भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

बुद्धवान्नृपः ॥ अनिच्छन्नपि लोकेषु तदा भवति पावकः ॥ ६ ॥ करोति च यदा दानं धनानां सर्वतो नृपः ॥ विसर्गार्थं सुरश्रे- ष्ठ तदा भवति वित्तदः ॥ ७ ॥ यदा च धनधाराभिर्वर्द्धयत्युच्यते जगत् ॥ तदा स वरुणः प्रोक्तो राजा नयविशारदैः ॥ ८ ॥ क्षमा- बलेन मनसा धारयन्सकलाः प्रजाः ॥ अविशेषेण धर्मज्ञ पार्थिवः पार्थिवो भवेत् ॥ ९ ॥ यदाधिपत्येन जनान्सम्प्रानुरक्षति ॥ त- दा भवति देवेन्द्रः सर्वभूतानुकम्पिता ॥ १० ॥ उत्साहमंत्रशक्तियां प्रभुशक्तिश्च दैविकी ॥ चतस्रः शक्तयस्तत्र वैष्णव्यः परिकीर्तिताः ॥ ११ ॥ कः समर्थः पातुं विना वैष्णवतेजसा ॥ तिस्रस्तु शक्तयस्तस्य वैष्णव्यः पृथिवीपते ॥ १२ ॥ दण्डप्रणयनं सम्यक् श्रोतुमिच्छामि त- त्त्वतः ॥ कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवा ॥ १३ ॥ कथं च दण्डं प्रणयेन्नरेन्द्रो धर्मेण युञ्जेद्यशसा च वीर ॥ अर्थेन कामेन च स- सर्वमेतद्ब्रूहि यादोगण नाथपुत्र ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामवाक्याध्यायो नामैकसप्ततितमोऽध्यायः॥७१॥ पुष्कर उवाच ॥ दण्डप्रणयनं राम स्वदेशे शृणु भूपजाव ॥ यस्य सम्यक्प्रणयनात्स्वर्गभाक्पार्थिवो भवेत् ॥ १ ॥ त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् ॥ कृष्णलानां तथा पष्ट्या कर्षार्धं राम कीर्तितम् ॥ २ ॥ सुवर्णैश्च विनिर्दिष्टो राम षोडशमाषकः ॥ निष्कं सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः ॥ ३ ॥ ताम्ररूप्यसुवर्णानां मानेनेत्यकीर्तितम् ॥ ताम्रकर्षपिको राम प्रोक्तः कार्षापणो बुधैः ॥ ४ ॥ पणानां द्वे शते सार्धे प्रथमं साहसः स्मृतः ॥ मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ॥ ५ ॥ बालदायादिकं रिक्थं तावद्राजानुपाल- येत् ॥ यावत्स स्यात्समावृत्तोयावद्वातीतरैशवः ॥ ६ ॥ वश्यापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ॥ पतिव्रतासु च स्त्रीषु विधवास्वा- त्मरासु च ॥ ७ ॥ जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ॥ तान्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८ ॥ प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ॥ अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ९ ॥ ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि ॥ स- म्पाद्य रूपसंख्यादीन्स्वामी तद्द्द्रव्यमर्हति ॥ १० ॥ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥ वर्णरूपं प्रमाणं च तत्समं दण्डम- र्हति ॥ ११ ॥ प्रनष्टाधिगतं रिक्थं तिष्ठेद्यैरधिष्ठितम् ॥ यांस्तत्र चौरान्मृतीह्याद्घातयेत्कुञ्जरेण तान् ॥ १२ ॥ ममेदमिति यो ब्रूयादसत्येन तथा निधिम् ॥ तस्य दण्डं हरेद्राजा स्ववित्तस्याथमांशकम् ॥ १३ ॥ चौरैर्मुषितो यस्तु मुषितोऽस्मीति भाषते ॥ तत्प्रदातरि भूपालै स दण्ड्यस्तावदेव तु ॥ १४ ॥ यो यावन्निहुते सार्थं मिथ्या यो वा वदेत्ततः ॥ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं धनम् ॥ १५ ॥ कूटसाक्ष्यं तु

द्वि० खं० अ० ७२

कुर्वाणांश्चान्विच्छन्नार्थ्यामिको नृपः ॥ प्रमापयेन्महाभागं ब्राह्मणं तु विवासयेत ॥ १६ ॥ यत्स्वामिनाननुज्ञातमाधिं भुंक्ते विचक्षणः ॥ अवध्यमूलं कर्त्तव्यं तस्य दण्डं महीक्षिता ॥ वसा..........तथा धर्मो न हीयते ॥ १७ ॥ यो निक्षेपं याच्यति यश्च निक्षिप्य याचते ॥ तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं धनम् ॥ १८ ॥ उपाधिमिश्च यः कश्चित्परद्रव्यं हरेन्नरः ॥ ससहायः स हन्तव्यः प्रकाशं विविधै र्वधैः ॥ १९ ॥ यो याचितकमादाय न तद्दद्याद्यथाक्रमम् ॥ स निगृह्य बलाद्दाप्यो दण्ड्यो वै पूर्वसाहसम् ॥ २० ॥ अज्ञानाद्यः प्रमाणात्कु र्यात्परद्रव्यस्य विक्रयम् ॥ निर्दोषो ज्ञानपर्यन्तं चौरवद्दण्डमर्हति ॥ २१ ॥ मूल्यामादाय यो विद्यां शिल्पं वा न प्रयच्छति ॥ दण्ड्यः समूलं सकलं धर्मज्ञेन महीक्षिता ॥ २२ ॥ द्विजभोज्ये तु सम्प्राप्ते प्रतिवेश्यमभोजनम् ॥ हिरण्यमाषकं दण्ड्यः पापे नास्ति व्यतिक्रमः ॥ २३ ॥ आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे ॥ निष्कारणं न गच्छेद्वः स दाप्योऽष्टशतं दमम् ॥ २४ ॥ प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ॥ ॥ २५ ॥ भूतोन्नातो न कुर्याद्यो दर्पात्कर्म यथोदितम् ॥ स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥ २६ ॥ अकाले यस्त्यजेद्दास्यं दण्ड्यः स्यात्तावदेव तु ॥ यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ॥ विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत ॥ २७ ॥ क्रीत्वा विक्रीय वा किञ्चिद्यस्यानुशयो भवेत् ॥ सोन्तर्दशाहात्तत्साम्याद्दद्याच्चैवाददीत च ॥ २८ ॥ परेण तु दशाहास्य न दद्यान्नैव दापयेत् ॥ आददानोद्ददच्चैव राज्ञा दण्ड्यः शतानि षट् ॥ २९ ॥ यस्तु दोषवतीं कन्यां त्वनाख्याय प्रयच्छति ॥ तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिः पणान् ॥ ३० ॥ अकन्येति तु यः कन्यां ब्रूयाद्देषेण मानवः ॥ स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन् ॥ ३१ ॥ यस्त्वन्यां दर्शयित्वाऽन्यां वोढुः कन्यां प्रयच्छति ॥ उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥ ३२ ॥ वरो दोषानभिख्याय यः कन्यां वरयेदिह ॥ दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ ३३ ॥ प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥ दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥ ३४ ॥ सत्यंकारेण वाचा च युक्तं पर्याप्तमं शयम् ॥ तुल्योऽन्यस्य तु विक्रेता षट्शतं दण्डमर्हति ॥ ३५ ॥ बह्वेन्दुल्के तु विक्रेता सत्यंकारं तु संत्यजेत् ॥ द्विगुणं दण्डयेद्देनमिति धर्मो व्यवस्थितः ॥ ३६ ॥ मूल्यैकदेशं दत्वा तु यदि क्रेता धनं त्यजेत् ॥ दण्ड्यः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणात् ॥ ३७ ॥ दुग्धादृक्स्रस्तु यः पालं गृहीत्वा भक्तवेतनम् ॥ स तु दण्ड्यः शतं राजा सुवर्णं स्वाम्यदक्षिणा ॥ ॥ ३८ ॥ दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ॥ बद्धः कृत्यायसैः पाशैस्तस्य कर्मकरो भवेत् ॥ ३९ ॥ धनुश्शतःपरीमाणं ग्रामस्य तु

वि० ध० ॥२२॥ ॥२२४॥

समन्ततः ॥ द्विगुणं त्रिगुणं वापि नगरस्य तु कल्पयेत् ॥४०॥ वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥ छिद्रं निवारयेत्सर्वं श्वसूकरमुखावतुगम् ॥ ४१ ॥ तत्रापरुद्धं धान्यं महिष्यः पशवो यदि ॥ न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥४२॥ अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा ॥ सपालानां विपालानां न दण्ड्यान्मनुरब्रवीत् ॥ ४३ ॥ अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति ॥ ४४ ॥ पालस्त्वपालके स्वामी विनाशे क्षत्रियस्य तु ॥ भक्षयित्वोपविष्टेषु द्विगुणं दण्डमर्हति ॥ ४५ ॥ वेश्मादशगुणं दण्डं विनाशात्क्षत्रियस्य तु ॥ गृहं तडागारामं क्षेत्रं बुद्ध्वा हपाहरन् ॥ शतानि पञ्च दण्ड्यः स्यादज्ञानाद्विशतो दमः ॥ ४६ ॥ सीमाबन्धनकाले तु सीमाबन्धनकारिणाम् ॥ तेषां संज्ञां दधानस्तु जिह्वाच्छेदनमाप्नुयात् ॥४७॥ अर्थेनापि च यो विद्यात्संविदं वापि गच्छति ॥ उत्तमं साहसं दण्ड्य इति स्वायंभुवोऽब्रवीत् ॥ ४८ ॥ स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः ॥ ४९ ॥ सर्वे पृथक्पृथग्दण्ड्या राज्ञा प्रथमसाहसम् ॥ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ॥ ५० ॥ वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति ॥ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्यापि शासने ॥ ५१ ॥ वैश्ये चाप्यर्धपञ्चाशच्छूद्रो द्वादशको दमः ॥ क्षत्रियस्याप्युयाद्वैश्यः साहसं पूर्वमेव तु ॥ ५२ ॥ शूद्रः क्षत्रियमात्रस्य जिह्वाच्छेदनमाप्नुयात् ॥ पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशंसने ॥ ५३ ॥ शूद्रे चैवार्धपञ्चाशत्तथा धर्मो न हीयते ॥ ५४ ॥ वैश्यस्याक्रोशन दण्ड्यः शूद्रश्चोत्तमसाहसम् ॥ ५४ ॥ शूद्राक्रोशे तथा वैश्यः शतार्धं दण्डमर्हति ॥ सवर्णाक्रोशेने दण्डस्तथा द्वादशिकः स्मृतः ॥ ५६ ॥ वादेषु वचनीयेषु तदेव द्विगुणं भवेत् ॥ एकजातिर्द्विजातिं तु वाचा दारुणया क्षिपन् ॥ जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ ५६ ॥ नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः ॥ निखन्द्योऽयोमयः शङ्कूर्ज्वलन्नास्ये दशाङ्गुलः ॥ ५७ ॥ धर्मोपदेशमथैनं द्विजानामस्य कुर्वतः ॥ तप्तमासिञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥५८॥ श्रुतं देशं च जातिं च कर्म शारीरमेव च ॥ वितथं तु ब्रुवन्दण्ड्यो राज्ञा द्विगुणसाहसम् ॥ ५९ ॥ यस्तु पातकसंयुक्तैः क्षिपेद्वर्णान्तरी विशः ॥ उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ॥ ६० ॥ राज्ञो निवेश्य नियमं प्रथमं यान्ति ये मिथः ॥ ६१ ॥ सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ॥ प्रीत्या मध्यास्याभिहितं प्रमादेनाथवा वदेत् ॥ भूयो न चैवं वक्ष्यामि स तु दण्डार्धभागभवेत् ॥ ६२ ॥ काणं वाप्यथवा खञ्जमन्धं वापि तथाविधम् ॥ तथैनापि ब्रुवन्दाप्यो दण्डः कार्षापणावरम् ॥ ६३ ॥ मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम् ॥ आक्षारयञ्छतं दण्ड्यः पन्थानं चादद्दद्रोः ॥६४॥ गुरुवर्ज्यं तु मार्गेणं यो मार्गं न प्रयच्छति ॥ स राज्ञा कृष्णलं दण्ड्य

