचासों प्रकार के वायु तो प्रबल वेग से नहीं चल रहे हैं । पुष्करावर्तक मेघों से आकाश मण्डल भी आच्छादित नहीं है फिर अरे पापियों, महान् पराक्रमशाली मेरे पिता के लिए यह पापमयी वार्ता क्यों कह रहे हो ? अर्थात् प्रलयकाल का इस समय कोई भी लक्षण प्रतीत नहीं हो रहा है—न तो भगवान् भास्कर अपनी सम्पूर्ण कला से उदित हुए हैं और न झञ्झावात ही, जो प्रलय काल के समय ही हुआ करते हैं, चल रहे हैं अथवा घोर वर्षा करके संसार को प्रलयजलधि में निमग्न करा देने के लिए आकाश में मेघमण्डल भी नहीं विचरते हैं फिर प्रलयकाल के कोई भी लक्षण न मिलने से उसकी सम्भावना ही नहीं की जा सकती तो फिर पिता के विषय में यह सम्भावना हो नहीं सकती । क्योंकि पिता के वीर्य और पराक्रम के समक्ष इस सृष्टि के अन्तर्गत कोई ऐसी शक्ति नहीं है जो उन्हें अन्तिम दशा को पहुँचा सके यदि है भी तो वह प्रलय काल, क्योंकि उसमें एक ईश्वर के अतिरिक्त कोई नहीं बच सकता ॥ ८ ॥
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १०७
(प्रविश्य सम्भ्रान्तः सप्रहारः ।)
सूत-परित्रायतां परित्रायतां कुमारः । (इति पादयोः पतति ।)
अश्वत्थामा - (विलोक्य ।) अये, कथं तातस्य सारथिरश्वसेनः । आर्य,
ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि ।
सूतः - (सकरुणम् ।) कुतोऽद्यापि ते तातः ।
अश्वत्थामा - (सावेगम्) किं तातो नामास्तमुपगतः ।
सूतः - अथ किम् ।
अश्वत्थामा - हा तात, (इति मोहमुपगतः ।)
सूतः - कुमार, समाश्वसिहि समाश्वसिहि ।
अश्वत्थामा - (लब्धसंज्ञः सास्रम् ।) हा तात, सुतवत्सल, हा लोक-
त्रयैकधनुर्धर, हा जामदग्न्यास्त्रसर्वस्वप्रतिग्रहणप्रणयिन्, क्वासि ? प्रयच्छ
मे प्रतिवचनम् ।
द्रोणस्य सूत आह परित्रायतामिति ।
त्रैलोक्यत्राणक्षमस्य - लोकत्रयरक्षणसमर्थस्य ।
सूतमुखात् कुतोद्यपि ते तात इति श्रुत्वा पितुः मृत्युं निश्चित्याह-किं तात
इति । अस्तं = विनाशम्, उपगतः = प्राप्तः ।
मोहं = मूच्छाम्, अश्वत्थाम्नः मूर्च्छा जातेति भावः ।
लब्धसंज्ञः = प्राप्तचेतन्यः, विगतमूर्च्छ इत्यर्थः । जामदग्न्येति-जामदग्न्यस्य
यदस्त्रं तदेव सर्वस्वं तस्य यः प्रतिग्रहः आदानं तत्र प्रणयी स्निग्धः तत्सम्बोधने ।
प्रतिवचनम् = उत्तरम्, प्रयच्छ = देहीत्यन्वयः ।
(व्याकुल सूत का प्रवेश । शस्त्राघात से उसका शरीर जर्जर हो गया है )
सूत-कुमार, रक्षा कीजिए, रक्षा कीजिए (चरणों पर गिर पड़ता है )
अश्वत्थामा-(देखकर) अरे ! यह मेरे पिता के सारथि अश्वसेन कहाँ से ? आर्य, आप
तीनों लोकों की रक्षा में समर्थ मेरे पिता के सारथि हैं। क्या मुझ जैसे बालक से रक्षा
चाहते हैं ?
सूत- (उठकर करुणापूर्वक) कुमार, अब आज तुम्हारे पिता कहाँ हैं ?
अश्वत्थामा- (वेगपूर्वक) क्या पिताजी अस्त हो गये ?
सूत-और क्या ?
अश्वत्थामा-हा तात ! हा तात !! (मूर्च्छित होकर गिर पड़ता है )
सूत-कुमार, धैर्य धरें धैर्य धरें ।
अश्वत्थामा-(होश में आकर उठ जाता है तथा अश्रुमोचन करता है ) हा पिता इह
१०८ | वेणीसंहारं नाटकं
सूतः—कुमार, अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव । अश्वत्थामा—( अश्रूणि विमुच्य । ) आर्य, कथय कथय कथं तादृग्भुज- वीर्यसागरस्तातोऽपि नामास्तमुपगतः । किं शिष्यात् गुरुदक्षिणां गुरुगदां भीमप्रियः प्राप्तवान् । सूतः — शान्तं पापम् । अश्वत्थामा अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना । वीरपुरुषोचितां = शूरपुरुषयोग्यां, विपत्ति=मृत्युम् । तादृग्भुजवीर्यसागरः = तादृक् सर्वलोकवेद्यं भुजवीर्यं बाहुपराक्रमः सागर इव यस्य सः । अन्वयः—भीमप्रियः शिष्यात् , गुरुगदाम्, गुरुदक्षिणाम्, किम्, प्राप्तवान् , उज्झितनयेन, जिष्णुना, अन्तेवासिदयालुः, आसादितः, किम् , गोविन्देन, सुदर्श- नस्य, निशितम्, धारापथम्, प्रापितः, ( किम् ) एभ्यः, चतुर्भ्यति, गुरोः आपदम्, अहं न शङ्के । श्लोकरूपेण अश्वत्थामा पितृघातविषयकप्रश्नमाह—किं शिष्यादिति । भीमप्रियः = भीमः प्रियो यस्य सः द्रोण इत्यर्थः । शिष्यात् = भीमात् , गुरु- गदां = भीषणगदाम्, गुरुदक्षिणां = गुरुगदारूपां गुरुदक्षिणामित्यर्थः । किं प्राप्तवान् , किमिति प्रश्ने । शान्तं पापमिति — इदम् अवक्तव्ये उच्यते । इदन्न वक्तव्यमित्यर्थः । भीमगदा न प्राप्तेति भावः । उज्झितनयेन—उज्झितः त्यक्तः, नयः नीतिः येन तेन, जिष्णुना—अर्जुनेन, पुत्रप्रिय, हा त्रिलोक में एकमात्र धनुर्धर, हा परशुराम के साङ्गोपाङ्गशस्त्रविद्याऽध्ययनकर्ता., कहाँ हैं ? मुझे उत्तर दीजिये । सूत—चिरंजीविन् , अधिक शोक न करें । पिता के शूरवरोयुक्तगति प्राप्त कर लेने पर आप भी उन्हीं के सदृश पराक्रम से शोकसिन्धु का उल्लंधन कर सुख प्राप्त कीजिए । अश्वत्थामा—(आँसू पोंछकर) आर्य ! कहिए किस प्रकार वैसे बाहुपराक्रम के सिन्धु पिता अस्त हो गए ? क्या भीमप्रिय (तात) ने शिष्य से गुरुदक्षिणा में भीषण गदाप्रहार प्राप्त किया है ! सूत—शान्त, शान्त पाप की चरचा न कीजिए (अर्थात् ऐसा नहीं हो सकता) । अश्वत्थामा—क्या शिष्य पर दया रखनेवाले पिता पर अर्जुन ने नीति का विचार न करके आक्रमण कर दिया !
