याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
व्यवहाराध्यायः २०५
अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् ।
तस्मिन्प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ ४५ ॥
भाषा—संयुक्त परिवार में (एक साथ रहने वाले) अनेक व्यक्तियों या
एक व्यक्ति द्वारा जो ऋण कुटुम्ब के पालन के लिये लिया गया हो, उसे
उसकी मृत्यु के उपरान्त उसके सभी उत्तराधिकारी (सम्पत्ति के भागीदार)
लौटावें ॥ ४५ ॥
येन देयमित्यत्र प्रत्युदाहरणमाह—
न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ ४६ ॥
पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् ।
तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । 'कुटुम्बार्थाहते'
इति सर्वशेषः । अतश्च कुटुम्बार्थे येन केनापि कृतं तत् कुटुम्बिना देयम् । तद-
भावे तद्दायहरैर्देयमित्युक्तमेव ॥ ४६ ॥
भाषा—जो ऋण कुटुम्ब के भरणपोषण के लिये नहीं लिया गया हो
(किसी अन्य प्रयोजन से लिया गया हो) ऐसे पति द्वारा लिये गये ऋण को
स्त्री न लौटावे, पुत्र द्वारा लिये गये ऋण को माता न भरे, पिता न भरे,
और पत्नी द्वारा लिये गये ऋण को पति लौटाने का अधिकारी नहीं होता ॥४६॥
'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इति वक्ष्यति तस्य पुरस्तादपवादमाह—
सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ ४७ ॥
सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं
दण्डशुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत्प्रतिज्ञातम्—'धूर्ते बन्दिनि
मल्ले च कुवैद्ये कितवे शठे । चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥' इति
स्मरणात् । एतदृणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र 'दण्ड-
शुल्कावशिष्टक' मित्यवशिष्टग्रहणात्सर्वं दातव्यमिति न मन्तव्यम् ।—'दण्डं
वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच्च न व्यावहारिक-
म् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्—'मद्यशुल्कद्यूतदण्डा न पुत्रा-
नधर्भवेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् ॥ ४७ ॥
भाषा—मदिरापान एवं जुआ खेलने के निमित्त लिये गये ऋण, दण्ड
और शुल्क की निधि के अवशिष्ट भाग, वृथादान के (धूर्त बन्दी, मल्ल आदि
१. सर्वविशेषणं । २. निर्वृत्तं । ३. पुत्रानध्यावहेयुः ।
२६६ याज्ञवल्क्यस्मृतिः
के लिये प्रतिज्ञात ) धन—इन पैतृक ( पिता द्वारा लिये गये ) ऋणों को
चुकाने का अधिकारी पुत्र नहीं होता ॥ ४७ ॥
'न पतिः स्त्रीकृतं तथा' ( व्य० ४६ ) इत्यस्यापवादमाह—
गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥ ४८ ॥
गोपो गोपालः, शौण्डिकः सुराकारः, शैलूषो नटः, रजको वस्त्राणां रञ्जकः,
व्याधो मृगयुः, एतेषां योषिद्भिर्ऋणं कृतं तत्पतिभिर्देयम् । यस्मात्तेषां वृत्ति-
जीवनं तदाश्रया योषिदधीना। 'यस्माद्वृत्तिस्तदाश्रया' इति हेतुव्यपदेशादन्येऽपि
ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते ॥ ४८ ॥
भाषा—गोप ( अहीर, ग्वाले ), कलारी ( सुराकार ), नट, रंगरेज और
बहेलिया की स्त्रियों द्वारा लिये गये ऋण उनके पति देवें क्योंकि उनकी
जीवनवृत्ति स्त्रियों के ही अधीन होती है ॥ ४८ ॥
'पतिकृतं भार्या न दद्यात्' ( व्य० ४६ ) इत्यस्यापवादमाह—
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।
स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ॥ ४९ ॥
मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नं तत्पतिकृत-
मृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भर्त्रभावे भार्यया
अपुत्रया देयम् । यच्च ^२स्वयंकृतं ऋणं तदपि देयम् । ननु 'प्रतिपन्नादि त्रयं स्त्रिया
देयम्' इति वक्तव्यम् ; संदेहाभावात् । उच्यते—'भार्या पुत्रश्च दासश्च त्रय
एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति वचना-
न्निर्धनत्वेन प्रतिपन्नादिष्वदान^३शङ्कायामिदमुच्यते—'प्रतिपन्नं स्त्रिया देयं' मित्यादि ।
न चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते; पारतन्त्र्यमात्रप्रतिपादन-
परत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । 'नान्यत् स्त्री दातुमर्हति' इत्ये-
तत्तर्हि, ^१ न वक्तव्यम् ; विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते—'प्रतिपन्नं
स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपवादार्थमुच्यते । अन्यत्सुरा-
कामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह कृतमपि न देयमिति ॥ ४९ ॥
भाषा—( मरणासन्न या विदेश जाने वाले ) पति द्वारा लिये गये या
पति के साथ लिये गये ऋण को अथवा स्वयं लिये गये ऋण को ही स्त्री लौटा
सकती है अन्य ऋणों को नहीं ॥ ४९ ॥
१. स्तासां । २. स्वयमेव ।. ३. शंकयेदमुच्यते ।
व्यवहारोऽध्यायः २०७
पुनरपि यहृणं दातव्यं, येन च दातव्यं, यत्र च काले दातव्यं, तत्रितयमाह —
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।
पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥
पिता यदि दातव्यमृणमदत्त्वा प्रेतः, दूरदेशं गतः, अचिकित्सनीयव्याध्याद्य-
भिभूतो वा तदा तत्कृतमृणमात्म्यापनेऽवश्यं देयम्, पुत्रेण पौत्रेण वा पितृधना-
भावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव — पित्राभावे पुत्रः, पुत्राभावे
पौत्र इति । पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साक्षादिभिर्भावितमृणं देयं
पुत्रपौत्रैरित्यन्वयः । अत्र 'पितरि प्रोषिते' इत्येतावदुक्तम्, कालविशेषस्तु नारदे-
नोक्तो द्रष्टव्यः — 'नार्वार्कसंवत्सराद्विंशात्पितरि प्रोषिते सुतः । ऋणं दद्यात्पितृव्ये
वा ज्येष्ठे भ्रातर्यथापि वा ॥' इति । प्रेतेऽप्यप्राप्तव्यवहारकालो न दद्यात् , प्राप्त-
व्यवहारकालस्तु दद्यात् । स च कालस्तेनैव दर्शितः — गर्भस्थः सदृशो ज्ञेय आष्ट-
माद्वत्सराच्छिशुः । बाल आ षोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥ परतो व्यव-
हारज्ञः स्वतन्त्रः पितरावृते ॥' इति । यद्यपि पितृमरणादूर्ध्वं बालोऽपि स्वतन्त्रो
जातस्तथापि नर्णभाग्भवति । यथाह — 'अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्ण-
भाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्येष्ठ्यं गुणवयःकृतम् ॥' इति । तथा आले-