वि० ध० ॥२२४॥ द्वि० सं० अ० ७२ ॥२२५॥

स्तस्य पापस्य शान्तय ॥६६॥ एकजातिर्द्विजातिंस्तु येनाङ्गेनापराध्युयात् ॥ तदेव छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥६६॥ अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ॥ अवसेचयतो मेदूमवशब्दयतो गुदम् ॥ ६७ ॥ महासनमभिप्रैसुत्कृष्टस्यावकृष्टजः ॥ ६८ ॥ कृताङ्कः स विनिर्वास्यो ह्यङ्के वास्य विकर्तयेत् ॥ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ॥ पादयोर्दण्डिकायां तु ग्रीवायां वृषणेषु वा ॥ ६९ ॥ त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ॥ ७० ॥ अस्थिभेत्ता च षण्णिष्कान्प्रत्राज्यश्च प्रमापकः ॥ अङ्गभङ्गकरस्त्वंगं तदेवापहरेश्नृपः ॥ ७१ ॥ दण्डपारुष्यकृद्व्यात्यस्थान्वयं तथा ॥ अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ॥ ७२ ॥ पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ॥ पञ्चाशत्तु भवेद्दण्डस्तथैव मृगपक्षिषु ॥ ७३ ॥ कृमिकीटेषु दण्डः स्याज्जतस्य तु माषकम् ॥ तत्स्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा ॥७४॥ सस्वामिकानो मरेके शेषाणां दण्डमेव तु ॥ वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ॥ ७५ ॥ द्विगुणं दण्डयेच्चैन्य पथि सीम्नि जलाशये ॥ छेदनादफलस्यापि मध्यमः साहसः स्मृतः ॥ ७६ ॥ गुल्मवल्लीलतानां तु सुवर्णस्य च माषकम् ॥ वृथा छेदे तृणस्यापि दण्डः कार्षापणं भवेत् ॥ ७७ ॥ त्रिभागं कृष्णलाद्दण्ड्यः प्राणिनस्ताडने तथा ॥ देशकालानुरूपेण मूल्यं राम ! द्रुमादिषु ॥ ७८ ॥ तत्स्वामिनि तथा दद्याद्दण्ड्युक्तं च पार्थिवे ॥ यत्रातिवर्त्तते युग्मं वैगुण्याद्प्राजकस्य तु ॥ ७९ ॥ तत्र स्वामी भवेद्दण्ड्यो नातश्चेवाप्रजाको भवेत् ॥ प्रागक्षश्च भवेद्दासः प्राजको दण्डमर्हति ॥ ८०॥ नास्ति दण्डं च तस्यापि तथा त्राहीति जल्पतः ॥ ८१ ॥ द्रव्याणि यो हरेद्यस्य जानंतोऽजानतोऽपि वा ॥ स तस्योत्पादयेत्तुष्टिं राज्ञो दद्यात्ततो दमम् ॥ ८२ ॥ यस्तु रज्जुं घटं कूपाह्रोरेन्द्भिन्द्याच्च तां प्रपाम् ॥ स दण्डं प्राप्नुयान्माषं तच्च संप्रतिपादयेत् ॥ ८३ ॥ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बुधः ॥ शेषेऽप्यकादशगुणं दण्डं तस्य प्रकल्पयेत् ॥८४॥ सुवर्णरजतादीनां चोतमानां च वाससाम् ॥ पुरुषाणां कुलीनानां नारीणां च विशेषतः ॥ मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥८५॥ महाशशूनां हरणे वस्त्राणामौषधस्य च ॥ कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ८६ ॥ गोषु ब्राह्मणसंस्थासु स्थूलकार्यावभेदने ॥ अश्वोपहारकश्चैव सद्यः कार्यावधाइिकः ॥ ८७ ॥ सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ॥ दध्नः क्षीरस्य तक्रस्य पानीयस्य फलस्य च ॥ ८८ ॥ वेणुवैदलभाण्डानां लवणानां तथैव च ॥ मृन्मयानां च सर्वेषां मृदो भस्मन एव च ॥८९॥ मद्यानां पक्षिणां चैव तैलस्य च घृतस्य च ॥ मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम्॥९०॥ अन्वेषामेवमादीनां मत्स्यानामोदनस्य च ॥ पक्वान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ॥ ९१ ॥ पुष्पेषु हरिते धान्ये गुल्मवल्लीलतासु च ॥

अल्पेषु परिपूर्णेषु दण्डः स्यात्पञ्चमाषकः ॥ ९२ ॥ परिपूर्णेषु धान्येषु शाकमूलफलेषु च ॥ त्वन्वये शतं दण्ड्यः सान्वये च शतं दमः ॥ ९३ ॥ येनेयेन यथाऽङ्गेन स्तेनो नृषु विचेष्टते ॥ तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ॥ ९४ ॥ द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ॥ त्रपुसोर्वारुकौ द्वौद्वौ तावन्मानं फलेषु च ॥ ९५ ॥ तथा च सर्वधान्यानां मुष्टिग्राहण भार्गव ॥ शाकं शाकप्रमाणेन गृह्यमाणो न दुष्यति ॥ ९६ ॥ वानस्पत्यं मूलफलं दूर्वार्थ्यं तथैव च ॥ तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ९७ ॥ अदेववाटजं पुष्पं देवतार्यं तथैव च ॥ आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ९८ ॥ शृङ्गिणं नखिनं चापि दंष्ट्रिणं वा वधोद्यतम् ॥ यो हन्यान्न स पापेन लिप्यते मनुजः क्वचित् ॥ ९९ ॥ गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ॥ आततायिनमायान्तं हन्यादेवाविचारयन् ॥ १०० ॥ नाततायिवधे दोषः कर्तुर्भवति कश्चन ॥ प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमर्हति ॥ १०१ ॥ गृहक्षेत्राभिहर्त्तारं तथा पत्न्यभिगामिनम् ॥ अग्निदं गरदं चैव तथा हस्तोद्यतायुधम् ॥ १०२ ॥ अभिचारं च कुर्वाणं राजागामि च पैशुनम् ॥ एते हि कथिता लोके धर्मज्ञैराततायिनः ॥ १०३ ॥ परस्त्रियं न संभाषत्तीर्थेऽरण्ये गृहेऽपि वा ॥ नदीनां चैव संभेदे संग्रहणमवाप्नुयात् ॥ १०४ ॥ न संभाषं सह स्त्रीभिः प्रतिषिद्धं समाचरेत् ॥ प्रतिषिद्धस्तु संभाषः सुवर्णं दण्डमर्हति ॥ १०५ ॥ नैष चारणदारेषु विधिर्नात्मोपजीविषु ॥ सज्जन्ति मनुष्यैस्ते निगूढं विचरन्त्युत ॥ १०६ ॥ किञ्चिदेव तु साम्यं स्यात्संभाषेताभिचारयन् ॥ प्रेष्यासु चैव सर्वासु प्रव्राजितासु च ॥ १०७ ॥ योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ॥ सकामां दूषयाणस्तु प्राप्यः प्रथमसाहसम् ॥ १०८ ॥ भिक्षुकोऽप्यथवा नारी योऽपि च स्यात्कुशीलवः ॥ प्रविशेत्प्रतिषिद्धस्तु प्राप्नुयाद्विशतं दमम् ॥ १०९ ॥ यश्च संचाकरस्तत्र पुरुषः स तथा भवेत् ॥ पारदारिकवद्दण्ड्यो यश्च स्याद्व्यवकाशदः ॥ ११० ॥ बलात्संदूषयंस्तु परभार्या नरः क्वचित् ॥ वधदण्डो भवेत्तस्य नापराधो भवेत्स्त्रियाः ॥ १११ ॥ रजस्तृतीयां या कन्या स्वगृहे प्रतिपद्यते ॥ अदण्ड्या सा भवेद्राज्ञा वरयन्ती पतिं स्वयम् ॥ ११२ ॥ स्वदेशे कन्यकां दत्त्वा तामादाय तथा व्रजन् ॥ परदेशे भवेच्चौरः स तथा भवेत् ॥ ११३ ॥ अदुष्ट्यां मृतपत्नीं तु संसृष्टामपराधयति ॥ सार्थं वै तां च गृह्णानो दण्डमुत्तममर्हति ॥ ११४ ॥ उत्कृष्टं या भजेत्कन्या देया तस्यैव सा भवेत् ॥ जघन्यं सेवमानां च संयतां वासयेद्गृहे ॥ ११५ ॥ उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥ जघन्युत्तमा नारी सेवमाना तथैव च ॥ ११६ ॥ भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता ॥ तां श्वभिः खादयेद्राजा संस्थाने बहुसं

