भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ
१०८अभिज्ञानशाकुन्तलम्

अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति। अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४ ॥

तेजोविशेषो दीप्तिः तद्वतः दीप्तिमतोऽपि = तेजस्विनोऽपि अस्य = राज्ञो दुष्यन्तस्य वपुषः = शरीरस्य विश्वसनीयता — विश्रम्भभाजनता, विश्वासोत्पादकप्रसादगुणशालिता। अथवा = पक्षान्तरे नेदं विस्मयास्पदम् उपपन्नम् = उचितं युक्तमेव एतत् = इदं वस्तु विश्वासपात्रता ऋषिभ्यः = मुनिभ्यः नातिभिन्ने = अत्यन्तभेदरहिते प्रायः समाने राजनि = प्रजारञ्जन-शीले भूपतौ दुष्यन्ते। कृतः = यतः।

अन्वयः—अमुना अपि सर्वभोग्ये आश्रमे वसतिः अध्याक्रान्ता। अयमपि रक्षायोगात् प्रत्यहं तपः सञ्चिनोति वशिनः अस्यापि चारणद्वन्द्वगीतः केवलं राजपूर्वः मुनिः इति पुण्यः शब्दः मुहुः द्यां स्पृशति।

प्रथमो मुनिकुमारो राज्ञो दुष्यन्तस्य ऋषि समानतां समर्थयति—अध्याक्रान्तेति। अमुना = राज्ञा दुष्यन्तेन सर्वभोग्ये = सर्वै = ब्रह्मचारिप्रभृतिभिः भोग्ये आश्रयणीये गृहस्थाश्रमे यद्वा सर्वाणि = पृथवीधनरत्नवनितादीनि भोग्यानि यस्मिन् तथाविधे आश्रमे = राज्याश्रमे वसतिः = गृहं निवासो वा अध्याक्रान्ता = स्वीकृता। मुनिपक्षे सर्वैः अध्यय-नार्थमागतैः आश्रमवासिभिः शिष्यैः आश्रयणीये ब्रह्मचर्याश्रमे स्थानमङ्गीकृतम्। ऋषि-वदसावपि आश्रमवासीति भावः। अयमपि = एष राजापि रक्षायोगात् = रक्षेव = प्रजापालनमेव योगः = उपायः तस्मात् यद्वा रक्षाया योगः = उद्योगः तस्मात् प्रत्यहं =

दयालुता तथा सज्जनता झलक रही है। अथवा ऋषितुल्य इस राजा में यह साधु शीलता तो उचित ही है, क्योंकि—

यह राजा भी ऋषि-मुनियों की तरह सबके उपकार करने वाले आश्रम = गृहस्थाश्रम में निवास करता है। प्रजा की उचित रक्षा करके यह भी प्रतिदिन तप का संचय करता है = अपना पुण्य तथा तप बढ़ाता है। इन्द्रिय विजयी इस राजा का पुण्य, यश तथा राजपूर्वक मुनि शब्द चारणों द्वारा देवलोक में गाया जाता है। अर्थात् स्वर्ग लोक में देवता लोग इन्हें राजर्षि नाम से स्मरण करते हैं। अतः यह राजा तपस्वी मुनियों की तरह परोपकारपरायण होने से राजर्षि नाम से प्रसिद्ध हैं। इन दोनों में अन्तर इतना ही है कि इनके नाम में ऋषि के पहले राज शब्द सम्बद्ध है। अतः इन्हें राजर्षि कहते हैं ॥ २४ ॥

विशेष—यहाँ श्लेषालङ्कार की महिमा से राजा का चरित्र ऋषियों के चरित्र के समान दिखाया गया है। गृहस्थ तथा मुनि ये दोनों परोपकारी होते हैं। उपकार निरत मुनियों की तो बात ही अलग है, पर गृहस्थ भी अपनी अर्जित सम्पत्ति से सभी आश्रमों के लोगों का पालन करता है इसीलिए गृहस्थाश्रम को सर्वभोग्य बताया है। भगवान् मनु के अनुसार गृहस्थाश्रम सर्वश्रेष्ठ बताया गया है, क्योंकि वह इतर तीनों ब्रह्मचर्याश्रम, वानप्रस्थाश्रम तथा संन्यासाश्रम का पालन-पोषण करता है:—

‘सर्वेषामपि चैतेषां वेदस्मृतिविधानतः।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥’ ६।८९, ९० ॥

द्वितीयोऽङ्कः १०९

द्वितीयः—गौतम ! अयं स बलभित्सखो दुष्यन्तः।
प्रथमः—अथ किम् ?
द्वितीयः—तेन हि।

प्रतिदिनम् सर्वदा तपः = तपस्यां, लोकोत्तरधर्मं ऋषिकृततपः षष्ठांशं पुण्यम् 'पुण्यात् षड्भागमादत्ते न्यायेन परिपालयन्' इति याज्ञवल्क्योक्तेः। संचिनोति = संगृह्णाति। मुनिपक्षे-रक्षार्थं शरीरस्थैर्यसम्पत्तये योगः = अष्टाङ्गयोगः यमनियमाद्यात्मकः तन्निमित्तं तपः = कृच्छ्रचान्द्रायणादि संचिनोति = करोति। वशिनः = संयमिनो जितेन्द्रियस्य अस्य राज्ञो दुष्यन्तस्यापि चरणानां=गायनकुशलानां सिद्धयोनिविशेषाणां द्वन्द्वैः = मिथुनैः गीतः वर्णितः पुण्यः पवित्रः केवलं राजपर्वः = राजशब्दविशिष्टः मुनिः = ऋषिः इति = एवंभूतः शब्दः राजर्षिशब्दः मुहुः = शश्वत् द्यां = देवलोकम्, स्पृशति = गगनं व्याप्नोति। मुनिपक्षेऽपि जितेन्द्रियाणां मुनीनां तपोऽनुष्ठानप्रभावेण चारणद्वन्द्वैर्भक्त्या तन्नामस्मरणा-त्मकगीतानि देवलोके गीयन्ते इति समानम्।

अयं भावः— यथा ऋषयोऽध्ययनार्थमागतान् बहून् स्वाश्रमे वासयन्ति तथैवायमपि राजा सर्वान् आश्रमिनः परिपालयन् गृहस्थाश्रमे निवसति यथा वा ऋषयः तपोऽनुष्ठा-नोपयिकं स्वदेहं संपादयन्तो यमनियमाद्यष्टाङ्गप्रयोगसाधनद्वारा कृच्छ्रचान्द्रायणादीनि तपांसि कुर्वते तथैवायमपि राजा दुष्यन्तः यथाशास्त्रं सर्वेषां पालनं कुर्वन् ऋषिभ्यः तपः षष्ठांशभागमाददानः तपःपुण्यं संचिनोति। अपि च यथा सिद्धगन्धर्वप्रभृतिभिः जितेन्द्रियाणामेषां मुनीनां पुण्यनामानि स्वर्गे गीयन्ते तथैव संयमिनः सञ्चितपुण्यराशे-रस्यापि राजर्षेः दुष्यन्तस्यापि पुण्यानि यशांसि नामानि च तैः निरन्तरं जेगीयन्ते। अत्र व्यतिरेक काव्यलिङ्ग-श्लेषालङ्काराः मन्दाक्रान्ता छन्दश्च ॥ १४ ॥

द्वितीयः—अतोऽस्य राजर्षेरपूर्वो महिमा। अथ द्वितीयो मुनिकुमारः स्वसहचरद्वारा राजर्षेर्दुष्यन्तस्य तथाविधं माहात्म्यमाकर्ण्य सादरं सविस्मयमयं पृच्छति—गौतम ! अयं = एष पुरोवर्ती सः = प्रसिद्धः दुर्धर्षदानवजयादौ साहाय्यकरणाद् वलमित्सखः = इन्द्रमित्रः दुष्यन्तः = राजर्षिदुष्यन्तः।

प्रथमः—अथ किम् = किम् अन्यत् ?

द्वितीयः—द्वितीयः ऋषिकुमारः राज्ञः प्रभावं वर्णयन्नाह—तेन = तस्मात् कारणात् हि = निश्चयेन।


पद्मपुराण में लिखा है कि जिस प्रकार जीव माता का आश्रय ण कर जीता है उसी प्रकार सर्भ आश्रम गृहस्थ का आश्रय कर पनपते हैं—

'यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमाः॥'

रत्नाकर में चारण की परिभाषा निम्न प्रकार से वर्णित है—

'किङ्किणीवाद्यवेदी च वृत्तो विकटनर्तकैः।
मर्मज्ञः सर्वरोगेषु चतुरश्चारणो मतः॥'

द्वितीय ऋषिकुमार—सखे ! गौतम ! क्या बल नामक असुर को मारने वाले देवराज इन्द्र के मित्र राजा दुष्यन्त यही हैं ?
प्रथम—और क्या, यही तो हैं।
द्वितीय—उस कारण से निश्चय ही—

११० अभिज्ञानशाकुन्तलम्

नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री- मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति । आशंसन्ते ¹सुरयुवतयो बद्धवैरा हि दैत्यै- रस्याधिज्ये धनुषि विजयं पौरहूते च वज्रे ॥ १५ ॥

उभौ—( उपगम्य ) विजयस्व राजन् !


**अन्वयः—**यत् नगरपरिघप्रांशुबाहुः एक अयम् उदधिश्यामसीमां कृत्स्नां धरित्रीं भुनक्ति एतच्चित्रम् । हि दैत्यैः बद्धवैराः सुरयुवतयः अस्य अधिज्ये धनुषि पौरहूते वज्रे च विजयम् आशंसन्ते ।

द्वितीयो मुनिकुमारकः राज्ञो दुष्यन्तस्य बलभित्सखत्वं समर्थयन् ब्रवीति—नैतच्चित्रमिति । यत् = यस्मात् नगरस्य = पुरस्य परिघः = अर्गलः तद्वत् प्रांशू = दीर्घौ, उन्नतौ बाहू = भुजौ यस्य स नगरपरिघप्रांशुबाहुः = पुरद्वारागंलदीर्घपीवरभुजदण्डः, एकः= एकाकी अयं = पुरोवर्ती राजा दुष्यन्तः उदधिना = समुद्रेण श्यामा = नीलवर्णा सीमा = पर्यन्तो यस्याः सा तामुदधिश्यामसीमां = समुद्रमेखलां, कृष्णसागरपर्यन्तां वा कृत्स्नां = समग्रां = निखिलां धरित्रीं = पृथ्वीम् भुनक्ति एतत् न चित्रम्=नैतदाश्चर्यजनकम् हि=यतः दैत्यैः = दितिपुत्रैः, दानवैः बद्धवैराः = वद्धद्वेषाः सत्यः सुरयुवतयो देवाङ्गनाः अप्सरसः अस्य राज्ञो दुष्यन्तस्य अधिज्ये = आरोपितमौर्विके = धनुषि = चापे पौरहूते वज्रे = इन्द्रहस्तस्थिते कुलिशके च विजयं = दैत्यानां पराजयकरणात्मकं जयम् आशंसन्ते = संभावयन्ति प्रार्थयन्ति निश्चिन्वन्ति । तथा च न केवलं निखिलभूमण्डलवालकोऽयं, किन्तु महेन्द्रसमपराक्रमो देवानामाप युद्धेषु साहाय्यमाचरन्तीति भावः ।