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १०६ सूतः - कथमेवं भविष्यति । नियतं अश्वत्थामा-गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः । सूतः--एतदपि नास्ति । अश्वत्थामा--शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादिहम् ॥ ९ ॥ सूतः--कुमार, एतेऽपि तस्य कुपितस्य महास्त्रपाणेः किं धूर्जटेरिव तुलामपयान्ति सङ्ख्ये । अन्तेवासिदयालुः = अन्तेवासिनः दयाकर्त्ता, एतेन अर्जुनस्योपरि दयया शस्त्रप्रहारो न कृतः अत एव तस्य प्राणस्य मृत्युरित्याशयः । आसादितः किमिति अत्रापि सम्बध्यते । एवम् = अर्जुनेन मृत्युः, कथ भविष्यति । अर्जुनो न हन्तेति भावः । गोविन्देन=कृष्णेन, सुदर्शनस्य=तन्नामकचक्रस्य, निशितं = तीक्ष्णम्, धारापथम्= शस्त्रस्याग्रभागम् ( धार ) इति प्रसिद्धम् । प्रापितः = गमितः, मारित इत्यर्थः । इदमपि नेत्याह-एतदपीति । एभ्यः = गोविन्दभीमार्जुनभ्यः, चतुर्थात्, अन्यतः = परस्मात्, गुरोः = द्रोणस्य आपदं = मृत्युम्, अहं न, शङ्के=सन्देह्मि, खलु, एभ्योऽतिरिक्तः तस्य हन्ता न कोऽपि सम्भवति तथा च कथं मृत्युरिति भावः । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ अन्वय-संख्ये, धूर्जटेः, इव, महास्त्रपाणेः कुपितस्य तस्य, एते, अपि किम्, तुलाम् उपयान्ति । यदा, तु, शोकोपसद्धहृदयेन, शस्त्रम्, त्यक्तम् तदा, अस्य, रिपुणा, अतिघोरम्, विहितम् ॥ १० ॥ गृहीतशस्त्रस्य तस्य एतेऽपि हन्तारः न सम्भवन्तीत्याह-एतेऽपीति । संख्ये = सङ्ग्रामे, धूर्जटेः = महादेवस्य, इव, महास्त्रपाणेः = महास्त्रं पाणौ यस्य तस्य, कुपितस्य = क्रुद्धस्य, तस्य = द्रोणस्य, एते = कृष्णभीमार्जुनः, अपि, किं तुलां= सादृश्यम्, उपयान्ति = प्राप्स्यन्ति । तु = किन्तु । यदा, शोकोपसद्धहृदयेन= सूत-यह कैसे सम्भव है । अश्वत्थामा-क्या भगवान् वासुदेव ने सुदर्शन चक्र की धार के घाट पर उतारा है । सूत-यह भी नहीं । अश्वत्थामा-इन तीनों के अतिरिक्त किसी चौथे व्यक्ति से मेरे पिता के वध की आशङ्का मुझे होती ही नहीं ॥ ९ ॥ सूत-कुमार, ये तीनों भी एक साथ मिलकर क्रुद्ध महास्त्रापाणि शङ्कर भगवान की तरह युद्ध में उनकी
११० वेणीसंहारं नाटकं
शोकोपरुद्धहृदयेन यदा तु शस्त्र
त्यक्तं तदाऽस्य विहितं रिपुणाऽतिघोरम् ॥ १० ॥
अश्वत्थामा-किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ।
सूतः- ननु कुमार एव कारणम् ।
अश्वत्थामा-कथमहमेव नाम ।
सूतः-श्रूयताम् । (अश्रूणि विमुच्य ।)
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः
--------------------------------------------------
शोकेन उपरुद्ध हृदयं यस्य तेन द्रोणेन, शस्त्रं, त्यक्तं, तदा, अस्य=द्रोणस्य, रिपुणा=
शत्रुना, अतिघोरं = विनाशम्, विहितं = सम्पादितम्, अस्त्रपरित्यागे कृते रिपुणा
हतो द्रोण इति भावः । अत्रोपमालङ्कारः । वसन्ततिलका छन्दः ॥ १० ॥
अश्रूणि = नेत्राम्बूनि, विमुच्य=प्रोञ्छ्य ।
अन्वयः—सत्यवाचा, पृथासूनुना, अश्वत्थामा हत इति, स्पष्टम्, उक्त्वा, शेषे,
गज इति, स्वैरम्, व्याहृतम् किल, तत्, श्रुत्वा, तस्य राज्ञः, प्रत्ययात्, दयिततनयः,
असौ, आजौ, शस्त्राणि, नयनसलिलम् च, अपि तुल्यम्, मुमोच ॥ ११ ॥
शस्त्रत्यागकारणमाह - अश्वत्थामा हत इति ।
सत्यवाचा = तथ्यवचसा पृथासूनुना = युधिष्ठिरेण अश्वत्थामा हत इति, स्पष्टं=
परश्रवणयोग्यम्, इदं वचनक्रियाविशेषणम् । उक्त्वा = कथयित्वा, शेषे = वचनस-
माप्तौ, गज इति, इति शब्दः शब्दस्वरूपनिर्देशार्थः । स्वैरं = मन्दम् परश्रवणाऽयो-
ग्यमित्यर्थः, व्याहृतम् = उक्तम्, किल = निश्चयेन, तद् = अश्वत्थामा हत इति,
श्रुत्वा -आकर्ण्य, तस्य = सत्यवाचः, राज्ञः, प्रत्ययात्=विश्वासात्, दयिततनयः
--------------------------------------------------
समानता नहीं कर सकते । जब उनका हृदय शोक से पूर्ण हो गया और उन्होंने शस्त्रपरित्याग
कर दिया तब शत्रु ने यह अकार्य कार्य किया अर्थात् उन्हें मारा ॥ १०॥
अश्वत्थामा-तो शोक का और शस्त्र परित्याग का कारण क्या है ?
