अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
१०० अभिज्ञानशाकुन्तलम्
विदूषकः—तेण हि लहु परित्ताअदु णं भवं । मा कस्स वि तवस्सिणो इंगुदी-तेल्लमस्सचिक्कणसीसस्स हत्थे पडिस्सदि [ तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन इंगुदीतैलमिश्रचिक्कणशीर्षस्य हस्ते पतिष्यति ] ।
त्रोटिताशोकनवपल्लवमिव वेधादिदोषहीनं हीरकादिरत्नमिव, अभुक्तरसं मधु इव, अभुक्तपरिपाकं सुकृतफलमिव ब्रह्मदेवः कं भाग्यवन्तं पुमांसं तद्रूपभोक्तारं सृष्टवानिति न वेद्मि-यतो हि विधेर्विलसितानि दुर्ज्ञेयानि भवन्ति ।
अत्र परिकर-मालोपमा-शोभा-श्रुतिवृत्त्यनुप्रासा अलङ्काराः छन्दश्च शिखरिणी ॥१०॥
विदूषकः—राजोक्तिं श्रुत्वा विदूषक आह—तेन हि = यस्मात् सा स्त्रीललामभूता भवद्विवाहयोग्या च तस्मात् कारणात् निश्चयेन—लघु = द्रुतम्, इदानीमेव भवान् = त्वम् परित्रायतां = रक्ष एनां = शकुन्तलाम् परपरिग्रहरूपान् भयाद्रक्षतु स्वयमेनामङ्गीकुरुतामित्यर्थः। मां = इदं न स्यात् यत् इङ्गुद्याः तैलम् इङ्गुदीतैलं = तापसतैलं तेन मिश्रं = सम्पृक्तम् अतः चिक्कणं = स्निग्धं शीर्ष =मस्तकं यस्य स तस्येङ्गुदीतैलमिश्रशीर्षस्य कस्यापि = कस्यचित् तपस्विनः = तापसस्य हस्ते = पाणौ पतिष्यति = यास्यति । अतस्तपनात् पूर्वमेव भवान् तां स्वीकुरुतामिति भावः ।
फल बतलाया है जिसका तात्पर्य है कि अभीतक किसी पुरुष ने इस शकुन्तला के सौन्दर्य एवं सौकुमार्य का उपभोग नहीं किया है। यही तात्पर्य नखों से आलून पल्लव, अनाविद्धरत्न, अनास्वादित मधु तथा पुण्यों के अखण्ड फल से भी निकलता है। वन में उत्पन्न शकुन्तला के लिए जंगली फूल, पल्लव, रत्न तथा मधु की उपमा देकर कवि ने अपना नैसर्गिक प्रवृत्ति चित्रण की ओर किया है क्योंकि वन एवं पर्वतों के उपादानों का ग्रहण करना उनका स्वाभाविक गुण है। शकुन्तला ने लावण्य के लिए पुष्प की उपमा देने से कवि ने उसमें सुगन्धि होने से उसे पद्मिनी नायिका होने का संकेत किया है, नखों से अच्छिन्न पल्लव की उपमा से कोमलता, सुन्दर और नयापन व्यक्त किया गया है। सूँघने से फूल की सुगन्ध कम होती है तथा नाखून से तोड़ने पर पत्तों में खरोंच से चिह्न हो जाता है। अनास्वादित मधु की उपमा पुष्पों की ओर मधुपके समान पुरुषों के लिए शकुन्तला का सौन्दर्य अत्यन्त लुभावना प्रतीत होता है। मधु में नया अनास्वादित विशेषण महत्त्वपूर्ण है। पुराना और आस्वादित होने से मधु में विकृति आ जाती है और स्वाद में विरसता होती है। बींधे हुए रत्न को उत्तमता नहीं मानी गयी है, रत्न परीक्षा के प्रसंग में सारसमुच्चय में अनाविद्ध रत्न को उत्तम बताया गया है—
'वृत्तं स्निग्धसमुज्ज्वलं शुचिगुरु श्वेतं बृहत् कोमलम् ।
स्वच्छान्तं समसूक्ष्म वेधसुरभि त्रासादिभिर्वर्जितम् ॥'
यहाँ शकुन्तला के रूप को कवि ने अनघ कहा है, जो विश्वकोश के अनुसार निर्मल का पर्यायवाची है—'अनघो निर्मला पापमनोज्ञेषु च मेघवत् ।' और रूप का लक्षण इस प्रकार है—
'अङ्गान्यभूषितान्येव प्रक्षेपार्थैर्विभूषणैः ।
येन विभूषितवद् भान्ति तद्रूपमिति कथ्यते ॥'
विदूषक—तो मित्र ! आप शीघ्रता से शीघ्र वहाँ पहुँच जाइए। कहीं वह शकुन्तला इंगुदी के तेल से चिकने शिर वाले मैले-कुचैले किसी तपस्वी ब्राह्मण कुमार के हाथ में न पड़ जाय। अर्थात् किसी तपस्वी से उसका विवाह न हो जाय ।
विशेष—यहाँ हास्यप्रिय विदूषक का कहना भी हास्यमय ही है—वह राजा को उपदेश देता है कि जब उसका उपभोक्ता कौन होगा ? यह निश्चय नहीं, तो आप शीघ्र जाकर उससे विवाह कर लें । अन्यथा किसी अयोग्य से उसका विवाह न हो सके ।
द्वितीयोऽङ्कः | १०१
राजा—परवती खलु तत्रभवती । न च ^१संनिहितोऽत्र गुरुजनः ।
विदूषकः—अत्तभवन्तं अंतरेण कीदसो से दिट्ठिराओ [अत्रभवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः । ]
राजा—निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु—
अभिमुखे मयि ^२संहृतमीक्षणं
हसितमन्यनिमित्त^३कृतोदयम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥ ११ ॥
राजा—अथ विदूषकसूचितस्य यस्य शीघ्रतरपरित्राणस्याशक्यतामवधारयन् राजा सविषादमाह परवती = पराधीना परवशा खलु = निश्चयेन तत्रभवती = माननीया शकुन्तला (स्त्रीरत्नत्वान्माननीयत्वम् ) न च अत्र = अस्मिन् स्थाने, आश्रमे गुरुजनः = अस्याः पूज्यः पिता कण्वो महर्षिः सन्निहितः = उपस्थितः । अतो न सहसा तस्या विवाहमङ्गलसंभवः न वा सा शीघ्रं सुलभेति भावः ।
विदूषकः—राजविषये शकुन्तलया अनुरागं जिज्ञासमानो विदूषकः प्राह—अत्रभवन्तं = पूज्यं श्रीमन्तं अन्तरेण = भवद्विषये कीदृशः = किम्भूता तस्याः = शकुन्तलाया दृष्टिरागः = दृष्टेः चक्षुषः रागः = अनुरागः, क्रोधदयारागविरागादयः सर्वेऽपि भावा प्रायः चक्षुषैव व्यज्यन्ते इति भावः ।
राजा—स्वभावसरलायां तस्यां दृष्टिरागस्य दुर्लक्ष्यत्वं कथयन् राजा प्राह—तपस्विकन्याजनः-तपस्विनां = तापसानां कन्याजनाः = कुमार्यः निसर्गात् = स्वभावात् एव अप्रगल्भा = अनुरागप्रकाशनकौशलशून्याः तथा च नागरिकयौवनपरिचितदाम्पत्यव्यवहारानभिज्ञत्वादप्रौढा भवन्ति । तथापि = सामान्यतपस्विकन्यकानाममित्थं भूतत्वेऽपि तु = किन्तु तया हृद्गतो भावः ।
अन्वयः—मयि अभिमुखे सति ईक्षितं संहृतम् अन्यनिमित्तकृतोदयं हसितम्, अतो विनयवारितवृत्तिः मदनः तया न विवृत्तः, न च संवृतः ।
शकुन्तलाया आत्मनि अनुरागविशेषं संभावयन् राजा विदूषकं कथयति—अभिमुख-
राजा—नहीं मित्र ! वह तो पराधीन हैं तथा उसके पालयिता पिता महर्षि कण्व भी अभी आश्रम पर मौजूद नहीं है । इसलिए अभी उसके विवाह का कोई प्रसंग ही नहीं है ।
विदूषक—अच्छा, तो बताइए कि आपके ऊपर उसका अनुराग कैसा है ?
राजा—मित्र ! जङ्गली तपस्वियों की कन्यायें तो स्वभाव से ही भोली-भाली तथा मुग्धा हुआ करती हैं । अतः उनके मन के भाव को ठीक-ठीक पता लगाना कठिन काम है । तो भी—
मेरे संमुख होते ही वह अपनी आँखों को दूसरी तरफ हटा लेती थी, दूसरी बातों के प्रसंग के व्याज से वह हँसती भी थी । इस प्रकार विनय से अवरुद्ध अपनी अभिलाषा तथा कामवासना को न तो उसने स्पष्टतया व्यक्त ही किया न पूर्ण रूप से छिपाया ही । अतः प्रतीत होता है कि वह मेरे में अनुरक्त भी है और सङ्कोच भी करती हैं ॥ ११ ॥
विशेष—उत्तम नायिकाओं के शृङ्गार-लज्जा का विवेचन करते हुए मातगुप्त ने लिखा है कि—
पाठा०—१. संनिहितगुरुजना । २. संवृतमीक्षितं । ३. रुधोदयम् ।
१०२ | अभिज्ञानशाकुन्तलम्
विदूषकः—ण खु दिट्ठमेत्तस्स तुह अंक समारोहदि । [ न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । ]
राजा—मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या। तथा हि—
इति । मयि अभिमुखे = संमुखं स्थिते सति, तस्या मुखकमलं पश्यति सति तया ईक्षितं = नेत्रविलोकनं वा संहृतं = निवारितं गोपितं, पराङ्मुखं कृतम् अभिमुखोऽहं तया गूढं वीक्षित इत्यर्थः, अन्यत् = इतरत् निमित्तं = हेतु यस्य तत् अन्यनिमित्तम् अन्यनिमित्तं = अन्यहेतुकं यथा स्यात्तथा कृतः = विहितः उदयः = आविर्भावः यस्य तत् अन्यनिमित्त-कृतोदयम् कथान्तरव्याजेन तया हसितं = हासः कृतः, विनयेन = शीलेन वारिता नियमिता वृत्तिः = व्यापारो यस्य स विनयवारितवृत्तिः = लज्जावरुद्धप्रसरः मदनः = कामः मद्विषयकः प्रेमा तया = शकुन्तलया न विवृतः = न प्रकटीकृतः न च संवृतः = न च गोपायितः निगूहितः, मुग्धात्वेन दृष्टिपरावर्तनादिना निगूहितोऽपि मद्विषयको भावोऽन्य-निमित्तकथादिभिर्हसितादिभिर्वा स्वानुरागप्रकटनात् स्फुटीकृतः ।
मित्र ! यदाहं तत्संमुखे तिष्ठन् तन्मुखं सस्पृहं द्रष्टुमभिलषितवान् तदा सा केनापि व्याजेन मद्दर्शनं परिहृतम् । यदा चाहं तदनभिमुखमतिष्ठं तदा सा मां प्रच्छन्नतया-ऽद्राक्षीत् । तथैव मम सम्मुखे तन्मुखे यदा मन्दहासो दृष्टः तदा सा मुखं तिर्यक् कृतवती। अतोऽहं तर्कयामि यत् सा मयि वाढमनुरागवती ॥ ११ ॥
विदूषकः—राज्ञो वचनमाकर्ण्य तस्मिन् शकुन्तलाया अनुरागं निश्चिन्वन् विदूषकः सपरिहासमाह—दृष्टमात्रस्य=तया तदानीं दृष्टस्य तव=भवतः, अङ्कं=क्रोडम्, समारोहति=आरूढा भवति । अपरिचितस्य तव विश्वासाभावात् तया स्वानुरागो न सम्यक् प्रकटित इति भावः ।
राजा—विदूषकोक्त्या हृष्टो राजा तस्या स्वस्मिन् प्रणयचेष्टां कथयन्नाह—मिथः=
‘विकसित-कपोलानामुत्फुल्लामललोचनम् ।
किञ्चिल्लक्षितदन्ताग्रं हसितं तद्विदो विदुः ॥
उत्तमस्य समुद्दिष्टं स्मितं हसितमेव च ।’
दृष्टि मिलते ही हटा लेना तथा किसी दूसरे व्याज से हँसना, यह मुग्धा नायिकाओं द्वारा काम-वासना को छिपाने का स्वरूप है । इस प्रकार हसित में अनुराग का सूचक बताते हुए कहा गया है कि—
‘उत्फुल्ल-गण्डमण्डलमुल्लसित-दृगन्तसूचिताकृतिम् ।
नमन्त्यापि मुखाम्भोजमुन्नमितं रागसाम्राज्यम् ॥’
नायिकाओं को मुग्धा होना यौवनावस्था के आरम्भ का सूचक है, मुग्धा नायिकाएँ न तो अपने प्रेम को छिपा पाती हैं, न व्यक्त ही करती हैं । उनकी स्थिति हिंडोले पर चढ़ी स्त्री के समान होती है। मुग्धा की परिभाषा इस प्रकार है—
‘तत्र कन्या त्वरूढा स्यात् सलज्जा पितृपालिता ।
सखीकेलिषु विक्षुब्धा प्रायो मुग्धा गुणान्विता ॥’
विदूषक—मित्र ! तो क्या आप चाहते हैं कि आपको देखते ही वह आप की गोद में आकर बैठ जाय ?
