विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
तव ब्रवीमि ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः ॥३९॥
सावित्र्युवाच ॥ सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः ॥ त्वमेव जगतां नाथः प्रजासंयमने यमः ॥ १ ॥ कर्मणामानुरूप्येण यस्मान्नयसि प्रजाः ॥ तस्मात्त्वमुच्यसे देव यम इत्येव नामतः ॥ २ ॥ धर्मेणोभाः प्रजाः सर्वा यथा रञ्जयसे प्रभो ॥ तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते ॥ ३ ॥ सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः ॥ त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे ॥ ४ ॥ सर्वेषामथ भूतानां यस्मादन्तकरो भवान् ॥ तस्मात्त्वमन्तकः प्रोक्तः सर्वदेवमहाद्युते ॥ ५ ॥ विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः ॥ तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे ॥ ६ ॥ कालं कलां च कलयन्सर्वेषां त्वं हि तिष्ठसि ॥ तस्मात्कालेति ते नाम प्रोच्यते तत्त्वदर्शिभिः ॥ ७ ॥ आयुष्ये कर्मणि क्षीणे गृह्णासि प्रथमं जनम् ॥ तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरिति वै ॥ ८ ॥ तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः ॥ तव प्रसादाद्देवेश सङ्करे नैव जायते ॥ ९ ॥ सतां सदा गतिर्देव त्वमेव परिकीर्तितः ॥ जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ॥ १० ॥ पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ॥ पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ ११ ॥
यम उवाच ॥ स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान् ॥ तव भर्ता विमुक्तोऽद्य लब्धकामा व्रजाबले ॥ १२ ॥ राज्यं कृत्वा त्वया सार्धं वत्सराशीतिमष्टकम् ॥ नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते ॥ १३ ॥ स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम् ॥ कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥ १४ ॥
पुष्कर उवाच ॥ एतावदुक्त्वा भगवान्यमस्तु विसृज्य तं राजसुतं महात्मा ॥ अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सावित्र्युपाख्याने चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥
पुष्कर उवाच ॥ सावित्री च ततः साध्वी जगाम वरवर्णिनी ॥ यथायथागतेनैव यत्रासौ सत्यवान्स्थितः ॥ १ ॥ सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ॥ कृत्वा विवशा तन्वङ्गी लम्बमाने दिवाकरे ॥ २ ॥ सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैःशनैः ॥ उन्मीलयति ते नेत्रे प्रस्पन्दत च भार्गव ॥ ३ ॥ ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ॥ क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ॥ ४ ॥ जानामि न वराङ्गेऽहं कश्चासौ पुरुषः शुभे ॥ वनेऽस्मिंश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ॥ ५ ॥ उपवासपरिक्लान्ता कर्शिता भवती मया ॥ अस्माद्गृहेऽद्य पितरौ दुःखितौ तथा ॥ ६ ॥ द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ॥
सावित्र्युवाच ॥ आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ॥ ७ ॥ आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ॥ यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ॥ ८ ॥
पुष्कर उवाच ॥ एतावदुक्त्वा भर्तारं
वि० ध० द्वि० खं० अ० ४२ ॥२०२॥
सह भर्त्रा ययौ तदा ॥ आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ॥ ९ ॥ एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ॥ द्युमत्सेनः सभार्य्यस्तु पर्यतप्यत भार्गव ॥ १० ॥ सावित्र्यापि वरारोहा सह सत्यवता तदा ॥ ववन्दे तत्र राजानं सभार्य्यं भृगुनन्दन ॥ ११ ॥ परिष्वक्तस्तदा पित्रा सत्यवाञ्- जनन्दनः ॥ अभिवाद्य ततः सर्वान्वने तस्मिंस्तपोधनान् ॥ १२ ॥ उवास तां तदा रात्रिम्ऋषिभिः सह धर्मवित् ॥ सावित्र्यपि जगादाथ यथा- वृत्तमनिन्दिता ॥ १३ ॥ व्रतं समापयामास तस्यामेव तदा निशि ॥ ततस्तु राम राज्यन्ते शाल्वेभ्यस्तस्य भूपतेः ॥ १४ ॥ आजगाम जनः सर्वोराज्यार्थाय निमन्त्रणे ॥ आज्ञापयामास तदा तथा प्रकृतिशासनम् ॥ १५ ॥ विच्छन्नस्ते नृप ते येन राज्यं पुरा हतम् ॥ अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ॥ १६ ॥ एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ॥ लेभे च सकलं राज्यं धर्मराजो महात्मनः ॥ १७ ॥ भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ॥ एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ १८ ॥ उज्जहार वरारोहा भर्तृपक्षं तथैव च ॥ मोचयामास भर्त्तारं मृत्युपाशवशीकृतम् ॥ १९ ॥ तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ॥ तासां राम प्रसादेन ध्रियते वै जगत्त्रयम् ॥ २० ॥ तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ॥ तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ॥ गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ॥ १ ॥ गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ॥ शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ॥ २ ॥ तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ॥ ३ ॥ गवां मूत्रपुरीषेषु ह्यवगाहं न सन्त्यजेत् ॥ गोजः परं पुण्यमलक्ष्मीविघ्ननाशनम् ॥ ४ ॥ गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥ तासां श्रृङ्गोदकैश्चैव जाह्नवीजलसन्निभम् ॥ ५ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश् च रोचनम् ॥ षडङ्गम् तन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ॥ ६ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥ ७ ॥ गवां मेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम् ॥ रोचना च तथा धन्या रक्षोरोगगदापहा ॥ ८ ॥ यस्तु कल्ये समुत्थाय सुलभाज्यं निरीक्षते ॥ तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ॥ ९ ॥ गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ॥ यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ॥ १० ॥ धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ॥ दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ॥ ११ ॥ नर्कं समवाप्नोति नात्र कार्या विचारणा ॥
॥२०२॥
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ॥ १२ ॥ शैशिरं सकलं कालं ग्रासं परगवे तथा ॥ दत्त्वा स्वर्गमवाप्नोति संवत्सराशतानि षट् ॥ १३ ॥ अभ्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ॥ मासषट्केन लभते नाकलोकं समायुतम् ॥ १४ ॥ सायं प्रातर्मुखोप्यान्नाशनं देवर्निर्मितम् ॥ तत्रैवमशनं दत्त्वा गवां नित्यमत्तन्द्रितः ॥ १५ ॥ द्वितीयं यः समश्नाति तेन संवत्सरेश्वरः ॥ गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ॥ १६ ॥ गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ॥ वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ॥ परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ॥ १७ ॥ गवां प्रचारभूमिं तु वाहयित्वा हलादिना ॥ नरकं महदाप्नोति यावद्विप्रश्चतुर्दश ॥ १८ ॥ गवां पानमवृत्तानां यस्तु विघ्नं समाचरेत् ॥ ब्रह्महत्या कृता तेन घोरा भवति भार्गव ॥ सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ॥ १९ ॥ गामुद्धृत्य नरः स्वर्गे कल्पभोगात्पशूयते ॥ गवां चवसदानेन रूपवानभिजायते ॥ २० ॥ सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ॥ औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ॥ ॥ २१ ॥ औषधं लवणं तोयमाहारं च प्रयच्छतः ॥ विपत्तौ पातके नास्य भवत्युद्धन्यनादिकम् ॥ २२ ॥ वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ॥ तत्रापि तन्निंयुक्तश्च कश्चिदन्यो न चेद्भवेत् ॥ २३ ॥ तासां चेद्विरुद्धानां चरन्तीनां मिथो वने ॥ यासुत्पत्य वृको हन्यात्पालस्तत्र किल्बिषी ॥ २४ ॥ संरुद्धासु तथैवासु वृकः पाले त्वनायति ॥ यासुत्पत्य वृको हन्यात्पाले तत्किल्विषं भवेत् ॥ २५ ॥ गोवधेन नरो याति नरकानेकविंशतिम् ॥ तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ॥ २६ ॥ विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ॥ तासां च कीर्तनादेव नरः पापाद्विमुच्यते ॥ २७ ॥ तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ॥ दानेन च तथा तासां कुलान्युपि समुद्धरेत् ॥ २८ ॥ उदक्या सूतिकां दोषो नैव तत्र गृहे भवेत् ॥ भूमिदोषास्तथान्योऽपि यत्रैका वसते तु गौः ॥ २९ ॥ गवां निश्वासवातेन परा शान्तिर्गृहे भवेत् ॥ नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ॥ ३० ॥ गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ३१ ॥ एकरात्रोपवासं च श्वपाकमपि शोधयेत् ॥ पृथक्त्वप्रत्ययाभ्यास्तमतिसन्तपनं स्मृतम् ॥ ३२ ॥ सर्वाशुभविमोक्षाय पुरा च रितमृषिभिः ॥ प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ॥ ३३ ॥ सर्वकामप्रदं राम सर्वाशुभविनाशनम् ॥ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥ ३४ ॥ निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ॥ त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ॥ ॥ ३५ ॥ त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥ तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ॥ ३६ ॥ शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः
प्रकीर्तितः ॥ सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ॥ ३७ ॥ गोमूत्रेण चरेत्कृत्स्नं वृत्तिं कुर्याच्च गोरसैः ॥ उत्थितासुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ॥ ३८ ॥ अभुक्तवत्सु नाश्नीयात्पीतासु च नो पिबेत् ॥ त्राणं तु रामाकुर्वीत तथा देवे प्रवर्षति ॥ ३९ ॥ त्राणं नैवात्मनः कार्यं भया- त्तांश्च समुद्धरेत् ॥ आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ॥ ४० ॥ सर्वपापप्रशमनं मासेनेकेन भार्गव ॥ व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ॥ ४१ ॥ अभीष्टमथ वा राम यावदिन्द्रश्चतुर्दश ॥ गवां निर्हारनिर्मुक्तानश्नन्नप्रतिदिनं यवान् ॥ ४२ ॥ मासेन तदवाप्नोति यत्किं- ञ्चिन्मनसेच्छति ॥ गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ॥ ४३ ॥ गोलोकमवाप्नोति नरो नात्र कार्या विचारणा ॥ उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ॥ ४४ ॥ निवसन्ति सदा यत्र गावस्त्वव्रातकाशना दिवि ॥ विमानेषु विचित्रेषु वृत्तेष्वप्सरसां गणैः ॥ ४५ ॥ किङ्किणी- जालचित्रेषु वीणासुस्वननादिषु ॥ ४६ ॥ नद्यो हि यत्र क्षीरपायसकर्दमाः ॥ ४६ ॥ शीतलामलपानीयाः सुवर्णसिकतातथा ॥ पुष्कर्ण्यः शुभास्तत्र वैदूर्यकमलोत्पलाः ॥ ४७ ॥ मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ॥ तच्च लोकं नरा यान्ति गवां भक्त्या न संशयः ॥ ४८ ॥ गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ॥ तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ॥ ४९ ॥ गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ॥ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ॥ ५० ॥ अन्नमेव परं गावो देवानां हविरुत्तमम् ॥ पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥५१॥ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥ ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ॥ ५२ ॥ सर्वमेव भूतानां गावः शरणमुत्तमम् ॥ गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ॥ ५३ ॥ गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ॥ ( ॐ ) नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥ ५४ ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥ ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ॥ ५५ ॥ एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ॥ ५६ ॥ धार्यते वै सदा तस्मात्सर्वैः पूज्यतमाः सदा ॥ यत्र तीर्थे सदा गावः पिवन्ति तृषि- ता जलम् ॥ उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ॥५७॥ गवां हि तीर्थे वसतीह गङ्गा प्रतिष्ठिता तद्रजसि प्रवृद्धा ॥ लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ ५८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं- शत्तमोऽध्यायः ॥ ४२ ॥ ॥ पुष्कर उवाच ॥ ॥ अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ॥ संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ॥ ॥ १ ॥ शृङ्गशूलेषु धेनूनां तैलं दद्यात्सतैन्दवम् ॥ शृङ्गीवराबलामूर्वाकल्कसिद्धं समाक्षिकम् ॥ २ ॥ कृमिचूर्णैर्युतं देयमथवापि तथा घृतम् ॥
कर्णमूलेषु सर्वेषु मक्षिकाद्विङ्ससैन्धवैः ॥ ३ ॥ सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः ॥ माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिताम् ॥ ४ ॥ अजाक्षीरेण संपेष्य गुलिकां कारयेद्द्भिषकू ॥ एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम् ॥ ५ ॥ बिल्वमूलमपामार्ग धातकीं च सपाटलाम् ॥ कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम् ॥ ६ ॥ दन्तशूलेहरिद्वेऽमृते राम विपाचितम् ॥ मुखरोगेहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् ॥ ७ ॥ शृङ्गवेरं हरिद्रे द्वे त्रिफलां च नलञ्जहे ॥ शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च ॥ ८ ॥ अपामार्गगवांऽगश्च लवणेन विमिश्रितम् ॥ औषधं मुखरोगेण ज्वरदाहविना- शनम् ॥ ९ ॥ हृच्छूले बस्तिशूले च वातरोगे क्षते तथा ॥ त्रिफलाघृतसंमिश्रं गवां पानं प्रशस्यते ॥ १० ॥ शतपुष्पायुतं पक्वं तैलं कुटजचि- त्रकैः ॥ गवां राम प्रदातव्यं सर्व्वदोषविनाशनम् ॥ ११ ॥ अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत् ॥ आनाहे घृतसंयुक्तां दापयेत्पञ्चाङ्गुणीमिषाम् ॥ ॥ १२ ॥ सर्वेषु कुष्ठरोगेषु तथा शाखारोगेषु च ॥ शृङ्गवेरं च दार्वी च कासे श्वासे प्रदापयेत् ॥ १३॥ दातव्या भस्मसन्धाने प्रियङ्गुर्लवणाम्विता ॥ वातरोगेषु सर्वेषु शतपुष्पाविपाचितम् ॥ १४ ॥ गवां तैलं प्रदातव्यं सर्ववातागदापहम् ॥ यूषणं मधुसंमिश्रं कफरोगेषु दापयेत् ॥ १५ ॥ पित्त- रोगेषु सर्वेषु मधुयष्टिविपाचितम् ॥ गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम् ॥ १६ ॥ शाखोटकरसापानं रक्तपित्ते प्रशस्यते ॥ गोयुजानां च चूर्णानि माषांश्चैव ससर्षपाः ॥ १७ ॥ पयसा च समालोड्य गुरुमिश्राः प्रदापयेत् ॥ रक्तस्रावेषु कृच्छ्रेषु गवांमेतत्प्रशस्यते ॥ १८ ॥ तिलाम्पक्कहरूशैश्च हरित्ताल घृतं तथा ॥ अभ्रक्षतानां धेनूनां लेपने तत्प्रशस्यते ॥ १९ ॥ वत्सानां च सगोगाणां पाठां तक्रेण पाययेत् ॥ हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये ॥ २० ॥ माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ॥ एषां पिण्डाः प्रदातव्या लवणेन सुमंस्कृताः ॥ पुष्टि- प्रदा तु वत्सानां वृषभाणां बलप्रदा ॥ २१ ॥ देवदारुवचामींशिगुग्गुलुं हिङ्ससर्षपाः ॥ एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः ॥ २२ ॥ सर्वग्रह- विनाशाय फलङ्कारायुतः शुभः ॥ घण्टा चापि गवां कार्या धूपनेनैव धूपिता ॥ २३ ॥ अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते ॥ अश्वगन्धा- युतं तकं तिलान्वस्ति प्रशस्यते ॥ भवति क्षीरिणी तेन धेनुर्बहुकुलोद्भव ॥ २४ ॥ पिण्याकमेव निर्दिष्टं गवां गम्रस्थापनम् ॥ शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत् ॥ २५ ॥ जरान्विता तथा श्यान् तश्च शींतं द्विजोत्तम ॥ धार्यं चैव गवां मध्ये मतौजः सर्वथा भवेत् ॥ ॥ २६ ॥ गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः ॥ २७ ॥ गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव ॥ आनाहशूलारुचिना- शनं तद्गात्रिकम्पापि तथा प्रशस्तम् ॥२८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रि[त्रि...]
