अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
२७८ | अभिज्ञानशाकुन्तलम्
पुरोहितः—
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ ३० ॥
( सर्वे विस्मयं रूपयन्ति )
**राजा—**भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव। किं वृथा तर्केणान्विष्यते। विश्राम्यतु भवान्।
पुरोहितः— **अन्वयः—**स्त्रीसंस्थानम् एवं ज्योतिः आरात् एनाम् उत्क्षिप्य अप्सरस्तीर्थं जगाम।
तत्क्षणमेव 'स्त्रियाः = नार्या संस्थानं = आकृतिरिवाकृतिर्यस्य तत् स्त्रीसंस्थानम् एकम् = अनिर्वचनीयं ज्योतिः = तैजसं शरीरम् आरात् = समीपादेव एनां मामनुगच्छन्तीं मुनिकन्यकाम् उत्क्षिप्य = उत्तोल्य उत्थाय अप्सरस्तीर्थं तन्नामकं समीपवर्तितीर्थविशेषं शचीतीर्थं जगाम = तदभिमुखं प्रतस्थे।
**अयं भावः—**आत्मना साकं प्रस्थितां शकुन्तलां स्वसद्मनि नयन् मध्येमार्गं किमप्याश्चर्य-वृत्तमवलोक्य पुरोधाः प्रतिनिवृत्य राजानं दुष्यन्तमवोचत् महाराज ! तापसेषु तपोवना-भिमुखं प्रयातेषु स्वानि दुर्भाग्यानि अधिक्षिपन्ती त्वया त्यक्ता सा मुनिकन्यका यदा सोरस्ताडं रोदितुमारेभे तदा तत्कालं स्त्री शरीरधारि एकं तेजः सहसा समागत्य एनामादाय अप्सरस्तीर्थाभिमुखमगच्छत् अत्र क्रियासमुच्चयालङ्कारः शालिनीवृत्तञ्च ।३०॥
( सर्वे = सकलाः जना विस्मयम् = आश्चर्यं रूपयन्ति = अभिनयन्ति नाटयन्ति )
**राजा—**तस्यास्तिरोधानं नभे दुःखावहमिति पुरोधसमाह-भगवन् ! = सोमरात ! प्रागपि = इत प्रस्थानात्पूर्वमपि सोऽर्थः = मुनिकन्यकारूपः प्रसङ्गः, अस्माभिः = मया प्रत्यादिष्टः = परपरिग्रहरूपत्वात् प्रत्यादिष्ट एव। अतस्तिरोधानेन न मे कापि क्षतिरिति भावः। किं वृथा = व्यर्थं काकदन्तपरीक्षणवत् तर्केण = उपपत्त्या, युक्त्या ऊहेन वा अन्विष्यते गवेष्यते, अनुगम्यते। सा परपरिग्रहेण वा, सा कुलगता, केन नीता इत्यादि विचारणा न कार्येति भावः। भवान् = श्रीमान् विश्राम्यतु = मुनिकन्याविषयीणीं वार्ता विहाय स्वस्थो भवतु इत्यर्थः।
**पुरोहित—**उस समय अप्सरातीर्थ = शचीतीर्थ के पास स्त्री के आकार प्रकार की प्रचण्ड ज्योति बिजली सी चमक कर निकली और उसे गोदी में लेकर अन्तर्धान हो गई।
**विशेष—**इस पद्य में उपात्त आरात् शब्द से दूर और समीप दोनों ही अर्थ अभिप्रेत हैं। अतः एक विद्वान् ने यह भी अर्थ किया है कि वह तेजोमयी मूर्ति दूर से ही शकुन्तला को उठाकर शचीतीर्थ को चली गयी। संस्थान पद से प्रतीत होता है कि वह स्वरूप स्पष्ट दिखाई दिया, किन्तु वस्त्र एवं अलङ्करणों से इतना ही आभास हुआ कि यह कोई स्त्री है। स्त्री ज्योति कहने का तात्पर्य है कि अभीतक शकुन्तला को किसी पुरुष का स्पर्श नहीं हो पाया है। आगे स्पष्ट होगा कि वह ज्योति शकुन्तला की मां मेनका थी, जो अपनी पुत्री को उस प्रकार विह्वल देखकर उठा ले गई। अप्सरातीर्थ में अप्सराओं के रहने और जलक्रीड़ा करने का संकेत मिलता है।
( सभी आश्चर्य का अभिनय करते हैं। )
**राजा—**मैंने इस बात का पहले ही खण्डन कर दिया है कि वह स्त्री मेरी भार्या नहीं है। अतः अब आप उसके विषय में व्यर्थ तर्क लगाकर चिन्ता न करें। शान्ति से बैठिए, जाइए विश्राम कीजिए।
पञ्चमोऽङ्कः
२७९
पुरोहितः—( विलोक्य ) विजयस्व । ( इति निष्क्रान्तः )
राजा—वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी—इदो इदो देवो । [ इत इतो देवः ] ( इति प्रस्थिता )
राजा—
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव ^१मे हृदयम् ॥ ३१ ॥
( इति निष्क्रान्ताः सर्वे )
( पञ्चमोऽङ्कः । )
पुरोहितः--( विलोक्य = दृष्ट्वा ) पुरोधाः विजयस्व = जयं लभतां महाराजः । ( इति = एवमुक्त्वा निष्क्रान्तः = निर्गतः )
राजा--मनसि कमपि सन्तापमनुभवन् प्रतिहारीमादिशति—वेत्रवति ! यष्टिधारिणि द्वारपालिके ! ऋषिकुमार-मुनिकन्यादिविषयकवचःप्रतिवचो दुरुत्तरक्लेशेन पर्याकुलः = श्रान्तः, व्यग्रः अस्मि । शयनभूमिमार्गं शयनस्य = शय्यायाः भूमेः = स्थलस्य मार्गं = पन्थानं आदेशय निर्दिश कथय सूचय ।
प्रतीहारी—इत इतो देवः = अनेन मार्गेण चलतु, अनेन मार्गेण चलतु देवः = महाराजः । ( इति = एवमुक्त्वा प्रस्थिता = प्रचलिता )
राजा—नृपो दुष्यन्तः आत्मनः पर्याकुलतां वर्णयति—काममिति ।
अन्वयः—कामं प्रत्यादिष्टां मुनेः तनयां परिग्रहं न स्मरामि तु बलवत् दूयमानं मे हृदयम् प्रत्यायतीव ।
पुरोहितादिकं विसृज्य वेत्रवत्या निर्दिष्टं शयनागारं गत्वा आकुलेतेन्द्रियो राजा दुष्यन्तः तामेव शकुन्तलां विमृशन्नाह—काममिति । काम = यद्यपि अतिशयेन वा प्रत्यादिष्टां = निराकृतां, भार्यात्वेनाङ्गीकृताम्, दूरनिरस्तत्वाददर्शनं गताम्, मुनेः = महर्षेः कण्वस्य तनयां, कन्यां दुहितरं शकुन्तलाम् परिग्रहं = पत्नीं न स्मरामि = पूर्वंस्त्रीत्वेना-ङ्गीकृतवानस्मीति न स्मरामि न विभावयामि । तु = तथापि पुनंर्वा बलवत्—अत्यर्थम् चित्तम् प्रत्याययतीव = विश्वासमुत्पादयतीव बलवद्दूयमानत्वान्मम हृदयं तु मुनिकन्या मत्परिग्रहभूतेति मां प्रत्याख्यातारं दुष्यन्तं विश्वासं जनयतीत्यर्थः ।
पुरोहित—( देखकर ) महाराज की विजय हो ( चला जाता है ) ।
विशेष—राजा खिन्न है, शकुन्तला के प्रसंग को सुनना नहीं चाहता है । इसलिए झिझककर उसने पुरोहित से कहा कि मैं इस समय कुछ भी सुनना नहीं चाहता हूँ आप तर्क वितर्क छोड़कर आराम कीजिए ।
राजा—द्वारपालिके ! मैं अधिक व्याकुल तथा श्रान्त हो गया हूँ । अतः मुझे शयन-कक्ष का मार्ग दिखलाओ ।
प्रतीहारी—महाराज इधर से आइए इधर से आइए । ( यह कहकर जाती है ) ।