सूत-कुमार ही इसके कारण हैं ।
अश्वत्थामा-मै कैसे ।
सूत-(अश्रु गिरा कर ) सुनिए :-
पृथापुत्र [युधिष्ठिर] 'अश्वत्थामा मारा गया यह स्पष्टरूप से कहकर फिर सत्यवादी ने
धीरे से अवशिष्ट वाक्य को पूर्ति के लिये 'गज=हाथी' यह शब्द कहा । उसे सुनकर
शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ ११ ॥ अश्वत्थामा-हा तात, हा सुतवत्सल, हा वृथामदर्थपरित्यक्तजीवित, हा शौर्यराशे, हा शिष्यप्रिय, हा युधिष्ठिरपक्षपातिन् । ( इति रोदिति ) सूतः-कुमार, अलमत्यन्तपरिदेवनया कार्पण्येन । अश्वत्थामा- श्रुत्वा वधं मम मृषा सुतवत्सलेन तात त्वया सह शरैरसवो विमुक्ताः । = दयितः प्रियः, तनयः यस्य सः, असौ = द्रोणः, आजौ=सङ्ग्रामे, शस्त्राणि, नयन- सलिलम्=नेत्रजलम्, चापि, तुल्यम् = समकालम्, मुमोच = तत्याज । अयं भावः- भीमेन समराद्वेगेन निःसारितेऽश्वत्थाम्नि समरेऽश्वत्थामा मृत इति कलकले सति चिरजीविनस्तस्य मरणासम्भवात् द्रोणेन पृष्टः सत्यवक्ता युधिष्ठिरः कृष्णमन्त्रणया अश्वत्थामानामकगजमरणव्याजेनावोचत् अश्वत्थामा हत इति ततः पुत्रशोकसन्तप्तद्रोणः शस्त्रं तत्याजेति । मन्दाक्रान्ता छन्दः ॥ ११ ॥ वृथामदर्थपरित्यक्तजीवित = व्यर्थं परित्यक्तं जीवितम् प्राणाः येन । युधिष्ठिर- पक्षपातिन् = युधिष्ठिरे विश्वस्त । परिदेवनया = विलापेन, कार्पण्येन=कादर्येण, विलापहेतुकं कार्पण्यमिति भावः । अन्वयः- ( हे ) तात ! मम, मृषा, वधम्, श्रुत्वा, सुतवत्सलेन, त्वया, शरैः, सह, असवः, विमुक्ताः, अहो, अहम्, पुनः, भवता, विना, अपि, जीवामि, तत्, क्रूरे, अपि, मयि, तव, मुधा, पक्षपातः ॥ १२ ॥ नाहं स्नेहपात्रमित्याह-श्रुत्वेति । हे तात = पितः, मम, मृषा = मिथ्या, वधं = हननम्, श्रुत्वा, सुतवत्सलेन= पुत्रस्निग्धेन, 'स्निग्धस्तु वत्सलः' इत्यमरः । त्वया = द्रोणेन, शरैः = बाणैः, सह, पुत्रवत्सल उन्होंने उस राजा युधिष्ठिर में विश्वास के कारण रण में अश्रुपात के साथ शस्त्रों का परित्याग कर दिया ॥ ११ ॥ अश्वत्थामा-हा पितः, हा पुत्रवत्सल ! मेरे लिये आपने व्यर्थ प्राण परित्याग किया ? हा पराक्रम के सागर, हा शिष्य के प्रेमी, हा युधिष्ठिर के पक्षपाती !........(रोता है) सूत-अब अधिक विलाप करके रोने की आवश्यकता नहीं । अश्वत्थामा-ऐ पितः, पुत्रवत्सल आपने मेरे मरण के विषय में असत्य संवाद सुनकर बाणों के साथ साथ अपने प्राणों का भी परित्याग कर दिया और मैं आप की अनुपस्थिति में भी जीवित हूँ, मुझ कुटिल में आपका इतना पक्षपात [मोह] व्यर्थ है ।
११२ वेणीसंहारं नाटकं जीवाम्यहं पुनरीह भवता विनाऽपि- क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥ १२ ॥ ( इति मोहमुपगतः ) सूतः—समाश्वसितु समाश्वसितु कुमारः । ( ततः प्रविशति कृपः ) कृपः—( सोद्वेगं निःश्वस्य ) धिक्सानुजं कुरुपतिं धिगजातशत्रुं धिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् । असवः = प्राणाः, विमुक्ताः = त्यक्ताः, अहो इति खेदे अहम् पुनः, भवता, विनापि= अन्तरेणाऽपि, जीवामि, तत्=तस्मात्, क्रूरेऽपि = निर्दयेऽपि, तव सत्यमृत्युश्रवणादप्यहं न मृत इति निर्दयोऽहमिति भावः । मयि = अश्वत्थाम्नि, तव, मुधा = व्यर्थम्, पक्षपातः । अहं क्रूरः त्वं सदय इति भावः । अत्र द्वितीयचरणे सहोक्तिरलङ्कारः । वसन्ततिलका छन्दः ॥ १२ ॥ निःश्वस्येति—अधिकदुःखसूचको निःश्वासः । अन्वयः—सानुजम्, कुरुपतिम्, धिक् , अजातशत्रुम्, धिक् , विफलशस्त्रभृतः, भूपतीन्, धिक् , अस्मान्, धिक् , खलु, येः, तदा द्रुपदात्मजायाः, अद्य, द्रोणस्य, च, केशग्रहः, लिखितैः, इव वीक्षितः ॥ १३ ॥ तत्रत्याः सर्वे धिक्कारयोग्या इत्याह—धिगिति । सानुजम् = अवरजसहितम् , कुरुपति=दुर्योधनम् , धिक् = धिक्कारः, 'उभसर्व तसो कार्या धिगुपर्यादिषु त्रिष्वि'ति धिद्योगे द्वितीया । अजातशत्रु = युधिष्ठिरम्, धिक्, विफलशस्त्रभृतः = विफलञ्च तत् शस्त्रमिति विफलशस्त्रं तद् विगर्ति, विफल• अर्थात् वस्तुतः मेरा वध नहीं हुआ था उसे सुनकर आपने प्राण विसर्जित कर दिया और मैं सत्य ही आपका मरण सुन रहा हूँ और फिर भी जीवित हूँ मुझसे बढ़कर दूसरा कौन दुष्ट हृदय का व्यक्ति होगा ॥ १२ ॥ ( यह कहकर चेतनाहीन हो जाता है ) सूत—कुमार धैर्य धारण करें, धैर्य धारण करें । ( इसके अन्तर कृपाचार्य का प्रवेश कृप—( उद्विग्नतापूर्वक दीर्घश्वास लेकर ) समस्त भ्राताओं के साथ कौरवनरेश को धिक्कार है, जिसका आज तक कोई शत्रु नहीं उस युधिष्ठिर को धिक्कार है, निष्प्रयोजन शस्त्रधारण करनेवाले राजाओं को तथा हम लोगों