वि० ध० द्वि० सं० अ० ७२ ॥२२६॥

स्थितौ ॥ ११७ ॥ हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ॥ वासयेत्स्वैरिणीं नित्यं सर्वनाभिभूषिताम् ॥ ११८ ॥ जाया या दृपिता नारी मुण्डनं समवाप्नुयात् ॥ मासं च मलिना नित्यं सा ग्रासान्प्राप्नुयाद्दश ॥ ११९ ॥ ब्राह्मणः क्षत्रियो वैश्यः क्षत्रविट्शूद्रयोनयः ॥ व्रजन्दाप्यो भवेद्दण्डं उत्तमसाहसम् ॥ १२० ॥ वैश्यागमे तु विप्रस्य क्षत्रियस्यान्वजागमे ॥ मध्यमं प्रथमं वैश्यो वैश्या दण्ड्यः शूद्रागमे भवेत् ॥ १२१ ॥ शूद्रः सवर्णाऽगमने शतं दण्ड्यो महीभुजा ॥ वैश्यश्च द्विगुणं राम क्षत्रियस्त्रिगुणं तथा ॥ १२२ ॥ ब्राह्मणश्च भवेद्दण्ड्यस्तथा राम चतुर्गुणम् ॥ गुप्तास्वेव भवेद्दण्डस्त्वसतीषु ततस्त्वर्धम् ॥ १२३ ॥ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ॥ पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥ १२४ ॥ भागिनेयी तथा चैव राजपत्नी तथैव च ॥ इत्यगम्यास्त्विति निर्दिष्टास्तासां तु गमने नरः ॥ १२५ ॥ शिश्नस्योत्कृन्तनं कृत्वा ततस्तु वधमर्हति ॥ भ्रातृभार्यागमे पूर्वोक्तदण्डं त्वधमर्हति ॥ १२६ ॥ चण्डालीं वा श्वपाकीं वा गच्छन्वधमवाप्नुयात् ॥ तिर्यग्योनीं तु गोवर्ज्य मैथुनं यो निषेवते ॥ १२७ ॥ स पणं प्राप्नुयाद्दण्डं तस्याश्च यवसोदकम् ॥ सुवर्णं च भवेद्दण्डो गां व्रजन्द्विजोत्तम ॥ १२८ ॥ वेश्यागामी भवेद्दण्ड्यो वेश्याशुल्कसमं पणम् ॥ गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥ १२९ ॥ वेतनं द्विगुणं दद्याद्दण्डं च त्रिगुणं तथा ॥ अन्यमुद्दिश्य वेश्यां यो नयेदन्यस्य कारणात् ॥ १३० ॥ तस्य दण्डं भवेद्राज्ञ सुवर्णस्य च माषकम् ॥ नीत्वा भोगं न यो दद्याद्दाप्यो द्विगुणवेतनम् ॥ १३१ ॥ राज्ञा च द्विगुणं दण्ड्यस्तथा धर्मो न हीयते ॥ बहूनां व्रजतामेकां सर्वे तद्द्विगुणं दमम् ॥ १३२ ॥ सर्वे पृथक्पृथग्दद्युर्दण्डं च द्विगुणं पणात् ॥ न माता न पिता न स्त्री ऋत्विग्याज्यस्य सूनवः ॥ १३३ ॥ अन्योऽन्याः पतितास्त्याज्यास्त्यागे दण्ड्यः शतानि षट् ॥ पतिता गुरवस्त्याज्या न तु माता कदाचन ॥ १३४॥ गर्भधारणपोषणाभ्यां तेन माता गरीयसी ॥ संदंशहीनौ कर्तव्यौ कूटसाक्षीष्विदेविनौ¹ ॥ १३५ ॥ अधीयानमनध्याय्ये दण्डः कर्षापणत्रयम् ॥ अध्यापकस्य द्विगुणं तथाचारस्य लङ्घने ॥ १३६ ॥ अनृते सत्यमेवे दण्डः सुवर्णस्य च कृष्णलम् ॥ भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः ॥ १३७ ॥ प्राप्तापराधास्ते दण्ड्या रज्वा वेणुदलेन वा ॥ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथंचन ॥ १३८ ॥ अतोऽन्यथा यः प्रहरेन्मर्त्यः स्याच्चौरकिल्बिषम् ॥ द्यूतं समाह्वयं चैव यो निक्षिप्तं समाचरेत् ॥ १३९ ॥ प्रच्छन्नं वा प्रकाशं वा स दण्ड्यः पार्थिवेच्छया ॥ वासांसि फलके श्लक्ष्णे नेनिञ्ज्याद्रजकः शनैः ॥ १४० ॥ अतोऽन्यथा


¹ 'कूटसाक्षिभिदेविनौ' इति ख० ।

॥२२६॥

तु कुर्वीत दण्डमस्याङ्कमुष्णलम् ॥ रक्षांस्यधिकृता राम प्रजेयं यैर्विलुप्यते ॥ १४१ ॥ कायिकेभ्योऽर्थमादाय हन्युः कार्याणि कार्यिणाम् ॥ तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ १४२ ॥ ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कार्यिणाम् ॥ निर्घृणाः क्रूरमनसः सर्वकार्योपरो- धिनः ॥ १४३ ॥ घनोष्मणा पच्यमानांस्तांस्त्रिःस्वान्कारयेन्नृपः ॥ कूटशासनकर्तृंश्च प्रकृतीनां च दूषकान् ॥ १४४ ॥ स्त्रीबालब्राह्मणांश्च वध्यां श्चासोविनस्तथा ॥ अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ॥ १४५ ॥ तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥ ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १४६ ॥ एतान्सर्वान्पृथग्विद्वान्महापातकिनो नरान् ॥ महापातिकिनो वध्या ब्राह्मणं तु विवासयेत् ॥ १४७ ॥ कृतचिह्ने स्वकाद्देशाच्छुष्मु चिह्नकर्म तथा ॥ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ॥ १४८ ॥ स्तेये तु श्वपदं विद्याद्ब्रह्महत्याशिराः पुमान् ॥ असं- म्भाष्या ह्यसंलाप्या असम्पाद्या विशेषातः ॥ १४९ ॥ त्यक्तव्याश्च तथा राम ! ज्ञातिसम्बन्धिबान्धवैः ॥ महापातकिनो वित्तमादाय नृपतिः स्वयम् ॥ १५० ॥ अप्सु प्रवेशयेद्दण्डं वरुणायापपादयेत् ॥ सहोढं न विना चौरं घातयेद्धार्मिको नृपः ॥ १५१ ॥ सहोढं सोपकरणं घातये- द्विचारयन् ॥ ग्रामेष्वपि च ये केचिच्चोराणां भक्तदायकाः ॥ १५२ ॥ भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ राष्ट्रेषु राष्ट्राधिपतेः सम- न्ताच्चैव दूषकान् ॥ १५३ ॥ अभ्याघातेषु मध्यस्थाः क्षिप्रं शास्यास्तु चौरवत् ॥ दस्युप्रपीडितानां हि पथि मोहाद्दिदृशने ॥ १५४ ॥ शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ राज्ञः कोषापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ॥ १५५ ॥ अरीणामुपजप्तॄंश्च घातयेद्विविधैर्वधैः ॥ सन्धिं भित्त्वा तु ये चौर्यं राज्ञः कुर्वन्ति तस्कराः ॥ १५६ ॥ तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ तडाकभेदकं हन्यादप्सु शुद्धवधेन तु ॥ १५७॥ वार्यस्तु पूर्व निवृत्तस्तस्य तडाकस्योदकं हरेत् ॥ आगमं वारयन्नै कुर्यात्तस्य दण्ड्यः पूर्वसाहसम् ॥ १५८॥ कोष्ठागारायुधागारदेवतागारभेदका न् ॥ पापानपासमाचारान्चातयेच्छीघ्रमेव तान् ॥ १५९ ॥ सप्तुसूत्रेज्जदन्मार्गं यस्त्वन्मेध्यमनापदि ॥ स हि कार्षापणं दण्ड्यस्तममेध्यं च शोधयेत् ॥ ॥ १६०॥ आपद्गतोऽथ वा वृद्धो गर्भिणी बाल एव वा ॥ परिभाषणमर्हन्ति तच्च शोच्यमिति स्थितिः॥ १६१॥ प्रथमं साहसं दण्ड्यः यश्च मिथ्याचि कित्सकः ॥ पुरुषे मध्यमं दण्ड्यस्तमेव च तथोत्तमम् ॥ १६२॥ संक्रमध्वजयष्टीनां प्रतिमानां च भेदकान् ॥ प्रतिकुर्याच्च तत्सर्वं दद्युः पश्चशतानि चा ॥ १६३॥ अदूषितानां द्रव्याणां दूषणे भेदने तथा ॥ मणीनामपि भेदस्य दण्डः प्रथमसाहसः ॥ १६४ ॥ समैश्च विषमं यो वै कुरुते मूल्यतोऽपि वा ॥ समानुयान्नरः पूर्व समं बाधममेव वा ॥ १६५ ॥ बन्धनानि च सर्वाणि राजमार्गं निवेशयेत् ॥ कृष्यन्तो यत्र दृश्यन्ते विकृताः पापचा-

द्वि० सं० अ० ७२

णिनः ॥ १६६ ॥ प्राकारस्य तु भेत्तारं परिखानां च भेदकम् ॥ द्वाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत्पुरात् ॥ १६७ ॥ शुल्कमाभिचरंश्चैव कर्तव्यो द्विगुणो दमः ॥ अबीजबिक्री देवद्विजोत्कृष्टस्तथैव च ॥ १६८ ॥ मर्यादाभेदकश्चैव विकृतं वधमाप्नुयात् ॥ सर्वसङ्करपापिष्ठं हेमकारं नरा- धिपः ॥ १६९ ॥ अन्याये वर्तमाने तु लवशश्छेदयेच्छरैः ॥ द्रव्यमादाय वणिजामनर्घेणापरुन्धताम् ॥ १७० ॥ राजा पृथक्पृथक्कुर्याद्दण्डं मुत्तमसाहसम् ॥ द्व्याद्यापको यश्च प्रतिच्छन्दकविक्रयी ॥ १७१ ॥ मध्यमे प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम् ॥ शास्त्राणां यज्ञतपसां देशानां क्षेपको नरः ॥ १७२ ॥ देवतानां सतीनां वै तूत्तमं दण्डमर्हति ॥ एकस्य दण्डपादस्तु बहूनां द्विगुणो दमः ॥ १७३ ॥ कलहापहृतं देयं दण्डश्च द्विगु- णस्ततः ॥ मध्यमं ब्राह्मणं राजा विषयाद्विप्रवासयेत् ॥ १७४ ॥ लशुनं च पलाण्डुं च सूकरं ग्रामकुक्कुटम् ॥ तथा पञ्चनखं सर्वं भक्ष्यादन्यच्च भक्षिणम् ॥ १७५ ॥ विवासयेत्क्षिप्रमेव बाह्मं विषयात्स्वकात् ॥ अभक्ष्यभक्षणे दण्ड्यः शूद्रो भवति कृष्णलम् ॥ १७६ ॥ ब्राह्मणाक्षत्रियविशां चतुर्द्विगुणं हितम् ॥ यः साहसं कारयति स दद्याद्द्विगुणं दमम् ॥ १७७ ॥ यश्चैवं कुर्याद् दाता कारयेत्स चतुर्गुणम् ॥ संदिदृष्टस्याप्रदातारं समु- द्धारभेदकम् ॥ १७८ ॥ पश्चात्तापिनमुक्तो दंस्तयोः कार्यो महीक्षिता ॥ अस्पृश्येषु शतार्द्धन्तु मद्यभाण्डो योगकर्मकृत् ॥ १७९ ॥ पुंस्त्वहर्ता पशूनां च दासीगर्भविनाशकृत् ॥ शूद्रप्रब्रजितानां च दैवे पित्र्ये च भोजकः ॥ १८०॥ अब्रजन्नाद्वसद्युक्तो च तथैव च निमन्त्रणात् ॥ एते कार्षा- पणशतं सर्वं दण्ड्या महीक्षिता ॥ १८१ ॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन् दण्ड्यस्तु कृष्णलम् ॥ पितापुत्रविरोधे तु साक्षिणां दिशतो दमः ॥ १८२ ॥ तुलाशासनमानानां कूटकृन्नाणकस्य च ॥ एभिश्च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ॥ १८३ ॥ विषाग्निदां पतिगुरुनिजा- पत्यप्रमापणीम् ॥ विकर्णेकनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ १८४ ॥ क्षेत्रवेश्मग्रामवननिवीतखलदाहकाः ॥ राजपत्न्याभिगामी च दग्ध- व्याश्च कटाग्निना ॥ १८५ ॥ ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ॥ पारदारिकचौरौ च मुञ्चतो दण्डमुत्तमम् ॥ १८६ ॥ अभक्ष्येण द्विजं दूष्य दण्ड्यस्तूत्तमसाहसम् ॥ क्षत्रियो मध्यमं वैश्यः प्रथमं शूद्रमर्द्धिकम् ॥ १८७॥ मृताङ्गविक्रेतुर्विक्रीतेरोगस्ताडयितुस्तथा ॥ राजयानासनारूढेर्दण्ड उत्तमसाहसः ॥ १८८ ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ॥ तमायान्तं पुनर्जित्वा दण्डयेद्द्विगुणं दमम् ॥ १८९ ॥ आह्नानकारी वध्यः स्यादादूतमाह्वयन् ॥ दण्डिकस्य च यो हस्तादभियुक्तः पलायते ॥ १९० ॥ हीनः पुरुषकारेण तद्दद्याद्दाण्डिको धनम् ॥ प्रेष्यापराध-