राजा—यद्यपि उस मुनि कन्या शकुन्तला का मैंने प्रत्याख्यान तथा त्याग कर दिया है ।
पाठ० १—१. मां ।
षष्ठोऽङ्कः (अङ्गुलीयक प्राप्ति व राजा का पश्चात्ताप)
षष्ठोऽङ्कः
( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धपुरुषमादाय रक्षिणौ च । )
अर्थात् कण्वशिष्याभ्याम् ऋषिकुमाराभ्यां वृद्धया तापस्या च सह मम समीपे समागता महर्षेः कण्वस्य दुहिता नेयं मम परिग्रह इति मयातिरुषा निराकृताऽपरमिदानीं मदीयान्तःकरणं तो कण्वदुहितरमुद्दिश्य नितरां परिपीड्यते । अतो ममान्तःकरणस्याधिरेव मम मनसि क्षणिकं विश्वासं जनयति यन्मया पूर्वं नूनं परिणीता सेति नितरां पर्याकुलोऽस्मीति भावः ।
अत्रोत्प्रेक्षाऽनुमानविभावनालङ्काराः आर्या छन्दः, प्रसङ्गनामकं विमर्शं सन्ध्यङ्गञ्चोपक्षिप्तम् मुनेः तनयेति गुरुकीर्तनात् । तल्लक्षणं यथा—
‘प्रसङ्गश्चैव विज्ञेयो, गुरूणां कीर्तनं हि यत्’ ॥३१॥
( इति—पश्चात् सर्वे = सकला अभिनेतारः निष्क्रान्ताः रङ्गमञ्चाद् बहिर्गताः )
अस्याङ्कस्यान्तिमेन कामं प्रत्यादिष्टामिति पद्येन अग्रिमस्य षष्ठस्याङ्कस्य कृते बिन्दोरूपक्षेपः कृतः । अस्मिन् पञ्चमेऽङ्के दुष्यन्तस्य शकुन्तलायाश्च वर्णितेन प्रतिकूलवचनचातुर्येण षष्ठेऽङ्के वर्णयिष्यमाणो विप्रलम्भशृङ्गारः परिपोषमेति ।
इति कविवरकालिदासेन प्रणीतस्याभिज्ञानशाकुन्तलनामकनाटकस्य
पञ्चमेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता
विमलाख्या व्याख्या समाप्ता ।
अथास्मिन् षष्ठेऽङ्के नाटकनायकस्य नृपतेः दुष्यन्तस्य शकुन्तलायाः परित्यागात् जायमानेनानुतापेन परिपोषितो विप्रलम्भशृङ्गारो वर्णयिष्यते । तत्रादौ पूर्वरङ्गभूतां शापनिवृत्तिं प्रदर्शयितुं प्रवेशकमारभते—तत इति ।
( ततः = तदनन्तरं प्रविशति = रङ्गे दृश्यते नगरं रक्षति तत्र नियुक्तो वा नागरिकः = नगरनिवासिनां रक्षणार्थं राज्ञाधिकृतः = नगररक्षकः श्यालः = पृष्ठमागबद्धभुजयुगलं पश्चाद्बद्धपुरुषं = बाहुपृष्ठतः संगमय्य तयोर्बद्धं, पुरुषं आदाय = गृहीत्वा रक्षिणौ = रक्षापुरुषौ = प्रहरिणौ च )
अपने विवाह की बात का मुझे स्मरण नहीं हो रहा है, किन्तु अत्यन्त खिन्न एवं व्याकुल मेरा मन तो इस बात को सिद्ध करता है कि यह अवश्य मेरी स्त्री होनी चाहिए ॥ ३१ ॥
विशेष— शकुन्तला के साथ दैवी घटना के बाद दुष्यन्त को विश्वास हो गया कि मैंने किसी दिव्य आत्मा का अपमान किया है मेरी स्मृति ने मुझे धोखा दिया है राजा को स्मरण न रहने के कारण उनका मन रह रहकर उन्हें धिक्कार रहा है कि राजन् तुमने अपनी परिणीता पत्नी का त्याग कर बहुत बड़ी गलती कर दी है।
( इसके सभी पात्र रंगमंच से बाहर निकल जाते हैं )
( नगर की रक्षा में नियुक्त राजा के साले कोतवाल का तथा उनके पीछे दोनों हाथ बँधे हुए एक पुरुष धीवर को पकड़े हुए दो सिपाहियों का प्रवेश )
षष्ठोऽङ्कः
२८१
रक्षिणौ—( ताडयित्वा ) अले कुम्भीलआ । कहेहि कहिं तुए एशे मणिबंध-णुक्किण्णणामहेए लाअकीए अंगुलीअए शमाशादिए । [ अरे कुम्भीलक कथय कुत्र त्वयेतन्मणिबन्धोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ]
पुरुषः—( भीतिनाटितकेन ) पशीदंतु भावमिश्रे । हगे ण ईदिशकम्मकाली । [ प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी । ]
रक्षिणौ—(रक्षाधिकृतपुरुषौ पुरुषं ताडयित्वा=आहत्य) अरे=रे कुम्भीलक ! चोर ! 'कुम्भरीको गण्डपदः तस्करश्च मलिम्लुचः' इति नाममाला। 'कुम्भिलः शालमीने च चौरश्लोकार्थचौरयोः' इति मेदिनीकोशश्च। कथय = वद कुत्र = क्व त्वया एतत् इदं पुरो निहितम, मणिबन्धनं = मणिजटितं च उत्कीर्णं = उल्लिखितं नामधेयं = अभिधानं नामाक्षराणि यस्मिन् तत् मणिबन्धनोत्कीर्णनामधेयम् = उट्टङ्कितराजनामाक्षरम् राजकीयं-राजसम्बन्धि अङ्गुलीयकं = मुद्रा समासादितं प्राप्तम्।
पुरुषः—(बद्धो जनः भीत्या = भयेन नाटकितेन = भयं नाटयित्वा अभिनयेन वदति) यत् प्रसीदन्तु सकृपाः भवन्तु भावमिश्राः = मान्यवराः अहं न ईदृशं कर्म कर्तुं शीलं
दोनों सिपाही—( पुरुष को मारते हुए ) अरे चोर, बता जड़ी हुई मणि पर खुदे हुए नाम से युक्त यह राजा की अंगूठी तुमने कहाँ पाई।
**विशेष—**नागरिक शब्द का वास्तविक अर्थ नगरनिवासी, चतुर, चालाक, प्रवीण, कुशल आदि होता है। प्राचीनकाल में नगर-रक्षा का भार राजा के साले पर होता था। साला राजा का निकटतम सम्बन्धी है, अतः उस पर पूर्ण विश्वास रहता था। सगे सम्बन्धियों से धोखे की संभावना कम रहती है। इसलिए नगररक्षक को संस्कृत भाषा में श्याल और राष्ट्रिय भी कहा जाता है—राजश्यालस्तु राष्ट्रियः। इस प्रकार प्राचीनकाल में बहुविवाह के अनुसार राजाओं की कई स्त्रियां हुआ करती थीं, उनके भाई आदि को भी प्रधान राजकीय पदों पर रखा जाता था। उनके भी साले आदि उनके अन्दर कार्य किया करते थे। ये सभी राजा के प्रधान अधिकारी को आवुत्त=जीजाजी कहा करते थे। आवुत्त शब्द का वास्तविक अर्थ जीजाजी = बहन के पति अर्थात् बहनोई होता है किन्तु प्राचीनकाल में कुछ लोग अपने बड़े अधिकारी को भी आवुत्त कहा करते थे।
वास्तविक स्थिति का पता लगाने के निमित्त पुलिस द्वारा पीटने की प्रथा अतिप्राचीन है। आजकल की तरह ही जिस व्यक्ति पर शक होता था उसे अपराधी समझकर पीटा जाता था, जिससे वह भयभीत होकर सच्ची बात बता देता था। आजकल भी पुलिस अधीक्षक, नगर कोतवाल या जिलाधीश के सामने सिपाही अपनी कारगुजारी बढ़चढ़कर दिखाते हुए अपराधी को अपमानित करने का प्रयास करते हैं। इस प्रकार नगर की रक्षा करने में नियुक्त अधिकारी को कोष्ठपाल कोट्टपाल तथा श्याल भी कहा गया है।
