विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
खमासीत्संकुलं तथा ॥ ८ ॥ किरीटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ॥ पात्यमानैः खमभवद्रश्मिपुञ्जविराजितम् ॥ ९ ॥ सुप्रविभक्तानि रुधिरार्त्ते महीतले ॥ लुठन्ति नागहस्तानि भोगिभोगनिभानि च ॥ १० ॥ अदृष्टा पतितानीह शिरांसि वसुधातले ॥ हत्वा वंशान्वभञ्जाशुगन्वे- षन्त इवासवः ॥ ११ ॥ शरीरैर्भूतलं प्राप्ता दिवं प्राप्ता शरीरिणः ॥ अन्तरिक्षं विनिहिता लोकत्रयजिगीषवः ॥ १२ ॥ छिन्ना राक्षसयूथौघा गलद्रुधिरवि- न्दवः ॥ न्यपतन्नुत्तरादेव श्येनेनोपहताशयात् ॥ १३ ॥ श्येनानां भ्रमतां तत्र राक्षसामिषलिप्सया ॥ बभूव सदृशं रूपं शीर्षाणां भ्रमतां तथा ॥ ॥ १४ ॥ निकृत्ताङ्गनिपातेन पतिता बहवस्तदा ॥ सुषुपुर्गां समालिङ्ग्य क्रव्यादा रुधिराखिलाः ॥ १५ ॥ निपतन्तमतातङ्कमसुरान्मुक्तशुभ्रभि- र्गता ॥ मुक्ताफलैरिवैहासोर्व्वी शूरालिङ्गननिर्वृता ॥ १६ ॥ हतकुञ्जरदन्ताग्रविभग्नाङ्गस्तुरङ्गमाः ॥ आसेदुः सुचिरेणोर्वी नभस्येव गतासवः ॥ १७ ॥ संप्राप्तरुधिरां भूमिं रक्तास्यास्तु निशाचराः ॥ ययुः शरीरनिहताः समरे रुधिरप्रियाः ॥ १८ ॥ वर्तमाने तथा भीमे युद्धे भीरुभयंकरे ॥ लोक- पालशराघातनिर्भिन्ना रजनीचराः ॥ १९ ॥ दुद्रुवुर्भयसंविग्नास्तदा राम दिशो दश ॥ विप्रद्रुतं बलं दृष्ट्वा राक्षसानां दिवौकसैः ॥ २० ॥ सुमालिमाल्यवद्दूतो माली देवानथाब्रवीत् ॥ किञ्चोदैर्धिकबलैस्तैस्तैः शिलाशितैः ॥ २१ ॥ शाङ्गेण रणे मुक्ता शरवृष्टिर्दुरासदा ॥ संछादयामास दिशः प्रदिशश्च दिवौकसाम् ॥ २२ ॥ यथाशक्तिशरव्रातान्वारयन्तोऽपि देवताः ॥ राक्षसेन्द्रशरैर्भिन्नाः केशवं शरणं ययुः ॥ २३ ॥ स निवार्य तदा सर्वं देवसैन्यं पत्रिणा ॥ प्रत्युद्ययौ स योधान्वपुषा सपतत्रिणा ॥ २४ ॥ एतस्मिन्नेव काले तु रक्षसां पीनवक्षसाम् ॥ विनिर्वृत्तं बलं सर्वममरैः समरोत्सुकम् ॥ २५ ॥ तद्वलं सकलं चक्रे शरैः शार्ङ्गप्रचोदितैः ॥ छादयामास समरे गोभिः सूर्यं इवानिशम् ॥ २६ ॥ नानाप्रहरणोद्गर्जन्तो गर्जमानो जनार्दनम् ॥ संछाद्य तदा चक्रुः सर्वैः प्रहरणोत्करैः ॥ २७ ॥ संछाद्यमानस्तैर्घोरैः केशवो रजनीचरैः ॥ जहार शीर्षाणि तदा तेषां सन्नतपर्वभिः ॥ २८ ॥ रथीन्द्रे धनुर्भज्य माली राक्षसपुङ्गवः ॥ सुपर्णं ताडयामास गदया भीमवेगया ॥ २९ ॥ गदाप्रहाराभिहतस्तार्क्ष्यः परपुरञ्जय ॥ पराङ्मुखो रणाच्चक्रे वेदनात जनार्दनम् ॥ ३० ॥ पराङ्मुखे तदा तार्क्ष्ये परिवृत्ताननो हरिः ॥ शीर्षं जहार चक्रेण राक्षसेन्द्रस्य मालिनः ॥ ३१ ॥ सकुण्डलं चारुकीरीटजुष्टं निशाचरेशस्य शिरः पृथिव्याम् ॥ निपातितं वीक्ष्य मुदान्वितास्ता नार्यो बभूवुस्त्रिदशोत्समानाम् ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शलूषं प्रति नाड्यनानुशासने मालिरक्षसवधवर्णनो नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥ ॥ अगस्त्य उवाच ॥ हते मालिनि
वि० ध० ॥१३८॥ प्र० खं० अ० २१८
देवेन सान्वितः पक्षिराडसौ ॥ जहार पक्षवातेन निवृतो रक्षसां बलम् ॥ १॥ ते तार्क्ष्यपक्षवातेन शुष्कपर्णचया यथा ॥ द्रुता गरुडशार्दूलस्त्रासा- द्राम दिशो दश ॥ २ ॥ अनिन्दमानास्ते शर्म वासुदेवभयार्दिताः ॥ पातालतलमासेदुः सर्व एव पृथक्पृथक् ॥ ३ ॥ त्रिदशान्त्सन्तर्पयित्वा च विष्णुर्विबुधेशपूजितः ॥ अन्तर्द्धानं ययौ तत्र सर्वैषामेव पश्यताम् ॥ ४ ॥ लङ्कापि शून्या राजेन्द्र दत्ता वैश्रवणाय सा ॥ स्वयं विश्वस्रजा रावणेन हता बलात् ॥ ५ ॥ विभीषणाय सा दत्ता त्वया हत्वा च रावणम् ॥ राम विष्णुः ससुतप्रस्त्वं वधार्थेह रक्षसाम् ॥ ६ ॥ त्वयैव युद्धे निहता ये तु मातुलसङ्कटाः ॥ पौलस्त्यराक्षसा ये तु ते हताः सम्प्रतं त्वया ॥ ७ ॥ हन्ता न विद्यते राम रक्षांसं केशवं विना ॥ दृष्टोऽस्मि भाषितश्चेति प्रययौ स यथागतम् ॥ ८ ॥ नाडायन उवाच ॥ एवमुक्ता ततोऽगस्त्यो यथागतामरिन्दम ॥ तस्मायुद्धं न मे राजन्यं वै तव रोचने ॥ ९ ॥ उत्साहशक्त्या सम्पन्नो मन्त्रशक्त्या च राघवः ॥ प्रभुशक्त्या तथा युक्तो देवशक्त्या तथैव च ॥ १० ॥ साधुसाद्ध्येपु कार्येषु कः कुर्याद्दिह्यं बुधः ॥ केवलं कोपमास्थाय विघ्ने नृपोपद्दम् ॥ ११ ॥ कामक्रोधौ जितौ येन तेनात्मा विजितस्तथा ॥ येनात्मा विजितस्तेन विजितेयं वसुन्धरा ॥ १२ ॥ राज्ञोऽविजितचित्तस्य पञ्चकजयः कुतः ॥ न चक्रस्य जयं कर्तुं शक्तोत्यविजितेन्द्रियः ॥ १३॥ नावज्ञा कस्यचित्कार्या बलो वा बहुमन्यते ॥ नित्यं लोके हि दृश्यन्ते शक्तित्रयः शक्तिमत्तराः ॥ १४ ॥ यथाशक्ति चिकीर्षन्ति चिकीर्षन्त यथाशक्ति च कुर्वते ॥ न कश्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ १५ ॥ द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषकौ ॥ यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १६ ॥ द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ॥ प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ १७ ॥ कः कुर्याद्दुर्बले क्रोधं स्वभावोद्वि निर्जिते ॥ बलवत्यपि कः क्रोधं कुर्यात्प्राणाहरं नरः ॥ १८ ॥ अपहारमृहत्तस्य कोपस्तेऽप्यञ्जिवोतोच्यते ॥ गस्मात्तस्माद्बुधैः कोपः कोपं कृत्वा विनिर्जितः ॥ १९ ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ॥ कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २० ॥ अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् ॥ उत्थानमात्मनश्चैव ततः कर्म समारभेत् ॥ २१ ॥ न राज्यं लब्धमित्येवं वर्तितव्यं च साम्प्रतम् ॥ श्रियं ह्यविनयो हन्ति जराहूपमिवोत्तमम् ॥ २२ ॥ त्यक्ता जनपदे वासं याहि राजन्द्हिमाचलम् ॥ अविभ्रष्टस्त्वं हत्वा गवणं लोकरावणम् ॥ लङ्कां त्यक्त्वा धनाध्यक्षं पश्य कैलासमाश्रितम् ॥ २३ ॥ स रावणो राघवसायकार्त्तस्त्यक्त्वा श्रियं भूमिपते विपन्नः ॥ धनाधिपोऽद्यापि विशाल- कीर्तिः करोति राज्यं क्षणदाचराणाम् ॥२४॥ इति श्रीविष्णु० प्रथ० मा० सं० राक्षसपातालप्रवेशवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः ॥२१८॥
॥ शैलूष उवाच ॥ ॥ कथं वैश्रवणे दत्ता पुरा लङ्का द्विजोत्तम ॥ कथं चापहृता तस्य रावणेन महात्मना ॥ १ ॥ चरितं रावणस्याहं श्रोतुमिच्छामि तत्त्वतः ॥ त्रैलोक्यं विजितं येन तपसा पौरुषेण च ॥ २ ॥ ॥ नाडायन उवाच ॥ ॥ ब्रह्मणो मानसः पुत्रः पुलस्त्यो विदितस्तथा ॥ तस्यासीद्विश्रवा नाम पुत्रस्त्रैलोक्यविश्रुतः ॥ ३ ॥ पौत्री बृहस्पतेः पत्नी भरद्वाजसुता शुभा ॥ बभूव तस्य राजेन्द्र नाम्ना वै देववर्णिनी ॥ ४ ॥ तस्यां स जनयामास पुत्रं वैश्रवणं प्रभुम् ॥ आराधितः सुतपसा प्रादात्तस्य पितामहः ॥ ५ ॥ यक्षेशत्वं धनेशत्वं लोकपालत्वमेव च ॥ पुष्पकं च तथा यानं कामगं कामरूपिणम् ॥ ६ ॥ पुत्रं लब्ध्वरं राजन्विश्रवा अभ्यभाषत ॥ त्रिकूटे पर्वतश्रेष्ठे निर्मिता विश्वकर्मणा ॥ ७ ॥ लङ्का नाम पुरी रम्या देवराजकृते पुरा ॥ हत्वा तां देवराजस्य सुकेशतनयैः पुरा ॥ ८ ॥ आयासिता महाराज तेषां ज्येष्ठं तु मालिनम् ॥ निपात्य वासुदेवेन ते तु विद्रावितास्ततः ॥ ९ ॥ पातालतलमाश्रित्य ते वसन्तीह निर्भयाः ॥ १० ॥ तां त्वं लङ्कां समासाद्य वस यक्षसमन्वितः ॥ धर्मेण पालयन्राज्यं सततं राक्षसेश्वर ॥ ११ ॥ धर्मे ते दीयतां बुद्धिः सर्वावस्थस्य सर्वदा ॥ धर्मार्थेश्च कामश्च धर्ममूलमिदं जगत् ॥ १२ ॥ श्रुत्वा पितुर्वाक्यमदीनसत्त्वो लङ्कां समासाद्य धनाधिनाथः ॥ धर्मेण लोकं स तु रक्षयानश्चकार राज्यं क्षणदाचराणाम् ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनानुशासने लङ्काकथायां वैश्रवणाख्यान- वर्णनो नामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ॥ २१९ ॥ ॥ नाडायन उवाच ॥ ॥ एतस्मिन्नेव काले तु सुमाली वसुधातलम् ॥ चचारा- दाय तनयां कैकसीं नाम नामतः ॥ १ ॥ चरन्स वसुधां स्फीतां ददर्शाय नराधिपम् ॥ पुष्पकं यानमारूढं श्रिया परमया युतम् ॥ २ ॥ तं दृष्ट्वा कैकसीं वाक्यं चोवाच रजनीचरः ॥ पुत्र प्रदानकालेस्ते न कश्चित्त्वां वृणोति माम् ॥ ३ ॥ अप्रार्थितप्रदानं च धर्षणामयशङ्कया ॥ न करोमि विशालाक्षि तवार्थे वरवर्णिनि ॥ ४ ॥ कष्टं कन्यापितृत्वं हि नराणां मानकाङ्क्षिणाम् ॥ ध्रुवं कन्यापितृत्वं हि शक्रस्यापि प्रधर्षणम् ॥ ५ ॥ मातुः कुलं पितृकुलं यत्र कन्या प्रदीयते ॥ कुलत्रयं संशयितं कन्यां कृत्वा हि तिष्ठति ॥ ६ ॥ तेनाहं त्वां न दास्यामि सा त्वं गच्छ स्वयं शुभे ॥ भर्तारं वरयस्वाद्य मुनिं विश्रवसं विभुम् ॥ ७ ॥ यतः सोऽयं धनाध्यक्षः श्रिया परमया युतः ॥ तादृशं तनयं तस्माज्जनयिष्यसि भामिनि ॥ ८ ॥ जगाम कैकसी राजंस्ततो विश्रवसं मुनिम् ॥ रौद्रे मुहूर्त्ते संप्राप्ते संध्यायां नृपसत्तम ॥ ९ ॥ साभिगम्य ततः पादौ तस्य विश्रवसो मुनेः ॥ बभूव पुरतस्तन्वी व्रीडमानेव लज्जया ॥ १० ॥ उवाच तां मुनिः प्रह्लां कैकसीं चारुहासिनीम् ॥
२४
विज्ञातस्त्वदभिप्रायो मयाद्य वरवर्णिनि ॥ ११ ॥ पुत्रार्थं त्वमनुप्राप्ता मत्समीपमनिन्दिते ॥ रौद्रे काले यथा प्राप्ता तादृशं जनयिष्यसि ॥ १२ ॥ एवमुक्त्वत्यथोत्थाय सा तत्रोवास सुखं तदा ॥ ततः कालेन सा पुत्रं जनयामास भामिनी ॥ १३ ॥ दशास्यं विश्रुतिसुतमेकदंष्ट्रं महाबलम् ॥ नाम तस्य पिता चक्रे दशग्रीवेति बुद्धिमान् ॥ १४ ॥ ततो द्वितीयं तनयं महाकायं सुषाव सा ॥ कुम्भकर्णेति तस्यापि नाम चक्रे तदा पिता ॥ १५ ॥ तत्र शूर्पणखां कन्यां जनयामास सा तदा ॥ ततः कदाचित्सा पुत्रं कैकसी ज्येष्ठमब्रवीत् ॥ १६ ॥ दर्शयन्ती धनाध्यक्षं सर्व्वदेव नमन्तप ॥ पश्य स्वीयाग्रजस्यास्य श्रियं भ्रातृर्दशानन ॥ १७ ॥ स त्वं यत्नमथास्थाय भव वैश्रवणोपमः ॥ एवमुक्तेस्तु गोकर्णे प्रययौ भ्रातृभिः सह ॥ १८ ॥ शीर्णपर्णाशनस्तत्र चकार सुमहत्तपः ॥ पूर्ण वर्षसहस्त्रे तु शिरश्छित्त्वा दशाननः ॥ १९ ॥ जुहावाग्नौ महाभाग एकैकं तपसा कृशः ॥ ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशशायिकः ॥ २० ॥ आर्द्रावासाश्च शिशिरे कुम्भकर्णोऽप्यतप्यत ॥ विभीषणस्ततः काले पदे षष्ठे फलाशनः ॥ २१ ॥ परिचर्य्यां तदा तेषां चक्रे शूर्पणखा स्वसा ॥ दशवर्षसहस्रान्ते तदा काले दशाननः ॥ २२ ॥ दशमं मस्तकं वह्नौ जुहुपति यदा प्रभो ॥ ततस्तं देशमागम्य ब्रह्मा वचनमब्रवीत् ॥ २३ ॥ ब्रह्मोवाच ॥ वरं वरय भद्रन्ते परितुष्टोऽस्मि पुत्रक ॥ तपसा ते सुतप्तेन सर्व्वेन विपुलेन च ॥ २४ ॥ ॥ नाडायन उवाच ॥ देवांदीनि स भूतानि कीर्तयामास राक्षसः ॥ सर्वाण्यवेवाविशेषेण वर्जयित्वा तु मानुषम् ॥ २५ ॥ संकीर्त्य तेभ्योऽभयत्वं वरयामास भूमिप ॥ त्रैलोक्यविषयञ्चैव चञ्च तस्य ददौ प्रभुः ॥ २६ ॥ छन्दयित्वा वरेणाथ दशग्रीवं निशाचरम् ॥ न्यस्त्व्वा सरस्वतीं वक्रे कुम्भकर्णं स राक्षस म् ॥ २७ ॥ वरेणच्छन्दयामास तदागत्य विभीषणम् ॥ स वव्रे नित्यकालं तु मतिं धर्मे सनातनीम् ॥२८॥ तेन तस्य तदा तुष्टस्त्वमरत्वं ददौ प्रभुः ॥ वरेणच्छन्दयित्वा तान्ब्रह्मा स्वभवनं गतः ॥ २९॥ लब्ध्वावरं च दशग्रीवं ज्ञात्वा रक्षोगणस्तदा ॥ पातालात्तु विनिष्क्रम्य महाराज्येऽभ्यषेचयत् ॥३०॥ स तु राज्यं तदा लब्ध्वा प्रेषयामास राक्षसान् ॥ कुवेराय तदा दूतं प्रहस्तं नाम नामतः ॥ ३१॥ राक्षसानांमधिवासो लङ्केयं निर्मिता पुरा ॥ तां त्यजस्व धनाध्यक्ष साम्प्रव मम मा चिरम्॥ ३२ ॥ प्रहस्तवनचं श्रुत्वा धना ध्यक्षो महामतिः ॥ दशग्रीवं वरोन्मत्तं ज्ञात्वा तत्याज तां पुरीम् ॥३३॥ कैलासं पर्वतं गत्वा तदा चक्रे पुरीं शुभाम् ॥ अलकां नाम राजेन्द्र यत्रास्ते स सुखी सदा ॥३४॥ दशग्रीवो महाराज त्रैलोक्यविजयं तथा ॥ चक्रे लङ्कामथासाद्य वरदानात्तपस्यभूः ॥३५ ॥मन्दोदरीं नाम भार्य्या तदा लेभे मयात्मजाम् ॥ तस्यां स जनयामास मेघनादं तथा सुतम् ॥ ३६॥ त्रिलोकेविजयी श्रीमान्देवब्राह्मणकण्टकः ॥ निहतः स तु कालेन विष्णुना
नररूपिणा ॥ ३७ ॥ राघवेण महाराज रामेणाक्लिष्टकर्मणा ॥ लङ्कां त्यक्त्वा धनाध्यक्षः कैलासे पर्वतोत्तमे ॥ ३८ ॥ अद्यापि पालयन्नास्ते राज्यं निहतकण्टकम् ॥ तस्मात्त्वमपि राजेन्द्र त्यक्त्वा देशमिमं स्वयम् ॥ हिमवन्तमथासाद्य वस वैश्रवणोपमः ॥३९॥ तस्मान्न कार्यं भरतेन वैरं महाबलाह्या रघवः प्रतीताः ॥ प्रसीद जीवन्तु सपुत्रपौत्राः पुत्रास्तवेमे तुहिनाद्रिसंस्थाः ॥४०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रावणवर प्राप्तिवर्णनो नाम त्रिंशत्युत्तरद्विशततमोऽध्यायः ॥२३०॥ शेलूष उवाच ॥ श्रोतुमिच्छाम्यहं तस्य दशग्रीवस्य रक्षसः ॥ त्रैलोक्यविजयं ब्रह्मंस्तत्र मे संशयो महान् ॥ १ ॥ नाडायन उवाच ॥ वरप्रदानात्सन्मत्तो दशग्रीवो निशाचरः ॥ देवगन्धर्वदैत्यानां नागेन्द्रोरगरक्षसाम्॥ २॥ आक्रम्याऽऽक्रम्य रत्नानि स जहार तदा बलात् ॥ पत्युश्च राजशार्दूल तदा दुहितरः शुभाः ॥ ३ ॥ नरेन्द्रान्धर्मसंस्थान्ब्राह्मणांश्च जिघांसति ॥ अयोध्यावासिनं वीरमनरण्यं च जघ्निवान् ॥ ४ ॥ संग्रामे निहतस्तेन दशग्रीवं स शप्तवान् ॥ उत्पत्स्यति कुले नीच पुरुषो मम वीर्यवान् ॥ ५ ॥ यस्तवोद्वासयिष्यति प्राणान्समरे समर्पयिष्ये ॥ युयुधे च तथा राजा मांधात्रा रणशालिना ॥ ६ ॥ तत्रैनं वारयामास नारदो मुनिसत्तमः ॥ मयूरस्य ततो यज्ञे भक्ष्यामास वै द्विजान् ॥ ७ ॥ इन्द्रो मयूररूपेण तस्माद्यज्ञादपाक्रमत् ॥ मयूरस्य वरं प्रादान्मेघे वर्षति सर्वदा ॥ ८ ॥ गमिष्यस्यतुलां प्रीतिं मम नेत्रगणाकृतिम् ॥ धारयिष्यसि लोकेऽस्मिन्कलापं सुमनोहरम् ॥ ९ ॥ कृकलासस्य रूपेण धनाध्यक्षोऽप्यपाक्रमत् ॥ वर्णं तस्य सुवर्णाभं सदृशं च तथा शिरः ॥ १० ॥ प्रादाद्धयमयेत्यात्मा राजराजेन दानव ॥ वरुणश्च तदा राजन्हंसरूपेण निर्गतः ॥ ११ ॥ हंसस्य च वरं प्रादात्तोये रतिमवाप्स्यसि ॥ वर्णञ्चन्द्रसदृशं श्यामो भविष्यसि तथैव च ॥ १२ ॥ यमो वायसरूपेण तस्माद्यज्ञादपाक्रमत् ॥ वायसस्य वरं प्रादान्मरणं विना वयात ॥ १३॥ युष्मद्धतेन चान्नेन घोरा मद्रूपये स्थिताः ॥ परां तृप्तिं गमिष्यन्ति तदा पुण्येन योज्यसे ॥ १४ ॥ वक्ष्यध्वं बलिदातॄणां दिग्देशगतचेतितैः ॥ शुभाशुभं मनुष्याणां तत्रातिथ्यं भविष्यति ॥ १५ ॥ वज्रतुण्डाश्च ये काका घोरा मद्रूपये स्थिताः ॥ बलिपिण्डोंश्च दातृणां भविष्यन्ति ततः शिवम् ॥ १६ ॥ मरुत्तयज्ञे विप्रासं जनयित्वा दिवौ कसाम् ॥ बभ्राम वसुधां राजा राक्षसानां प्रतापवान् ॥ १७ ॥ ददर्श स तदा कन्यां तपस्यन्तीं महत्तपः ॥ रूपेणाप्रतिमां लोके यौवने प्रथमे स्थिताम् ॥ १८ ॥ दशग्रीवः स पप्रच्छ तां कन्यां लोकसुन्दरीम् ॥ का त्वं किमर्थं सुश्रोणि चास्थिता यौवने तपः ॥ १९ ॥ श्रुत्वा तस्य तु