१ 'यश्चैनमुत्साहयेत्तद्दापयेत्त चतुर्गुणम्' । इति ख० ।

॥२२७॥

धात्रेयस्य स दण्डं दातुमर्हति ॥ १९१ ॥ दण्डार्थं नियमाथं च नीयमानस्तु बन्धनम् ॥ पथि कश्चित्पलायेत दण्डमष्टगुणं भवेत् ॥ १९२ ॥ अनिष्टितिवादे तु नखरोमावतारणम् ॥ कारयेत्त्वः स पुरुषो मध्यमं दण्डमर्हति ॥ १९३ ॥ बन्धनं वाथवा वध्यं बलान्मोचयतेोभ वेत् ॥ वध्ये विमोचिते वध्यो दण्ड्ये द्विगुणदण्डभाक् ॥ १९४ ॥ दुर्मुष्टव्यवहाराणां सभ्यानां द्विगुणो दमः ॥ ज्ञात्वा त्रिंशद्गुणं दण्डं प्रक्षिप्यूदके भवेत् ॥ ॥ १९५ ॥ अल्पे दण्डधिकं कृत्वा विपुले चाल्पमेव च ॥ ऊनाधिकं तु तद्दण्डं सद्यो दद्यात्त्वकाङ्क्षहात ॥ १९६ ॥ यावद्ध्व्यः स वध्यैत ताव द्ध्यस्य मोक्षणात ॥ न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥ १९७ ॥ वध्यं विवासयेद्राष्ट्रात्समग्रधनमक्षतम् ॥ न जातु ब्राह्मणघातात्पापम् प्यधिकं क्वचित् ॥ १९८ ॥ यस्मात्तस्मान्नृपस्तन्नेन ब्रह्महत्यां विवर्जयेत् ॥ अदण्ड्यान्दण्डयन्न्राजा दण्ड्यांश्चैवाप्यदण्ड यन् ॥ अयशोमहदाप्नोति नरकं चैव गच्छति ॥ १९९ ॥ ज्ञात्वापराधं पुरुषं च राजा कालं तथा चानुमते द्विजानाम् ॥ दण्डेष्विषु दण्डं परिकल्पयेत पापस्य ये तच्छमनं न कुर्युः ॥ २०० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डमेा० सं० परशुरामं प्रति पुष्करोपाल्यानेषु दण्डप्रणयनन्नाम द्विसप्ततितमोऽध्यायः ॥ ७२॥ राम उवाच ॥ कुर्याद्दण्डप्रणयनं प्रायश्चित्तमकुर्वताम् ॥ नॄणां राजा ततो ब्रूहि प्रायश्चित्तविधिं मम ॥ १ ॥ पुष्कर उवाच ॥ अकामतः कृते, पापे प्रायश्चित्तं विदुर्बुधाः ॥ कामकारकृतेऽप्येतन्मते मे श्रुतिदर्शनात् ॥ २॥ प्रायश्चित्तैः शमं याति पापं कृतमसंशयम् ॥ राजदण्डच्छमं याति प्रायश्चि त्तमकुर्वताम् ॥ ३ ॥ प्रायश्चित्तिविहीना ये राजभिश्चाप्यशासिताः ॥ नरकं प्रतिपद्यन्ते तिर्यग्योनिं तथैव च ॥ ४ ॥ मानुष्यमपि चासाद्य भवन्तीह तथांकिताः ॥ प्रायश्चित्तमतः कार्यं कल्मषस्यापनुत्तये॥५॥राजकुष्ठह्यपात्रं च न भुञ्जीत कदाचन ॥ तथैवाहायकस्यानं पदा स्पृष्टं च कामतः॥६॥ महापातकिना स्पृष्टमवलोटं पतिव्रणा ॥ शूंबिममर्क पश्यापि स्पृष्टं यच्चाङ्गुल्यङ्कया ॥ ७ ॥ गणान्नं गणिकान्नं च विट्पिं यच्चगुप्सितम् ॥ स्तेनस्य चैव तीक्ष्णस्य वाद्धुषेर्गणनस्य च ॥८॥ दीक्षितस्य कदर्यस्य बद्धस्य निगडेरपि ॥ अभिशस्तस्य षण्डस्य पुंश्चल्या दांभिकस्य च ॥९॥ चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ अनर्चितं वृथा मांसमवीरायाश्च योषितः ॥ १० ॥ द्विपदन्नं च दासान्नमुग्रान्नं चाप्यलक्षणम् ॥ पिशुनानृतिनोश्चान्नमक्रौर्यविक्रिणस्तथा ॥ ११ ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥ शैलूषतंतुवायान्नं कृतघ्नस्यान्नमेव च ॥ १२ ॥ परिवित्तेश्च दुष्टस्य बन्दिनः कितवस्य च ॥ कुण्डगोळक्ययोश्चैव क्रीजतस्य तथैव च ॥ १३ ॥ कर्मारस्य निषादस्य रङ्गावतारकस्य च ॥


१ 'क्रची' इति पा० । २ 'तन्तुवायन्नम्' इति ख० ।

वि० ध० ॥२२८॥

द्वि० सं० अ० ७२

सुवर्णकर्तुर्वैनस्य शैलैनिर्जकस्य च ॥ १४ ॥ मिथ्याप्रब्रजितस्यान्नं तैलिकस्य तथैव च ॥ तथैव वृषलपत्यानं ब्राह्मणेनानिमन्त्रितम् ॥ १५ ॥ एषामन्यतमस्यान्नममत्यात्त्वा त्र्यहं क्षिपेत् ॥ मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥ १६ ॥ महापातकयुक्तस्य सूतिकस्य तथैव च ॥ भुक्तान्नं चर्मकारस्य मत्या कृच्छ्रं चरेद्विजः ॥ १७॥ चण्डालश्वपचान्नं च भुक्त्वा चान्द्रायणं चरेत् ॥ अन्तश्चश्वचितिप्रेतार्तं गवान्नातं तथैव च ॥ १८ ॥ शूद्रोच्छिष्टं लघूच्छिष्टं सूतिकात्रं तथैव च ॥ तत्कृच्छ्रं तु कुर्वीत तस्य पापस्य शान्तये ॥ १९ ॥ भुक्त्वा तु ब्राह्मणाशौचे द्विजो भुक्त्वा तथा चान्द्रायणं च भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रं विधीयते ॥ २० ॥ वैश्याशौचे तथा भुक्त्वा तत्तत्कृच्छ्रं समाचरेत् ॥ शूद्राशौचे द्विजो भुक्त्वा तथा चान्द्रायणं च रेतात्॥२१॥ अशौचे यस्य यो भुक्त्वा सोऽप्युशुद्धस्तथा भवेत्॥ तावद्यावद्दशौचं तु तस्य राम प्रकीर्तितम्॥२२॥ तस्याशौचव्यपगमे प्रायश्चित्तं समाचरेत् ॥ भुक्तोतमस्य चाशौचे शपेत दिवसं तथा ॥२३॥ मृतपञ्चनखात्पादमेध्येन सकृद्युतात् ॥ अपः पीत्वा त्र्यहं तिष्ठेत्तपोवासो द्विजोत्तमः ॥ २४ ॥ त्रिदिनं क्षत्रियास्तिष्ठेदहं वैश्य एव च ॥ नक्ताशी च तथा शूद्रः पञ्चगव्येन शुध्यति ॥ २५ ॥ भुक्त्वाप्यथ कषायांश्र पीत्वामेध्यान्वपि द्विजः ॥ तावद्भवत्यप्रयतो यावदन्नं व्रजत्यधः ॥ २६ ॥ विड्वराहखरोष्ट्राणां गोमायुकपिकाकयोः ॥ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ २७ ॥ शुष्काणि जग्ध्वा मांसानि भौमानि कवकानि च ॥ अज्ञातं चैव सूनास्थं चैतदेव व्रतं चरेत् ॥ २८॥ क्रव्यादासूकरोग्राणां गोमायोः कपिकाकयोः॥ वानराश्वखरोष्ट्राणां भोक्ता पञ्चनखस्य ये ॥२९॥ मांसं च कौञ्जरं भुक्त्वा तप्तकृच्छ्रेण शुध्यति ॥ ग्रामकुक्कुटच्छत्राकौ भुक्त्वा चान्द्रायणं चरेत्॥३०॥ केशकीटावपन्नोऽपि पिबेद्भूतसुवर्चलाम्॥ आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्धयति ॥३१॥ संकलियते तथा भुक्त्वा त्रिरात्रोपेषणं भवेत् ॥ व्रतचारी तथा भुक्त्वा मधुमांसं च भार्गव॥३२॥ लशुनं गृञ्जनं चैव पालंण्डं मद्यमेव च॥ लशुननादिसमं यच्च गन्धेन मरुजोततम्॥३३॥ भुक्त्वा चान्द्रायणं कुर्यान्मासं क्रव्यभुजस्तथा ॥ लोहितान्वृक्षनिर्यासान्कुस्थानप्रभवांस्तथा ॥३४॥ शिलं गव्यं च पेयूषं विषं श्लेष्मातकं मृदम् ॥ वृथा कृसरसंयावपायसापूपशष्कु लीः॥३५॥ गवां च महिषीणां च वर्जयित्वा तथाऽज्याम् ॥ सर्वक्षीराणि वर्ज्यानि तेषां चैवाप्यनिर्दशम्॥ ३६॥ स्पन्दनोन्मूर्धभक्ष्या विवत्सायाश्च वर्जयेत् ॥ दधिसक्तूं च शुक्लांनि सर्वारूप्येव विवर्जयेत् ॥३७॥ शुणैः पुष्पफलैर्जान भक्तैरभियुतानि च ॥ विष्किराञ्जालापादांश्च रक्तपादांस्तथैव चारट॥ सर्वेशुकांश्च चूडालांन्यतोदंश्च विवर्जयेत् ॥ वर्तिका चेति तित्तिरश्च कपिञ्जलः ॥ ३९ ॥ भक्ष्यो मयूरश्च तथा पक्षिणां ये विव र्जिताः ॥ शशकः शल्को गोधा खड्गः कूर्मस्तथैव चा॥४०॥ भक्ष्याः पञ्चनखाः प्रोक्ताः परिवेषाश्च वर्जिताः ॥ पष्ठीनान्नोहितमत्स्याल्लोहतुण्डांश्च