कुम्भीरक शब्द निपात से निष्पन्न होता है—कु = पृथ्वी दीवार को भेदन = सेंध देने वाले को 'कुम्भीरक कहते हैं तथा मगर के समान चोरी से प्राणियों को पकड़ने के कारण ही समान आचरण करने वाले चोर को भी कुम्भीरक कहा जाता है।
पहले सोने की अंगूठी में बहुमूल्य मणि जड़ी रहती थी, जिसके ऊपर राजा के नाम खुदे रहते थे, जिससे समय समय पर अत्यावश्यक कागज पत्रों पर मुहर भी लगाई जाती थी। महाराज दुष्यन्त की अँगूठी भी इसी प्रकार की थी।
पुरुष— ( भय का अभिनय करता हुआ ) हे मालिक ! मुझ पर दया कीजिए। मैं ऐसा अनुचित कार्य-चोरी करने वाला नहीं हूँ।
२८२ अभिज्ञानशाकुन्तलम्
**प्रथमः—**किं सोहणे बम्हणोत्ति कलिअ रज्जा पडिग्गहे दिण्णे। [ किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः। ]
**पुरुषः—**सुणध दाणिं। हगे शक्कावदालब्भंतरालवाशी धीवले।] शृणुत- दानीम्। अहं शक्रावताराभ्यन्तरालवासी धीवरः। ]
**द्वितीयः—**पाइच्चल किं अम्हेहिं जादो पुच्छिदा। [ पाटच्चर किमस्माभिर्जातिः पृष्टा। ]
**श्यालः—**सूअअ कहेदु शव्वं अणुक्कमेण मां णं अंतरा पडिबंधह। [ सूचक कथयतु सर्वमनुक्रमेण। मैनमन्तरे प्रतिबन्धय।
**उभौ—**जं आवुत्ते आणवेदि। कहेहि। [ यदावुत्त आज्ञापयति। कथय। ]
यस्य स ईदृशकर्मकारी = ईदृशस्य = स्तेयरूपस्य कर्मणः कर्ता नाहमस्मि। अर्थान्नेदमङ्गु- लीयकं मया चौर्येणासादितम्।
**प्रथमः—**अन्यतरो रक्षी, राजपुरुषो मनसा तं चौरमवधार्य छलेनोपहसति—किं शोभनः = श्रेष्ठः विद्यातपोनिष्ठः ब्राह्मणः = पवित्रविप्रः इति = एवं कलयित्वा = मत्वा राज्ञा = नृपेण **प्रतिग्रहः—**प्रतिगृह्यते इति प्रतिग्रहः = देवद्रव्यं, दानम् दत्तः = अर्पितः। इति सोपहासं वचः।
पुरुषः—शृणुत = आकणर्यत यूयम् इदानीं = अधुना अहं शक्रावतारस्य–तन्नामकस्य स्थानस्य शचीतीर्थस्य अभ्यन्तराले मध्ये वसितुं शीलमस्येति शक्रावताराभ्यन्तरालवासी धीवरः कैवर्तः मत्स्यजीवी पाटयन् = विदारयन् चरति भ्रमतीति पाटच्चरः तत्सम्बुद्धौ हे पाटच्चर।
**द्वितीयः—**तं पुरुषं भीषणन् अपरः रक्षापुरुषः वदति–रे पाटच्चर ! अरे चोर ! किम् अस्माभिः जातिः पृष्टा ? इदमङ्गुलीयकं, कुतो लब्धमिति पृष्टं न तु जातिः पृष्टेत्यर्थः। ‘दस्युः पाटच्चरः स्तेनः’ इति हैमः।
श्यालः—राष्ट्रियः कोष्ठपालः कथयति—हे सूचक ! सर्वं = सकलं घटितम् अनुक्रमेण क्रमशः कथयतु = वदतु विवृणोतु चोरः, मा एनं नैनमिमं, अन्तराले = मध्ये प्रतिबन्धय= बाधां देहि। तर्जनेन विघ्नं मा कुरु।
उभौ—द्वौ रक्षको कथयतः आवृत्तः = भगिनीपतिः यत् आज्ञापयति = आदिशति ‘भगिनोपत्तिरावृत्तः’ इत्यमरः तत् कथय = वद।
**पहला सिपाही—**यदि तूने चोरी नहीं की है तो क्या तुझे सत्यपालक ब्राह्मण समझकर महा- राज ने तुझे यह अपनी अंगूठी दी है।
**पुरुष—**नहीं, नहीं सुनिए तो सही—शक्रावतार तीर्थ का रहने वाला धीवर = मत्स्यजीवी मल्लाह हूँ।
**दूसरा सिपाही—**अरे चोर ! हम क्या तुमसे तेरी जात पूछ रहे हैं ?
**श्याल—**कोतवालजी ने कहा—सूचक ! क्रमशः इसे सब बातें कहने दो, बीच में मत टोको।
**दोनों सिपाही—**सरकार का हुक्म ! अच्छा, तो, कह रे, कह।
षष्ठोऽङ्कः २८३
पुरुषः—अहक्के जालुग्गालादिहिं मच्छबंधणोवाएहिं कुटुंबभरणं कलेमि ।
[ अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । ]
श्यालः—( विहस्य ) विशुद्धो दाणिं आजीवो । [ विशुद्ध इदानीमाजीवः । ]
पुरुषः—
शहजे किल जे विणिंदिए ण हु दे कम्म विवज्जणीअए ।
पशुमालणकम्मदारुणे अणुकंपामिदु जेव्व शोत्तिये ॥ १ ॥
[ सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ ]
पुरुषः—अहं = अयं जनः जालं = आनायः उद्गालो नाम शरादिरचितो मत्स्य-ग्रहणसाधनविशेषो वडिशः जालानि = च उद्गालानि च जालोद्गालं तत् आदिः येषां ते तैः जालोद्गालादिभिः = जालवडिशप्रभृतिभिः मत्स्यबन्धनोपायैः मत्स्यानां = मीनानां बन्धनेन = ग्रहणेन उपायैः = साधनैः कुटुम्बस्य = परिवारस्य = भरणं = पालनमिति कुटुम्बभरणम्, परिवारपालनपोषणं करोमि = विदधामि ।
श्यालः--( विहस्य = हसित्वा ), विशुद्धः = सुपवित्रः आजीवः = जीविकासाधनम् ।
पुरुषः--हे भर्तः ! हे स्वामिन् मैवं=एवं = मा भण मम आजीवं मा निन्देतिभावः ।
अन्वयः—यत् किलं विनिन्दितं कर्म सहजं तत् खलु न विवर्जनीयम् अनुकम्पामृदुः श्रोत्रिय एव पशुमारण कर्मदारुणः ( भवति ) '
राज्ञो दुष्पन्तस्य श्यालकपरिहासपरिहर्तुकामो धीवरो निकृष्टमपि स्वजातीयमाजीवं न त्याज्यमित्यभिसन्धत्ते—सहजमिति । यत् किल यद्धि खलु विनिन्दितं = गर्ह्यं कर्म सहजं जन्मना सह जातम्, कुलक्रमागतम् तत्तस्य धर्मतया विहितं जातिनिश्चितमितिभावः । अत एव तत् = कर्म न खलु = निश्चयेन विवर्जनीयं नैव त्याज्यं यस्य यत्कर्म निन्दितमपि सहजं तस्य तत्कर्म न खलु विवर्जनीयमपितु अनुष्ठेयमेव शास्त्रवचनादि भावः यथोक्तं—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न दुष्यति ॥
अनुकम्पामृदुः = अनुकम्पया = करुणया मृदुः = कोमलः अनुकम्पामृदुः = दयामृदुः श्रोत्रिय एव वेदोक्तकर्मनिरतो वैदिक ब्राह्मण एव पशुमारणकर्मदारुणः पशूनाम् = अजमेषादीनां मारणं = घातः = यज्ञे वधः तेन कर्मणा = तदनुष्ठानेन दारुणः=घोरः भवति ।
धीवर—मैं जाल, काँटी आदि मछली पकड़ने के साधनों से अपने कुटुम्बों = बालबच्चों का पालन पोषण किया करता हूँ ।
श्याल—(हँसकर) वाह ! इसकी जीविका तो बहुत बढ़िया है। अर्थात् यहाँ अफसर ने मजाक उड़ाते हुए कहा है इसकी जीविका बहुत बुरी है ।
धीवर—हे मालिक ! ऐसा मत कहिए । अपने स्वाभाविक कर्म-धर्म को यदि बुरा भी प्रतीत हो तो, उसे कभी नहीं छोड़ना चाहिए । देखिए दया से कोमल हृदयवाला श्रोत्रिय = वैदिक विद्वान् भी यज्ञों में पशुओं को मारने का क्रूर कार्य करते ही हैं ।
