भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥२२८॥

द्वि० सं० अ० ७२

सुवर्णकर्तुर्वैनस्य शैलैनिर्जकस्य च ॥ १४ ॥ मिथ्याप्रब्रजितस्यान्नं तैलिकस्य तथैव च ॥ तथैव वृषलपत्यानं ब्राह्मणेनानिमन्त्रितम् ॥ १५ ॥ एषामन्यतमस्यान्नममत्यात्त्वा त्र्यहं क्षिपेत् ॥ मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥ १६ ॥ महापातकयुक्तस्य सूतिकस्य तथैव च ॥ भुक्तान्नं चर्मकारस्य मत्या कृच्छ्रं चरेद्विजः ॥ १७॥ चण्डालश्वपचान्नं च भुक्त्वा चान्द्रायणं चरेत् ॥ अन्तश्चश्वचितिप्रेतार्तं गवान्नातं तथैव च ॥ १८ ॥ शूद्रोच्छिष्टं लघूच्छिष्टं सूतिकात्रं तथैव च ॥ तत्कृच्छ्रं तु कुर्वीत तस्य पापस्य शान्तये ॥ १९ ॥ भुक्त्वा तु ब्राह्मणाशौचे द्विजो भुक्त्वा तथा चान्द्रायणं च भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रं विधीयते ॥ २० ॥ वैश्याशौचे तथा भुक्त्वा तत्तत्कृच्छ्रं समाचरेत् ॥ शूद्राशौचे द्विजो भुक्त्वा तथा चान्द्रायणं च रेतात्॥२१॥ अशौचे यस्य यो भुक्त्वा सोऽप्युशुद्धस्तथा भवेत्॥ तावद्यावद्दशौचं तु तस्य राम प्रकीर्तितम्॥२२॥ तस्याशौचव्यपगमे प्रायश्चित्तं समाचरेत् ॥ भुक्तोतमस्य चाशौचे शपेत दिवसं तथा ॥२३॥ मृतपञ्चनखात्पादमेध्येन सकृद्युतात् ॥ अपः पीत्वा त्र्यहं तिष्ठेत्तपोवासो द्विजोत्तमः ॥ २४ ॥ त्रिदिनं क्षत्रियास्तिष्ठेदहं वैश्य एव च ॥ नक्ताशी च तथा शूद्रः पञ्चगव्येन शुध्यति ॥ २५ ॥ भुक्त्वाप्यथ कषायांश्र पीत्वामेध्यान्वपि द्विजः ॥ तावद्भवत्यप्रयतो यावदन्नं व्रजत्यधः ॥ २६ ॥ विड्वराहखरोष्ट्राणां गोमायुकपिकाकयोः ॥ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ २७ ॥ शुष्काणि जग्ध्वा मांसानि भौमानि कवकानि च ॥ अज्ञातं चैव सूनास्थं चैतदेव व्रतं चरेत् ॥ २८॥ क्रव्यादासूकरोग्राणां गोमायोः कपिकाकयोः॥ वानराश्वखरोष्ट्राणां भोक्ता पञ्चनखस्य ये ॥२९॥ मांसं च कौञ्जरं भुक्त्वा तप्तकृच्छ्रेण शुध्यति ॥ ग्रामकुक्कुटच्छत्राकौ भुक्त्वा चान्द्रायणं चरेत्॥३०॥ केशकीटावपन्नोऽपि पिबेद्भूतसुवर्चलाम्॥ आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्धयति ॥३१॥ संकलियते तथा भुक्त्वा त्रिरात्रोपेषणं भवेत् ॥ व्रतचारी तथा भुक्त्वा मधुमांसं च भार्गव॥३२॥ लशुनं गृञ्जनं चैव पालंण्डं मद्यमेव च॥ लशुननादिसमं यच्च गन्धेन मरुजोततम्॥३३॥ भुक्त्वा चान्द्रायणं कुर्यान्मासं क्रव्यभुजस्तथा ॥ लोहितान्वृक्षनिर्यासान्कुस्थानप्रभवांस्तथा ॥३४॥ शिलं गव्यं च पेयूषं विषं श्लेष्मातकं मृदम् ॥ वृथा कृसरसंयावपायसापूपशष्कु लीः॥३५॥ गवां च महिषीणां च वर्जयित्वा तथाऽज्याम् ॥ सर्वक्षीराणि वर्ज्यानि तेषां चैवाप्यनिर्दशम्॥ ३६॥ स्पन्दनोन्मूर्धभक्ष्या विवत्सायाश्च वर्जयेत् ॥ दधिसक्तूं च शुक्लांनि सर्वारूप्येव विवर्जयेत् ॥३७॥ शुणैः पुष्पफलैर्जान भक्तैरभियुतानि च ॥ विष्किराञ्जालापादांश्च रक्तपादांस्तथैव चारट॥ सर्वेशुकांश्च चूडालांन्यतोदंश्च विवर्जयेत् ॥ वर्तिका चेति तित्तिरश्च कपिञ्जलः ॥ ३९ ॥ भक्ष्यो मयूरश्च तथा पक्षिणां ये विव र्जिताः ॥ शशकः शल्को गोधा खड्गः कूर्मस्तथैव चा॥४०॥ भक्ष्याः पञ्चनखाः प्रोक्ताः परिवेषाश्च वर्जिताः ॥ पष्ठीनान्नोहितमत्स्याल्लोहतुण्डांश्च

॥२२८॥

भक्षयेत् ॥ ४३॥ राजीवंश्च सशल्कांश्च मत्स्यानाहर्मनीषिणः ॥ अतोऽन्यान्वर्जयेत्सर्वांस्तथा वै जलचारिणः ॥ ४४॥ एतेषां भक्षणाद्दोषं त्रिरात्रं क्षपणं भवेत् ॥ चक्रवाकं प्लवं हंसं टिट्टिभं मद्गुमेव च ॥ ४५ ॥ काकोलं च शुकं भासं दात्यूहं सारिकां तथा ॥ वक्रश्येनबलाकांश्च भुक्त्वा पञ्चाह्न माचरेत् ॥ ४४ ॥ उपवासस्तथा कार्यः सूनामांसाशने भवेत् ॥ अजाविकालुगोहांश्च पृषतान्माहिषांस्तथा ॥ ४६ ॥ रुङ्न्यंकूस्तैत्तिरांश्र्चैव गवयांश्चैव भक्षयेत् ॥ भुंक्त्वा मांसं ततोऽन्यस्य त्र्यहं तिष्ठेद्विकुक्षितः ॥४६॥पवगोमूर्त्रजं सर्वं पयश्चैव विक्रियाः ॥ रागषाडवकुर्चीदांनीन्स्नेहं यच्च किञ्चन ॥ ॥४७॥ एतद्दिना पर्युषितं भुक्त्वा चोपवसेद्दिनम् ॥ मध्वभाण्डगता मोहात्पीत्वा वापो द्विजोत्तमः॥४८॥शङ्खपुष्पीश्रितं क्षीरं पिवेत्तु दिवसत्रयम् ॥ सुराभाण्डगता पीत्वा सप्ररात्रं तथा पिवेत्॥४९॥शूद्रोच्छिष्टस्तथा पीत्वा पञ्चरात्रं तथा पिवेत्॥स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः॥५०॥ स्नात्वार्कमुपचित्यैवा त्रिः पुनर्मामित्यृचं जपेत् ॥ अग्निहोत्रापविद्धाग्निर्ब्राह्मणः कामचारतः ॥५१॥ चान्द्रायणं चरेन्मासं वीरहत्यासमं हितम् ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ ५२ ॥ महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ ५३ ॥ गुरोश्चालीकनिर्वन्धः समानि ब्रह्महत्यया ॥ ब्रह्मोञ्झता वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः॥५४॥ गर्जितानाद्ययोर्जग्धिः सुगतानसमानि पदा। निक्षेप स्यापहरणं नराऽश्व रजतस्य चा॥५५॥ भूमेरत्नस्यमणीनां च रुक्मस्तेयसमं स्मृतम्॥ रेतस्सेकस्स्वयोनिक्षु कुमारीष्वन्त्यजासु चा॥५६॥ सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ गोवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रयः ॥५७॥गुरुमातृपितृत्यागः स्वाध्यायाग्क्योः सुतस्य च ॥ परिवित्तिस्तदुजेन परिवेदनमेव च ॥ ५८॥ तयोर्दानं च कन्यायास्तयोरव च याजनम् ॥ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ॥ ५९॥ तडागारामदाराणामप त्यस्य च विक्रयः ॥ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥ ६० ॥ भृतादध्ययनादानमविक्रेयस्य विक्रयः ॥ सर्वाकरेष्बधिकारो महायन्त्र प्रवर्तनम् ॥ ६१ ॥ हिंसौषधिक्रियाजीवी क्रिया याचनकर्म च ॥ इन्धनार्थमशुष्काणां द्रुमाणां चैव पातनम् ॥ ६२ ॥ आत्मार्थं च क्रियार म्भो निन्दितान्नादनं तथा ॥ अनाहिताग्निता स्तेयमृणस्याप्रनिवेशनम् ॥ ६३॥ हीशूद्रद्विट्त्वेक्षिवधो नास्तिक्यञ्चोपपातकम् ॥ बालपत्य रुजा कृत्यं भ्रात्रिरग्रिमबधयोः ॥ ६४ ॥ जैह्यं च पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ श्वखरोष्ट्रानुगमनान्मजानाञ्चैव मारणम् ॥ ६५ ॥ संकी र्णकरणं ज्ञेयं मीनाहिनकुलस्य च ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ॥ ६६ ॥ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ कृमि