॥२२८॥

भक्षयेत् ॥ ४३॥ राजीवंश्च सशल्कांश्च मत्स्यानाहर्मनीषिणः ॥ अतोऽन्यान्वर्जयेत्सर्वांस्तथा वै जलचारिणः ॥ ४४॥ एतेषां भक्षणाद्दोषं त्रिरात्रं क्षपणं भवेत् ॥ चक्रवाकं प्लवं हंसं टिट्टिभं मद्गुमेव च ॥ ४५ ॥ काकोलं च शुकं भासं दात्यूहं सारिकां तथा ॥ वक्रश्येनबलाकांश्च भुक्त्वा पञ्चाह्न माचरेत् ॥ ४४ ॥ उपवासस्तथा कार्यः सूनामांसाशने भवेत् ॥ अजाविकालुगोहांश्च पृषतान्माहिषांस्तथा ॥ ४६ ॥ रुङ्न्यंकूस्तैत्तिरांश्र्चैव गवयांश्चैव भक्षयेत् ॥ भुंक्त्वा मांसं ततोऽन्यस्य त्र्यहं तिष्ठेद्विकुक्षितः ॥४६॥पवगोमूर्त्रजं सर्वं पयश्चैव विक्रियाः ॥ रागषाडवकुर्चीदांनीन्स्नेहं यच्च किञ्चन ॥ ॥४७॥ एतद्दिना पर्युषितं भुक्त्वा चोपवसेद्दिनम् ॥ मध्वभाण्डगता मोहात्पीत्वा वापो द्विजोत्तमः॥४८॥शङ्खपुष्पीश्रितं क्षीरं पिवेत्तु दिवसत्रयम् ॥ सुराभाण्डगता पीत्वा सप्ररात्रं तथा पिवेत्॥४९॥शूद्रोच्छिष्टस्तथा पीत्वा पञ्चरात्रं तथा पिवेत्॥स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः॥५०॥ स्नात्वार्कमुपचित्यैवा त्रिः पुनर्मामित्यृचं जपेत् ॥ अग्निहोत्रापविद्धाग्निर्ब्राह्मणः कामचारतः ॥५१॥ चान्द्रायणं चरेन्मासं वीरहत्यासमं हितम् ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ ५२ ॥ महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ ५३ ॥ गुरोश्चालीकनिर्वन्धः समानि ब्रह्महत्यया ॥ ब्रह्मोञ्झता वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः॥५४॥ गर्जितानाद्ययोर्जग्धिः सुगतानसमानि पदा। निक्षेप स्यापहरणं नराऽश्व रजतस्य चा॥५५॥ भूमेरत्नस्यमणीनां च रुक्मस्तेयसमं स्मृतम्॥ रेतस्सेकस्स्वयोनिक्षु कुमारीष्वन्त्यजासु चा॥५६॥ सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ गोवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रयः ॥५७॥गुरुमातृपितृत्यागः स्वाध्यायाग्क्योः सुतस्य च ॥ परिवित्तिस्तदुजेन परिवेदनमेव च ॥ ५८॥ तयोर्दानं च कन्यायास्तयोरव च याजनम् ॥ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ॥ ५९॥ तडागारामदाराणामप त्यस्य च विक्रयः ॥ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥ ६० ॥ भृतादध्ययनादानमविक्रेयस्य विक्रयः ॥ सर्वाकरेष्बधिकारो महायन्त्र प्रवर्तनम् ॥ ६१ ॥ हिंसौषधिक्रियाजीवी क्रिया याचनकर्म च ॥ इन्धनार्थमशुष्काणां द्रुमाणां चैव पातनम् ॥ ६२ ॥ आत्मार्थं च क्रियार म्भो निन्दितान्नादनं तथा ॥ अनाहिताग्निता स्तेयमृणस्याप्रनिवेशनम् ॥ ६३॥ हीशूद्रद्विट्त्वेक्षिवधो नास्तिक्यञ्चोपपातकम् ॥ बालपत्य रुजा कृत्यं भ्रात्रिरग्रिमबधयोः ॥ ६४ ॥ जैह्यं च पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ श्वखरोष्ट्रानुगमनान्मजानाञ्चैव मारणम् ॥ ६५ ॥ संकी र्णकरणं ज्ञेयं मीनाहिनकुलस्य च ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ॥ ६६ ॥ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ कृमि


¹ 'स्वामत्यागः' इति ख० ।
३१

वि० ध०
॥२२१॥
दि० खं०
अ० ७३
॥२२१॥

कीटवयोहत्यामन्यानुगतभोजनम् ॥ ६७ ॥ फलैश्चकुसुमैस्तेयमथैवं चपलात्मता ॥ एतान्यर्त्तनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ॥ ६८ ॥ चैवै व्रतैरेपोहेत तानि सम्यङ्निबोधत ॥ ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ॥ ६९ ॥ भिक्षेताथ विशुद्धयर्थमुपासिनो वृषध्वजम् ॥ लक्षं श श्वभृतां वा स्याद्दिङ्गामिच्छत्यात्मनः ॥ ७० ॥ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिराविष्कृत्यः ॥ यजेत वाश्वमेधेन स्वर्जितागोसवेन च ॥ ॥ ७१ ॥ अभिजिविश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ जपन्नान्यतमं वेदं योजनानां शतं व्रजेत् ॥ ७२ ॥ ब्रह्महत्यापनुत्त्यर्थं मितभुङ् नियतेन्द्रियः ॥ सर्वस्वं वा वेदविदे ब्राह्मणायापपादयेत् ॥ ७३ ॥ धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ व्रतैरेतैरपोहेत महापातकिता न्दिजः ॥ ७४ ॥ उपपातकसंयुक्तो गोघ्नो मासं यवानदेत् ॥ कृतवापो वा निवसेच्चर्मणा तेन संवृतः ॥ ७५ ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् ॥ गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ७६ ॥ दिवाऽनुगच्छेत्ता गावस्तिष्ठन्तीषूर्ध्वमपः पिबेत् ॥ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं चरेत् ॥ ७७ ॥ तिष्ठन्तीष्वनुतिष्ठेतु व्रजन्तीष्वप्यनुव्रजेत् ॥ आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ७८ ॥ आतुरमभिपिन्नां च चौरव्याघ्रादिभिर्भयैः ॥ पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥ ७९ ॥ उष्णैर्धर्षारतिशीतर्वा मारुते वाति वा भृशम् ॥ न कुर्वी तात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ८० ॥ आत्मनो यदि वाऽन्येष गृहे क्षेत्रेऽथ वा खले ॥ खादमानां न शंसेत पिबन्तं चैव वत्सकम् ॥ ८१ ॥ वृषभेकादशा गास्तु दद्याद्धि चरितव्रतः ॥ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ८२ ॥ बन्धने रोधने वापि योजने च गवां रुजा ॥ भवेद्वा मरणं यत्र निमित्ते तत्र लिप्यते ॥ ८३ ॥ पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥ योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥ ८४ ॥ कान्तारेष्वथ दुर्गेषु विषमेषु गृहेषु च ॥ यदि तत्र विपत्तिः स्यादेकः पादो विधी यते ॥ ८५ ॥ बाधामरणदोषेषु तथैवार्थं विनिर्दिशेत् ॥ दमने वाहने रोधे शकटस्य च योजने॥८६॥नद्यां शकलपाशेष्ठ मृते पादो समाचरेत् ॥ व्यापन्नानां बहूनां तु बन्धने रोधनेऽपि वा॥८७॥भिषङ् मिथ्याचरंश्चैव द्विगुणं गोव्रतं चरेत् ॥ शृङ्गभङ्गेऽस्थिभङ्गे वा लांगूलच्छेदनेऽथवा ॥८८॥ यावकं तु पिबेत्तावद्यावत्स्वस्था तु गौर्भवेत् ॥ एकां चेद्वहुभिर्दैवाद्यद्य व्यापायदिता भवेत् ॥ ८९ ॥ पादपादं तु हत्यायां चरेयुस्ते पृथक्पृथक् ॥ यन्त्रेण गोश्चिकित्सार्थं मूढगर्भविमोक्षणे ॥ ९० ॥ यदि तत्र विपत्तिः स्याद्दोषस्तत्र न विद्यते ॥ औषधं स्नेहमाहारं ददन्न ब्राह्मणेषु ॥९१ ॥ अव धीयमाने विपत्तिः स्याद्वाग्दोषो न विद्यते ॥ एतदेव व्रतं कुर्युरुपपातकिनस्तथा ॥ ९२ ॥ अवकीर्णी विशुद्ध्यर्थं चान्द्रायणमथापि वा ॥ अव

कीर्णी तु कालेन सप्तमेन चतुष्पथे ॥ ९३ ॥ पाक्यज्ञविधानेन यजते निभृतं निशि ॥ हुत्वाऽग्नौ विधिवद्धोमांस्ततस्तु समितित्युचम् ॥ ९४ ॥ वात

न्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहूतीः ॥ कामतो रेतसः सेके व्रतस्थस्य द्विजन्मनः ॥ ९५ ॥ आक्रमं च व्रतस्याहुर्धर्मज्ञाः सत्यवादिनः ॥ एतस्मि

न्नेव सिद्धयर्थं वसित्वा गर्दभाजिनम् ॥ ९६ ॥ सप्तागारं चरेंद्भैक्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्ष्येण वर्तयेन्नैव कालिकम् ॥ ९७ ॥ उप

स्पृशंस्त्रिषवणमब्देन स विशुद्ध्यति ॥ हत्वा गर्भमविज्ञांतं ब्रह्महत्याव्रतं चरेत् ॥ ९८ ॥ राजन्यवैश्यौ चेजाना आत्रेयीमेव च स्त्रियम् ॥ उक्त्वान्