विशेष—इस पद्य से प्रतीत होता है कि कविवर कालिदास के समय पशुबलि की प्रथा प्रचलित थी और समाज में इस कार्य को आदर की दृष्टि से देखा जाता था, इसको स्पष्ट करते हुए एक साधारण मत्स्यजीवी भी कहता है कि लोकनिन्दित को भी अपनी जाति का पेशा नहीं छोड़ना चाहिए,
२८४ || अभिज्ञानशाकुन्तलम्
श्यालः—तदो तदो। [ ततस्ततः। ]
पुरुषः—एक्कंशिं दिअशे खंडशो लोहिअमच्छे मए कप्पिदे जाव तश्श उदलब्भंतले एदं लदणभाशुलं अंगुलीअअं देखिअअ पच्छा अहके शे विक्कआअ दंशअंते गहिदे भावमिश्रेहि। मालेह वा मुचेह वा। अअं शे आअमवृत्तंते। [ एकस्मिन् दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः। यावत्तस्योदराभ्यन्तर इदं रत्नभासुरमङ्गुलीयकं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः। मारयत वा मुञ्चत वा। अयमस्यागमवृत्तान्तः। ]
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।
सहजं कर्म कौन्तेयः सदोषमपि न त्यजेत्।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥
अयं भावः—इत्यादि भगवद्गीता वचनस्मरणात् नैसर्गिकॊ दयासागरोऽपि वैदिको ब्राह्मणः यज्ञाङ्गतया विहिते यज्ञादौ पशुना हिंसने स्वाभाविके स्वकीये कर्मणि त्यक्तदयः सन् प्रवृत्तः पशुमारणं दारुणं कर्म समचरति। एवमेव ममापि धीवरस्य जालोद्गालादि-भिर्मत्स्यबन्धनोपायैर्मत्स्यान् व्यापाद्य तद्द्वारा कुटुम्बभरणपोषणात्मको जीविकोपायो नोपहसितुं योग्य इति भावः। अत्र विरोधाभासोऽलङ्कार आर्या छन्दश्च ॥ १ ॥
श्यालः—ततः ततः = अग्रिमं वृत्तान्तं कथय।
पुरुषः—बद्धपुरुषः एकस्मिन् दिवसे = कस्मिंश्चिद्दिने मया रोहितमत्स्यः रोहित-नामको मीनः खण्डशः = खण्डं खण्डं कल्पितः = खण्डितः ‘कल्पनं कर्तनं क्लृप्तौ’ इति विश्वः, तावत् खण्ड्यमानस्य तस्य रोहितमत्स्यस्य उदराभ्यन्तरे = जठरमध्ये, रत्नेन = मणिना-भासुरं = देदीप्यमानं = रत्नभासुरं = प्रत्युप्तरत्नप्रभासमानम्, अङ्गुलीयकम् = मुद्रां दृष्ट्वा = अवलोक्य पश्चात् = तदनन्तरं अहं तस्य अङ्गुलीयकस्य विक्रयार्थं = विक्रयं कर्तुं = दर्शयन् = रत्नापाणिकेभ्यो मूल्यनिर्धारणाय प्रदर्शयन्नेव भावमिश्रैः भवद्भिः
क्योंकि बौद्ध आदि के द्वारा जीव हिंसा निन्दित होने पर भी जीवों पर अनुकम्पा करने वाले परम दयालु ब्राह्मण भी यज्ञ-कार्य में यज्ञाङ्ग पशुबलि को करते ही हैं। अतः मैं मछलियों के मारने का जातीय पेशा करता रहता हूँ। श्रीमद्भगवद्गीता आदि धार्मिक ग्रन्थों में भी अपने सहज=स्वाभाविक कर्म को करते रहने का आदेश दिया गया है—"स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।" ब्राह्मण जाति में जन्मग्रहण करने से मनुष्य ब्राह्मण कहा जाता है ब्राह्मणोचित संस्कार सम्पन्न होने पर द्विज तथा विद्या अध्येता की विप्र संज्ञा है। श्रोत्रिय उस ब्राह्मण को कहते हैं, जो जन्म से तो ब्राह्मण हो ही ब्राह्मणोचित संस्कार और विद्या अध्ययन कर कर्मणा भी ब्राह्मण हो। इस प्रकार जन्म विद्या और संस्कार इन तीनों से सम्पन्न द्विज होता है—
“जन्मना ब्राह्मणो ज्ञेयः संस्काराद्द्विज उच्यते। विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय एव च।”
अतः कृपया मेरा इस कार्य के लिए उपहास न करें।
श्यालः—हाँ, हाँ, आगे कह तब आगे क्या हुआ ?
धीवर—एक दिन मैंने रोहू मछली पकड़ी और उसको काट काटकर टुकड़े करने पर जब मैंने उसके पेट के अन्दर देखा, तो महारत्न से चमकती हुई यह अंगूठी दिखाई दी, फिर इसे बाजार में बेंचने के लिए मैंने ज्योंही दिखाई त्यों ही आपलोगों ने मुझे पकड़ लिया। बस, यही अंगूठी मिलने की वास्तविक बात है। अब आप चाहें तो मुझे मारें या पीटे या छोड़ दें।
षष्ठोऽङ्कः
२८५
श्यालः—जाणुअ, विस्सगंधी गोहादी मच्छबंधो एव्व णिस्संसं अंगुलीअ-अदंसण शे विमरिजिदव्वं। राउउलं एव्वं गच्छामो। [ ( अङ्गुलीयकमाघ्राय ) जानुक विस्रगन्धो गोधादी मत्स्यबन्ध एव निःसंशयम्। अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम्। राजकुलमेव गच्छामः। ]
रक्षिणौ—तह। गच्छ अले गंडभेदअ। [ तथा। गच्छ अरे गण्डभेदक। ] ( सर्वे परिक्रामन्ति )
श्यालः—सूअअ इमं गोपुरदुआरे अप्पमत्ता पडिवालह जाव इमं अङ्गुलीअअं जहागमणं भट्टिणो णिवेदअ तदो सासणं पडिच्छिअ णिक्कमामि। [ सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीकं यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रमामि। ]
गृहीतः = बद्धः संयतः। मारयत वा मुञ्चत वा = सापराधं मां दण्डयत निर्दोषं वा मत्वा मुञ्चत वा। अयं = मदुक्तः अस्य = अङ्गुलीयस्य = आगमवृत्तान्तः = प्राप्तिकथा।
श्यालः—(अङ्गुलीयकमाघ्राय) जानुक! विस्रस्य = आमगन्धस्य गन्धोऽस्ति अस्येति विस्रगन्धी, गोधामत्तूशीलमस्येति गोधादी = गोधामक्षकः मत्स्यान् = मीनान् बध्नातीति मत्स्यबन्धः = धीवरः एव निसंशयं = निःसन्देहम्। एतच्छरीरस्य अपक्वमांसं गन्धयुक्तत्वात् गोधाशनो धीवर एवायामिति निश्चितम्। अथाप्यस्याङ्गुलीयलाभो विचारणीय इत्याह—अङ्गुलीयकमिति। अङ्गुलीयकदर्शनम् अङ्गुलीयकस्य = मुद्रायाः दर्शनं = वीक्षणम् अस्य = धीवरस्य विमर्शनयितव्यम् = विचारयितव्यम्—अङ्गुलीयाकगमवृत्तान्तो योऽनेनोक्तः सोऽपि सत्यो न वेत्यप्यालोचनीयमिति भावः अत एव राजकुलं = राजभवनं, नृपसभामेव गच्छामः = व्रजामः, तत्र स्वामिने निवेदयामः स एव विमृशतु सत्यं न वेति भावः।
रक्षिणौ—तथा = आम् गच्छ = व्रज अरे रे ग्रन्थभेदक! ग्रन्थिच्छेदक चोर!