राजा—मित्र अनसूया तथा प्रियम्बदा नामक अपनी सखियों के साथ वहाँ से
द्वितीयोऽङ्कः १०३
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२ ॥
रहसि ( सहोपविश्य मदभिप्रायं च ज्ञात्वा ) प्रस्थाने = सखीभ्यां साकं गमनारम्भे पुनः = पश्चात् शालीनतया = अधृष्टतयापि कामम् = अत्यर्थं भावः = अनुरागरूपश्चित्ताभिप्रायः आविष्कृतः = प्रकटितः तत्रभवत्या = मान्यया, शकुन्तलया ।
अन्वयः—तन्वी कतिचिदेव पदानि गत्वा अकाण्डे दर्भाङ्कुरेण चरणः क्षतः इति विवृत्तवदना द्रुमाणां शाखासु असक्तमपि वल्कलं विमोचयन्ती स्थिता आसीत् ।
शकुन्तलाया भावाविष्करणप्रकारं वर्णयन् राजा दुष्यन्तो विदूषकं कथयति—दर्भाङ्कुरेति। तन्वी = स्वभावतः कृशाङ्गी शकुन्तला कतिचित् = कानिचित् एव द्वित्राण्येव पदानि = पदप्राप्यस्थानानि गत्वा = चलित्वा अकाण्डे = अनवसरे एव दर्भस्य = कुशस्य अङ्कुरेण = अग्रभागसूच्या कुशाग्रसूचिकया चरणः = मम पादः क्षतः = सव्रणः विद्ध इत्युक्त्वा = इति हेतुमभिनीय वा विवृत्तवदना = विवृतं = प्रत्यावृतं वदनं = मुखं यया सा विवृत्तवदना = वदनं विवृत्य विलोकयन्ती मत्सन्मुखीना द्रुमाणां = वृक्षाणां शाखासु = स्कन्धेषु, विटपेषु असक्तं = अलग्नम्, असंबद्धमपि वल्कलं = परिधानीयं वल्कलवस्त्रं विमोचयन्ती = मन्दं मन्दं मोचनव्यापारमभिनयन्ती स्थिता = अवस्थिता आसीत् । कुशाग्रभागपादव्यधनाभावेऽपि तद्व्याजेन वल्कलस्य शाखास्वनासक्तस्यापि विमोचनछलेन निरुद्धगमना स्वाशयं स्पष्टमेव प्रकटितवतीति भावः ।
मित्र ! स्वसखीभ्यां सार्द्धं स्वाश्रमे गच्छन्ती सा शकुन्तला द्वित्राणि पदानि गत्वा मार्गमध्ये कुशाग्रेण मम पादौ क्षतौ इति दुःखातिशयं प्रदर्शयन्ती पार्श्वस्थतरुशाखायामनासक्तमपि स्वकीयं वस्त्रं मोचयितुं प्रयतमाना सा मुखं विवृत्य मामेव विलोकयन्ती किञ्चित्कालं तस्थौ। एतेनानुमीयते यत् सा मद्विषयकानुरागातिशयादेवेदृशं व्यापारं कृतवतीत्यर्थः ।
अत्र विरोधाभासविभावना-हेतु-व्याजोक्ति-स्वभावोक्ति-वृत्तिश्रुति-छेकानुप्रासा अलङ्कारा वसन्ततिलकावृत्तं च ॥ १२ ॥
जाते समय उसने बड़े ही हाव-भाव एवं कटाक्षपूर्वक मेरे प्रति अपना प्रेम भाव व्यक्त किया है। जैसे—
सखियों ! मेरा पैर कुश के तीखे अग्रभाग से बिंध गया है। इस बहाने वह कृशाङ्गी शकुन्तला मेरे ही वास्ते कुछ देर तक ठहर गई तथा शाखाओं में न अटके हुए भी अपने वल्कलवस्त्र को झूठे ही छुड़ाने के बहाने से वह मेरी तरफ घूम-घूम कर अनुराग सहित प्रेम भाव से मुझे बार-बार देख रही थी ॥ १२ ॥
विशेष—नायिकागत अनुराग के संकेत का नाम विलम्ब है, जिसमें प्रेमिका रास्ते में किसी बहाने से मुँह मोड़कर नायक को देखती है—'विलम्बस्तु पथि व्याजात् परिवृत्यापि दर्शनम्।' एकाएक दर्भाङ्कुर से चरण क्षत का बहाना अत्युपकारक है। अन्यथा ब्याज नहीं बन सकता था। सूक्ष्म दर्भ के अंकुर के चूबने में उसके निकालने में भी विलम्ब सम्भव है जिससे अधिक समय तक नायिका का नायक को देख सकने का अवसर मिल जाता है।
१०४ || अभिज्ञानशाकुन्तलम्
विदूषकः—तेण हि गहीदपाहेओ होहि। किदं तुए उववणं तवोवणं त्ति पेक्खामि [ तेन हि गृहीतपाथेयो भव। कृतं त्वयोपवनं तपोवनमिति पश्यामि ] ।
राजा—सखे, तपस्विभिः कैश्चित् परिज्ञातोऽस्मि। चिन्तय तावत् केनापदेशेन सकृदप्याश्रमे वसामः।
विदूषकः—राजोक्तं निशम्य विदूषकः अनन्तरकर्तव्यमुपदिशति—तेन = तस्मात् कारणात् हि = निश्चयेन गृहीतं = प्राप्तं पाथेयं = मार्गोपयोगि धनादिकं येन स गृहीतपाथेयः स्वीकृत-शम्बलः (यथा विदेशं जिगमिषुं प्रति कश्चिद्वदति-पाथेयं गृहाणेति तद्वत् पथि साधु पाथेयं भवति यद्वा पाथेयपदेन आश्वासनसाधनं प्रेम लक्ष्यते।) कृतं = रचितं, त्वया = भवता उप-वनम् = उद्यानं तपोवनं—तपसः = तपस्याः वनं = विपिनं इति तपोवनम् इति = एवं पश्यामि = विलोकयामि। तपोवनमिदं त्वया शकुन्तलाविषयप्रेमव्यापारेण उपवनमिव कामिजन-विहारयोग्यं कृतमिति भावः। यद्वा त्वया दुष्यन्तेन इदं शान्ताश्रमपदम् उपवनं क्रीडा-काननमिव निष्पादितम्। परस्परानुरागोत्पत्तेरनुरूपमुपवनमेव न तपोवनमिति तादृशानु-रागचर्चाविष्करणादिभिराश्रममुपवनानां नीतम्। श्रमप्रधानस्य तपोवनस्येदानीमनुरा-प्रधानता जातेत्याशयः।
राजा—कण्वाश्रमे निवासमिच्छन् राजा विदूषकमुपायं पृच्छति—सखे ! = मित्र ! कैश्चित् = कैरपि तपस्विभिः = तापसैः परिज्ञातः = मृगयार्थमागतो राजा दुष्यन्तः तपोवन-मागत इति रूपेण ज्ञातोऽस्मि अत एव नेपथ्ये सन्निहितो मृगयाविहारी राजा दुष्यन्त इत्यादि तपस्विभिरुद्घोषितम्। अतो राजभावगोपनपूर्वकं तत्रोषितुं न शक्यते। न वा प्रयोजनमनन्तरा तत्र गमनं संभाव्यते राजस्थानानौचित्यात्। राजभावेन वासश्चानुचितः। अतो हि त्वं चिन्तय = विचारय केन अपदेशेन = व्याजेन, निमित्तेन सकृत् = एकवारमपि आश्रमे = तपोवने वसामः = तिष्ठामः सोऽपि महान् लाभ इति भावः। चिन्तयेत्यनेन विदूषकस्य प्रतिभाकौशलमात्मनश्च तथाविधोपायाप्रतिभानं सूचितम्।
विदूषक—वाह, तब तो उसने आपको प्रेम मार्ग के लिए पाथेय को ही प्रदान कर दिया है। इस प्रकार प्रेम लीला से तो आपने इस तपोवन को अपने अन्तःपुर का उपवन (विलास स्थान) ही बना लिया है।
विशेष—परदेश जाते समय आत्मीय बन्धुजन अपने बन्धुओं को मार्ग में जलपान, भोजन आदि के लिए जो कुछ देते हैं उस पाथेय कहते हैं। पाथेय शब्द की व्युत्पत्ति है, 'पथि साधु पाथेयम्'—अर्थात् रास्ते में उपयोग की वस्तु। प्रेम पथ पर चलने वालों के लिए नायिका विषयक चिन्तन ही पाथेय है। विदूषक के कहने का तात्पर्य है कि प्रेम-लीला तपोवन में नहीं हो सकती, उपवन में सर्वथा सम्भव है। मित्र! तपोवन जैसे अनुपयुक्त स्थान में भी तुमने प्रेम के उपयुक्त स्थान उपवन जैसी स्थिति उत्पन्न कर दी है।
राजा—सखे! इस आश्रम के कुछ तपस्वियों ने मुझे पहचान लिया है। जरा ऐसा सोचो कि जिससे मैं पुनः इस आश्रम में एक बार और जा सकूँ तथा अपनी प्राणप्रिया शकुन्तला को भली भाँति देख सकूँ।
द्वितीयोऽङ्कः १०५
विदूषकः—को अवरो अवदेसो तुम राआणं। णीवारछट्ठभाअं अम्हाणं उप- हरंतु त्ति [ कोऽपरोऽपदेशस्तव राज्ञः। नीवारषष्ठभागमस्माकमुपहरन्त्विति ]
राजा—मूर्ख, अन्यद्भागधेयमेतेषां रक्षणे निपतति यद्रत्नराशीनपि विहायाभि- नन्द्यम्। पश्य—
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि ¹तत्फलम्। तपः षड्भागमक्षय्यं ददत्यारण्यका हि नः॥ १३॥
विदूषकः—चिन्तयन्नाह विदूषकः भवतः = राज्ञः कृते कः अपरः = कोऽन्यः अपदेशः = व्याजः नीवारस्य षष्ठोभाग इति नीवारषष्ठभागः तं नीवारषष्ठभागं = कररूपकम् अस्माकं = नः उपहरन्तु = आनयन्तु, इति मुनिधान्यस्य षष्ठांशं कररूपं राजग्राह्यं भागमुपाहरत इति तापसान् नियुञ्जानः अत्र निवसेति भावः।