१ ‘मरुत्तस्य’ इति ख०।
वि० ध० ॥१४०॥
प्र० खं० अ० २२१
सा कन्या सत्यं वचनमब्रवीत् ॥ बृहस्पतिसुतो विद्वानिपता मम कुशध्वजः ॥२०॥ वेदाभ्यासप्रवृत्तस्य तस्याहं नृपान्वया ॥ सुतापरम समुत्पन्ना तत्पत्न्य। विदिता तथा ॥ २१ ॥ नाम्ना वेदवतीत्येवं ख्याता लोकेषु राक्षस ॥ विष्णोर्मयेयं दातव्या तत्त्वासीन्मे पितुर्मतिः ॥ २२ ॥ मयाचना निरस्तेन दैत्यनाथेन शम्भुना ॥ पिता मम हतो रात्रौ तमालिङ्ग्य विभावसुम् ॥ २३ ॥ प्रविष्टा जनयित्री मे यथाहं विधृता चिरम् ॥ स्वर्गस्थस्य पितुः कामं साहं सत्यमभीप्सती ॥ २४ ॥ आराधयामि तपसा पत्यर्थं मधुसूदनम् ॥ ततस्तामब्रवीद्रक्षो मा त्वं क्लेशे मतिं कृथाः ॥२५ ॥ भवस्व मे वरारोहे भार्या त्रैलोक्यसुन्दरी ॥ रूपस्य वयसश्चैव नानुरूपं तपस्तव ॥ २६ ॥ त्वां कृत्वापगतो मन्ये रूपं कृत्वा स विश्वकृत् ॥ न हि रूपोपमा त्वय्या तथास्ति सदृशी यतः ॥ २७ ॥ संपूर्णकान्तिमत्सौम्यं वदनं ते वरानने ॥ सकलङ्केन चन्द्रेण कथमोपम्यमर्हति ॥ ॥२८॥ भव भूषणजातानां भूषणं त्वं शुचिस्मिते ॥ वृणुष्व मां वरारोहे पतित्वे वरवर्णिनि ॥ २९ ॥ आक्रम्याक्रम्य लोकस्य प्रधाना या मया हताः ॥ स्त्रियः कुरुष्व सर्वासवां तासां स्वाम्यमनिन्दिते ॥३०॥ जटामालाजिनधरी त्वमेवं रतिवर्धिनी ॥ न जाने मण्डनं प्राप्य कथं भीरु भविष्यसि ॥ ३१ ॥ रूपेण वयसा लक्ष्म्या तथैव गुणसम्पदा ॥ विक्रमे मे वरारोहे न समो हि जनार्द्दनः ॥ ३२ ॥ जन्म तस्य न जानन्ति परेभ्यो ये परे जनाः ॥ तेन त्वमकुलीनेन किङ्करिष्यसि सुन्दरि ॥ ३३ ॥ अनिन्दं लोकमिच्छन्तो सुराणां हितकाम्यया ॥ हता येनानुवृत्तेन योषित्काव्या रणिः पुरा ॥ ३४ ॥ पुराणा ये जगत्स्यास्तिस्तेभ्यः पूर्वतराश्च ये ॥ तेभ्योऽप्यति पुराणं तं भर्त्तारं कथममिच्छसि ॥ ३५ ॥ ब्रह्मणो वरदानेन यस्त्ववध्यो दिवौकसाम् ॥ ते दैत्यनाथाः सबलाश्छद्मना तेन घातिताः ॥ ३६ ॥ तप्ततापनिदिष्टेन चेतसा रक्षसां श्रियम् ॥ यो बिभर्त्यपि तां तेन किं करिष्यति भामिनि ॥ ३७ ॥ वृद्धेभ्यो न श्रुतं तस्य त्वया रूपमनिन्दिते ॥ विदितं सर्वलोकानां विश्वरूपधरस्त्वसौ ॥ ३८ ॥ शेषाहिमोगपर्य्यङ्के तेन त्वं शयिता सह ॥ सविषेणोग्रनिश्र्वासैः परां शान्तिमुपैष्यसि ॥ ३९ ॥ कण्ठग्रहेण निहतो येन तौ मधुकैटभौ ॥ कथं कण्ठग्रहं तस्य समुपैष्यसि सुन्दरि ॥ ४० ॥ हिरण्यकशिपुश्चैवं नखैरुत्क्रान्तजीवितः ॥ कथं रत्यन्तरे तस्य नखवातं सहिष्यसि ॥ ४१ ॥ तस्माद्भावं समुत्सृज्य चारुगात्रि जनार्द्दनै ॥ भजस्व भजमानं मां चिरं प्रीतिमवाप्नुहि ॥ ४२ ॥ वेदवतुवाच ॥ गुणा एव सुरेशस्य दोषास्ते रजनीचर ॥ जगत्प्रकाशका भानोरूलूकस्येव रम्यः ॥ ४३ ॥ किं त्वया सह वादेन वर्णनीयः स मे प्रभुः ॥ यादृशास्तादृशो वापि पतित्वे रजनीचर ॥ ४४ ॥ इति वेदवतीवाक्यं श्रुत्वा कोपसमन्वितः ॥ कामेन राक्षसेन्द्रस्तां केशपाशे परामृशत् ॥ ४५ ॥ त्वया संधर्षिता पाप
॥१४०॥
प्रवेक्ष्यामि हुताशनम् ॥ अयोनिजा भविष्यामि वधार्थं च तथा तव ॥ ४६ ॥ एवमुक्त्वा चितां कृत्वा प्रविष्टा जातवेदसम् ॥ भूयः सीता समुत्पन्ना जनकस्य महात्मनः ॥ ४७ ॥ अयोनिजा महाभागा कर्षतो यज्ञमेदिनीम् ॥ भर्तारं तपसा विष्णुं रामं लब्धवती यथा ॥ ४८ ॥ यस्या अर्थे स रामेण दशग्रीवो हतो रणे ॥ लोकापवादभीतेन दशग्रीवगृहोषिता ॥ ४९ ॥ अतः पत्नी परित्यक्ता सीता भूमौ जनेश्वर ॥ वाल्मीकेराश्रमे सा तु प्रसूता दारकद्वयम् ॥ ५० ॥ कुशं लवं च विक्रान्तौ तयोः सर्वाः क्रियाः कृताः ॥ वाल्मीकिना महाभागो वेदमध्यापितौ यथा ॥ ५१ ॥ प्रकर्षं च धनुर्वेदे पारं नीतौ तु तौ शिशू ॥ वाल्मीकिना तथा कृत्वा रामस्य चरितं शुभम् ॥ ५२ ॥ अध्यापितौ विशालक्षौ दारकौ प्रियदर्शनौ ॥ अगायतां ततस्तौ तु रामयज्ञे कुमारकौ ॥ ५३ ॥ रामस्य चरितं कृत्स्नं रामस्य पुरतः स्थितौ ॥ तस्मात्कारुण्यात्तु विज्ञाय पुत्रौ तौ प्रियदर्शनौ ॥ ५४ ॥ यज्ञे तां च तथाभूतामानाययामास सत्वरः ॥ उवाच च वरारोहां प्रत्ययं कुरु मे शुभे ॥ ५५ ॥ रामस्य वचनं श्रुत्वा सीता वचनमब्रवीत् ॥ यथाहं राघवादन्यं मनसापि न कामये ॥ ५६ ॥ तेन सत्येन मे देवी विवरं संप्रयच्छतु ॥ एतस्मिन्नेव काले तु भुवं भित्त्वा समुत्थितम् ॥ ५७ ॥ धृतं सिंहासनं नागैस्तत्रेनामुपवेशयत् ॥ स्वयं वसुमती देवी पातालं सा ततो गता ॥ ५८ ॥ अविच्छिन्नेन पतता पुष्पवर्षेण पार्थिव ॥ तस्यां भूमिप्रविष्ठायां राघवं क्रोधसंतप्तम् ॥ ५९ ॥ सान्त्वयामास वै ब्रह्मा सर्वलोकनमसकृतः ॥ रामोऽपि कृत्वा सौवर्णी सीतां पत्नीं यशस्विनीम् ॥ ६० ॥ ईजे यज्ञैर्बहुविधैः सह भ्रातृभिरच्युतः ॥ नापदद्यं न विधवा न च व्यालकृतं भयम् ॥ ६१ ॥ न च व्याधिकृतं किञ्चिद्रामे राज्यं प्रशासति ॥ आजानुबाहुर्धर्मात्मा सिंहस्कन्धो नरेश्वरः ॥ ६२ ॥ पृथ्वीं ससागरां रामो धर्मेणान्वशिषत्तमुः ॥ देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥ ६३ ॥ यक्षाश्च भूतानि तथा किन्नराश्चैव राक्षसाः ॥ मानुष्याणां दर्शनं ते सौम्याः सन्तो ययुस्सदा ॥ ६४ ॥ यदर्थमेषा चरति गाथा लोके पुरातनी ॥ आजानुबाहुः सिंहास्यः कम्बुग्रीवो महाबलः ॥ ६५ ॥ सर्वभूतशरण्यश्च विष्णुर्मानुष्यतां गतः ॥ सत्यवाननृशंसश्च जातो भक्तजनप्रियः ॥ ६६ ॥ धृतियुक्तो दयाशीलो धर्मयुक्तो जितेन्द्रियः ॥ मितवागपि कार्येषु वक्ता वाचस्पतेः समः ॥ ६७ ॥ वीर्यवान् च वीर्येण महता तेन विस्मितः ॥ तेजसा भास्करसमः क्षमया पृथिवीसमः ॥ ६८ ॥ महेश्वरसमः क्रोधे नीतांबुशनसा समः ॥ एवं सर्वैषु भूतेषु गुणैर्दर्शरथिर्बभौ ॥ ६९ ॥ वर्णानामा श्रमाणां च न साङ्कर्यं नृपोत्तमे ॥ धर्मिष्ठाश्च जनाः सर्वे रामे राज्यं प्रशासति ॥ ७० ॥ निर्दस्युरभवल्लोको नानर्थः किञ्चिदस्पृशत् ॥ नाकालवर्षी पर्जन्यः सर्वसस्यधरा धरा ॥ जना
वि० ध० ॥१४१॥
प्र० सं० अ० २२२
तुरगश्च महात्मरस्य विदितात्मनः ॥७३॥ न ते क्षमं तेन नरेन्द्रचन्द्र वैरं महात्मा स तु लोकपूज्यः ॥ तस्यास्त्रवेगस्त्वयि रणे च वेगं सोढुं न शक्तास्त्रिदशाः सशक्राः ॥७४॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवचनं रावणस्य त्रैलोक्यविजयो नामैक विंशत्युत्तरद्विशततमोऽध्यायः ॥२२१॥ शैलूप उवाच ॥ वसिष्ठाद्विप्रवृधं संप्रैक्ष्य तदा वेदवतीं द्विज ॥ किं चकार महातेजा दशग्रीवः प्रतापवान् ॥१॥ नाडायन उवाच॥ जगाम स तदा लङ्कां पूज्यमानो निशाचरैः ॥ ततस्त्वं प्रेषयामास दूतं धनपतिः स्वयम् ॥ २ ॥ अकार्याद्विनिवर्तस्व सुरैस्ते वि नश्यते वधः ॥ दूतस्य वचनं श्रुत्वा दूतं हत्वा निशाचरः ॥३॥ गत्वा विजिग्ये धनदं विजहारऽस्य पुष्पकम् ॥ पुष्पेकेन विमानेन कैलासं स तदा ययौ ॥ ४ ॥ पुष्पकस्य गतिं रुद्धां तत्र वीक्ष्य निशाचरः ॥ ददर्श शैलशृङ्गस्थं नन्दिनं वानराकृतिम् ॥ ५ ॥ तं दृष्ट्वा मुमुचे हासं नन्दी तं शतवांस्ततः ॥ गिरावस्मिन्दशग्रीव स्वयं क्रीडति शङ्करः ॥६॥ विमानेन यदा तस्य समीपंमुपयास्यसि ॥ करोषि चावहास्यं मां तस्माच्छ्रुप्त्वा म्यहं तव ॥ ७ ॥ मद्वक्रसदृशा घोराः पुलस्त्य प्रजापतेः ॥ उत्पत्स्यन्ति कुले भीमाः क्षयार्थं वानरास्तव ॥ ८ ॥ श्रुत्वैवं नन्दिनो वाक्यं संकै लासं त्रिलोचनम् ॥ नेतुका मस्तदा लङ्कां भुजाञ्चिक्षेप पर्वते ॥ ९ ॥ पौलस्त्यभुजसंरुद्धकैकलासचलित्तासना ॥ जग्राह निर्भरं कण्ठे तदोमा त्रिपुरान्तकम् ॥ १० ॥ ततो गर्जनमहादेवो देवानां प्रवरो हरः ॥ पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ ११ ॥ रक्षसा तेन रोषाच्च भुजानां रुजया तथा ॥ मुक्तो विरावः सुमहास्त्रैलोक्यं येन रावितम् ॥ १२ ॥ मनिरे वज्रनिष्पेषं तस्यामात्या युगक्षयम् ॥ आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः ॥ १३ ॥ तेन शब्देन वित्रस्ता सुतरां पर्वतात्मजा ॥ हरस्यालिङ्गनं चक्रे भयोल्लेखाक्षणा भृशम् ॥ १४ ॥ अकुद्विग्नालिङ् नजां प्रीतिं प्राप्य तदा हरः ॥ मुक्त्वा चात्य सुजानन्नाह वाक्यं दशाननम् ॥ १५ ॥ प्रीतोऽस्मि तव वीर्येण शौण्डीर्येण दशानन ॥ यस्माद्राक्षसो रावस्त्वया मुक्तो भयङ्करः ॥ १६ ॥ तस्मात्तवं रावणो नाम भविष्यसि जगत्त्रये ॥ ततः प्रभृति राजेन्द्र रावणो लोकरावणः ॥ १७॥ शातकुम्भमयं लिङ्गं देवदेवस्य शूलिनः ॥ सम्पूजयति राजेन्द्र नित्यं श्रद्धासमन्वितः ॥१८॥ यत्रयत्र यथा याति तत्रतत्रात्य पार्थिव ॥ सौवर्णं तस्य देवस्य लिङ्गं तदनु नीयते ॥ १९ ॥ ततस्तु रावणो राजा ययौ संयमनीं पुरीम् ॥ युयुधे कालपाशेभ्यो यमँश्च सह मृत्युना ॥२०॥ जित्वा पितृगणैश्चैव मोक्षयित्वा च नारकान् ॥ यमेन युयुधे सार्धं क्रोधाद्वैवस्वतस्ततः ॥ २१ ॥ हन्तुमिच्छुन्महीपाल दुरास्तरंण निशाचरम् ॥ वारयामास तं ब्रह्मा वाक्यं चेदमुवाच ह ॥ २२ ॥ अमोघस्त्वव दण्डोयमवध्यश्चैव रावणः ॥ एकस्मिन्नपि निष्क्रान्ते भूयान्महदवग्रहम् ॥ २३ ॥
॥१४१॥
पितामहवचः श्रुत्वा देवस्सोऽन्तर्दधे ततः ॥ रावणः सह सैन्येन ययौ कैलासपर्वतम् ॥ २४ ॥ उवास शर्वरीं तत्र योद्धुकामो दिवालयैः ॥ स तु चन्द्रोदये रात्रौ भ्रातृपुत्रामभिसारिकाम् ॥ २५ ॥ ददर्श रम्भां राजन्तीं मेघस्येव शतह्रदाम् ॥ अकामां कामसंतप्तो विचवेद्य सुरभितम् ॥ २६ ॥ अद्यप्रभृति मूर्धा ते शतधा तु गमिष्यति ॥ प्रभातसमये गत्वा सुरसद्म स राक्षसः ॥ २७ ॥ मेघनादेन सहितः कुम्भकर्णेन रक्षसा ॥ देवानां कदनं चक्रे तथान्ये राक्षसोत्तमैः ॥ २८ ॥ तस्मिन्प्रभग्नमुखे घोरो सावित्रेण तदाऽनघ ॥ सुमाली निहतः संख्ये रावणस्यार्भको बलात् ॥ २९ ॥ अजेयान्नाक्षसाञ्ज्ञात्वा पुलोमा नाम दानवः ॥ जयन्तमिन्द्रतनयं दोर्ह्रदं स्वं रणाजिरात् ॥ ३० ॥ रक्षार्थमनयच्छीघ्रमानत्स्वगृहं वसुधातले ॥ अपश्यन्मातं पुत्रं स्वं शक्रं विह्वलेचेतसम् ॥ ३१ ॥ बबन्ध मेघनादस्तु ब्रह्मलब्धवरः शनैः ॥ अनयच्च तथा लङ्कां ततो देवः पितामहः ॥ ३२ ॥ गत्वा तं मोचयामास शक्रं त्रिभुवनेश्वरम् ॥ मेघनादस्य चास्त्राणि मायाश्च विविधास्तथा ॥ ॥ ३३ ॥ अमरत्वं तदा प्रादाद्वह्निकर्मान्तं विना ॥ नाम चक्रे तदा चास्य शक्रजित्वं भविष्यसि ॥ ३४ ॥ मेघनादं सान्त्वयित्वा मोचयित्वा शतक्रतुम् ॥ उवाच भगवान्ब्रह्मा देवं दशशतेक्षणम् ॥ ३५ ॥ गौतमस्य प्रिया भार्या मनसा निर्मिता मया ॥ रूपेणाप्रतिमा शक्र त्वया विध्वंसिता यदा ॥ ३६ ॥ तदा गौतमशापेन विफलतां गतः स्वयम् ॥ देवैः कृतस्त्वं सम्भूय शेषस्तम्भः पुरन्दर ॥ ३७ ॥ अहल्या च तदा शप्ता गौतमेन महात्मना ॥ अदृश्या सर्वभूतानां विचरिष्यसि दुःखिता ॥ ३८ ॥ परदाररतश्चासौ हे पापं समवाप्स्यति ॥ तेन शापेन संयोगा परदारैश्च वासव ॥ ३९ ॥ बन्धनं तत्त्वया प्राप्तं तस्य पापस्य कर्मणः ॥ फलोश्चिभुवनश्रेष्ठ समरेषु पराजयम् ॥ ४० ॥ तस्माद्धर्मेण धर्मज्ञ त्पालयस्व जगत्त्रयम् ॥ धर्मो धारयते लोकान्यतो धर्मस्ततो जयः ॥ ४१ ॥ गते स्वलोके भुवनप्रधाने पद्मोद्भवे दानववृत्रहन्ता ॥ त्रिविष्टपं प्राप्य शशास राज्यं महानुभावद्विशदाशिनाथः ॥ ४२ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वर्गविजयो नाम द्वात्रिंशत्युत्तरद्विशततमोऽध्यायः ॥ २२२ ॥ छ ॥
॥ शैलूष उवाच ॥ ॥ पातालविजयं तस्य रावणस्य महात्मनः ॥ श्रोतुमिच्छामि तत्त्वेन तत्र कौतूहलं हि मे ॥ १ ॥
॥ नाडायन उवाच ॥ ततः स गत्वा पातालं युयुधे दैत्यसत्तमैः ॥ कालकेयैर्महाभागैः कालकेयैश्च दारुणैः ॥ २ ॥ निवातकवचैश्च संवत्सरमतीन्द्रितः ॥ पतिं शूर्पणखायास्तु विद्युज्जिह्वं तु दानवम् ॥ ३ ॥ अजावक्वस्ततस्तत्र जघान रणगर्वितम् ॥ तत्रागम्य तदा
^१ अत्र खण्डितः पाठो लेखकप्रमादात्।
वि० ध० ॥१४२॥ प्र० खं० अ० २२१ ॥१४२॥
ब्रह्मा निवातकवचैः सह ॥ ४ ॥ चकार सख्यं सर्वात्मा दशग्रीवस्य रक्षसः ॥ ततस्तु युयुधे नागै र्गेरुडैर्वापिवाल्विभिः ॥ ५ ॥ वशी कृत्या ततो नगान्वरुणस्य पुरं ययौ ॥ ब्रह्मलोकगते राजन्वरुणे सुमहात्मनि ॥ ६ ॥ पुष्करः प्रददौ युद्धं रावणस्य दुरात्मनः ॥ वरुणस्य सुतः श्रीमाञ्जा- माता बलिनस्तथा ॥ ७ ॥ सोमपुत्र्या महाराज ज्योत्स्नाया यः स्वयं वृतः ॥ अर्थशात्रं विजानाति यः समग्रं महायशाः ॥ ८ ॥ अब्रवीन्मां समर्थं च तथा शास्त्राण्यनेकशः ॥ रूपदाक्षिण्यलावण्यचर्मचैः समन्वितै ॥ ९ ॥ बले शौर्ये तथा दाने तुल्यो यस्य न विद्यते ॥ भ्रातृभिर्भ्रातृ पुत्रैश्च सैन्येन महता यथा ॥ १० ॥ दत्वा युद्धं महाघोरं सान्त्वयामास राक्षसम् ॥ ततः स नगरं जित्वा वरुणं सुमहाबलम् ॥ ११ ॥ सैन्यै र्विश्ववसः पुत्रो मातुश्च पुनरागतः ॥ किष्किन्धां स ततो गत्वा पुरीं वानरपालिताम् ॥ १२ ॥ पप्रच्छ वानराँश्चैब क्वासौ वाली महाबलः ॥ तं जगाद महातेजा तारो गहनगोचरः ॥ १३ ॥ किं स्यात्ते वालिना कार्यं तन्ममाचक्ष्व पृच्छतः ॥ रावण उवाच ॥ युद्धातिथ्यमहं तस्मा- त्प्रार्थयामि बलीयुखात् ॥ १४ ॥ बलवाञ्छूयते राजा जिज्ञासा तस्य मे बले ॥ तार उवाच ॥ जिज्ञासितो यदा वाली त्वत्तोऽन्यैर्बलवत्तरैः ॥ १५ ॥ निहताः शतशस्तेन त्वत्तो वीर्यबलाधिकाः ॥ इदानीमेव निहतो दुन्दुभिस्तेन राक्षसः ॥ १६ ॥ प्रविश्य विवरं घोरं मायावी तेन घातितः ॥ बिले प्रविष्टस्य तदा राजन्संवत्सरसं गतम् ॥ १७ ॥ सुग्रीवेण तदा तस्य द्वारं पिहितमात्मना ॥ स तु संवत्सरस्यान्ते हत्वा मायाविनं रणे ॥ १८ ॥ ददर्श राजन्सुग्रीवं किष्किन्धायां तदाऽनुजम् ॥ स्वपत्न्या रमया सार्धं वालिपत्न्या च तारया ॥१९॥ क्रीडमानं यथा शक्रं क्रोधस्य वशमन्वगात् ॥ रुमां तारां तथा हत्वा तेन निर्वासितस्त्वसौ ॥ २० ॥ निर्वासिते तु सुग्रीवे पश्चात्ताप समन्वितः ॥ हन्तुकावस्तु सुग्रीवं वाली पर्यचरन्महीम् ॥२१॥ तदा वालिभयत्रस्तः सुग्रीवोऽपि पलायितः ॥ न स लेभे सदा त्राणं तदा सरमार राक्षसम् ॥ २२ ॥ मतङ्गशापं राजेन्द्र वालिनः स तथा स्वयम् ॥ हत्वा तु दुन्दुभिं वाली पादाङ्गुष्ठेन योजयत् ॥ २३ ॥ चिक्षेप राक्षसश्रेष्ठं मतङ्ग- स्याश्रमं प्रति ॥ मतङ्गस्याश्रमं दृष्ट्वा रुधिरेण समन्वितम् ॥ २४ ॥ शशाप वालिनं रोषात्तस्यास्मिन्मे महद्धने ॥ सद्यः प्रविष्टमात्रस्य जीवितं न भविष्यति ॥ २५ ॥ अगम्यं वालिनो ज्ञात्वा मतङ्गस्य महद्वनम् ॥ चतुर्भिः सचिवैः सार्धं सुग्रीवस्तमुपाश्रितः ॥ २६ ॥ नलेन राजशार्लेन तारेण च हनुमता ॥ हनूमन्सचिवस्तस्य देवानांमपि निर्भयः ॥ २७ ॥ जातमात्रस्तु यो बाल्ये वीक्ष्य सूर्यं त्वमाकुलतः ॥ भक्ष्यार्थी तस्य पार्श्वे स्थं राहुं दृष्ट्वा निशाचरम् ॥ २८ ॥ सूर्यमुत्सृज्य भक्ष्यार्थी तदा राहुं प्रदुद्रुवे ॥ राहुर्जगाम शरणं भयादिंद्रं च वासवम् ॥ २९ ॥ तत्याजु प्रय