( सर्वे समस्ताः परिक्रामन्ति = गमनं नाटयन्ति )
श्यालः—सूचक! इमं—बद्धं धीवरं गोपुरद्वारे = नगरद्वारे पुरद्वारप्रवेशमार्गे अप्रमत्तौ = सावधानौ प्रतिपालयतम् = रक्षतम् यावत् = यावदवधि इदं = प्रस्तुतम् अङ्गुलीयकम् = मुद्राम्, आगमनमतिक्रम्य यथागमनम् = आगमनवृत्तान्तकथनपूर्वकम् भर्तुः =
श्याल—(अँगूठी को सूँघकर) अरे जानुक! यह अंगूठी मछली के पेट से ही निकली हुई प्रतीत हो रही है, क्योंकि इसमें मछली की गन्ध आ रही है। और यह भी मछुआ ही मालूम पड़ता है, क्योंकि इसके शरीर से भी मछली की बुरी गन्ध आ रही है। अब विचारना यही है कि यह अंगूठी मछली की पेट में पहुँची कैसे? इसलिए आवो अब हम लोग दरबार में ही चलें, वहाँ इसका पता चलेगा।
विशेष—गम्भीर पानी में रहने वाले गोहनामक जलजन्तु को संस्कृत में गोधा कहते हैं। प्रसिद्धि है कि रस्सी में बांधकर चोर इसे दीवार पर फेंक देते हैं, वह वहां चिपक जाती है, जिसके सहारे चढ़कर चोरी करने वालों को सुविधा हो जाती है। जड़ी-बूटी में मिलकर ताकत के लिए इसे कुछ शौकीन खाते भी हैं। मछुये मछली, गोधा आदि को पकड़ते खाते और बेचते रहते हैं। इससे उनके शरीर से भी इसकी बदबू आती रहती है।
दोनों सिपाही—जी, अच्छा (धीवर से) चल रे गिरहकट! चल, (सभी जाते हैं)
श्याल—अरे सूचक! तुमलोग यहीं दरबार के गेट पर सावधानी से ठहरो और मेरी प्रतीक्षा
| २८६ | अभिज्ञानशाकुन्तलम् |
|---|
उभौ--पविसदु आबुत्त शामिपशादश्श। [ प्रविशत्वावुत्तः स्वामिप्रसादाय । ]
( इति निष्क्रान्तः श्यालः )
प्रथमः-जाणुअ, चिलाअदि खु आवुत्ते । [ जानुक चिरायते खल्वावुत्तः । ]
द्वितीयः--णं अवशलोवशप्पणीआ लाआणो । [ नन्ववसरोपसर्पणीया राजानः । ]
प्रथमः--जाणुअ, फुल्लंति मे हत्था इमश्श वज्झस्स शुमणो पिणद्धुं । [ जानुक, प्रस्फुरतो मम हस्तावास्य सुमनस पिनद्धुम् । ] ( इति पुरुषं निर्दिशति । )
भर्त्रे स्वामिने निवेद्य = कथयित्वा ततः = भर्तुः शासनम् = आदेशं प्रतीक्ष्य = गृहीत्वा, निष्क्रमामि = निर्गच्छामि-यावन्निर्गच्छामि तावत् प्रतिपालयतमिति भावः ।
उभौ—आवुत्तः = भगिनीपतिः स्वामिप्रसादस्य स्वामिनः = महाराजस्य प्रसादाय = प्रसन्नतायै अनुग्रहं लब्धुं प्रविशतु = अन्तः गच्छतु । अङ्गुलीयकस्य लाभाद्राजा नूनं त्वयि प्रसीदेदिति भावः ।
( इति = एवमुक्त्वा श्यालः = नगररक्षाधिकारी निष्क्रान्तः = निर्गतः )
प्रथमः--यत् हे जानुक । आवुत्तः = भगिनीपतिः चिरायते = विलम्बते खलु = निश्चयेन ।
द्वितीयः--यत् ननु = न जानासि राजानः = नृपाः अवसरोऽयं रूपणीयाः अवसरे = उचिते काले एव उपसर्पणीया उपगन्तव्याः दर्शनीयाः प्राप्तव्या भवन्ति । आज्ञां लब्ध्वैव राजानं द्रष्टुं शक्नोति जनः, न यथारुचि, नहि राज्ञो दर्शनं भृत्यैः सर्वदा लब्धुं शक्यम् अतो विलम्ब इति भावः ।
प्रथमः—जानुक ! मम = मे **हस्तौ=**करौ **अस्य=**बद्धधीवरस्य वधार्थं वधाय, घाताय सुमनसः = पुष्पाणि वध्यचिह्नभूतां पुष्पमालां पिनद्धं = परिधापयितुं बन्धुं प्रस्फुरतः = स्पन्देते । अस्य कण्ठे बध्यचिह्नभूतां रक्तपुष्पमालां निक्षिप्य राजाज्ञया एनं हन्तुमह-मुत्सुकोऽहमिति भावः ( इति = एवमुक्त्वा पुरुषं निर्दिशति = संकेतयति )
करो । तब तक मैं महाराज के समक्ष इस अंगूठी को उपस्थित कर इसके पाने का पूरा-पूरा समाचार कहकर उनकी आज्ञा लेकर शीघ्र ही आता हूँ ।
दोनों सिपाही—जाइए महाराज से इनाम और तरक्की पाने को जाइए ।
( यह कहकर नगर रक्षाधिकारी चले जाते हैं )
पहला सिपाही-( सूचक ) अरे जानुक ! कोतवाल साहब को गये बहुत देर हो रही है-क्या बात है ?
दूसरा सिपाही—अरे भाई राजा लोगों का मिलना तो मौके से ही होता है । इसमें देर लगना तो साधारण बात है ।
प्रथम सिपाही—हे जानुक इसको लाल फूल की माला पहना कर फांसी के तख्ते पर चढ़ाने के लिए मेरे हाथ फड़फड़ा रहे हैं। यह कहकर पुरुष ( धीवर ) की ओर संकेत करता है।
विशेष—यह पुरानी प्रथा थी कि जिसको फांसी से प्राण दण्ड दिया जाता था, उसको लाल फूलों की माला पहनाई जाती थी लाल करवीरमाला वध का सूचक होती थी, सिपाही को यह आशा थी नगररक्षाधिकारी को लौटने पर राजा के आदेश से मच्छुये को मार दिया जायेगा, क्योंकि मनुस्मृति में लिखा है कि रत्नग्रहण करने वाले चोर का वध कर देना चाहिए । सुवर्ण भी नवरत्नों में गिना जाता है और राजा की अंगूठी में भी रत्न जड़ा हुआ था—मुख्यानां चैव रत्नानां हरणे वधमर्हति ।
षष्ठोऽङ्कः । २८७
**पुरुषः—**ण अलुहदि भावे अकालणमालणं भाविदुं। [ नार्हति भावोऽकारण-मारणं भावयितुम् ]
द्वितीयः— ( विलोक्य ) एशे अम्हाणं शामी पत्तहत्थे लाअशाशणं पडिच्छिअ इदोमुहे देक्खीअदि। गिद्धबली भविश्शशि शुणो मुहं वा देखिश्शशि। [ एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते। गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि। ]
( प्रविश्य )
**श्यालः—**सुअअ मुं चेदु एसो जालोअजीवी । उववण्णो खु अंगुलीअस्स आआमो । [ सूचक मुच्यतामेष जालोपजीवी । उपपन्नः खल्वङ्गुलीयकस्यागमः । ]
पुरुषः—भावः = श्रीमान् अकारणमारणं कारणं विनैव वधं भावयितुं = प्रापयितुं विचारयितुं वा न अर्हति यतोऽहं निरपराध इति भावः ।
द्वितीयः—एषः = अयं नौ आवयोः स्वामी = नगरपालः ।
श्यालः—पत्रं हस्ते यस्य स पत्रहस्तः = हस्ते गृहीतपत्रः राजशासनं = राजाज्ञां प्रतीक्ष्य गृहीत्वा इतो मुखः- इतः एनां दिशं मुखमाननं यस्य स इतोमुखः = अस्यां दिशि मुखं कृत्वा दृश्यते = अवलोक्यते मन्ये त्वं गृध्रबलिः = गृध्रस्योपहारः भविष्यसि = गृध्रास्ते मांसं भक्षयिष्यन्तीति भावः अथवा शुनः = कुक्कुरस्य मुखं = दर्शनाथं व्यात्तमाननं द्रक्ष्यसि = राजाज्ञया शूलस्थं मृतं त्वां गृध्राः, आकण्ठं भुविनिखातं जीवितं वा कुक्कुराः = खादिष्यन्तीति भावः ।
श्यालः—ततः श्यालः प्रविश्य वदति-सूचक ! एषः = अयं जालोपजीवी = जालेन उपजीवति = जीविकां वर्तयति तथाविधो धीवरः = कैवर्तः मुच्यताम् = बन्धनमुक्तः क्रियताम् उपपन्नः = प्रमाणितः खलु = निश्चयेन अङ्गुलीयकस्य आगमः = आगमनम् । मुद्राप्राप्तिवृत्तान्तोऽवगत इति भावः । अतो नायं चौरः ।
**धीवर—**सरकार, बिना अपराध हो मुझे मारने की बात आपको नहीं करनी चाहिए।
दूसरा सिपाही—( सामने देखकर ) यह देखो, हमारे मालिक ( कोतवाल साहब ) हाथ में सरकारी हुक्म लेकर इधर ही आ रहे हैं। मालूम होता है या तो इसे बूटी-बूटी काटकर गीध कौआ और चीलों को खिलाने का हुक्म हुआ हो या कुत्तों से नोचवाकर मारने का आदेश हुआ हो।