ह्याह्नाननिषेधश्च दृश्यते—'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषम-
स्थाश्च नासेध्या न चैतानाह्वयेन्नृपः ॥' इति । तस्मात् 'अतः पुत्रेण जातेन
स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता मोचनीयो यथा नो नरकं व्रजेत् ॥' इति ।
पुत्रेण व्यवहारज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्याप्य-
धिकारः — 'ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमस्मरणात् ।
'पुत्रपौत्रै'रिति बहुवचननिर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं
दद्युः । अविभक्ताश्चेत्सम्भूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत
एव वा दद्यादिति गम्यते । यथाह नारदः (१।१४ )—'अत ऊर्ध्वं पितुः पुत्रा
ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यँस्तावुद्वहते धुरम् ॥' इति । अत्र
च यद्यपि 'पुत्रपौत्रैर्ऋणं देय'मित्यविशेषेणोक्तं, तथापि पुत्रेण यथा पिता सवृद्धिकं
ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं, न वृद्धिरिति विशेषोऽवगं-
न्तव्यः । ऋणमात्मीयवत्पित्र्यं देयं पुत्रैर्विभावितम् । पैतामहं समं देयमदेयं
तत्सुतस्य तु ॥' इति बृहस्पतिवचनात् । अत्र 'विभावित'मित्यविशेषोपादानात्सा-
क्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावद्गृहीतं तावदेव,
१. कृतमृणमवश्यं । २. अष्टमात् । १. व्याहरेदन्यत्र । २. यस्तां
चोद्वहते । ३. तथैव ऋणं ।
२०८ | याज्ञवल्क्यस्मृतिः
देयं, न वृद्धिः। तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टी-
क्रियते ॥ ५० ॥
भाषा-पिता के परदेश जाने पर, मर जाने पर या व्यसन में (असाध्य
रोग से पीड़ित) होने पर पुत्र और पौत्र उसके द्वारा लिया गया ऋण देवें। यदि
वे अस्वीकार करें तो साक्षियों द्वारा प्रमाणित होने पर दें ॥ ५० ॥
ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये
क्रमोऽपि दर्शितः । इदानीं कत्र्रन्तरसमवाये च क्रममाह-
रिक्थग्राह ऋणं दाप्यो योषित्ग्राहस्तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ ५१ ॥
अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत्स्वकीयं भवति तद्रिक्थम् ।
विभागात् रिक्थं गृह्णातीति रिक्थग्राहः, स ऋणं दाप्यः । एतदुक्तं भवति-
'यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिरिति । योषितं
भार्यां गृह्णातीति योषिद्ग्राहः, स तथैवर्णं दाप्यः । यो यदीयां योषितं गृह्णाति स
तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः ।
पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः, अन्यमाश्रितमन्याश्रितं, अन्याश्रितं मातृपि-
तृसंबन्धि द्रव्यं यस्यासावन्याश्रितद्रव्यः, न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः,
पुत्रहीनस्य रिक्थिनः ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश्च
पाठक्रम एव । 'रिक्थग्राह ऋणं दाप्यः, तदभावे योषिद्ग्राहः, तदभावे पुत्र
इति । नन्वेतेषां समवाय एव नोपपद्यते; 'न भ्रातरो न पितरः पुत्रा रिक्थहराः
पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रहणासंभवात् । योषिद्ग्राहोऽपि नोपपद्यते;
(मनुः ५।१६२)-'न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते' इति स्मरणात् ।
तथा तदृणं पुत्रो दाप्य इत्यप्ययुक्तम् ; 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इत्यु-
क्तत्त्वात् । 'अनन्याश्रितद्रव्य' इति विशेषणमप्यनर्थकम् ; पुत्रे सति द्रव्यस्यान्या-
श्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । 'पुत्रहीनस्य रिक्थिनः'
इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि 'रिक्थग्राह ऋणं दाप्यः' इति स्थितम् ।
असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते-पुत्रे सत्य-
प्यन्यो रिक्थग्राही संभवति; क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थैहरत्वाभावात् ।
तथा च क्लीबादीननुक्रम्य 'भर्तव्याः स्युर्निरंशकाः' (व्य० १४०) इति वक्ष्यति । तथा
'सवर्णपुत्रोऽप्यन्यायवृत्तिर्न लभेत्तैकेषाम्' इति गौतमस्मरणात् । अतश्च क्लीबादिषु
पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णपुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषि-
१. स्पष्टयिष्यते । २. ऋक्थिनः । ३. रिक्थग्राहाभावात् । ४. भर्तव्यास्तु ।
भर्तव्यान्न ।
व्यवहाराध्यायः २०६
द्ग्राहो यद्यपि शास्त्रविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृत-
र्णापाकरणाधिकारी भवत्येव । योषिद्-ग्राहो यश्चतसृणां स्वैरिणीनामन्तिमं गृह्णाति,
यश्च पुनर्भूवां तिसृणां प्रथमाम्, यथाह नारदः—'परपूर्वाः स्त्रियस्त्वन्याः सप्त
प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयो-
निर्या पाणिग्रहणदूषिता । पुनर्भूः १प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ देशधर्मा-
नवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता ॥'
उत्पन्नसाहसा उत्पन्नव्यभिचारा । —'असत्सु देवरोषु स्त्री बान्धवैर्या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु
जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या
त्वन्यं पुरुषं श्रिता । पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि
तु प्राप्तान्देवरोदीनपास्य या । उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता ॥ २प्राप्ता
देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भूवाम् । ऋणं तयोः पतिकृतं दद्याद्यस्ता
उपाश्रितः ॥' इति । तथाऽन्योऽपि योषिद्ग्राह ऋणापाकरणेऽधिकारी तेनैव
दर्शितः—'या तु सप्रधनैव स्त्री साऽपत्या वाऽन्यमाश्रयेत् । सोऽस्या दद्यादृणं भर्तु-
रुत्सृजेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना, बहुधनेति
यावत् । तथा 'अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ३ऋणं वोढुः स
भजते सैव चास्य धनं स्मृतम् ॥' इति पुत्रस्य पुनर्वचनं क्रमार्थम् । 'अनन्या-
श्रितद्रव्य' इति बहुषु पुत्रेषु रिक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णपाकरणेऽधिकारो
नायोग्यस्यान्धादेरित्येवमर्थम् । 'पुत्रहीनस्य रिक्थिन' इत्येतदपि पुत्रपौत्रहीनस्य
प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्याः, नान्यथेत्येवमर्थम् । पुत्रपौत्रौ