**अर्थ भावः—**आजानुबाहुः पीनदृढवक्षःस्थलः समग्रां पृथवीं प्रशासदसौ राजा दुष्यन्तः सर्वेभ्यो भूपतिभ्योऽतिशेते इति नाश्चर्यकरं प्रत्युत दानवैः सह देवानां संग्रामे समुपस्थिते सति महेन्द्रसाहाय्याय समागतस्यास्य समारोपितमौर्वीके धनुषि युद्धत्रासादिभीरवो देवाङ्गना अस्य विजयं वाञ्छन्ति । तस्मात् सर्वातिशोर्यशालिनोऽस्य राज्ञो दुष्यन्तस्य सकलमहीमण्डलपरिपालनक्षमत्वं नाश्चर्यजनकं प्रत्युत समुचितमेव प्रतिभाति ।

अत्रोपमा—काव्यलिङ्ग—पर्यायोक्त-दीपकालङ्कारा मन्दाक्रान्ता वृत्तं च ॥ १५ ॥

उभौ—उभौ = द्वावपि ऋषिकुमारौ ( उपगम्य = समीपमुपसृत्य ) राजन् = हे महाराज ! विजयस्व = विजयतात् ।


यह आश्चर्य की बात है कि यह राजा जिनकी भुजाएँ लम्बी-लम्बी नगर द्वार की अर्गला के समान हैं, वे अकेले ही समुद्र पर्यन्त पृथ्वी की रक्षा करते हैं और उनका उपयोग करते हैं, क्योंकि दैत्यों से वैर रखने वाले देवता लोग भी युद्ध में इन्द्र के वज्र से या इस राजा के चढ़े हुए धनुष से ही अपनी विजय को आशा करते ही रहते हैं । अर्थात् यह राजा सम्पूर्ण पृथ्वी का एकच्छत्र राज्य करता है और इसकी सहायता देवगण भी किया करते हैं और स्वर्ग में जाकर यह युद्ध में इन्द्र को भी सहयोग देता हैं, इससे आश्चर्य ही क्या है ? ॥ १५ ॥

दोनों—( राजा के पास जाकर ) महाराज ! आप विजयी हों ।


पाठा०—१. समितिषु सुराः सक्तवैराः ।

द्वितीयोऽङ्कः

१११

राजा--( आसनादुत्थाय ) अभिवादये भवन्तौ !
**उभौ--**स्वस्ति भवते ( इति फलान्युपहरतः ) ।
राजा--( सप्रणामं परिगृह्य ) १आज्ञापयितुमिच्छामि ।
**उभौ--**विदितो भवानाश्रमसदामिहस्थः तेन भवन्तं प्रार्थयन्ते ।
**राजा--**किमाज्ञापयन्ति ।


राजा—( आसनादुत्थाय = सिंहासनादुत्थितो भूत्वा ) भवन्तौ = युवाम् अभिवादये = वन्दे, प्रणतोऽस्मि ।
**उभौ—**भवते = आयुष्मते तुभ्यं स्वस्ति = कल्याणं भवतु ( इति = एवमुक्त्वा राज्ञे फलानि उपाहरत = अर्पयतः ) ।
राजा—( सप्रणामं = प्रणामेन=नत्या सह सप्रणामं=नतिपूर्वकम् परिगृह्य=गृहीत्वा, स्वीकृत्य ) भवद्भ्यामात्मानम् आज्ञापयितुं = आज्ञाही भवितुम् इच्छामि = वाञ्छामि ।
**उभौ—**ऋषिकुमारौ स्वकार्यं निवेदयतः-आश्रमसदां = आश्रमवासिनां मुनीनां भवान् = त्वमिहस्थः विदितः = ज्ञातः । तेन = कारणेन ते भवन्तं त्वां प्रार्थयन्ते = निवेदयन्ति ।
**राजा—**नृपो दुष्यन्तः कथयति यत् किम् आज्ञापयन्ति = आदिशन्ति ते आश्रमसदो मुनयः ।


राजा--( आसन से उठकर ) मैं आप दोनों को प्रणाम करता हूँ । और आप लोगों से शुभ आशीर्वाद की कामना करता हूँ ।
**दोनों—**राजन् ! आपका कल्याण हो । ( दोनों ऋषिकुमार राजा को फल भेंट करते हैं )
**विशेष—**ऋषिकुमारों द्वारा राजा दुष्यन्त को फल देने का तात्पर्य है कि भारतीय मर्यादा के अनुसार राजा, गुरु और वैद्य के पास खाली हाथ नहीं जाना चाहिए । हाथ में उपहार के रूप में कुछ फूल, फल लेकर राजा आदि का दर्शन करना चाहिए—

'रिक्तपाणिर्न गच्छेत् राजानं दैवतं गुरून् । नैमित्तिकं च वैद्यं च फलेन फलमाहरेत् ॥'

धर्मशास्त्रों में निर्देश किया गया है कि देवता, राजा, गुरु, भार्या, वैद्य एवं ज्योतिषियों के पास खाली हाथ नहीं जाना चाहिए—

'दैवो राजा गुरुर्भार्या वैद्यो नक्षत्रपाठकः । रिक्तपाणिर्न गन्तव्यः तत्र कार्यं न सिध्यति ॥'

इसलिए किसी आदरणीय व्यक्ति से मिलते समय आदर पूर्वक उसे उपहार में यथाशक्ति फल, फूल आदि कुछ अवश्य दिया जाना चाहिए । राजा, गुरु आदि के दर्शन करते समय खाली हाथ नहीं जाना चाहिए—

'अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम् । रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ॥'

इसलिए स्मृतियों के इस नियम के अनुसार ऋषिकुमारों ने राजा दुष्यन्त को आदरपूर्वक फलोपहार दिया था ।
राजा—( प्रणामपूर्वक फल लेकर ) मैं आप लोगों के आने का उद्देश्य भी सुनना चाहता हूँ ।
**दोनों—**आपका यहाँ आना तपस्वियों को ज्ञात हो गया है। अतः वे आप से अभ्यर्थना करते हैं ।
**राजा—**तो, कहिए पूज्य तपस्वियों की क्या आज्ञा है ?

पाठा०—१. आगमनप्रयोजनं ज्ञातुमिच्छामि ।

११२अभिज्ञानशाकुन्तलम्

उभौ--तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति ।

राजा--अनुगृहीतोऽस्मि ।

विदूषकः--( अपवार्य ) एसा दाणि अणुऊला ते अब्भत्थणा [ एषेदानीमनुकूला तेऽभ्यर्थना ] ।

राजा--( स्मितं कृत्व ) रैवतक, ^१मद्वचनादुच्यतां सारथिः सबाणासनं रथ-मुपस्थापयेति ।


उभौ—आश्रमवासिनां प्रार्थनाप्रकारं उभौ = द्वावपि ऋषिकुमारकौ कथयतो यत् तत्रभवतः = पूज्यस्य श्रीमतः कण्वस्य महर्षेः = महामुनेः कुलपतेः कण्वस्य असान्निध्यात् = सान्निध्याभावात् अनुपस्थित्या रक्षांसि = राक्षसा नः = अस्माकं इष्टिविघ्नं = यज्ञबाधाम् उत्पादद्यन्ति = जनयन्ति तत् = तस्मात्, अतः कतिपयरात्रम्=कतिपयाः=काश्चन रात्रयः = निशा यस्मिन् तत् कतिपयरात्रम् ( रात्रिकाले रक्षसां सञ्चारेण भयसम्भवात् ) सारथिः= सूत एव द्वितीयः = सहायो यस्य स सारथिसहायः तेन सारथिसहायेन = सारथिना साकं भवता =त्वया दुष्मन्तेन आश्रमः = तपोवनं नाथेन = रक्षणेन सहितः = सनाथः न सनाथः- असनाथः सनाथः क्रियतामिति सनाथीक्रियताम् = सस्वामिकः क्रियताम्, विधीयताम् परिपाल्यताम् ( राजपरिजनसम्बन्धे हि तपोवनोपराधसम्भवात् सारथिद्वितीयेनेत्युक्तम् ) ।

राजा—अनुगृहीतः = कृतकार्यः अस्मि = भवामि भवदभ्यर्थनामङ्गीकरोमीति भावः । तपोधनानां नियोगस्य स्वाभ्युदयहेतुत्वात् राज्ञा सः अनुग्रहः एव संभावितः । अत्र केना-व्यपदेशेन पुण्याश्रमं गन्तुमिच्छो राज्ञः ऋषिकुमारकृता अभ्यर्थना अनुग्रहपक्षे एव संवृत्तेति भावः ।

विदूषकः—( अपवार्य = परावृत्य, परावर्तनं कृत्वा राजानं प्रति ) एषा = इयं पूर्वोक्ता अभ्यर्थना = प्रार्थना ते = तव, त्वां प्रति अनुकूला = मनीषिता, अभीष्टा ।

राजा—( स्मितं कृत्वा = ईषद्धासं विधाय ) रैवतक ! मद्वचनात् = अस्मदादेशेन


**दोनों—**यहाँ कुलपति पूज्यपाद महर्षि कण्व के किसी कारणवश बाहर चले जाने के कारण राक्षस लोग हमारे यज्ञों में विघ्न कर रहे हैं। अतः थोड़े दिनों या कुछ रात के लिए यज्ञरक्षार्थ आप सारथि के साथ एकाकी यहां निवास करें और इस आश्रम की शोभा बढ़ावें।

**विशेष—**यहाँ ऋषि कुमारों ने ऋषियों के प्रार्थना कुछ रात के लिए केवल सारथि के साथ रुकने की प्रार्थना की है, क्योंकि ऋषियों के लिए सेना का आतिथ्य एवं स्वागत करना कठिन हो जायेगा। दूसरी बात यह है कि ऐसे साधारण कार्य के निमित्त सेना का रुकना उचित नहीं और आश्रम पर सेना के ठहरने से तपोवन के आवश्यक कार्यों में विघ्न-बाधा भी उपस्थित हो सकता है। कुछ रात रुकने का अभिप्राय यह है कि राक्षसों की बाधा रात में ही अधिक होती है। अतः रात में ही रहकर उसका निवारण किया जा सकता है।

**राजा—**मैं इस प्रकार सेवा की आज्ञा से कृतार्थ हो गया। अर्थात् मेरा अहोभाग्य है कि ऋषियों ने मुझे यह कार्य करने की आज्ञा प्रदान की है।

विदूषक—( अलग से ) यह तो आपकी इच्छा के अनुकूल ही गलहस्त है=गर्दिनयां देकर =बलात्कार पकड़कर मनोऽनुकूल कार्य में लगाना है।

राजा—( हँसकर ) रैवतक ! जाओ, मेरी आज्ञा से सारथि को कहो कि धनुष बाण के साथ मेरा रथ यहां लावे।


पाठा०—१. उच्यतामस्मत्सारथिः ।

द्वितीयोऽङ्कः

११३

**दौवारिकः—**जं देवो आणवेदि [ यद्देव आज्ञापयति ] । ( इति निष्क्रान्तः ) ।
उभौ—( सहर्षम् ) ।

अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६ ॥

**मदाज्ञया-**महाराजदुष्यन्त आज्ञापयतीत्युच्यताम् **सबाणासनं—**बाणासनेन = धनुषा सह सबाणासनं = धनुर्बाणसहितं रथं = स्यन्दनम् उपस्थाय = आनय इति सारथिः = सूतः उच्यतां = कथ्यताम् ।