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११३ केशग्रहः खलु तदा द्रुपदात्मजायाः द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ १३ ॥ तत्कथं नु खलु वत्समद्य द्रक्ष्याम्यश्वत्थामानम् । अथवा हिमवत्सार- गुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किन्तु पितुः परिभवमसद्दशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथवा— एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताः प्रजाः ॥ १४ ॥ शस्त्रभृत तान्, शस्त्रे वैफल्यं चानुचितकार्यनिवारणात् । भूपतीन् = राज्ञः धिक्, अस्मान् = माम् धिक्, एते सर्वे निन्दनीया इत्यर्थः । खलु धिक्कारे हेतुमाह— तदेति । यैः = एतैः, पूर्वोक्तैः, तदा, द्रुपदात्मजायाः = द्रौपद्याः, केशग्रहः = कचाकर्षणम् अद्य, द्रोणस्य च केशग्रहः, लिखितैः = चित्रस्थैः, इव, वीक्षितः = दृष्टः । द्रौपदीकेशा- कर्षणे प्रधानहेतोरतिनिन्दनीयत्वात् कुरुपतेः प्राथम्येन निर्देशः । द्रोणस्य केशग्रहे अजातशत्रोः हेतुत्वात् ततः परोऽजातशत्रोनिर्देशः । दृष्ट्वापि भूपतिभिरनिवारणात् तेषामपि निन्दनीयत्वात् ततः परो निर्देशः । अत्र काव्यलिङ्गमलङ्कारः । वसन्त- तिलका छन्दः ॥ १३ ॥ हिमवत्सारगुरुचेतसि = हिमवतः सारमिव गुरु महत् दृढम् चेतः यस्य तस्मिन्, ज्ञातलोकस्थितौ = विदितजगन्मर्यादे, तस्मिन् = अश्वत्थाम्नि, शोकावेगम् = अधिक- शोकोद्वेगम्, अहम् न खलु, आशङ्के = सन्देह्नि । किन्तु, पितुः, असद्दशम् = अनुचितम्, परिभवम् = मृत्युम्, उपश्रुत्य = ज्ञात्वा किं, व्यवस्यतीति न जात इत्यन्वयः । अन्वयः—एकस्य, अयम् दारुणः, पाकः, तावद्, भुवि, वर्तते, द्वितीये, अस्मिन्, केशग्रहे ( सति ), प्रजाः, नूनम्, निःशेषिताः ॥ १४ ॥ द्रोणस्य पराभवे सति किं स्यादित्याह—एकस्य तावदिति । एकस्य = द्रौपद्याः केशग्रहस्य, अयं = युद्धरूपः, दारुणः = उत्कटः, पाकः = फलम् तावत्, भुवि = को धिक्कार है । जिन्होंने चित्र बनकर उस समय पाञ्चाली के केशकर्षण को देखा और आज द्रोणाचार्य के भी केशकर्षण को देखा ॥ १३ ॥ तो फिर पुत्र अश्वत्थामा को कैसे देख सकूँगा अथवा हिमालय के सदृश सारगर्भित उसका अन्तःकरण है तथा संसार की परिस्थिति से वह भली भाँति परिचित है अतः उसमें मुझे सन्ताप के वेग की शङ्का नहीं होती परन्तु अन्यायपूर्वक पिता के मरण को सुनकर न मालूम क्या कर डाले ? अथवा— एक केशग्रह का यह भीषण फल इस वसुन्धरा पर दृष्टिगोचर हो रहा है, अब उस = द्वे०
११४ वेणीसंहारं नाटकं ( विलोक्य । ) तदयं वत्सस्तिष्ठति । यावदुपसर्पामि ( उपसृत्य ससम्भ्र- मम् । ) वत्स समाश्वसिहि समाश्वसिहि । अश्वत्थामा—( संज्ञां लब्ध्वा । सास्रम् ) हा तात, सकलभुवनैकगुरो, ( आकाशे । ) युधिष्ठिर, युधिष्ठिर, आजन्मनो न वितथं भवता किलोक्तं मिथ्या न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः । ताते गुरौ द्विजवरे मम भाग्यदोषात् संसारे, वर्तसे, द्वितीय, अस्मिन्, केशग्रहे द्रोणस्येति शेषः । प्रजाः = जनाः, नूनं = निश्चयेन, 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । निःशेषिताः= विनष्टाः, भविष्यन्तीत्यध्या- हारः । महाऽनिष्टस्य महानेव परिणामः स्यादिति भावः । पथ्यावक्त्रं छन्दः ॥१४॥ संज्ञां = चैतन्यम् लब्ध्वा = प्राप्य, सास्रम् = अश्रुसहितम्, आकाश इति । युधिष्ठिराभावेऽपि युधिष्ठिर प्रति कथयतीति भावः । अन्वयः—भवता, आजन्मनः, वितथम्, न उक्तम्, किल, यत्, जनम्, न द्वेक्षि, अतः, त्वम्, अजातशत्रुः, तत् सर्वम् मम, भाग्यदोषात्, द्विजवरे, गुरौ, ( मम ) ताते, एकपदे, एवं, कथं, निरस्तम् ॥ १५ ॥ अश्वत्थामा, आजन्मन इति । भवता = युधिष्ठिरेण । आजन्मनः = जन्मप्रभृति, वितथम् = असत्यम् न, उक्तम् किल, यत् = यस्मात्, त्वम्, जनम् = लोकम् न, द्वेक्षि = द्वेषं करोषि, अतः त्वम् अजातशत्रुः, इत्युच्यस इति शेषः, । तत् = मिथ्यावदनाभावादि, सर्वम् मम = अश्वत्थाम्नः भाग्यदोषात् = दैवदोषात्, द्विजवरे = ब्राह्मणे, गुरौ = आचार्ये, ताते = दूसरे केशग्रह में समस्त प्रजा का सर्वनाश अवश्यमावी है, अर्थात् एक द्रौपदी के बाल खींचने के कारण यह दशा उपस्थित हुई अब दूसरे द्रोणके केशग्रह के बाद क्या दशा होगी । ( भली प्रकार विचार कर ) यह पुत्र अश्वत्थामा बैठा हुआ है। समीप में चलूँ । ( समीप जाकर व्याकुलाहट के साथ ) पुत्र, धैर्य धारण करो, धैर्य धारण करो । अश्वत्थामा—( चैतन्य होकर अश्रुपूर्ण नेत्रों से ) हा पिता समस्तलोक के एक मात्र आचार्य ( आकाश की ओर देखकर ) युधिष्ठिर, युधिष्ठिर । जन्म से लेकर आपने असत्य भाषण कभी नहीं किया। आप किसी के प्रति द्वेषबुद्धि नहीं रखते हैं इसलिए आप अजातशत्रु कहे जाते हैं। मेरे भाग्यदोष के कारण आपने
तीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११५ सर्वं तदेकपद् एव कथं निरस्तम् ॥ १५ ॥ सूतः—कुमार, एष ते मातुलः पार्श्वे शारद्वतस्तिष्ठति । अश्वत्थामा—(पार्श्वे विलोक्य । सवाष्पम् ) मातुल, गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना य एकः शूराणां गुरुसमरकण्डूनिकषणः । परीहासाश्चित्राः सततमभवन्त्येन भवतः स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ॥ १६ ॥ रं, एकपदे = एकस्थाने, एव, कथं = कस्माद्धेतोः, निरस्तं = त्यक्तम् । ब्राह्मणे एतादृशकरणं मम भाग्यदोषादेव, नान्यथा सम्भवतीति भावः । अत्र तृतीयचरण- विशेषणानां साभिप्रायकत्वात्परिकरालंकारः । वसन्ततिलका छन्दः ॥ १५ ॥ मातुलः = मातृभ्राता । सवाष्पम् = ऊष्माश्श्रुसहितम् । अन्वयः—येन, सैन्यपतिना, सह अद्य, त्वम् रणभुवम्, गतः, यः शूराणाम्, गुरुसमरकण्डूनिकषणः, सततम्, चित्राः, परीहासाः, भवतः, येन, अभवन्, मातुल ? ते, सः, श्लाघ्यः, स्वसुः, भर्ता, क्व, नु खलु गतः ॥ १६ ॥ तवातिप्रियः स्वसृपतिस्त्वाम् विहायेकाकी क्व गत इत्याह—गत इति । येन सैन्यपतिना = सेनानायकेन, सह = साकम् अद्य, त्वं, रणभुवं = सङ्ग्राम- निम्, गतः, यः शूराणाम्=वीराणाम्, एकः गुरुसमरकण्डूनिकषणः=महा- ग्रामकण्डूतिनिवारकः, येन, सततम्=अनारतम्, चित्राः=अनेकरूपाः, परी- हासाः = गालिदानादयः, भवतः = कृपस्य, अभवन्, हे मातुल, ते = तव, श्लाघ्यः= मिनीयः, स्वसुः= भगिन्याः, भर्त्ता = पतिः, भगिनीपतिरित्यर्थः । सः=द्रोणः, = क्व नु खलु नु गतः । अत्रैकस्यैव द्रोणस्य विषयभेदेन सैन्यपतित्वादनानेक- उल्लेखनादुल्लेखनामाऽलङ्कारः । शिखरिणी छन्दः ॥ १६ ॥ के विषय में जो उपाध्याय तथा ब्राह्मण-श्रेष्ठ हैं एक ही पद में क्यों अपने सम्पूर्ण तों पर पानी फेर दिया ? ॥ १५ ॥ सूत—कुमार, यह तुम्हारे मामा शारद्वत समीप में उपस्थित हैं। अश्वत्थामा— ( बगल में देखकर अश्रु त्याग करते हुए ) मामा, मामा । जिस सेनानायक के साथ आज आप समरभूमि में पधारे थे, जो वीरों के महान् रणकण्डू के कण्डूयन में समर्थ एक मात्र वीर थे और जिनके साथ आपका अनेक प्रकार मनोविनोद हुआ करता था, मामा ! बतलाइये, वही आप की बहिन के पूज्य पतिदेव हीं चले गये ? ॥ १६ ॥