चेवानृतं साक्ष्ये प्रतिरुध्य गुरुंस्तथा ॥ ९॥ अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत ॥ १०० ॥ तया

सकाये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा॥१०१॥पयो घृतं वा मरणाद्गोशकृद्रसमेव वा॥ कणांन्वा भक्षयेदब्दं

पिण्याकं वा सकृन्निशि॥ १०२॥सुरापानापनुत्त्यर्थं चीरवासा जटी ध्वजी॥सुरा वै मलमन्नानां पाप्मा च मलमुच्यते॥ १•३॥तस्माद्ब्राह्मणराजन्यौ वैश्यश्च

न सुरां पिबेत् ॥ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥ १०४॥ यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ यक्षरक्षःपिशाचान्नं मद्यं

मांसं सुरासवम् ॥ १०५॥ तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ माध्वीकमैक्षवं टार्कं कौलं खार्जूरपानसम् ॥ १०६॥ मृद्वीकारसमाद्धीकं मैरेयं

नारिकेलजम् ॥ असेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च ॥ १०७॥ यस्य कामगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ॥ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं

च स गच्छति ॥ १०८॥ अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिर्णयम् ॥ सुवर्णस्तेयकृद्विप्रो राजानमभिशस्य तु ॥१०९॥ स्वकर्म ख्यापयन्ब्रूया

न्मां भवानिति शास्त्विति ॥ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ॥ ११० •॥ वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥

तपसा त्वपुनस्तुष्टु सुवर्णस्तेयजं मलम् ॥ १११ ॥ चीरवासा द्विजोऽरण्ये चरेद्ब्राह्मणं व्रतम् ॥ गुरुतल्पोऽभिभाष्याथैनं

तल्पे स्वप्यादयोमये ॥ ११२ ॥ सूमीं ज्वलन्तीमाश्लिष्य मृत्युना तु विशुध्यति ॥ स्वयं वा शिश्नवृषणावुत्कृत्याधाय स्वाञ्जलौ ॥ ११३ ॥

नैऋतीं दिशमातिष्ठेन्निपातादजिह्मगः ॥ खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ॥ ११४ ॥ प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ॥

चान्द्रायणं तु त्रीन्मासानभ्यसेन्नियतेन्द्रियः ॥ ११५॥ हविष्येण यवाग्वा च गुरुतल्पापनुत्तये ॥ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥

॥ ११६॥ चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ शंकरापात्र कृत्यासु चासंशोधनमेन्दवम् ॥ ११७ ॥ मलिनीकरणीयेषु तप्तः स्याद्या

वकं त्र्यहम् ॥ तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ॥ ११८॥ वैश्येऽष्टमोंशो हन्त्युस्तु शूद्रे ज्ञेयस्तु षोडश ॥ अकामतस्तु राजन्यं विनि

वि० ध० ॥२३०॥

द्वि० खं० अ० ७३

पात्य द्विजोत्तमः ॥ ११९ ॥ वृषभैकसहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः ॥ त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ॥ १२० ॥ वसेद्दूरतरे ग्रामाद्द्वृक्षमूलनिकेतनम् ॥ एतदेवाचरेद्दंडं प्रायश्चित्तं द्विजोत्तमः ॥ १२१ ॥ प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैवैऋशतं गवाम् ॥ एतदेव शतं कुर्यां षण्मासांस्तुशूद्रहा चरेत् ॥ १२२ ॥ वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥ मार्जारनकुलौ हत्वा चापं मण्डूकमेव वा ॥ १२३ ॥ श्वगोधिकोलूककांश्च शुद्धस्यान्नं चरेत ॥ पयः पिवेत्त्रिरात्रं वा योजनं चाध्वनो ब्रजेत् ॥ १२४ ॥ उपस्पृशेत्स्रवन्त्यां वा सूक्तं वा त्रिवृतं जपेत् ॥ अभ्रं कांस्यावसो दद्यात्सतं हत्वा द्विजोत्तमः ॥ १२५ ॥ पलालभारकं षण्ढं सौमर्कं चैव माषकम् ॥ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ॥ १२६ ॥ शुके द्विव्यायनं वत्सं क्रौञ्चे हत्वा द्विहायनम् ॥ हत्वा हंसं वलाकां च वकं बर्हिणमेव च ॥ १२७ ॥ वानरं द्यूनभासो वा स्पर्शयेद्ब्राह्मणाय गाम् ॥ वासो दद्याद्धयं हत्वा पञ्चनीलान्वृषान्गजम् ॥ १२८ ॥ अजं मेषमनडाहं त्वं हत्वैकाहायनम् ॥ क्रव्यादान्हरिणो हत्वा धेनुं दद्यात्तपयस्विनीम् ॥ १२९ ॥ अक्रव्याद् वत्सतंरीङ्क हत्वा तु कृष्णलम् ॥ जीवकमुर्कवत्सादीन्पृथग्गवादिशुद्धये ॥ १३० ॥ चतुर्णामपि वर्णानां नारीं हत्वा न रगतः ॥ वर्णनामनानुपूर्व्येण ज्ञायानामविशेषतः ॥ १३१ ॥ प्रमाप्य चाप्रमाप्य स्त्रीं शुद्धहत्याव्रतं चरेत् ॥ धनेन वर्धयिपंकं सर्पादीनामशक्तुवन् ॥ १३२ ॥ एकैकं शश्वरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥ १३३ ॥ गुल्मवल्लीलतानां च पुष्टितानां च वीरुधाम् ॥ अस्थ्वन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ॥ १३४ ॥ पूणे वा तद्नस्रं तु शुद्धह्याव्रतं चरेत् ॥ किञ्चिद्देव तु विप्राय दद्यादस्थिमतां वधे ॥ १३५ ॥ अनस्थां चैव हिंसायां प्राणायामेन शुद्ध्यति ॥ अनाष्टानां सस्वानां संख्वानां रसजानां च संर्वेशः ॥ १३६ ॥ फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ कृष्णजानामौषधीनां जातानां च स्वयं वने ॥ १३७ ॥ वृथारम्भेण गच्छेद्व्रां दिनमेकं पयोव्रतः ॥ एतैर्व्रतैरपोह्यं स्याद्देनो हिंसासमुद्भवम् ॥ १३८ ॥ स्तेयदोषापहर्णां व्रतानां श्रूयतां विधिः ॥ धान्यानि धनचौर्याणि कृत्वा कामाद्विजोत्तमः ॥ १३९ ॥ स्वजातीयाद्गृहाद्देव कृच्छ्रार्द्धेन विशुध्यति ॥ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रागृहस्य च ॥ १४० ॥ कूपवापीजलानां तु शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्त्वाऽन्यवेश्मतः ॥ १४१ ॥ चरेंत्सान्तपनं कृच्छ्रं तं निर्यात्यात्मशुद्धये ॥ भक्ष्यभोज्यापहरणं यानशय्यासनस्य च ॥ १४२ ॥ पुष्पमूलफलानां च पश्चगव्यं विशोधनम् ॥ तृणकाष्ठद्रुमाणां तु शुष्कान्नस्य गुडस्य च ॥ १४३ ॥


^१ 'क्रव्यादंस्तृणस्थान् हत्वा' इति ख० ।
^२ 'दहं हत्वा तु वत्सकम्' इति ख० ।

॥२३०॥

चैलचर्माङमिषाणां च त्रिरात्रं स्यादभोजनम् ॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥ १४४ ॥ अयस्कांस्योपलानां च द्वादशाहं कणान्न भुक् ॥ कार्पासिकीटकीर्णानां द्विश्रैफकंशरफस्य च ॥ १४५ ॥ पक्षिगन्ध्योषधीनां च रज्वांश्च त्र्यहं पयः ॥ एतैर्व्रतैरेपोहेत पापं स्तेयकृतं द्विजः ॥ १४६ ॥ अगम्यगमनीयेन व्रतैरेभिरपाकुदेत ॥ गुरुतल्पव्रतं कुर्याद्द्वितः सिक्तास्वयोनिषु ॥ १४७ ॥ सख्युः पुत्रस्य च स्त्रीषु कुमारी ष्वन्त्यजासु च ॥ पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च ॥ १४८ ॥ मातुश्च भ्रातृस्तनयां गत्वा चान्द्रायणं चरेत् ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेद बुद्धिमान् ॥ १४९ ॥ ज्ञातयो नोपयमनाः पितुश्च ह्युपपन्नधः ॥ अमानुषीषु पुरुष उदक्यां वामयोनिषु ॥ १५० ॥ रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥ १५१ ॥ गोयानेषु दिवा चैव सवासाः स्नानमाचरेत् ॥ चण्डा लान्त्यजब्रीधोगाद्गत्वा च प्रतिगृह्य च ॥ १५२ ॥ पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं च गच्छति ॥ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवे श्मनि ॥ १५३ ॥ यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥ सा चेत्पुनः प्रदुष्येत सहशेनोपमन्त्रिता ॥ १५४ ॥ कृच्छ्रं चान्द्रायणं चैव तदस्र्याः पावनं स्मृतम् ॥ यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥ १५५ ॥ तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैरपोति ॥ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ॥ १५६ ॥ पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ १५७ ॥ याजनाध्यापनाद्दाना द्भुक्तिपानाशनासनात् ॥ यो येन पतितेनैषां संसर्ग याति मानवः ॥ १५८ ॥ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥ पतितस्योदकं कार्यं सपि ण्डेर्बान्धवैः सह ॥ १५९ ॥ निन्दितऽहनि सायाह्ने ज्ञातित्विग्गुरुसन्निधौ ॥ दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥ १६० ॥ अहोरात्रमुपासी रन् शौचं बान्धवैः सह ॥ निवर्तेरन्तरस्मात्तु संभाषणसहासने ॥ १६१ ॥ दायादस्य प्रदानं च यात्रामेव च लौकिकीम् ॥ ज्येष्ठभागं निवर्तेत ज्येष्ठावांतं च यद्वसु ॥ १६२ ॥ ज्येष्ठांशं प्राप्नुयाच्चापि यवीयानगुणतोऽधिकः ॥ प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् ॥ १६३ ॥ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ सस्त्वप्सु तं घटं प्राप्य प्रविश्य भवनं स्वकम् ॥ १६४ ॥ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ एतमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥ १६५ ॥ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ एनस्विभिरनिर्णीतैनैर्णिर्यं किञ्चित्समाचरेत् ॥ १६६ ॥ कृतनिर्णेजनांश्चैतान जुगुप्सेत कर्हिचित् ॥ बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ॥ १६७॥ शरणागतहन्तूंश्च स्त्रीहंतूंश्च न संवसेत् ॥ येषां द्विजानां सावित्री नानुच्येत यथाविधि ॥ १६८ ॥ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये

वि० ध०                                                                                                     द्वि० सं०
॥२३१॥                                                                                                     अ० ७३