राजा—नायमुपायः समुचित इति विचारयन् राजा विदूषकमाह—मूर्ख ! = विशेषा- नभिज्ञ! अज्ञ माढव्य ! अन्यत् = नीवारषष्ठभागातिरिक्तं भागधेयं = राजग्राह्यं भागं एतेषां = तापसानां रक्षणे = पालने कृते सति तन्निमित्तत्वेन निपतति = स्वयमेवाविर्भवति, तेषां रक्षणेन प्राप्यते, यत् = भागधेयं = करं रत्नराशीन् = हीरकादिरत्नपूगान् विहाय = परित्यज्य अभिनन्द्यं = श्लाघ्यं रत्नराश्यपेक्षयाऽपि विशेषतः प्रशस्यमित्यर्थः। एते हि तापसा नीवारषष्ठांशापेक्षयाऽभिनन्दनीयं स्वं पुण्यभागं मह्यं स्वयमेव वितरन्ति। अतो रत्नदानात् काचयाचनमिव तेभ्यो नीवारषष्ठभागयाचनमिति भावः। पश्य = विलोकय।
अन्वयः—वर्णेभ्यः नृपाणां यत् फलम् उत्तिष्ठति तत् क्षयि, हि आरण्यकाः न अक्षय्यं तपः षट्भागं ददति।
विदूषकेण नीवारषष्ठभागाहरणव्याजेन कण्वाश्रमगमनोपाये सूचिते तस्यानुचितत्वं
विदूषक—क्या, यहीं कम है कि आप यहाँ के राजा हैं। भला, आपके लिए अतिरिक्त बहाने के ढूँढ़ने की क्या जरूरत है कि नीवार (मुनि-अन्न) का छठा हिस्सा लाइये।
विशेष—यहाँ विदूषक का परिहास है। वह यहाँ ऐसा बहाना बताता है कि राजा उसे सुनकर हँस पड़े। महाराज मनु ने ऐसा नियम बताया है कि राजा पशु और सोने का पचासवाँ भाग तथा धान्य का छठा भाग आठवाँ भाग या बारहवाँ भाग कर के रूप में ले सकता है—
‘पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः। धान्यानामष्टमो भागः षष्ठो द्वादश एव वा॥’ ७।१३०
इसके अनुसार ऋषि-मुनि लोग बिना जोते-बोये होने वाले नीवार नामक धान्य को किसी तालाब के तट पर राजकर के रूप में रख देते थे। यहाँ राजा की ओर से पशु, पक्षी आदि के निमित्त दान हो जाता था।
राजा—अरे मूर्ख ! ये तपस्वी तो मुझे सर्वश्रेष्ठ पुण्य का सर्वोत्तम भाग कर के रूप में देते ही हैं, जिसे राजा लोग रत्नों की राशि से भी अधिक पसन्द करते हैं। देखो—
जो अन्य वर्णों से कर के रूप में हमें प्राप्त होता है, वह तो नश्वर=नष्ट होने वाला है, पर ये वनवासी तपस्वी तो हमें अपनी तपस्या के छठे हिस्से के रूप में देते हैं, जो कभी नष्ट नहीं हो सकता। अतः वह साधारण कर से बहुमूल्य वस्तु है॥ १३॥
विशेष—यहाँ राजा के द्वारा विदूषक को मूर्ख कहने का तात्पर्य है कि इन तपस्वी ऋषियों से
पाठा०—१. तद्धनम्।
१०६ | अभिज्ञानशाकुन्तलम्
( नेपथ्ये )
हन्त सिद्धार्थौ स्वः ।
विवृण्वन् राजा दुष्यन्तः प्राह—यदुत्तिष्ठतीति । वर्णेभ्यः = ब्राह्मणादिभ्यश्चतुर्वर्णेभ्यः नृपाणां = रक्षयितॄणां राज्ञां कृते यत् धान्यषड्भागहिरण्यदशभागादि-मन्वादिस्मृतिकार-निर्दिष्टं फलं = राजग्राह्यो भागः उपतिष्ठति = उत्पद्यते लभ्यते, तत् = फलं क्षयि = उपभोगादिना क्षयशीलं विनाशि, हि = निश्चयेन आरण्यकाः = वनवासिनः तपस्विनः नः = अस्माकं कृते छेत्तुं शक्यं क्षयं न क्षयम् छेत्तुमशक्यम् अक्षयं = अविनाशि = अशक्यक्षयम् तपःषड्भागं = तपसः षष्ठं भागं भोगाय वर्गप्रदं सुकृतं ददति = वितरन्ति । अतः तपस्विनां मुनिजनानां संरक्षणं राज्ञोऽवश्यं कर्तव्यमिति भावः ।
अयं भावः—अरे माधव्य ! एते हि तपस्विनः मह्यं यादृशं कररूपं राजभागं वितरन्ति स हि रत्नौघादप्युत्तमोऽस्ति । पश्य वयं स्मः राजानः चतुर्णां वर्णानां संरक्षणेन तेभ्यो यः राजग्राह्यं भागं गृह्णीमः स खलु भोगेन क्षीयते परमेते वनवासिनः तपस्विनः मुनयो मम पराक्रमरक्षिते तपोवने निरुपद्रवं तपोऽनुतिष्ठन्तः यं तपः षड्भागं मह्यं स्वतो ददति स खलु न कथमपि विनाशशीलो भवितुमर्हति अपि तु इहामुत्र शुभफलप्रदत्वेना-त्यन्तमुपकरी । अतस्तेभ्यो मुनिभ्यो नीवारषड्भागाहरणं मन्मते सर्वथाऽनुचितमेव प्रतिभाति ॥ १३ ॥
अथ मुनिप्रवेशं सूचयन्नाह--( नेपथ्ये = प्रसाधनकक्षे ) हस्त ! = हर्षे सिद्धार्थौ सिद्ध सयत्नः अर्थः = प्रयोजनं प्रायोऽस्तीति तौ सिद्धार्थौ राजदर्शनात् निष्पन्नप्रयोजनौ = कृत-कृत्यौ स्वः = भवावः ।
कर जैसी छोटी वस्तु नहीं ली जा सकती, भले ही वे राजदेय कर के रूप में कहीं कुछ वस्तु रखें। उनसे जब कर से भी उत्तम वस्तु तपस्या का पुण्य अपने आप प्राप्त हो जाता है, तो कर के लिए उनसे कहना मूर्खता के अतिरिक्त कुछ नहीं है । अर्थात् धर्मात्मा राजा प्रतिदिन जो धर्म का करता है, उससे राजा की आयु धन और राष्ट्र की अभिवृद्धि होती हैं, तथा ब्राह्मण, क्षत्रिय, वैश्य और शूद्र इन चारों वर्णों से जो राजा को कर के रूप में मिलता है, वह राज्यव्यवस्था में उपयोग होकर नष्ट हो जाता है, किन्तु उस राज्य-व्यवस्था से सुरक्षित रहकर वनवासी ऋषि-मुनि तो तप के द्वारा जो पुण्य अर्जित करते हैं, उसका छठा भाग धर्मात्मा राजा को मिलता है, जो कभी नष्ट नहीं होता—
‘संरक्ष्यमाणो राजा यं कुरुते धर्ममन्वहम् ।
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥’ ७।१३६
‘यदधीते यद् यजते यद्ददाति यदर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥’ ८।३०५
महाभारत के शान्ति पर्व के अन्तर्गत राजधर्म-व्यवस्था प्रकरण में भी लिखा है कि राजा को प्रजा की रक्षा के लिए प्रजा से छठा भाग कर के रूप में लेना चाहिए—
‘आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन ।
षड्भागमविता प्राज्ञः तासामेवाभिगुप्तये ॥’ ६८।२७
( नेपथ्य में ) अहो, इस राजा के दर्शन से हमलोग कृतार्थ हो गये ।
द्वितीयोऽङ्कः
१०७
राजा—( कर्णं दत्त्वा ) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
( प्रविश्य )
दौवारिकः—जेदु भट्टा। एदे दुवे इसिकुमारआ पडिहारभूमिं उवट्ठिदा [ जयतु भर्ता । एतौ द्वौ ऋषिकुमारकौ प्रतीहारभूमिमुपस्थितौ ] ।
राजा—तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः—एसो पवेसेमि [ एष प्रवेशयामि ] ( इति निष्क्रम्य, ऋषिकुमाराभ्यां सह प्रविश्य ) इदो इदो भवंतो । [ इत इतो भवन्तौ ]
( उभौ राजानं विलोकयतः )
प्रथमः—अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवोपपन्नमेतदृषिभ्यो नातिभिन्ने राजनि । कुतः—
राजा—( कर्णं दत्वा = श्रुत्वा–श्रवणस्याभिनयं विधाय ) अये = अहो धीरः = गम्भीरः प्रशान्तः = अतिशान्तः स्वरः = शब्दः येषां ते तै धीरप्रशान्तस्वरैः = शान्तमधुरस्वरैः तपस्विभिः = तापसैः भवितव्यम्। धैर्यव्यञ्जकस्वराः तपस्विनः समागता इत्यनुमीयते इत्यर्थः ।
दौवारिकः—जयतु भर्ता = सर्वोत्कर्षण वर्ततां स्वामी । एतौ = पुरो दृश्यमानौ द्वौ = द्विसंख्याकौ ऋषिकुमारकौ = मुनिबालकौ प्रतीहारभूमिं = प्रतिहारस्य द्वारस्य भूमिं = स्थानम् द्वारदेशम्, उपस्थितौ = प्राप्तौ स्तः ।
राजा—तेन = प्रोक्तेन कारणेन हि निश्चयेन तौ = ऋषिकुमारकौ अविलम्बितं = न विलम्बितमविलम्बितं = सत्वरं प्रवेशय = अन्तरागमय ।
दौवारिकः—एषः = अहं अथ नैव प्रवेशयामि = अन्तः आनयामि ( इति = इत्युक्त्वा निष्क्रम्य = रङ्गमञ्चाद्वहिर्गत्वा ऋषिकुमाराभ्यां = मुनिबालकाभ्यां सह = साकं पुनः प्रविश्य = रङ्गमञ्चे उपस्थाय ) इतः, इतः = अनेन मार्गेण, अनेन मार्गेण आगच्छतां भवन्तौ = युवाम् ।
( उभौ = द्वौ ऋषिकुमारकौ राजानं = भूपतिं दुष्यन्तं विलोकतः = पश्यतः )
प्रथमः—प्रथमः = द्वयोरन्यतरः ऋषिकुमारः अहो = आश्चर्यं परेरनभिभवनीयः
राजा—( कान लगाकर ) यह प्रशान्त, गम्भीर स्वर तो तपस्वियों का सा प्रतीत होता है ।
( प्रवेश कर )