दौवारिकः—देवः = स्वामी, महाराज यत् आज्ञापयति = आदिशति ( इति = एवमुक्त्वा निष्क्रान्तः = रङ्गाद् बहिर्गतः ) ।

उभौ—( सहर्षं = हर्षेण = प्रमोदेन सह वर्तते इति सहर्षं = सप्रमोदम् ।

**अन्वयः—**पूर्वेषामनुकारिणि त्वयि इदं युक्तरूपम् ( अस्ति ) पौरवा आपन्नाभयसत्रेषु दीक्षिताः ( सन्ति ) खलु ।

यज्ञविघ्नवारणाय मुनिजनप्रार्थनया दुष्यन्तस्याश्रमगमनं स्वीकृतौ भृशं सन्तुष्टौ ऋषिकुमारकौ तमभिनन्दत—अनुकारिणीति । पूर्वेषां = ययातिपुरुप्रभृतीनां स्वपूर्वजानाम् अनुकारिणि = अनुकरणकर्तरि तत्सदृशे त्वयि = राज्ञि दुष्यन्ते इदं = मुनिजनप्रार्थनायाः सद्यः स्वीकरणं युक्तरूपं = अतिशयेन पूज्यते युक्तम् अस्ति पौरवाः = पुरुवंशोद्भूवा राजानः आपन्नाभयसत्रेषु-आपन्नाः = आपत्तियुक्ताः तेषामभयानि = अभयदानान्येव सत्राणि = यागविशेषाः तेषु विषये दीक्षिताः = कृतदीक्षाः = धृतव्रताः खलु = निश्चयेन । अत्रापन्नाभय प्रदाने सत्रत्वारोपेण तस्यावश्यककर्तव्यत्वम्, लोकोत्तरफल-जनकत्वम्, साधारणजनदुष्करत्वं च सूच्यते ।

**अयं भावः—**राजन् ! यथा सर्वे पुरुवंशोद्भूवा राजानः आपद्ग्रस्तेभ्योऽस्मभ्योऽभयप्रदानेन सर्वदानुगृहीतवन्तः तथैव भवानपि अस्मदापत्तिवारणे सावधान एवास्ति । अतो भवत इदं कार्यं निजपूर्वजानुसारं योग्यमेवास्ति ॥ १६ ॥


**दौवारिक—**महाराज की जो आज्ञा ।
दोनों—( हर्ष के साथ ) राजन् !
महाराज ययाति, पुरु आदि अपने पूर्व पुरुषों के समान ही उपकार परायण आपके लिए तो यह यज्ञ के रक्षार्थ सन्नद्ध होना उचित ही है, क्योंकि पौरवराजवंश = आपका घराना तो विपत्ति ग्रस्तों को अभयदान देने में = सदावर्त में हमेशा दीक्षित = सन्नद्ध रहता है ॥ १६ ॥

**विशेष—**इस पद्य में पूर्व शब्द पूर्वपुरुष = पूर्वजों का वाचक है जिन्होंने बड़े बड़े पुण्य कार्य किये हैं । यहाँ दुष्यन्त चरित्र, शौर्य, रूपदान शुद्ध रूप में अपने पूर्वजों के अनुकरण करने वाले कहे गए हैं । जिस प्रकार इनके पूर्व पुरुषों ने ऋषि-मुनियों की सहायता कर शुभ्र पुण्य अर्जित किया है इसी प्रकार ये भी हम लोगों की प्रार्थना स्वीकार कर पुण्यभागी होंगे । क्योंकि दीक्षित व्यक्ति कार्य पूरा किये बिना दूसरा काम नहीं करता । अतः आप हमलोगों का कार्य अवश्य पूर्ण करेंगे ।

८ शाकु०

११४ अभिज्ञानशाकुन्तलम्

राजा—( सप्रणामम् ) $^१$गच्छतं पुरो भवन्तौ अहमप्यनुपदमागत एव । **उभौ—**विजयस्व ( इति निष्क्रान्तौ ) । **राजा—**माढव्य ! अप्यस्ति शकुन्तलादर्शने कुतूहलम् ? **विदूषकः—**पढमं $^२$सपरीवाहं आसि । दाणिं रक्खसवृत्तंतेण बिंदू वि णावसेसिदो [ प्रथमं सपरीवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ] । **राजा—**मा भैषीः, ननु मत्समीपे वर्त्तिष्यसे । **विदूषकः—**एसो रक्खसादो रक्खिदो म्हि [ एष राक्षसाद्रक्षितोऽस्मि ] । ( प्रविश्य )


राजा—( सप्रणामं = प्रणतिपूर्वकमाह ) पुरः = अग्रे भवन्तौ = युवां गच्छतं = व्रजतम् अहं = अयं जनोऽपि भवतोः अनुपदं—पदस्य पश्चादनुपदं = भवत्पदन्यास लक्ष्यीकृत्य अनन्तरमेव युष्मत्पादन्यासचिह्नानुसरणैव आगतः = आश्रमे प्राप्त एव । एवं स्वगमने विलम्बाभावं द्योतयति ।

**उभौ—**ऋषिकुमारौ कथयतो यत् विजयस्व महाराज, त्वं जय, सर्वोत्कर्षेण वर्तताम् ( इति = एवमुक्त्वा, निष्क्रान्तौ = रङ्गमञ्चाद् बहिर्गतौ )

राजा—माढव्य ! अपि = किम् शकुन्तलादर्शने = मुनिकन्यावलोकने कुतूहलम् = उत्सुकता अस्ति = वर्तते ।

विदूषकः—प्रथमं = मुनिकुमारप्रार्थनाश्रवणपर्यन्तम् राक्षसवृत्तश्रवणात् पूर्वं तु सपरीवाहं = परीवाहेन = जलोद्रेकेन सह वर्तमानं सपरीवाहं = वेगेन विपुलं वहन् प्रपाल इव कौतुकप्रवाह आसीत् । इदानीं = साम्प्रतं तु तापसमुखराक्षसवृत्तान्तश्रवणात् बिन्दुरपि नावशेषितः = रक्षितः, अल्पमात्रमपि नेदानीं तापसाश्रमे गन्तुमभिलषामीति भावः ।

राजा—मा भैषीः = न भयमाप्नुहि ननु मत्समीपे = मम निकटे एव वर्तिष्यसे = स्थास्यसि । अतो न ते राक्षसेभ्यो भीतिसंभावना ।

विदूषकः—एषः = अयम् = अहं राक्षसात् = असुरात् राज्ञा रक्षितः = सुरक्षितं एव अस्मि = भवामि = दुष्यन्तेन मदरक्षणे प्रतिश्रुते रक्षितमेवात्मानमहं मन्ये इति भावः ।


राजा—( प्रणामपूर्वक ) आप लोग पधारिए, मैं भी आपलोगों के पीछे-पीछे तुरन्त आ रहा हूँ ।

**दोनों—**आपकी विजय हो ( कहकर चले जाते हैं )

**राजा—**सखे माढव्य ! क्या तुम्हें भी शकुन्तला को देखने का कौतूहल एवं उत्कण्ठा है ?

**विदूषक—**मित्र ! पहले तो बड़ी इच्छा थी, परन्तु अब ऋषि कुमारों से वहाँ राक्षसों के उपद्रव का वृत्तान्त सुनकर उस इच्छा में बहुत परिवर्तन आ गया है अर्थात् अब तो मेरा कौतूहल ही शान्त हो गया ।

**राजा—**मित्र ! मत डरो । यदि राक्षसों से डर लगता है तो तुम मेरे ही पास रहोगे जिससे डर न लगे अतः भय की कोई बात नहीं है ।

**विदूषक—**चलो, अब मैं राक्षस से सुरक्षित हो गया । ( प्रवेशकर )


पाठ०—१. गच्छतां भवन्तौ । २. अपरिवाधं ।

द्वितीयोऽङ्कः

११५

दौवारिकः—सज्जो रधो भट्ठिणो विजअपत्थाणं अवेक्खदि । एस उण णअरादो देवीणं आणत्तिहरओ करभओ आददो [ सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञाप्तिहरः करभक आगतः ] ।

राजा—( सादरम् ) $^१$किमम्बाभिः प्रेषितः ?

दौवारिकः—अह इं [ अथ किम् ] ?

राजा—$^२$ननु प्रवेश्यताम् ।

दौवारिकः—तह । ( इति निष्क्रम्य करभकेण सह प्रविश्य ) एसो भट्टा, उवसप्प [ तथा । एष भर्ता, उपसर्प ] ।

करभकः—चेदु भट्टा देवी आणवेदि आआमिणि चउत्थदिअहे पउत्तपारणो मे उववासो भविस्सदि । तहिं दोहाउणा अवस्सं संभावितव्वा त्ति [ जयतु भर्ता । देव्याज्ञापयति आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति । ]


दौवारिकः = ( प्रविश्य = रङ्गान्त आगत्य ) सज्जः = प्रस्तुततः रथः = स्यन्दनः भर्तुः = स्वामिनः विजयप्रस्थानं = जयप्रमाणम् अपेक्षते = प्रतीक्षते । एष = अयं पुरःस्थितः नगरात् = पुरात् राजधानीतः देवीनां = राजमातृणां अम्बाया राजमातुः पूज्यत्वादबहुवचनम् आज्ञप्तिहरः = सन्देहवाहकः आनेता, करभकः आगतः = प्राप्तः ।

राजा—( सादरम् आदरेण = सम्मानेन सहितं सादरम् = ससम्मानम् ) किम् अम्बाभिः = मातृभिः प्रेषितः = प्रहितः ?

दौवारिकः—द्वारपालो रैवतकः प्रतिब्रूते—अय किं = वाढम् । एवमेतत् ।

राजाननु = रैवतक ! प्रवेश्यताम् = रङ्गान्तः आनीयताम् ।

दौवारिकःतथा = आम् ( इति = एवमुक्त्वा निष्क्रम्य = बहिर्गत्वा करभकेण = तन्नाम्ना अम्बासन्देशवाहकेन सह = सार्धं प्रविश्य = रङ्गमागत्य ) एषः = अयं भर्ता = स्वामी, उपसर्पं = समीपे गच्छ ।

करभकःजयतु भर्ता = स्वामी सर्वोत्कर्षेण वर्तताम् । देवी = राजमाता आज्ञापयति =


दौवारिक—महाराज का जय-जयकार हो, महाराज का विजय रथ तैयार है और आपके विजयार्थ प्रयाण की प्रतीक्षा कर रहा है, किन्तु यह करभक नामक सन्देशवाहक राजमाताओं की कोई सूचना लेकर राजधानी से आया है ।

राजा—( आदर के साथ ) क्या मेरी माताओं ने उसे भेजा है ?