¹ 'स्वामत्यागः' इति ख० ।
३१

वि० ध०
॥२२१॥
दि० खं०
अ० ७३
॥२२१॥

कीटवयोहत्यामन्यानुगतभोजनम् ॥ ६७ ॥ फलैश्चकुसुमैस्तेयमथैवं चपलात्मता ॥ एतान्यर्त्तनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ॥ ६८ ॥ चैवै व्रतैरेपोहेत तानि सम्यङ्निबोधत ॥ ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ॥ ६९ ॥ भिक्षेताथ विशुद्धयर्थमुपासिनो वृषध्वजम् ॥ लक्षं श श्वभृतां वा स्याद्दिङ्गामिच्छत्यात्मनः ॥ ७० ॥ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिराविष्कृत्यः ॥ यजेत वाश्वमेधेन स्वर्जितागोसवेन च ॥ ॥ ७१ ॥ अभिजिविश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ जपन्नान्यतमं वेदं योजनानां शतं व्रजेत् ॥ ७२ ॥ ब्रह्महत्यापनुत्त्यर्थं मितभुङ् नियतेन्द्रियः ॥ सर्वस्वं वा वेदविदे ब्राह्मणायापपादयेत् ॥ ७३ ॥ धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ व्रतैरेतैरपोहेत महापातकिता न्दिजः ॥ ७४ ॥ उपपातकसंयुक्तो गोघ्नो मासं यवानदेत् ॥ कृतवापो वा निवसेच्चर्मणा तेन संवृतः ॥ ७५ ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् ॥ गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ७६ ॥ दिवाऽनुगच्छेत्ता गावस्तिष्ठन्तीषूर्ध्वमपः पिबेत् ॥ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं चरेत् ॥ ७७ ॥ तिष्ठन्तीष्वनुतिष्ठेतु व्रजन्तीष्वप्यनुव्रजेत् ॥ आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ७८ ॥ आतुरमभिपिन्नां च चौरव्याघ्रादिभिर्भयैः ॥ पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥ ७९ ॥ उष्णैर्धर्षारतिशीतर्वा मारुते वाति वा भृशम् ॥ न कुर्वी तात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ८० ॥ आत्मनो यदि वाऽन्येष गृहे क्षेत्रेऽथ वा खले ॥ खादमानां न शंसेत पिबन्तं चैव वत्सकम् ॥ ८१ ॥ वृषभेकादशा गास्तु दद्याद्धि चरितव्रतः ॥ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ८२ ॥ बन्धने रोधने वापि योजने च गवां रुजा ॥ भवेद्वा मरणं यत्र निमित्ते तत्र लिप्यते ॥ ८३ ॥ पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥ योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥ ८४ ॥ कान्तारेष्वथ दुर्गेषु विषमेषु गृहेषु च ॥ यदि तत्र विपत्तिः स्यादेकः पादो विधी यते ॥ ८५ ॥ बाधामरणदोषेषु तथैवार्थं विनिर्दिशेत् ॥ दमने वाहने रोधे शकटस्य च योजने॥८६॥नद्यां शकलपाशेष्ठ मृते पादो समाचरेत् ॥ व्यापन्नानां बहूनां तु बन्धने रोधनेऽपि वा॥८७॥भिषङ् मिथ्याचरंश्चैव द्विगुणं गोव्रतं चरेत् ॥ शृङ्गभङ्गेऽस्थिभङ्गे वा लांगूलच्छेदनेऽथवा ॥८८॥ यावकं तु पिबेत्तावद्यावत्स्वस्था तु गौर्भवेत् ॥ एकां चेद्वहुभिर्दैवाद्यद्य व्यापायदिता भवेत् ॥ ८९ ॥ पादपादं तु हत्यायां चरेयुस्ते पृथक्पृथक् ॥ यन्त्रेण गोश्चिकित्सार्थं मूढगर्भविमोक्षणे ॥ ९० ॥ यदि तत्र विपत्तिः स्याद्दोषस्तत्र न विद्यते ॥ औषधं स्नेहमाहारं ददन्न ब्राह्मणेषु ॥९१ ॥ अव धीयमाने विपत्तिः स्याद्वाग्दोषो न विद्यते ॥ एतदेव व्रतं कुर्युरुपपातकिनस्तथा ॥ ९२ ॥ अवकीर्णी विशुद्ध्यर्थं चान्द्रायणमथापि वा ॥ अव

कीर्णी तु कालेन सप्तमेन चतुष्पथे ॥ ९३ ॥ पाक्यज्ञविधानेन यजते निभृतं निशि ॥ हुत्वाऽग्नौ विधिवद्धोमांस्ततस्तु समितित्युचम् ॥ ९४ ॥ वात

न्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहूतीः ॥ कामतो रेतसः सेके व्रतस्थस्य द्विजन्मनः ॥ ९५ ॥ आक्रमं च व्रतस्याहुर्धर्मज्ञाः सत्यवादिनः ॥ एतस्मि

न्नेव सिद्धयर्थं वसित्वा गर्दभाजिनम् ॥ ९६ ॥ सप्तागारं चरेंद्भैक्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्ष्येण वर्तयेन्नैव कालिकम् ॥ ९७ ॥ उप

स्पृशंस्त्रिषवणमब्देन स विशुद्ध्यति ॥ हत्वा गर्भमविज्ञांतं ब्रह्महत्याव्रतं चरेत् ॥ ९८ ॥ राजन्यवैश्यौ चेजाना आत्रेयीमेव च स्त्रियम् ॥ उक्त्वान्

चेवानृतं साक्ष्ये प्रतिरुध्य गुरुंस्तथा ॥ ९॥ अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत ॥ १०० ॥ तया

सकाये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा॥१०१॥पयो घृतं वा मरणाद्गोशकृद्रसमेव वा॥ कणांन्वा भक्षयेदब्दं

पिण्याकं वा सकृन्निशि॥ १०२॥सुरापानापनुत्त्यर्थं चीरवासा जटी ध्वजी॥सुरा वै मलमन्नानां पाप्मा च मलमुच्यते॥ १•३॥तस्माद्ब्राह्मणराजन्यौ वैश्यश्च

न सुरां पिबेत् ॥ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥ १०४॥ यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ यक्षरक्षःपिशाचान्नं मद्यं

मांसं सुरासवम् ॥ १०५॥ तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ माध्वीकमैक्षवं टार्कं कौलं खार्जूरपानसम् ॥ १०६॥ मृद्वीकारसमाद्धीकं मैरेयं

नारिकेलजम् ॥ असेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च ॥ १०७॥ यस्य कामगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ॥ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं

च स गच्छति ॥ १०८॥ अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिर्णयम् ॥ सुवर्णस्तेयकृद्विप्रो राजानमभिशस्य तु ॥१०९॥ स्वकर्म ख्यापयन्ब्रूया

न्मां भवानिति शास्त्विति ॥ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ॥ ११० •॥ वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥

तपसा त्वपुनस्तुष्टु सुवर्णस्तेयजं मलम् ॥ १११ ॥ चीरवासा द्विजोऽरण्ये चरेद्ब्राह्मणं व्रतम् ॥ गुरुतल्पोऽभिभाष्याथैनं

तल्पे स्वप्यादयोमये ॥ ११२ ॥ सूमीं ज्वलन्तीमाश्लिष्य मृत्युना तु विशुध्यति ॥ स्वयं वा शिश्नवृषणावुत्कृत्याधाय स्वाञ्जलौ ॥ ११३ ॥

नैऋतीं दिशमातिष्ठेन्निपातादजिह्मगः ॥ खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ॥ ११४ ॥ प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ॥

चान्द्रायणं तु त्रीन्मासानभ्यसेन्नियतेन्द्रियः ॥ ११५॥ हविष्येण यवाग्वा च गुरुतल्पापनुत्तये ॥ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥

॥ ११६॥ चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ शंकरापात्र कृत्यासु चासंशोधनमेन्दवम् ॥ ११७ ॥ मलिनीकरणीयेषु तप्तः स्याद्या

वकं त्र्यहम् ॥ तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ॥ ११८॥ वैश्येऽष्टमोंशो हन्त्युस्तु शूद्रे ज्ञेयस्तु षोडश ॥ अकामतस्तु राजन्यं विनि

वि० ध० ॥२३०॥

द्वि० खं० अ० ७३

पात्य द्विजोत्तमः ॥ ११९ ॥ वृषभैकसहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः ॥ त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ॥ १२० ॥ वसेद्दूरतरे ग्रामाद्द्वृक्षमूलनिकेतनम् ॥ एतदेवाचरेद्दंडं प्रायश्चित्तं द्विजोत्तमः ॥ १२१ ॥ प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैवैऋशतं गवाम् ॥ एतदेव शतं कुर्यां षण्मासांस्तुशूद्रहा चरेत् ॥ १२२ ॥ वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥ मार्जारनकुलौ हत्वा चापं मण्डूकमेव वा ॥ १२३ ॥ श्वगोधिकोलूककांश्च शुद्धस्यान्नं चरेत ॥ पयः पिवेत्त्रिरात्रं वा योजनं चाध्वनो ब्रजेत् ॥ १२४ ॥ उपस्पृशेत्स्रवन्त्यां वा सूक्तं वा त्रिवृतं जपेत् ॥ अभ्रं कांस्यावसो दद्यात्सतं हत्वा द्विजोत्तमः ॥ १२५ ॥ पलालभारकं षण्ढं सौमर्कं चैव माषकम् ॥ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ॥ १२६ ॥ शुके द्विव्यायनं वत्सं क्रौञ्चे हत्वा द्विहायनम् ॥ हत्वा हंसं वलाकां च वकं बर्हिणमेव च ॥ १२७ ॥ वानरं द्यूनभासो वा स्पर्शयेद्ब्राह्मणाय गाम् ॥ वासो दद्याद्धयं हत्वा पञ्चनीलान्वृषान्गजम् ॥ १२८ ॥ अजं मेषमनडाहं त्वं हत्वैकाहायनम् ॥ क्रव्यादान्हरिणो हत्वा धेनुं दद्यात्तपयस्विनीम् ॥ १२९ ॥ अक्रव्याद् वत्सतंरीङ्क हत्वा तु कृष्णलम् ॥ जीवकमुर्कवत्सादीन्पृथग्गवादिशुद्धये ॥ १३० ॥ चतुर्णामपि वर्णानां नारीं हत्वा न रगतः ॥ वर्णनामनानुपूर्व्येण ज्ञायानामविशेषतः ॥ १३१ ॥ प्रमाप्य चाप्रमाप्य स्त्रीं शुद्धहत्याव्रतं चरेत् ॥ धनेन वर्धयिपंकं सर्पादीनामशक्तुवन् ॥ १३२ ॥ एकैकं शश्वरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥ १३३ ॥ गुल्मवल्लीलतानां च पुष्टितानां च वीरुधाम् ॥ अस्थ्वन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ॥ १३४ ॥ पूणे वा तद्नस्रं तु शुद्धह्याव्रतं चरेत् ॥ किञ्चिद्देव तु विप्राय दद्यादस्थिमतां वधे ॥ १३५ ॥ अनस्थां चैव हिंसायां प्राणायामेन शुद्ध्यति ॥ अनाष्टानां सस्वानां संख्वानां रसजानां च संर्वेशः ॥ १३६ ॥ फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ कृष्णजानामौषधीनां जातानां च स्वयं वने ॥ १३७ ॥ वृथारम्भेण गच्छेद्व्रां दिनमेकं पयोव्रतः ॥ एतैर्व्रतैरपोह्यं स्याद्देनो हिंसासमुद्भवम् ॥ १३८ ॥ स्तेयदोषापहर्णां व्रतानां श्रूयतां विधिः ॥ धान्यानि धनचौर्याणि कृत्वा कामाद्विजोत्तमः ॥ १३९ ॥ स्वजातीयाद्गृहाद्देव कृच्छ्रार्द्धेन विशुध्यति ॥ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रागृहस्य च ॥ १४० ॥ कूपवापीजलानां तु शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्त्वाऽन्यवेश्मतः ॥ १४१ ॥ चरेंत्सान्तपनं कृच्छ्रं तं निर्यात्यात्मशुद्धये ॥ भक्ष्यभोज्यापहरणं यानशय्यासनस्य च ॥ १४२ ॥ पुष्पमूलफलानां च पश्चगव्यं विशोधनम् ॥ तृणकाष्ठद्रुमाणां तु शुष्कान्नस्य गुडस्य च ॥ १४३ ॥