त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥ पुष्कर उवाच ॥ अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव ॥ नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ॥ १॥
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते ॥ गवां पुरीषे धर्मज्ञ धूपदीपात्रसम्पदा ॥ २ ॥ वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम् ॥
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम् ॥ ३ ॥ स हि सर्वगतो देवः क्षीरोदधिनिकेतनः ॥ त्रैलोक्यधाताभूतानां विशेषेण तथा गवाम् ॥ ४ ॥
आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम ॥ वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ॥ ५ ॥ गन्धधूपनमस्कारपुष्पदीपान्न सम्पदा ॥
इह प्रजायाः साग्राग्रः पुष्पद्द्वा तथैव च ॥ ६ ॥ घृतमर्तिकञ्च तथा रौद्गीमिक्ष सुवृत्तम् ॥ नित्यमिश्र तथा वह्निं घृतेन जुहुयाद्बुधः ॥ ७ ॥
अम्भस्येति च मन्त्रेण लवणं चाभिमन्त्रयेत् ॥ दृष्ट्वा सम्प्राशगं कार्यं दधिक्राण्योत्यनन्तरम् ॥ ८ ॥ यजमानेन देया च धेनुः स्याच्छ्वेतरूपिणी ॥
तद्भाविनी द्व्याच्च होत्रे शक्त्यैव दक्षिणास्मा॥ ९॥गावः स्वलङ्कृताः पश्चाद्गन्धमाल्यफलादिभिः ॥ स्वाशिता भुक्तवत्साश्च कुर्युर्वेति प्रदक्षिणम् ॥ १०॥
श्वेडाकिलिकिलाशब्दैः शङ्खवाद्यवरैस्तथा ॥ वृषाणां योजयेद्युद्धं गोपालानां तथैव च ॥ ११ ॥ द्वितीयोऽहनि धेनूनां वृषाणां सह वत्स्यकैः ॥
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम्॥ १२॥ भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ॥ स्वस्ति वाच्यं ततः पश्चाद्दत्त्वाद्रव्यान्विसर्जयेत् ॥१३॥
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम् ॥ अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥ १४ ॥ धेनूनां मारिके प्राप्ते तथा गोगाद्युपद्रवे ॥
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये ॥ १५ ॥ त्रिगोत्रोत्पापितो विद्वानेकगोत्रोषितोऽथ वा॥ गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत्॥१६॥
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् ॥ पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह ॥ १७ ॥ कुसरैः पूजनं कार्यं देवतानां यथाक्रमम् ॥
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव ॥ १८ ॥ सुभद्रां नाम दिग्वधूत् पूर्वभागे समर्चयेत् ॥ पूजनीयास्ततो ब्रह्मा सुरभिस्तदनन्तरम् ॥
॥ १९ ॥ ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम ॥ ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत् ॥ २० ॥ ततश्च विश्वरूपाशं दिग्वधूं तदनन्तरम् ॥
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत् ॥ २१ ॥ गेहिणी नाम दिग्वधूतस्ततः पूज्या द्विजोत्तम ॥ ततश्चेन्दुसमसं देवं महादेवहृपं ततः
॥ २२ ॥ महादेवं ततो देवं पूजयेत्तदनन्तरम् ॥ इत्येता देवताः प्रोक्ताः कूसरं तव षोडश ॥ २३ ॥ पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम् ॥
गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ २४ ॥ प्रत्येकं पूजयद्राम देवतां प्रयतो द्विजः ॥ पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत् ॥ २५ ॥
भक्ष्यास्थिगितवक्राणि वर्धमानेस्ततण्डुलैः ॥ सहिरण्यैर्यथाशक्ति ततो होमं समारभेत् ॥ २६ ॥ वेदिं कृत्वा यथाशास्त्रं समिध्य च हुताशनम् ॥
एकैकं दैवतं राम समुद्दिश्य यथाविधि ॥ २७ ॥ चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना ॥ होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत् ॥ २८ ॥ समिधः क्षीरवृक्षस्य अक्षतानि तिलैस्तथा ॥ सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात् ॥ २९ ॥ ततो रक्षोघ्नैर्मन्त्रैर्जुहुयाद्गौरसर्षपान् ॥ ततः समापयेद्धोमं कर्म यथाविधि ॥ ३० ॥ सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा ॥ कर्तुर्देयमुपस्पृष्ट्वा वस्त्रयुग्मं गुरोस्तथा ॥ ३१ ॥ भोजनं गोरसप्रायं ब्राह्मणांश्च भोजयेत् ॥ स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः ॥ ३२ ॥ रक्षोघ्नैस्तथा मन्त्रैः कुर्याद्रक्षणमथ गवाम् ॥ गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः ॥ ३३ ॥ मोक्तव्याश्च तदा वत्सा गवांकामं द्विजोत्तम ॥ शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये ॥ ३४ ॥ कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम् ॥ ३५ ॥ अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥ ३६ ॥ कर्ता तूपवसेत्तत्र कारयेच्च तथैव च ॥ पूर्वभाद्र पदार्द्यणमाहिर्बुध्न्यगते तथा ॥ ३६ ॥ स्नानं निशाकरे कुर्याद्दित्योदशानि शास्त्रवित् ॥ उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम् ॥ ३७ ॥ रोचनां च समंगां च क्षिप्तेकुम्भद्वये ततः ॥ कुम्भद्वयं बुधः कुर्याद्धेन्चामल्याज्ज्वलं दृढम् ॥ ३८ ॥ अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत् ॥ स्नात्वा गोवालचूर्णेण परिधाय समाहितः ॥ ३९ ॥ पूजयेत्कषाडिर्हविर्भुङ्ख्यामादित्यं च तथैव च ॥ वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ॥ ॥ ४० ॥ धूपदीपनमस्कारैस्तथैव बलिकर्मणा ॥ अक्षतानां च पात्राणि ततो राम चतुर्दश ॥ ४१ ॥ अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्॥ खड्गेनेन तु दातव्यं धूपं द्विजोत्तम ॥ ४२ ॥ ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः ॥ ॐकारपूर्वमाज्यं च सर्वासं जुहुयात्ततः ॥ ४३ ॥ देवतानां यथोक्तानामेकैकस्य शतंशतम् ॥ गोवालशफाश्रूङ्गैश्च त्रिवृतं कारयेन्मणिम् ॥ ४४ ॥ धारणं तस्य कर्तव्यं कण्ठे मूर्द्धन्यथवा भुजे ॥ करे चैवापदृष्टं च शक्त्या देया च दक्षिणा ॥ ४५ ॥ ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः ॥ अलेख्यन्महद्पद्मामन्थान्त्यां करोति यः स्नातान्मिदं सदेव ॥ भवन्ति तस्यायुतशश्च गावः पराभवामेति तथैव वृद्धिम् ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करो- पाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ पुष्कर उवाच ॥ राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन ॥ तस्मात्सर्व- प्रयत्नेन तुरङ्गाणां समर्चनम् ॥ १ ॥ राज्ञा यत्नवता भाव्यं पालने च विशेषतः ॥ तावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ॥ २ ॥ कर्तुं शक्यं न धार्येते दुःखिताः क्षुधतास्तथा ॥ दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा ॥ ३ ॥ धारणीयाः सुविहिता विधिना यवसा- दिताः ॥ विधूतास्ते तथा कुर्युर्लोकद्वयजयं तथा ॥४॥ मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च ॥ कैवल्यस्येव ते भक्ता देवस्य परमेष्ठिनः ॥५॥ ३५
द्वि० खं०
अ० ४६
अन्ति मध्ये तथा तेन नानुज्ञाता दिवौकसाम् ॥ ततोऽश्वमेधतुरगस्तस्यैवेकस्य हूयते ॥ ६ ॥ सर्वरत्नार्चिको जातस्तुरगोऽमृतमन्थनात् ॥
उच्चैःश्रवास्तेन हयः सर्वरत्नोत्तमः स्मृतः ॥ ७ ॥ सप्तश्वा देववाह्यास्ते मधुष्णाव्यापपक्षकाः ॥ पञ्चानां शालिहोत्रेण वाहनाय पुरा कृताः ॥ ८ ॥