**विशेष—**प्राचीनं काल में यह प्रथा थी कि नगर के बाहर बध्यस्थान बनाए जाते थे जहाँ अपराधियों को फांसी दी जाती थी तथा मरने के अनन्तर उसे फेंक दिया जाता था, उसे गीध, चील कौवे आदि नोचकर खा जाते थे। या कभी कभी अपराधी को जमीन में गड्ढा खोदकर खड़ा गाढ़ दिया जाता था। उसकी गर्दन मात्र दिखाई पड़ती थी। शिर पर दही आदि रख कर कुत्तों को ललकार दिया जाता था, वे उसे तत्काल नोच नोचकर मार देते थे। मल्लाह लोग जाल से मछलियों को पकड़कर स्वयं खाते थे और बाजार में बेचकर पैसों से अपने परिवार का खर्च चलाते थे। जिसके पास जाल न होती थी उसका परिवार दुःख भोगता रहता था।
श्याल—( प्रवेश कर ) सूचक ! इस मछुए को छोड़ दो, अँगूठी के आने का कारण निश्चित रूप से मिल गया।
**विशेष—**महर्षि दुर्वासा ने शकुन्तला को शाप दिया था जिसके चिन्तन में निमग्न होकर तुम भिक्षा न देकर मेरा अपमान कर रही हो, वह तुझे प्रमादी के समान भूल जायेगा, किन्तु प्रियम्वदा की प्रार्थना पर उन्होंने कुछ अनुग्रह कर पुनः कहा था निशानी के निमित्त दिये गये
२८८ || अभिज्ञानशाकुन्तलम्
सूचकः— जह आवुत्ते भणादि । [ यथावुत्तो भणति । ]
द्वितीयः— एसे जमशदणं पविशिअ पडिणिवुत्ते । [ एष यमसदनं प्रविश्य प्रतिनिवृत्तः । ] ( इति पुरुषं परिमुक्तबन्धनं करोति )
पुरुषः—( श्यालं प्रणम्य ) भट्टा अह कीलिशे मे आजीवे । [ भर्त्तः अथ कीदृशो मे आजीवः । ]
श्यालः— एसो भट्ठिणा अंगुलीअअमुल्लसम्मिदो पसादो वि दाविदो । [ एष भर्त्राऽङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः । ] ( इति पुरुषाय स्वं प्रयच्छति )
पुरुषः— ( सप्रणामं प्रतिगृह्य ) भट्टा अणुग्गहोदम्हि । [ भर्तः अनुगृहीतोऽस्मि । ]
सूचकः— आवुत्तः = भगिनीपतिः यथा भणति = आदिशति, आज्ञापयति तथा क्रियते।
द्वितीयः— एषः = अयं धीवरः यमसदनं = मृत्योर्गृहम् कालमुखं प्रविश्य = अन्तः गत्वा प्रतिनिवृत्तः = पुनरागतः मृतः पुनर्जीवतीवायं धीवर इति भावः इति एवमुक्त्वा, ततो वा पुरुषं = बद्धं जनम् परिमुक्तं = बन्धनं यस्य स तम् परिमुक्तबन्धनं करोति = विदधाति ।
पुरुषः— ( श्यालं = नगररक्षाधिकारिणं प्रणम्य = नमस्कृत्य वदति— हे भर्त्तः ! = अयि स्वामिन् ! अथ = इदानीं, पृच्छामि, मे = मम आजीवः = जीविका— कीदृशः = किं विधः, किंप्रकारकः ? गतो मत्स्यः, गतं चाङ्गुलीयकम् तदद्य केनोपायेन जीविकां करोमीति भावः ।
श्यालः— एषः = अयं अङ्गुलीयकस्य = मुद्राया मूल्येन संमितं तुल्यमिति अङ्गुलीयक-संमितः प्रसादोऽपि = पुरस्कारः पारितोषिकमपि दापितः = अर्पितः ( इति = एवमुक्त्वा पुरुषाय बद्धाय धीवराय स्वं - धनम् कटकं प्रयच्छति = ददाति = मोचनं च करोति ) ।
पुरुषः— ( सप्रमाणं = सनमस्कारं प्रतिगृह्य = गृहीत्वा ) भर्त्तः ! = स्वामिन् ! अनुगृहीतोऽस्मि = अनुकम्पितोऽस्मि कृपापात्री कृतोऽस्मि ।
किसी आभूषण के दिखाने पर मेरा यह शाप समाप्त हो जायेगा। तदनुसार ही राजा दुष्यन्त को अंगूठी के देखते ही सारा वृत्तान्त चलचित्र के समान दिखाई पड़ने लगा। दुर्वासा का शाप छूट गया और राजा की बुद्धि पूर्ववत् निर्मल हो गयी, उसे सभी स्मरण हो आया।
सूचक— सरकार का जो हुक्म।
दूसरा सिपाही— यह यमराज के घर में घुसकर लौट आया। ( यह कहते हुये उसे छोड़ देता है )।
विशेष— सिपाही के कहने का तात्पर्य है कि अंगूठी की चोरी के अपराध में इसे प्राणदण्ड की सजा मिलेगी, यह मरकर यमपुरी जायेगा, क्योंकि पापी लोग मरने के बाद यातना सहने के निमित्त यमपुरी ही जाते हैं, किन्तु यह तो छूट गया। अतः मानो यह मरकर पुनः जी गया।
पुरुष—(नगर रक्षाधिकारी को प्रणाम कर) सरकार, अब कहें कैसी है मरी आजीविका !
श्याल— महाराज ने प्रसन्न होकर अंगूठी के मूल्य के बराबर यह सोने का कड़ा भी तुझको इनाम के रूप में दिया है। ( यह कहकर उसे सोने का कड़ा देता है )।
पुरुष— ( प्रणामपूर्वक उसे लेकर ) मालिक ! मेरा भाग्य धन्य है, मैं बड़ा अनुगृहीत हुआ।
षष्ठोऽङ्कः
२८९
सूचकः—एशे णाम अणुग्गहे जे शूलादो अवदालिअ हत्थिक्वंधे पडिठ्ठाविदे । [ एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । ]
जानुकः—आवुत्त पलिदोशं कहेहि । तेण अंगुलीअएण भट्टिणो शम्मदेण होदव्वं । [ आवुत्त परितोषं कथय । तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यम् । ]
श्यालः—ण तस्सिं महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दंसणेण भट्टिणो अभिमदो जणो सुमराविदो । मुहुत्तं पकिदिगंभीरो वि पज्जुस्सुअणअणो आसि । [ न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् । ]
सूचकः—शेविदं णाम आवुत्तेण । [ सेवितं नामावुत्तेन । ]
सूचकः—एष अयम् नाम निश्चयेन अनुग्रहः=कृपा यत, शूलात् अवतार्य-शूलाख्यमारण-साधनात् लोहदण्डात् वधकीलकात् अवतार्य = नीचैः आनीय हस्तिस्कन्धे = गजपीठे प्रतिष्ठापितः = स्थापितः शूलेन वध्यो राजसंमितं सत्कारं प्रापित इति भावः । अस्य मरणं ध्रुवमासीत् किन्तु राजानुग्रहेण न केवलं प्राणैरवियुक्तः, अपितु अर्थेनापि पूजितः, शूलाग्रं गन्ता जनः हस्तिस्कन्धे समारोपित इत्यर्थः ।
जानुकः—परितोषं = प्रसादं कथय = ब्रूहि तेन = पूर्वोक्तेन अङ्गुलीयकेन मुद्रिकया सम्मतेन अभीष्टेन प्रियेण भवितव्यम् = भूयात् ।
श्यालः—तस्मिन् = अङ्गुलीयके स्थितं महार्हं = बहुमूल्यं रत्नं = मणिः भर्तुः = स्वामिनः बहुमतम्-समादरपात्रम् न = न केवलमिति तर्कयामि संभावयामि आशङ्के तस्य = अङ्गुलीयकस्य दर्शनेन = अवलोकनेन भर्तुः = स्वामिनः अभिमतः = प्रियः जनः = व्यक्तिः स्मारितः = स्मृतिपथमानीतः मुहूर्तं = क्षणं यावत् प्रकृत्या = स्वभावतः गम्भीरः = धीरः सन्न् अपि पर्युत्सुके = उत्कण्ठिते नयने = लोचने यस्य स पर्युत्सुकनयनः उत्कण्ठाव्यञ्जित-नेत्रव्यापार आसीत् अभवत् । चेतसोत्कण्ठितेन क्षणं प्रणयपेशलं कञ्चित् जनं स्मरन्निव राजा खिन्नो बभूवेति भावः ।
सूचकः—आवुत्तेन = भगिनीपतिना नाम = निश्चयेन सेवितं = नृपस्य सेवा दर्शिता । मान्येन भवता यथार्थमेव राजसेवा कृतेत्यर्थः ।
सूचक—इसे कहते हैं कृपा, कि शूली से उतारकर हाथी के कन्धेपर बैठा दिया । अर्थात् फाँसी से तख्ते से उतार कर इसे हाथी के हौदे में बैठा दिया गया, कहाँ तो चोरी के अपराध में शूली से वध होने वाला था और कहाँ उलटे इसे रत्नजटित बहुमूल्य सुवर्ण का कड़ा इनाम मिल रहा है ।
जानुक—सरकार ! इसको महाराज ने जो इनाम दिया है, इससे मैं तो यही समझता हूँ कि बहुमूल्य रत्न से जड़ी हुई यह अंगूठी महाराज को अधिक प्यारी है ।