च रिक्थग्रहणाभावेऽपि दाप्यावित्युक्तम्, यथाह नारदः ( १।४ )—'क्रमद्वया-
हतं प्राप्तं पुत्रैर्ऋणमुद्धृतम् । दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥' इति
सर्वं निरवद्यम् ॥ यद्वा,—योषिद्ग्राहभावे पुत्रो दाप्य इत्युक्तम् । पुत्राभावे
योषिद्ग्राहो दाप्य इत्युच्यते । 'पुत्रहीनस्य रिक्थिनः' इति 'रिक्थ'शब्देन
योषिदेवोच्यते । 'सैव चास्य धनं स्मृतम्' इति स्मरणात्, 'यो यस्य हरते
दारान्स तस्य हरते धनम्' इति च ॥ ननु योषिद्ग्राहाभावे पुत्रो ऋणं दाप्यः,
पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद्दाप्य इति ।
नैष दोषः; अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे
पुत्रो दाप्यः; पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । एतदेवोक्तं
नारदेन ( १।२३ )—'धनस्त्रीहारिपुत्राणाममृग्भाग्यो धनं हरेत् । पुत्रोऽसतोः
१. प्रथमा नाम । २. प्राप्ता देशाद्धरात्क्रीता । ३. ऋणमोढुः ।
२१० याज्ञवल्क्यस्मृतिः
स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः' ॥ इति । धनस्त्रीहारिपुत्राणां समवाये यो
धनं हरेत्स ऋणभाक् पुत्रोऽसतोः स्त्रीधनिनोः, स्त्री च धनं च स्त्रीधने, ते विद्येते
ययोस्तौ स्त्रीधनिनौ, तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋणभाक् भवति ।
धनिपुत्रयोरसतोः स्त्रीहार्यैवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक्, पुत्राभावे
स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । 'पुत्रहीनस्य रिक्थिनः' इत्यस्यान्या
व्याख्या—एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य
दाप्याः; तदभावे तत्पुत्रादेः, पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते-
‘पुत्रहीनस्य रिक्थिनः' इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थ-
ग्रहणयोग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथा च नारदेन (१।११२)
'ब्राह्मणस्य तु यद्देयं सान्वयस्य च नास्ति चेत् । निर्वपेत्तत्सकुल्येषु तदभावेऽस्य
बन्धुषु ॥' इत्यभिहितम्—'यदा तु न सकुल्याः स्युर्न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥' नारदः (१।११३) इति ॥५१॥
भाषा—रिक्थ (सम्पत्ति का भाग) लेने वाले (सम्पत्ति के स्वामी
द्वारा लिये गये) ऋण को लौटावें, स्त्री को ग्रहण करने वाला उसके मृत पति
का लिया ऋण भी दे । जिसका धन पुत्र के अतिरिक्त अन्य को न मिला हो
उसका ऋण पुत्र देवे और पुत्रहीन ऋणी का धन उसकी सम्पत्ति का भाग
लेने वाले चुकावें ॥ ५१ ॥
अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति—
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ ५२ ॥
प्रतिभुवो भावः प्रातिभाव्यं, भ्रातॄणां दम्पत्योः पितापुत्रयोश्चाविभक्ते द्रव्ये
द्रव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपि तु
प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यावसानत्वात्,
ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्परा-
नुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूर्ध्वं तु परस्परा-
नुमतिव्यतिरेकेणापि भवति ॥ ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो
न युज्यते; तयोर्विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चापस्तम्बेन
दर्शितः (आप० ध० २।१४-१६)—'जायापत्योर्न विभागो विद्यते' इति ।
सत्यम्; श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागाभावो न पुनः
१. विरोधप्रतिभासः । २. इति विवक्षायां । ३. तत्स्त्रीपुत्रादेः ।
४. न चास्ति चेत् । ५. भावे स्वबन्धुषु । ६. द्रव्यव्ययावसानत्वात् ।
व्यवहाराध्यायः २११
सर्वकर्मसु द्रव्येषु वा। तथा हि—'जायापत्योर्न विभागो विद्यते' इत्युक्त्वा
किमिति न विद्यते इत्यपेक्षायां हेतुमुक्तवान्—'पाणिग्रहणाद्धि सहत्वं कर्मसु',
'तथा पुण्यफलेषु च' (आप० ध० २।१४, १७-१८) इति। हि यस्मात्पाणि-
ग्रहणादारभ्य कर्मसु सहत्वं श्रूयते—'जायापती अग्निमादधीयाताम्' इति,
तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसामध्ये कर्मसु सहाधिकारः। तथा
'कर्म स्मार्तं विवाहानौ' (आ० ९७) इत्यादिस्मरणाद्विवाहसिद्धाग्निसाम्येषु
कर्मसु सहाधिकार एव। अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः
पृथगेवाधिकारः संपद्यते। तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं
श्रूयते—'दिवि ज्योतिरजरमारभेताम्' इत्यादि। येषु पुण्यकर्मसु सहाधिकार-
स्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूतानां भर्तृनज्ञयानुष्ठितानां फले-
ष्वपि॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्; 'द्रव्यपरिग्रहेषु च' 'नहि भर्तुर्वि-
प्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति' (आप० ध० २।१४।१८-२०) इति।
सत्यम्; द्रव्यस्वामित्वं पत्न्या दर्शितमनेन, न पुनर्विभागाभावः। यस्मात्
'द्रव्यपरिग्रहेषु च' इत्युक्त्वा तत्र कारणमुक्तम्—'भर्तुर्विप्रवासे नैमित्तिकेऽ-
वश्यकर्तव्ये दानेऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान्न स्तेयमुपदिशन्ति
मन्वादयस्तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति, अन्यथा स्तेयं स्यात्' इति।
तस्माद्भर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव, न स्वेच्छया। यथा
वक्ष्यति (व्य० ११५)—'यदि कुर्यात्समानंशान्पत्न्यः कार्याः समांशिकाः'
इति॥ ५२॥
भाषा—अविभक्त (संयुक्त) रहने वाले भाइयों, पति-पत्नी, पिता और
पुत्र का प्रातिभाव्य (जामिन) एवं ऋण और साक्ष्य का विधान (मनु
आदि ने) नहीं किया है॥ ५२॥
अधुना प्रातिभाव्यं निरूपयितुमाह—
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि॥ ५३॥
प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः, तच्च विषयभेदात्त्रिधा
भिद्यते। यथा दर्शने 'दर्शनापेक्षायां एनं दर्शयिष्यामी'ति। प्रत्यये·विश्वासे, 'मम
प्रत्ययेनास्य धनं प्रयच्छ, नायं त्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं, उर्वरा-
प्रायभूरस्य ग्रामवरोऽस्ती'ति। दाने 'यद्ययं न ददाति तदानीमहमेव दास्या-
मी'ति। 'प्रातिभाव्यं विधीयत' इति प्रत्येकं संबध्यते। आद्यौ तु दर्शनप्रत्यय-
१. भार्यायामपि। २. वरोऽस्तीति। ३. संबन्धः।
१४ या०
२१२ याज्ञवल्क्यस्मृतिः