नीरोगान्प्रति ते देशान्द्विषैस्ते बलशालिनः ॥ गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः ॥ ९ ॥ प्रधानमंगं सैन्यस्य शोभा च परमा हयाः ॥
सुदूरगमने युद्धे यानश्रेष्ठास्तुरङ्गमाः ॥ १० ॥ वल्गन्तस्तुङ्गतुरगं चामरापीडधारिणम् ॥ आरुह्य या भवेद्धर्षिर्नसा राम त्रिदिष्टपे ॥ ११ ॥
सन्नद्धपुरुषा रूढैः सुसन्नद्धैस्तुरङ्गमैः ॥ दृष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम् ॥ १२ ॥ तुङ्गपादोद्धतधूलिर्दण्डं यस्यातपत्राञ्च्छितिं करोति ॥
नभः समग्रा वसुधा तु तस्य शैलावंतसा भवतीह वश्या ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने
अश्वप्रशंसा नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥ ॥ पुष्कर उवाच ॥ ॥ अतः परं प्रवक्ष्यामि शृणु तेषां चिकित्सितम् ॥ वृषो निम्बो
बृहत्यौ च गुडूची च समांसिका ॥ १ ॥ शिङ्घाणकहरा पिण्डी स्वेदस्य शिरसस्तथा ॥ यावक्षकं समदनं पिप्पली विश्वभेषजम् ॥ २ ॥ सर्षपा
गृहधूमश्च निर्गुण्डी सुरसा वचा ॥ निम्बपत्रयुता पाद्यो वर्तिः शूलविनाशिनी ॥ ३ ॥ हिङ्गु पुष्करमूलं च नागरं साम्लवेतसम् ॥ पिप्प-
ली सैन्धवयुक्तं शूलघ्नं तूष्णवारिणा ॥ ४ ॥ नागरारिष्टविषौ मुस्ता सानन्ता विल्वमालिका ॥ क्वाथो मासं पिबेद्वाजी सर्वाती-
सारनाशनम् ॥ ५ ॥ प्रियंगुशारिवाभ्यां च युक्तामजं शृतं पयः ॥ पर्यातशर्करं पीत्वा श्रमाद्वाज्यवमुच्यते ॥ ६ ॥
घ्राणिकायां तु दातव्या तैलवस्तिस्तुतुङ्गमे ॥ कोष्ठाञ्जश्व शिरा वेध्यास्तेन तस्य सुखं भवेत् ॥ ७ ॥ दाडिमं त्रिफलां व्योषं गुडं च सम-
भागिकम् ॥ पिण्डमेतत्प्रदातव्यमश्वानां कासनाशनम् ॥ ८ ॥ प्रियङ्गोरोध्रमधुभिः पिबन्ति रस रसं हयाः ॥ क्षीरं वामं च कालोद्भवं कृष्मृत्ला-
द्रिप्रमुच्यते ॥ ९ ॥ प्रस्कन्नेषु च सर्वेषु श्रेय आदौ विशोधणम् ॥ अभ्यङ्गोद्वर्त्तनस्नेहनस्यवर्त्तिकमस्ततः ॥ १० ॥ प्रस्कन्नं प्रशमं याति यदि
नानेन कर्मणा ॥ उरस्युत्तान्पार्श्वे च ततो विस्रावयेच्छिराम् ॥ ११ ॥ ज्वलितानां तुक्षणाणामयमेव क्रियाक्रमः ॥ नस्यमकं विना राम सर्वमेत-
त्प्रशस्यते ॥ १२ ॥ रोध्रकञ्चर्वाचामूलं मातुलुङ्गाग्निनागराः ॥ कुष्ठहिङ्ग्ववरास्नालोध्रौ शफनाशनः ॥ १३ ॥ समासेन शिरां विध्योद्घा-
वापि जलोकसः ॥ त्र्यहेत्र्यहे वा धर्मज्ञ नस्यकर्म समाचरेत् ॥ १४ ॥ मञ्जिष्ठा मधुकं द्राक्षाबृहत्यौ रक्तचन्दनम् ॥ त्रपुसीविजबहुलांनि शुङ्गं
टक्करेशोरुकम् ॥ १५ ॥ अजापयःश्रुतमिदं सुशीतं शर्कराऽन्वितम् ॥ पीत्वा निराशंनो वाजी रक्तमहात्प्रमुच्यते ॥ १६ ॥ मन्याहस्तुरतिगा
॥२०५॥
ल्लस्थः शिरःशोफो गलग्रहः ॥ अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ॥ १७ ॥ यवैः स्निग्धैश्चकुलत्थैश्च ततः स्वेदं प्रयोजयेत् ॥ मृदूकृते ततः
शोफे नस्यकर्म समाचरेत् ॥१८॥ वचा......सैन्धवं स्वरसो रसः ॥ कृष्णाशिग्रुद्भूतैर्गर्भैः कृत्वा नस्यं न सीदति ॥१९॥ निशा ज्योतिष्मती पा
ठा कृष्णा कुष्ठा वचा मधु ॥ जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतो हितः ॥ २० ॥ तिलैर्युक्ता रजन्या च निम्बपत्रैश्च योजिता ॥ शोधिण
शोधनी पिण्डी सर्पिषा व्रणरोपणी ॥ २१ ॥ अभिघातेन खञ्जन्ति येनाश्वास्तीव्रवेदनाः ॥ परिषेकाक्रिया तेषां तैलेनाशु रुजापहा ॥२२॥
दोषकोपाभिघाताभ्यां तिलैर्जे जृम्भते सदा ॥ शान्तिर्मध्वज्यवन्ध्याभ्यां पक्वाभिर्मत्रे व्रणे क्रमः ॥ २३ ॥ अश्वत्थोदुम्बरप्लक्षमधूकत्वक्कषायकैः॥
प्रभूतसलिलैः क्वाथः सुखोष्णो व्रणशोधनः ॥ २४ ॥ शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ॥ देवदारुवचायुग्ममजनौरक्तचन्दनैः ॥ २५ ॥
तैलं सिद्धं कषायेण गुडूच्या पयसा सह ॥ प्रक्षीणे बस्तिनस्तस्य च योज्यं सर्वत्र लंघने ॥ २६ ॥ रक्तस्रावो जलौकाभिर्निबन्धांते नेत्ररोगिणः ॥
खदिरोदुम्बराश्वत्थकषायेण च धावनम् ॥ २७ ॥ धात्रीदारुबलातिक्ताप्रियङ्ककुमैः समैः ॥ गुडूच्या कृतकः कल्को हितमुष्णाम्लवम्बितै ॥
॥ २८ ॥ उपान्ते च शिरास्रावो मुक्तरोधे तथैव च ॥ क्षिप्तकारिणि दोषे च सद्यो वेधनमिष्यते ॥ २९ ॥ गोशकृत्सर्जिकामधुरजनीतिलस
र्षपैः ॥ गवां मूत्रेण पिष्टैश्च मर्दनं कण्डुनाशनम् ॥ ३० ॥ सितामधुयुतः क्वाथो वाशि कायाः सशर्करः ॥ रक्तपित्तहरः पानाद्श्व
कर्णात्तथैव च ॥ ३१ ॥ आमे परिणते पक्के पक्वमांसे जरां गते ॥ पक्वमांसयुतं नेत्रं सर्वं जीर्णं प्रशस्यते ॥ ३२ ॥ सप्तमंसतमे देयमश्वानां
लवणं दिने ॥ तथा मुक्तवतां देया परिपाने तु वारुणी ॥ ३३ ॥ जीवनीयैः सुमधुरैर्मुद्वीकाशर्करायुतैः ॥ सर्पिष्पक्वैर्बिकैः
शरादि प्रतिमानं सपक्षकम् ॥ ३४ ॥ विडङ्गपिप्पलीधान्यशताह्वारोहिसेन्धवैः ॥ सावित्रैश्चेस्तरज्ञाणां प्रतिपानं हिमागमे ॥ ३५ ॥
रोजं प्रियङ्गुका रास्ना पिप्पलीविश्वभेषजैः ॥ सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ॥ ३६ ॥ प्रियङ्गुपिप्पलीरोद्रैयष्ट्याह्वैः
समधोपदैः ॥ निदाघे ससुडा देया मदिरा प्रतिपानके ॥ ३७ ॥ भद्रकाष्ठा सल्वणं पिप्पल्या विश्वभेषजम् ॥ भवेत्तैलैर्युतैरभिः
प्रतिपानं घनागमे ॥ ३८ ॥ निदाचावृतपित्तानां क्षरन्मन्दोष्णशोणिताः ॥ प्रावृडभिप्रवृत्तोषाश्च पिबेयुर्वाजिनो घृतम् ॥ ३९ ॥ पिबेयुर्वा
जिनस्तैलं कफवातवधिकास्तु ये ॥ स्नेहव्यापादवेधंयां तेषां कार्यं विरूक्षणम् ॥ ४० ॥ त्र्यहं यवागू रूक्षा स्यात्सुरा च लवणाम्विता ॥
भोजने तक्रसंयुक्तं हेष वै रूक्षणे विधिः ॥ ४१ ॥ प्रायोगिकस्तथा देयो बस्तिस्तस्य निरत्ययः ॥ ये पिबन्ति हयाः स्नेहं तेषां बस्तिं न दाप
| वि० ध० | द्वि० खं० |
|---|---|
| ॥२०६॥ | अ० ४७ |
येत ॥ ४२ ॥ शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ॥ वर्षासु शिशिरे चैव वस्तौ देयमिहेष्यते ॥ ४३ ॥ गुर्वनिन्द्यनिन्दभक्तानि व्यायामः स्नानमातपम् ॥ पायुर्वस्तं च वाहस्य स्नेहीष्टस्य वर्जितम् ॥ ४४ ॥ स्नानं पानं सकृद्द्यमश्वानां सलिलेऽगमे ॥ अत्यर्थदुर्दिने काले स्नानमेकं प्रशस्यते ॥ ४५ ॥ युक्तशीतातपे काले द्विः पानं लवणं सकृत् ॥ ग्रीष्मे त्रिः स्नानपानं स्यात्किं तत्स्याद्वाहनम् ॥ ४६ ॥ निस्तुषाणां प्रदा- तव्यं यवानां चतुरोढकम् ॥ यवणाीहिसोदालक्तलनां वापि दापयेत् ॥ ४७ ॥ अहोरात्रेण चान्द्रस्य यवस्य तुला दश ॥ अष्टौ शुष्कस्य दातव्याश्चातलोऽथ बुसस्य वा ॥ ४८ ॥ दुर्वा पित्तं बुसः काश्यं तद्बुसः श्लेष्मसञ्चयम् ॥ नाशयेत्पर्युषितं श्वासं तथा माषो बलक्षयम् ॥ ४९ ॥ वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः ॥ न रोगाः पीडयिष्यन्ति दुर्वाहारं तुरङ्गमम् ॥ ५० ॥ द्वौ रज्जुबन्धौ दुग्धानां पक्षयोर्भययोरपि ॥ पश्चाद्वन्धश्च कर्तव्यो हरकीलव्यापाश्रयः ॥ ५१ ॥ केशान्कुरूपमास्यस्य केशपुच्छप्रकल्पनम् ॥ छेदः कुरप्रवृद्धौ च वर्जयेत्तु कनीनिकाम् ॥ ५२ ॥ यत्नोपन्यस्तयवसः कृतधूपनभूशयः ॥ वसेत्सुः सम्भृते स्थाने प्रदीपः सर्वरात्रिकैः ॥ ५३ ॥ शालाबाह्मस्तोजाः कुक्कुवाक्वश्च घायश्च शालासु तथैव धेनुः ॥ कुर्युर्निशीथे पुरुषाः सशस्त्राः संरक्षणं राम तुरङ्गमाणाम् ॥ ५४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करो- पाख्याने अश्वचिकित्सा नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ ॥ नित्यं नैमित्तिकं काम्यं शान्तिकर्म निबोध मे ॥ पञ्चमीषु च सर्वासु श्रीधरं पूजयेद्बुधराम ॥ १॥ श्रियश्च पूजनं कार्यं हयराज्ञस्तथैव च ॥ रामोश्चैःश्रवसो नित्यंगन्धमाल्यानुलेपनैः ॥ ॥ २ ॥ धूपदीपनमस्कारैस्तथा चैवाप्तसम्पदा ॥ शरद्सन्तयोः कार्यमेकदन्तस्य पूजनम् ॥ ३॥ प्रतिपत्पञ्चमी षष्ठी सप्तमी द्वादशी तथा ॥ प्रशस्तास्तिथयो राम सूर्यवारो विशेषतः ॥ ४ ॥ कृत्तिकां रोहिणीं भाग्यं चार्यममश्विनीं तथा ॥ त्वाष्ट्रं सावित्रमादित्यं वायव्यं च भगुत्तम ॥ ॥ ५ ॥ नक्षत्राणि प्रशस्तानि शुक्लपक्षस्तथैव च ॥ उद्यानेषु विचित्रेषु नदीनां पुलिनेषु च ॥ ६ ॥ देवतायतने राम पूजनं तस्य कारयेत् ॥ अर्घ्यधूपनमत्कारदीपपुष्पान्न सम्पदा ॥ ७ ॥ कुल्योपाह्लाह्विकामक्ष्यमथमांसमुरासवैः ॥ ओदनैः परमान्नेन फलैः कालेद्भवैः शुभैः ॥ ८॥ नृत्य गीतेन वाद्येन शङ्खशब्देनतथैव च ॥ सावित्र्यैष तथैवाज्यं जुहुयाज्जातवेदसि ॥ ९ ॥ ॐकारपूर्वं च तथा रेवन्ताय पुनःपुनः ॥ द्विजातिपूजनं कार्यं माल्यमोदकचन्दनैः ॥ १० ॥ दक्षिणाभिश्च धर्मज्ञ यथाविभवपूरुषैः ॥ नारीषु वर्जयेत्सर्वं रेवन्तस्य निवेदितम् ॥ ११ ॥ एवं सम्पूजितो दद्यात्तुरङ्गमशतान्यपि ॥ बलं तेजस्तथारोग्यं तुरङ्गाणां च भार्गव ॥ १२॥ अश्वयुक्शुक्लपक्षस्य पञ्चम्यां नरोत्तम ॥ तुरङ्गमाणां