विशेष—यहाँ माताओं के सन्देश में आदर व्यक्त किया गया है, क्योंकि दुष्यन्त मातृ भक्त राजा है ।

द्वारपाल—जी, हाँ ।

राजा—तो उसे शीघ्र यहाँ लाओ ।

द्वारपाल—महाराज की जैसी आज्ञा ( बाहर जाता है और करभक के साथ पुनः प्रवेश कर ) करभक ! ये महाराज बैठे हैं, आप जाइए ।

करभक—महाराज की जय हो । राजमाताओं ने आज्ञा दी है कि आगामिनि चतुर्थी के दिन


पाठ०—१. किमार्याभिः । २. तेन हि ।

१६९अभिज्ञानशाकुन्तलम्

राजा—इतस्तपस्विकार्यम्, इतो गुरुजनाज्ञा। द्वयमप्यनतिक्रमणीयम्। किमत्र प्रतिविधेयम्।

विदूषकः—तिसंकू विअ अंतराले चिट्ठ। [ त्रिशङ्कुरिवान्तराले तिष्ठ ]

आदिशति—आगामिनि चतुर्थदिवसे = अस्माद् दिनाच्चतुर्थदिवसे चतुर्थी तिथौ वा प्रवृत्तपारणः = प्रवृत्ता = आरब्धा पारणा उपवासाङ्गं व्रतान्तभोजनं यस्य स प्रवृत्तपारणः = उपवास अन्तग्रहणेन व्रतभङ्गः क्रियमाणोपवाससमाप्तिः भविष्यन्ति। तत्र = तस्मिन् अवसरे दीर्घायुषा = चिरञ्जीविना त्वया अवश्यं नूनं सम्भावनीया = उपस्थित्या समाजनीया, सन्तोषणीया इति। उपवासस्तु आरब्ध एव केवलं तस्य समाप्तिः चतुर्थेऽह्नि भविष्यतीति भावः।

राजा—तदाकर्ण्य नृपो दुष्यन्तश्चिन्तयति—इतः = एकतः अत्र तपोवने तपस्विकार्यं = तापसानां यज्ञस्य राक्षसेभ्यो रक्षणम् पुनः इतः = अन्यत्र नगरे वा द्वितीयतः गुरुजनाज्ञा गुरुजनस्य = मातुः आदेशः, प्रत्यावर्तनरूपः द्वयं = उभयमपि, अनतिक्रमणीयम् = अनुल्लङ्घनीयम् तपस्विकार्य-गुरुजनानुज्ञयोः समप्राधान्येन युगपत् कर्तुमशक्यत्वात् राजा प्रतिपत्तिमूढः सन्नाह—किमत्र प्रतिविधेयं = अस्मिन् विषये कतरत् कर्तव्यम् किमनुष्ठेयमित्यर्थः।

विदूषकः—राज्ञः प्रतिपत्तिमूढत्वं विदित्वा माढव्यः कथयति यत् त्रिशङ्कुरिव = त्रिशङ्कुसदृशः अन्तराले = द्वयोर्मध्ये तिष्ठ = भव।

त्रिशङ्कुकथा वाल्मीकिरामायणे बालकाण्डस्य ५७तः ६०सर्गपर्यन्तं प्रसिद्धाऽस्ति, तद्यथा—एकदा त्रिशङ्कुः विश्वामित्रेण स्वतपोबलबलादूर्ध्वं स्वर्गे लोके प्रेषितः तदसहमानेन


वा आज से चौथे दिन प्रवृत्तपारण नामक हमारा उपवास पूर्ण होगा, उस दिन आप अवश्य उपस्थित होकर हमारा उत्साह एवं हर्ष बढ़ावें।

**विशेष—**चतुर्थ दिवस में आगामिनि विशेषण से गत चतुर्थ दिन का निराकरण किया गया है, प्रवृत्तपारण कहकर उपवास शब्द के प्रयोग से माताओं के अनशन की आशङ्का का वारण किया गया है।

**राजा—**इधर तो मुझे ऋषियों का कार्य करना है। उधर गुरुजन=माताओं की आज्ञा का भी पालन करना आवश्यक है। ये दोनों ही अत्यावश्यक कार्य हैं, अब क्या करना चाहिए ? एक समय में एक ही हो सकता है क्योंकि दोनों कार्यों का स्थान दूर-दूर है।

**विदूषक—**मित्र ! अब तुम त्रिशंकु की तरह बीच में ही लटकते रहो।

**विशेष—**उपहासप्रिय विदूषक ने यहाँ अच्छा मजाक किया है कि तपस्वीजन तथा माताओं के मध्य में रहकर किसी का भी कार्य नहीं हो सकता है।

वाल्मीकीयरामायण के बालकाण्ड में ५७ से ६० सर्गों में राजा त्रिशंकु की कथा अङ्कित है—महाराजा हरिश्चन्द्र के पिता त्रिशंकु सूर्यवंश में उत्पन्न राजा थे। ये बड़े पराक्रमी और पुण्यात्मा राजा थे इन्होंने एक बार सदेह स्वर्ग में जाने की इच्छा से कुलगुरु वसिष्ठजी से यज्ञ कराने के निमित्त प्रार्थना की, पर उन्होंने यह कहकर इनकार कर दिया कि यह कार्य असंभव है। तब त्रिशंकु ने वसिष्ठजी के विरोधी विश्वामित्र मुनि के द्वारा यज्ञ कराया।

मन्त्रों के प्रभाव से त्रिशंकु इसी देह से स्वर्ग को चला, किन्तु गुरु वसिष्ठ की अनुमति के बिना यज्ञ करने से देवता असन्तुष्ट हो गये और उन्होंने उसे स्वर्ग जाने से रोककर नीचे धकेल दिया। इधर विश्वामित्र भी मन्त्रों से उसे स्वर्ग भेजने में जोर लगा रहे थे। इस प्रकार उधर स्वर्ग में

द्वितीयोऽङ्कः ११७

राजा—सत्यमाकुलीभूतोऽस्मि ।

कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ १७ ॥

देवेन्द्रेण चाधः पातितः । ततः स नोर्ध्वं न चाधः, किन्तुः अन्तराल एवातिष्ठत् । एतत्कथोद्देशेन विदूषको दुष्यन्तमुपहसति-यत्त्वमपि तथैव गुरुजन-मुनिजनाज्ञयोः किमपि अकृत्वा अत्रैवं विचारयन्नेव तिष्ठ । न खलु राजधान्यां गच्छ न च तपोवनमुपव्रजेति भावः ।

राजा--विदूषकस्य परिहासं जानन् राजा, मित्र ! नायं परिहासावसर इत्याह--
सत्यमित्याद्यङ्गीकारे-सत्यं = इदं तथ्यम् यत् आकुलीभूतः-न आकुलः अनाकुलः अनाकुलः आकुलः सम्पद्यमानः आकुलीभूतः = व्याकुलः अस्मि = भवामि । आकुलीभूतोऽस्मीति यत् तत् सत्यमित्यर्थः ।

अन्वयः—पुरः शैले ( सति ) प्रतिहतं स्रोतोवहः स्रोतो यथा कृत्ययोः भिन्नदेशत्वात् मे मनः द्वैधी भवति ।

अथात्मनो मनसो व्याकुलत्वं स्पष्टयति राजा दुष्यन्तः--कृत्ययोरितिपुरः = अग्रे ( शिलाः सन्ति यस्मिन्नित्यन्वर्थनामवति प्रतिहननसमर्थे ) शैले = पर्वते सति प्रतिहतम् = अवरोधं प्राप्तम्, निरुद्धप्रवाहं, स्रोतोवहः = नद्या स्रोतः = प्रवाहः जलवेगः यथा = इव मे = मम मनः = चित्तम् कृत्ययोः = कर्तव्ययोः भिन्नः = पृथक् देशः = स्थानं ययोः तयोः भावः तत्त्वं तस्मात् भिन्नदेशत्वात्-नानादेशस्थत्वात् द्वैधीभवति = मार्गद्वयगमनशीलं संशयाकुलं भवति, मातृकार्यं राजधान्यां मुनिकार्यं च तपोवने इत्येकदा तयोर्द्वयोरनुष्ठाना-सम्भवादित्याशयः ।

अयं भावः--यथा वेगेन प्रवहन् नदीप्रवाहः मार्गे शिलाखण्डरुद्धः द्विधा भूत्वा उभयोः


में देवता लोगों ने उसे घुसने नहीं दिया, इधर विश्वामित्रजी ने उसे भूमि पर गिरने नहीं दिया । फलतः वह न ऊपर स्वर्ग में जा सका न नीचे जमीन पर ही आ सका। बेचारा आकाश के बीच में ही आजतक उलटा होकर लटका रह गया । उसके मुख से जो लार गिरी थी उसी से कर्मनाशा नदी निकली है जिसके जल के स्पर्शमात्र से धर्म कर्म नष्ट हो जाते हैं । अतः उस नदी का जल अस्पृश्य माना गया है ।

त्रिशंकु के नामकरण के सम्बन्ध में पुराणों में कहा गया है कि इनमें तीन शङ्कु = पाप होने के कारण इनका नाम त्रिशङ्कु पड़ा था । इनके तीन पाप ये थे-इन्होंने अपने पिता को असन्तुष्ट कर दिया, जिससे उन्होंने राज्य से बाहर निकाल दिया था तथा इन्होंने गुरुवसिष्ठ की दुधार गौ का वध कर दिया। इसी प्रकार इन्हें गोमांस भक्षण का भी दोषी बताया गया है। इन्हीं तीनों पापों के कारण त्रिशंकु नाम से प्रसिद्ध थे।

राजा—सच-मुच मैं व्याकुल हो गया हूँ क्योंकि दोनों ही कार्य अवश्य कर्तव्य है, किसे करूँ, और किसे छोड़ूँ ।

जैसे सामने पर्वत की चट्टान आजाने पर उसके दोनों ओर नदी का प्रवाह दो भागों में बँट जाता है, वैसे ही इन दोनों कार्यों के भिन्न-भिन्न दिशाओं में होने के कारण प्रतिहत हो मेरा मन भी द्विविधा में पड़ गया है, इसे करूँ या उसे करूँ, इसी संशय में पड़ गया हूँ ॥ १७ ॥

विशेष—इस समय मेरे सामने वस्तुतः दो कर्त्तव्य उपस्थित हैं-राक्षसों से ऋषियों के यज्ञ


पाठा०—१. कृतोऽस्मि ।

११८ | अभिज्ञानशाकुन्तलम्

( विचिन्त्य ) सखे ! ^१त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य ^२तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति । विदूषकः--ण खु मं रक्खोभीरूअं गणेसि [ न खलु मां रक्षोभीरुकं गणय ] । राजा--( सस्मितम् ) भो महाब्राह्मण ! कथमेतद् भवति सम्भाव्यते ?