प्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं
धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितथ इत्येव
शाठ्येन निर्धनत्वेन वाऽधमर्णेऽप्रतिकुर्वति 'इतरस्य सुता अपि' (१।११९) इति
वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । 'सुता' इति वदता न पौत्रा दाप्या
इति दर्शितम् ॥ ५३ ॥
भाषा—दर्शन (दिखा देना), प्रत्यय (विश्वास दिलाना) और दान
(स्वयं देने की प्रतिज्ञा) को प्रातिभाव्य (प्रतिभू या जामिन होना) कहते
हैं। प्रथम दो प्रकार का प्रातिभाव्य करने वाले झूठा पड़े तो राजा उनमें से
धनी व्यक्ति का धन दिलावे, तीसरे प्रकार का प्रातिभाव्य करने वाले के झूठा
पड़ने पर उसके पुत्रों से भी वह धन वसूल करे ॥ ५३ ॥
एतदेव स्पष्टीकर्तुमाह—
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥ ५४ ॥
यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवं¹ गतस्तदा तयोः पुत्राः
प्रातिभाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिवं² गतस्तस्य
पुत्रा दद्युः, न पौत्राः। ते च मूलमेव दद्युर्न वृद्धिम् । 'ऋणं पैतामहं पौत्रः
प्रातिभाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चयः ॥' इति
व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः सः यावद्गृहीतं तावदेव
दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं सममेव दद्यात् ।
तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रं³ पौत्रावप्रातिभाव्यायातं प्रातिभाव्यायातं च ऋणं
यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्—'खादको वित्तहीनः
स्याल्लग्नको वित्तवान्यदि । मूलं तस्य भवेद् देयं न वृद्धिं दातुमर्हति ॥' इति,—
तदपि लग्नकः प्रतिभूः, खादकोऽधमर्णः; लग्नको यदि वित्तवान्मृतस्तदा तस्य
पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रति-
भूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात्
प्रातिभाव्यायातमृणं दद्युरेव । यथाह कात्यायनः—'गृहीत्वा बन्धकं यत्र दर्शने-
ऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ॥' इति ।
'दर्शन' ग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते
वेति ॥ ५४ ॥
१. ये स्थिताः । २. दिष्टं गतः । ३. पौत्रप्रपौत्रौ ।
व्यवहाराध्यायः २१३
भाषा—यदि दर्शनप्रतिभू या प्रत्ययप्रतिभू की मृत्यु हो गयी हो तो
उसके पुत्रों से ऋण न दिलावे; किन्तु दानप्रतिभू के मरने पर उसके पुत्र से
ही धनी को धन दिलावे ॥ ५४ ॥
यस्मिन्ननेकप्रतिभूसंभवस्तत्र कथं दाप्यस्तत्राह—
बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥ ५५ ॥
यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस्तदृणं संविभज्य स्वांशेन
दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिता
एकच्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस्तथा दानप्रतिभुवो²
ऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः । एवं दर्शने प्रत्यये च । तेष्वेकैच्छाया-³
श्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश्च
धनिको वित्ताद्यपेक्षया⁴ऽयं स्वार्थं⁵ यं प्रार्थयते स एव कृत्स्नं दाप्यः⁶, नांशतः । एक-
च्छायाश्रितेषु यदि कश्चिद् देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा धनिकेच्छया
स सर्वं दाप्यः । मृते तु कस्मिंश्चित्तत्सुतः स्वपित्रंशमवृद्धिकं दाप्यः । तथाह
कात्यायनः—'एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं
पित्रंशं तु ⁸मृते समम् ॥' इति ॥ ५५ ॥
भाषा—यदि अनेक प्रतिभू होंवे तो वे ऋण को आपस में बाँटकर अपना-
अपना अंश चुकावें और यदि अनेक प्रतिभू (जामिनों) में सभी ऋणी के समान
होकर पूरा धन देने को उद्यत हों तो धनी अपनी इच्छा के अनुसार किसी
एक से ले लेवे ॥ ५५ ॥
प्रातिभाव्ये ऋणदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह—
प्रतिभूर्दापितो यत्तु प्रकाशं धैनिनो⁹ धनम् ।
द्विगुणं ¹⁰प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ ५६ ॥
यद्द्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं
राज्ञा धनिनो दापितो न पुनर्दैगुण्यलोभेन स्वयमुपेत्य दत्तम् । तथाह नारदः
( १।१२१) 'यं चार्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ¹¹ऋणिकस्तं प्रतिभुवे
द्विगुणं ¹²प्रतिदापयेत् ॥' इति । ऋणिकैरधमर्णैस्तस्य प्रतिभुवस्तद् द्रव्यं द्विगुणं
१. दातव्यमित्यत आह । २. दाने प्रतिभुवः । ३. तथैकच्छाया ।
४. वित्ताद्यपेक्षया । ५. यः प्रार्थयते । ६. दद्यान्नांशतः । ७. तेष्वे-
कच्छाया । ८. मृते सति । ९. धनिनां । धनिने धनम् ; १०. तन्न
दातव्य । ११. ऋणिकं तं । १२. प्रतिपादयेत् ।
२१४ याज्ञवल्क्यस्मृतिः
प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् ;
वचनारम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् । ननु १इदं प्रतिभूरिति वचनं
द्वैगुण्यमात्रं प्रतिपादयति, तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते । यथा
जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः
संतत्यभावान्मूलदानमेव प्राप्नोतीति,-तदसत् ; २'वस्त्रधान्यहिरण्यानां चतु-
स्त्रिविगुणा परा' ( व्य० ३९ ) इत्यनेनैव कालकलाक्रमेण द्वैगुण्यादिसिद्धेः द्वैगु-
ण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्य-
भावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानान्तरं कियतापि कालेनाधम-
र्णेन संघटते तदा संततिरपि३ संभवत्येव । यद्वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो
दास्यन्तीति न किंचिदेतत् । अथ प्रातिभाव्यं ४प्रीतिकृतम् , अतश्च प्रतिभुवा
दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याचनाप्राग्वृद्धिरस्ति; यथाह ( नारदः
१।१०९ )- 'प्रीतिदत्तं तु यत्किञ्चिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं
चेद्वर्धते पञ्चकं शतम् ॥' इति । अतश्चास्य प्रीतिदत्तस्यायाचितस्यापि दानदिव-
सादारभ्य यावद् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति, तदप्य-
सत् ,-अस्यार्थस्यास्माद्वचनादप्रतीतेः 'द्विगुणं प्रतिदातव्यम्' इत्येतावदिह प्रती-
यते । तस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति
सुष्ठूक्तम् ॥ ५६ ॥
भाषा-जिस प्रतिभू ( या उसके पुत्र ) से राजाने धनी का धन सबके