| ॥२०६॥ |
कर्त्तव्यं शान्तिकं तन्निबोध मे ॥ १३ ॥ दिशीशानीं विनिष्क्रम्य ग्रामाद्देशे मनोरमे ॥ प्रागुदक्प्रवणे रम्यं स्थण्डिलं परिकल्पयेत् ॥ १४ ॥ नासत्यौ वरुणं देवं तथैवाश्वयुजे द्विज ॥ पूजयेत्प्रयतो विद्वान्गन्धमालयानुलेपनैः ॥ १५ ॥ धूपैर्दीपैर्नमस्कारैस्तथा चान्नेन भूरिणा ॥ समुल्लिख्य ततो वेदिं शाखाभिः परिवारयेत् ॥ १६ ॥ समन्ततस्तथाऽद्भिर्भवस्त्रैश्चाप्यहतैस्तथा ॥ घटान्सर्व्वरसैः पूर्णान्दिक्षु दद्याद्यथाविधि ॥ १७॥ विदिक्षु च तथा दद्याद्ध्वजच्छत्राणि बुद्धिमान् ॥ ततः समुपधायाग्निं जयप्रभृतिभिः पुनः ॥ १८ ॥ हुत्वोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ॥ ततः सम्पूजनीयास्तु गन्धमाल्यैस्तरङ्गि- णाः ॥ १९ ॥ सन्नद्धपुरुषा रूढाः सुसन्नाहास्तुरङ्गमाः ॥ सायुधैः पुरुषैः सार्धं वह्निं कुर्युः प्रदक्षिणम् ॥ २० ॥ त्रिः परिक्रामतो वह्निं श्वेतोत्कृष्टनिना- दितैः ॥ २१ ॥ शङ्खावारवनीमिश्रैर्नैतव्याः स्वगृहं ततः ॥ २१ ॥ रसानि तानि वासांसि गौः कांस्यं कनकं तथा ॥ दक्षिणा वै प्रदातव्यं कर्तुर्द्विजवरो- त्तम ॥ २२ ॥ कर्मणानेन भवति प्रसूतं रम्य वाहनम् ॥ हृष्टपुष्टं च धर्मेण गदामयविवर्जितम् ॥ २३ ॥ नित्यमेतत्त्वयादिष्टं शृणु नैमित्तिकं तथा ॥ अश्वानां मारके प्राप्ते व्याधौ वाप्यतिदारुणे ॥ २४ ॥ प्रकृतेश्च विपर्यास तथा मुण्डुकलोद्भव ॥ हयवारे शुभे देशे स्थण्डिलं परिकल्प- येत् ॥ २५ ॥ विन्यसेत्कमलं तत्र तन्मध्ये पूजयेद्धरिम् ॥ श्रियं च देवी तत्रैव केसरेषु च देवताः ॥ २६ ॥ ब्रह्माणं शङ्करं सोममादित्यं च तथा- श्विनौ ॥ रेवन्तमुग्रैः श्वसनं दिक्पालैश्च दलेष्वपि ॥ २७ ॥ सर्वेषां पूजनं कार्यं गन्धधूपान्नसम्पदा ॥ दीपमाल्यनमस्कारपुष्पैर्मूलैः सगोरसैः ॥२८॥ प्रत्येकं पूर्णकुम्भैश्च गन्धमाल्याद्यलङ्कृतैः ॥ तथा पिशितवस्त्रैश्च वर्धमानैः सतण्डुलैः ॥ २९ ॥ तथा प्रतिसरैःसूत्रैः पताकाभिश्च भार्गव ॥ तस्यै- वोत्तरतो वेदिं कल्पयित्वा यथाविधि ॥ ३० ॥ ततः समुपधायाग्निं यथोक्तानां पृथक्पृथक् ॥ ततोऽग्निग्रहवन्स्वाहा कांस्यं गां काञ्चनं तथा ॥ ३१ ॥ देयं वस्त्रयुगं कर्त्रे कारयित्रे तथैव च ॥ कर्मैतन्मर्त्यलोकानां सर्वबाधाविनाशनम् ॥ ३२ ॥ उपोपितेन कर्तव्यं ब्राह्मणेन यथाविधि ॥ उपोपितस्तदा तिष्ठेद्यजमानोऽपि भार्गव ॥ ३३ ॥ अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥ उपोषितौ सदा पौष्णे यजमानपुरोहितौ ॥३४॥ अश्विनोः सदा स्नानं कुर्य्यान्मे निबोधत ॥ अकालमूलो द्वौ कुम्भौ मधुककुसुमोत्कटौ ॥ ३५ ॥ अश्वगन्धायुतौ कृत्वा स्नाप्यस्ताभ्यां तदा भवेत् ॥ उत्तमं पूजयेद्विद्वाञ्चासत्यौ शशिनं तथा ॥ ३६ ॥ अश्विनौ वरुणं चैव शुक्लवासास्तथा हरिम् ॥ गन्धमाल्यनमस्कारधूपदीपान्न सम्पदा ॥ ३७ ॥ ततोऽश्वमिथुनं कार्यं सर्वौषधियुतं मुदा ॥ प्रणतेन ततो विद्वांस्ताभ्यामन्नं निवेदयेत् ॥ ३८ ॥ धूपश्चात्रं क्षपाधायं दद्याद्देवतानां तथैव च ॥ यथोक्तानां द्विजश्रेष्ठ जुहुयाच्च पृथक्पृथक् ॥ ३९ ॥ चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ॥ स्वाहान्तेनाथ शतशो मन्त्रपूते घृते
द्विज ॥ ४० ॥ अश्वलोम तथा धार्यं फलमूले तथैव च ॥ एकत्र निवृतं कृत्वा मणिधार्यस्तु पूर्ववत् ॥ ४१ ॥ अलंघ्यनारीनादींते सदैव स्नानं च कुर्यात्प्रयता मनुष्यः ॥ अश्वानवाप्नोति सहस्रसंख्यान्कुलोद्भवान्बिद्यबलोपपन्नान् ॥४२॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वानां शान्तिकर्मविधानन्नाम सप्तचत्वारिंशत्तमोऽध्यायः॥४७॥ पुष्कर उवाच ॥ कुञ्जराः परमा शोभा शिबिरस्य बलस्य च॥ आयाति कुञ्जरेष्वेव विजयः पृथिविक्षिताम् ॥ १ ॥ तेषां संमार्जने यत्नं पालने च भृगूत्तम ॥ यथान्नृपतिः कुर्यादन्यथा कुञ्जरा मताः ॥२॥ जयन्ताश्च तथा धार्या यावन्तो पोषणं सुखम् ॥ कर्तुं शक्यं न धार्यास्ते क्षुधिता दुःखितास्तथा ॥ ३ ॥ दुःखितास्तै नृपां हन्युः कुलानि च भृगूत्तम ॥ तस्मात्तेषां सुखं कार्यं यशःश्रीविजयप्रदम् ॥ ४ ॥ सनद्धधूपरुषारूढैः सुसन्नद्धैस्तुरङ्गमःै ॥ अनल्पैरपि यद्युक्ते बलं परबलप्रणुत् ॥ ५॥ तदैकस्यापि समरे कुञ्जरस्य सवर्मणः ॥ न शक्यं प्रमुखे स्थातुं वेगादापततो द्विज ॥६॥ अभिन्नानां तु संघानां संहतानां च भेदनम् ॥एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधु चोदितः ॥७॥ मदक्लिन्नकपोलस्य किञ्चिदञ्चितचक्षुषः ॥ बृहद्गात्रोगण्डस्य कः शोभां कथितुं क्षमः ॥ ८॥ वेगेन धावमानस्य प्रसाधितकरस्य च ॥ कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्तिनः ॥९॥ यस्य फूत्कारमात्रेण तुरङ्गमशतान्यपि॥स्वारूढान्यपिवेगेन विद्रवन्ति दिशो दश॥१०॥ ततसैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः ॥ मूर्तिमन्विजयो राम कुञ्जरा मदगर्विताः ॥ ११ ॥ सपक्षा दूषवाद्यास्ते मनुजानां त्वपक्षकाः ॥ वाहनाथं कृता राम स्वयमेव तु वेधसा ॥ १२॥ दृष्ट्वा पताकाभिरलंकृतं तु नागेन्द्रसैन्यं प्रवलंयथाद्रिम् ॥ पतन्ति शीघ्रं हृदयान्यरीणां तस्मात्प्रधानाः सततं गजेन्द्राः १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गजप्रशंसा नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥ पुष्कर उवाच ॥ अतः परं प्रवक्ष्यामि कुञ्जराणां चिकित्सितम् ॥ पाक्लेषु तु सर्वेषु कर्तव्यमनुवासनम् ॥ १ ॥ घृततैलपरीतैः स्याने वातविवर्जितम् ॥ स्कन्धेषु च तथा कार्या क्रिया पाक्लब्र्विद्दिज ॥२॥ गोमूत्रं पाण्डुरोगे तु रजनीभियुतं हितम् ॥ आनाहे तैलसिक्तास्य निवातस्थं प्रशस्यते ॥३॥ लवणैः पञ्चभिर्मिश्रा प्रतिपानाय वारुणी ॥ विडङ्गतिफलाव्योपैःसैन्धवैः कवलाः कृताः ॥४॥ मूर्च्छास्वम्भोवजयन्नागं शोधंतव्यं तु पाययेत् ॥ अन्वङ्गः शिरसः कार्यो नस्यञ्चैव प्रशस्यते ॥ ५ ॥ नागानां स्नेहकृद्भिः पादरोगातुषक्रमत् ॥ पञ्चकोल्यकषायेण शोधनं च विधीयते ॥ ६ ॥ ......मन्दनं कार्यं मृदुस्निग्धं च भोजयेत् ॥ शिम्बितित्तिलवानां पिप्पलीर्मािरचान्वितैः ॥ ७ ॥ रसैः सम्भोजयेन्नागं वपुर्युक्तेन जायते ॥ बालविल्वं तथा रोध्रं धातुकी विवृषा सह ॥८॥ अतीसारविनाशाय पिण्डं भुञ्जीत कुञ्जरः ॥नस्यं करभहे देयं घृतं लवणसंयुतम् ॥ ९॥ मागधी मरिचाढ्या च यवागूर्मन्द
साधितः॥ तत्कफे च दातव्यं वाराहं च तथा रसम् ॥ १०॥ दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥ तैलमुष्णसंयुक्तं गलग्रहगदापहम् ॥ ११॥
अभयाभिर्लवणैः पिष्टैः प्रसन्नां पाययेद्युताम् ॥ मूत्रसंधेयडवा बीजं कथितं त्रपुसस्य च ॥ १२ ॥ त्वग्दोषेषु पिबेन्निम्बं वृषं वा कथितं द्विपः ॥
गवां मूत्रं विडङ्गानि कृमिदोषेषु शस्यते ॥ १३ ॥ शृङ्गबेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥ क्षतक्षपह्वं पानात्तथा मांसरसः शुभः ॥ १४ ॥
पुष्टेद्वनं व्योषयुतं ह्यरुचौ च प्रशस्यते ॥ द्रोणिकाशान्तये धूपं पटोलिनिम्बदुग्धजम् ॥ १५ ॥ त्रिवृतोपाग्निदन्त्यर्कश्यामाक्षीरिभिपिप्पली ॥