**दौवारिक—**महाराज की जय हो, जय हो, महाराज ! ये दो ऋषिकुमार दरवाजे पर उपस्थित हैं। उनके लिए महाराज की आज्ञा है ?
**राजा—**बिना विलम्ब उन्हें शीघ्र अन्दर लाओ ।
**दौवारिक—**महाराज की जो आज्ञा बस, यह मैं अन्दर लाया ( बाहर निकल जाता है तथा मुनि बालकों के साथ पुनः अन्दर जाकर ) आप लोग इस मार्ग से अन्दर पधारिए, इधर से पधारिए ।
( दोनों ऋषिकुमार राजा को देखते हैं )
**प्रथम ऋषिकुमार—**तेजस्वी होते हुए भी इस राजा की आकृति से ही विश्वसनीयता =
पाठा०—१. दृष्टिकल्पं राजनि ।
| १०८ | अभिज्ञानशाकुन्तलम् |
|---|
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति। अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४ ॥
तेजोविशेषो दीप्तिः तद्वतः दीप्तिमतोऽपि = तेजस्विनोऽपि अस्य = राज्ञो दुष्यन्तस्य वपुषः = शरीरस्य विश्वसनीयता — विश्रम्भभाजनता, विश्वासोत्पादकप्रसादगुणशालिता। अथवा = पक्षान्तरे नेदं विस्मयास्पदम् उपपन्नम् = उचितं युक्तमेव एतत् = इदं वस्तु विश्वासपात्रता ऋषिभ्यः = मुनिभ्यः नातिभिन्ने = अत्यन्तभेदरहिते प्रायः समाने राजनि = प्रजारञ्जन-शीले भूपतौ दुष्यन्ते। कृतः = यतः।
अन्वयः—अमुना अपि सर्वभोग्ये आश्रमे वसतिः अध्याक्रान्ता। अयमपि रक्षायोगात् प्रत्यहं तपः सञ्चिनोति वशिनः अस्यापि चारणद्वन्द्वगीतः केवलं राजपूर्वः मुनिः इति पुण्यः शब्दः मुहुः द्यां स्पृशति।
प्रथमो मुनिकुमारो राज्ञो दुष्यन्तस्य ऋषि समानतां समर्थयति—अध्याक्रान्तेति। अमुना = राज्ञा दुष्यन्तेन सर्वभोग्ये = सर्वै = ब्रह्मचारिप्रभृतिभिः भोग्ये आश्रयणीये गृहस्थाश्रमे यद्वा सर्वाणि = पृथवीधनरत्नवनितादीनि भोग्यानि यस्मिन् तथाविधे आश्रमे = राज्याश्रमे वसतिः = गृहं निवासो वा अध्याक्रान्ता = स्वीकृता। मुनिपक्षे सर्वैः अध्यय-नार्थमागतैः आश्रमवासिभिः शिष्यैः आश्रयणीये ब्रह्मचर्याश्रमे स्थानमङ्गीकृतम्। ऋषि-वदसावपि आश्रमवासीति भावः। अयमपि = एष राजापि रक्षायोगात् = रक्षेव = प्रजापालनमेव योगः = उपायः तस्मात् यद्वा रक्षाया योगः = उद्योगः तस्मात् प्रत्यहं =
दयालुता तथा सज्जनता झलक रही है। अथवा ऋषितुल्य इस राजा में यह साधु शीलता तो उचित ही है, क्योंकि—
यह राजा भी ऋषि-मुनियों की तरह सबके उपकार करने वाले आश्रम = गृहस्थाश्रम में निवास करता है। प्रजा की उचित रक्षा करके यह भी प्रतिदिन तप का संचय करता है = अपना पुण्य तथा तप बढ़ाता है। इन्द्रिय विजयी इस राजा का पुण्य, यश तथा राजपूर्वक मुनि शब्द चारणों द्वारा देवलोक में गाया जाता है। अर्थात् स्वर्ग लोक में देवता लोग इन्हें राजर्षि नाम से स्मरण करते हैं। अतः यह राजा तपस्वी मुनियों की तरह परोपकारपरायण होने से राजर्षि नाम से प्रसिद्ध हैं। इन दोनों में अन्तर इतना ही है कि इनके नाम में ऋषि के पहले राज शब्द सम्बद्ध है। अतः इन्हें राजर्षि कहते हैं ॥ २४ ॥
विशेष—यहाँ श्लेषालङ्कार की महिमा से राजा का चरित्र ऋषियों के चरित्र के समान दिखाया गया है। गृहस्थ तथा मुनि ये दोनों परोपकारी होते हैं। उपकार निरत मुनियों की तो बात ही अलग है, पर गृहस्थ भी अपनी अर्जित सम्पत्ति से सभी आश्रमों के लोगों का पालन करता है इसीलिए गृहस्थाश्रम को सर्वभोग्य बताया है। भगवान् मनु के अनुसार गृहस्थाश्रम सर्वश्रेष्ठ बताया गया है, क्योंकि वह इतर तीनों ब्रह्मचर्याश्रम, वानप्रस्थाश्रम तथा संन्यासाश्रम का पालन-पोषण करता है:—
‘सर्वेषामपि चैतेषां वेदस्मृतिविधानतः।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥’ ६।८९, ९० ॥
द्वितीयोऽङ्कः १०९
द्वितीयः—गौतम ! अयं स बलभित्सखो दुष्यन्तः।
प्रथमः—अथ किम् ?
द्वितीयः—तेन हि।
प्रतिदिनम् सर्वदा तपः = तपस्यां, लोकोत्तरधर्मं ऋषिकृततपः षष्ठांशं पुण्यम् 'पुण्यात् षड्भागमादत्ते न्यायेन परिपालयन्' इति याज्ञवल्क्योक्तेः। संचिनोति = संगृह्णाति। मुनिपक्षे-रक्षार्थं शरीरस्थैर्यसम्पत्तये योगः = अष्टाङ्गयोगः यमनियमाद्यात्मकः तन्निमित्तं तपः = कृच्छ्रचान्द्रायणादि संचिनोति = करोति। वशिनः = संयमिनो जितेन्द्रियस्य अस्य राज्ञो दुष्यन्तस्यापि चरणानां=गायनकुशलानां सिद्धयोनिविशेषाणां द्वन्द्वैः = मिथुनैः गीतः वर्णितः पुण्यः पवित्रः केवलं राजपर्वः = राजशब्दविशिष्टः मुनिः = ऋषिः इति = एवंभूतः शब्दः राजर्षिशब्दः मुहुः = शश्वत् द्यां = देवलोकम्, स्पृशति = गगनं व्याप्नोति। मुनिपक्षेऽपि जितेन्द्रियाणां मुनीनां तपोऽनुष्ठानप्रभावेण चारणद्वन्द्वैर्भक्त्या तन्नामस्मरणा-त्मकगीतानि देवलोके गीयन्ते इति समानम्।
अयं भावः— यथा ऋषयोऽध्ययनार्थमागतान् बहून् स्वाश्रमे वासयन्ति तथैवायमपि राजा सर्वान् आश्रमिनः परिपालयन् गृहस्थाश्रमे निवसति यथा वा ऋषयः तपोऽनुष्ठा-नोपयिकं स्वदेहं संपादयन्तो यमनियमाद्यष्टाङ्गप्रयोगसाधनद्वारा कृच्छ्रचान्द्रायणादीनि तपांसि कुर्वते तथैवायमपि राजा दुष्यन्तः यथाशास्त्रं सर्वेषां पालनं कुर्वन् ऋषिभ्यः तपः षष्ठांशभागमाददानः तपःपुण्यं संचिनोति। अपि च यथा सिद्धगन्धर्वप्रभृतिभिः जितेन्द्रियाणामेषां मुनीनां पुण्यनामानि स्वर्गे गीयन्ते तथैव संयमिनः सञ्चितपुण्यराशे-रस्यापि राजर्षेः दुष्यन्तस्यापि पुण्यानि यशांसि नामानि च तैः निरन्तरं जेगीयन्ते। अत्र व्यतिरेक काव्यलिङ्ग-श्लेषालङ्काराः मन्दाक्रान्ता छन्दश्च ॥ १४ ॥
द्वितीयः—अतोऽस्य राजर्षेरपूर्वो महिमा। अथ द्वितीयो मुनिकुमारः स्वसहचरद्वारा राजर्षेर्दुष्यन्तस्य तथाविधं माहात्म्यमाकर्ण्य सादरं सविस्मयमयं पृच्छति—गौतम ! अयं = एष पुरोवर्ती सः = प्रसिद्धः दुर्धर्षदानवजयादौ साहाय्यकरणाद् वलमित्सखः = इन्द्रमित्रः दुष्यन्तः = राजर्षिदुष्यन्तः।
प्रथमः—अथ किम् = किम् अन्यत् ?
द्वितीयः—द्वितीयः ऋषिकुमारः राज्ञः प्रभावं वर्णयन्नाह—तेन = तस्मात् कारणात् हि = निश्चयेन।
पद्मपुराण में लिखा है कि जिस प्रकार जीव माता का आश्रय ण कर जीता है उसी प्रकार सर्भ आश्रम गृहस्थ का आश्रय कर पनपते हैं—
'यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमाः॥'
रत्नाकर में चारण की परिभाषा निम्न प्रकार से वर्णित है—
'किङ्किणीवाद्यवेदी च वृत्तो विकटनर्तकैः।
मर्मज्ञः सर्वरोगेषु चतुरश्चारणो मतः॥'
द्वितीय ऋषिकुमार—सखे ! गौतम ! क्या बल नामक असुर को मारने वाले देवराज इन्द्र के मित्र राजा दुष्यन्त यही हैं ?