सामने दिलाया हो उसको ऋण लेने वाले दूना देकर चुकावें ॥ ५६ ॥
प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह-
संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७ ॥
हिरण्यद्वैगुण्यवत्कालानावरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्धया दाप्याः ।
श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्द्रव्यं
प्रतिभूदत्तं खादकेन तया वृद्धया सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति
तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुमसमर्थ-
स्तदा ५तदन्वेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा मोक्त-
व्योऽन्यथा प्रस्तुतं धनं दाप्यः; 'नष्टस्यान्येषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव
१. इदं बचनं । २. वस्त्रादान । ३. संततिरेवं । ४. प्रीतिकृतं च ।
५. तदन्वेषणाय । ६. मोक्तव्यो नान्यथा ।
दर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृतः ॥' इति कात्यायनवच-
नात् । लग्नके विशेषनिषेधश्च तेनैवोक्तः—‘न स्वामी न च वै शत्रुः स्वामिना-
ऽधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न क्वचित् ॥ नैव रिक्थी न
मित्रं च न चैवात्यन्तवासिनः । राजकार्यनियुक्ताश्च ये च प्रव्रजिता नराः ॥ न
शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा-
प्रवर्तकः ॥ नौविज्ञाय ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥' इति । संदिग्धो-
ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः ॥ इति प्रतिभूविधिः ॥
धनप्रयोगे द्वौ विश्वासहेतू—प्रतिभूरधिश्च । यथाह नारदः (१।११९)—
'विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूर्निरूपितः, इदानीमा-
धिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णोऽधि-
क्रियते, आधीयत इत्याधिः । स च द्विविधः-कृतकालोऽकृतकालश्च । पुनश्चैकैकशो
द्विविधः-गोप्यो भोग्यश्च । यथाह नारदः (१।१२४-२५)—‘अधिक्रियत इत्याधिः
स विज्ञेयो द्विलक्षणः । कृतकालोऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्द्विविधः प्रोक्तो
गोप्यो भोग्यस्तथैव च ॥'इति । कृते काले आधानकाल एवामुष्मिन्काले दीपोत्स-
वादौ ‘मयायम॑धमर्णिको मोक्तव्योऽन्यथा तवैवाधिर्भविष्यती’त्येवं निश्चिते काले
उपनेय आत्मसमीपं नेतव्यः, मोचनीय इत्यर्थः । देयं दानम् । देयमनतिक्रम्य
यावद् देयम् । उद्यतःनियतः, स्थापित इत्यर्थः। यावद् देयमुद्यतो यावद्देयोद्यतः,
गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः ॥ ५७ ॥
भाषा-यदि प्रतिभू से स्त्री और पशु दिलाया गया हो तो संतति सहित
स्त्री और पशु दे । धान्य का तिगुना, वस्त्र हो तो चौगुना और तेल-घृत आदि
रस हो तो उसका आठगुना प्रतिभू को शीघ्र देवे ॥ ५७ ॥
एवं चतुर्विधस्याधेर्विशेषमाह-
आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ ५८ ॥
प्रयुक्ते धने स्वकृतया वृद्धया कालक्रमेण द्विगुणीभूते यद्याधिरधमर्णेन
द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धनं प्रयोक्तुः स्वं भवति ।
कालकृतः कृतकालः, आहिताग्न्यादिषु पाठात् कालशब्दस्य पूर्वनिपातः। स तु
काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्ध्वं वा। फलभोग्यः फलं भोग्यं यस्यासौ
फलभोग्यः,-क्षेत्रारामादिः, स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य
१. दापयेत्तत्तु प्रेते चैव । २. प्रयुक्तास्तु । ३. नाविज्ञातो ।
४. माधिर्र्मो । ५. निरूपिते ।
भोगस्य च तत्कालातिक्रमे नाश उक्तः- 'काले कालकृतो नश्ये'दिति । अकृत-
कालस्य भोग्यस्य नाशाभाव उक्तः- 'फलभोग्यो न नश्यती'ति । पारिशेष्यादाधिः
प्रणश्येदित्येतदकृतकालगोप्याधिविषयमवतिष्ठते। द्वैगुण्यातिक्रमेण निरूपितकाला-
तिक्रमण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं, बृहस्पतिवचनात् ( ११।२७-
२८) 'हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः। बन्धकस्य धनी स्वामी द्विसप्ताहं
प्रतीक्ष्य च ॥ तदन्तरा धनं दत्त्वा ऋणी बन्धकमाप्नुयात् ॥' इति ॥ नन्वाधिः
प्रणश्येदित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् ।
धनिनश्च स्वत्वहेतोः प्रतिग्रहक्रयादेरभावात् मनुवचनविरोधाच्च । (८।१४३)-
'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । कालेन संरोधः कालसंरो-
धश्चिरकालमवस्थानं तस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्न निसर्गोऽस्ति,
नान्यत्राधीकरणमस्ति, न च विक्रयः । एवमाधीकरणविक्रयप्रतिषेधाद्धनिनः
स्वत्वाभावोऽवगम्यत इति । उच्यते- आधीकरणमेव लोके सोपाधिकस्वत्व-
निवृत्तिहेतुः । आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये
निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी
स्वत्वनिवृत्तिः उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । नच मनुवचनविरोधः ।
यतः मनुः ( ८।१४३ ) - 'नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात्' इति ।
भोग्याधिं प्रस्तुत्येदमुच्यते - 'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति ।
भोग्यस्याधेश्चिरकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति ।
इहाप्युक्तं 'फलभोग्यो न नश्यती'ति । गोप्याधौ तु पृथगारब्धं मनुना
( ८।१४४ ) - 'न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत्' इति । इहापि
वक्ष्यते - गोप्यधिभोगे नो वृद्धिरिति । आधिः प्रणश्येद् द्विगुणे इति तु
गोप्याधिं प्रत्युच्यत इति सर्वमविरुद्धम् ॥ ५८ ॥
भाषा - यदि कालक्रम से ब्याज द्वारा बढ़कर ऋण के दूना हो जाने पर
बन्धक रखे हुए द्रव्य को न छुड़ावे तो वह अपने समय से प्रणष्ट हो जाता
है (उस पर ऋणी का अधिकार नहीं रह जाता) किन्तु जिस आधि
(बन्धक) का फल धनी व्यक्ति को मिलता हो (जैसे खेत आदि) उस पर
से बन्धक रखने वाले का अधिकार समाप्त नहीं होता ॥ ५८ ॥
गोप्याधिभोगे नो वृद्धिः सोपकारे चै हापिते ।
नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ ५९ ॥
१. कृतावधौ । २. काले प्राप्ते च । ३. चिरन्तनकाला। ४. स्वत्वं
न भवति । ५. ऽथ हापिते ।
व्यवहाराध्यायः २१७
किंच, गोप्यधिस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे
महत्यपि वृद्धिर्हातव्या; समयातिक्रमात् । तथा सोपकारे उपकारकारिणि