^१ 'क्रव्यादंस्तृणस्थान् हत्वा' इति ख० ।
^२ 'दहं हत्वा तु वत्सकम्' इति ख० ।

॥२३०॥

चैलचर्माङमिषाणां च त्रिरात्रं स्यादभोजनम् ॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥ १४४ ॥ अयस्कांस्योपलानां च द्वादशाहं कणान्न भुक् ॥ कार्पासिकीटकीर्णानां द्विश्रैफकंशरफस्य च ॥ १४५ ॥ पक्षिगन्ध्योषधीनां च रज्वांश्च त्र्यहं पयः ॥ एतैर्व्रतैरेपोहेत पापं स्तेयकृतं द्विजः ॥ १४६ ॥ अगम्यगमनीयेन व्रतैरेभिरपाकुदेत ॥ गुरुतल्पव्रतं कुर्याद्द्वितः सिक्तास्वयोनिषु ॥ १४७ ॥ सख्युः पुत्रस्य च स्त्रीषु कुमारी ष्वन्त्यजासु च ॥ पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च ॥ १४८ ॥ मातुश्च भ्रातृस्तनयां गत्वा चान्द्रायणं चरेत् ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेद बुद्धिमान् ॥ १४९ ॥ ज्ञातयो नोपयमनाः पितुश्च ह्युपपन्नधः ॥ अमानुषीषु पुरुष उदक्यां वामयोनिषु ॥ १५० ॥ रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥ १५१ ॥ गोयानेषु दिवा चैव सवासाः स्नानमाचरेत् ॥ चण्डा लान्त्यजब्रीधोगाद्गत्वा च प्रतिगृह्य च ॥ १५२ ॥ पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं च गच्छति ॥ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवे श्मनि ॥ १५३ ॥ यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥ सा चेत्पुनः प्रदुष्येत सहशेनोपमन्त्रिता ॥ १५४ ॥ कृच्छ्रं चान्द्रायणं चैव तदस्र्याः पावनं स्मृतम् ॥ यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥ १५५ ॥ तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैरपोति ॥ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ॥ १५६ ॥ पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ १५७ ॥ याजनाध्यापनाद्दाना द्भुक्तिपानाशनासनात् ॥ यो येन पतितेनैषां संसर्ग याति मानवः ॥ १५८ ॥ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥ पतितस्योदकं कार्यं सपि ण्डेर्बान्धवैः सह ॥ १५९ ॥ निन्दितऽहनि सायाह्ने ज्ञातित्विग्गुरुसन्निधौ ॥ दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥ १६० ॥ अहोरात्रमुपासी रन् शौचं बान्धवैः सह ॥ निवर्तेरन्तरस्मात्तु संभाषणसहासने ॥ १६१ ॥ दायादस्य प्रदानं च यात्रामेव च लौकिकीम् ॥ ज्येष्ठभागं निवर्तेत ज्येष्ठावांतं च यद्वसु ॥ १६२ ॥ ज्येष्ठांशं प्राप्नुयाच्चापि यवीयानगुणतोऽधिकः ॥ प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् ॥ १६३ ॥ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ सस्त्वप्सु तं घटं प्राप्य प्रविश्य भवनं स्वकम् ॥ १६४ ॥ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ एतमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥ १६५ ॥ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ एनस्विभिरनिर्णीतैनैर्णिर्यं किञ्चित्समाचरेत् ॥ १६६ ॥ कृतनिर्णेजनांश्चैतान जुगुप्सेत कर्हिचित् ॥ बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ॥ १६७॥ शरणागतहन्तूंश्च स्त्रीहंतूंश्च न संवसेत् ॥ येषां द्विजानां सावित्री नानुच्येत यथाविधि ॥ १६८ ॥ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये

वि० ध०                                                                                                     द्वि० सं०
॥२३१॥                                                                                                     अ० ७३

द्विजाः ॥ १६९ ॥ ब्राह्मणांश्च परित्यक्ता येषां मध्ये तदादिशेत् ॥ यद्धविर्हतेनार्जयन्ति ब्राह्मणाः कर्मणा धनम् ॥ १७० ॥ तत्योत्संगेण शुध्यन्ति 
जप्येन तपसैव च ॥ जपिला त्रीणि सावित्र्याः सहस्राणि समाहितः ॥ १७१ ॥ मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ उपवा-
सकृशं तं तु गोव्रजात्पुनरागतम् ॥ १७२ ॥ प्रणतं परिपृच्छेयुः सौम्य सौम्यैच्छसीति किम् ॥ सत्यसुका तु विप्रेभ्यो वितरेद्गवसं गवाम् ॥ १७३ ॥ 
गोभिः प्रवर्त्तिते तीर्थे कुर्यात्तस्य परिग्रहम् ॥ व्रात्यानां याजनं कृत्वा परेषांमन्त्यकर्म च ॥ १७४ ॥ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्वि-
शुध्यति ॥ शरणागतं परित्यज्य वेदं विप्लाव्या च द्विजः ॥ १७५ ॥ संवत्सरं यताहारस्तत्पापमपगच्छति ॥ श्वशृगालोगर्दभैर्दष्टो ग्राम्यैः क्रव्याद्भि-
रेव च ॥ १७६ ॥ गवाश्वोष्ट्रवराहैश्च प्राणायामेन शुद्धयति ॥ षष्ठान्नकालमशनं संहिताजाप एव च ॥ १७७॥ होमश्च शाकलो नित्यमपङ्कचानां 
विशोधनम् ॥ उष्ट्रयानं समारुह्य खरयानं च कामतः ॥ १७८ ॥ स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ विना निद्रात्सु चाब्धन्तः 
शरीरं संनिवेशयेत् ॥ १७९ ॥ सचैलो बहिराप्लुत्य गामालब्भ्य विशुध्यति ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥ ॥ १८० ॥ स्नात-
कव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ हुङ्कारं ब्राह्मणस्योक्ता त्वंकारं तु गरीयसः ॥ १८१ ॥ स्नात्वाऽनश्नन्हरेश्रैकमभिवाद्य प्रसादयेत् ॥ ताड-
यित्वा तृणेनापि कण्ठे बद्धाऽपि वाससा ॥ १८२ ॥ विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ अवगूर्य त्वब्दशतं सहस्रमभिहत्य च ॥ १८३॥ 
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ शोणितं यावतः पांसूंत्संगृह्णाति द्विजन्जन्मनः ॥ १८४॥ तावन्त्यब्दसहस्राणि तत्कर्ता नरकं व्रजेत् ॥ 
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ॥१८५॥ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पादद्य शोणितम् ॥ चण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥ 
॥ १८६ ॥ सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनम् ॥ चान्द्रायणं पराकं वा द्विजानां तु विशोधनम् ॥ १८७ ॥ प्राजापत्यं तु शूद्राणां शेषं 
तदनुसारतः ॥ गुडं कुसुमभं लवणं तथा धान्यानि यानि च ॥ १८८ ॥ कृत्वा गृहे ततो क्षारं तेषां दद्याद्धुताशनम् ॥ मृण्मयानां तु भाण्डानां 
त्याग एव विधीयते ॥ १८९ ॥ द्रव्याणां परिशेषाणां द्रव्यशुद्धिविधीयते ॥ यस्तस्य भुङ्गे पक्वान्नं कृच्छ्रार्द्धं तस्य दापयेत् ॥ १९० ॥ शुष्कान्न 
भोजनः पादमित्याह भगवान्मनुः ॥ कूपे ता नव संतार्य स्पर्शसंकरदूषिताः ॥ १९१ ॥ शुद्धेद्युक्तुप्रवासेन पश्चगव्येन चाप्यथ ॥ यस्तु संस्पृश्य 
चाण्डालमश्नीयाद्वा त्वकामतः ॥ १९२ ॥ द्विजश्चान्द्रायणं कुर्यात्तत्कृच्छ्रमथापि वा ॥ वर्णसंकरसंकीर्णाश्चण्डालादिजुगुप्सिताः ॥ १९३ ॥ 
भुक्त्वा पीत्वा तथा तेषां षड्रात्रेण विशुध्यति ॥ अन्त्यानां भुक्तरूषं तु भक्षयित्वा द्विजातयः॥१९४॥श्चरेतं चान्द्रायणं कुर्यात्किरान्नं शूद्र एव च ॥ ॥२३१॥