द्विजाः ॥ १६९ ॥ ब्राह्मणांश्च परित्यक्ता येषां मध्ये तदादिशेत् ॥ यद्धविर्हतेनार्जयन्ति ब्राह्मणाः कर्मणा धनम् ॥ १७० ॥ तत्योत्संगेण शुध्यन्ति 
जप्येन तपसैव च ॥ जपिला त्रीणि सावित्र्याः सहस्राणि समाहितः ॥ १७१ ॥ मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ उपवा-
सकृशं तं तु गोव्रजात्पुनरागतम् ॥ १७२ ॥ प्रणतं परिपृच्छेयुः सौम्य सौम्यैच्छसीति किम् ॥ सत्यसुका तु विप्रेभ्यो वितरेद्गवसं गवाम् ॥ १७३ ॥ 
गोभिः प्रवर्त्तिते तीर्थे कुर्यात्तस्य परिग्रहम् ॥ व्रात्यानां याजनं कृत्वा परेषांमन्त्यकर्म च ॥ १७४ ॥ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्वि-
शुध्यति ॥ शरणागतं परित्यज्य वेदं विप्लाव्या च द्विजः ॥ १७५ ॥ संवत्सरं यताहारस्तत्पापमपगच्छति ॥ श्वशृगालोगर्दभैर्दष्टो ग्राम्यैः क्रव्याद्भि-
रेव च ॥ १७६ ॥ गवाश्वोष्ट्रवराहैश्च प्राणायामेन शुद्धयति ॥ षष्ठान्नकालमशनं संहिताजाप एव च ॥ १७७॥ होमश्च शाकलो नित्यमपङ्कचानां 
विशोधनम् ॥ उष्ट्रयानं समारुह्य खरयानं च कामतः ॥ १७८ ॥ स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ विना निद्रात्सु चाब्धन्तः 
शरीरं संनिवेशयेत् ॥ १७९ ॥ सचैलो बहिराप्लुत्य गामालब्भ्य विशुध्यति ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥ ॥ १८० ॥ स्नात-
कव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ हुङ्कारं ब्राह्मणस्योक्ता त्वंकारं तु गरीयसः ॥ १८१ ॥ स्नात्वाऽनश्नन्हरेश्रैकमभिवाद्य प्रसादयेत् ॥ ताड-
यित्वा तृणेनापि कण्ठे बद्धाऽपि वाससा ॥ १८२ ॥ विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ अवगूर्य त्वब्दशतं सहस्रमभिहत्य च ॥ १८३॥ 
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ शोणितं यावतः पांसूंत्संगृह्णाति द्विजन्जन्मनः ॥ १८४॥ तावन्त्यब्दसहस्राणि तत्कर्ता नरकं व्रजेत् ॥ 
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ॥१८५॥ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पादद्य शोणितम् ॥ चण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥ 
॥ १८६ ॥ सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनम् ॥ चान्द्रायणं पराकं वा द्विजानां तु विशोधनम् ॥ १८७ ॥ प्राजापत्यं तु शूद्राणां शेषं 
तदनुसारतः ॥ गुडं कुसुमभं लवणं तथा धान्यानि यानि च ॥ १८८ ॥ कृत्वा गृहे ततो क्षारं तेषां दद्याद्धुताशनम् ॥ मृण्मयानां तु भाण्डानां 
त्याग एव विधीयते ॥ १८९ ॥ द्रव्याणां परिशेषाणां द्रव्यशुद्धिविधीयते ॥ यस्तस्य भुङ्गे पक्वान्नं कृच्छ्रार्द्धं तस्य दापयेत् ॥ १९० ॥ शुष्कान्न 
भोजनः पादमित्याह भगवान्मनुः ॥ कूपे ता नव संतार्य स्पर्शसंकरदूषिताः ॥ १९१ ॥ शुद्धेद्युक्तुप्रवासेन पश्चगव्येन चाप्यथ ॥ यस्तु संस्पृश्य 
चाण्डालमश्नीयाद्वा त्वकामतः ॥ १९२ ॥ द्विजश्चान्द्रायणं कुर्यात्तत्कृच्छ्रमथापि वा ॥ वर्णसंकरसंकीर्णाश्चण्डालादिजुगुप्सिताः ॥ १९३ ॥ 
भुक्त्वा पीत्वा तथा तेषां षड्रात्रेण विशुध्यति ॥ अन्त्यानां भुक्तरूषं तु भक्षयित्वा द्विजातयः॥१९४॥श्चरेतं चान्द्रायणं कुर्यात्किरान्नं शूद्र एव च ॥ ॥२३१॥

चण्डालकूपभाण्डेषु अज्ञानाद्यः पिबेज्जलम् ॥ १९५ ॥ द्विजः सान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनम् ॥ उच्छिष्टो यदि संस्पृष्टः शुना शूद्रेण वा द्विजः ॥ १९६ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ उच्छिष्टेन यदि स्पृष्ट उच्छिष्टो ब्राह्मणोत्तमः ॥ १९७ ॥ त्रिकालमाचरेत्स्नानं नक्तं भुंजीत वाग्यतः ॥ क्षत्रियेण तथा स्पृष्टः स्नानं नक्तं समाचरेत् ॥ १९८ ॥ स्पृष्टः सवर्णेनाचामेद्मध्ये स्पृष्टो यदि ॥ अहोरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ १९९॥ अध्वानं प्रस्थितो विप्रः कान्तारे यद्युदकं न चेत् ॥ पक्कानेन गृहीतेन मूत्रोच्चारं करोति वै ॥ २०० ॥ अनिक्षिप्यैव तद्द्रव्यं कृत्वांगे उत्तम स्थितम् ॥ शौचं कृत्वा यथान्यायंमुपविश्य यथाविधि ॥ २०१ ॥ अन्नमभ्युक्ष्यतोयेन उद्धृत्यार्कस्य दर्शयेत् ॥ अर्काभावेऽप्य- थामग्नौ वस्त्रस्तथाय प्रदर्शयेत् ॥२०२॥ त्यक्त्वा ग्रासत्रयं तस्माच्छेषं शुद्धिंमवाप्नुयात् ॥ म्लेच्छैर्हृतानां चौरैर्वा कान्तारे वा प्रवासिनाम्॥२०३॥ भक्ष्याभक्ष्यविशुद्ध्यर्थं तेषां वक्ष्यामि निष्कृतिम् ॥ पुनः प्राप्य स्वदेशं च वर्णानामनुपूर्वशः ॥ २०४ ॥ कृच्छ्रस्यार्धं ब्राह्मणस्तु पुनः संस्कारम- र्हति ॥ पादोनानेतं क्षत्रियस्तु अर्धार्थे वैश्य एव च ॥ २०५ ॥ पादं कृत्वा तथा शूद्रो दानं दत्त्वा विशुद्ध्यति ॥ उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ॥ २०६ ॥ अहोरात्रोषिता सा च शुद्धा स्नानेन शुध्यति ॥ मूत्रे कृत्वा व्रजेन्मार्गं स्मृत्रिंशंआञ्जलं पिवेत् ॥ २०७ ॥ अहो रात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ (मूत्रोच्चारं द्विजः कृत्वाऽप्यकृत्वा शौचमात्मनः ॥ २०८ ॥ मोहाद्भुक्त्वा त्रिरात्रं तु यवान् पीत्वा विशु- ध्यति ॥) परित्यक्तमहापज्ञा प्रब्रज्याविच्युताश्च ये ॥२०९॥ अनाशकनिवृत्ताश्च तेषां शुद्धिः प्रवक्ष्यते ॥ चारयेत्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥ २१० ॥ जातकर्मदिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥ उपानहम्ममेध्यं वा चास्य संस्पृशते मुखम् ॥ २११ ॥ मृत्तिकागोमयौ तस्य पञ्चग- व्यं विशोधनम् ॥ वापम विक्रयं चैव नील्युत्थमुपजीवनम् ॥ २१२ ॥ पतनीयं हि विप्रस्य नीलसूत्रस्य धारणात् ॥ ( स्नानं दानं तपो होमः स्वा- ध्यायः पितृतर्पणम् ॥ २१३ ॥ वृथा तस्य महायज्ञा सूत्रमग्रस्य धारणात् ॥) नीलरक्तं यदा वस्त्रं द्विजोङ्गेषु हि धारयेत् ॥ २१४ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ नीलदारु यदा भज्येदब्राह्मणस्य तु पादयोः ॥ २१५ ॥ शोणितं दृश्यते चास्य द्विजश्चान्द्रायणं चरेत् ॥ वापितं यत्र नीलं तु तावद्देशोऽशुचिर्मही ॥ २१६ ॥ प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत् ॥ अन्त्यजातिः श्वपाकेन संस्पृष्टा स्त्री रजस्वला ॥ २१७ ॥ चतुर्थेऽहनि शुद्धायाः प्रायश्चित्तं विशोधनम् ॥ त्रिरात्रमुपवासः स्यात्पञ्चगव्यं तथैव च ॥ २१८ ॥ उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ॥ यावन्न शुद्धिमाप्नोति नाश्नीयात्तावदेव तु ॥ २१९ ॥ चण्डालश्वपचौ स्पृष्ट्वा शवधूमञ्च सूतिकाम् ॥ शवं स्पर्शयिता श्वानं सद्यः स्नानेन