पार्श्वयोः = शैलोमयपार्श्वभ्यां प्रवहति तथैव एकतो मुनिजनाभ्यर्थनं अन्यतो नगरात् मातुरादेश इति कर्तव्यकर्तव्य-निश्चयाभावात् मामकीनं मनः द्वैधीभवति ॥ १७ ॥

( विचिन्त्य = चिन्तितो राजा तत्कालस्फुरितया प्रतिभया कर्तव्यं निर्धार्य ) विदूषकमाह--सखे ! त्वमम्बया = मम मात्रा पुत्र इति = पुत्रत्वेन प्रतिगृहीतः = अङ्गीकृतोऽसि । अतः = अनेन कारणेन भवान् = त्वमितः = अस्मात् स्थानात् प्रतिनि Flat/निवृत्य = प्रत्यावृत्य तपस्विनां = तापसानां कार्यं = कृत्यं तत्र व्यग्रं = आकुलं मनः = चित्तं यस्य प्र तं तपस्विकार्यव्यग्रमानसं मां = इमं जनं दुष्यन्तम् आवेद्य = सूचयित्वा तत्रभवतीनां = आदरणीयाया अम्बायाः पुत्रस्य = सुतस्य कृत्यं विधानमिति पुत्रकृत्यं = सुतोचितं विधानम् पुत्रेण मया कर्तुमुचितकर्म अनुष्ठातुं = सम्पादयितुम् अर्हसि = योग्योऽसि ।

विदूषकः--न खलु मां = इमं जनं रक्षोभीरुकं = असुराद्द्रयभीतं गणय = जानीहि यद्यहं राजधानीमभिगमिष्यामि तदा भवान् मां राक्षसाद्भीतंत मन्येत। अतो यदि मां तथा न मनुते भवान् तदाहं गमिष्यामि अर्थात् भवन्नियोगेनैवाहं नगरं गच्छामि, न रक्षोभयेनेति भावः।

राजा--( सस्मितं-किञ्चिद्-हसित्वा ) भो महाब्राह्मण ! = हे ब्राह्मणश्रेष्ठ ! कथं = केन प्रकारेण, न केनापि प्रकारेण एतत् = इदं रक्षोभीरुत्वं भवति = त्वयि सम्भाव्यते = सम्भवति ? नैवेत्यर्थः । नाहं त्वां रक्षोभीरुकं सम्भावयामि, त्वमेव स्वमुखेन तत् प्रकाशयसीत्याकूतम् ।

अत्र महाब्राह्मणेति सम्बोधनमुपहासादेव प्रोक्तम् । महाब्राह्मणपदस्य 'पुण्यजनादि-' शब्दवद् विपरीतलक्षणया रूढ्या वा निन्दितब्राह्मणपरत्वात् । तदुक्तं--

'शङ्खे तैले तथा मांसे वैद्ये ज्योतिषके द्विजे । यात्रायामथ निद्रायां महच्छब्दो न दीयते ॥'

की रक्षा तथा माँ का व्रत पारण के दिन बुलावा है। अतः नदी के प्रवाह का पहाड़ से टकराकर दो भागों में विभक्त हो जाने की तरह मेरा मन भी दोनों जगह बँट गया है। अतः मैं संशयास्पद स्थिति में पड़ गया हूँ।

( कुछ सोचकर ) सखे माधव्य ! हमारी माताओं ने तुमको भी पुत्र की तरह मान रखा है। अतः तुम यहाँ से राजधानी जाकर माताओं को मेरे तापस कार्य में लगे रहने की सूचना दे देना और मेरी असमर्थता बताकर उनके पुत्रोचित कार्य का सम्पादन तुम्हीं कर देना ।

विशेष--इस व्रत का पारण पुत्र के हाथ से दिए हुए ग्रास से होता है, सो तुम ही हमारी ओर से उनके मुख में ग्रास देकर पारणा करा देना, क्योंकि तुम भी तो उनके माने हुए प्रिय पुत्र ही हो ।

विदूषक--हे मित्र ! तुम कहाँ मुझे राक्षसों के भय से डरकर भागा हुआ तो, नहीं समझ लोगे ?

राजा--( हँसकर ) हे महाब्राह्मण ! तुम्हारे जैसे वीर को डरकर भागा हुआ मैं कैसे समझ सकता हूँ। तुम तो बड़े वीर हो।


पाठा०--१. त्वमार्याभिः पुत्र इव गृहीतः । २. तपस्विकार्यव्यग्रतामस्माकं निवेद्य ।

द्वितीयोऽङ्कः १११९

विदूषकः--तेण हि राआणुअ विअ गच्छिदुं इच्छामि [ तेन राजानुज इव गन्तुमिच्छामि । ]

राजा--तपोवनोपरोधः परिहरणीय इति सर्वाननुयात्रिकांस्त्वयैव सह ^१प्रस्थापयामि ।

विदूषकः--तेन हि जुवराओ म्हि दाणि संवुत्तो [ तेन हि युवराजोऽस्मीदानीं संवृत्तः ] ।

राजा—( स्वागतम् ) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु एनमेवं वक्ष्ये । ( विदूषकं हस्ते गृहीत्वा, प्रकाशम् ) वयस्य, ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य—


विदूषकः--तेन = तेन कारणेन राजानुज इव = राजकनिष्ठभ्रातेव गन्तुमिच्छामि = व्रजितुं वाञ्छामि सकलसैनिकादिपरिवारसहितं मां प्रेषयेति भावः ।

राजा--तपोवनोपरोधः सैनिकानां हस्तितुरगादीनां कोलाहलेन तपोवनशान्तिभङ्गः तपोवनबाधापरिहरणीयः = दूरीकरणीयः इति = हेतोः सर्वान् = सकलान् अनुयात्रिकान्= सहागतान् सैनिकान् त्वया = भवता माधव्येन एव सह = साकं प्रस्थापयामि = विसर्जयामि । तेन तव राजभ्रातृवद् गमनाभिलाषस्य साफल्यं सम्भवत्येवेत्याशयः ।

विदूषकः--तेन = कारणेन हि = निश्चयेन इदानीम् = अधुना युवराजः = संवृत्तः = जातः अस्मि = भवामि ।

राजा--अथ राजा दुष्यन्तो विदूषकस्य प्रस्थाने कश्चिद् दोषमाशङ्क्य ( स्वगतं = निजमनसि ) चिन्तयन्ति-चपलः = अनवस्थितः, वाच्यावाच्यविचाररहितः इति यावत् अयं = एषः वटुः = ब्राह्मणकुमारः कदाचित् = कदापि अस्मत्प्रार्थनां= मदभिलाषं मृगया-वृत्तान्तप्रसङ्गेन शकुन्तलावृत्तान्तमपि अन्तःपुरेभ्यः = अन्तःपुरिकाभ्यः सुन्दरीभ्यां = महादेव्यै च कथयेत् = वदेदिति सम्भावयामि एवं सति दाक्षिण्यभङ्गः स्यादिति भावः । तत्परिहारं विमृशन्नाह—भवतु = अस्तु उपायजातः, एवं चपलं विदूषकमेवं = इत्थं वक्ष्ये = वदिष्यामि । ( विदूषकं = माधव्यं हस्ते गृहीत्वा = तस्य करं स्वकरेण गृहीत्वा = अनेनात्मनः सख्यं व्यञ्जयन् मनसि किञ्चिद् विभाव्य रहस्यनिर्भेदं निराचिकीर्षया


विदूषक—तो मै राजा के छोटे भाई की तरह शान से ( खूब ठाट बाट से ) राजधानी में जाना चाहता हूँ ।

राजा—ठीक है, मैं अपने साथ के सभी सैनिक और दरबारियों को तपोवन में विघ्न न हो इसलिए तुम्हारे साथ ही राजधानी को भेज देना चाहता हूँ । अतः इनके साथ तुम खूब ठाट बाट से मेरे भाई की तरह ही जा सकते हो ।

विदूषक—तब तो मैं इस समय युवराज ही हो गया ।

राजा—(मन ही मन) यह ब्राह्मण बालक तो बड़ा ही चञ्चल स्वभाव का है, कहीं शकुन्तला वाली बात महल की रानियों से तथा माताओं से जाकर न कह दे । अच्छा, इससे ऐसा कहता हूँ । ( विदूषक का हाथ पकड़कर, प्रगट में ) मित्र माधव्य ! मैं तो ऋषियों के कार्य की गुरुता को देखकर ही आश्रम में जा रहा हूँ । सचमुच किसी तापस कन्या में मेरा मन नहीं लगा है क्योंकि देखो—


^१ पाठ०—१. प्रेषयामि ।

१२०

अभिज्ञानशाकुन्तलम्

क्व वयं क्व परोक्षमन्मथो १मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ १८ ॥
( इति निष्क्रान्ताः सर्वे )
इति द्वितीयोऽङ्कः ।

तमावर्जयति प्रकाशम् = स्पष्टम् ) वयस्य = मित्र ! ऋषिगौरवात् = मुनीनां समादरात् आश्रमं = तपोवनं गच्छामि = यामि । न खलु = नैव, निश्चयेन सत्यं = वास्तविकं तथ्यमेवं तापसकन्यायां = कण्वकुमार्यां शकुन्तलायां मम = अस्य जनस्य नागरस्य चक्रवर्तिनः = विदग्धस्य राज्ञो दुष्यन्तस्य अभिलाषः = प्रेमास्ति । पूर्वं तु सर्वं मया केवलमुपहासेनैव प्रोक्तमिति भावः । पश्य = त्वमवलोकय, विचारय ।

अन्वयः—वयं क्व परोक्षमन्मथः मृगशावैः समम् एधितः जनः क्व । सखे ! परिहास-विजल्पितं वचः परमार्थेन न गृह्यताम् ।

शकुन्तलाविषयकमनुरागं प्रच्छादयन् तस्याः स्वाभिलाषानर्हत्वं च समर्थयन् राजा दुष्यन्तो विदूषकं ब्रूते—क्व वयमिति । वयं अनेकराजोपचाराभ्यस्ता नानाविदग्धोकुशला नागरा महाकुलीना सम्राट्पदे स्थिताश्च क्व = कुत्र परोक्षमन्मथः = मनो मथ्नातीति मन्मथः = कामः सोऽपि परोक्षः = अप्रत्यक्षे । यस्य स परोक्षमन्मथः = अज्ञातकामकथः मृगाणां शावैः मृगशावैः = हरिणशिशुभिः = समं = सह एधितः = वर्द्धितः पालितः जनः = शकुन्तलारूपः क्व अनयोर्महदन्तरमेतत् । अतो नास्माकमीदृशे तापसबालिकारूपेऽनुचिते कर्मणि कथमपि प्रवृत्तिः सम्भाव्यते ।

सखे ! = मित्र ! परिहासेन = उपहासेन विजल्पितं = पूर्वं कथितं वचः = वाक्यं परमार्थेन = तत्त्वतः सत्यमेतदिति न गृह्यताम् = नैव त्वया मन्यताम् । शकुन्तलानुरागकथावर्णनादिकं सर्वं वचो मत्कृतं काल्पनिकं परिहासोक्तमेव, न याथार्थ्यमित्यवगन्तव्यमित्याशयः ।

अयं भावः मित्र माधव्य ! शकुन्तलानुरागादिविषयक-यद्वचनं मया प्राक्कथितं तत्सर्वं परिहासोक्तमेव ज्ञेयम् । त्वमेव तावद् विचारय अनेककलाकुशलानामवरोधजनानां भोक्तारः रसिकावतंसाः वयं राजानः कुत्र ? जन्मकालत एव जनकजननीभ्यां वने परित्यक्ता कण्वेन महर्षिणा धर्मबुद्ध्या स्वकुटीरभानीय स्वाश्रमस्थैः मृगाबालकैः साकं संवर्द्धिता आरण्यवृत्तिः कामकलानभिज्ञा च कुत्र तस्मादेतत् मदुक्तं सर्वमेव काल्पनिकं न वास्तव-मिति मन्तव्यम् ॥ १८ ॥

( इति = एवमालप्य सर्वे = सकलाः निष्क्रान्ताः = रङ्गमञ्चाद् बहिर्गताः )