चण्डालकूपभाण्डेषु अज्ञानाद्यः पिबेज्जलम् ॥ १९५ ॥ द्विजः सान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनम् ॥ उच्छिष्टो यदि संस्पृष्टः शुना शूद्रेण वा द्विजः ॥ १९६ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ उच्छिष्टेन यदि स्पृष्ट उच्छिष्टो ब्राह्मणोत्तमः ॥ १९७ ॥ त्रिकालमाचरेत्स्नानं नक्तं भुंजीत वाग्यतः ॥ क्षत्रियेण तथा स्पृष्टः स्नानं नक्तं समाचरेत् ॥ १९८ ॥ स्पृष्टः सवर्णेनाचामेद्मध्ये स्पृष्टो यदि ॥ अहोरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ १९९॥ अध्वानं प्रस्थितो विप्रः कान्तारे यद्युदकं न चेत् ॥ पक्कानेन गृहीतेन मूत्रोच्चारं करोति वै ॥ २०० ॥ अनिक्षिप्यैव तद्द्रव्यं कृत्वांगे उत्तम स्थितम् ॥ शौचं कृत्वा यथान्यायंमुपविश्य यथाविधि ॥ २०१ ॥ अन्नमभ्युक्ष्यतोयेन उद्धृत्यार्कस्य दर्शयेत् ॥ अर्काभावेऽप्य- थामग्नौ वस्त्रस्तथाय प्रदर्शयेत् ॥२०२॥ त्यक्त्वा ग्रासत्रयं तस्माच्छेषं शुद्धिंमवाप्नुयात् ॥ म्लेच्छैर्हृतानां चौरैर्वा कान्तारे वा प्रवासिनाम्॥२०३॥ भक्ष्याभक्ष्यविशुद्ध्यर्थं तेषां वक्ष्यामि निष्कृतिम् ॥ पुनः प्राप्य स्वदेशं च वर्णानामनुपूर्वशः ॥ २०४ ॥ कृच्छ्रस्यार्धं ब्राह्मणस्तु पुनः संस्कारम- र्हति ॥ पादोनानेतं क्षत्रियस्तु अर्धार्थे वैश्य एव च ॥ २०५ ॥ पादं कृत्वा तथा शूद्रो दानं दत्त्वा विशुद्ध्यति ॥ उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ॥ २०६ ॥ अहोरात्रोषिता सा च शुद्धा स्नानेन शुध्यति ॥ मूत्रे कृत्वा व्रजेन्मार्गं स्मृत्रिंशंआञ्जलं पिवेत् ॥ २०७ ॥ अहो रात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ (मूत्रोच्चारं द्विजः कृत्वाऽप्यकृत्वा शौचमात्मनः ॥ २०८ ॥ मोहाद्भुक्त्वा त्रिरात्रं तु यवान् पीत्वा विशु- ध्यति ॥) परित्यक्तमहापज्ञा प्रब्रज्याविच्युताश्च ये ॥२०९॥ अनाशकनिवृत्ताश्च तेषां शुद्धिः प्रवक्ष्यते ॥ चारयेत्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥ २१० ॥ जातकर्मदिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥ उपानहम्ममेध्यं वा चास्य संस्पृशते मुखम् ॥ २११ ॥ मृत्तिकागोमयौ तस्य पञ्चग- व्यं विशोधनम् ॥ वापम विक्रयं चैव नील्युत्थमुपजीवनम् ॥ २१२ ॥ पतनीयं हि विप्रस्य नीलसूत्रस्य धारणात् ॥ ( स्नानं दानं तपो होमः स्वा- ध्यायः पितृतर्पणम् ॥ २१३ ॥ वृथा तस्य महायज्ञा सूत्रमग्रस्य धारणात् ॥) नीलरक्तं यदा वस्त्रं द्विजोङ्गेषु हि धारयेत् ॥ २१४ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ नीलदारु यदा भज्येदब्राह्मणस्य तु पादयोः ॥ २१५ ॥ शोणितं दृश्यते चास्य द्विजश्चान्द्रायणं चरेत् ॥ वापितं यत्र नीलं तु तावद्देशोऽशुचिर्मही ॥ २१६ ॥ प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत् ॥ अन्त्यजातिः श्वपाकेन संस्पृष्टा स्त्री रजस्वला ॥ २१७ ॥ चतुर्थेऽहनि शुद्धायाः प्रायश्चित्तं विशोधनम् ॥ त्रिरात्रमुपवासः स्यात्पञ्चगव्यं तथैव च ॥ २१८ ॥ उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ॥ यावन्न शुद्धिमाप्नोति नाश्नीयात्तावदेव तु ॥ २१९ ॥ चण्डालश्वपचौ स्पृष्ट्वा शवधूमञ्च सूतिकाम् ॥ शवं स्पर्शयिता श्वानं सद्यः स्नानेन

शुध्यति ॥२२०॥ ना स्पृष्ट्वाऽस्थि तु सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥२२१॥ रथ्याकर्दमतोयेन नाभिस्पृष्टो भवेन्नरः ॥ मृत्तोयैश्चापिचेदङ्गं ततः शुद्धिमवाप्नुयात् ॥ २२२ ॥ वान्तं विरिक्तः स्नात्वा तु घृतं पीत्वा विशुध्यति ॥ भुक्त्वैके ततः कृत्वा स्नानंनैव विशुध्यति॥२२३॥ अपाङ्क्तेयस्तु यः पङ्क्त्यां भुंक्ते कश्चिद्विजोत्तमः ॥ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥२२४ ॥ चन्द्रा यणेण शुद्धा द्विजश्चान्द्रायणं चरेत् ॥ ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पयः पिबेत् ॥ २२५ ॥ गृहस्थो वा त्रिरात्रं तु चैकाहं त्वग्रिहोत्रवान् ॥ नाभेरुर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ २२६॥ बाह्वोश्च त्रिगुणं ज्ञेयं मूर्धानं स्याच्चतुर्गुणम् ॥ उद्वन्धमृतकं प्रेतं यः स्पृशेद्विजाह्मणः क्वचित् ॥ २२७ ॥ तस्य शुद्धिं विजानीयात्तातकृच्छ्रेण नित्यशः ॥ आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ॥ २२८ ॥ तस्य प्रेतक्रियां कृत्वा तप्तकृ च्छ्रेण शुध्यति ॥ इन्द्रियेषु प्रविष्टं स्याद्धर्म्यं यस्य कस्य चित् ॥ २२९ ॥ अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ २३१॥ पातकैः शोध्यो व्रतैर्विप्रैस्तैर्मया ॥ २३० ॥ अनाविष्कृतपापांश्च मन्त्रैर्होमैश्च साधयेत् ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥ २३१ ॥ पापकॢ न्मुच्यते पापातथा दानेन चापरे ॥ यथा यथा नरो धर्मं स्वयं कृत्वा न भाषते ॥ २३२ ॥ तथा तथा च जेनैव तस्मात्पापात्प्रमुच्यते ॥ कृत्वा पापं हि स्मर्तव्यं तस्मात्पापात्प्रमुच्यते ॥ २३३ ॥ यथायथा मनस्तस्य दुष्कृतं कर्म गर्हति ॥ तथातथा शरीरं तत्तेनावमेण मुच्यते ॥ २३४ ॥ नैतत्कुर्यां पुनरिति निवृत्त्या प्रपतेन्नरः ॥ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ॥ २३५॥ मनोवाक्का र्यभिर्नित्यं शुभं कर्म समाचरेत् ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ॥ २३६ ॥ तस्माद्धि मुच्यते नित्यं द्वितीयं न समाचरेत् ॥ यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् ॥ तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरो भवेत् ॥२३७॥ गुरुल्लघुतां तु विचार्य यथावद्वेषु मयागमनं च तवोक्तम् ॥ तेषु न चेत्सहस्रैर्ब्रह्मद्विद्विप्रवरैः कुशलैः सुधिया वा ॥२३८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० प्राश्चित्तान्यायो नाम त्रिसप्ततितमोऽध्यायः॥७३॥ पुष्कर उवाच ॥ इत्येतेनसमायुक्तं प्रायश्चित्तं यथाविधि ॥ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोध मे॥ १॥पोहरूपेण तु सूक्तेन जप्त्वेद्विद्विजोत्तमाः ॥ मासेनेकेन मुच्यन्ते पातकैः संयतेन्द्रियाः ॥ २ ॥ सव्याहृतिकगायत्र्याः प्राणायामान्तु षोडश ॥ अपि भ्रूणहंतं मासात्पुनन्त्यन्वहं कृताः ॥ ३ ॥ कौत्सं जप्त्वाप इत्येतत्सिद्धिं प्रति च ऋचम् ॥ माहेशं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥४॥ सकृज्जप्त्वाप्यघ वर्मिर्य शिवसंकल्पमेव च ॥ अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ५ ॥ हविष्मतीयमृचयमिति ततः संज्ञा इतीति च ॥ जप्त्वा च पौरुषं सूक्तं

मुच्यते गुरुतल्पगः ॥ ६ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ॥ अवेक्ष्येदं जपेद्दूर्द्धं यत्किञ्चिदपि तानि चेत् ॥ ७ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥ जपंस्तरत्समन्दीयं प्रयतो मानवऋचम् ॥ ८ ॥ सोमारौद्रं तु बहूनां जपन्सत्यस्य ऋच्छति ॥ स्रवन्त्यामाचरेत्स्नानं पर्येस्यामिति वा ऋचम् ॥ ९ ॥ अद्वा -रसानमियेतेन्त्सप्तकं जपेत् ॥ अशकाशं तु कुर्बानो मासमासीत भैक्ष्यभुक् ॥ १० ॥ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥ सुवर्णच्युपहन्त्येनो जप्त्वा वामन इष्यते ॥ ११ ॥ हुपुदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ १२ ॥ महापातकसंयुक्तो न गच्छेदधः समाहितः ॥ स्वभ्यस्य पावमानीयं भैक्ष्याहारो विशुध्यति ॥ ॥ १३॥ अरण्ये वा विरम्यस्य प्रयतो वेदसंहिताम् ॥ मुच्यते पातकैः सर्वैः परकैः शोधितस्त्रिभिः ॥ १४॥ त्र्यहं तूपवसेद्युक्तस्त्रिरहोऽभ्युपयन्नपः ॥ मुच्यते पातकैः सर्वैर्जप्त्वा त्रिराधमर्पणम् ॥ १५ ॥ यथाश्वमेधः सुतरां सर्वपापापनोदनः ॥ तथाघमर्पणं सूक्तं सर्वपापापनोदनम् ॥ १६॥ हत्वा लोका नपीमांस्त्रीनश्नन्नपि यतस्ततः ॥ ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥ १७॥ ऋक्संहितां समभ्यस्य यजुषां वा समाहितः ॥ साम्नां वा सरह स्यानां सर्वपापैः प्रमुच्यते॥१८॥ यथा महाह्रदं प्राप्य क्षिप्रं लोष्ठो विनश्यति ॥ तथा दुश्पूरितं सर्वं वेदे त्रिवृति मज्जति ॥ १९ ॥ ऋचो यजूंषि चाथानि सामानि विविधानि च ॥ एष ज्ञेयस्त्रिवृद्वेदो यो वै वेद स वेदवित् ॥२०॥ आद्यं वै त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ॥ स गृह्योऽन्यस्त्रिवृद्वेदो यो वेदैनं स वेदवित्॥२१॥वेदभ्यासोऽन्वहं शक्त्या महायज्ञक्रियासमः॥ नाशयन्त्याशु पापानि महापातकान्यपि ॥२२॥ यथैधांसि समिद्धोऽग्निर्भ स्मसात्कुरुते क्षणात ॥ तथा ज्ञानाग्निना पापं क्षिप्रं दहति वेदवित् ॥२३॥ वासुदेवं जगन्नाथमीशं भक्त्या गताः सर्वजगत्यथानम् ॥ ते पातकान्याशु विधूय लोके भवन्ति चन्द्रार्कसमप्रभावाः॥२४॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डो मा० सं० रहस्यप्रायश्चित्तो नाम चतःसततितमोऽध्यायः ॥७४॥ राम उवाच ॥ प्रेतशुद्धिं समाचक्ष्व सूतिकाशुद्धिमेव च ॥ द्रव्यशुद्धिं च भगवंस्त्वं हि वेत्सि यथा तथा ॥ १ ॥ पुष्कर उवाच ॥ दशाहे शावमा शौचं सपिण्डेषु विधीयते ॥ जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ॥ २ ॥ द्वादशाहेन राजन्यः पञ्चाहेभ्यो विशुध्यति ॥ मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ॥ ३ ॥ आनुलोम्येन पत्नीनां दासीनां च सूतकम् ॥ स्वामितुल्यं भवेच्छौचं मृते स्वामिनि योषितम् ॥ ४ ॥ षड्भिमत्रि भिर्यत्केन क्षत्रविट्शूद्रयोनिषु ॥ ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥ विट्शूद्रयोनी शुद्धिः स्यात्क्षत्रियस्य तथैव च ॥ षडरात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ॥ ६ ॥ अदन्तजातबाले तु सद्यः शौचं विधीयते ॥ बाले त्वकृतचूडे च विशुद्धिनैशिकी स्मृता ॥ ७ ॥