एष गुल्महरः स्नेहः कृतश्चैव तथासवः ॥ १६ ॥ क्षीरवृक्षनदीजम्बुमल्लकानां त्वचः शुभाः ॥ हृद्रोगशान्तये देया विदार्य्यश्च रसोदनात् ॥ १७ ॥
भेदनश्रावणाभ्यङ्गस्नेहपानानुवासनैः ॥ सर्वानेव समुत्थान्स्विद्वेत्समुपाचरेत् ॥ १८ ॥ याष्टिकं मुद्गयूषेण शारदेषु तथा पिवेत ॥ बालविल्वे
स्तथा लेपः कटिरोगेषु शस्यते ॥ १९ ॥ विडङ्गेन्दुयवा हिङ्गुसरलं रजनीद्वयम् ॥ पूर्वाह्णे दापयेत्पिण्डं सर्वशूलेोपशान्तये ॥ २० ॥ भारेण चलितं
दन्तं कुञ्जरस्य समुद्धरेत् ॥ प्रधाना भोजने तेषां यष्टिकावह्निरीशालयः ॥ २१ ॥ मध्यभौ यवगोधूमौ शेषाः प्रत्यवराः स्मृताः ॥ विधौ योगे
प्रयत्नेन दधिग्धां तु विवर्जयेत् ॥ २२ ॥ यवसेषु तथैवेक्षुर्नागतानां बलवर्धनम् ॥ नागानां यवसं शुष्कं कफवातप्रकोपनम् ॥ २३ ॥ मदक्षीणस्य
नागस्य पयःपानं प्रशस्यते ॥ जीवनीयास्तथा द्रव्यैः शृतो मांसरसः शुभः ॥ २४ ॥ मद्बुद्धिकरान्योगान्वक्ष्याम्यहममतः परम् ॥ गणकाले समा
पन्ने यानराजा संप्रयोजयेत् ॥ २५ ॥ वायसः कुरवक्षौभौ काकोली नाकुली हरिः ॥ भवेत्क्षीरेण संयुक्तः पिण्डः सद्यः प्रभेदनः ॥ २६ ॥ जाति
मंगं समुल्लङ्घ्य कपोतत्वकचेक्षुदौ ॥ अश्वास्रकणमङ्कश्च पिण्डोऽयमपरस्तथा ॥ २७ ॥ अजशृङ्ग्यर्कमूलाभ्यां सक्तुमञ्जधसंयुक्तः ॥ मधुमिश्रोऽपरयं
पिण्डः पुष्पमूलफलान्वितः ॥ २८ ॥ युद्धकालेऽत्र नागस्य कर्तव्या मदवर्धिनी ॥ कटुमत्स्या विडङ्गानि क्षारः कोशातकी पयः ॥ २९ ॥
हरिद्रा चेति धूपोऽयं कुञ्जरस्य जयावहः ॥ पिप्पल्याः श्वेतलशुनं हरितालं मनःशिला ॥ ३० ॥ अश्वमूत्रेणोपितो धूपः स्यात्सूर्यपरिशोषितः ॥
माक्षीकं कटुमत्स्याश्च तथा कटुकरोहिणी ॥३१॥ आभयं च त्रयः शैले धूपोऽयमपरः शुभः ॥ अभ्रिकः सर्ववर्णेषु पीलुलित्येष दीपनः ॥३२॥प्रदेयः
कवलो युद्धे मधुव्यास्थिप्रधूपितः ॥ जीर्णे विधाने देयः स्यात्पिण्डश्च तद्वृक्षयुङ्कूरः ॥३३॥ पिप्पली तण्डुलैस्तैलं माक्षिकं माक्षिकं तथा ॥ नेत्रयोः
परिवेषेकोऽयं दीपनीयः प्रशस्यते ॥ ३४ ॥ पुरीषं वृश्चिकाद्याश्च तथा पारावतस्य च ॥ क्षीरवृक्षकशीराश्च प्रधनाविषघ्नञ्जनम् ॥ ३५ ॥ अनेनाञ्जित
नेत्रस्तु करोति कदनं रणे ॥ उत्पलानि च नीलानि सुरतं तगरमेव च ॥ ३६ ॥ तण्डुलोदकपिष्टानि नेत्रा निर्वापणं परम् ॥ प्रवृद्धये नदीजानां
॥ वि० ध० ॥ ॥ २०८ ॥
द्वि० खं० अ० ४०
पक्ष्मेऽङ्गे वनौकसाम् ॥ ३७ ॥ दन्तमूलपरीणाहाद्वापिगुणं कल्पयेत्तपम् ॥ वनेवृद्धैश्च च्छेदः कर्तव्यश्च तदा भवेत् ॥ ३८॥ शय्यास्थानं भवेच्चास्य करीषैः पांसुभिस्तथा ॥ तैलवस्कैः शीते स्यान्मासिमासि तथैव च ॥ ३९ ॥ शराग्निदाहयोः सेकः सर्पिषा च तथेष्यते ॥ राज्याद्विपदभ्यर्चिकां तु शोभां नागस्य चान्यस्य न जातु कुर्यात् ॥ शोभाविधानं त्वधिकं सदैव राज्याद्विपस्यैव नृपस्तु कुर्यात् ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने हस्तिचिकित्सा नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४१ ॥ पुष्कर उवाच ॥ अतः परं तु नागानां शान्तिकर्म निबोध मे ॥ नित्यं नैमित्तिकं कार्यं यथावदनुपूर्वशः ॥ १ ॥ पञ्चमीषु च शुक्लासु वासुदेवस्य पूजनम् ॥ श्रियश्च राम कर्तव्यं नागस्यैरावणस्य च ॥ २ ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ तथा च कृष्णपक्षान्ते मासिमासि द्विजोत्तम ॥ ३ ॥ एक भूतेञ्ज्या सततं कार्या तिलमाषपयोगुडैः ॥ मत्स्यैः पक्वामिषैर्भक्ष्यैः सुमनोभिश्च भार्गव ॥ ४ ॥ चतुष्पथेषु रथ्यासु तथा शून्येगृहेषु च ॥ षष्ठ्यां वृक्षश्मशानेषु गोपुरादृद्धालकेषु च ॥ ५ ॥ सङ्गमेषु नदीनां च पर्वतानां गुहासु च ॥ त्रिकटकेषु मुख्येषु शून्यदेवगृहेषु च ॥ ६ ॥ शुक्लपक्षावमा नेषु देवतेज्या विधीयते ॥ गजस्थानोत्तरे भागे प्रागुदक्प्रवणे शुभे ॥ ७ ॥ ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्रवणं यमम् ॥ चन्द्रार्को वरुणं वायुं त्वग्निं पृथ्वीं तथा खगम् ॥ ८ ॥ शेषं च नागराजं तु भूधरैश्च कुञ्जरान् ॥ विरूपाक्षं महापद्मं भद्रं सुमनसं तथा ॥ ९ ॥ अष्टौ च दिग्गजा ये वै ते स्मृता देवयोनयः ॥ कुमुदैरावणौ पद्मः पुष्पद्दन्तोऽथ वामनः ॥ १० ॥ सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ॥ यथोक्तानां सुकर्तव्यं पूजनं वै पृथक्पृथक् ॥ ११ ॥ गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ ॐकारपूतेनार्चयेत तथाग्निहवनं भवेत् ॥ १२ ॥ पृथक्पृथक् च सर्वेषां चतुर्थ्यन्तैश्च नामभिः ॥ दक्षिणामिस्ततो राम ब्राह्मणान्वस्ति वाचयत् ॥ १३ ॥ ततः शान्त्युदकं कृत्वा मन्त्रै रक्षोघ्नैर्द्विपान् ॥ अभ्युक्ष्यैक्कु शाग्रेण पृज्यास्ते च तथा तदा ॥ १४ ॥ अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥ गजानां मरणे प्राप्ते तथा व्याधौ च दारुणे ॥ १५ ॥ दन्तच्छेदाशुभोत्पत्तौ मृते राजाद्विपे तथा ॥ दन्तभङ्गे तथा जाते वा सुपक्षेमृते गजे ॥ १६ ॥ कृष्णपक्षे मृते नागे वह्निपृष्टे मृते तथा ॥ दारुणासु च वेलासु दक्षिणापरसूर्यनि ॥ १७ ॥ हस्तिन्याथ मदे जाते प्रकृतेश्च विपर्यये ॥ पूर्वोत्तरे च दिग्भागे नगरान्नुमतोहरे ॥ १८ ॥ क्षिप्रमथाशनं तोयेषु द्रुमवीतवनस्पतौ ॥ प्रागुदक्प्रवणं राम स्थण्डिलं परिकल्पयेत् ॥ १९ ॥ कमलं विन्यसेत्तत्र कर्णिकाकमले हरिम् ॥ श्रियं च विन्यसे त्तत्र केसरेषु च विन्यसेत् ॥ २० ॥ ब्रह्माणं भार्गवं पृथ्वीं तथा स्कन्दं च भार्गव ॥ अनन्तं खं शिवं सोमं सर्वाण्येतानि भार्गव ॥ २१ ॥
॥ २०८ ॥
दलैषु तत्र दिक्पालान्विन्यसेत्सह कुञ्जरैः ॥ पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः ॥ २२ ॥ वज्रं तु विन्यसेद्धीमान्शक्त्यन्नादनन्तरम् ॥ तत श्शक्तिं ततो दण्डं तोरणं तदनन्तरम् ॥ २३ ॥ ततश्च विन्यसेत्पाशं तोमरं सशरं धनुः ॥ ततो गदां महाभाग ततः शूलं च विन्यसेत् ॥ २४ ॥ पद्मञ्च सान्तरालं वृत्तया लेखया भजेत् ॥ आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत् ॥ २५ ॥ वसून्दिग्दिशिभागे साध्यान्वाय्ये च विन्य सेत् ॥ तथा च नैर्ऋते भागे देवानङ्गिरसो न्यसेत् ॥ २६ ॥ पश्चिमे भृगवो भागे वायव्ये मरुतस्तथा ॥ विश्वेदेवास्तथोदक् च रुद्राञ्छिखिदिशि न्यसेत् ॥ २७ ॥ कुर्वेताहेतवान्न्यासं वृत्तया रेखया भजेत् ॥ बाह्येन विन्यसेत्तस्याः सुत्रकारान्विन्दुज ॥ २८॥ पूर्वेण राम याम्येन तथा देवीं सरस्वतीम् ॥ नदीः पश्चिमतः शैलांस्तथोदग्भृगुनन्दन ॥२९॥ महाभूतानि वेदीषु कोणहस्तगतानि तु ॥ पद्मं चक्रं गदां शङ्खमीशान्यादिषु विन्यसेत् ॥ ॥ ३० ॥ चतुरस्रं तथा कार्यं चतुर्द्वारं च मण्डलम् ॥ प्रमाणं मण्डलस्यात्र भवेद्भूमिवशत्तथा ॥ विदिक्षु पूर्णकलशान्पूर्णपात्रायुतान्न्यसेत् ॥ ३१ ॥ सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत् ॥ सिता रक्ताः सिताः पीता यथावदनुपूर्वशः ॥ दिक्षु तोरणविन्यासं तोरणानां च वेष्टनम् ॥ ३२ ॥ क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत् ॥ तोरणस्य प्रमाणं च षड्ढस्तं परिकीर्तितम् ॥ ३३ ॥ उच्छ्रायेण तथा यामाज्ज्ञेयं राम समद्धयम् ॥ तादृष्यं तालं च मकरं ऋष्यं चैवानुपूर्वशः ॥ ३४ ॥ तोरणोपरि मध्ये तु दानवान्विनिवेशयेत् ॥ कर्णिकैर्लक्षणोपेतान्न्यसेद्देवतागणान् ॥ ३५ ॥ साधुघानसपताकाँश्च सातपत्रं शतक्रतुम् ॥ दिग्गजानां च विन्यासमोषधीभिः प्रकल्पयेत् ॥ ३६ ॥ ऐरावणं दले श्वेते लाजाभिर्विन्यसेद्बुधः ॥ नागं पुष्पमयं पद्ममाग्नेये विन्यसेद्दले ॥ ३७ ॥ पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियांशुभिः ॥ तथा च नैर्ऋते भागे नागः पुष्पेण वामनः ॥ ॥ ३८ ॥ वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः ॥ नीलञ्च पत्रे कौबेरे शतपुष्पामयो भवेत् ॥ ३९ ॥ ऐशान्ये कुङ्कुमं कुर्यान्नागेन्द्रं सितत ण्डुलैः ॥ ततस्तु पूजनं कार्यं सोपवासेन भार्गव ॥ ४० ॥ जितेन्द्रियेण दान्तेन शिरःस्नातेन चाप्यथ ॥ शुक्लबस्त्रावृतेनापि सोष्णीषेण तथैव च ॥ ४१ ॥ काञ्चनालंकृतेनापि सप्तविंशन् भार्गव ॥ सर्वासां पूजनं कुर्याद्देवतानां पृथक्पृथक् ॥ ४२ ॥ अङ्गाणां कुञ्जराणां च पद्मादीनां तथैव च ॥ तोरणे तु निविष्ठानां ताक्ष्र्य्यादीनां पृथक्पृथक् ॥ ४३ ॥ सागराणां तु कुम्भेषु गन्धमाल्यानुलेपनैः ॥ धूपैर्दीपनमस्कारैर्वासोभिश्च पृथक्पृथक् ॥ ४४ ॥ तथा प्रतिसराभिश्च भूषणैश्च पृथक्पृथक् ॥ सूरिणा च तथान्रेन पानैश्च विविधैस्तथा ॥ ४५ ॥ कुल्माषपरमान्नाभ्यां पूज्यास्ते कुसरेण च ॥ भृष्टकोष्ठोपिकामक्ष्यैः सितया गुडफाणितैः ॥ ४६ ॥ मांसोदनपयःक्षौद्रदधिपायससक्तुभिः ॥ अपूपफलमूलाग्ररागव