शुध्यति ॥२२०॥ ना स्पृष्ट्वाऽस्थि तु सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥२२१॥ रथ्याकर्दमतोयेन नाभिस्पृष्टो भवेन्नरः ॥ मृत्तोयैश्चापिचेदङ्गं ततः शुद्धिमवाप्नुयात् ॥ २२२ ॥ वान्तं विरिक्तः स्नात्वा तु घृतं पीत्वा विशुध्यति ॥ भुक्त्वैके ततः कृत्वा स्नानंनैव विशुध्यति॥२२३॥ अपाङ्क्तेयस्तु यः पङ्क्त्यां भुंक्ते कश्चिद्विजोत्तमः ॥ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥२२४ ॥ चन्द्रा यणेण शुद्धा द्विजश्चान्द्रायणं चरेत् ॥ ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पयः पिबेत् ॥ २२५ ॥ गृहस्थो वा त्रिरात्रं तु चैकाहं त्वग्रिहोत्रवान् ॥ नाभेरुर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ २२६॥ बाह्वोश्च त्रिगुणं ज्ञेयं मूर्धानं स्याच्चतुर्गुणम् ॥ उद्वन्धमृतकं प्रेतं यः स्पृशेद्विजाह्मणः क्वचित् ॥ २२७ ॥ तस्य शुद्धिं विजानीयात्तातकृच्छ्रेण नित्यशः ॥ आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ॥ २२८ ॥ तस्य प्रेतक्रियां कृत्वा तप्तकृ च्छ्रेण शुध्यति ॥ इन्द्रियेषु प्रविष्टं स्याद्धर्म्यं यस्य कस्य चित् ॥ २२९ ॥ अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ २३१॥ पातकैः शोध्यो व्रतैर्विप्रैस्तैर्मया ॥ २३० ॥ अनाविष्कृतपापांश्च मन्त्रैर्होमैश्च साधयेत् ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥ २३१ ॥ पापकॢ न्मुच्यते पापातथा दानेन चापरे ॥ यथा यथा नरो धर्मं स्वयं कृत्वा न भाषते ॥ २३२ ॥ तथा तथा च जेनैव तस्मात्पापात्प्रमुच्यते ॥ कृत्वा पापं हि स्मर्तव्यं तस्मात्पापात्प्रमुच्यते ॥ २३३ ॥ यथायथा मनस्तस्य दुष्कृतं कर्म गर्हति ॥ तथातथा शरीरं तत्तेनावमेण मुच्यते ॥ २३४ ॥ नैतत्कुर्यां पुनरिति निवृत्त्या प्रपतेन्नरः ॥ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ॥ २३५॥ मनोवाक्का र्यभिर्नित्यं शुभं कर्म समाचरेत् ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ॥ २३६ ॥ तस्माद्धि मुच्यते नित्यं द्वितीयं न समाचरेत् ॥ यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् ॥ तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरो भवेत् ॥२३७॥ गुरुल्लघुतां तु विचार्य यथावद्वेषु मयागमनं च तवोक्तम् ॥ तेषु न चेत्सहस्रैर्ब्रह्मद्विद्विप्रवरैः कुशलैः सुधिया वा ॥२३८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० प्राश्चित्तान्यायो नाम त्रिसप्ततितमोऽध्यायः॥७३॥ पुष्कर उवाच ॥ इत्येतेनसमायुक्तं प्रायश्चित्तं यथाविधि ॥ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोध मे॥ १॥पोहरूपेण तु सूक्तेन जप्त्वेद्विद्विजोत्तमाः ॥ मासेनेकेन मुच्यन्ते पातकैः संयतेन्द्रियाः ॥ २ ॥ सव्याहृतिकगायत्र्याः प्राणायामान्तु षोडश ॥ अपि भ्रूणहंतं मासात्पुनन्त्यन्वहं कृताः ॥ ३ ॥ कौत्सं जप्त्वाप इत्येतत्सिद्धिं प्रति च ऋचम् ॥ माहेशं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥४॥ सकृज्जप्त्वाप्यघ वर्मिर्य शिवसंकल्पमेव च ॥ अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ५ ॥ हविष्मतीयमृचयमिति ततः संज्ञा इतीति च ॥ जप्त्वा च पौरुषं सूक्तं

मुच्यते गुरुतल्पगः ॥ ६ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ॥ अवेक्ष्येदं जपेद्दूर्द्धं यत्किञ्चिदपि तानि चेत् ॥ ७ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥ जपंस्तरत्समन्दीयं प्रयतो मानवऋचम् ॥ ८ ॥ सोमारौद्रं तु बहूनां जपन्सत्यस्य ऋच्छति ॥ स्रवन्त्यामाचरेत्स्नानं पर्येस्यामिति वा ऋचम् ॥ ९ ॥ अद्वा -रसानमियेतेन्त्सप्तकं जपेत् ॥ अशकाशं तु कुर्बानो मासमासीत भैक्ष्यभुक् ॥ १० ॥ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥ सुवर्णच्युपहन्त्येनो जप्त्वा वामन इष्यते ॥ ११ ॥ हुपुदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ १२ ॥ महापातकसंयुक्तो न गच्छेदधः समाहितः ॥ स्वभ्यस्य पावमानीयं भैक्ष्याहारो विशुध्यति ॥ ॥ १३॥ अरण्ये वा विरम्यस्य प्रयतो वेदसंहिताम् ॥ मुच्यते पातकैः सर्वैः परकैः शोधितस्त्रिभिः ॥ १४॥ त्र्यहं तूपवसेद्युक्तस्त्रिरहोऽभ्युपयन्नपः ॥ मुच्यते पातकैः सर्वैर्जप्त्वा त्रिराधमर्पणम् ॥ १५ ॥ यथाश्वमेधः सुतरां सर्वपापापनोदनः ॥ तथाघमर्पणं सूक्तं सर्वपापापनोदनम् ॥ १६॥ हत्वा लोका नपीमांस्त्रीनश्नन्नपि यतस्ततः ॥ ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥ १७॥ ऋक्संहितां समभ्यस्य यजुषां वा समाहितः ॥ साम्नां वा सरह स्यानां सर्वपापैः प्रमुच्यते॥१८॥ यथा महाह्रदं प्राप्य क्षिप्रं लोष्ठो विनश्यति ॥ तथा दुश्पूरितं सर्वं वेदे त्रिवृति मज्जति ॥ १९ ॥ ऋचो यजूंषि चाथानि सामानि विविधानि च ॥ एष ज्ञेयस्त्रिवृद्वेदो यो वै वेद स वेदवित् ॥२०॥ आद्यं वै त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ॥ स गृह्योऽन्यस्त्रिवृद्वेदो यो वेदैनं स वेदवित्॥२१॥वेदभ्यासोऽन्वहं शक्त्या महायज्ञक्रियासमः॥ नाशयन्त्याशु पापानि महापातकान्यपि ॥२२॥ यथैधांसि समिद्धोऽग्निर्भ स्मसात्कुरुते क्षणात ॥ तथा ज्ञानाग्निना पापं क्षिप्रं दहति वेदवित् ॥२३॥ वासुदेवं जगन्नाथमीशं भक्त्या गताः सर्वजगत्यथानम् ॥ ते पातकान्याशु विधूय लोके भवन्ति चन्द्रार्कसमप्रभावाः॥२४॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डो मा० सं० रहस्यप्रायश्चित्तो नाम चतःसततितमोऽध्यायः ॥७४॥ राम उवाच ॥ प्रेतशुद्धिं समाचक्ष्व सूतिकाशुद्धिमेव च ॥ द्रव्यशुद्धिं च भगवंस्त्वं हि वेत्सि यथा तथा ॥ १ ॥ पुष्कर उवाच ॥ दशाहे शावमा शौचं सपिण्डेषु विधीयते ॥ जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ॥ २ ॥ द्वादशाहेन राजन्यः पञ्चाहेभ्यो विशुध्यति ॥ मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ॥ ३ ॥ आनुलोम्येन पत्नीनां दासीनां च सूतकम् ॥ स्वामितुल्यं भवेच्छौचं मृते स्वामिनि योषितम् ॥ ४ ॥ षड्भिमत्रि भिर्यत्केन क्षत्रविट्शूद्रयोनिषु ॥ ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥ विट्शूद्रयोनी शुद्धिः स्यात्क्षत्रियस्य तथैव च ॥ षडरात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ॥ ६ ॥ अदन्तजातबाले तु सद्यः शौचं विधीयते ॥ बाले त्वकृतचूडे च विशुद्धिनैशिकी स्मृता ॥ ७ ॥

वि० ध० ॥२३॥ द्वि० खं० अ० ७६

तथा चानुपनीते तु त्रिरात्राच्छुद्धिरिष्यते ॥ ततः परं दशाहेन शुद्धेयुस्तस्य बान्धवाः॥८॥ ऊनत्रिवाधिके शुद्धे पश्चाद्वा शुद्धिरिष्यते ॥ द्वादशा- हेन शुद्धिः स्यादतीते वत्सरत्रये ॥ ९ ॥ गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥ स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ॥ १० ॥ तथा हि कृतचूडानां त्र्याहाच्छुद्ध्यन्ति बान्धवाः ॥ विवाहितासु नाशौचं पितृपक्षे विधीयते ॥ ११ ॥ पितृगृहे प्रसूतायां विशुद्धिर्नैशिकी स्मृता ॥ सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥ १२ ॥ विवाहिताऽपि चेत्कन्या म्रियेत पितृवेश्मनि ॥ तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ॥ १३ ॥ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ॥ तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥ १४ ॥ सस्नानं खलु शौचं च प्रथमेन समापयेत् ॥ असमानं द्वितीयेन धर्मराजवचो यथा ॥ १५ ॥ देशान्तरस्थाः श्रुत्वा तु कुल्यानं मरणोद्भवौ ॥ यच्छेषं दशरात्रस्य तावदेव शुचिर्भवेत् ॥ १६ ॥ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥ तथा संवत्सरेऽतीते स्नात्वैव च शुद्ध्यति ॥ १७ ॥ मातामहे तथातीते आचार्ये च तथा मृते ॥ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १८ ॥ परपूर्वासु भार्यासु त्रिरात्राच्छुद्धिरिष्यते ॥ निवासे राजनं प्रेते मातुले श्वशुरे तथा ॥ १९ ॥ आचार्यपत्नीपुत्रेषु शिष्ये सब्रह्मचारिणि ॥ एकरात्रमशौचं स्यादज्ञानेनैव तथा मृते ॥ २० ॥ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोध्य- नम् ॥ सपिण्डे ब्राह्मण वर्णः सर्व एवाविशेषतः ॥ २१ ॥ दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपाः ॥ वैश्यः पञ्चदशाहेन शूद्रे मासेन भार्गव ॥२२॥ भृग्वग्न्यनशनाम्भोभिर्मृतानामात्मघातिनाम् ॥ पतितानां च नाशौचं विद्युच्चन्द्रहताश्च ये ॥ २३ ॥ सती व्रती ब्रह्मचारी नृपकार्यकदीक्षिताः ॥ नाशौचभाजः कथिता राजकार्यकराश्च ये ॥२४॥ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ॥ सवासा जलमाप्लुत्य घृतं प्राश्य विशुद्ध्यति ॥ मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥ २५ ॥ जननमरणयोः शुद्धिर्दशाहेन भवति शौचविधेने विप्रयोज्यम् ॥ न च भवति प्रतिग्रहेषु दोषो द्विपद्- चतुष्पदधान्यदक्षिणासु॥२६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शौचविधिनम पञ्चसप्ततितमोऽध्यायः ॥७५॥ पुष्कर उवाच ॥ द्विजं न निर्हरेत्प्रेतं शूद्रेण तु कथंचन ॥ न च शूद्रं द्विजेनापि तयोर्दोषोऽभिजायते ॥ १ ॥ अनाथं ब्राह्मणप्रेतं ये वहन्ति द्विजा- तयः ॥ पदेपदे क्रतुफलं चातुर्वर्ण्यमवाप्नुयात्[१] ॥ २॥ संस्कारार्थमनाथस्य यस्तु काष्ठं प्रयच्छति ॥ काष्ठाग्निदाता प्रकाशं संग्रामे लभते जयम् ॥३॥ संज्वाल्य बान्धवं प्रेतमपसव्यं तां चितिम् ॥ परिक्रम्य ततः स्नानं कुर्युः सर्वे सबान्धवाः ॥४॥ प्रेताय च तथा दद्युस्तिलो वै चोदकाञ्जलीः ॥


[१] अत्र परमपदमाप्नुः ।

॥२३॥