वि० ध० ॥२३॥ द्वि० खं० अ० ७६

तथा चानुपनीते तु त्रिरात्राच्छुद्धिरिष्यते ॥ ततः परं दशाहेन शुद्धेयुस्तस्य बान्धवाः॥८॥ ऊनत्रिवाधिके शुद्धे पश्चाद्वा शुद्धिरिष्यते ॥ द्वादशा- हेन शुद्धिः स्यादतीते वत्सरत्रये ॥ ९ ॥ गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥ स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ॥ १० ॥ तथा हि कृतचूडानां त्र्याहाच्छुद्ध्यन्ति बान्धवाः ॥ विवाहितासु नाशौचं पितृपक्षे विधीयते ॥ ११ ॥ पितृगृहे प्रसूतायां विशुद्धिर्नैशिकी स्मृता ॥ सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥ १२ ॥ विवाहिताऽपि चेत्कन्या म्रियेत पितृवेश्मनि ॥ तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ॥ १३ ॥ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ॥ तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥ १४ ॥ सस्नानं खलु शौचं च प्रथमेन समापयेत् ॥ असमानं द्वितीयेन धर्मराजवचो यथा ॥ १५ ॥ देशान्तरस्थाः श्रुत्वा तु कुल्यानं मरणोद्भवौ ॥ यच्छेषं दशरात्रस्य तावदेव शुचिर्भवेत् ॥ १६ ॥ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥ तथा संवत्सरेऽतीते स्नात्वैव च शुद्ध्यति ॥ १७ ॥ मातामहे तथातीते आचार्ये च तथा मृते ॥ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १८ ॥ परपूर्वासु भार्यासु त्रिरात्राच्छुद्धिरिष्यते ॥ निवासे राजनं प्रेते मातुले श्वशुरे तथा ॥ १९ ॥ आचार्यपत्नीपुत्रेषु शिष्ये सब्रह्मचारिणि ॥ एकरात्रमशौचं स्यादज्ञानेनैव तथा मृते ॥ २० ॥ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोध्य- नम् ॥ सपिण्डे ब्राह्मण वर्णः सर्व एवाविशेषतः ॥ २१ ॥ दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपाः ॥ वैश्यः पञ्चदशाहेन शूद्रे मासेन भार्गव ॥२२॥ भृग्वग्न्यनशनाम्भोभिर्मृतानामात्मघातिनाम् ॥ पतितानां च नाशौचं विद्युच्चन्द्रहताश्च ये ॥ २३ ॥ सती व्रती ब्रह्मचारी नृपकार्यकदीक्षिताः ॥ नाशौचभाजः कथिता राजकार्यकराश्च ये ॥२४॥ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ॥ सवासा जलमाप्लुत्य घृतं प्राश्य विशुद्ध्यति ॥ मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥ २५ ॥ जननमरणयोः शुद्धिर्दशाहेन भवति शौचविधेने विप्रयोज्यम् ॥ न च भवति प्रतिग्रहेषु दोषो द्विपद्- चतुष्पदधान्यदक्षिणासु॥२६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शौचविधिनम पञ्चसप्ततितमोऽध्यायः ॥७५॥ पुष्कर उवाच ॥ द्विजं न निर्हरेत्प्रेतं शूद्रेण तु कथंचन ॥ न च शूद्रं द्विजेनापि तयोर्दोषोऽभिजायते ॥ १ ॥ अनाथं ब्राह्मणप्रेतं ये वहन्ति द्विजा- तयः ॥ पदेपदे क्रतुफलं चातुर्वर्ण्यमवाप्नुयात्[१] ॥ २॥ संस्कारार्थमनाथस्य यस्तु काष्ठं प्रयच्छति ॥ काष्ठाग्निदाता प्रकाशं संग्रामे लभते जयम् ॥३॥ संज्वाल्य बान्धवं प्रेतमपसव्यं तां चितिम् ॥ परिक्रम्य ततः स्नानं कुर्युः सर्वे सबान्धवाः ॥४॥ प्रेताय च तथा दद्युस्तिलो वै चोदकाञ्जलीः ॥


[१] अत्र परमपदमाप्नुः ।

॥२३॥

कार्यमश्मनि पदं दत्त्वा प्रविशेयुस्तथा गृहम् ॥ ५६॥ अक्षतां निक्षिपेषुश्च तथा वह्नौ समाहिताः ॥ विदश्य निम्बपत्राणि शर्यांरैश्च पृथक् स्थितौ ॥५६॥
क्रीतलव्ध्याशनाश्र्चैव भवेयुः सुसमाहिताः ॥ न चैव मांसमश्नीयुर्व्वर्जयेयुर्न च गोपितम् ॥ ७॥ निवर्त्तयेयुस्तच्चैवैकं पिण्डं प्रेतस्य नित्यदा ॥ अशौचं
यावदेव स्यात्तस्मिन्व्यपगते पुनः ॥८॥ श्मश्रुकर्म तदा कृत्वा स्नाताः सिद्धार्थकौस्तैलैः ॥ पूजेयुर्द्द्विजान्नाम परिवर्तितवाससः ॥९॥ अदन्तजाते
स्तनये शिशौ गर्भेच्युते तथा ॥ कार्यों नैवाग्निसंस्कारो नैव चास्योदकक्रिया ॥१०॥ चतुर्थे च दिने कार्य्यश्चास्थ्नां राम संचयः ॥ अस्थिसंचय
नादूर्ध्वं कुलस्पर्शो विधीयते ॥ ११ ॥ मृतस्य बान्धवैः सार्धं कृत्वाऽश्रुपतनं नरः ॥ अस्थिसंचयनादूर्ध्वं सद्येलं स्नानमाचरेत् ॥ १२॥ स्नात्वाञ्च
शुद्धिमाप्नोति ततः परमिति श्रुतिः ॥ अस्थां गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥ १३ ॥ अस्थां हि प्लावनाथार्य सागराणां महात्मनाम् ॥
गगनाद्रुमानीता गङ्गा गगनमेखला ॥ १४ ॥ भगीरथेन धर्मज्ञ तपसा महता पुरा ॥ सगरस्य सुताः सर्वे नरकस्था भृगूत्तम ॥ १५ ॥
गङ्गातोयाप्लुता राम दिवमक्षय्यमागताः ॥ गङ्गातोयेन यस्यास्थि यावत्संस्र्यं निमज्जति ॥ १६ ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥ १७ ॥ तेषामपि तथा गङ्गातोये स्यात्पतनं हितम् ॥ पतितानां
तु यद्दत्तं श्राद्धं चाथ जलाञ्जलिः ॥ १८ ॥ न तत्प्रेतः समाप्नोति गगने प्रविलीयते ॥ अनुग्रहेण सहिता प्रेतस्य पतितस्य
तु ॥ १९ ॥ नारायणवलिः कार्यस्तेनानुग्रह्मश्नुते ॥ अनादिनिधनो देवः शंखचक्रगदाधरः ॥ २० ॥ अक्षयः पुण्डरीकाक्षस्तन्न दत्तं
न नश्यति ॥ यथाकथंचिदुद्दद्दष्टं देवदेवे जनार्दने ॥ २१ ॥ अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः ॥ परस्मात्प्रापायते यस्मात्तस्मात्पात्रं प्रकी
र्तितम् ॥ पततां त्राणदस्त्वेको देवो मधुनिषूदनः ॥ २२॥ अमितवलपराक्रमो महौजा दुरितभयापहरो हरिर्महात्मा ॥ अधशतपतिमलैर्नश्च सेव्यमा
नो भवति नृणां त्रिदिवोप वासुदेवः ॥२३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने प्रेतनिर्हरणो नाम षट्सप्ततितमो
ऽध्यायः ॥ ७६ ॥ ॥ पुष्कर उवाच ॥ अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः ॥ स्नातानलङ्कृतानभक्त्या गन्धवस्त्रोज्ज्वलन्दिजान् ॥१॥
उद्दङ्मुखान्वोजयति स्वासीनान्सुसमाहितान् ॥ मन्त्रोहाश्चान कर्त्तव्यास्त्वेकवचनेन च ॥ २ ॥ उच्छिष्टसन्निधौवर्कं तथा पिण्डं निवशेयेत् ॥
कीर्त्तयेच्च तथा तस्य नामगोत्रे समाहितः ॥ ३ ॥ भुक्तवत्सु च विप्रेषु पूजितेषु तथा धनैः ॥ विसृष्ट्याक्षयतोयेषु गोत्रनामाभिकीर्तनैः ॥ ४ ॥ चतुर
ङ्गुलविस्तारमुत्खातं तावदन्तरम् ॥ वितस्तिर्दीर्घ कर्त्तव्यं कर्षणं च तथा त्रयम् ॥ ५ ॥ कर्षूणां तु समीपे च ज्वालयेज्ज्वलनत्रयम् ॥ सोमाय