वि० ध० ॥२०९॥
द्वि० खं० अ० ५०
ण्डदर्कैर्दलैः ॥ ४७ ॥ एवं सम्पूज्यं कृत्वा शङ्खवाद्यैर्जयैर्द्विज ॥ गीतेन च महाभाग शुभगानैर्नर्तितैन च ॥ ४८ ॥ ततस्तु पूजनं कृत्वा पूजास्था-
नातथापृथक् ॥ आदित्याभिमकुलदग्निं वेदिमुलिख्य बोधयेत् ॥ ४९ ॥ देवतानां तु सर्वांसामेकैकं तु पृथक्पृथक् ॥ चतुर्थ्यन्तेन नाम्ना तु प्रण-
वाद्येन भार्गव ॥ ५० ॥ शतमराज्येन जुहुयान्महत्याहृत्यतस्तथा ॥ ततस्तु पूजिता नागा वह्निं देवगणान्द्विजान् ॥ ५१ ॥ कृत्वा प्रदक्षिणं सर्वे ब्रजेयुः
स्वगृहानि ते ॥ उपद्रूते तथा कर्म सर्वं तत्र निवेदयेत् ॥ ५२ ॥ भवेन्निकं च धेनुंचधे युंचंसुवम् ॥ अधर्मधं तथागव्या च दक्षिणा शक्तितो
भवेत् ॥ ५३ ॥ न भवेत्सा महाद्रोणा कदाचिदपि कस्यचित् ॥ तथा च हस्तिनिपूजा प्रवृत्तेन च भूरिणा ॥ ५४ ॥ पूजनीयो तथैवात्र सांवत्सर
पुरोहितौ ॥ हस्तिन्यां मद्दत्तायां शान्तिकेडस्मिन्द्विजोत्तम ॥ ५५ ॥ राष्ट्रारिष्टास्य तां कुर्याच्छान्तिमेतां द्विजोत्तम ॥ नगरानिर्गते सूते कृत्वा
तत्रैवनान्य मातङ्गजम् ॥ ५६ ॥ स्नातं सर्वोषधैर्नागं सर्वगन्धैस्तथैव च ॥ सर्वबीजैश रत्नैश्च सर्वतीर्थजलैस्तथा ॥ ५७ ॥ आहतम्बरसंवीतदर्शनं
श्वेेतलक्षणम् ॥ काश्चनापीडिते वाद्यगीतपुण्याहनिस्वनैः ॥ ५८ ॥ अर्चितं देवतो वह्निं कृतविप्रप्रदक्षिणम् ॥ करिणौ तु समारुह्य वृद्धैक्तं दु
कालविद् ॥ ५९ ॥ श्रीगजस्त्वत्कृते राजा भवस्वाम्य गजामणीः ॥ गन्धमालयान्नभक्षैस्त्वां पूजयिष्यति पार्थिवः ॥ ६० ॥
लोकस्तदाज्ञया पूजां करिष्यति तथानघ ॥ पालनीयस्त्वया राजा घोरबुद्धे तथाहवे ॥ ६१ ॥ तिर्यग्भावं समुत्सृज्य
दिव्यं भावमनुस्मर ॥ देवासुराणां युद्धे च श्रीगजाबिह्वेशैः कृतः ॥ ६२ ॥ ऐरावतसुतः श्रीमानरिष्टो नाम रावणः ॥
श्रीगजानां तु तेजसः सर्वमेवान तिष्ठति ॥ ६३ ॥ तत्तेजस्तव नागेन्द्र दिव्यभागसमन्वितम् ॥ उपतिष्ठतु भद्रं ते रक्ष गजान्
माहवे ॥ ६४ ॥ इत्येवमभिषिक्स्त्वं शुभेऽहनि नराधिपः ॥ नित्यं चैवास्य कर्तव्यं ब्राह्मणैः स्वस्तिवाचनम् ॥ ६५ ॥ तस्यानुगमनं
कुर्युः शस्त्रहस्ताश्च मानवाः ॥सितवर्णेश्च कर्तव्यो राज्ञः पुण्याहकर्मसु ॥ ६६ ॥ एतत्ते सर्वमाख्यातं गजानां शान्तिकर्मसु ॥ नक्षत्राणि प्रश-
स्तानि तिथ्यश्च तथा शृणु ॥ ६७ ॥ चतुर्दशीं चतुर्थी च नवमीं च विवर्जयेत् ॥ अङ्गारकदिनं राम दिनं भास्करजस्य च ॥ ६८ ॥ ऋक्षाणि
वैष्णवं त्वाष्ट्रं शस्यते शक्रदैवतम् ॥ नक्षत्राणि मुहूर्ताश्च एत एव महाबल ॥ ६९ ॥ देशकालोपसम्पन्नं विधिना च तथा कृतम् ॥ शान्तिकर्म
गजेन्द्राणां सर्वबाधाविनाशनम् ॥ ७० ॥ धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ॥ भार्गवश्च्यवनः क्रुद्धो यथा शक्रस्य भार्गव ॥ ७१ ॥
मदो नाम समुत्पन्नस्तथा दैत्यः सुदारुणः ॥ इन्द्रनाशाय शक्राथी ततः पश्चात्प्रसादितः ॥ ७२ ॥ मदं स बहुधा चक्रे प्रजापतिसमो द्विज ॥
॥२०९॥
स्त्रीष्वक्षेषु तथा पाने मृगयायां धने तथा ॥ ७३ ॥ विद्यासु चैव सर्वासु सर्वशिल्पेषु चाप्यथ ॥ जीवेषु राम सर्वेषु तथा रूपे बले कुले ॥ ७४ ॥ एकोऽस्य धारणे शक्तो न कश्चिदिति चिन्तयन् ॥ यथोक्तैश्वधिकं भागं किञ्चित्त्याने निवेशयेत् ॥ ७५ ॥ प्राणिनामथ सर्वेषां नागलोभ्यधिकं तथा ॥ मदो यदा सम्भवेति नागं ब्राह्मणसत्तम ॥ ७६ ॥ राम शान्तिस्तदा कार्या यादृशी तां निबोध मे ॥ शालाप्रागुत्तरे भागे स्थण्डिलं कल्पयेद्बुधः ॥ ७७ ॥ स्थण्डिले कमलं कृत्वा दिग्वत्पत्रेषु तथेश्वरान् ॥ केसरे च्यवनं नागनान्सुवं कं च सरस्वतीम् ॥ ७८ ॥ पूजयेडिण्डिमं मध्ये गन्धमाल्यानुलेपनैः ॥ धूपैर्दीपनमस्कारैर्वासोभिश्च पृथक्पृथक् ॥ ७९ ॥ सर्व्वांस्तां पूजनं कृत्वा पाद्याद्यातुरतो द्विज ॥ देवतानां घृतं हुत्वा यथा श्रद्धमनिन्दितम् ॥ ८० रसपूर्णो घटो देयो दक्षिणार्थे च काञ्चनम् ॥ दत्त्वा वासांसि नागस्य गजाध्यक्षं च पूजयेत् ॥ ८१ ॥ हस्तिपं कर्मिणश्चा न्यान्दक्षिणाभिर्द्दिजोत्तमान् ॥ संवत्सरे च वित्तेन यतः संवत्सरः स्वयम्॥८२॥ गजाध्यक्षाय तं दद्याडिण्डिमं प्रयतः स्वयम् ॥ प्राङ्मुखश्च गजा ध्यक्षो वादयेत्तं यथाविधि ॥ ८३ ॥ उच्चैर्गम्भीरनिर्घोषं डिण्डिमे तु शुभं वदेत् ॥ अन्तरा पातिते तस्मिंस्तथैवाप्यशुभं वदेत् ॥ ८४ ॥ डिण्डिमे सम्यगाकृष्टे शुभमेव विनिर्दिशेत् ॥ तदा प्रभृति मत्तस्त्य तदा नागस्य वै नृप ॥ ८५ ॥ अशुभे लक्षणे जाते भूयस्तत्कर्म चाचरेत् ॥ शुभे तु लक्षणे जाते गजाध्यक्षस्य डिण्डिमम् ॥ ८६॥ जये संस्थाय नन्दाद्यनागपाय...............सर्वबाधाविनाशनम् ॥ ८७ ॥ अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥ उपोषितस्तथा याम्ये यजमाने पुरोहितः ॥ ८८ ॥ शुभप्रदिमदं स्नानं यजमानस्य कारयेत् ॥ न्यग्रोधोदुम्बराश्वत्थमधुकोदकसँयुतैः ॥ ८९ ॥ अकालग्रसूतैः कलशैः पद्मभृङ्गारलक्षणैः ॥ स्नातः शुक्लाम्बरो विष्णुं चन्द्रार्कौ वरुणं तथा ॥ ९० ॥ हस्तिनं पूजयेद्विद्वान्गन्धमाल्यान्नसम्पदा ॥ धूपदीपनमस्कारैर्वासोभिश्च तथैव च ॥ ९१ ॥ हस्तिदन्तेन सूर्याय दत्त्वा धूपमतः परम् ॥ चतुर्थ्यन्तेन वै नाम्ना प्रणवाद्येन भार्गव ॥ सहस्रशो गजाञ्चात्र दक्षिणा काञ्चनं तथा ॥ ९२ ॥ यः सर्व्वास्ते स्नानमिदं प्रकुर्व्वन्नजेन्द्रसुरस्यान्निगर्र्सिन्नन्कशान् ॥ बहून्भवान्नोति तथास्य नागा भवन्त्यरोगा विनिमुक्तदोषाः ॥९३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गजानां शान्तिकमविधानं नाम पञ्चाशतत्तमोऽध्यायः ॥ ५० ॥ पुष्कर उवाच ॥ दुग्मायु घसंवांतं कुञ्जरास्तुरगास्तथा ॥ पुरुषैश्च विना राम सर्व्वमेतदपार्थकम् ॥ १ ॥ तस्माद्यत्ननं कुर्वीत पुरुषाणां समर्जने ॥ तेषां चैवान्तरज्ञाने
१ 'यथासते ( चरेत् ) स्नानमिदं प्रकुर्व्वन्' इत्यपि पाठान्तरम् ।
वि० ध०
॥२१०॥
द्वि० सं०
अ० ५२
मूलमेतद्गतः श्रियः ॥२॥ सुसहायार्थसम्पन्नं बलं यस्य महीपतेः ॥ संग्रामे तुमुले राम नूनं तस्य जयो भवेत् ॥ ३ ॥ सकृद्येन कृतं पापं तस्य
राजा न विश्वसेत् ॥ पापं तु सुकरं तस्य सुकृतञ्चास्य दुष्करम् ॥ ४ ॥ यथा हि मलिनेनैवधैर्येन तत्रापविश्यते ॥ तथा चलितवृत्तस्तु वृत्तशेषं
न रक्षति ॥ ५ ॥ राजा न वेश्ययेत्कार्यं जनो यो नास्तिको भवेत् ॥ आस्तिको अपि तत्सङ्गान्मृत्युः संशयं द्विज ॥ ६ ॥ अनाहायेप्रम
स्यापि त्रैलोक्याद्राक्षसितात्मनः ॥ कृष्णता राहूसंसर्गान्निष्कैन सूर्यस्य वा भवेत् ॥७॥ अकार्यमित्यकार्याणि कुर्यात्कार्यावश्येन यः ॥ विचिकित्सुर्ध्रुवं
राम पश्चादपि निवर्त्तते ॥ ८ ॥ कार्यं बुद्ध्या त्वकार्याणि यः करोति नराधमः ॥ अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते ॥ ९ ॥ लोकः सर्वो
महाभाग परलोकनिबन्धनः ॥ निष्पेक्ष्य तत्त्वान्या का गतिः स्यान्निबन्धन्ये ॥ १० ॥ महापातकिनो येऽपि तेभ्योऽपि च महत्तरः ॥
पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत् ॥ ११ ॥ आस्तिकानां च साधूनां संग्रहः शस्यते सदा ॥ ते सहाया नरेन्द्रार्णा तथा ये