प्रथम—और क्या, यही तो हैं।
द्वितीय—उस कारण से निश्चय ही—
११० अभिज्ञानशाकुन्तलम्
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री- मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति । आशंसन्ते ¹सुरयुवतयो बद्धवैरा हि दैत्यै- रस्याधिज्ये धनुषि विजयं पौरहूते च वज्रे ॥ १५ ॥
उभौ—( उपगम्य ) विजयस्व राजन् !
**अन्वयः—**यत् नगरपरिघप्रांशुबाहुः एक अयम् उदधिश्यामसीमां कृत्स्नां धरित्रीं भुनक्ति एतच्चित्रम् । हि दैत्यैः बद्धवैराः सुरयुवतयः अस्य अधिज्ये धनुषि पौरहूते वज्रे च विजयम् आशंसन्ते ।
द्वितीयो मुनिकुमारकः राज्ञो दुष्यन्तस्य बलभित्सखत्वं समर्थयन् ब्रवीति—नैतच्चित्रमिति । यत् = यस्मात् नगरस्य = पुरस्य परिघः = अर्गलः तद्वत् प्रांशू = दीर्घौ, उन्नतौ बाहू = भुजौ यस्य स नगरपरिघप्रांशुबाहुः = पुरद्वारागंलदीर्घपीवरभुजदण्डः, एकः= एकाकी अयं = पुरोवर्ती राजा दुष्यन्तः उदधिना = समुद्रेण श्यामा = नीलवर्णा सीमा = पर्यन्तो यस्याः सा तामुदधिश्यामसीमां = समुद्रमेखलां, कृष्णसागरपर्यन्तां वा कृत्स्नां = समग्रां = निखिलां धरित्रीं = पृथ्वीम् भुनक्ति एतत् न चित्रम्=नैतदाश्चर्यजनकम् हि=यतः दैत्यैः = दितिपुत्रैः, दानवैः बद्धवैराः = वद्धद्वेषाः सत्यः सुरयुवतयो देवाङ्गनाः अप्सरसः अस्य राज्ञो दुष्यन्तस्य अधिज्ये = आरोपितमौर्विके = धनुषि = चापे पौरहूते वज्रे = इन्द्रहस्तस्थिते कुलिशके च विजयं = दैत्यानां पराजयकरणात्मकं जयम् आशंसन्ते = संभावयन्ति प्रार्थयन्ति निश्चिन्वन्ति । तथा च न केवलं निखिलभूमण्डलवालकोऽयं, किन्तु महेन्द्रसमपराक्रमो देवानामाप युद्धेषु साहाय्यमाचरन्तीति भावः ।
**अर्थ भावः—**आजानुबाहुः पीनदृढवक्षःस्थलः समग्रां पृथवीं प्रशासदसौ राजा दुष्यन्तः सर्वेभ्यो भूपतिभ्योऽतिशेते इति नाश्चर्यकरं प्रत्युत दानवैः सह देवानां संग्रामे समुपस्थिते सति महेन्द्रसाहाय्याय समागतस्यास्य समारोपितमौर्वीके धनुषि युद्धत्रासादिभीरवो देवाङ्गना अस्य विजयं वाञ्छन्ति । तस्मात् सर्वातिशोर्यशालिनोऽस्य राज्ञो दुष्यन्तस्य सकलमहीमण्डलपरिपालनक्षमत्वं नाश्चर्यजनकं प्रत्युत समुचितमेव प्रतिभाति ।
अत्रोपमा—काव्यलिङ्ग—पर्यायोक्त-दीपकालङ्कारा मन्दाक्रान्ता वृत्तं च ॥ १५ ॥
उभौ—उभौ = द्वावपि ऋषिकुमारौ ( उपगम्य = समीपमुपसृत्य ) राजन् = हे महाराज ! विजयस्व = विजयतात् ।
यह आश्चर्य की बात है कि यह राजा जिनकी भुजाएँ लम्बी-लम्बी नगर द्वार की अर्गला के समान हैं, वे अकेले ही समुद्र पर्यन्त पृथ्वी की रक्षा करते हैं और उनका उपयोग करते हैं, क्योंकि दैत्यों से वैर रखने वाले देवता लोग भी युद्ध में इन्द्र के वज्र से या इस राजा के चढ़े हुए धनुष से ही अपनी विजय को आशा करते ही रहते हैं । अर्थात् यह राजा सम्पूर्ण पृथ्वी का एकच्छत्र राज्य करता है और इसकी सहायता देवगण भी किया करते हैं और स्वर्ग में जाकर यह युद्ध में इन्द्र को भी सहयोग देता हैं, इससे आश्चर्य ही क्या है ? ॥ १५ ॥
दोनों—( राजा के पास जाकर ) महाराज ! आप विजयी हों ।
पाठा०—१. समितिषु सुराः सक्तवैराः ।
द्वितीयोऽङ्कः
१११
राजा--( आसनादुत्थाय ) अभिवादये भवन्तौ !
**उभौ--**स्वस्ति भवते ( इति फलान्युपहरतः ) ।
राजा--( सप्रणामं परिगृह्य ) १आज्ञापयितुमिच्छामि ।
**उभौ--**विदितो भवानाश्रमसदामिहस्थः तेन भवन्तं प्रार्थयन्ते ।
**राजा--**किमाज्ञापयन्ति ।
राजा—( आसनादुत्थाय = सिंहासनादुत्थितो भूत्वा ) भवन्तौ = युवाम् अभिवादये = वन्दे, प्रणतोऽस्मि ।
**उभौ—**भवते = आयुष्मते तुभ्यं स्वस्ति = कल्याणं भवतु ( इति = एवमुक्त्वा राज्ञे फलानि उपाहरत = अर्पयतः ) ।
राजा—( सप्रणामं = प्रणामेन=नत्या सह सप्रणामं=नतिपूर्वकम् परिगृह्य=गृहीत्वा, स्वीकृत्य ) भवद्भ्यामात्मानम् आज्ञापयितुं = आज्ञाही भवितुम् इच्छामि = वाञ्छामि ।
**उभौ—**ऋषिकुमारौ स्वकार्यं निवेदयतः-आश्रमसदां = आश्रमवासिनां मुनीनां भवान् = त्वमिहस्थः विदितः = ज्ञातः । तेन = कारणेन ते भवन्तं त्वां प्रार्थयन्ते = निवेदयन्ति ।
**राजा—**नृपो दुष्यन्तः कथयति यत् किम् आज्ञापयन्ति = आदिशन्ति ते आश्रमसदो मुनयः ।
राजा--( आसन से उठकर ) मैं आप दोनों को प्रणाम करता हूँ । और आप लोगों से शुभ आशीर्वाद की कामना करता हूँ ।
**दोनों—**राजन् ! आपका कल्याण हो । ( दोनों ऋषिकुमार राजा को फल भेंट करते हैं )
**विशेष—**ऋषिकुमारों द्वारा राजा दुष्यन्त को फल देने का तात्पर्य है कि भारतीय मर्यादा के अनुसार राजा, गुरु और वैद्य के पास खाली हाथ नहीं जाना चाहिए । हाथ में उपहार के रूप में कुछ फूल, फल लेकर राजा आदि का दर्शन करना चाहिए—
'रिक्तपाणिर्न गच्छेत् राजानं दैवतं गुरून् । नैमित्तिकं च वैद्यं च फलेन फलमाहरेत् ॥'
धर्मशास्त्रों में निर्देश किया गया है कि देवता, राजा, गुरु, भार्या, वैद्य एवं ज्योतिषियों के पास खाली हाथ नहीं जाना चाहिए—
'दैवो राजा गुरुर्भार्या वैद्यो नक्षत्रपाठकः । रिक्तपाणिर्न गन्तव्यः तत्र कार्यं न सिध्यति ॥'
इसलिए किसी आदरणीय व्यक्ति से मिलते समय आदर पूर्वक उसे उपहार में यथाशक्ति फल, फूल आदि कुछ अवश्य दिया जाना चाहिए । राजा, गुरु आदि के दर्शन करते समय खाली हाथ नहीं जाना चाहिए—
'अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम् । रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ॥'
इसलिए स्मृतियों के इस नियम के अनुसार ऋषिकुमारों ने राजा दुष्यन्त को आदरपूर्वक फलोपहार दिया था ।
राजा—( प्रणामपूर्वक फल लेकर ) मैं आप लोगों के आने का उद्देश्य भी सुनना चाहता हूँ ।