द्यावेव स तु बालो महाबलः ॥ स ददर्श महाकायं तदा शक्रस्य दन्तिनम् ॥ ३० ॥ तं प्रद्रुद्राव भक्ष्यार्थी सशक्रं कुञ्जरोत्तमम् ॥ प्राहरत्त्वरया वज्रं ततस्तस्य सुराधिपः ॥ ३१ ॥ तस्य वज्रप्रहारेण वामो हनुरभज्यत ॥ हनुमानिति तेनास्य नाम चक्रे पितामहः ॥ ३२ ॥ क्रुद्धं च जगतां वायुं सान्त्वयित्वा पितामहः ॥ वरेण च्छन्दयामास हनुमन्तं महाबलम् ॥३३॥ सर्वैर्देवगणैः सार्धं लोकानां हितकाम्यया ॥ अजरामरतां तस्य अजेय- त्वं तथा रणे ॥३४॥ प्रददुदेवताः सर्वे बलं चाप्रतिमं तथा ॥ स्वयं भगवता तस्य सूर्येण सुमहात्मना ॥३५॥ .....विनायकं १ तु तुष्टाव ततः शम्भु- स्त्रिलोकेश्वरो ॥ पुराणां सङ्गमार्थाय अविघ्नेनेति मानद ॥ १ ॥ शङ्कर उवाच ॥ नमस्यामि महाबाहुं देवदेवं गणेश्वरम् ॥ हस्तिवक्त्रं महाकायं व्याघ्रचर्माम्बरच्छदम् ॥ २ ॥ चन्द्ररश्मिप्रतीकाशं चारुदन्तोज्ज्वलाननम् ॥ भक्तानां विघ्नशमनं सुराणं पार्वतीसुतम् ॥३॥ परश्वधधरं वीरमक्षमाला- विभूषितम् ॥ ब्रह्मण्यं वरदं सौम्यं विघ्नानां पतिमुज्जितम् ॥४॥ पीनास्यं लम्बजठरं हारभारापितोदरम् ॥ अष्टमी च चतुर्थी च वृता येन चतुर्दशी ॥५॥ कुल्माषोत्कोलिकामूपैर्मोदकैरोदनेन च ॥ पूजयन्ति जना लोके धूपमाल्यानुलेपनैः ॥ ६ ॥ स्वस्तिवाचनकैश्चैव तेषां नास्तीह दुर्लभम् ॥ पुत्रार्थी लभते पुत्रान्धनार्थी धनमुत्तमम् ॥ ७ ॥ व्याधितश्च तथारोग्यंबद्धो मुच्येत बन्धनात् ॥त्वां तु संपूजयित्वा वै वरदं कामरूपिणम् ॥ ८ ॥ इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ॥ यश्चाधीते स्तवमिमं तव नित्यं गणेश्वर ॥ ९ ॥ तस्यापि सर्वकामानां सदा दाता भविष्यसि ॥ नाडायन उवाच ॥ इत्येव संस्तुतः श्रीमाञ्शंकरेण विनायकः ॥ १० ॥ एकस्थानगतं चक्रे विना विघ्नं पुरत्रयम् ॥ एकस्थं त्रिपुरं विष्णुः शराग्रस्थो धनुश्च्युतः ॥ शंकरप्रेरितः शीघ्रं तदा चक्रे स भस्मसात् ॥ ११ ॥ पुरत्रये देववरेण तेन विनिर्मितेऽभूज्जगतां प्रहर्षः ॥ जग्मुस्तदा देवगणाः प्रहृष्टाः स्थानानि राजेन्द्र तथा स्वकानि ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये त्रिपुरदाहवर्णनो नाम पंचविंशत्युत्तराद्विशततमोऽध्यायः ॥ २२५ ॥ ॥ नाडायन उवाच ॥ ॥ तस्यैव देवदेवस्य शृणु कर्मेहमुत्तमम् ॥ आसीद्दैत्योन्धको नाम भिन्नाञ्जनचयोपमः ॥ १ ॥ तपसा महता युक्तस्त्ववध्यश्च दिवौकसाम् ॥ स कदाचिन्महादेवं पार्वत्या सहितं प्रभुम् ॥ २ ॥ क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे ॥ तस्य युद्धं तदा घोरमभवत्सह शंभुना ॥ ३ ॥ रुद्रबाणविनिर्भेदै रुधिरादन्धकस्य तु ॥ अंधकाश्च समुत्पन्ना शतशोथ सहस्रशः ॥ ४ ॥ तेषां च दह्यमानानां रुधिरादपरे पुनः ॥ ५ ॥ बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत् ॥ एवं मायाविनं
१ अत्र पाठो भ्रष्ट इति प्रतीयते ।
वि० धं० ॥१४३॥
प्र० खं० अ० २२६
दृष्ट्वा देवद्वदस्तत्रान्धकम ॥ ६ ॥ पानार्थमन्धकास्रस्य ससृजे मातरस्तथा ॥ माहेश्वरीं तथा ब्राह्मीं कौबेरीं चानलीं तथा ॥ ७ ॥ सौपर्णामथ वा- यव्यां शाक्तीं वै नैर्ऋतीं तथा ॥ सौरीं सौम्यं शिवां दूतीं चामुंडामथ वारुणीम् ॥ ८ ॥ वाराहीं नारसिंहीं च वैष्णवीं च ललत्तिकाम् ॥ शतानन्दां भगानन्दां पिच्छिलां भगमालिनीम् ॥ ९ ॥ बलामतिबलां रक्तां सुरभीं सुखपुण्डिकाम् ॥ मातुलन्दां सुनन्दां च विडालीं शकुनीं तथा ॥ १० ॥ रेवतीं च महारक्तां तथैव पिलिपिच्छिकाम् ॥ जगां च विजयां चैव जयन्तीं चापराजिताम् ॥ ११ ॥ कालीं चैव महाकालीं कालदूतीं तथैव च ॥ सुभगां दुर्भगां चैव करालीं दंष्ट्रीं तथा ॥ १२ ॥ अदितिश्च दितिश्चैव मालिनीं मृत्युमेव च ॥ कर्णमोटीं तथा धात्रीं उलूकीं च घटोदरीम् ॥ १३ ॥ कपालीं वज्रहस्तां च पिशाचीं राक्षसीं तथा ॥ मुरुण्डां शाङ्करीं चण्डां शिवां च कटकीं तथा ॥ १४ ॥ घंटां सुलोचनां धूम्रामेकवालीं कपालिनीम् ॥ विशालां दृष्टिकां श्यामां त्रिजटीं कुक्कुटूं तथा ॥ १५ ॥ विनायकीं च वैतालीमुन्मत्तां शुभनां तथा ॥ सिद्धिञ्च लेलिहानां च केकरां गर्दभीं तथा ॥ १६ ॥ तर्कटीं बहुपुत्रां च प्रेतयानां विटूपराम् ॥ क्रोधां सुखरूपां च विततां समयां द्रुमुम् ॥ १७ ॥ उषाटभां पिनाकां च ललितां चित्ररूपिणीम् ॥ स्वयाकारां वपट्स्वाहां धृतिं ज्येष्ठां कपर्द्दिनीम् ॥ १८ ॥ मायाविविचरूपां च कामरूपां वशंगमाम् ॥ स्वर्कबिलां सिञ्जिकां च महानासां महासुखाम् ॥ १९ ॥ कौमारीं रोचनां भीमां सदाहासां मदोद्धताम् ॥ आरक्ताक्षीं कालकर्णी भर्तृकर्णी महास्तनीम् ॥ २० ॥ कशिनीं शिखिनीं लम्ब्रां पिंगाक्षीं लोहितसुखाम् ॥ घण्टारवां च दंष्ट्रालों लोचनां काचजङ्गिकाम् ॥२१ ॥ गोकर्णिकां गोमुखिकां महाग्रीवां महामुखाम्॥उल्कामुखीं धूम्रशिखां कबन्धां परिकंपिताम् ॥ २२ ॥ मोहिनीं कुण्डिनीं त्वेडां निर्भयां बाहुशालिनीम् ॥ शूर्पकर्णीं तथैकाक्षीं विशोकां नन्दिनीं रुचम् ॥ २३ ॥ ज्वालामुखों खर्परां निकुम्भां रक्तकम्पनाम् ॥ आविकारां महाचित्रां चित्रसेनां मनोरमाम् ॥ २४ ॥ सुदर्शनां हरत्यापां मातङ्गीं लम्बमेखलाम् ॥ हुवालां बालकतण्रीं प्रमोदां लाङ्गलावतीम्॥२५॥ वित्तां वित्तां जडां कोणां शान्तिकां भसिताशनाम् ॥ लंबस्तनीं लंबघण्टां विसतां वामबुद्धिनीम् ॥२६॥ स्खलीतदीर्घकेशीं च सुलता सुन्दरी समा ॥ अधोमुखी कटुसुर्वा क्रोधनीं वधुवाशिनीं ॥ २७ ॥ विराविणी वत्सकृता मापाभाजनशालिनी ॥ कुट्टिमिका शुक्तिका च चण्डिका वलमोहिनी ॥ २८ ॥ मांसाच्याहासिनीं लम्बा गोविधाणं सभागधी ॥ एताश्चान्याः स देवेन्द्र ससृजे मातरस्तदा ॥ २९ ॥ अन्धकानां महाघोरं पुपुस्तद्रुधिरं तदा ॥ ततोन्चकाह्वजा सर्वाः परां तृप्तिमुपागताः ॥३०॥ तास्तु तृप्ताः सुसम्भूता भूय एवांधकात्मजा ॥ अदि
॥१४३॥
तोये महादेवः शूलमुद्गरपट्टिशैः ॥ ३१ ॥ ततः स शङ्करो देवस्तन्वन्चैक्यंव्याकुलीकृतः ॥ जगाम शरणं देवं वासुदेवमजं विभुम् ॥ ३२ ॥ ततस्तु भगवान्विष्णुः सृष्ट्वाच्छुष्करेवतीम् ॥ सा पपौ सत्वरं तेषामन्धकानामसृक्क्षणात् ॥ ३३ ॥ यथायथा च रुधिरं पिवत्यन्धकसम्भवम् ॥ तथा तथाऽधिकं देवी संशुष्यति जनाधिप ॥ ३४ ॥ पीयमाने तदा तेषामन्धकानां तयाऽसृजि ॥ अन्धकास्तु क्षयं नीताः सर्वे ते त्रिपुरा- रिणा ॥ ३५ ॥ मूलात्कञ्चं^१ तु विक्रम्य तदा सर्वत्र लोककृत् ॥ चकार वेणाच्छूलेन तदा तुष्टाव शङ्करम् ॥ ३६ ॥ अन्धकः सुमहावीर्यः तस्य तुष्टोऽभवद्भवः ॥ सामीप्यं प्रददौ नित्यं गणेशत्वं तथैव च ॥ ३७ ॥ ततो मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ भगवन् भक्षयिष्यामः सर्व्वा- सुरमानुषम् ॥ ३८ ॥ त्वत्प्रसादाज्जगत्सर्वं तद्नुज्ञातुमर्हसि ॥ शङ्कर उवाच ॥ भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ॥ ३९ ॥ तस्मा- द्धोरादभिप्राय़ान्मनः शीघ्रं निवर्त्यताम् ॥ नाडायन उवाच ॥ इत्येवं शङ्करेणोक्ते त्वनाहत्य वचस्तु ताः ॥ ४० ॥ क्षोभयामासुराव्याप्त्यैस्त्रैलोक्यं सचराचरम् ॥ त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणैर्नृपैः ॥ ४१ ॥ तुष्टिसंस्तुतिं देवं च प्रहृष्ट्यो भगवान्छिवः ॥ अनादिनिधनं देवं सर्वलोक- भवोद्भवम् ॥ ४२ ॥ दैत्येन्द्रवक्षोरुधिरप्रोक्षिताङ्गरुहानखम् ॥ विद्युज्जिह्वं महादंष्ट्रं स्फुटकेसरसङ्कटम् ॥ ४३ ॥ कल्पान्तामारुताक्षुब्धस्तनयित्नुसम- महास्वनम् ॥ ४४ ॥ वज्रायतितीक्ष्णनखरमाकर्णोदारिताननम् ॥ ४४ ॥ मेरुकल्पोग्रतीक्ष्णाग्रशुद्धदंष्ट्रार्कसंस्मणम् ॥ हिमाद्रिशिखरकारं चारुदंष्ट्रोज्ज्वला- ननम् ॥ ४५ ॥ खविनिस्सृतरोमाभिं ज्वालाकेसरमालिनम् ॥ बद्धोद्रङ्गं सुमुकुटं चारुकेयूरभूषणम् ॥ ४६ ॥ श्रोणीसूत्रेण महता काञ्चनेन विराजितम् ॥ नीलोत्पलदलश्यामं वासोयुगविभूषितम् ॥ ४७ ॥ तेजसाक्रान्तसकलं ब्रह्माण्डान्तमण्डपम् ॥ सादराभ्राम्यमाणानां हुतहव्य- घणार्चिषाम् ॥ ४८ ॥ आवर्तैः सहस्राकारैः संयुक्तं देहलोमजैः ॥ सर्वपुण्यविचित्रां च धारयन्तं महालयम् ॥ ४९ ॥ स ध्यातमात्रो भगवा- न्प्रददौ तस्य दर्शनम् ॥ यादृशेनैव रूपेण ध्यातो रुद्रेण भक्तितः ॥ ५० ॥ तादृशेनैव रूपेण दुर्निरीक्ष्येण देवतैः ॥ प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ ५१ ॥ शङ्कर उवाच ॥ नमस्तेस्तु जगन्नाथ नरसिंहवपुर्धर ॥ दैत्यनाथास्थिसंपूर्णं नखशुक्तिविराजित ॥ ५२ ॥ तडित्कषणसल्लेहमग्निपिङ्गलविग्रह ॥ मेरोः सपद्मरागस्य शोभां धत्से जगद्गुरो ॥ ५३ ॥ कल्पान्ताम्भोदनिर्घोष सूर्य्यकोटिसमप्रभ ॥ सहस्रयम- संक्रोध सहस्रेन्द्रपराक्रम ॥ ५४ ॥ सहस्रवदनस्फीत सहस्रचरणात्मक ॥ सहस्रकालचरित सहस्रनियतैन्द्रिय ॥ ५५ ॥ मरुत्प्रमथिनिसिंर्ह्य
^१ 'मूलांकम्' इति ख०।
वि० ध० ॥१४४॥ पृ० खं० अ० २२६ ॥१४४॥
सहस्रानन्तमूर्तिंमत् ॥ सहस्रचन्द्रप्रतिमं सहस्रहारिगविक्रमम् ॥ ५६ ॥ सहस्ररुद्रतेजस्कं सहस्रब्रह्मसंस्तुतम् ॥ सहस्रवायुवेगोग्रं सहस्रज्योतिरिप्पणाम्¹॥५७॥ सहस्रधन्वमथनं सहस्राबाधमोचनम् ॥ अन्यकस्य विनाशाय सृष्टा या मातरो मया ॥ ५८ ॥ अनादृत्य तु मद्राक्यं भक्षयंत्यश्च ताः प्रजाः ॥ कृत्वा ताश्च न शक्तोऽहं संहन्तुमपराजिताः ॥५९॥ स्वयं कृत्वा कथं तासां विनाशमपि रोचये ॥ नाडायन उवाच ॥ एवमुक्तः स रुद्रेण नारसिंहं वपुर्धरः ॥ ६० ॥ ससर्ज देवीं जिह्वातः तदा वागीश्वरीं हरिः ॥ हृदयाच्च तथा मायां गुह्याच्च भगमालिनीम् ॥ ६१ ॥ अस्थिभ्यश्च तथा कालीं सृष्टा पूर्वं महात्मना ॥ यया तद्रुधिरं पीतमन्त्यकानां महात्मनाम् ॥ ६२ ॥ या त्वस्मिन्कथिता लोके नामतः शुष्ककावती ॥ द्वात्रिंशन्मातरः सृष्टा गात्रेभ्यश्चक्रिणा ततः ॥ ६३ ॥ तासां नामानि वक्ष्यामि तानि मे गदतः शृणु ॥ सर्वविच्छ्या महाभागा घण्टकर्णी तथैव च ॥ ६४॥ त्रैलोक्य मोहिनी पुण्या सर्वसत्त्ववशङ्करी ॥ तथा च चक्रहृदया पश्चिमा व्योमचारिणी ॥६५॥ शंखिनी लेखिनी चैव कालसङ्घर्षिणी तथा ॥ इति द्व्यष्टकं राजन्र्वागीश्वर्यनुचरं स्मृतम् ॥ ६६ ॥ अजिता सूक्ष्महृदया वृद्धावाशाश्मदर्शना ॥ नृसिंह्यैव चिद्या च्छिन्ना गरुत्पक्षहृदानन्या ॥ ६७ ॥ भगमालिन्य ऽनुचरा इत्यष्टौ नृप मातरः ॥ आकर्षिणी च भारुंडी तथैवातस्तरमालिका ॥ ६८ ॥ ज्वालामुखी भीषणिका कामधेनुश्च वालिका ॥ तथा पद्मक्रा राजेन्द्रेत्यनुचराः स्मृताः ॥ ६९ ॥ अष्टौ महाबलाः सर्वा देवगात्रसमुद्भवाः ॥ ७० ॥ त्रैलोक्यसृष्टिसंहारसमर्थाः सर्वदेवताः ॥ ७० ॥ ताः सृष्टमात्रा देवेन क्रुद्धा मातृगणस्य तु ॥ प्रधाविता महाराज क्रोधविस्फूर्जितेक्षणाः ॥ ७१ ॥ अविपक्वाहृतं तासां दृष्ट्वा तेजः सुदारुणम् ॥ भयेन शरणं प्राप्ता देवेशं पूर्वमातरः ॥ ७२ ॥ शरणार्थमनुप्राप्ता नृसिंहो वाक्यमब्रवीत् ॥ नृसिंह उवाच ॥ यथा मनुष्याः पशवः पालयन्ति वराननाः ॥ ७३ ॥ यजन्ति तैश्च पशुभिः तथा वै देवतागणान् ॥ भवत्यश्च तथा लोकान्पालयन्तु मयोरिताः ॥७४ ॥ मनुजैश्च तथा देवं यजध्वं त्रिपुरान्तकम् ॥ ये च मां संस्मरींतेह ते रच्यया सदा नराः ॥७५॥ बलिकर्म करिष्यन्ति युष्माकं ये सदा नराः ॥ सर्वकामप्रदास्तेषां भविष्यथ तथैव च ॥७६॥ तत्साधनादिकं ये च करिष्यन्ति हरिरतम् ॥ ते च रक्ष्या सदा लोके गदितव्यं च शासनम् ॥७७॥ रौद्रां चैव परां मूर्तिं महादेवः प्रदास्यति॥ युष्मभ्यं समयासाधं तेन सार्धं वत्स्यथ ॥७८॥ मया मातृगणः सृष्टो योयं विगतसाध्वसः ॥ एष नित्यं विशालाक्ष्यो मयैव सह रंस्यति ॥७९॥मया सार्धं तथा पूजां वीरेभ्यश्च लप्स्यसि ॥ पृथक् च पूजितो लोके सर्वान्कामानवाप्स्यति ॥ ८० ॥ शुष्कां संपूजयिष्यन्ति ये तु पुत्रार्थिनो जनाः॥
¹ 'सहस्रौहिरोपणं' इति ख० ।
तेषां पुत्रप्रदा देवी भविष्यति न संशयः॥८१॥नाडायन उवाच॥एतावदुक्त्वा भगवान्सह मातृगणेन च ॥ ज्वालामालाकुरुवपुस्तत्रैवांतरधीयत ॥८२॥ समातृवर्गोपि हरस्य मूर्तिं सदा यजंस्तिष्ठति तत्समीपे ॥ देवेश्वरस्यापि नृसिंहमूर्त्तः पूजां विधत्ते त्रिपुरान्तकारी ॥ ८३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये अन्धकजयवर्णनो नाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२६ ॥ ॥ छ ॥
॥ शैलूष उवाच ॥ मातृदोषप्रशमनन्महेश्वरमुखोद्गतम् ॥ प्रयोगाञ्छ्रोतुमिच्छामि वदत्तस्ते द्विजोत्तम ॥ १ ॥
नाडायन उवाच ॥ चोचम् उवचा कुष्ठं बह्मभूतजटे शुभे ॥ कालमञ्जा हरिद्रे द्वे यवचूर्णाविमिश्रितम्॥२॥ उद्वर्त्तनमिदं प्रोक्तं मातृदोषविनाशनम् ॥ अरिष्टारिष्टपत्राणि तालजोत्क्थयोस्तथा ॥ ३ ॥ शिशिपामलकीबिल्वकपित्थ्यानां तथैव च ॥ बहुकारत्वचं पूर्वा तथैव च पुनर्नवाम् ॥ ४ ॥ भार्ङ्गीकाथमिदं स्नानं मातृदोषविनाशनम् ॥ अरिष्टकं तथा बिल्वं पद्माक्षं फलिनीफलम् ॥ ५ ॥ वचा कुष्ठं च मुस्तञ्च वालकं रजनीद्वयम् ॥ चन्दनं कुंकुमं चैव नागदानं च रोचना ॥ ६ ॥ एतानि सर्वाण्याहृत्य पूर्णकुम्भे विनिक्षिपेत् ॥ स्नानमेतत्प्रयोक्तव्यं मातृदोषविनाशनम् ॥ ७ ॥ कुसुमैः पञ्चवर्णैस्तु धूपनीयां सजेत्तथा ॥ कुंकुमागुरुकर्पूरचन्दनैश्च मनोरमैः ॥ ८ ॥ दीपैर्भक्ष्यैस्तथा क्षीरैः कुल्माषोपोलिकागुडैः ॥ पायसंमधुसर्पिर्भिः पललोनेदनेन च ॥॥९॥ बलिः सुविहितो राजनम्मातृदोषविनाशनम् ॥ दूर्वाप्रवालमञ्जिष्ठानगरं नागकेशरम् ॥१०॥ रोचनाकुंकुमं चैव चन्दनं च तथा वचा ॥ विलेपनमिदं श्रेष्ठं मातृदोषविनाशनम् ॥ ११ ॥ गजाश्वकपिवाराहनाभानि च घृतं तथा ॥ श्रेष्ठोऽयं कथितो धूपो मातृदोषविनाशनः ॥ १२ ॥ सिद्धं घृतं चाथ पञ्चगव्यं पुराणमश्नन्ति हि ये नरेन्द्र ॥ तेषां भयं नैव हि मातृजातं भाव्यं कदाचिद्दहसंभवं वा ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मातृबाधाप्रतिषेधो नाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥
॥ नाडायन उवाच ॥ तस्य देवादिदेवस्य प्रभावमपरं शृणु ॥ कथ्यमानं मया राजन्सर्वकल्मषनाशनम् ॥ १ ॥ शङ्करः पार्वती चैव स्पर्द्धमानौ परस्परम् ॥ चक्रतुर्मथुनं राजन्साग्रं वर्षशतं किला ॥ २ ॥ तयोर्न्यन्तरस्यासीद्दृढा नैव पराजयः ॥ ततस्तु देवता विग्नाः परस्परमथाब्रुवन् ॥ ३ ॥ अत्रोत्पत्स्यति यो गर्भस्त्रैलोक्यं सचराचरम् ॥ तेजसा मोहितं तस्य भविष्यति न संशयः ॥ ४ ॥ तस्मात्त्वमत्र प्रविश देवदेव हुताशन ॥ एवमुक्तस्तदा वह्निः प्रविवेश सुरोत्तमम् ॥ ५ ॥ तं दृष्ट्वा संभ्रमाद्देव समुत्तस्थौ त्रिलोचनः ॥ तेजोभिः क्षुभितं तत्र वह्नेरासम्यथाविशत् ॥६॥ शशाप पार्वती देवीं भार्यासु स्वासु देवताः ॥ नैवावाप्स्यथ पुत्रान्बै मत्क्रोधकलुषीकृताः ॥ ७ ॥ हुताशनोपि शर्वस्य दह्यमानो हि तेजसा ॥ तत्याज गर्भं गङ्गायां सापि कालेन केनचित् ॥ ८ ॥ तत्याज