॥ वि०ध० ॥ ॥ २३४ ॥

द्वि०खं० अ० ७८

वह्नये शम यमाय च समाहितः ॥ ६ ॥ जुहुयादाहुतीः सम्यक् तथैव च अक्षय्यतः ॥ पिण्डनिर्वपणं कुर्यान्माग्बदेव पृथक्पृथक् ॥ ७ ॥ अन्नेन दध्ना मधुना तथा मांसिन पूरयेत् ॥ मध्ये चेदधिवासः स्यात्कुर्यादभ्यधिकं ततः ॥ ८ ॥ अथवा द्वादशाहेन सर्वमेतत्समापयेत् ॥ संवत्सरस्य मध्ये चेद्वृद्धि स्याद्द्द्द्धिमासिकः ॥ ९ ॥ ततो द्वादशके श्राद्धे कार्यं तदधिमासिकम् ॥ ततो द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ॥१०॥ संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥ प्रेताय तस्माद्द्रव्यं च तस्यैव पुरुषत्रये ॥ ११ ॥ पिण्डानिर्विनिर्वाप्यन् चतुरः कुलमाहितः ॥ संसृजें पृथिवीं दत्त्वा समाना वेति चाप्यथ ॥ १२ ॥ योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥ प्रेतान्नं च पत्रेषु तथैव विनियोजयेत् ॥ १३॥ पृथक्पृथक् च कर्तव्यं कर्मैतत्कर्मणां त्रये ॥ मन्त्रवर्जमिदं कर्म शूद्रस्यापि विधीयते ॥ १४ ॥ अमन्त्रोच्चारणं स्त्रीणां कार्यमेतत्तथा भवेत् ॥ यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥ अनेनैव विधानेन भक्त्या प्रयतमानसः ॥ १५॥ प्रेतायान्नं सोदकुम्भं प्रदेयं नित्यं भक्त्या यावद्वब्दावसा- नम् ॥ एतत्कार्यं बान्धवैर्नैव कार्यः शोकः शौचंनैव किञ्चित्कुर्यात् ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये प्रेत- क्रिया नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ पुष्कर उवाच ॥ बुधैर्भवसतीर्ज्ञात्वा बान्धवैर्मेष्टवान्धवाः ॥ वचनैर्धर्मसंयुक्तैस्तानि चान्यानि मे शृणु ॥ १ ॥ नित्यमस्मिन्नालम्बे काले सततयायिनि ॥ न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥ २ ॥ गङ्गायाः सिकतायास्तथा वर्षात वासवे ॥ शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ ३ ॥ चतुर्दश विनश्यन्ति कल्पकल्पे सुरेश्वराः ॥ सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥ ४ ॥ बह्वनिन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ॥ विनष्टानिह कालेन मनुजेष्वथ का कथा ॥ ५ ॥ राजर्षयश्च बहवः सर्वे समुदिता गुणैः ॥ देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ ६ ॥ ये समर्था जगत्यस्मिन्सृष्टिंसंहारकारिणौ। तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः॥७॥ आक्रम्य सर्वं कालेन परलोकाय नीयते ॥ कर्म पश्यति नो जन्तुस्तत्र का परिदेवना ॥८॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ॥ अस्मि- न्दुष्परिहार्येऽर्थे नास्ति लोके सहायता ॥ ९ ॥ शोचन्तो नोपकुर्वन्ति मृतस्य हि जना यदा ॥ अतो न शोचितव्यं स्यात्क्रिया कार्या सुपु- त्नतः ॥ १० ॥ सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ॥ बान्धवैरस्तस्य किं कार्यं शोचिद्भिश्च वा न वा ॥ ११ ॥ बान्धवानामाशौचे तु स्थितिं प्रेतो न विन्दति ॥ अतस्तम्यतेति तानेव पिण्डतोयप्रदापिनः ॥ १२ ॥ अर्वाक् सपिण्डीकरणात्प्रेतो भवति यो मृतः ॥ प्रेतलोकात्तस्यान्र्न सोदकुम्भं प्रयच्छत ॥ १३ ॥ पितृलोकगतश्चान्नं श्राद्धं भुङ्क्ते सुधाममम् ॥ पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयत्नतः ॥ १४ ॥ देयत्वे

॥२३४॥

यातनास्थाने तिर्यग्योनौ तथैव च ॥ मानुष्ये च तथाऽप्नोति श्राद्धे दत्ते स्वबान्धवैः ॥ १५ ॥ प्रेतस्य श्राद्धकर्तृश्च पुष्टिः श्राद्धे कृते ध्रुवम् ॥ तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥ १६ ॥ एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः ॥ नोपकुर्यान्नरः शोचन्प्रेतस्यात्मान मेव च ॥ १७॥ दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् ॥ धर्ममेकं सहायार्थं कारयध्वं सदा नराः ॥ १८ ॥ मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरेर्यतः ॥ जायावज्यं हि सर्वस्य यस्या भर्ता विभिद्यते ॥ १९ ॥ धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥ नन्वसारे त्रिलोकेऽस्मिन्कर्म कुरुत मा चिरम् ॥ २० ॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्ने त्वपराह्विकम् ॥ न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ २१ ॥ आयुष्ये क्षेत्रापणगृहासक्तमत्र्य गत्तमानस म् ॥ वृकीवऽरण्यमासाद्य मृत्युरादाय गच्छति ॥ २२॥ न कालस्य प्रियः कश्चिद्द्वेष्यास्य न विद्यते ॥ अनौषधिनि कर्मणि क्षीणे प्रसह्य हरते जन्मान् ॥२३॥ नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥ कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ २४॥ नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः ॥ आप्रवन्ते मृत्युनीपेतं जरया वापि मानवम् ॥ २५ ॥ आगामिनमनर्थं तु प्रतिघातशतैरपि ॥ न निवारयितुं शक्तास्तत्र का परिदेवना ॥२६॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥ तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥२७॥ अव्यक्तादीनि सर्वाणि व्यक्तमध्यानि चाप्यथ ॥ अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ॥ तथा जन्मान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २९ ॥ गृहीतीव यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः ॥ गृह्णात्येवं नवं देहं देही कर्मनिबन्धनः ॥ ३० ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ ३१ ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशौष्य एव च ॥ नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ ३२ ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमेव च ॥ तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ॥ ३३ ॥ आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ॥ आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥३४॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने बान्धवसमाश्वासनं नामाष्टसप्ततितमोऽध्यायः ॥७८॥

॥ पुष्कर उवाच ॥

मृन्मयं भाजनं सर्वं पुनःपाकेन शुध्यति ॥ मद्यैर्मूत्रैपुरीषैर्वा श्विभिर्वाः पूयशोषितैः ॥ १ ॥ संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम् ॥ २ ॥ शुध्यत्यातापितं पश्चाद्ध्या केवलमम्भसा ॥ अम्लोदकेन ताम्रस्य सीसस्य त्रपुसस्तथा ॥ ३ ॥ क्षारेण शुद्धि कांस्यस्य लोहस्य च विनिर्दिशेत् ॥ मुक्तामणित्रवालानां शुद्धिः प्रक्षालनेन तु ॥४॥ अन्येषां चैव भाण्डानां सर्वस्याश्ममयस्य च ॥ शाकरज्जुमूलफलवैदलानां तथैव च ॥ ५ ॥ माज


४०

वि० धं० | द्वि० सं० ॥२३६॥ | अ० ८०

नाद्यद्भाण्डानां पाणिना चाग्निकर्मणि ॥ उष्णाम्भसा तथा शुद्धिः संस्नेहानां विनिर्दिशेत् ॥ ६ ॥ शयनासनयानानां स्पृश्यस्पृष्टकस्य च ॥ शुद्धिः संक्षेपणाज्ज्ञेया फलेक्षैन्धनयोस्तथा ॥ ७ ॥ मार्जनेनोद्धृतानां शुद्धिः क्षितौ शोधनतः क्षणात् ॥ संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥ ८ ॥ बहूनां प्रोक्षणाच्छुद्धिः धान्यानां च विनिर्दिशेत् ॥ शुद्धिर्हृत्तापणां विज्ञेया नित्यसत्पवनेन तु ॥ ९ ॥ प्रोक्षणात्संहतानां तु दारूणां च तक्षणात् ॥ सिद्धार्थकार्णां कल्केन शुद्धेद्दन्तमयस्य च ॥ १० ॥ गोर्वालैः फलपात्राणामस्थ्नां स्याच्छुद्धवत्तथा ॥ निर्यासानां गुडानां च लवणानां तथैव च ॥ ११ ॥ कुसुमंबहुकेशानां च ऊर्णाकार्पासयोस्तथा ॥ प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् भृगुः ॥ १२ ॥ मृद्भिश्शुद्धं शुद्धं तथैव च शिलागतम् ॥ वर्णान्यन्यैर्यदुद्वेजंतं यदि तद्भवेत् ॥ १३ ॥ शुद्धं नदीगतं तोयं सर्वं एव तथाकराः ॥ शुद्धं प्रसारितं पण्यं शुद्धं चाश्वाजगोमुखे ॥ १४ ॥ मुखवर्जं च गौः शुद्धा मार्जारः श्व च नो शुचिः ॥ शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ॥ १५ ॥ आत्मनः कथितं शुद्धं न परस्य कथञ्चन ॥ नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ॥ १६ ॥ रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचिः ॥ शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥ १७ ॥ दैवकर्म्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥ कृत्वा मूत्रपुरीषं वा स्नात्वा भुक्त्वामनस्तथा ॥ १८ ॥ मुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ॥ रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च ॥ १९ ॥ कृत्वा मूत्रपुरीषं च लेपगन्धापहं बुधः ॥ उद्धृतेनाम्बसा शौचं मृदा शौचं समाचरेत् ॥ २० ॥ मेहने मृत्तिकाः पञ्च लिङ्गे द्वे परिकीर्त्तिते ॥ एकस्मिंश्चैव सव्ये हस्ते द्वयोर्ज्ञेयाश्चतुर्दश ॥ २१ ॥ तिस्रस्तु मृत्तिका ज्ञेयाः कृत्वा तु नवशौचनम् ॥ तिस्रस्तिस्रः पादयोश्च शौचकामस्तु नित्यदा ॥ २२ ॥ शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥ त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम् ॥ २३ ॥ मृत्तिका च विनिर्दिष्टा नित्यं पूर्वे यया ॥ शुद्धिंश्च काचभाण्डानां केवलेन तथाम्भसा ॥ २४ ॥ श्रीफलैरंशुमट्टानां क्षौमाणां गौरसर्षपैः ॥ शुद्धिः पद्माक्षतोयेन मृगलोम्नां प्रकीर्तिता ॥ पुष्पाणां चन्दनानां च प्रोक्षणाच्छुद्धिरिष्यते ॥ २५ ॥ सिद्धेश्चैः शुद्धिमुद्वाहन्ति लोभां तथा भार्गवंशङ्कराभ्याम् ॥ सर्वस्य जीवस्य विशुद्धिरुक्ता मृदा च तोयेन विगन्धलेपात् ॥ २६ ॥

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने द्रव्यशुद्धिर्नामैकाशीतितमोऽध्यायः ॥ ७९ ॥

राम उवाच ॥
वर्णानामाश्रमाणां च वेत्ति सर्वमिदं भवान् ॥

पुष्कर उवाच ॥
अहिंसा सत्यवचनं भूतेष्वनुग्रहः ॥ १ ॥
तीर्थानुसरणं दानं ब्रह्मचर्य्यममत्सरम् ॥ देवद्विजातिशुश्रूषा गुरूणां च सुश्रुतम् ॥ २ ॥
श्रवणं सर्वधर्म्माणां पितॄणां पूजनं