कहाँ तो हम वैदग्ध्य प्रिय नागरिक और कहाँ मृग शावकों के साथ पली हुई भोली-भाली तपस्वियों की कन्यायें । भला, हमारा इनसे मेल कैसा, इसलिए हे मित्र ! हमने तो हँसी-परिहास में ही तुमसे शकुन्तला के बारे में यों ही गढ़कर बातें कह दी थीं। उन्हें तुम सच्ची न समझ लेना । यह तो केवल एक विनोद = हँसी-मजाक ही था। इसमें सच्चाई कुछ भी नहीं है ॥ १८ ॥

( सब बाहर निकल जाते हैं )
॥ द्वितीय अङ्क समाप्त ॥


पाठा०—१. मृगशावैः सह वर्धितो जनः । २. विकल्पितं ।

तृतीयोऽङ्कः (गान्धर्वविवाह)

तृतीयोऽङ्कः

अथ विष्कम्भकः

( ततः प्रविशति कुशानादाय यजमानशिष्यः )

शिष्यः— ( विचिन्त्य, सविस्मयम् ) अहो महानुभावः पार्थिवो दुष्यन्तः। प्रविष्टमात्र एव तत्रभवति सारथिद्वितीये राजनि निरुपद्रवाणि नः कर्माणि प्रवृत्तानि भवन्ति।

का कथा बाणसंधाने ज्याशब्देनैव दूरतः।
हुंकारेणेव धनुषः स हि ^१विघ्नानपोहति ॥ १ ॥

अथास्मिन् तृतीयेऽङ्के प्राक् शिष्यस्य ततो राज्ञः तदनन्तरं च सखीजनसहितायाः शकुन्तलाया गौतम्याश्च प्रवेशं कथयितुं महाकविः कालिदासः वस्तुसंघटनाय विष्कम्भकनामकमर्थोपक्षेपकमाचरन् सकुशहस्तमुनिशिष्यप्रवेशमाह— तत इति।

( तत = तदनन्तरं यजमानस्य = यज्ञकर्तुः गुरोः शिष्यः तच्छात्रः कुशान् = दर्भान् आदाय—गृहीत्वा प्रविशति = रङ्गमञ्चे दृश्यते ) ।

शिष्यः— ( विचिन्त्य = विचारमभितीय विस्मयेन सहितं सविस्मयं = साश्चर्यम् ) गुरोराज्ञया ब्रह्मकर्मोपयुक्तान् कुशान् आदाय यज्ञशालां गच्छन् शिष्यः मध्येमार्गं राज्ञो दुष्यन्तस्य महान्तं प्रभावं विचिन्त्य साश्चर्यं स्वगतमाह— अहो = आश्चर्यं महान् = विशालः अनुभावः = प्रभावो यस्य स महानुभावः = महाप्रभावः पार्थिवः = भूपतिः दुष्यन्तः। प्रविष्टमात्रे = प्रविश्यान्तरागते समागतवति एव सारथिद्वितीये = सूतमात्रपरिजने तत्रभवति = श्रीमति राजनि = नृपे निर्गतानि = दूरीभूता उपद्रवाः = विघ्नाः येषां तानि निरुपद्रवाणि नः = अस्माकं कर्माणि = यज्ञादिकृत्यानि = प्रवृत्तानि = आरब्धानि निष्पन्नानि भवन्ति। राज्ञः प्रभावातिशयात् निर्विघ्नानि सर्वाणि कृत्यानीति भावः। एतेन राज्ञ आगमनेन मुनिजनयज्ञपरिपन्थिरक्षो विद्रावणानन्तरं निर्विघ्नं यज्ञकर्मसमाप्तिः प्रदर्शिता।

अन्वयः—बाणसन्धाने का कथा, स हि धनुषो हुङ्कारेणेव ज्याशब्देन दूरत एव विघ्नान् अपोहति।

राज्ञो दुष्यन्तस्य महाप्रभावं वर्णयन् यजमानशिष्यो ब्रूते—का कथेति। बाणसन्धाने = धनुषा बाणस्य योजने का कथा = किमुच्यताम्, शरसन्धानस्य प्रसङ्ग एव नापेक्ष्यते, स = राजा दुष्यन्तो हि = निश्चयेन धनुषः = चापस्य हुङ्कारेण—निग्रहसूचकेन हुमिति शब्दोच्चारणमात्रेण ज्याशब्देन = ज्यायाः = मौर्व्या=शब्देन = टणत्काररूपेण ध्वनिता दूरत एव दूरस्थितान् एव विघ्नान् = यज्ञविघ्नकारिकृतान् उपद्रवान् अपोहति = निरस्यति दूरी


( कुशों को लिये हुए ऋषि के शिष्यों का प्रवेश )

शिष्य— ( आश्चर्यपूर्वक, कुछ सोचकर ) अहो, महाराज दुष्यन्त तो बड़ा ही प्रतापी है, क्योंकि सारथि के साथ इनके आश्रम में प्रवेश करते ही इष्टि और यज्ञ आदि सभी कार्य निर्विघ्न सम्पन्न हो गये, ठीक ही है—

बाण के सन्धान की तो बात ही क्या है ? केवल इनके धनुष के टंकार मात्र से ही इन्होंने राक्षस आदि समस्त विघ्नों को दूर कर दिया ॥ १ ॥


पाठ०—१. विघ्नान्व्यपोहति।

१२२अभिज्ञानशाकुन्तलम्

यावदिमान्वेदि संस्तरणार्थं दर्भानृत्विग्भ्य ^१उपनयामि । (परिक्रम्यावलोक्य च आकाशे) प्रियम्वदे कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (आकर्ण्य) किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति । तर्हि त्वरितं गम्यताम् । यत्नादुपचर्यताम् । सखि सा खलु तत्र भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि । (इति निष्क्रान्तः)

करोति । एवं च राज्ञा दुष्यन्तेनानायासं सर्वे विघ्ननिरस्ताः, इष्टिश्च निर्विघ्नतया समाप्तेति भावः । अहो राज्ञो दुष्यन्तस्य प्रभावातिशयं यस्मिन् प्रविष्टेऽनायासेन एवं सर्वं कार्यं सम्पन्नम् । अत्र समासोक्तिर्गर्भा उत्प्रेक्षाकाव्यलिङ्गं चालङ्कारौ छन्दश्चानुष्टुवेव ॥१॥

प्रस्तुतं स्वकृत्यमनुसन्धायाह—यावदिति । 'यावत् = प्रथमं एतान् = मद्हस्तगतान् वेद्यां संस्तरणं=प्रसारणमर्थः=प्रयोजनं यस्य तत् वेदिंसस्तरणार्थं कुशखण्डिकार्थं वेदिकाप्रसारणप्रयोजनं दर्भान् = कुशान् ऋत्विग्भ्यः याजकेभ्यः उपनयामि = उपहारमिं समर्पयामि (परिक्रम्य = प्रदक्षिणं कृत्वा अवलोक्य = दृष्ट्वा च, आकाशे = निरवकाशे) रङ्गभूमी प्रियम्वदामदृष्ट्वापि प्रियम्वदे ! कस्य = कस्य जनस्य उपभोगाय इदम् = एतत् उशीरकल्पितमनुलेपनं उशीरानुलेपनं = वीरणमूलकमङ्गानुलेपनं मृणालवन्ति=मृणालनालसहितानि नलिनीपत्राणि = कमलिनीदलानि नीयन्ते = उपह्रियन्ते । (आकर्ण्य = आकर्णनमभानीय) आकर्णनाभिनयस्तु पार्श्वानतेन शिरसा स्तब्धेन नेत्रेण च भवति । यथोक्तम्—

'पार्श्वस्याभिमुखं यत्तु तत्पार्श्वानितमुच्यते ।
प्रयोज्यमाकर्णनादौ पार्श्वस्थस्यावलोकने ॥
यत्तु स्यान्निश्चयपुटं स्तब्धनेत्रं प्रचक्षते ।'

किं ब्रवीषि=किं कथयसि किमेवमभिदधासि आतपलङ्घनात् = ग्रीष्मप्राप्तेः बलवत् = नितराम् अवस्था = न स्वस्था, प्रकृतिस्था शकुन्तला तस्याः = शकुन्तलायाः शरीरनिर्वापणाय = शरीरस्य = देहस्य निर्वापणाय = सन्तापशान्त्यै शरीरसन्तापशमनाय इति=एवं त्वं वदसि तर्हि = तदा त्वरितं = शीघ्रम् गम्यताम् = व्रज्यताम् । यत्नादुपचर्यताम्=सावहितं चिकित्स्यताम् । सखि-आलि प्रियम्वदे ! सा = शकुन्तला तत्र भगवतः =श्रीमतः कुलपतेः = कण्वस्य = कण्वमहर्षेः उच्छ्वसितम्=जीवनम् । अहं = अयमपि जनः तावत् = प्रथमं वितानस्य = यज्ञस्येदं वैतानिकं = यज्ञसम्बद्धं शान्त्यर्थमुदकं जलमिति शान्त्युदकम्


अच्छा, तबतक मैं वेदी संस्कार विशेष = कुशखण्डिका के निमित्त इन कुशाओं को होताओं को जाकर दे दूँ (कुछ दूर चलकर सामने आकाश की ओर देख) अरी, प्रियम्वदे ! यह खश का अनुलेपन = अङ्गराज तथा मृणालतन्तु से युक्त कमलिनी के पत्ते किसके लिए ले जा रही हो ? (कान में हाथ लगाकर) कह रही हो कि धूप में चलने से शकुन्तला अत्यधिक अस्वस्थ हो गई हैं। उसके शरीर की दाह दूर करने के निमित्त ही ये शीतल उपचार को सामग्री ले जा रही हूँ । अच्छा, प्रियम्वदे ! देखो, शकुन्तला का बड़े उपाय से उपचार करना आवश्यक है, क्योंकि वह हमारे कुलपति महर्षि कण्व के प्राण के समान प्रिय है । तथा मैं भी इसके अभिषेक के लिए गौतमी के द्वारा यज्ञ का आमन्त्रित शान्ति जल भेज रहा हूँ (निकल जाता है) ।


पाठा०—१. उपहरामि ।

तृतीयोऽङ्कः १२३

[ इति विष्कम्भकः । ]

अभिमन्त्रितं रक्षाजलम् अस्यै=शकुन्तलायै गौतमीहस्ते=गौतम्याः करे विसर्जंयिष्यामि = प्रेषयिष्यामि ( इति = एवं कथयित्वा निष्क्रान्तः = निर्गतः ) । ( इति = समाप्तः विष्कम्भकः )

तृतीयाङ्कादारभ्य एतत्पर्यन्तो भूत-भविष्यदंशसूचकः कथ्यमानो विष्कम्भकः अयं चार्थापक्षेपको भवति । तदुक्तं साहित्यदर्पणे—

'अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ । चूलिकाङ्कावतारोऽथ स्यादाङ्कमुखमित्यपि ॥'

तत्र विष्कम्भकलक्षणं यथा—

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥'

प्रकृते च अनेन राज्ञो दुष्यन्तस्याश्रमोपस्थितिः, ऋषीणां यज्ञकार्यनिर्वहणञ्च भूतोऽर्थः, शकुन्तलाविरहावस्थावर्णनं शीतलोपचारादिकं गौतमीसमागमश्च भविष्यदर्थः सूचितः । स चायं विष्कम्भको मध्यमपात्रप्रयोजितवाच्छुद्धविष्कम्भकः । तदुक्तं—