श्याल—उस अंगूठी में बहुमूल्य रत्न जड़े हुए हैं । इसलिए वह अंगूठी महाराज को अधिक प्यारी है, यह बात नहीं है, पर मैं तो ऐसा समझता हूँ कि उस अंगूठी को देखकर महाराज को किसी भूले हुए अपने प्यारे बन्धु का स्मरण हो आया है क्योंकि उस अंगूठी को देखते ही महाराज स्वभाव से ही गम्भीर प्रकृति वाले होने पर भी क्षणभर के लिए अत्यन्त उत्कण्ठित हो गये थे ।
सूचक—जीजा जी ने सच्ची सेवा की ।
१९ शाकु०
२९० || अभिज्ञानशाकुन्तलम्
जानुकः—णं भणाहि । इमश्श कार मच्छिआभत्तुणोत्ति । [ ननु भण । अस्य कृते मात्स्यिकभर्तुरिति । ] ( इति पुरुषमसूयया पश्यति )
पुरुषः—भट्टालक । इदो अद्धं तुम्हाणं सुमणोमुलं होदु । [ भट्टारक इतोऽर्धं युष्माकं सुमनो मूल्यं भवतु । ]
जानुकः—एत्तके जुज्जइ । [ एतावद् युज्यते । ]
श्यालः—धीवर महत्तरो तुमं पिअवस्सओ दाणिं मे संवुत्तो । कादंबरी सक्खिअं अम्हाणं पढमसोहिदमं इच्छीअदि । ता सांडिआपणं एव्व गच्छामो ।
जानुकः—ननु = अथवा भण = वद मत्स्यिकमर्तुः मत्स्येन जीवन्तीति मात्स्यिकाः धीवराः तेषां भर्तुः=स्वामिनः अस्य = एतस्य धीवरस्य कृते = लाभाय सेवा दर्शिता अनेनाङ्गुलीयकनिवेदनेन धीवरस्यैव लाभो जातः नास्माकमिति वृथैव महाराजः सेवितः इति एवमुक्त्वा पुरुषं = धीवरम् असूयया = ईर्ष्याया पश्यति = अवलोकयति । उत्कोचसूचकस्य तस्य सासूयं निरीक्षणमर्थकामुकत्वात् ।
पुरुषः—इत्थं राजपुरुषाणां नावमवगम्य धीवरोऽर्द्धभागं तस्मात् पारितोषिकात् दातुं प्रवर्तते—धीवरो वदति—हे भट्टारक ! हे स्वामिन् इतः = अस्मात् पारितोषिकात् कटकात् अद्धं = द्वितीयो भागः युष्माकं = भवतः सुमनोमूल्यम् = पुष्पमूल्यम् पूर्वोक्तवध्यचिह्नभूतमालापमूल्यं भवतु = अस्तु ।
जानुकः—एतावत्=एतन्मात्रं धनम् युज्यते = उचितमस्ति । इत्युत्कोचप्रियस्य जानुकस्याभिप्रायः ।
श्यालः—धीवर ! हे कैवर्त ! त्वमिदानीं = अधुना मे = मम अतिशयेन महान् महत्तरः=इतरापेक्षयातिशयः प्रियः=हृद्यः प्रियवयस्यकः सखा च संवृत्तः=जातः । कादम्बरी=
जानुक—यों कहो कि इन मल्लाहों के मालिक = मछुओं के मुखिया धीवर के लाभ के लिए जीजा जी ने राज सेवा की। ( यह कहकर उसे, डाह से देखता है। )
विशेष—जीजा जी को राजा के पास जाने से ही इसे पुरस्कार मिला। इसलिए यह कहना होगा इस मछुये के लिए ही इन्होंने राजा की सेवा की है।
तात्पर्य यह है कि लाभ तो मछली मारने वाले इस धीवर को हुआ, जो इसे इनाम के रूप में राजा का रत्नाभरण मिला, और कष्ट हम लोगों ने उठाया।
पुरुष—मालिक ! इसमें से आधा हिस्सा आप लोगों का भी फूल-माला, ( पान-पत्ती, चाय-पानी, शराब आदि ) के खर्च के लिए रहेगा।
विशेष—पुरस्कार का आधा देने का प्रस्ताव करते हुए मछुओं का मुखिया धीवर कह रहा है कि यह आप लोगों के लिए पुष्प का मूल्य है। आज कल भी अफसरों को घूस देने वाले यही कहते हैं कि यह तुच्छ भेंट आपको पान-खाने के लिए प्रस्तुत है। अतः कृपया इसे स्वीकार करें। आपने मुझे छोड़ देने की कृपा की इसके अभिनन्दन में से फूल माला से स्वागत करता पर तत्काल वे चीजें उपलब्ध नहीं हैं। अतः उनके बदले इसमें आधा हिस्सा ही देता हूँ आप लोग अपने मन से चीजें ले लें। या सिपाही ने पहले ही से शूली के लिए फूल माला की चर्चा की थी उसका व्यंग पूर्ण उत्तर भी हो सकता है।
जानुक—यह बात तो तुमने बहुत ही उचित कही, इतना ही ठीक है।
श्याल—अरे धीवर ! अब तो तू हमारा बड़ा मित्र हो गया। हम लोगों की नई मित्रता तो
षष्ठोऽङ्कः
२९१
[ धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः। कादम्बरीसाक्षिकमस्माकं प्रथमशोऽ-
भिमतमिष्यते। तच्छौण्डिकापणमेव गच्छामः। ]
( इति निष्क्रान्ताः सर्वे )
प्रवेशकः।
कुत्सितमम्बरं यस्य स कादम्बरो बलरामः तस्येयं कादम्बरी मदिरा साक्षिणी साक्षिद-
र्शिका यस्मिन् तत् कादम्बरी साक्षिकं = सुरासाक्षिकम् अस्माकं = आवयोः प्रथमशः =
प्रथमवारम् अभिमतं = प्रियम् इष्यते = अपेक्ष्यते। पद्यमाना एकत्रपानेन जातं सौहृदं
भवति सुरासाक्षिकं तथापि चास्माभिः सह तथैव सुरासाक्षिका मद्यमैत्री भवतु इति भावः
तत् = अतः शौण्डिकस्य मद्यविक्रेतुः आपणमेव पण्यशालामेव गच्छामः = व्रजामः।
( इति = एवं निश्चित्य ततो निष्क्रान्ताः = रङ्गमञ्चाद् बहिर्गताः )
॥ इति प्रवेशकः ॥
प्रवेशयतीति प्रवेशकः = नीचपात्रप्रयुक्तो भाविभूतार्थसूचकः अङ्कसन्धिविशेषः।
प्रवेशकलक्षणं यथा—
यन्नीचैः केवलं पात्रैः भाविभूतार्थसूचनम्। अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥
एवं विष्कम्भक समान एव प्रवेशकोऽपि भूताया भाविन्याश्च घटनायाः सूचको
भवति। पात्रं चास्य निम्नश्रेणिकं भवति। अस्य भाषा प्राकृतं प्रयुज्यते। विश्वनाथेन
साहित्यदर्पणेऽस्य लक्षणमेवं कृतमस्ति—
प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ ६।५७
केचन प्राचीना आचार्या इमं पुनः प्रवेशकमङ्कावतारनामकं षष्ठाङ्कभागमेव मत्वा
षष्ठाङ्के एवान्तर्भावयन्ति। तदनुसारिभिरस्माभिरपि तथैवोद्धृत्य प्रस्तूयते।
कतिपये विद्वांसश्च षष्ठाङ्कावतारार्थम् अङ्कावतारनामानं पञ्चमाङ्गावयवभूतमर्थोपक्षेप-
कमिमं प्रवेशकं स्वीकुर्वन्ति तन्मतेऽङ्कावतार द्वारा प्रारब्धस्याङ्कस्यान्ते तदङ्कपात्रद्वाराऽ-
ग्रिमाङ्कस्य सूचना प्रदीयते। तथाहि साहित्यदर्पणस्य षष्ठे परिच्छेदे विश्वनाथः—
अङ्कान्ते सूचितः पात्रैः तदङ्कस्याविभागतः।
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः॥ ६।५८
वस्तुतः प्रवेशके विष्कम्भके च भाषा भेद एव दृश्यते प्रवेशकस्य भाषा भवति प्राकृतं
विष्कम्भकस्य च संस्कृतप्राकृतचोभयम्। प्रवेशकस्य कार्यमस्ति सामाजिकानां हृदयेषु
अप्रत्यक्षाणामर्थानां प्रवेश एव–अप्रत्यक्षान् अर्थान् सामाजिकहृदयेषु प्रवेशयतीति प्रवे-
शकः। अत्र राज्ञा दुष्यन्तस्य अङ्गुलीयकदर्शनम्, तेन तत्कालमेव दुर्वाससः शापं निवृत्त्या
कण्वाश्रमे गान्धर्वविवाहं विना परिणीतायाः शकुन्तलाया स्मरणं प्रतिपादितम्। तस्या-
नन्तरावस्था अङ्कमुखपात्रैः प्रदर्शयिष्यते।
मदिरा के साक्षी में ही हुआ करती है। अतः आओ, मद्य पीने के लिए मद्य बनाने वाले कलवार
की दूकान पर ही चलें। ( इसके बाद सब बाहर जाते हैं )
प्रवेशक—यह प्रवेशक ( भूत और भावी बात को नीच पात्रों द्वारा सूचना ) समाप्त हुआ।
सुधाकर में नीच पात्रों के द्वारा दो अङ्कों के मध्य भूतभावी समाचार देना प्रवेशक कहा गया है।