॥२३६॥

तथा ॥ भक्तिश्च भूपतौ नित्यं तथा सच्छास्त्रनेत्रता ॥ ३ ॥ आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव हि ॥ धर्मसामान्यमेतेषां कथितं भृगु सत्तम ॥ ४ ॥ यजनं याजनं दानं तथैवाध्यापनक्रिया ॥ प्रतिग्रहं विप्रकर्माणि निर्द्देशेत् ॥ ५॥ दानमध्ययनं चैव यजनं च यथाविधि ॥ क्षत्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥ ६ ॥ क्षत्रियस्य विशेषस्तु प्रजानां परिपालनम् ॥ कृषिगोरक्षावाणिज्यं वैश्यस्य परिकीर्तितम् ॥ ७ ॥ शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ ॥ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ॥ ८ ॥ तेषां जन्माद्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥ आचार्यस्तु पिता तत्र सावित्री जननी तथा ॥ ब्राह्मणाक्षत्रियाद्वैश्यान् मौञ्जीबन्धनजन्मनि ॥ ९ ॥ वृत्त्या द्विजाः शूद्रसमा भवन्ति यावन्न वेदे प्रभवन्ति राम ॥ ततः परं ते द्विजतां लभन्ते समस्तकर्तव्यविधेर्वेदत्वं च ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने वर्णधर्माध्यक्षो नामाशीतितमोऽध्यायः ॥ ८० ॥ पुष्कर उवाच ॥ आनुलोम्येन वर्णानां जातिमत्तमसा स्मृता ॥ चण्डालो ब्राह्मणपुत्रः शूद्रः स्यात्प्रतिलोमजः ॥ १ ॥ मागधश्च तथा वैश्याच्छूद्राद्योगवो भवेत् ॥ वैश्यायाः प्रतिलोमेन प्रतिलोमास्तसहस्रशः ॥ २ ॥ विवाहसहस्त्रैस्तेषां नोत्तमेनोत्तमेस्तथा ॥ चण्डालकर्म निर्दिष्टं वध्यानां घातनं तथा ॥ ३ ॥ स्त्रीजीवनं च तद्वच्च प्रोक्तं वैदेहकस्य च ॥ मृतानामथसारथ्यं पुक्कसानां च व्याधता ॥ ४ ॥ स्तुतिक्रिया मागधानां तथा चायोगवस्य च ॥ रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनम् ॥ ५ ॥ मृतानामस्थिसंस्कार स्तथा वै याजनक्रिया ॥ बर्हिर्ग्रामनिवासश्च मृतचैलस्य धारणम् ॥ ६ ॥ असंस्पर्शस्तथात्वैश्चण्डालस्य विधीयते ॥ ब्राह्मण्यां गवार्थे वा देह त्यागात्तुपुक्कसः ॥ ७ ॥ स्त्रीबालद्युपपत्तौ च वाह्यानां शुद्धिकारणम् ॥ संकरे जात्यस्त्वेताः पितृमातृप्रदर्शिताः ॥ ८ ॥ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ॥ ९ ॥ पुरुषं व्यञ्जयन्तीह लोके कलुषयौनिजम् ॥ पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥ १० ॥ न कथंचन दुर्योनिः प्रकृतिं स्वां न गच्छति ॥ कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ॥ क्रूरः ॥ ११ ॥ स सूचयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ यत्र त्वेते परिवंसा जायन्ते वर्णसङ्कराः ॥ १२ ॥ राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥ शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ॥ अश्रेयान्श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्॥ १३॥ राज्ञा स्वकालं परिरक्षणीयं घोरं नृणां सङ्करमेतदेव ॥ आसाद्य घोराणि हि सङ्कराणि नश्यन्ति राष्ट्राणि सराजकानि ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने सङ्करवर्णोनामैकाशीतितमोऽध्यायः ॥ ८१ ॥ पुष्कर उवाच ॥ आजीवं तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ॥ जीवेत्क्षत्रिय

धर्मेण सा ह्यस्य वृत्त्यनन्तरा ॥ १ ॥ उभाभ्यामप्यजीवन्व वैश्यवृत्तिं समाचरेत् ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रवृत्तिं विवर्जयेत् ॥ ॥ २ ॥ शूद्रो ब्राह्मणवृत्तिं च विशेषेण विवर्जयेत् ॥ आजीवेत्तु स वृत्या च मध्यवृत्तिं समाचरेत् ॥ ३ ॥ ब्राह्मणः क्षत्रियो वापि वैश्यवृत्त्या तु वर्तयन् ॥ अयः शशं विषं मांसं सोमं गन्धांश्च सर्वशः ॥ ४ ॥ क्षीरं क्षौद्रं दधि घृतं तैलं मज्जां गुडं कुशम् ॥ मद्यं नीलं च लाक्षां च लवणं प्राणिनोऽपि च ॥ ५ ॥ विक्रीणीत तिलैस्तत्र पक्वान्नं गोसांस्तथा ॥ रसा रसैर्निहन्तव्या गन्धेन लवणं रसैः ॥ ६ ॥ कृतान्नं च कृतान्नेन तिलधान्येन तत्समम् ॥ वैश्यो वा क्षत्रियो वापि वर्जयेद्विजजीविकाम् ॥७ ॥ सद्यः पतति मांसेन लाक्षया लवणेन च ॥ त्र्यहाच्च शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ॥ ८ ॥ इतरेषां तु पण्यानां विक्रयां मनुजोत्तम ॥ ब्राह्मणः सप्तरात्रेण वैश्यभावं हि गच्छति ॥९॥ क्षिप्राणि यानि रुक्षाणि चराणि च मृदूनि च ॥ वापिज्ये तानि शस्यन्ते तिथिं रिक्तां विवर्जयेत् ॥१० ॥ द्रिकं शांतं तु गृह्णीयात्कुसीदेनापि वर्धयन् ॥ ततोऽधिकं तु गृह्णानश्चौरस्याप्नोति किल्बिषम् ॥ ११ ॥ प्रतिपदादशी षष्ठी नक्षत्राणि ध्रुवाणि च ॥ कूर्मीदे वर्जनीयानि नित्यं सूर्यसुतस्य च ॥१२॥कृषिभूमिपतंभागं दत्वा कुर्याद्यथोदितम् ॥ ध्रुवाणि सौम्यं मैत्रं च वायव्यं पौष्णमाश्विनम्॥ ॥१३॥वासवं श्रवणं चित्रा विशाखा मूलमेव च ॥ कृप्यारम्भे प्रशस्यन्ते तथा पुष्यपुनर्वसू ॥१४॥ कृष्यारम्भे प्रयत्नेन तिथिं रिक्तां विवर्जयेत्॥ अङ्गारकदिनं वर्ज्य दिवसं सूर्यस्य च ॥ १५ ॥ नक्षत्राणां यथोक्तानां मुहूर्तेषु च कारयेत् ॥ मुहूर्ते यदि वा ब्राह्मे सर्वकर्मसु पूजिते ॥ १६॥ वराहं पूजयेद्देवं शेषं पृथ्वीं तथैव च ॥ पर्जन्यं भास्करं वायुं देवेशं शशिनं तथा ॥ १७ ॥ फालं च गोयुगं चैव गन्धमाल्यान्नसम्पदा ॥ ततोऽग्निहव नं कुर्यात्सुसमिद्धे हुताशने ॥ १८॥ देवतानां यथोक्तानां जुहुयाच्च घृताहुतीः ॥ गावो भग इति ह्राम्यां सीरां युञ्जन्त्यतीवभिः ॥ १९ ॥ फालं शुनां सुफालेति लाङ्गलं च तथेति वै ॥ हुत्वा विप्रान्समभ्यर्च्य दक्षिणाभिर्यथाविधि ॥ २० ॥ दूर्वाऽक्षतवणं भूमिं वाहयेत्प्राङ्मुखेन तु ॥ सीरायुञ्जन् इत्येतदृक्त्रयं कीर्तयेद्बुधः ॥ २१ ॥ या ओषधय इत्येवं बीजं तदनु मन्त्रयेत् ॥ कृत्वा सुवर्णलोपाक्तं लक्षणेयो वापयेत्पुमान् ॥ २२ ॥ प्राङ्मुखोवोदङ्मुखोवाभिः प्राङ्मुखश्चैव वापयेत् ॥ शंखपूर्णादहोषण बीजवापः प्रशस्यते ॥ २३ ॥ बीजवापे तथा मन्त्रं निबोध गदतो मम ॥ प्रजापते कश्यपाय देवताय नमः सदा ॥ २४ ॥ सदा मे ऋद्धतां देवी बीजेषु च धनेषु च ॥ भोजयेद्ब्राह्मणांश्चात्र तथैव च कृषीवलान् ॥ २५ ॥ कालश्च सर्वः पूर्वोक्तः संग्रहेशपि प्रशस्यते ॥ देवतानां पितृणां च कृत्वा तत्रापि पूजनम् ॥ २६ ॥ ॥२३६॥

नववस्त्रपरीधानः श्वेतमाल्यानुलेपनः ॥ प्राङ्मुखः प्राशनं कुर्यात्पात्रे सौवर्णराजते ॥ २७ ॥ तत्रापि भोजयेद्विप्रांस्तथैव च कृषीवलान् ॥ कृष्ये विशेषतः कार्यं फलयज्ञं भृगूद्वह ॥ २८॥ यूपोयं निहितो मध्ये पेषीवालेसपकार्षकैः ॥ तस्माद्दन्तद्रुतो दद्यादन्नं धान्यार्थदक्षिणा ॥२९॥ भूमिं भित्त्वा पधैश्चिच्छत्वा हत्वा कीटपिपीलिकम् ॥ पुनन्ति खलु यज्ञेन कर्षका नात्र संशयः ॥ ३० ॥ अष्टागवं धर्महलं षड्गवं जीविताार्थिनाम् ॥ चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥ ३१ ॥ आपद् च समुत्तीर्य त्यक्त्वा वित्तं च कर्मणा ॥ यदर्जितं ततः कुर्यात्प्रायश्चित्तं विचक्षणः ॥ ३२ ॥ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३३॥शक्तेन जीवेदवृत्तेन जीवेन्मृतेन जीवेत्यमृतेन जीवेत्।सत्या नृताभ्यामथवापि जीवेच्छ्ववृत्तिमेकां परिवर्जयेत्तु ॥ ३४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आपद्धर्मो नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ राम उवाच ॥ काम्यं कर्म समाचक्ष्व वाणिज्यं येन शुध्यति ॥ कृषिं च बहुलां चैव कर्मणा केन चाश्नुते ॥१॥ ॥ पुष्कर उवाच ॥ मूलेनोपोषितः कुर्यादिदं कर्म पुरोहितः ॥ उपोषितस्य धर्मज्ञ जयमानस्य नित्यशः ॥ २ ॥ प्रातास्सूतरपाडासु प्राङ्मुखं स्नापये न्नरम् ॥ युक्तेनैतन्मूलेन शङ्खमुक्ताफलैस्तथा ॥ ३ ॥ मणिभिश्च यथालार्भ कनकेन तथैव च ॥ अकालमूलैः कलशैश्चतुर्भिर्नृपनन्दन ॥ ४ ॥ नैवेस्तु पूजयेद्देवं शङ्खचक्रगदाधरम् ॥ पूर्वाषाढां तथैवापो वरुणं च निशाकरम् ॥ ५ ॥ गन्धमाल्यनमस्कारधूपदीपान्न सम्पद ॥ एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ॥ ६॥ नीलवासावृतो भूत्वा क्षिपेदप्सु समाहितः ॥ नीलानि राम वासांसि पयांसि विविधानि च ॥ ७ ॥ तदा मंथं सुरां चैव मेरयं विविधं तथा ॥ शुक्लानि चैव माल्यानि धूपं दद्याच्च कम्पुना ॥ ८ ॥ तिम्यस्य मकराद्यांश्च शङ्खमुक्ताफले तथा ॥ सुवर्णं न्तरितं कृत्वा धारयेच्च तथा मणिम् ॥ ९ ॥ कृत्वैतत्सिद्धिमाप्नोति वाणिज्ये नात्र संशयः ॥ समुद्रयाने च तथा कान्तारे न विपद्यिति ॥ १० ॥ नीलानि राम वासांसि दक्षिणा चात्र शस्यते ॥ शङ्खं सुवर्णं रूप्यं च तथा मुक्ताफलानि च ॥ ११ ॥ होत्रे कत्रे द्विजैभ्यश्च सर्वमेतन्दिधीयते ॥ ब्राह्मणान्भोजयेच्चात्र परमान्नं तु संस्कृतम् १२ ॥ अलंच्छन्नियतमथाप्यमुक्षं करोति कर्मैतदनिन्द्रितात्मा ॥ न जातु लाभाद्विनिवर्ततेऽसौ समृद्ध मार्गाद्विव निघ्षणा वा॥ १३॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पूर्वाषाढास्नानवर्णनो नाम त्र्यशीतितमोऽध्यायः॥ ॥ ८३ ॥ पुष्कर उवाच ॥ स्वयं सुपोषितो विद्वान्यजमानसुपोषितम् ॥ मूलेन स्नापयेन्नित्यं तथास्याशुखास्थितम् ॥ १ ॥ दूर्वांकुश शमीपत्रपूर्णेन सुहृटेन च ॥ कुम्भद्वयेन स्नातस्तु पूजयेन्मधुसूदनम् ॥ २ ॥ विरूपाक्षं सवरुणं चन्द्रं मूलं तथैव च ॥ गन्धमाल्य