बलीवर्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते
नो वृद्धिः इति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिशिद्रभेदनादिना
पूर्ववत्कृत्वा देयः । तत्र गोप्योधिर्नष्टश्चेत्पूर्ववत्कृत्वा देयः । उपभुक्तोऽपि चेद्-
वृद्धिपि हातव्या । भोग्योधियदि १नष्टस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे
२वृद्धिपि हातव्या। विनष्ट आत्यन्तिकं नाशं प्राप्तः, सोऽपि देयो मूल्यादिद्वारेण ।
तद्दाने सवृद्धिकं मूल्यं लभते धनी । यदा न ददाति तदा मूलनाशः; 'विनष्टे
मूलनाशः स्याद्दैवराजकृतादृते' ( १।१२६ ) इति नारदवचनात् । दैवराजकृता-
दृते-दैवमग्न्युदकदेशोपप्लवादि । दैवकृताद्विनाशाद्विना, तथा स्वापराधराहि-
त्याद्राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमर्णेनाऽऽध्य-
न्तरं वा । यथाह-'स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते । आधिरन्योऽथ
कर्तव्यो देयं वा धनिने धनम् ॥' इति । तत्र 'स्रोतसापहत' इति दैवकृतोप-
लक्षणम् ॥ ५९ ॥
भाषा-( वृद्धि पर रखी गई ) गोप्य आधि के उपभोग किये जाने पर
वृद्धि (ब्याज) न देवे, उपकारक आधि (बैल आदि) में हानि होने पर
भी वृद्धि न दें। दैव और राजोपद्रव के विना ही बन्धक रखी हुई वस्तु नष्ट
हो जाय या खो जाय तो बन्धक रखी हुई वस्तु के समान वस्तु देवे ॥ ५९ ॥
आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् ।
यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ ६० ॥
अपि च, आधेर्भोग्यस्य गोप्यस्य च स्वीकरणादुपभोगादाधिग्रहणसिद्धि-
र्भवति, न साक्षिलेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः ( १।१३८ )-
'आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो
यद्यस्ति नान्यथा ॥' इति । अस्य च फलं -'आधौ प्रतिग्रहे क्रीते पूर्वा तु बल-
वत्तरा' ( व्य० २३) इति । या ४स्वीकारान्ता क्रिया सा पूर्वा बलवती, स्वी-
काररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणोऽपि काल-
वशेन यद्यसारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्ततां गतस्तदाधिरन्यः
कर्तव्यः, धनिने धनं वा देयम् । 'रक्ष्यमाणोऽप्यसारताम्' इति वदता आधिः
प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ ६० ॥
१. नष्टश्चेत्तदा । २. वृद्धिर्हातव्या । ३. गोप्यस्य भोग्यस्य च ।
४. स्वीकारान्तक्रिया पूर्वा ।
२१८ याज्ञवल्क्यस्मृतिः
भाषा—भोग्य आधि स्वीकार करने पर उसका भोग करने पर ही उसकी
सिद्धि होती है । प्रयत्नपूर्वक रखी जाने पर भी यदि आधि असार ( वृद्धि युक्त
और मूलद्रव्य मिलाकर अपर्याप्त हो जाय, या नष्ट ) हो जाय तो दूसरी
आधि रखनी चाहिए, अथवा धन दाता को उसका धन लौटा देना चाहिए ॥६०॥
'आधिः प्रणश्येद् द्विगुणे' ( व्य० ५८ ) इत्यस्यापवादमाह—
चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ ६१ ॥
चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद् द्रव्यमात्मसा-
त्कृतं पराधीनं वा कृतम् । एतदुक्तं भवति—धनिनः स्वच्छाशयत्वेन बहुमू-
ल्यमपि द्रव्यमाधीकृत्याधमर्णेनाल्पमेव द्रव्यमात्मसात्कृतम् , यदि वाधमर्णस्य
स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृत-
मिति । तद्धनं स नृपो वृद्ध्या सह दापयेत् । अयमाशयः—एवं चं बन्धकं द्विगु-
णीभूतेऽपि द्रव्ये न नश्यति, किंतु द्रव्यमेव द्विगुणं दातव्यमिति । तथा सत्यं-
कारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः—'कारे सत्या-
गदस्य' (पा० ६।३।७०) इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयमभि-
सन्धिः—यदा बन्धकार्पणसमय एवेत्थं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया
द्विगुणं³ द्रव्यमेव दातव्यं नाधिनाशः' इति, तदा तद् द्विगुणं दापयेदिति । अन्यो-
ऽर्थः । चरित्रमेव बन्धकं चरित्रबन्धकं । 'चरित्र' शब्देन गङ्गास्नानाग्निहोत्रा-
दिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्द्रव्यमात्मसात्कृतं⁴ तन्न तदेव द्विगु-
णीभूतं दातव्यम् , नाधिनाश इति । आधिप्रसङ्गादन्यदुच्यते—सत्यंकारकृत-
मिति । क्रयविक्रयादिव्यवस्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद्व्यवस्था-
तिकमे द्विगुणं दातव्यम् । तत्रापि येनाङ्गुलीयकार्पितं स एव चेद् व्यवस्थातिवर्ती
तेन तदेव दातव्यम् । ५इतरश्चेद् व्यवस्थातिवर्ती तदा तदेवाङ्गुलीयकादि द्विगुणं
प्रतिदापयेदिति ॥ ६१ ॥
भाषा—चरित्र बन्धक ( स्वेच्छा से कम मूल्य की वस्तु बन्धक लेकर
अधिक धन देना या अधिक मूल्य की वस्तु बन्धक रखकर कम धन ऋण
लेना ) होने पर वृद्धि के साथ धन दिलावे । सत्यकार (धन के दूना होने
पर बन्धक नष्ट न होकर दूना धन देने की शर्त ) किया गया हो तो दूना
धन दिलवाये ॥ ६१ ॥
१. प्रतिपाद्येत् । २. एवंविधं । ३. द्विगुणीभूतमेव द्रव्यं । ४. कृतं
तदा तन्न । ५. इतरं चेत् ।
व्यवहाराध्यायः २१६
उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥ ६२ ॥
किंच, धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्यो धनिना, न वृद्धिलो-
भेन स्थापयितव्यः, अन्यथा अमोक्षणे स्तेनश्चौरवद्दण्ड्यः भवेत् । असंनिहिते
पुनः प्रयोक्तरि कुले तदासन्नहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं
गृह्णीयात् ॥ ६२ ॥
भाषा—ऋणी के बन्धक छुड़ाने आने पर उसकी वस्तु दे देनी चाहिए ।
(ब्याज के लोभ से टालना नहीं चाहिए) अन्यथा चोर के समान दण्ड का
भागी होता है । जिसके पास बन्धक रखा हो उसके अनुपस्थित होने पर
ब्याज सहित धन उसके कुल के किसी दूसरे व्यक्ति को सौंप कर बन्धक प्राप्त
कर ले ॥ ६२ ॥
अथ प्रयोक्ताऽप्यसंनिहितस्तदासन्नाश्च धनस्य ग्रहीतारो न सन्ति, यदि वा
असंनिहिते प्रयोक्तर्याधिविक्रयेण धनदित्साऽधमर्णस्य तत्र किं कर्तव्यमित्यपेक्षित
आह—
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।
तस्मिन्काले यत्तस्याधेर्मूल्यं तत्परिकल्प्य तत्रैव धनिानि तमाधिं वृद्धि-
रहितं स्थापयेन्न तत ऊर्ध्वं विवर्धते । यावद्धनी धनं गृहीत्वा तमाधिं मुञ्चति,
यावद्वा तन्मूल्यद्रव्यमृणे प्रवेशयति ॥
यदा तु द्विगुणीभूतेऽपि धने द्विगुणं धनमेव ग्रहीतव्यं, न स्वाधिनाश इति
विचारितमृणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते चाऽधमर्णे
धनिना किं कर्तव्यमित्यत आह—
विना धारणिकाद्वापि विक्रीणीत ससाक्षिकम् ॥ ६३ ॥