११६ वेणीसंहारं नाटकं कृपः—परिगतपरिगन्तव्य एव भवान्। तदलमत्यन्तशोकावेगेन। अश्वत्थामा—मातुल, परित्यक्तमेव मया परिदेवितम्। एषोऽहं सुत- वत्सलं तातमेवानुगच्छामि। कृपः—वत्स अनुपपन्नमीदृशं व्यवसितं भवद्विधानाम्। सूतः—कुमार, अलमतिसाहसेन। अश्वत्थामा—आर्य शारद्वत, यद्वियोगभयात्तातः परलोकमितो गतः। करोम्यविरहं तस्य वत्सलस्य सदा पितुः ॥ १७॥ परिगतपरिगन्तव्यः—परिगतः अवगतः परिगन्तव्यः ज्ञातव्यः येन सः। परिदेवितं = प्रलापः, सुतवत्सलं = पुत्रस्नेहिनम्, तातं = पितरम्, अनुगच्छामिः अनुव्रजामि, अहमपि प्राणत्यागं करोमीति भावः। ईदृशम् = त्वया चिन्तितम् व्यवसितं = व्यवसायः अनुपपन्नम् = अयुक्तम्, भ- द्विधानाम् = वीराणाम्, वीराणामात्मघातो न युक्तः किन्तु प्रतिक्रियेवेति भावः। अन्वयः—तातः, मद्वियोगभयात्, इतः, परलोकम्, गतः, तस्य, वत्सलस्य पितुः, सदा, अविरहम्, करोमि ॥ १७॥ तद्वियोगे मयाऽपि न जीवितव्यमित्याह--मद्वियोगेति। तातः = पिता, मद्वियोगभयात् = मया सह विरहभीतेः, इतः = अस्माल्लोकात् परलोकम् = स्वर्गम्, गतः, तस्य वत्सलस्य पितुः, सदा = जीवनपर्यन्तम्, अविर- हम् = वियोगाभावम् करोमि, मम प्राणत्याग एव श्रेष्ठः। क्वचित्सहित्ये विरहमिति पाठः। अत्र पूर्वार्द्धं उत्तरार्द्धो हेतुरिति वाक्यार्थगतकाव्यलिङ्गमलङ्कारः। पथ्यावक्त्रं छन्दः ॥ १७॥ कृप—ज्ञातव्य विषय तो आपको विदित हो ही गया। अब अधिक विलाप करने कोई लाभ नहीं। अश्वत्थामा—मामा, मैने विलाप करना छोड़ ही दिया। मैं पुत्रप्राण पिता ही अनुसरण करने जा रहा हूँ। कृप—आप सदृश व्यक्ति के लिए इस प्रकार के विचार सर्वथा अनुचित हैं। सूत—कुमार, साहस की यह चरमसीमा है। अश्वत्थामा—आर्य, शारद्वत, आप क्या कहते हैं ? मुझसे वियुक्त हो जाने के भय से मेरे पिता इस लोक से अन्यलोक में प्रस्थान कर गये। उन आदरणीय पिता का वियोग भला मैं किस प्रकार सहन कर सक .. हूँ॥ १७॥
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११७ कृपः-वत्स, यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वयेऽप्यनुवर्तनीया इति । पश्य— निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः । तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ १८ ॥ सूतः-आयुष्मन्, यथैव मातुलस्ते शारद्वतः कथयति तत्तथा । अश्वत्थामा-आर्य, सत्यमेवेदम् । किन्त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारयितुम् । यद्गच्छामि तमेवो- द्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि । ( उत्तिष्ठन्खड्गमालोक्य, विचिन्त्य ) कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवन् शस्त्र ? लोकयात्रा = लोकाचारः, लोकद्वयेऽपि एतल्लोकपरलोकयोरपि, अनुवर्तनीयाः= अनुसरणीयाः । अन्वयः—निवापाञ्जलिदानेन केतनैः, श्राद्धकर्मभिः, तस्य, उपकारे, त्वम्, किम्, जीवन्, शक्तः, किम्, उत, अन्यथा, ( शक्तः ) ॥ १८ ॥ त्वयि जीवत्येव तस्योपकारः स्यादित्याह—निवापेति । निवापाञ्जलिदानेन = निवापस्य पितृदानस्य यः अञ्जलिः तस्य दानेन, केतनैः= तमुद्दिश्य गृहदानादिभिः, श्राद्धकर्मभिः = प्रेतत्वविनाशकवेदोक्तक्रियाभिः, तस्य, पितुः, उपकारे, त्वम्, किमिति प्रश्ने, जीवन् = प्राणन्, शक्तः = समर्थः, किम्, उतेति वितर्के, अन्यथा = जीवनं विना । जीवन्नेवोपकर्तुं शक्नोषि न तु मरणेनातः प्राण- त्यागो न कार्य इति भावः । पथ्यावक्त्रं छन्दः ॥ १८ ॥ इममेवार्थं सूतोऽनुमोदयति—आयुष्मन्निति । कृप—पुत्र, जबतक यह संसार वर्तमान है तब तक यह लौकिक व्यवहार प्रसिद्ध ही है कि पुत्रों का कर्तव्य है कि पितरों का हितसाधक दोनों लोक में बनें । देखिए— तिलाञ्जलिप्रदान, स्मारक तथा पितरों के उद्देश्य से श्राद्धकर्मों के द्वारा उस [दिवङ्गत] पिता का उपकार करने में तुम समर्थ हो जब तक कि जीवित हो । प्राणपरित्याग करके क्या कर सकते हो ? ॥ १८ ॥ सूत—चिरञ्जीविनू, तुम्हारे मामा शारद्वत जैसा चाहते हैं वैसा ही है । अश्वत्थामा—आर्य, यह सत्य ही है परन्तु—इस शोकभार का वहन करना मेरे लिए असह्य है, मैं पिता से वियुक्त होकर क्षण भर भी जीवन धारण नहीं कर सकता, अतः उसी स्थान पर जा रहा हूँ जहाँ उस दशा में भी पिता का दर्शन, करूँगा । (उठकर कृपाण की ओर देखता है फिर कुछ विचार कर ) अब भी शस्त्र की आवश्यकता ? अर्थात् कोई आवश्य- कता नहीं ( अश्रुकलुषिता नेत्रों से हाथ जोड़कर 'भगवन्, शस्त्र !