'मध्यमेन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः । शुद्धः स्यात् स तु संकीर्णो नीचमध्यमकल्पितः ॥'

संस्कृतभाषिपात्रप्रयोजितः शुद्धो विष्कम्भकः, संस्कृतप्राकृतभाषिपात्रप्रयोजितस्तु सङ्कीर्णो विष्कम्भकः ।

अपि चान्यत्र तल्लक्षणमेवमुक्तमस्ति—

'तत्र विष्कम्भको भूतमाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः संक्षेपैकप्रयोजनः ॥' 'द्विधा स शुद्धो मिश्रश्च मिथः स्यान्नीचमध्यमैः । शुद्धः केवलमद्योऽयमनेकानेककृतो द्विधा ॥' विष्कम्भकोऽयमेकमध्यमपात्रप्रयुक्तत्वात् शुद्ध एवास्ति ।


[ विष्कम्भक समाप्त । ]

विशेष—अङ्कों में रङ्गमञ्च पर साक्षात् नहीं देखने में योग्य किन्तु आवश्यक भूत, भविष्य की बातों की संक्षिप्त सूचना देने को विष्कम्भक कहते हैं। जैसे—

'वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥'

इस विष्कम्भक के द्वारा भूत-भविष्य दोनों कथाओं का संकेत किया गया है जैसे तृतीय अङ्क के आरम्भ में राजा दुष्यन्त के द्वारा राक्षसों से मुनियज्ञ की रक्षा तथा तदनन्तर शकुन्तला का विरहावस्था का वर्णन है।

यहाँ सार्वभौम सत्ता सम्पन्न नरेश राजा दुष्यन्त का गौरव गाथा है कि उनका प्रताप इतना गौरवशाली है कि यहां उनके आते ही सब विघ्न दूर हो गये, धनुष पर बाण रखने की आवश्यकता ही नहीं पड़ी ।

यज्ञ करने के निमित्त साफ-सुथरा की गई जमीन को वेदी कहते हैं, उसकी सुरक्षा के निमित्त उसके चारों तरफ कुछ बिछा कर जो यज्ञीय कर्म करते हैं उसे कुशकण्डिका कहते हैं। कुश-कण्डिका भी यह रक्षा का एक शास्त्रीय उपाय है।

नाटकों में किसी पात्र के न होने पर भी 'क्या करते हो', यह कहकर बिना सुने हुए भी सुनने का अभिनय कर उसे उद्धृत करना धनञ्जयकृत दशरूपक ग्रन्थ में आकाशभाषित कहा गया है—

'किं ब्रवीष्येवमित्यादि बिना पात्रं ब्रवीति तत् । श्रुत्वेवानुक्तमप्येकस्तत् स्यादाकाशभाषितम् ॥'

किसी नायक के विरह से सन्तप्त विरहिणी नायिका के सन्ताप को शान्त करने के लिए खश तथा नालसहित कमल के पत्तों का उपयोग किया जाता है। खश का लेप प्रायः स्तनों पर किया

१२४ | अभिज्ञानशाकुन्तलम्

( ततः प्रविशति कामयमानावस्थो राजा )

राजा— ( निःश्वस्य )

जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २ ॥

अथ मिथः प्ररूढरागयोः शकुन्तलादुष्यन्तयोः समदनावस्थावर्णनेन विप्रलम्भशृङ्गारं प्रदर्शयिष्यन् कविकालिदासः पूर्वसूचितस्य नायकस्य प्रवेशमाह—तत इति ।

( ततः=शिष्यः निर्गमनान्तरं कामयमानावस्थः–कामयमानस्य = कामिनः, विरहिणः अवस्था = दशा इवावस्था यस्य स कामयमानावस्थः विरहव्याकुलो राजा दुष्यन्तः प्रविशति = रङ्गभूमौ आविर्भवति ) ।

राजा— ( निःश्वस्य = दीर्घं निःश्वासम् उत्सृज्य ) ।

ससैनिकं विदूषकं राजधानीं संप्रेष्य मुनियज्ञविघ्नाश्च निवार्य मुनिभिः विश्रामार्थमादिष्टो राजा दुष्यन्तः रहसि शकुन्तलामेवानुध्यायन् मदनज्वालावलीढहृदयः प्रियाप्राप्त्युपायं विमृशन्नपि नाधिगच्छन् सोत्कण्ठमाह—जाने इति ।

अन्वयः— ( अहम् ) तपसो वीर्यं जाने, सा बाला परवती ( अस्ति ) इति मे विदितं तथापि इदं हृदयं ततो निवर्तयितुं न अलमस्मि ।

अनुयात्रिकैः सार्द्धं विदूषकं स्वराजधान्यां संप्रेष्य मुनिजनकार्यं च सम्पाद्य तै विश्रामाद्यर्थमादिष्टो रहसि स्थितो राजा दुष्यन्तः सोत्कण्ठं शकुन्तलामेवानुध्यायन् तद्विषये विमृशति—जाने तपसो वीर्यमिति । अहं = दुष्यन्तः तपसः = तपश्चरणस्य वीर्यं = प्रभावं जाने = बलाद् यदि शकुन्तलां हरामि तदा नूनं कण्वशापापहतो भवेयमिति वेद्मि सा = अनुभूतकटाक्षमन्दस्मिता मय्यनुरागिणी बाला = षोडशवार्षिकी शकुन्तला परवती पराधीना गुरुजनपरतन्त्रा । इति = एवं मे = मम विदितम् = ज्ञातम् । स्वयं मय्यनु-रक्ताऽपि सा ऋषिाशापभयेन बलादपि हर्तुं न शक्यते, अप्रगल्भत्वाद् गुरुजनपरतन्त्रत्वाच्च सा स्वयमागमिष्यतीत्यपि न सम्भवति । एवं चेत्तर्हि तत्कथैव त्याज्येत्याह—अलमिति । तथापि = तदपि इद हृदयं = स्वकीयं मनः ततः = शकुन्तलातो निवर्तयितुं = अपसारयितुं परावर्तयितुं दूरीकर्तुं न अलं = समर्थः अस्मि = न शक्नोमि ।

अर्थ भावः— यदि प्रभुशक्तिसम्पन्नोऽहं शकुन्तलां बलादपहरामि तर्हि निग्रहानुग्रह-समर्थाः तपस्विनः कदाचित् मां शापेन दहेयुः । मय्यनुरागिणी अपि सा शकुन्तला गुरुजन-


जाता है तथा कमल के भीगे पत्तों की चादर की तरह बिछा दिया जाता है एवं उससे हवा भी की जाती है ।

( इसके बाद विरही जैसी अवस्था में राजा दुष्यन्त का रंगमंच पर प्रवेश )

राजा— ( आह भरकर )

मैं मुनियों की तपस्या का प्रभाव खूब जानता हूँ ( वे शाप देकर परिवार सहित भस्म करने की शक्ति रखते हैं ) और यह बाला शकुन्तला कण्व के पराधीन है ( उनकी आज्ञावर्तिनी है ) यह भी जानता हूँ । अतः कण्व की आज्ञा के बिना इसके साथ किसी प्रकार का सम्बन्ध करना विपत्ति से खाली नहीं है । पर क्या करूँ ? मेरा मन तो उसकी ओर उसी प्रकार नहीं हट रहा है जैसे नीची भूमि से ऊपर की ओर जल ॥ २ ॥

विशेष— 'तपो हि दुरतिक्रमः' के अनुसार तप की शक्ति सबसे प्रबल मानी जाती है । इसलिए राजा दुष्यन्त सोच रहे हैं कि शकुन्तला को बलात्कार से अपने पास रख लेने पर महर्षि कण्व

तृतीयोऽङ्कः १२५

( मदनबाधां निरूप्य ) भगवन् कुसुमायुध, त्वया चन्द्रमसा च विश्वसनीयाभ्या- मतिसंधीयते कामिजनसार्थः । कुतः—

तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ ३ ॥


पराधीनत्वान्न स्वयं मामुपस्थातु शक्नोति । अत्राप्रस्तुतप्रशंसा-विशेषोक्तिः अतिशयो- क्तिश्चालङ्काराः वृत्तं चार्या ॥ २ ॥

अथ विप्रलम्भपरिपोषाय राज्ञो दशां वर्णयन्नाह—मदनबाधामिति । ( मदनस्य = कामस्य बाधां = पीडां निरूप्य = नाटयित्वा ) उन्मादवशात् मदनं पुरोऽवस्थितं सम्भावयन् सबहुमानमुपालभमानो राजा प्राह—भगवन् कुसुमायुध ! = श्रीमन् कामदेव ! त्वया = कामेन चन्द्रमसा = शशिना च विश्वसनीयाभ्यां = विश्वस्ताभ्याम्, सौम्यत्वात्-आह्लाद-जनकत्वाच्च विश्वासयोग्याभ्यां कामिजनसार्थः = सर्वकामुकजनसमूहः अतिसन्धीयते = प्रतार्यते । न त्वहमेव अपितु सर्वेऽपि कामिनः त्वया चन्द्रमसा च सम्भूये त्वमेव वञ्च्यन्ते । तस्माद् युवां प्रसिद्धौ प्रतारकौ इति भावः । कुतः = यतः ।

मदनचन्द्रमसोः कामिजनातिसन्धातृत्वं समर्थयन्नाह —तवेति ।

**अन्वयः—**तव कुसुमशरत्वं, इन्दोः शीतरश्मित्वं, इदं द्वयं मद्विधेषु अयथार्थं दृश्यते । इन्दुः हिमगर्भैः मयूखैः अग्निं विसृजति त्वं कुसुमबाणान् अपि वज्रसारी करोषि ।

शकुन्तलाविरहेण सातिशयं क्लिश्यन् सोन्माद इव शिथिलविवेको राजा दुष्यन्तः कामं चन्द्रं चोपालभते—तवेति । तव = भवतः, कुसुमायुधस्य, मदनस्य कुसुमशरत्वं- कुसुमः = पुष्पं शरः = बाणो यस्या स तस्य कुसुमशरस्य भावः कुसुमशरत्वं = पुष्पात्मक-बाणत्वं इन्दयति = आह्लादयतीन्दुः तस्य इन्दोः = आह्लादनस्वभावस्य चन्द्रमसः शीतरश्मित्वं = शीताः = हिमाः रश्मयः = किरणा यस्य स शीतरश्मिः तस्य भावः तत्त्वं शीतरश्मित्वं = शैत्यकारित्वेन तापस्यापनोदनकिरणवत्त्वम्, इदं द्वयम् = एतत् पूर्वोक्तम्

शायद नाराज होकर मेरा अनिष्ट कर देंगे । क्योंकि मेरे सैन्यबल की अपेक्षा उनमें तपोबल प्रवल है और उनके अधीन रहने के कारण शकुन्तला स्वयं मेरे पास आ नहीं सकती । दूसरी बात यह है कि मेरा मन शकुन्तला के पास चला गया है और वहीं उसमें इतना लीन हो गया है, कितना भी मैं चाहता हूँ कि पुनः मेरे पास लौट आये पर वह वहां से आना नहीं चाहता ।