**दोनों—**आपका यहाँ आना तपस्वियों को ज्ञात हो गया है। अतः वे आप से अभ्यर्थना करते हैं ।
**राजा—**तो, कहिए पूज्य तपस्वियों की क्या आज्ञा है ?
पाठा०—१. आगमनप्रयोजनं ज्ञातुमिच्छामि ।
| ११२ | अभिज्ञानशाकुन्तलम् |
|---|
उभौ--तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति ।
राजा--अनुगृहीतोऽस्मि ।
विदूषकः--( अपवार्य ) एसा दाणि अणुऊला ते अब्भत्थणा [ एषेदानीमनुकूला तेऽभ्यर्थना ] ।
राजा--( स्मितं कृत्व ) रैवतक, ^१मद्वचनादुच्यतां सारथिः सबाणासनं रथ-मुपस्थापयेति ।
उभौ—आश्रमवासिनां प्रार्थनाप्रकारं उभौ = द्वावपि ऋषिकुमारकौ कथयतो यत् तत्रभवतः = पूज्यस्य श्रीमतः कण्वस्य महर्षेः = महामुनेः कुलपतेः कण्वस्य असान्निध्यात् = सान्निध्याभावात् अनुपस्थित्या रक्षांसि = राक्षसा नः = अस्माकं इष्टिविघ्नं = यज्ञबाधाम् उत्पादद्यन्ति = जनयन्ति तत् = तस्मात्, अतः कतिपयरात्रम्=कतिपयाः=काश्चन रात्रयः = निशा यस्मिन् तत् कतिपयरात्रम् ( रात्रिकाले रक्षसां सञ्चारेण भयसम्भवात् ) सारथिः= सूत एव द्वितीयः = सहायो यस्य स सारथिसहायः तेन सारथिसहायेन = सारथिना साकं भवता =त्वया दुष्मन्तेन आश्रमः = तपोवनं नाथेन = रक्षणेन सहितः = सनाथः न सनाथः- असनाथः सनाथः क्रियतामिति सनाथीक्रियताम् = सस्वामिकः क्रियताम्, विधीयताम् परिपाल्यताम् ( राजपरिजनसम्बन्धे हि तपोवनोपराधसम्भवात् सारथिद्वितीयेनेत्युक्तम् ) ।
राजा—अनुगृहीतः = कृतकार्यः अस्मि = भवामि भवदभ्यर्थनामङ्गीकरोमीति भावः । तपोधनानां नियोगस्य स्वाभ्युदयहेतुत्वात् राज्ञा सः अनुग्रहः एव संभावितः । अत्र केना-व्यपदेशेन पुण्याश्रमं गन्तुमिच्छो राज्ञः ऋषिकुमारकृता अभ्यर्थना अनुग्रहपक्षे एव संवृत्तेति भावः ।
विदूषकः—( अपवार्य = परावृत्य, परावर्तनं कृत्वा राजानं प्रति ) एषा = इयं पूर्वोक्ता अभ्यर्थना = प्रार्थना ते = तव, त्वां प्रति अनुकूला = मनीषिता, अभीष्टा ।
राजा—( स्मितं कृत्वा = ईषद्धासं विधाय ) रैवतक ! मद्वचनात् = अस्मदादेशेन
**दोनों—**यहाँ कुलपति पूज्यपाद महर्षि कण्व के किसी कारणवश बाहर चले जाने के कारण राक्षस लोग हमारे यज्ञों में विघ्न कर रहे हैं। अतः थोड़े दिनों या कुछ रात के लिए यज्ञरक्षार्थ आप सारथि के साथ एकाकी यहां निवास करें और इस आश्रम की शोभा बढ़ावें।
**विशेष—**यहाँ ऋषि कुमारों ने ऋषियों के प्रार्थना कुछ रात के लिए केवल सारथि के साथ रुकने की प्रार्थना की है, क्योंकि ऋषियों के लिए सेना का आतिथ्य एवं स्वागत करना कठिन हो जायेगा। दूसरी बात यह है कि ऐसे साधारण कार्य के निमित्त सेना का रुकना उचित नहीं और आश्रम पर सेना के ठहरने से तपोवन के आवश्यक कार्यों में विघ्न-बाधा भी उपस्थित हो सकता है। कुछ रात रुकने का अभिप्राय यह है कि राक्षसों की बाधा रात में ही अधिक होती है। अतः रात में ही रहकर उसका निवारण किया जा सकता है।
**राजा—**मैं इस प्रकार सेवा की आज्ञा से कृतार्थ हो गया। अर्थात् मेरा अहोभाग्य है कि ऋषियों ने मुझे यह कार्य करने की आज्ञा प्रदान की है।
विदूषक—( अलग से ) यह तो आपकी इच्छा के अनुकूल ही गलहस्त है=गर्दिनयां देकर =बलात्कार पकड़कर मनोऽनुकूल कार्य में लगाना है।
राजा—( हँसकर ) रैवतक ! जाओ, मेरी आज्ञा से सारथि को कहो कि धनुष बाण के साथ मेरा रथ यहां लावे।
पाठा०—१. उच्यतामस्मत्सारथिः ।
द्वितीयोऽङ्कः
११३
**दौवारिकः—**जं देवो आणवेदि [ यद्देव आज्ञापयति ] । ( इति निष्क्रान्तः ) ।
उभौ—( सहर्षम् ) ।
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६ ॥
**मदाज्ञया-**महाराजदुष्यन्त आज्ञापयतीत्युच्यताम् **सबाणासनं—**बाणासनेन = धनुषा सह सबाणासनं = धनुर्बाणसहितं रथं = स्यन्दनम् उपस्थाय = आनय इति सारथिः = सूतः उच्यतां = कथ्यताम् ।
दौवारिकः—देवः = स्वामी, महाराज यत् आज्ञापयति = आदिशति ( इति = एवमुक्त्वा निष्क्रान्तः = रङ्गाद् बहिर्गतः ) ।
उभौ—( सहर्षं = हर्षेण = प्रमोदेन सह वर्तते इति सहर्षं = सप्रमोदम् ।
**अन्वयः—**पूर्वेषामनुकारिणि त्वयि इदं युक्तरूपम् ( अस्ति ) पौरवा आपन्नाभयसत्रेषु दीक्षिताः ( सन्ति ) खलु ।
यज्ञविघ्नवारणाय मुनिजनप्रार्थनया दुष्यन्तस्याश्रमगमनं स्वीकृतौ भृशं सन्तुष्टौ ऋषिकुमारकौ तमभिनन्दत—अनुकारिणीति । पूर्वेषां = ययातिपुरुप्रभृतीनां स्वपूर्वजानाम् अनुकारिणि = अनुकरणकर्तरि तत्सदृशे त्वयि = राज्ञि दुष्यन्ते इदं = मुनिजनप्रार्थनायाः सद्यः स्वीकरणं युक्तरूपं = अतिशयेन पूज्यते युक्तम् अस्ति पौरवाः = पुरुवंशोद्भूवा राजानः आपन्नाभयसत्रेषु-आपन्नाः = आपत्तियुक्ताः तेषामभयानि = अभयदानान्येव सत्राणि = यागविशेषाः तेषु विषये दीक्षिताः = कृतदीक्षाः = धृतव्रताः खलु = निश्चयेन । अत्रापन्नाभय प्रदाने सत्रत्वारोपेण तस्यावश्यककर्तव्यत्वम्, लोकोत्तरफल-जनकत्वम्, साधारणजनदुष्करत्वं च सूच्यते ।
**अयं भावः—**राजन् ! यथा सर्वे पुरुवंशोद्भूवा राजानः आपद्ग्रस्तेभ्योऽस्मभ्योऽभयप्रदानेन सर्वदानुगृहीतवन्तः तथैव भवानपि अस्मदापत्तिवारणे सावधान एवास्ति । अतो भवत इदं कार्यं निजपूर्वजानुसारं योग्यमेवास्ति ॥ १६ ॥
**दौवारिक—**महाराज की जो आज्ञा ।
दोनों—( हर्ष के साथ ) राजन् !
महाराज ययाति, पुरु आदि अपने पूर्व पुरुषों के समान ही उपकार परायण आपके लिए तो यह यज्ञ के रक्षार्थ सन्नद्ध होना उचित ही है, क्योंकि पौरवराजवंश = आपका घराना तो विपत्ति ग्रस्तों को अभयदान देने में = सदावर्त में हमेशा दीक्षित = सन्नद्ध रहता है ॥ १६ ॥
**विशेष—**इस पद्य में पूर्व शब्द पूर्वपुरुष = पूर्वजों का वाचक है जिन्होंने बड़े बड़े पुण्य कार्य किये हैं । यहाँ दुष्यन्त चरित्र, शौर्य, रूपदान शुद्ध रूप में अपने पूर्वजों के अनुकरण करने वाले कहे गए हैं । जिस प्रकार इनके पूर्व पुरुषों ने ऋषि-मुनियों की सहायता कर शुभ्र पुण्य अर्जित किया है इसी प्रकार ये भी हम लोगों की प्रार्थना स्वीकार कर पुण्यभागी होंगे । क्योंकि दीक्षित व्यक्ति कार्य पूरा किये बिना दूसरा काम नहीं करता । अतः आप हमलोगों का कार्य अवश्य पूर्ण करेंगे ।
८ शाकु०
११४ अभिज्ञानशाकुन्तलम्
राजा—( सप्रणामम् ) $^१$गच्छतं पुरो भवन्तौ अहमप्यनुपदमागत एव । **उभौ—**विजयस्व ( इति निष्क्रान्तौ ) । **राजा—**माढव्य ! अप्यस्ति शकुन्तलादर्शने कुतूहलम् ? **विदूषकः—**पढमं $^२$सपरीवाहं आसि । दाणिं रक्खसवृत्तंतेण बिंदू वि णावसेसिदो [ प्रथमं सपरीवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ] । **राजा—**मा भैषीः, ननु मत्समीपे वर्त्तिष्यसे । **विदूषकः—**एसो रक्खसादो रक्खिदो म्हि [ एष राक्षसाद्रक्षितोऽस्मि ] । ( प्रविश्य )
राजा—( सप्रणामं = प्रणतिपूर्वकमाह ) पुरः = अग्रे भवन्तौ = युवां गच्छतं = व्रजतम् अहं = अयं जनोऽपि भवतोः अनुपदं—पदस्य पश्चादनुपदं = भवत्पदन्यास लक्ष्यीकृत्य अनन्तरमेव युष्मत्पादन्यासचिह्नानुसरणैव आगतः = आश्रमे प्राप्त एव । एवं स्वगमने विलम्बाभावं द्योतयति ।
**उभौ—**ऋषिकुमारौ कथयतो यत् विजयस्व महाराज, त्वं जय, सर्वोत्कर्षेण वर्तताम् ( इति = एवमुक्त्वा, निष्क्रान्तौ = रङ्गमञ्चाद् बहिर्गतौ )
राजा—माढव्य ! अपि = किम् शकुन्तलादर्शने = मुनिकन्यावलोकने कुतूहलम् = उत्सुकता अस्ति = वर्तते ।
विदूषकः—प्रथमं = मुनिकुमारप्रार्थनाश्रवणपर्यन्तम् राक्षसवृत्तश्रवणात् पूर्वं तु सपरीवाहं = परीवाहेन = जलोद्रेकेन सह वर्तमानं सपरीवाहं = वेगेन विपुलं वहन् प्रपाल इव कौतुकप्रवाह आसीत् । इदानीं = साम्प्रतं तु तापसमुखराक्षसवृत्तान्तश्रवणात् बिन्दुरपि नावशेषितः = रक्षितः, अल्पमात्रमपि नेदानीं तापसाश्रमे गन्तुमभिलषामीति भावः ।
राजा—मा भैषीः = न भयमाप्नुहि ननु मत्समीपे = मम निकटे एव वर्तिष्यसे = स्थास्यसि । अतो न ते राक्षसेभ्यो भीतिसंभावना ।
विदूषकः—एषः = अयम् = अहं राक्षसात् = असुरात् राज्ञा रक्षितः = सुरक्षितं एव अस्मि = भवामि = दुष्यन्तेन मदरक्षणे प्रतिश्रुते रक्षितमेवात्मानमहं मन्ये इति भावः ।
राजा—( प्रणामपूर्वक ) आप लोग पधारिए, मैं भी आपलोगों के पीछे-पीछे तुरन्त आ रहा हूँ ।
**दोनों—**आपकी विजय हो ( कहकर चले जाते हैं )
**राजा—**सखे माढव्य ! क्या तुम्हें भी शकुन्तला को देखने का कौतूहल एवं उत्कण्ठा है ?
**विदूषक—**मित्र ! पहले तो बड़ी इच्छा थी, परन्तु अब ऋषि कुमारों से वहाँ राक्षसों के उपद्रव का वृत्तान्त सुनकर उस इच्छा में बहुत परिवर्तन आ गया है अर्थात् अब तो मेरा कौतूहल ही शान्त हो गया ।
**राजा—**मित्र ! मत डरो । यदि राक्षसों से डर लगता है तो तुम मेरे ही पास रहोगे जिससे डर न लगे अतः भय की कोई बात नहीं है ।
**विदूषक—**चलो, अब मैं राक्षस से सुरक्षित हो गया । ( प्रवेशकर )
पाठ०—१. गच्छतां भवन्तौ । २. अपरिवाधं ।
द्वितीयोऽङ्कः
११५
दौवारिकः—सज्जो रधो भट्ठिणो विजअपत्थाणं अवेक्खदि । एस उण णअरादो देवीणं आणत्तिहरओ करभओ आददो [ सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञाप्तिहरः करभक आगतः ] ।
राजा—( सादरम् ) $^१$किमम्बाभिः प्रेषितः ?