११८ वेणीसंहारं नाटकं
गृहीतं येनासीः परिभवभयान्नोचितमपि
प्रभावाद्यस्याभून्न खलु तव कश्चिन्नविषयः ।
परित्यक्तं येन त्वमसि सुतशोकान्नतु भया-
द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ १९ ॥
( इत्युत्सृजति । )
( नेपथ्ये । )
अन्वयः—येन, परिभवभयात्, नोचितम्, अपि, गृहीतम्, आसीः, यस्य
प्रभावात्, कश्चित् तव, नविषयः न, खलु, आसीत्, तेन, सुतशोकात्, नतु, भयात्
त्वम्, परित्यक्तम्, असि, ( हे ) शस्त्र !, अहम्, अपि, त्वाम्, विमोक्ष्ये, यतः, भवते
स्वस्ति, अस्तु ॥ १९ ॥
शस्त्रग्रहणं न कार्यं मयेत्याह—गृहीतं येनासीरिति । येन = द्रोणेन, परिभव
भयात् = पराजयभयात्, नोचितम् = अनुचितम्, निषेधार्थक न शब्देन समासः, तेन
नलोपो न । ब्राह्मणेन शस्त्रं न ग्राह्यमित्यनौचित्यम् । गृहीतम् = शात्तम्, आसीः,
त्वमिति शेषः । यस्य = द्रोणस्य, प्रभावाद् = माहात्म्यात्, कश्चित्, तव = शस्त्रस्य,
नविषयः = अगोचरः न, खलु, आसीत्, सर्वो विषय एवासीदित्यर्थः । तेन, सुतशो-
कात् = पुत्रमरणजन्यदुःखात्, तु = किन्तु, भयात्, न, त्वम् = शस्त्रम्, परित्यक्तम् =
उज्जितम्, असि, हे शस्त्र, अहमपि, त्वाम्, विमोक्ष्ये = त्यजामि, यतः, भवते =
शस्त्राय, स्वस्ति = शुभम्, अस्तु इति शेषः । तव कल्याणार्थं मयाऽपि त्यक्तमिति
भावः । शस्त्रत्यागं नाटयतीत्यर्थः । अत्र तृतीयचरणे परिसङ्ख्यालङ्कारः । शिखरिणी
छन्दः ॥ १९ ॥
नेपथ्ये = जवनिकान्तर्भूतौ ।
ब्राह्मणजाति के लिये 'शस्त्रग्रहण' आपद्धर्म माना गया है अतः अनुचित होते हुए भी
जिन्होंने (द्रोणाचार्य ने) अपने पराभव की आशङ्का से शस्त्र ग्रहण किया था और जिसके
प्रभाव से कोई ऐसा देव, दानव और मनुष्यों में नहीं हुआ जो तुम्हारा लक्ष्य न बना हो।
उनके [ पिताजी ] द्वारा पुत्रशोक के कारण न कि किसी प्रकार के भय के कारण तुम
परित्यक्त हुए हो मैं भी तुम्हारा त्याग कर रहा हूँ अर आपका कुशल हो ॥ १९ ॥
( शस्त्रत्याग करता है )
( नेपथ्य में )
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११९ भो भो राजानः कथमिव भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते । अश्वत्थामा — ( आकर्ण्य, शनैः शनैः शस्त्रं स्पृशन् ) किं गुरोर्भारद्वाजस्य परिभवः । ( पुनर्नेपथ्ये । ) आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोकाद् द्रोणस्याजौ नयनसलिलक्षालिताद्राननस्य । मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं धृष्टद्युम्नः स्वशिविरमयं याति सर्वे सहध्वम् ॥ २० ॥ सर्वे = राजानः, गुरोः, भारद्वाजस्य = भरद्वाजकुलोत्पन्नस्य, परिभवं = मृत्युम्, अमुना=धृष्टद्युम्नेन, नृशंसेन=घातुकेन; प्रयुक्तम्=सम्पादितम्, उपेक्षन्ते=तिरस्कुर्वन्ति ।
- शस्त्रम् = चायुधम् स्पृशन्, परिभवः मृत्युरित्यर्थः । अन्वयः-आजौ, न्यस्तशस्त्रस्य, त्रिभुवनगुरोः, शोकात् , नयनसलिलक्षालिता- र्द्राननस्य, आचार्यस्य, द्रोणस्य, पलितधवले, मौलौ, पाणिम्, न्यस्य, नृशंसम्, कृत्वा, अयम् धृष्टद्युम्नः, स्वशिविरम्, याति, ( तत् ) सर्वे, सहध्वम् ॥ २० ॥ आततायी धृष्टद्युम्नो याति परं कोऽपि किमपि न कथयतीत्याह-आचार्यस्येति । आजौ=संग्रामे, न्यस्तशस्त्रस्य = त्यक्तास्त्रस्य, त्रिभुवनगुरोः=त्रैलोक्यश्रेष्ठस्य, शोकात्, नयनसलिलक्षालिताद्राननस्य=नयनसलिलेन करणभूतेन क्षालितम् आर्द्राननं येन तस्य, आचार्यस्य, द्रोणस्य, पलितधवले = जरया शुक्लकेशेन स्वच्छे, मौलौ = मस्तके, पाणि = हस्तम्, न्यस्य = संस्थाप्य, नृशंसं = हननम्, कृत्वा, अयं धृष्टद्युम्नः = द्रुपदपुत्रः, स्वशिविरं = स्वसैन्यनिवासस्थानम्, तदित्यध्याहारः । सर्वे = अरे राजाओं, क्षत्रियवंश के आचार्य भरद्वाजकुलोत्पन्न श्रीसम्पन्न द्रोणाचार्य जी के इस अनुचित वध को ( केशकर्षणपूर्वक वध को ) जो इस हत्यारे धृष्टद्युम्न के द्वारा किया गया है, किस प्रकार आप लोग उपेक्षा कर रहे हैं ? अश्वत्थामा-(सुनकर क्रोध के आवेश में होकर धीरे-धीरे शस्त्र का स्पर्श करता हुआ) क्यों, क्या आचार्य द्रोण का वध ? ( फिर नेपथ्य में ) पुत्रशोक के कारण निरस्त्र, त्रिलोक के उपाध्याय आचार्य द्रोण के, जिनका मुखमण्डल अश्रुजल से प्रक्षालित होकर भीग गया था, बुढ़ापे से धवलित केशयुक्त शिर पर हाथ लगा कर यह धृष्टद्युम्न क्रूरकर्म करके अपने शिविर (पड़ाव) को चला जा रहा है और तुम लोग देख रहे हो ॥ २० ॥
३. तृतीय अङ्क: द्रोण-वध, अश्वत्थामा क्रोध एवं कर्ण-कलह