( काम बाधा का अभिनय करके ) मन को मन्थन करने वाले भगवान् कामदेव ! जब आप कुसुमायुध हैं, तब आपका यह तीखापन कैसे ? पुष्प के बाणों को चलाकर भी आप कामीजनों को इतनी भीषण व्यथा कैसे पहुँचाते हैं ? आप और शीतल ( कुछ स्मरण करके ) ओह ! ठीक रश्मि चन्द्रमा भी है । विश्वसनीय होकर भी आप और चन्द्रमा दोनों कामीजनों को धोखा देते हो, क्योंकि-

आपका नाम कुसुमायुध और चन्द्रमा का नाम शीतरश्मि है, किन्तु आपलोगों के ये दोनों नाम हमारे जैसे विरही लोगों के लिए अन्वर्थ नहीं हैं, क्योंकि चन्द्रमा तो अपनी किरणों से हिमगर्भ अग्नि, बरसाता है और आप भी नाम से कुसुमायुध होकर वज्र से भी कठोर तीखे बाण विरहियों पर बरसाते हो । अतः आपके तथा चन्द्रमा के मीठे-मीठे नामों को सुनकर विश्वास में विरही लोग धोखा खा जाते हैं ॥ ३ ॥

**विशेष—**कामदेव का नाम कुसुमायुध है और चन्द्रमा की किरणें शीतल हैं अतः वे शीत-

१२६ अभिज्ञानशाकुन्तलम्

( सखेदं परिक्रम्य ) क्व नु खलु संस्थिते कर्मणि निरस्तविघ्नैः सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानम् विनोदयामि। ( निःश्वस्य ) किं नु खलु मे प्रिया दर्शनादृते शरणमन्यत्। यावदेनामन्विष्यामि। ( सूर्यमवलोक्य ) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति। तत्रैव तावद् गच्छामि। ( परिक्रम्य संस्पर्शं रूपयित्वा ) अहो प्रवातसुभगोऽयमुद्देशः।

उभयमपि तव कुसुमशरत्वमिन्दोः शीतरश्मित्वं च मद्विधेषु = मत्सदृशावस्थेषु विरहिषु अयथार्थं—विपरीतार्थं दृश्यते = अनुभूयते। इन्दुः = चन्द्रमाः हिमं = तुहिनं गर्भे = मध्ये येषां ते तैः हिमागर्भेः = तुषारमध्यैः मयूखैः = किरणैः अग्नि = सर्वाङ्गीणताप-जनकं वह्निं विसृजति = किरति त्वं = कुसुमबाण इति व्यपदिष्टः कामः कुसुमबाणान् = कुसुमात्मकत्वेन सौम्यान् = आह्लादकान् स्वीयशरान् अपि वज्रसारीकरोषि वज्रस्य = कुलिशस्य सार इव सारो बलं येषां यद्वा अवज्रसान् वज्रसान् करोषीति वज्रसारी करोषि अथवा वज्रवत् = कुलिशवत् सारीकरोषि दृढीकरोषि। वज्रस्येव कुसुमेषु काठिन्यमाधाय तैः सारभूतैः कामिनः प्रहरसीत्यहो ते वञ्चनचातुरीत्यर्थः।

अर्थ भावः— भगवन् कुसुमायुध ! मुधैव त्वं पुष्पबाण उच्यते किञ्च चन्द्रोऽप्यसौ वृथैव शीतरश्मिर्निगद्यते। युवयोः कुसुमशरत्व-शीतरश्मित्वे द्वे अपि मादृशेषु विरहिषु जनेषु बाढं विपरीतार्थे एव प्रतीयेते। यद्यसौ चन्द्रमा शीतरश्मिः तर्हि कथं स्वकिरणैरनलमभि-वर्षति ? एवमेव भगवन् कामदेव ! त्वमपि बहिर्दृष्ट्या कुसुमाकारानपि स्वीयान् शरान् कुलिशवत्तीक्ष्णान् मर्मंच्छिदश्च कुरुषे। अत्र काव्यालिङ्गरूपक-विरोधाभास-परिणामोपमा छेकानुप्रासा अलङ्काराः मालिनीछन्दश्च ॥ ३ ॥

( सखेदं = खेदसहितं परिक्रम्य किञ्चिच्चलित्वा ) मदनक्लेशं सोढुमसमर्थः स्वचित्त-विनोदो चिन्तयन्नाह—क्व = कुत्र कस्मिन् देशे उपविश्य नु खलु = वितर्के संस्थिते = समाप्ते कर्मणि = कार्ये निरस्तविघ्नैः सदस्यैः = यज्ञसभाया ऋत्विग्भिः अनुज्ञातः अनुमतः श्रमक्लान्तं = यज्ञविघ्ननिवारणजन्यपरिश्रमेण खिन्न आयासश्रान्तं, आत्मानं = शरीरं विनोदयामि = क्लेशमपहरामि ( निःश्वस्य = दीर्घनिःश्वासमुत्सृज्य ) किम् = नु खलु मे = मम प्रियदर्शनात् = शकुन्तलावलोकनात् ऋते = विना शरणम् = आश्रयः, अन्यं = अपरं यावत् प्रथमम् एनां = शकुन्तलाम् अन्विष्यामि = गवेष्यामि मृगये ( सूर्यं = भास्करम् अवलोक्य = दृष्ट्वा ) एनां = एताम् उग्रः = प्रचण्डः आतपः = सूर्यतेजो घर्मो यस्यां तथाभूतां

रश्मि कहे जाते हैं, किन्तु ये दोनों विरही स्त्री-पुरुषों को विपरीत प्रभाव दिखाते हैं। इसलिए राजा दुष्यन्त ने दोनों को ऐसा कहा है।

( खेद के साथ कुछ चलकर ) यज्ञ के विघ्न दूर हो जाने पर अब मुझे विश्राम करने के लिये तपस्वियों ने आज्ञा दे दी है। अतः मैं अपने खिन्न और व्याकुल मन को कहां बहलाऊँ तथा अपनी प्रिय शकुन्तला को देखे बिना मेरे चित्त को शान्ति किसी उपाय से नहीं मिल सकती। अतः मैं उसे ढूंढ़ता हूँ ( ऊपर आकाश की ओर देखकर ) इस तीव्र ताप में दोपहर के समय तो मेरी प्रिया शकुन्तला अपनी सखियों के साथ प्रायः लतामण्डपों से आच्छन्न मालिनी नदी के तीर पर ही समय बिताती है। अच्छा, तो मैं फिर वहीं चलता हूँ। ( घूम कर ठण्डी हवा लगने का अभिनय करके ) अहो ! यह स्थान तो सुन्दर एवं सुगन्धित हवा से बड़ा ही मनोरम है।

तृतीयोग्ङ्कः १२७

शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ४ ॥

( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तथा भवितव्यम् । तथा हि ( अधो विलोक्य )


बेलां = समयमिति उग्रातपवेलाम् = प्रखरातपवद् मध्यंदिनम्, प्रायेण लतावलयवत्सु = लतामण्डलमण्डितेषु मालिनीतीरेषु = मालिनीनदीतटभागेषु ससखीजना = आलिजन-सहिता शकुन्तला = गमयति = कृच्छ्रेणातिवाहयतितत्रैव = तस्मिन्नेव स्थाने तावद् गच्छामि = व्रजामि ( परिक्रम्य = प्रदक्षिणं कृत्वा संस्पर्शं = स्पर्शसुखम् रूपयित्वा = नाटयित्वा ) अहो = आश्चर्यम् प्रकृष्टः = श्रेष्ठश्चासौ वातः = वायुः प्रवातः यद्वा प्रकृष्टे वातः यत्र स प्रवातः तेन सुभगः = रम्यः प्रवातसुभगः अयं = एषः उद्देशः = स्थानम्

अन्वयः—अरविन्दसुरभिः मालिनीतरङ्गाणां कणवाही पवनः अनङ्गतप्तैः अङ्गैः अविरलम् आलिङ्गितुं शक्यम्।

वायुस्पर्शसुखमनुभूय तस्य प्रदेशस्य वातसुभगत्वमुपपादयति—शक्यमिति। अरविन्दस्य = कमलस्य सुरभिः = गन्ध इव गन्धो यस्य सः यद्वा अरविन्दवत् सुरभिः अरविन्दसुरभिः = कमलसुगन्धिः, मालिन्याः नद्याः तरङ्गाणां = लहरीणां कणवाही—कणान् = लेशान् शीकरान् वहति तच्छीलः कणवाही पवनः = वायुः अनङ्गेन = कामेन तप्ताऽपि अनङ्गतप्ताः तैः अनङ्गतप्तैः = मदनसञ्जातसन्तापैः अङ्गैः = शरीरावयवैः अविरलम् = अवच्छिन्नं, निरन्तरम् आलिङ्गितुं = मया आश्लेषं कर्तुम् उपगूहितुम्, शक्यम् = योग्यम् । एतेनास्य प्रदेशस्य कामिजनसेवनयोग्यत्वं पवनस्य सुरभित्वं, मन्दत्वं, शीतलत्वं च ध्वनितम् ।

अयं भावः—विकसितसरोजसौरभं समादाय सुगन्धपरिपूर्णमालिनीतरङ्गजलकणं वहन् मन्दसञ्चारी पवनः अनङ्गतप्तानि ममाङ्गानि क्षणं सुखयतीति मया नूनं चलितुं योग्यः । अत्र समाहित-समासोक्ति-वृत्त्यनुप्रास-छेकानुप्रास-सङ्करालङ्काराः जातिश्चार्या ॥ ४ ॥

( परिक्रम्य = ईषद गत्वा, अवलोक्य दृष्ट्वा च ) अस्मिन् = अत्र वेतसैः = वानीरैः परिक्षिप्ते—आवृते लतानां = वल्लरीणां मण्डपे = विताने वेलबल्लीविरचितमण्डपे तया =


शीतल और सुगन्धित यह वन का पवन मुझे बहुत ही सुहावना लग रहा है। तथा इनके सेवन से काम सन्ताप सन्तप्त मेरे शरीर को एवं मन को भी यहाँ बड़ी शान्ति मिल रही है ॥ ४ ॥

विशेष—दुष्यन्त यह सोचकर कि यज्ञ रक्षा कार्य सम्भव हो जाने पर मुनियों की अनुमति पाकर परिश्रम से थके शरीर का क्लेश कहाँ दूर करूँ ? दीर्घ श्वास भर कर शकुन्तला के सिवा मेरा क्या शरण है ? जरा इसे ढूँढूँ, सूर्य को देखकर इस धूप के समय वह मालिनी तट पर लता-मण्डप में होगी। वहीं चलूँ। कामतापों से सन्तप्त पुरुषों के लिए शीतल, मन्द और सुगन्ध वायु अधिक सुखद प्रतीत होता है। यहाँ मालिनी तरंगों के सम्पर्क से वायु का शीतल कणवाही से मन्द तथा अरविन्द के स्पर्श से सुगन्धित प्रतीत होतो है। यद्यपि ऐसी हवा कामियों का उद्दीपक है, पर दुष्यन्त को यह सुखद प्रतीत हो रही है। इसलिए अपने मनोविनोद के लिए जाकर देखता है और अपनी भावना व्यक्त करता है।


पाठ०—१. तप्तैर्निर्दयमालिङ्गितुं ।