दौवारिकः—अह इं [ अथ किम् ] ?
राजा—$^२$ननु प्रवेश्यताम् ।
दौवारिकः—तह । ( इति निष्क्रम्य करभकेण सह प्रविश्य ) एसो भट्टा, उवसप्प [ तथा । एष भर्ता, उपसर्प ] ।
करभकः—चेदु भट्टा देवी आणवेदि आआमिणि चउत्थदिअहे पउत्तपारणो मे उववासो भविस्सदि । तहिं दोहाउणा अवस्सं संभावितव्वा त्ति [ जयतु भर्ता । देव्याज्ञापयति आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति । ]
दौवारिकः = ( प्रविश्य = रङ्गान्त आगत्य ) सज्जः = प्रस्तुततः रथः = स्यन्दनः भर्तुः = स्वामिनः विजयप्रस्थानं = जयप्रमाणम् अपेक्षते = प्रतीक्षते । एष = अयं पुरःस्थितः नगरात् = पुरात् राजधानीतः देवीनां = राजमातृणां अम्बाया राजमातुः पूज्यत्वादबहुवचनम् आज्ञप्तिहरः = सन्देहवाहकः आनेता, करभकः आगतः = प्राप्तः ।
राजा—( सादरम् आदरेण = सम्मानेन सहितं सादरम् = ससम्मानम् ) किम् अम्बाभिः = मातृभिः प्रेषितः = प्रहितः ?
दौवारिकः—द्वारपालो रैवतकः प्रतिब्रूते—अय किं = वाढम् । एवमेतत् ।
राजा—ननु = रैवतक ! प्रवेश्यताम् = रङ्गान्तः आनीयताम् ।
दौवारिकः—तथा = आम् ( इति = एवमुक्त्वा निष्क्रम्य = बहिर्गत्वा करभकेण = तन्नाम्ना अम्बासन्देशवाहकेन सह = सार्धं प्रविश्य = रङ्गमागत्य ) एषः = अयं भर्ता = स्वामी, उपसर्पं = समीपे गच्छ ।
करभकः—जयतु भर्ता = स्वामी सर्वोत्कर्षेण वर्तताम् । देवी = राजमाता आज्ञापयति =
दौवारिक—महाराज का जय-जयकार हो, महाराज का विजय रथ तैयार है और आपके विजयार्थ प्रयाण की प्रतीक्षा कर रहा है, किन्तु यह करभक नामक सन्देशवाहक राजमाताओं की कोई सूचना लेकर राजधानी से आया है ।
राजा—( आदर के साथ ) क्या मेरी माताओं ने उसे भेजा है ?
विशेष—यहाँ माताओं के सन्देश में आदर व्यक्त किया गया है, क्योंकि दुष्यन्त मातृ भक्त राजा है ।
द्वारपाल—जी, हाँ ।
राजा—तो उसे शीघ्र यहाँ लाओ ।
द्वारपाल—महाराज की जैसी आज्ञा ( बाहर जाता है और करभक के साथ पुनः प्रवेश कर ) करभक ! ये महाराज बैठे हैं, आप जाइए ।
करभक—महाराज की जय हो । राजमाताओं ने आज्ञा दी है कि आगामिनि चतुर्थी के दिन
पाठ०—१. किमार्याभिः । २. तेन हि ।
| १६९ | अभिज्ञानशाकुन्तलम् |
|---|
राजा—इतस्तपस्विकार्यम्, इतो गुरुजनाज्ञा। द्वयमप्यनतिक्रमणीयम्। किमत्र प्रतिविधेयम्।
विदूषकः—तिसंकू विअ अंतराले चिट्ठ। [ त्रिशङ्कुरिवान्तराले तिष्ठ ]
आदिशति—आगामिनि चतुर्थदिवसे = अस्माद् दिनाच्चतुर्थदिवसे चतुर्थी तिथौ वा प्रवृत्तपारणः = प्रवृत्ता = आरब्धा पारणा उपवासाङ्गं व्रतान्तभोजनं यस्य स प्रवृत्तपारणः = उपवास अन्तग्रहणेन व्रतभङ्गः क्रियमाणोपवाससमाप्तिः भविष्यन्ति। तत्र = तस्मिन् अवसरे दीर्घायुषा = चिरञ्जीविना त्वया अवश्यं नूनं सम्भावनीया = उपस्थित्या समाजनीया, सन्तोषणीया इति। उपवासस्तु आरब्ध एव केवलं तस्य समाप्तिः चतुर्थेऽह्नि भविष्यतीति भावः।
राजा—तदाकर्ण्य नृपो दुष्यन्तश्चिन्तयति—इतः = एकतः अत्र तपोवने तपस्विकार्यं = तापसानां यज्ञस्य राक्षसेभ्यो रक्षणम् पुनः इतः = अन्यत्र नगरे वा द्वितीयतः गुरुजनाज्ञा गुरुजनस्य = मातुः आदेशः, प्रत्यावर्तनरूपः द्वयं = उभयमपि, अनतिक्रमणीयम् = अनुल्लङ्घनीयम् तपस्विकार्य-गुरुजनानुज्ञयोः समप्राधान्येन युगपत् कर्तुमशक्यत्वात् राजा प्रतिपत्तिमूढः सन्नाह—किमत्र प्रतिविधेयं = अस्मिन् विषये कतरत् कर्तव्यम् किमनुष्ठेयमित्यर्थः।
विदूषकः—राज्ञः प्रतिपत्तिमूढत्वं विदित्वा माढव्यः कथयति यत् त्रिशङ्कुरिव = त्रिशङ्कुसदृशः अन्तराले = द्वयोर्मध्ये तिष्ठ = भव।
त्रिशङ्कुकथा वाल्मीकिरामायणे बालकाण्डस्य ५७तः ६०सर्गपर्यन्तं प्रसिद्धाऽस्ति, तद्यथा—एकदा त्रिशङ्कुः विश्वामित्रेण स्वतपोबलबलादूर्ध्वं स्वर्गे लोके प्रेषितः तदसहमानेन
वा आज से चौथे दिन प्रवृत्तपारण नामक हमारा उपवास पूर्ण होगा, उस दिन आप अवश्य उपस्थित होकर हमारा उत्साह एवं हर्ष बढ़ावें।
**विशेष—**चतुर्थ दिवस में आगामिनि विशेषण से गत चतुर्थ दिन का निराकरण किया गया है, प्रवृत्तपारण कहकर उपवास शब्द के प्रयोग से माताओं के अनशन की आशङ्का का वारण किया गया है।
**राजा—**इधर तो मुझे ऋषियों का कार्य करना है। उधर गुरुजन=माताओं की आज्ञा का भी पालन करना आवश्यक है। ये दोनों ही अत्यावश्यक कार्य हैं, अब क्या करना चाहिए ? एक समय में एक ही हो सकता है क्योंकि दोनों कार्यों का स्थान दूर-दूर है।
**विदूषक—**मित्र ! अब तुम त्रिशंकु की तरह बीच में ही लटकते रहो।
**विशेष—**उपहासप्रिय विदूषक ने यहाँ अच्छा मजाक किया है कि तपस्वीजन तथा माताओं के मध्य में रहकर किसी का भी कार्य नहीं हो सकता है।
वाल्मीकीयरामायण के बालकाण्ड में ५७ से ६० सर्गों में राजा त्रिशंकु की कथा अङ्कित है—महाराजा हरिश्चन्द्र के पिता त्रिशंकु सूर्यवंश में उत्पन्न राजा थे। ये बड़े पराक्रमी और पुण्यात्मा राजा थे इन्होंने एक बार सदेह स्वर्ग में जाने की इच्छा से कुलगुरु वसिष्ठजी से यज्ञ कराने के निमित्त प्रार्थना की, पर उन्होंने यह कहकर इनकार कर दिया कि यह कार्य असंभव है। तब त्रिशंकु ने वसिष्ठजी के विरोधी विश्वामित्र मुनि के द्वारा यज्ञ कराया।
मन्त्रों के प्रभाव से त्रिशंकु इसी देह से स्वर्ग को चला, किन्तु गुरु वसिष्ठ की अनुमति के बिना यज्ञ करने से देवता असन्तुष्ट हो गये और उन्होंने उसे स्वर्ग जाने से रोककर नीचे धकेल दिया। इधर विश्वामित्र भी मन्त्रों से उसे स्वर्ग भेजने में जोर लगा रहे थे। इस प्रकार उधर स्वर्ग में
द्वितीयोऽङ्कः ११७
राजा—सत्यमाकुलीभूतोऽस्मि ।
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ १७ ॥
देवेन्द्रेण चाधः पातितः । ततः स नोर्ध्वं न चाधः, किन्तुः अन्तराल एवातिष्ठत् । एतत्कथोद्देशेन विदूषको दुष्यन्तमुपहसति-यत्त्वमपि तथैव गुरुजन-मुनिजनाज्ञयोः किमपि अकृत्वा अत्रैवं विचारयन्नेव तिष्ठ । न खलु राजधान्यां गच्छ न च तपोवनमुपव्रजेति भावः ।
राजा--विदूषकस्य परिहासं जानन् राजा, मित्र ! नायं परिहासावसर इत्याह--
सत्यमित्याद्यङ्गीकारे-सत्यं = इदं तथ्यम् यत् आकुलीभूतः-न आकुलः अनाकुलः अनाकुलः आकुलः सम्पद्यमानः आकुलीभूतः = व्याकुलः अस्मि = भवामि । आकुलीभूतोऽस्मीति यत् तत् सत्यमित्यर्थः ।
अन्वयः—पुरः शैले ( सति ) प्रतिहतं स्रोतोवहः स्रोतो यथा कृत्ययोः भिन्नदेशत्वात् मे मनः द्वैधी भवति ।
अथात्मनो मनसो व्याकुलत्वं स्पष्टयति राजा दुष्यन्तः--कृत्ययोरिति । पुरः = अग्रे ( शिलाः सन्ति यस्मिन्नित्यन्वर्थनामवति प्रतिहननसमर्थे ) शैले = पर्वते सति प्रतिहतम् = अवरोधं प्राप्तम्, निरुद्धप्रवाहं, स्रोतोवहः = नद्या स्रोतः = प्रवाहः जलवेगः यथा = इव मे = मम मनः = चित्तम् कृत्ययोः = कर्तव्ययोः भिन्नः = पृथक् देशः = स्थानं ययोः तयोः भावः तत्त्वं तस्मात् भिन्नदेशत्वात्-नानादेशस्थत्वात् द्वैधीभवति = मार्गद्वयगमनशीलं संशयाकुलं भवति, मातृकार्यं राजधान्यां मुनिकार्यं च तपोवने इत्येकदा तयोर्द्वयोरनुष्ठाना-सम्भवादित्याशयः ।
अयं भावः--यथा वेगेन प्रवहन् नदीप्रवाहः मार्गे शिलाखण्डरुद्धः द्विधा भूत्वा उभयोः
में देवता लोगों ने उसे घुसने नहीं दिया, इधर विश्वामित्रजी ने उसे भूमि पर गिरने नहीं दिया । फलतः वह न ऊपर स्वर्ग में जा सका न नीचे जमीन पर ही आ सका। बेचारा आकाश के बीच में ही आजतक उलटा होकर लटका रह गया । उसके मुख से जो लार गिरी थी उसी से कर्मनाशा नदी निकली है जिसके जल के स्पर्शमात्र से धर्म कर्म नष्ट हो जाते हैं । अतः उस नदी का जल अस्पृश्य माना गया है ।
त्रिशंकु के नामकरण के सम्बन्ध में पुराणों में कहा गया है कि इनमें तीन शङ्कु = पाप होने के कारण इनका नाम त्रिशङ्कु पड़ा था । इनके तीन पाप ये थे-इन्होंने अपने पिता को असन्तुष्ट कर दिया, जिससे उन्होंने राज्य से बाहर निकाल दिया था तथा इन्होंने गुरुवसिष्ठ की दुधार गौ का वध कर दिया। इसी प्रकार इन्हें गोमांस भक्षण का भी दोषी बताया गया है। इन्हीं तीनों पापों के कारण त्रिशंकु नाम से प्रसिद्ध थे।
राजा—सच-मुच मैं व्याकुल हो गया हूँ क्योंकि दोनों ही कार्य अवश्य कर्तव्य है, किसे करूँ, और किसे छोड़ूँ ।
जैसे सामने पर्वत की चट्टान आजाने पर उसके दोनों ओर नदी का प्रवाह दो भागों में बँट जाता है, वैसे ही इन दोनों कार्यों के भिन्न-भिन्न दिशाओं में होने के कारण प्रतिहत हो मेरा मन भी द्विविधा में पड़ गया है, इसे करूँ या उसे करूँ, इसी संशय में पड़ गया हूँ ॥ १७ ॥
विशेष—इस समय मेरे सामने वस्तुतः दो कर्त्तव्य उपस्थित हैं-राक्षसों से ऋषियों के यज्ञ
पाठा०—१. कृतोऽस्मि ।
११८ | अभिज्ञानशाकुन्तलम्
( विचिन्त्य ) सखे ! ^१त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य ^२तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति । विदूषकः--ण खु मं रक्खोभीरूअं गणेसि [ न खलु मां रक्षोभीरुकं गणय ] । राजा--( सस्मितम् ) भो महाब्राह्मण ! कथमेतद् भवति सम्भाव्यते ?