वि० ध० ॥२३७॥

द्वि० खं० अ० ८५

नमस्करधूपदीपान्न सम्पदा ॥ ३ ॥ एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ॥ पीतवासास्ततो भूत्वा मत्स्यकुल्माषसूकरैः ॥ ४ ॥ सुराक्रसरसंयुक्तैः स्नानेनोक्ताशामुखस्थितः ॥ बलिं निर्व्वर्तये द्वाग्जाञ्जु हुत्वा ततः क्षितौ ॥ ५ ॥ ततोद्यादशनिः पुष्पैर्मूलैः पक्षीभिरेव च ॥ सुवर्णगर्भं च मणिं विद्वांश्शिरसि धारयेत् ॥ ६ ॥ कुर्व्वेतत्सर्व्वं कर्म कृषिं बहुफलां लभेत् ॥ दक्षिणा चात्र दातव्या मूलानि च फलानि च ॥७॥ पीतानि चैव वस्त्राणि कनकं रजतं तथा ॥ भोजनं चात्र दातव्यं ब्राह्मणानामभीप्सितम् ॥ ८ ॥ अलंध्यम्यूलमिदं हि कुर्व्वन्स्नानं सदा भार्गव वंशमुख्य ॥ कृषिं समान्नोति सदैव विद्वानभ्यर्थितं नात्र विचारमस्ति ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्या- ने मूलस्नानवर्णनो नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥ राम उवाच ॥ धर्ममार्गमहं त्वत्तः श्रोतुमिच्छामि मे वद ॥ त्वं हि वेत्थ महाभाग सर्वं धर्मानशेषतः ॥ १ ॥ पुष्कर उवाच ॥ षोडशर्तुं निशाः स्त्रीणामाद्यास्तिस्रस्तु गर्हिताः ॥ ब्रजेद्युग्मासु पुत्रार्थी ततः परिमितै श्रितैः ॥ २ ॥ अयुग्मासु तथा राम दुहितार्थी स्त्रियं ब्रजेत् ॥ विकृष्टयुग्मासुत ये प्रशस्ताः प्रियदर्शनाः ॥ ३ ॥ दीर्घायुषो धर्मपरा भवन्तीह धनान्विताः ॥ गर्भास्य दृष्टाधाने गर्भाधानिकमुच्यते ॥ ४ ॥ पुरा तु स्पर्शनं कार्यं सेवनं तु विचक्षणैः ॥ षष्ठेऽष्टमे वा सीमन्तकर्मस्वेतेषु च त्रिषु ॥ ५ ॥ पुन्नामधेयं नक्षत्रं पुत्रकामस्य शस्यते ॥ आदित्यपुष्यहस्ताश्वित्रिसौम्यमृदुलाः सर्वेष्ववाः ॥ ६ ॥ पुन्नामधेया निर्द्दिष्टाः स्वातिश्चैवात्र सप्तमम् ॥ अङ्गारकदिनं वर्ज्यं तिथिं रिक्तां च वर्जयेत् ॥ ७ ॥ अचिद्वन्नाभ्यां कर्त्तव्यं जातकर्म विचक्षणैः ॥ आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ॥ ८ ॥ अथवा भार्गवश्रेष्ठ दिने द्वादशलक्षणे ॥ मृदुध्रुवेषु ऋक्षेषु नामकर्म विधीयते ॥ ९॥ तत्राप्यङ्गारकदिनं तिथिं रिक्तां च वर्जयेत् ॥ नामधेयं तु वर्णानां कर्तव्यं तु समाक्षरम् ॥१०॥ माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलोन्वितम् ॥ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्॥ ११॥ शर्म वर्म धनाद्यं तु दासांतं चानुपूर्वशः ॥ नामधेयं तु कर्तव्यं स्वकुलाख्यागमेन वा ॥ १२ ॥ स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ॥ नाम कार्यं महाभाग न कार्यं विषमाक्षरम् ॥ १३ ॥ बालं तु कृतनामानं पूजयितस्य गदाभृतः ॥ निवेद्येन्महाभाग तव पुत्रोऽयमित्युत ॥ १४ ॥ शिष्यः प्रेष्यश्च दासश्च संविभाज्यश्च केशवः ॥ नित्यं सन्ति विभागेन कुभेन मधुसूदनः ॥ १५ ॥ ततस्तु पूजनं कार्यं ब्राह्मणानां यथाविधि ॥ भोजयेद्ब्राह्मणांश्चान परमात्नं सदक्षिणम् ॥ १६ ॥ चूडाकर्म ततः कार्यं शुभेषुच यथाकुलम् ॥ नक्षत्राण्यत्र शस्यन्ते मृदुक्षिप्रचराणि च ॥ १७ ॥ तिथिं विवर्जयेद्रिक्तां सूर्य्यार्काकिदिनान्यपि ॥ तत्रापि वासुदेवस्य पूजां कृत्वा विशेषतः ॥ १८ ॥ गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनयनम् ॥

॥२३७॥

गर्भादेकादशे राज्ञः गर्भाच्च द्वादशे विशः ॥ १९ ॥ चूडाकर्मणि यः प्रोक्तः कालः सोऽत्रापि शस्यते ॥ नक्षत्राणां यथोक्तानां मुहूर्तानां शुभप्रदाः ॥ २० ॥ षोडशाब्दे हि विप्रस्य राजन्यस्य द्विविंशतौः ॥ विंशतैश्र्च चतुष्के तु वैश्यस्य परिकीर्तितम् ॥ २१ ॥ सावित्री नातिवर्तेत अत ऊर्ध्वं निवर्तते ॥ विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ॥ २२ ॥ सावित्रीपतिता ब्रात्या व्रात्यस्तोमेक्रमादृते ॥ मुञ्जरथ्य बिल्वजानां च क्रमान्मौञ्जः प्रकीर्तितः ॥ २३ ॥ मार्जारव्याघ्रचर्माणि वस्त्राणि व्रतचारिणाम् ॥ पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः॥२४॥ कंवर्दशललाटांस्तुल्याः प्रोक्ताः क्रमेण तु ॥ अश्वत्थः सर्व्वतः सर्वे नाभिमुष्कास्तथैव च ॥ २५ ॥ वासोपवीतकार्पासक्षौमोर्णानां यथाक्रमम् ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ॥ २६॥ प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् ॥ पूजयेदन्नमद्याद्देवं च तत्र देवं विशेषतः ॥ २७ ॥ दृप्तौ केशं व्रतंश्च सर्वविन्नंबरं प्रभुम् ॥ यथोक्तेषु च ऋक्षेषु त्रैविद्यं कारयेद्गुरुः ॥ २८ ॥ नैवाधिकारो वेदे स्याद्विना त्रैविद्यकेन तु ॥ स्त्रीणां संस्कार मत्रोक्तं सकृत्कार्यं विजानता ॥ २९ ॥ क्षेत्रसंस्कारमेतद्धि सकृदेव विधीयते ॥ संस्काराणि पिता कुर्यान्नम्वलम्बान्वनात्मनः ॥ मेखला बन्ध नाद्यानि कार्याणि गुरुणा तथा ॥३०॥ सर्वाणि कार्याणि हि लौकिकेश्र्चौ स्वकल्पमालोक्य भृगुप्रधान ॥ सर्वेषु पूजा च तथा विधैया तस्याप्रमत्तस्य जनार्दनस्य॥३१॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने संस्कारवर्णनो नाम पञ्चाशीतितमोऽध्यायः॥८५॥

पुष्कर उवाच ॥ उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥ आचारमभिकार्यं च सन्ध्योपासनमेव च ॥ १ ॥ प्रयुतः कृत्यमुत्थाय स्नातौ हुत हुताशनः ॥ भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम् ॥२॥ पुरोस्तु वामं चरणं वामहस्तेन संस्पृशन् ॥ दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन् ॥ ३ ॥ अनुज्ञातरतु गुरुणा ततोऽध्ययनमाचरेत् ॥ कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमभान्तः ॥ ४ ॥ ब्रह्मयज्ञाने प्रारम्भे प्रणवं चैव कीर्तियेत् ॥ अनध्यायोध्वयनं वर्जयत्तु प्रयत्नतः ॥ ५ ॥ भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥ गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥ ६ ॥ आयुष्यं प्राङ्मुखो भुङ्के यशस्यं दक्षिणामुखः ॥ श्रियः प्रत्यङ्मुखो भुङ्के ऋतं भुङ्के ह्युदङ्मुखः ॥ ७ ॥ हितं प्रियं गुरोः कुर्यात्त्रस्त्यहंकारवर्जितः ॥ अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ॥ ८ ॥ अभिवाद्य गुरुं पश्चादहोरवचनंकृद्वेत् ॥ प्रद्युम्नो साञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ॥ ९ ॥ हिंसां परापवादं च अश्लीलं च विशेषतः ॥ मेखलामजिनं दण्डं धारयन्प्रयतः सदा ॥ १० ॥ विनष्टानप्सु निक्षिप्य तथान्यान्धारेयत्पुनः ॥ आदित्ती नोदकं कुर्यादावतस्य समापनात् ॥ ११ ॥ समाप्ते तु व्रतं कुर्याद्रान्नेण शुद्ध्यति ॥