धारणकादधमर्णाद्विना अधमर्णेऽसंनिहिते साक्षिभिस्तदासन्नैश्च सह तमाधिं
विक्रीय तद्धनं गृह्णीयाद्धनी । 'वा' शब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले
द्विगुणीभूतेऽपि धने धनमेव ग्रहीतव्यं, न स्वाधिनाश इति न विचारितं,
तदा 'आधिः प्रणश्येद् द्विगुणे' (व्य० ५८) इत्याधिनाशः । विचारिते त्वयं पक्ष
इति ॥ ६३ ॥
१. दण्ड्यो भवति । २. कल्पते तत्रैव । ३. ऊर्ध्वं धनं वर्धते ।
४. मृणिने । ५. धारणिकात् ।
२२० याज्ञवल्क्यस्मृतिः
भाषा-अथवा उस बन्धक का उस समय जितना मूल्य लगता हो वह
कह कर विना ब्याज के ही बन्धक को वहीं रहने दे (उसके बाद उसकी वृद्धि
नहीं होती) । यदि ऋण धन दूना हो जाय तो विना ऋणी के भी साक्षियों
के समक्ष उस बन्धक की वस्तु को धनी बेच सकता है ॥ ६३ ॥
भोग्याधौ विशेषमाह-
यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ ६४ ॥
यदा प्रयुक्तं धनं स्वकृतया वृद्धया द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने
आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाऽऽधिर्मोक्तव्यः । यदि वादावे-
वाधौ दत्ते 'द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्यः' इति, परिभाषया कारणान्तरेण
वा भोगाभावेन यदा द्विगुणीभूतमृणं तदा, आधौ भोगार्थं धनिनि प्रविष्टे
तदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधिकोपभोगे तदपि देयम् । सर्वथा
सवृद्धिकमूलार्णापाकरणार्थाध्युपभोगविषयमिदं वचनम् । तमेनं क्षयाधिमाचक्षते
लौकिकाः । यत्र तु वृद्धयर्थ एवाध्युपभोग इति परिभाषा, तत्र द्वैगुण्यातिक्रमेऽपि
यावन्मूलदानं तावदुपभुङ्क्त एवाधिम् । एतदेव स्पष्टीकृतं बृहस्पतिना
(११।३३-४)-'ऋणी बन्धमवाप्नुयात् । फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु
सामकम् ॥ यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद्वन्धं
परस्परमतं विना ॥' इति । अस्यार्थः-फलं भोग्यं यस्यासौ फलभोग्यः बन्धक
आधिः । स च द्विविधः-सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च । तत्र
च सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमा-
प्नुयादृणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धमाप्नुया-
दित्यर्थः । वृद्धिमात्रापाकरणार्थं तु बन्धकं सामकं दत्त्वाप्नुयादृणी । समं मूलं,
सममेव सामकम् ॥ अस्यापवादमाह-यदि प्रकर्षितं तत्स्यात् । तत् बन्धकं
प्रकर्षितमतिशयितं वृद्धेरप्यधिकफलं यदि स्यात् 'तदा न धनभाग्धनी' सामकं
न लभेत धनी । मूलमदत्त्वैव ऋणी बन्धमवाप्नुयादिति यावत् । अथ स्वप्रकर्षितं
तद्वन्धकं वृद्धयेऽप्यपर्याप्तं, तदा सामकं दत्त्वापि बन्धं न लभेताधमर्णः ।
वृद्धिशेषमपि दत्त्वैव लभेतेत्यर्थः । पुनरुभयत्रापवादमाह-'परस्परमतं विना'
उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे 'यदि प्रकर्षितम्' इत्याद्युक्तम्, परस्परा-
नुमतौ तूत्कृष्टमपि बन्धकं यावन्मूलदानं तावदुपभुङ्क्ते धनी, निकृष्टमपि
मूलमात्रदाने नैवाधमर्णो लभत इति ॥ ६४ ॥
१. मूल्यापाकरणार्था, मूलर्णापाकरण । २. मूल्यदानं । ३. बन्धः
आधिः । ४. मूल्यमदत्त्वैव । ५. वृद्धिशेषमदत्त्वैव ।
इति ऋणादानप्रकरणम् ।
व्यवहाराध्यायः २२१
भाषा—( भोग्य आधि होने पर ) ऋण दूना होने पर ऋणी व्यक्ति जब
दूना धन प्राप्त कर ले तो बन्धक की वस्तु छोड़ देवे ॥ ६४ ॥
इति ऋणादानप्रकरणम् ।
अथ ^१उपनिधिप्रकरणम् ४
उपनिधिं प्रत्याह—
वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६५ ॥
निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि, तत्स्थं वासनस्थं
यद्द्रव्यं रूपसंख्यादिविशेषमनाख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं
विश्रम्भादर्प्यते स्थाप्यते तद्द्रव्यमौपनिधिकमुच्यते । यथाह नारदः—'असं-
ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥'
इति । प्रतिदेयं तथैव तत् । यस्मिन्स्थापितं तेन तथैव पूर्वमुद्रादिचिह्नितम-
र्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ ६५ ॥
भाषा—जब किसी पात्र में रखकर रूप या संख्या आदि बताये बिना
कोई वस्तु दूसरे को ( निक्षेप के रूप में ) दी जाती है तब वह द्रव्य उपनिधि
कहलाता है; उसे ज्यों के त्यों लौटाना होता है ॥ ६५ ॥
‘प्रतिदेयम्’ ( व्य० ६५ ) इत्यस्यापवादमाह—
न दाप्योऽपहृतं तं^२ तु राजदैविकतस्करैः ।
तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वाऽपहृतं नष्टं न दाप्योऽसौ
यस्मिन्नुपनिहितम् । धनिन एव तद्द्रव्यं नष्टं यदि जिह्मकारितं न भवति ।
यथाह नारदः ( १।९ )—'ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन्न^३ चेत्तज्जिह्मकारितम् ॥' इति ॥—
अस्यापवादमाह—
भ्रेषै^४श्चेन्मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥ ६६ ॥
स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजा-
दिभिर्भ्रेषो नाशः संजातस्तथापि तद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो
राज्ञे च तत्समं दण्डम् ॥ ६६ ॥
१. निक्षेप । २. तत्तु । ३. तद्भन्नवेत्तज्जिह्म तद्भग्नवेदाजिह्म ।
४. भ्रंशश्चेन्मा ।
भाषा—किन्तु उसके राजा, दैविक उत्पात द्वारा नष्ट या चोरों द्वारा चुरा
लिये जाने पर वह (उपनिधि द्रव्य) प्रतिदेय नहीं होता। और यदि उपनिधि
रखने वाले के मांगने पर भी वह वस्तु नहीं लौटाई जाती एवं उसके बाद
राजा आदि द्वारा नष्ट हो जाती है तो उसे देना होता है और साथ ही उसके
बराबर दण्ड भी चुकाना होता है ॥ ६६ ॥
भोक्तारं प्रति दण्डमाह—
आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीवन्नुपभुङ्क्ते व्यवहरति वा
प्रयोगादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यः, तं चोपनिधिं
सोदयमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धेःप्रमाणं च
कात्यायनेनोक्तम्—'निक्षेपं वृद्धिशेषं च क्रयं विक्रयमेव च । याच्यमानो न
चेद्दद्याद्वर्धते पञ्चकं शतम् ॥' इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाज्ञाननष्टे तु
तेनैव विशेषो दर्शितः—'भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन्न्यूनं प्रदाप्यः स्याद् द्रव्यमज्ञाननाशितम् ॥' इति । 'किंचिन्न्यूनम्' इति
चतुर्थांशहीनम् ॥
उपनिधेर्धर्मान्याचितादिष्वतिदिशति—
याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः ॥ ६७ ॥