पार्श्वयोः = शैलोमयपार्श्वभ्यां प्रवहति तथैव एकतो मुनिजनाभ्यर्थनं अन्यतो नगरात् मातुरादेश इति कर्तव्यकर्तव्य-निश्चयाभावात् मामकीनं मनः द्वैधीभवति ॥ १७ ॥
( विचिन्त्य = चिन्तितो राजा तत्कालस्फुरितया प्रतिभया कर्तव्यं निर्धार्य ) विदूषकमाह--सखे ! त्वमम्बया = मम मात्रा पुत्र इति = पुत्रत्वेन प्रतिगृहीतः = अङ्गीकृतोऽसि । अतः = अनेन कारणेन भवान् = त्वमितः = अस्मात् स्थानात् प्रतिनि Flat/निवृत्य = प्रत्यावृत्य तपस्विनां = तापसानां कार्यं = कृत्यं तत्र व्यग्रं = आकुलं मनः = चित्तं यस्य प्र तं तपस्विकार्यव्यग्रमानसं मां = इमं जनं दुष्यन्तम् आवेद्य = सूचयित्वा तत्रभवतीनां = आदरणीयाया अम्बायाः पुत्रस्य = सुतस्य कृत्यं विधानमिति पुत्रकृत्यं = सुतोचितं विधानम् पुत्रेण मया कर्तुमुचितकर्म अनुष्ठातुं = सम्पादयितुम् अर्हसि = योग्योऽसि ।
विदूषकः--न खलु मां = इमं जनं रक्षोभीरुकं = असुराद्द्रयभीतं गणय = जानीहि यद्यहं राजधानीमभिगमिष्यामि तदा भवान् मां राक्षसाद्भीतंत मन्येत। अतो यदि मां तथा न मनुते भवान् तदाहं गमिष्यामि अर्थात् भवन्नियोगेनैवाहं नगरं गच्छामि, न रक्षोभयेनेति भावः।
राजा--( सस्मितं-किञ्चिद्-हसित्वा ) भो महाब्राह्मण ! = हे ब्राह्मणश्रेष्ठ ! कथं = केन प्रकारेण, न केनापि प्रकारेण एतत् = इदं रक्षोभीरुत्वं भवति = त्वयि सम्भाव्यते = सम्भवति ? नैवेत्यर्थः । नाहं त्वां रक्षोभीरुकं सम्भावयामि, त्वमेव स्वमुखेन तत् प्रकाशयसीत्याकूतम् ।
अत्र महाब्राह्मणेति सम्बोधनमुपहासादेव प्रोक्तम् । महाब्राह्मणपदस्य 'पुण्यजनादि-' शब्दवद् विपरीतलक्षणया रूढ्या वा निन्दितब्राह्मणपरत्वात् । तदुक्तं--
'शङ्खे तैले तथा मांसे वैद्ये ज्योतिषके द्विजे । यात्रायामथ निद्रायां महच्छब्दो न दीयते ॥'
की रक्षा तथा माँ का व्रत पारण के दिन बुलावा है। अतः नदी के प्रवाह का पहाड़ से टकराकर दो भागों में विभक्त हो जाने की तरह मेरा मन भी दोनों जगह बँट गया है। अतः मैं संशयास्पद स्थिति में पड़ गया हूँ।
( कुछ सोचकर ) सखे माधव्य ! हमारी माताओं ने तुमको भी पुत्र की तरह मान रखा है। अतः तुम यहाँ से राजधानी जाकर माताओं को मेरे तापस कार्य में लगे रहने की सूचना दे देना और मेरी असमर्थता बताकर उनके पुत्रोचित कार्य का सम्पादन तुम्हीं कर देना ।
विशेष--इस व्रत का पारण पुत्र के हाथ से दिए हुए ग्रास से होता है, सो तुम ही हमारी ओर से उनके मुख में ग्रास देकर पारणा करा देना, क्योंकि तुम भी तो उनके माने हुए प्रिय पुत्र ही हो ।
विदूषक--हे मित्र ! तुम कहाँ मुझे राक्षसों के भय से डरकर भागा हुआ तो, नहीं समझ लोगे ?
राजा--( हँसकर ) हे महाब्राह्मण ! तुम्हारे जैसे वीर को डरकर भागा हुआ मैं कैसे समझ सकता हूँ। तुम तो बड़े वीर हो।
पाठा०--१. त्वमार्याभिः पुत्र इव गृहीतः । २. तपस्विकार्यव्यग्रतामस्माकं निवेद्य ।
द्वितीयोऽङ्कः १११९
विदूषकः--तेण हि राआणुअ विअ गच्छिदुं इच्छामि [ तेन राजानुज इव गन्तुमिच्छामि । ]
राजा--तपोवनोपरोधः परिहरणीय इति सर्वाननुयात्रिकांस्त्वयैव सह ^१प्रस्थापयामि ।
विदूषकः--तेन हि जुवराओ म्हि दाणि संवुत्तो [ तेन हि युवराजोऽस्मीदानीं संवृत्तः ] ।
राजा—( स्वागतम् ) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु एनमेवं वक्ष्ये । ( विदूषकं हस्ते गृहीत्वा, प्रकाशम् ) वयस्य, ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य—
विदूषकः--तेन = तेन कारणेन राजानुज इव = राजकनिष्ठभ्रातेव गन्तुमिच्छामि = व्रजितुं वाञ्छामि सकलसैनिकादिपरिवारसहितं मां प्रेषयेति भावः ।
राजा--तपोवनोपरोधः सैनिकानां हस्तितुरगादीनां कोलाहलेन तपोवनशान्तिभङ्गः तपोवनबाधापरिहरणीयः = दूरीकरणीयः इति = हेतोः सर्वान् = सकलान् अनुयात्रिकान्= सहागतान् सैनिकान् त्वया = भवता माधव्येन एव सह = साकं प्रस्थापयामि = विसर्जयामि । तेन तव राजभ्रातृवद् गमनाभिलाषस्य साफल्यं सम्भवत्येवेत्याशयः ।
विदूषकः--तेन = कारणेन हि = निश्चयेन इदानीम् = अधुना युवराजः = संवृत्तः = जातः अस्मि = भवामि ।
राजा--अथ राजा दुष्यन्तो विदूषकस्य प्रस्थाने कश्चिद् दोषमाशङ्क्य ( स्वगतं = निजमनसि ) चिन्तयन्ति-चपलः = अनवस्थितः, वाच्यावाच्यविचाररहितः इति यावत् अयं = एषः वटुः = ब्राह्मणकुमारः कदाचित् = कदापि अस्मत्प्रार्थनां= मदभिलाषं मृगया-वृत्तान्तप्रसङ्गेन शकुन्तलावृत्तान्तमपि अन्तःपुरेभ्यः = अन्तःपुरिकाभ्यः सुन्दरीभ्यां = महादेव्यै च कथयेत् = वदेदिति सम्भावयामि एवं सति दाक्षिण्यभङ्गः स्यादिति भावः । तत्परिहारं विमृशन्नाह—भवतु = अस्तु उपायजातः, एवं चपलं विदूषकमेवं = इत्थं वक्ष्ये = वदिष्यामि । ( विदूषकं = माधव्यं हस्ते गृहीत्वा = तस्य करं स्वकरेण गृहीत्वा = अनेनात्मनः सख्यं व्यञ्जयन् मनसि किञ्चिद् विभाव्य रहस्यनिर्भेदं निराचिकीर्षया
विदूषक—तो मै राजा के छोटे भाई की तरह शान से ( खूब ठाट बाट से ) राजधानी में जाना चाहता हूँ ।
राजा—ठीक है, मैं अपने साथ के सभी सैनिक और दरबारियों को तपोवन में विघ्न न हो इसलिए तुम्हारे साथ ही राजधानी को भेज देना चाहता हूँ । अतः इनके साथ तुम खूब ठाट बाट से मेरे भाई की तरह ही जा सकते हो ।
विदूषक—तब तो मैं इस समय युवराज ही हो गया ।
राजा—(मन ही मन) यह ब्राह्मण बालक तो बड़ा ही चञ्चल स्वभाव का है, कहीं शकुन्तला वाली बात महल की रानियों से तथा माताओं से जाकर न कह दे । अच्छा, इससे ऐसा कहता हूँ । ( विदूषक का हाथ पकड़कर, प्रगट में ) मित्र माधव्य ! मैं तो ऋषियों के कार्य की गुरुता को देखकर ही आश्रम में जा रहा हूँ । सचमुच किसी तापस कन्या में मेरा मन नहीं लगा है क्योंकि देखो—
^१ पाठ०—१. प्रेषयामि ।