वि० ध० ॥१४६॥ प्र० खं० अ० २३०
पर्वते श्वेते गर्भं वह्निसमप्रभम् ॥ तेन जातेन संवृत्तं सौवर्णं श्वेतपर्वतम् ॥ ९ ॥ सुवर्णरेतसस्तस्य शंकरस्य तु तेजसा ॥ ददृशुः कृत्तिका बालं संत्यक्तं तत्र गङ्गया ॥ १० ॥ स्तनानि प्रदुदुस्तस्य कृपया राजसत्तम ॥ षडाननस्तदा भूत्वा षण्णामेव स्तनं पपौ ॥ ११ ॥ तासां क्षीरेण धर्मात्मा विवृद्धश्चारुतेजसा ॥ कृत्तिकानां वरं प्रादाद्यद्वक्ष्यामि ते नृप ॥ १२ ॥ नाडायन उवाच ॥ यदा चन्द्रसमायोगं गमि- ष्यथ शुभासनाः ॥ तदा पूजां करिष्यन्ति भवतीनां तु ये नराः ॥ १३ ॥ वस्त्रैश्चद्मसैश्चैव वरुणस्य तथा मम ॥ गन्धमाल्यैः स्तथा पुष्पैर्धूपदीपैस्तथैव च ॥ १४ ॥ गन्धोदकेन पुण्येन लजामिश्रेणुना सह ॥ अपूपैः परमान्नेन दशा गव्येन चाप्यथ ॥ १५ ॥ कुल्माषैः सफलैर्हृद्यैर्मोदकैः पानकैस्तथा ॥ प्राप्स्यन्त्यभिमतान्कामानिह लोके परत्र च ॥ १६ ॥ नकाशनस्तथा भूत्वा युष्मत्पूजापरायणः ॥ क्रीडित्वा सुचिरं नाके मानुष्ये तु भविष्यति ॥ १७ ॥ रूपान्वितः सत्यपरो दयावान्धर्मे स्थितः सम्बहुभृत्ययुक्तः ॥ कुलेन शीलेन समन्वितश्च नारीविशेषैराप्तसुभगो भविन्त्री ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कृत्तिकापूजाविधिनिर्माणोर्नामद्वाविंशत्युत्तरोदिशतत- मोऽध्यायः ॥ २२८ ॥ ॥ नाडायन उवाच ॥ ततस्तु प्रययौ गङ्गा कुमारे पुत्र पावकिः ॥ मया त्वं जनितः पुत्र तमुवाच सुरेश्वरम् ॥ १ ॥ असहन्त्या महातेजस्त्वद्वीर्यं पर्वतोत्तमे ॥ मया स्कन्द परित्यक्तं तदा गर्भगतं मम ॥ २ ॥ तस्यास्तद्वचनं श्रुत्वा पावकिर्वाक्यमब्रवीत् ॥ ॥ स्कन्द उवाच ॥ नाहं गृहं ते यास्यामि शम्भुर्मे दैवतं पिता ॥ ३ ॥ अनुग्रहं करिष्यामि तवाहं सुरनिम्नगे ॥ वैशाखमासशुक्लस्य तृतीयायां वरानने ॥ ४ ॥ मातृव्यमवतीर्णासि तदा पूजामवाप्स्यसि ॥ तस्मिन्नहनि यः स्नानमाचारिष्यति ते शुभे ॥ ५ ॥ राजसूयाश्वमेधाभ्यां फलेन स तु योक्ष्यति ॥ तस्मिन्नहनि यः पूजां यत्र तत्र व्यवस्थितः ॥ ६॥ गन्धमाल्यापहारैश्चधूपदीपांन्नसंपदा ॥ कर्ता तव महाभागे त्वत्तोयस्नानजं फलम् ॥ ७ ॥ ध्रुवमाप्स्यति धर्मज्ञ नात्र कार्या विचारणा ॥ तस्मिन्नहनि यत्किञ्चित्प्रदास्यच्छ्रद्धयान्वितः ॥ ८ ॥ अक्षयं तत्फलं तस्य भवि- ष्यति न संशयः ॥ अक्षया सा तिथिर्ज्ञेया कृत्तिकामिर्युता यदि ॥ ९ ॥ भविष्यति महाभागे विशेषेण फलप्रदा ॥ १० ॥ तस्मिन्दिने ये तव चारुगात्रि पूजां करिष्यन्ति तथोदितां प्राक् ॥ ते नाकलोके सुचिरं निरुध्य लोकानगमिष्यन्ति जलाधिपस्य ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवचने अक्षयतृतीयामाहात्म्यं नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥ नाडायन उवाच ॥ ततस्तु जातककर्माद्याः क्रियास्तस्य महात्मनः ॥ विश्वामित्रस्तु कृतवान्मङ्गळानि तथैव च ॥ १ ॥ एतस्मिन्नेव काले तु
॥१४६॥
देवनाथाय वज्रिणे ॥ श्वेतजातमुदीक्ष्यः कुमारं दीप्ततेजसम् ॥ २ ॥ निधनाय मतिं चक्रे तदा तस्य पुरन्दरः ॥ देवैः पितृभिर्यक्षैः प्रभूर्दानवराक्षसैः ॥ ३ ॥ भूतनागपिशाचैश्च पितृगन्धर्वमातृभिः ॥ संमन्त्र्य निधने तस्य सृष्टवान्स महाग्रहान् ॥ ४ ॥ देवेन्द्रग्रहनाञ्चोत्पत्तिः तदानवरक्षासान् ॥ ५ ॥ यक्षगन्धर्वनागानां नृणां च पिशिताशिनाम् ॥ ६ ॥ ते ग्रहा बहुसाहस्रा नानारूपप्रणोद्यताः ॥ अभिजग्मुः श्वेतगिरिं कुमा- रबधकाम्यया ॥ ६ ॥ ते ग्रहा बहुसाहस्रा ग्रहांश्च शतशः शिवः ॥ स्कंदो ग्रहान्स्वे ससृजे पूर्वग्रहनिवारणान् ॥ ७ ॥ महाबलन्महावीर्यान्नका- मगांन्कामरूपिणः ॥ अनेकशतसाहस्रान्नानावेशान्मनोजवान् ॥ ८ ॥ तेषां प्रधानन्वक्ष्यामि तन्मे निगदतः शृणु ॥ स्कंदो विशाखश्च तथा नैगमेयस्तथैव च ॥ भीमो भीमकरः क्रूरो नितः क्रोश एव च ॥ ९ ॥ क्रव्यादोथ हविर्बुद्धिः कोटिसुङ्गिरिकः पृथुः ॥ कालश्चायुप कालश्च सिद्धार्थः पुष्पकस्तथा ॥ १० ॥ पुष्पमित्रः कोकिलकः सिद्धो लंबोदरस्तथा ॥ खल्वः कपोतो लम्बौष्ठः तथा नायास एव च ॥ ११ ॥ षद्षण्डो गृध्रनासाश्च गृध्रवृत्तुक एव च ॥ भुङ्ककः कालकालश्च कालस्तपुसरूपस्तथा ॥ १२ ॥ विद्युद्दन्तोऽथ संवर्तो वर्तश्वावर्त एव च ॥ शितिकण्ठः कपर्दी च कच्छपः परिकण्टकः ॥ १३ ॥ परिप्रकाशो मत्लश्च मातङ्कवसनस्तथा ॥ गदराशः पिशाचश्च वीरनाशी वलीमुखः ॥ १४ ॥ महाधूतश्च नन्दश्च सोमानन्दः प्रमोद्कः ॥ आनन्दोव्यवसायश्च निश्चयोऽथ पराक्रमः ॥ १५ ॥ जयश्च विजयश्चैव सञ्जयः कल्प एव च ॥ पुष्पदन्तो दन्तवक्त्रो हेमुण्डिभीषणस्तथा ॥ १६ ॥ वसुभूतिर्वसुभ्रातो जीवकस्तापसस्तथा ॥ वीरबाहुः सुबाहुश्च सुन्दरो गण्ड एव च ॥ १७ ॥ तुण्डा विवेला गोदन्तः कलशः कलशोचरः ॥ शीर्षग्राही ललाटस्थो ग्रीवाभ्रामरतो ग्रहः ॥ १८ ॥ परिलेषकजात्यन्धौ करालः कुञ्जनामनौ ॥ अन्यद्युकः सतताग्नेतीयेकचतुर्थकौ ॥ १९ ॥ व्योरोचको नेत्ररोगः कासश्वासाऽनंगस्तथा ॥ धूतपापः पापहितः पापावाचरस्तथैव च ॥ २० ॥ काण्डो धनञ्जयश्चैव शठो नैकृतिकस्तथा ॥ वसुधाता वसुमना गौरः शोथो गलग्रहः ॥ २१ ॥ अभ्रश्च चित्तोमहश्च तथा कार्यविघातकः ॥ सर्वकार्यकरश्चैव जृम्भकश्चार्यकस्तथा ॥ २२ ॥ एते चान्ये च बलिनः कामरूपा विहङ्गमाः ॥ त्रैलोक्यसृष्टिसंहारसमर्था विविधागुधाः ॥ २३ ॥ नानारूपधरा वीरा नानाविधविलाससः ॥ प्रादुद्दुवन्ग्रहान्धोरान्वृषदेवेर्भिसर्जितान् ॥ २४ ॥ अविषाङ्कतमार्त्मानो ग्रहाः स्कन्दग्रहास्तथा ॥ स्कन्दं देववरं सर्वं तदा शरणमागताः ॥२५॥ तांस्तु वै शरणं प्राप्तान्स्कन्दो वचनमब्रवीत् ॥ स्कंद उवाच ॥ शरणं वै प्रपन्नानां वरं दास्यामहं ग्रहाः ॥२६॥
१ 'श्वेते जातमथात्युग्रः' इति ख० । २ 'धमोदरस्तथा' इति ख० । ३ 'विभुलातो' इति ख० । ४ 'कामशासनाः' इति ख० ।
वि० ध० ॥१४६॥
प्र० खं० अ० २३१
वरयध्वं यथा कामं पूज्या मे शरणांर्थिनः ॥ ग्रहा ऊचुः ॥ भगवन्भक्षयिष्यामस्त्वत्प्रसादेन मानुषान् ॥२७॥ एतद्धर्मभोक्तं नः सर्वेषां दीप्तिकृद्बह ॥ स्कंद उवाच ॥दुराचारांस्तथा लोके गन्धमाल्यानुलेपने ॥२८॥ तेषां शरीरे रत्यर्थं वसध्वं नात्र संशयः॥ ये भक्तोह्यम्बके देवे तथा देवे जनार्दने॥२९॥ आस्तिकाञ्छुद्धांश्च वर्जयध्वं प्रयत्नतः ॥ कराथर्माप सङ्गृह्य त्यस्ता कर्मार्णदिभिः क्रमैः ॥ ३० ॥ त्यक्ष्वं पुरुषाञ्शीघ्रं मम विज्ञाय शासनम् ॥ नाडायन उवाच ॥ एवमुक्ता ग्रहाः सर्वे स्वाम्ये चक्रुस्तदा शिशुम् ॥ ३१ ॥ कुमारं शर्वतनयं महाबलपराक्रमम् ॥ स्कन्देनैव यथोक्तं तु स्कन्द- स्कन्दुहृष्टास्तदा ॥ ३२ ॥ समेत्य सर्वे वचनमिदमुचुर्नराधिप ॥ अस्माकमपि देवेश प्रसादं कर्तुमर्हसि ॥ ३३ ॥ एवमुक्तोऽथ धर्मात्मा ग्रहा- न्स्कन्दस्त्वभाषत ॥ यावत्षोडशवर्षाणि मानवानां भवन्त्युत ॥ ३४ ॥ तावद्भवन्तो बाधन्तु मनुष्याणां तथा प्रजाः ॥ तत्रापि बलिकामैर्धः क्षेमं तेषां करिष्यथ ॥ ततः पूर्वं ग्रहाणां तु पूज्या लोके भविष्यथ ॥ ३५ ॥ एतावदुक्त्वा भगवान्कुमारो ददौ ग्रहाणामपरं शरीरम् ॥ देहान्स्रक्त्वा प्रायक उम्रसत्त्वो लोकस्य रक्षार्थमतीव हृष्टः ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्ये त्रिंश- दुत्तराद्विशततमोऽध्यायः ॥ २३० ॥ ॥ शैलूप उवाच ॥ ॥ नृणां ग्रहगृहीतानां लक्षणं कथयाशु मे ॥ प्रतिपंचं धर्मज्ञ तत्र मे संशयो महान् ॥ ॥ १ ॥ ॥ नाडायन उवाच ॥ ॥ देवाविपितृभूतानां सततं चावमाननात् ॥ गुरुवृद्धद्विजाचार्यसिद्धापत्तासमर्दनात् ॥ २ ॥ बलिमंगलहोमा- दिनियमाचारवर्जनात् ॥ व्रताध्ययनधर्मादिस्रानशौचव्यतिक्रमात् ॥ ३ ॥ गुडामिषतिलक्षौद्रमद्येच्छोच्छिष्टतस्य वा ॥ श्मशानायतनाम्यासवि- ण्मूत्रोत्सर्जनादपि ॥ ४ ॥ रात्रौ चतुष्पधारथ्यशून्येचशनिवेशनात् ॥ भोजनाद्भिद्रभाण्डेषु तथा मंत्रच्छलादपि ॥ ५ ॥ श्मशानचैत्यवृक्षादि- मैथुनादिनिषेवणात ॥ अवमानादभितानान्मङ्गलानामदर्शनात् ॥ ६ ॥ इष्टैय्या बन्धुशापश्च रथ्यास्वन्कस्यसंस्वनात ॥ ऐश्वर्यनाशाच्छोकाच्च दर्पोत्सेकातिहर्षणात ॥ ७ ॥ निर्लज्जानास्तिकानां हि त्रासितानां विशेषतः ॥ गुरुभिः समर्प्यमाणाकर्तृन्च्यात्सातुनिन्दनात् ॥ ८ ॥ दुःख्वा त्यजननात्स्त्रीणां मिथ्या चैव प्रमाषणात ॥ तुषकेशकपालास्थिकपासादिप्रविष्ठितात् ॥ ९ ॥ प्राणिनां सुखदुःखेषु तथा मृतकसूतिके ॥ अन्य र्थनक्तानेषु ग्रहा गृह्णन्ति मानवान् ॥ १० ॥ बालैश्चविंसंयोगाद्देहमाविशति ग्रहः ॥ जीवः कुक्षि यथा दृश्यः प्रविशन्नेव दृश्यते ॥ ११ ॥ वन- स्पतीन्वा ऋतवो विज्ञयाश्च तथा ग्रहाः ॥ कारणैर्नाविर्भेदां ग्रहो गृह्णाति देहिनाम् ॥१२॥ रौद्रस्वभावाद्धिंसार्थी रत्यर्थी बलिकामुकः ॥ विप्रा- सार्थी बलोद्धङ्गाद्रागाद्वैहिकराद्धयात् ॥ १३ ॥ प्रयुक्तोऽन्येन मन्त्रैश्च ग्रहो गृह्णाति मानवान् ॥ कारणानि त्ववोक्तानि यद्यप्येतानि पार्थि
व ॥ १४ ॥ तथापि अत्र एवान्न विज्ञेयानि विपश्चिता ॥ तेषामन्तर्भवन्त्येते यस्मात्पार्थिवसत्तम ॥ १५ ॥ बलिकामस्तु रत्यर्थी हिंसार्थी च तथा ग्रहः ॥ असाध्यं बलिकामं तु कृच्छ्रसाध्यं रतिग्रहम् ॥ १६ ॥ हन्तुकाममसाध्यन्तु विना मन्त्रबलं महत् ॥ सांत्वपूर्वं ग्रहो विद्यान्मधुरं यः प्रजायते ॥ १७ ॥ ततश्चान्तसमासाद्य विचित्रं याचते बलिम् ॥ पानमाल्यानुलेपांश्च वैद्यं दृष्ट्वा नमस्यति ॥ १८ ॥ बलिकामस्य लिङ्गानि प्रोक्तान्येतानि वै मया ॥ रमते नृत्यति शुचिस्तथा हसति गायति ॥ १९ ॥ गंधमाल्याम्बरस्नानधूपदानेनरञ्जकः ॥ कथा विचित्राः कुरुते मधुरं सम्प्रभाषते ॥ २० ॥ अलंकृतं चाविशति वर्जयत्यनलंकृतम् ॥ रतिकामस्य रूपाणि ज्ञेयान्येतानि बुद्धिना ॥ २१ ॥ यश्चाविष्टो विदधति सिंहव्याघ्रतरक्षुपम् ॥ युद्धमारभते कर्तुं गजादिभिरभीतवत ॥ २२ ॥ भृशं ताडयति स्वाङ्गं पतत्यग्नौ पतङ्गवत ॥ राजेन्दुपाणि कुरुते विजने रमतेऽधिकम् ॥ २३ ॥ करोति मरणोपायान्हन्तुं कामादितो नरः ॥ लोमहर्षो ऽक्ष्मांद्यं च छायावैकृत्यमेव च ॥ २४ ॥ अमानुषोत्साहबलं विहाराहारचेष्टितम् ॥ द्वौ वा त्रयो वा नेत्रेऽस्य संपश्यन्ते कुमारकाः ॥ २५ ॥ निमीलिताक्षितात्यर्थं रक्ताक्षित्वमं तथा ॥ सामान्यमेतदुद्दिष्टं गृहीतस्य तु लक्षणम् ॥ २६ ॥ मुक्तस्य लक्षणं चातः प्रवक्ष्यामि निबोधत ॥ भूमौ विनिपतत्याशु तथा संज्ञां प्रपद्यते ॥ २७ ॥ परामृशति केशांश्च वासांस्याभरणानि च ॥ शुभाशुभं चात्मकायं पृच्छतिस्म सुहृज्जनम् ॥ २८ ॥ अतः परं प्रवक्ष्यामि देवादिसंग्रहलक्षणम् ॥ चिकित्सितेन संयुक्तं तन्निबोध जनाधिप ॥ २९ ॥ नदीकूलाद्रिशिखररुचिः प्रासादमेव च ॥ शुचिशील समाचारो ज्ञेयो देवग्रहार्दितः ॥ ३० ॥ देवानां पूजनं तस्य पुष्पधूपफलक्षतैः ॥ गन्धदीपप्रदानैश्च वह्निसन्तर्पणेनतथा ॥ ३१ ॥ गौरसैश्च स शाल्यन्नैर्ब्राह्मणैः स्वस्तिवाचनैः ॥ कर्त्तव्यं विदुषा नित्यं ततः संपद्यते सुखी ॥ ३२ ॥ उच्छिष्ट्यान्मक्षवारान्निवरसं कुरुतेऽधिकम् ॥ तस्मिंस्त थोत्सवान्ख्यान्ब्रतानध्ययनानि च ॥ ३३ ॥ बहुशो वटुचाश्नाति वस्त्रं पाटयति स्वकम् ॥ असुरग्रहदृष्टस्य रूपमेतद्दिनार्द्धेशेत ॥ ३४ ॥ दैत्यसंग्पूजनं तस्य कार्यं मांससुरासवैः ॥ रक्तैः पुष्पैर्धूपदीपेस्तथा बीजसमुद्भवैः ॥ ३५ ॥ गन्धर्वबाधानिर्वोपं श्रुत्वा दृष्टः प्रनृत्यति ॥ तीर्थो द्याननदीतीरगन्धमाल्यादिसेवनात ॥ ३६ ॥ यथाकामं विचरति गन्धर्वाप्यादितो नरः ॥ गन्धर्मोल्यैश्च विविधैर्गीतवाद्यैस्तथैव च ॥ ३७ ॥ गन्धर्वपूजनं कार्यं तेन संपद्यते सुखी ॥ निद्राक्षुरलसो दुष्टो दुर्वीवाक्कुरुते करो ॥ ३८ ॥ गर्भवासगृहासेवी नरोगन्धर्त्त विदुबुधाः ॥ नागानां पूजनं तस्य कार्यं कुल्माषपूप्टैः ॥ ३९ ॥ पायसोल्लोपिकापूपैः पद्मोत्पलबिसैस्तथा ॥ अमत्सरी मृदुर्वीरः प्रियवाग्बहुभोजनः ॥ ४० ॥ पृथुविह्वलता
वि० ध० प्र० सं० अ० २३२
प्राशः तथा वै गोरसप्रियः ॥ भूतोन्मादसमाविद्धो लिङ्गैरैतैर्विनिर्दिशेत् ॥ ४१ ॥ कुसुमंढूंढूवाणैश्च गौरसर्षपविद्यैस्तथा ॥ भूतपूजा तु कर्तव्या तेन सम्पद्यते सुखी ॥ ४२ ॥ शून्यागारश्मशानादिचतुष्पथनिषेवकः ॥ रात्रौ चरति योऽच्छिद्रः पिशाचोन्मादितो नरः ॥ ४३ ॥ पिशाचयजनं तस्य कर्त्तव्यं फलसामिषैः ॥ कण्टकासम्भवेः पुष्पैः कृष्णवर्णैस्तथैव च ॥ ४४ ॥ अव्यक्तभाषी रूक्षाक्षो हास्ये चोच्चस्वरस्तथा ॥ रौद्रं निरीक्षतेऽन्तर्य्यं यक्षेनोन्मादितो नरः ॥४५॥ कुल्माषपूपपिण्याकपलोलौल्लिकागुडैः ॥ यक्षाणां पूजनं तस्य कर्त्तव्यं दोषशान्तये ॥ ४६ ॥ उद्विग्नचेताः शीतंश्च नातिशोकपरायणः ॥ राक्षसेन गृहीतश्च भवत्योष्ठावलेहकः ॥ ४७ ॥ पक्वामिषेण मांसेन रुधिरेण तथैव च ॥ राक्षसानां बलिः कार्यस्तस्य दोषप्रशान्तये ॥ ४८ ॥ भस्मपांसुरजोवस्तो मलिनो मलिनाम्बरः ॥ प्रेतगृहीतो भवति विकृतो ध्वस्तमस्तकः ॥ ४९ ॥ ओदनं मधुपानीयं सर्पिः क्षीरसमन्वितम् ॥ ५० ॥ प्रेतानां तत्र दातव्यं तेन संपद्यते सुखी ॥ शुचिः शुचिसमाचारः सन्ध्याचारी तिलप्रियः ॥ ५१ ॥ पितृगृहहीतस्य रूपमेतद्विनिर्दिशेत् ॥ तिलोगरसपुष्पाम्रमुद्गमूलफलैः शुभैः ॥ ५२ ॥ दीपैदानेस्तथा नित्यं प्रणिपातेन चाज्ञया ॥ पितृणां पूजनं तस्य कर्त्तव्यं दोषशान्तये ॥ ५३ ॥ अधीते जपते चैव शुचिस्तिष्ठाति चाप्यथ ॥ योगासक्तस्तथाषैण गृहीतो मानवो भवेत् ॥ ५४ ॥ हविर्गोरसपुष्पाद्यैस्तथाऽध्ययनसस्तवैः ॥ ऋषीणां पूजनं कार्यं तस्य दोषप्रशान्तये ॥ ५५ ॥ कर्मप्रसक्तो भवति न निद्रां भजते दिवा ॥ पौरुषेण गृहीतस्य लक्षणं समुदाहृतम् ॥ ५६ ॥ ब्राह्मणान्भोजयेत्तत्र मिष्टमन्नं सुसंस्कृतम् ॥ गन्धमाल्यान्व्जोलाराजंस्तस्य दोषप्रशान्तये ॥ ५७ ॥ स्कन्दग्रहगृहीतानां बालानां शृणु लक्षणम् ॥ रोदिति स्तनति ध्याति भूमौ स्वपिति चासकृत ॥ ५८ ॥ असम्बद्धमलपी वा ज्ञेयः स्कन्दग्रहोर्हतः ॥ रक्तैः पुष्पैः फलैर्मूलैः बालैर्काडनकैरूत्तथा ॥ ५९ ॥ घण्टा च कुक्कुटैः पूजा बलिना विविधेन च ॥ पताकाभिश्च कर्तव्या कुमारस्य महात्मनः ॥ ६० ॥ अतः परं लोकहितं तवाद्य सर्वग्रहव्याप्तिगुणप्रयोगान् ॥ वक्ष्यामि येषां हि निषेवणेन महर्षिसंयुन्ति नरा नरेन्द्रान् ॥ ६१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहूपं प्रति नाडायन वाक्ये ग्रहलिङ्गानि नामैकत्रिंशदुत्तराद्विशततमोऽध्यायः ॥ २३१ ॥ ॥ नाडायन उवाच ॥ अभ्यङ्गोत्सादनं स्नानं धूपो रक्षावलिर्धृतम् ॥ नेत्रा ञ्जनं प्रवचनं नवग्रहहराः क्रियाः ॥ १ ॥ सर्पगन्धा वचा कुष्ठमुस्ताक्षैपणचन्दनैः ॥ तक्ष्णैर्मूत्रैर्वचचेस्तैलं सर्वग्रहपहम् ॥ २ ॥ विल्वमयं बहुदन्तं गवाक्षीबृहतीफलम् ॥ उत्सादनमिदं श्रेष्ठं सूक्ष्मपिष्टं जलेन तु ॥ ३ ॥ उशीरंकुङ्कुमश्चिद्दारुमनःशिलाः ॥ श्रीवृक्षस्तथा कौन्ती हरितालैल
॥१४७॥ ॥१४७॥