राम पण्डिताः ॥ १२ ॥ न पण्डितो मते राम बहुपुस्तकधारणात् ॥ परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥ १३ ॥ अग्निहोत्रफला वेदा
दत्तभुक्तफलं धनम् ॥ रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ १४ ॥ शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः ॥ प्रभूतनागा
श्वबलोकटानां करोत्यरीणां कदनं रणेपु ॥ १५ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा
नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ ॥ अतः परं प्रवक्ष्यामि नराणां ते चिकित्सितम् ॥ तत्राप्यादां तथा
स्त्रीणां यन्मूलं प्रजनं यतः ॥ १ ॥ महाजम्बूद्वयं रोध्रं मधूकं मधु शर्करा ॥ तण्डुलोदकसंयुक्तां शोणितप्रदरे पिबेत् ॥ २ ॥ ऊर्ध्वं संवत्सराद्वारी
रक्तगुल्मे विचेष्टते ॥ क्षिप्रंविस्वंशरीराश्च राम तीक्ष्णैर्विरेचनैः ॥ ३ ॥ ज्वरेण च पलाशस्य संसिद्धं यावकं पिबेत् ॥ अग्निसन्धुक्षणं चान्या
स्तथा कार्यं प्रयत्नतः ॥ ४ ॥ प्रस्थं वृषकमूलस्य तैलं प्रस्थं विपाचयेत् ॥ योनीनां परिकोपेषु वेदनामपकर्षति ॥५॥ सौराष्ट्री रोचना रोधं मधूकं
त्रिफला मधु ॥ भद्रमुस्तानि चूर्णानि वाजीकरणमुत्तमम् ॥ ६ ॥ अश्वगन्धाविषेविलेन वराहस्य तु मेदसा ॥ ग्रन्थीकरणमभ्यङ्गं योषितां
परिकीर्तितम् ॥ ७ ॥ एकमामलकं काले सलिलेनाडलिता पिबेत् ॥ सृष्टं कृष्णायसे भाण्डे तेन शातोदरी भवेत् ॥ ८ ॥
त्रिफलां चित्रकं शुण्ठीं मधुना तु लिहेत्सदा ॥ स्थूलानां वरनारीणां कृशीकरणमुत्तमम् ॥ ९ ॥ अश्वगन्धां पयस्यां च
संमृज्य पयसा पिबेत् ॥ मासमेतन्मनुज्ञानां कृशा भवति मांसला ॥ १० ॥ वराहवस्या कार्यमभ्यङ्गान्द्विधायकेत्या ॥ स्तनानां मर्दनं
तेन नारी पीनस्तनी भवेत् ॥ ११ ॥ मूलकस्य च्युतं बीजं तथैव तगरस्य च ॥ सतरोत्रं तु गोमूत्रे सिध्मनाशनसुत्तमम् ॥ १२ ॥
॥२१०॥
क्षारेण हस्तिपिण्डस्य अवस्युजरसेन च ॥ एतेन प्रोक्षितं चित्रं त्रिरात्रेण विनश्यति ॥ ५३ ॥ गुञ्जायाः सफले मूले चित्रकं तगरं तथा ॥ भल्लातकानां च फलं मूले चैवाश्वमारकम् ॥ १४ ॥ अर्कक्षीरसमं तैलं द्रव्यैरेतैर्विपाचयेत् ॥ प्रोक्षणेन विनिर्दिष्टं रोमशातनमुत्तमम् ॥ १५ ॥ हस्तिदन्तमयीं पिष्ट्वा पयसा लेपयिच्छुरः ॥ अजातेष्वपि केशेषु रोमसंजननं परम् ॥ १६ ॥ भृङ्गराजरसैस्तैलं सिद्धमभ्यञ्जनाद्भुतम् ॥ दृढमूलानि केशानि कुर्यात्कृष्णासितानि च ॥ १७ ॥ कटुकं दन्तकाष्ठं तु गोमूत्रपरिभावितम् ॥ भुक्त्वा तैलेन गण्डूषं वक्त्रगन्धहरं परम् ॥ ॥ १८॥ इन्दीवराणि शुष्काणि प्राश्यानि तण्डुलैस्सह ॥ सर्वरोगं मुखे वाति सुगन्धि विशदं शुचि ॥ १९॥ सर्षपान्पेषयित्वा कृत्वा शाल्मलीनां तु कण्टकैः ॥ पयःपिष्टैर्मुखे लेपान्मुखं स्यात्कमलोपमम् ॥ २० ॥ व्यङ्गानां तिलकानां च शमनं तत्प्रकीर्तितम् ॥ यौवने पिटकानां च ये च दोषा मुखे स्मृताः ॥ २१ ॥ कषायकर्ल्कैस्सिद्धेन घृतातव्यं घृतेन च ॥ अभ्यङ्गपाननैर्भवेति नारी वर्णयुता परा ॥ २२ ॥ षोडशर्त्तनिशाः स्त्रीणामाद्यास्तिस्रस्तु निन्दिताः ॥ अभ्युष्य तासु नारी स्यात्स्पृष्टा तां स्नानमाचरेत ॥ २३ ॥ दिनत्रयं तु तत्रागे स्नानाभ्यङ्गां विवर्जयेत् ॥ आहारं गोरसानां च पुष्पालङ्कारधारणम् ॥ २४ ॥ अञ्जनं कङ्कणं गन्धाः पीतं शय्याशिरोगृहणम् ॥ मृल्लोहभाण्डञ्चैवेषु तथा भाण्डेषु भोजनम् ॥ २५ ॥ अभिसंस्पर्शनं चैव वर्जयेतु दिनत्रयम् ॥ चतुर्थेऽहनि कुर्वीत स्नानं सा तु यथाविधि ॥ २६ ॥ अनिषेकोदिताभिश्च मृद्भिरद्भिञ्च मानसेः ॥ औषध्यश्च तथा कुम्भे निक्षिप्य स्नापयेत्तु ताम् ॥२७॥ ज्योतिष्मतीं त्रायमाणांमभयामपराजिताम् ॥ जीवो विश्वेश्वरीं पाठां समक्षं विजयां तथा ॥ २८ ॥ सह्रां च सहदेवीं च पूर्णकोशां शतावरीम् ॥ अङ्गिष्ठां शिवां भद्रां गोलोमीं विजयप्रदाम् ॥ २९ ॥ ब्राह्मीं क्षेत्रमजां चैव सर्वबीजानि चाजनम् ॥ बिल्वं गन्धानि रत्नानि पञ्चगव्यं तथैव च ॥ ३० ॥ कुम्भे निक्षिप्त कुम्भं च गन्धमाल्यानुलेपनैः ॥ पूजयित्वा ततो देवं तत्पात्र शुभमर्चनम् ॥ ३१ ॥ मन्त्रं गजाभिषेकोक्तं पठेद्भूत च कालवित् ॥ वस्त्रच्छन्नमुखी स्नाता स्नापकं च विनिर्गते ॥ ॥ ३२ ॥ पश्येत्तद्देव प्रतिमां वासुदेवस्य रूपिणः ॥ अथवा राम भर्त्तारं नान्यं कंञ्चन मत्परम् ॥ ३३ ॥ तत्काल वदने तस्य पश्यत्यत्य यथा विधि ॥ सा प्रसूते युतं राम शुभं वाऽप्यथवा शुचिम् ॥ ३४ ॥ पूजने वासुदेवस्य या कृत्वात्पन एव च ॥ मण्डनं च यथाभाज्यं कुकुर्याच्चा च्छुद्धा ॥ ३५ ॥ षष्ठिकान्नं तु पयसा समश्नीयाद्घृतेन सा ॥ घृतस्य पीत्वा प्रसृतिं नागपुष्पावचूर्णितम् ॥ ३६ ॥ ऋतुकाले समाप्रोति नारी गर्भ द्विजोत्तम ॥ उपोषितेन शुचिना शुक्रपक्ष समुद्भूतम् ॥ ३७ ॥ पुत्रेभ्य वृहतीमूलपुत्रगं वा मुख नयेत ॥ श्वेतपुष्पा तु बृहती डु
३६
द्वि० खं० अ० ५२
^१मूलस्यैष निश्चयः ॥ ३८॥ नस्यान्येषां दद्याच्च चत्वार उन्मूला द्रुमविन्दवः ॥ तस्मिन्नहनि सा तेन गर्भं धत्ते वरांगना ॥ ३९ ॥ एवमप्यभवन्ती तु पुत्रीयां राम सप्तमीम् ॥ पुत्रीयमथवा स्नानं केशवाराचनं व्रतम् ॥ ४० ॥ पुत्रीयमेव वा कुर्यात्क्लेशवाराचनं प्रिया ॥ स्नाताऽनुलिप्ता भर्तारं दृष्ट्वैहितमेव च ॥ ४१ ॥ यायाद्भाद्रौ तथा नारी गन्धधूपानुवासिता ॥ आन्तगर्भा चिकित्सित तस्तमपराजित ॥ ४२ ॥ मधुरौषधिसिद्धेन पयसा सर्पिषा तथा ॥ इच्छाविमानगाः काश्चित्स्त्रास्याः कार्याः कथञ्चन ॥ ४३ ॥ कटुतिक्तकषायाणि चात्युष्णलवणानि च ॥ आयासं च व्यवायं च गर्भिणी वर्जयेत्सदा ॥ ४४ ॥ विना कर्म न तिष्ठेत तथा सा राहुदर्शने ॥ प्रादुर्भावानि वेदस्य विष्णोरमिततेजसः ॥ ४५ ॥ शृणुयात्तन्मना भूत्वा चरितं च महात्मनः ॥ पुन्नाम्नि नामनक्षत्रे ह्यासन्नप्रसवा गृहम् ॥ ४६ ॥ प्रविशेत्सूतिकायुक्तं कृतरक्षं समन्ततः ॥ सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः ॥ ४७ ॥ प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ॥ देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ॥ ४८ ॥ विप्र पुण्याहघोषेण शंखवाद्यरवेण च ॥ प्रसूता बहुशस्तत्र तथा कुशशमाश्व याः ॥ ४९ ॥ हृष्टा विश्वसनीयाश्च परिचरेयुः स्त्रियश्च ताम् ॥ वातातुल्रोमनेर्दृष्ट्यैस्तत्रेतांसमुपचारयेत् ॥ ५० ॥ आहारैश्च विहारैश्च प्रसवाय सुखं द्विज ॥ एरण्डमूलमिश्रेण सचूतेन तथैव ताम् ॥ ५१ ॥ सुखप्रसवनार्थाय पश्चात्काये तु म्रक्षयेत् ॥ वलाकल्ककषायेण सिद्धं क्षीरं चतुर्गुणम् ॥ ५२ ॥ तैलमभ्यञ्जनार्थाय सुतायामुपकल्पयेत् ॥ अथ जातान्नपानेच्छां पञ्चकोलप्रसादिताम् ॥ ५३ ॥ पिबेद्यवागूं सस्नेहां तथा वै नीलकूशिकाम् ॥ दशाहे सूतिकागारं वायुंश्चैव विशेषतः ॥ ५४ ॥ वह्निक्रातितकुर्वालतैः पूर्णकुम्भैः प्रदीपकैः ॥ मुसलेन तथा द्वारि वर्णकैश्चित्रितेन च ॥ ५५ ॥ रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ॥ राम जागरणं कार्यं जन्मदानां तथार्चनम् ॥ ५६ ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ॥ रात्रौ जागरणं कुर्युर्द्धशमेऽहनि सूतिका ॥ ५७ ॥ स्नाता पूर्वविधानेन रक्षणीया समीरण तात् ॥ बालस्य जातमात्रस्य नाभिं छित्त्वा यथाविधि ॥ ५८ ॥ तालुष्ठुतापयत्क्वारी पितृणा शोधयेन्मुखम् ॥ ब्राह्मी सुवर्चला सोमं सैन्धवं पिप्पलीं वचा ॥ ५९ ॥ कनकं सर्पिषा दद्याल्लेह्यमेतद्विजोत्तम ॥ लेहनेनानेन मेधावी शूरः पण्डित एव च ॥ ६० ॥ दर्शनीयो यशस्वी च सुभगः स भविष्यति ॥ बिभीतकास्थि क्षौद्रेण घृष्टं श्रेष्ठमथाञ्जनम् ॥ ६१ ॥ नेत्ररोगेषु बालानां सहारिद्रं च गोरसम् ॥ शारिवा चन्दनं कुष्ठं समभागानि कारयेत् ॥ ६२ ॥ शिरोलेपमिदं दद्याच्छिरोरोगविनाशनम् ॥ आत्रास्थि सैन्धवं लाजा मधुना सह लेहयेत् ॥ ६३ ॥
१ 'तन्मूलस्य' इत्यपि पाठः ।
वि० ध० ॥२११॥