विवाहोद्युत्सवेषु वस्त्रालंकारादि याचित्वाऽऽनीतं याचितम् । यदेकस्य हस्ते
निहितं द्रव्यं तेनाप्यनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् ।
न्यासो नाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेप्यो गृहस्वामिने
समर्पणीयमिति । समक्षं तु समर्पणं निक्षेपः । 'आदि'शब्देन सुवर्णकारादिहस्ते
कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोजनापेक्षया
'त्वयेदं मदीयं रक्षणीयं, मयेदं त्वदीयं रक्ष्यते' इति न्यस्तस्य ग्रहणम् । यदाह
नारदः (२।१४)—'एष एव विधिर्दृष्टो याचितान्वाहितादिषु । शिल्पिषूपनिधौ
न्यासे प्रतिन्यासे तथैव च ॥' इति । एतेषु याचितान्वाहितादिष्वयं विधिः
उपनिधेर्यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥
भाषा—जो अपनी इच्छा से उपनिधि द्रव्य का भोग करता है उसे
उसके लाभ के साथ उपनिधि दिलावे और साथ ही दण्ड भी दे । यही नियम
याचित (मगनी), अन्वाहित (मांगने वाले से किसी अन्य व्यक्ति द्वारा
स्वामी के पास भिजवाई गई), न्यास (परोक्ष में घर के किसी अन्य व्यक्ति के
१. आजीवेत्युप आजीवन्फलं भुंक्ते । २. याक्ष्यमानं । ३. पेक्षायां त्वयेदं ।
इति औपनिधिकप्रकरणम् ।
व्यवहाराध्यायः २२३
हाथ में सौंपी गई ) और निक्षेप ( सन्मुख दी हुई ) वस्तुओं के विषय में
भी लागू होते हैं ॥ ६७ ॥
इति औपनिधिकप्रकरणम् ।
अथ साक्षिप्रकरणम् ५
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम्' (व्य० २२) इत्युक्तं, तत्र
भुक्तिर्निरूपिता; सांप्रतं साक्षिखरूपं निरूप्यते । साक्षी च साक्षाद्दर्शनाच्छ्रवणाच्च
भवति । यथाह मनुः ( ८।७४ ) - 'समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिद्ध्यति'
इति । स च द्विविधः-कृतोऽकृतश्चेति । साक्षित्वेन निरूपितः कृतः । अनिरू-
पितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश्च षड्विध इत्येकादशविधः । यथाह
नारदः ( १।१७८ ) - 'एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः । कृतः
पञ्चविधो ज्ञेयः षड्विधोऽकृत उच्यते ॥' इति । तेषां च भेदस्तेनैव दर्शितः-
'लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः
स्मृतः ॥' (नारदः १।१४०) इति । लिखितादीनां च स्वरूपं कात्यायनेनोक्तं-
'अर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः
पत्रकारूढे ॥' इति । 'स्मारितः पत्रकारूढे' इत्यस्य विवरणं तेनैव कृतम्-'यस्तु-
कार्यप्रसिद्धयर्थं दृष्ट्वा कार्यं पुनः पुनः । स्मार्यते ह्यर्थिना साक्षी स स्मारित
इहोच्यते ॥' इति । यस्तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः
पत्रानारूढत्वेऽपि भेदस्तेनैव दर्शितः - 'प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः ।
द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥' इति, तथा-'अर्थिना स्वार्थसि-
द्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥'
इति, तथा-'साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स
साक्ष्युत्तरसंज्ञितः ॥' इति । षड्विधस्याप्यकृतस्य भेदो नारदेन दर्शितः (१।१५१)-
'ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः सयादर्थिना
प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः ॥' इति । 'प्राड्वि-
वाक'ग्रहणं लेखकसभ्योपलक्षणार्थम्; 'लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः ।
नृपे पश्यति तत्कार्यं साक्षिणः समुदाहृताः ॥' इति ।
तेऽपि साक्षिणः कीदृशाः, कियन्तश्च भवन्तीत्यत आह-
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ ६८ ॥
१. निक्षेपप्रकरणम् । २. श्रावितः । ३. सभ्यश्चैव ।
२२४ याज्ञवल्क्यस्मृतिः
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ ६९ ॥
तपस्विनस्तपःशीलाः, दानशीला दाननिरताः, कुलीना महाकुलप्रसूताः,
सत्यवादिनः सत्येवदनशीलाः, धर्मप्रधाना न स्वार्थकामप्रधानाः, ऋजवोऽ-
कुटिलाः, पुत्रवन्तो विद्यमानपुत्राः, धनान्रिता बहुसुवर्णादिधनयुक्ताः, श्रौतस्मा-
र्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः, एवंभूताः पुरुषास्त्र्यवराः साक्षिणो
भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाङ् न भवन्ति । परतस्तु
यथाकामं भवन्तीत्यर्थः । जातिम नतिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्याः
अनुलोमजाः प्रतिलोमजाश्च। तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति ।
एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः ।
तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं
क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः
( ८।६८ ) - 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । सजातिसवर्णसंभवे सर्वे
मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथा-
संभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहिता-
नामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः । ते च पञ्च-
विधा नारदेन दर्शिताः - 'असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात्स्वयमुक्तिर्मृतान्तरः ॥' इति । के पुनर्वचनात् असा-
क्षिण इत्यत आह- 'श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षि-
णस्ते वचनान्नात्र हेतुरुदाहृतः ॥' ( १।१५८ ) इति । तापसा वानप्रस्थाः ।
'आदि'शब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्खः - 'पित्रा विवद-
मानगुरुकुलवासिपरिव्राजकवानप्रस्थ४निर्ग्रन्था असाक्षिणः' इति । दोषादसाक्षिणो
दर्शिताः- 'स्तेनाः साहसिकाय्चण्डाः कितवा वै५ञ्चकास्तथा । असाक्षिणस्ते
दुष्टत्वात्तेषु सत्यं न विद्यते ॥' ( नारदः १।१५९ ) । चण्डाः कोपनाः, कितवा
द्यूतकृतः । भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम् - 'साक्षिणां लिखितानां
च निर्दिष्टांनां च ६वादिनाम् । तेषामेकोऽन्यथावादी भेदात्सर्वे नै साक्षिणः ॥'
इति । तथा स्वयमुक्तिस्वरूपं चोक्तम् - 'स्वयमुक्तिर्८निर्दिष्टः स्वयमेवैत्य यो
वदेत् । सूच्यित्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥' ( १।१६१ ) इति ।
१. सत्यवादन । २. छानपराः । ३. स्वयमुक्तिर्मृतान्तरम् ; स्वयमुक्तैः ।
४. वानप्रस्था निर्ग्रन्थाश्चाप्ता; निर्ग्रन्था निगडस्थाः । ५. वञ्चकास्तथा ।
६. वादिना । ७. असाक्षिणः । ८. मुक्तिर्हि निर्दिष्टः ।