१२० वेणीसंहारं नाटकं (सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा ।) किं नामेदम् । प्रत्यक्षमात्तधनुषां मनुजेश्वराणां प्रायोपवेशसदृशं व्रतमास्थितस्य । तातस्य मे पलितमौलिनिरस्तकाशे व्यापारितं सिरसि शस्त्रमशस्त्रपाणेः ॥ कृपः-वत्स एवं किल जनः कथयति । अश्वत्थामा-किं तातस्त दुरात्मना परिमृष्टमभूच्छिरः । सैनिकाः सहध्वम्, एतादृशोज्याचारी धृष्टद्युम्नो याति परं केऽपि किमपि न कुर्व- न्तीतिभावः । मन्दाक्रान्ता छन्दः ॥ २० ॥ अन्वयः -आत्तधनुषाम्, मनुजेश्वराणाम्, प्रत्यक्षम्, प्रायोपवेशसदृशम्, व्रतम्, आस्थितस्य, मे, तातस्य, अशस्त्रपाणेः, पलितमौलिनिरस्तकाशे, शिरसि, शस्त्रम्, व्यापारितम् ॥ २१ ॥ किं त्यक्तशस्त्रस्य पितुरुपरि प्रहारः कृत इत्याह-प्रत्यक्षमिति । आत्तधनुषां=गृहीतचापानाम्, मनुजेश्वराणां = राज्ञाम्, प्रत्यक्षम् = साक्षात्, प्रायोपवेशसदृशम् = प्रायः अनशनं तदर्थम् उपवेशः तत्सदृशम्, 'प्रायस्थानशने मृत्यौ प्रायो बाहुल्यतुल्ययोरिति' विश्वः व्रतं=नियमम्, आस्थितस्य = गृहीतस्य, इदं तातस्य विशेषणम् । मे = मम, तातस्य = पितुः, अशस्त्रपाणेः=शस्त्रशून्यहस्तस्य, एतेन शस्त्रप्रहारस्य योग्यता नास्तीति सूचितम् । पलितमौलिनिरस्तकाशे = पलितैः शुक्लैः, मौलिभिः बद्धकेशैः निरस्तः तिरस्कृतः काशः स्वच्छतृणविशेषः येन तस्मिन्, शिरसि=मूर्द्धनि, शस्त्रम्, व्यापारितम्=प्रहारः कृतः । शस्त्रधारिणां राज्ञां समीपे त्यक्तशस्त्रस्य पितुरुपरि यत् प्रहारः कृतः तदनुचितम् । राज्ञो च रक्षणं समुचितम्, तदपि तेनं कृतमितिभावः । अत्र तृतीयचरणे आर्थोपमाऽलङ्कारः । वसन्ततिलका छन्दः ॥ प्रश्नोत्तरमाह-एवं किल जनः कथयतीति । दुरात्मना=दुष्टेन, धृष्टद्युम्नेन, तातस्य शिरः, परिमृष्टं = स्पृष्टं, किमभूत् , किमिति प्रश्ने । (क्रोध और कम्प के साथ कृप और सूत को देखकर) क्यों यह बात ? धनुर्धर नरेशों के देखते देखते जो आमरण अनशन व्रत के अनुरूप व्रतधारी, मेरे पिता थे, जिनके हाथ में कोई भी शस्त्र नहीं था, शिर पर, जिनके केश-पाश कुसुम के सदृश धवल थे, शस्त्र प्रहार किया है ॥ २१ ॥ कृप-पुत्र, लोग इस प्रकार कहते हैं । अश्वत्थामा-(सूत से) क्या पिता का शिर उस दुरात्मा के द्वारा पकड़ा गया था !
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १२१ सूतः—( सभयम् । ) कुमार, आसीदयं तस्य तेजोरार्शेर्देवस्य नवः परिभवावतारः । अश्वत्थामा—हा तात, हा पुत्रप्रिय, मम मन्दभागधेयस्य कृते शस्त्र- परित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथवा— परित्यक्ते देहे रणशिरसि शोकान्धमनसा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् । असंख्यातास्त्रौघद्रविणमदमत्तस्य च रिपो- र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ २२ ॥ परिभवावतारः = अनादरोत्पत्तिः । अन्वयः—शोकान्धमनसा, रणशिरसि, देहे, परित्यक्ते, श्वा, काकः, वा, द्रुपद- तनयः, वा, शिरः, परिमृशेत्, असंख्यातास्त्रौघद्रविणमदमत्तस्य, रिपोः, च, मम, एव शिरसि, अयम्, पादः, निहितः, तस्य करः, न ॥ २२ ॥ न तस्यानादरः कृतः किन्तु ममैवेत्याह—परित्यक्ते देहे रणशिरसीति । शोकान्धमनसा = शोकेन अन्धम् उद्विग्नं कृत्याकृत्यविवेकशून्यमित्यर्थः, मनः यस्य तेन रणशिरसि = प्रधानसंग्रामे, देहे, परित्यक्ते=परित्यक्तुमारेम्भे 'आदिकर्मणि' इति क्तप्रत्ययः । श्वा==कुक्कुरः, काकः = ध्वाङ्क्षः, वा, द्रुपदतनयः = धृष्टद्युम्नः वा, शिरः = मस्तकम्, परिमृशेत्, कोऽपि परिमृशत्वित्यर्थः । असंख्यातास्त्रौघद्रविणमद- मत्तस्य = असंख्यातः अगणितः अस्त्रौघः शस्त्रसमूहः स इव द्रविणं तज्जन्यो यो मदः तेन मत्तस्य, रिपोः = शत्रोः, च, ममैव, शिरसि अयं पादः=चरणः, निहितः=दत्तः, तस्य करः न । तस्य करो द्रोणस्य शिरसि न तेन निहितः किन्तु मम शिरसि तस्य सूत—( डरता हुआ ) कुमार, शौर्यराशि आपके पिता के तिरस्कार का सर्वप्रथम यह अवसर था । अश्वत्थामा—हा पिता, सुतवत्सल, मुझ हतभाग्य के निमित्त शस्त्रपरित्याग के कारण उस दुरात्मा द्वारा आप अपमानित हुए है ( सोचकर ) अथवा— शोक से सन्तप्तहृदय होकर समराङ्गण के बीच शरीर का परित्याग करने पर शिर को चाहे कुत्ता, कौवा अथवा द्रुपदपुत्र धृष्टद्युम्न स्पर्श करे । अगणित शस्त्रास्त्रराशि के धन से मदोन्मत्त शत्रु के मस्तक पर मेरा यह चरण बिना किसी बात के सोचे-विचारे रक्खा हुआ ही है अर्थात् पिता के शोकविह्वल हो जाने के कारण निश्शस्त्र दशा में वध कर देने पर चाहे शिर को जो छुए और द्रुपदपुत्र ने तो केवल हाथ से स्पर्श किया है किन्तु अब मैं असंख- य्य शस्त्रास्त्रों से सुसज्जित शत्रु के शिर पर पादप्रहार करके ही प्रतिशोध करूँगा ॥२२॥