२१२ || अभिज्ञानशाकुन्तलम्
( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः )
सानुमती—णिव्वट्टिदं मए पज्जाअणिव्वत्तणिज्जं अच्छरातिथ्थसण्णिज्झं जाव साहुजणस्स अभिसेअकालो त्ति । संपदं इमस्स राएसिणो उदंतं पच्चक्खीकरिस्सं । मेणआसम्बन्धेण सरोरभूदा मे सउंदला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वम्हि । ( समन्तादवलोक्य ) किं णु खु उदुच्छवे वि णिरुच्छवारंभं विअ राउउलं दीसई । अत्थि मे विहवो पणिधाणेण सव्वं परिण्णादुं । किं दु सहीए आदरो मए माण-इदव्वो । होदु इमाणं एव्व उज्जाणपालिआणं तिरक्खरिणीपडिच्छण्णा पस्स-वत्तिणी भविअ उवलहिस्सं । [ निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति । सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनका-संबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूत्सवेऽपि निरुत्सवसम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं
अथ शकुन्तलायाः वृत्तान्तस्य विच्छेदाभावाय अप्सरः पदेन पूर्वं सूचितायाः सानु-मत्याः प्रवेशमाह कविकुलकलाधरः कालिदासः—तत इति ।
( ततः = तदनन्तरम् सानुमतीनामाप्सराः = एतन्नामिका स्वगंस्त्रीः आकाश-यानेन व्योममार्गेण प्रविशति रङ्गमञ्चे दृश्यते )
सानुमती—अथ मारीचाश्रमे मात्रा मेनकया सह निवसन्त्याः शकुन्तलायाः प्रेयो-वृत्तान्तसाक्षात्कारणाय अप्सरस्तीर्थगमनकाले सन्दिष्टा सखी सानुमतो स्वकार्यं सम्पाद्य सुहृत्कार्यं कर्तुमभिलषन्ती स्वमनसि विचारयति यावत्—यावत्कालम् साधुजनस्य = सज्जनस्य अभिषेककालः = स्नानसमयः तावत्कालपर्यन्तम् पर्यायेण = क्रमेण अप्सरोभिः वारक्रमेण निवर्तनीयं = अनुष्ठेयम् = पर्यायनिर्वर्तनीयं कर्म मया = सानुमत्यां निर्वर्तितं = सम्पादितम् । धार्मिकाणां सज्जनानां स्नानसमये एकैकस्मिन् दिने प्रभातकाले एकैकयाऽ-प्सरसाऽप्सरस्तीर्थे सन्निधातव्यमिति नियमः । तत्राद्य मम पर्याय आसीत् स मयाऽनुष्ठितः । इदानीं ततो लब्धावकाशः ।
साम्प्रतं = इदानीम् अस्य राजर्षेः = दुष्यन्तस्य उदन्तं = वृतान्तं प्रत्यक्षीकरिष्यामि = अनुभविष्यामि । मेनका सम्बन्धेन = मेनकापत्यतया मे = मम शकुन्तला शरीरभूता = शरीरवत् प्रेमास्पदभुता नितरां प्रिया तया = मेनकया च दुहितृनिमित्तं दुहिता = पुत्री शकुन्तलानिमिन्तं = प्रयोजनं यस्मिन्कर्मणि ततः स्वतनयार्थं, शकुन्तलार्थं पूर्वं सन्दिष्टा सन्दिष्टपूर्वा = दत्तसन्देशाऽस्मि । शकुन्तला मनोविनोदार्थं राज्ञो दुष्यन्तस्य वृत्तान्तः त्वया विलोक्य तस्मै कथनीयमिति मेनकया निजपुत्रीप्रेम्णा निवेदितास्मीतिभावः ।
( इसके बाद आकाशमार्ग से आई हुई सानुमती नामक अप्सरा का प्रवेश )
सानुमती—जब तक सज्जनों के स्नान करने का समय है तब तक के लिए बारी-बारी से की जानेवाली अप्सरातीर्थ की देखभाल मैंने कर ली, अब मैं उससे खाली हो गई । अब इस राजर्षि दुष्यन्त का समाचार अपनी आँखों से देखूँगी, क्योंकि मेनका के सम्बन्ध से मेनका की पुत्री शकुन्तला मुझे प्राणों से भी बढ़कर प्यारी है । मेनका ने भी बेटी के निमित्त मुझे पहले ही सहेज रखा है । इसलिए तो मेनका यहाँ से दुःखी शकुन्तला को उठाकर ले गई थी । ( चारों ओर देखकर ) इस समय वसन्तोत्सव के उपस्थित होने पर भी यह राजकुल उत्सव के आरम्भ से
षष्ठोऽङ्कः
परिज्ञातुम्। किं तु सख्या आदरो मया मानयितव्यः। भवतु अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये। ] ( इति नाट्येनावतीर्य स्थिता ) ( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी अपरा च पृष्ठतस्तस्याः )
प्रथमा—
आतम्महरिअपंडुर जीअसव्वस्स वसंतमासस्स । दिट्ठो सि चूदकोरअ उदुमंगल तुमं पसाएमि ॥ २ ॥
( समन्तात् = सर्वतः अवलोक्य = दृष्ट्वा ) किन्नु खलु = कथं हि ऋतूत्सवेऽपि = ऋतूत्सवोचितकालेऽपि सन्निहितवसन्तमहोत्सवेऽपि उत्सवान्निर्गतः निरुत्सवः निरुत्सव आरम्भो यस्य तत् निरुत्सवारम्भं = उत्सवारम्भशून्यम्, निर्व्यापारं राजकुलं = राजगृहम्, दृश्यते = अवलोक्यते । यद्यपि प्रणिधानेन = समाधिना देव्या योगशक्त्या सर्वं = सकलं ज्ञातुं = परिज्ञातुं मे = मम, विभवः = सामर्थ्यम् अस्ति = विद्यते । दिविवर्तमानयैव मया दिव्यदृष्ट्या सर्वमपि ज्ञातुं शक्यते । किन्तु = तथापि सख्याः = मेनकायाः शकुन्तलाया वा आदरः = आग्रहः = स्वचक्षुषैव सर्वं राजकुलवृत्तं विलोक्य प्रत्यहमत्रागत्य तत्रत्यो वृत्तान्तस्त्वया वर्णनीय इति तन्निबन्धो, मया मानयितव्यः = पालयितव्यः । अतो न दिव्यदृष्ट्या विभावयामि किन्तु लोचनाभ्यामेव सर्वं पश्यामीति भावः । भवतु = अस्तु अनयोः = एतयोः पुरः स्थितयोः उद्यानपालिकयोः = उपवनरक्षिकयोः तिरस्करिणी नाम = अदृश्यकारिणी कापि विद्या तया = अन्तर्धानविद्यया प्रतिच्छन्ना = अलक्षिता गूढविग्रहा सती पार्श्ववर्तिनी = समीपचारिणी भूत्वा उपलप्स्ये = ज्ञास्यामि । इति = एवं निश्चित्य नाट्येन = अभिनयेन अवतीर्य गगनतलादवतीर्य स्थिता = भूतलावतरणं नाटयित्वा उद्यानपालिकयोः निकटे निगूढं स्थितेत्यर्थः । भूतलावतरणं तु गङ्गावतरणेन । तल्लक्षणं यथा—
अङ्गेरूक्षेपविक्षेपावनुप्रोन्नतसन्नतौ ।
मजेतां विपताकौ चेदेवमेव शिरस्तथा ।
गङ्गावतरणम्...................................ः।
( ततः = तदनन्तरम् चूताङ्कुरम् = आम्राङ्कुरमवलोकयन्ती = नवोद्गतत्वात् सप्रेमं पश्यन्ती चेटी = परिचारिका, तस्याः पृष्ठतः अपरा = द्वितीया च चेटी प्रविशति )
अन्वयः— हे आताम्र हरितपाण्डुर ! वसन्तमासस्य जीवितसर्वस्व ! ऋतुमङ्गल ! चूतकोरक ! दृष्टोऽसि त्वां प्रसादयामि ।
विमुख है । मुझमें योगध्यान के द्वारा सब जान लेने की सामर्थ्य है, परन्तु मेरी प्रियसखी मेनका का 'सब हाल अपनी आँखों से देखकर तुम यहां आकर मुझसे कहना' यह आग्रह भी मुझे मानना आवश्यक है । अच्छा, इन दोनों उद्यान पालिकाओं के बीच में ही तिरस्करिणी विद्या के बल से छिपी रहकर मैं गुप्त रूप से इनकी बातें सुनूंगी । ( आकाश से उतरने का अभिनय करती हुई दोनों उद्यान पालिकाओं के बीच उपस्थित हो छिपकर खड़ी हो जाती है ) ।
( इसके बाद आम की बौर देखती हुई दासी और उसके पीछे दूसरी दासी दिखाई पड़ती है )
पहली दासी— कुछ-कुछ लाल रंग लिए हरे और पीले रंग से सुशोभित बसन्त मास के
१९४ अभिज्ञानशाकुन्तलम्
[ आताम्रहरितपाण्डुर जीवितसर्वस्व वसन्तमासस्य । दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ ]
**द्वितीया—**परहुदिए किं एआइणी मंतेसि ? । [ परभृतिके किमेकाकिनी मन्त्रयसे ? । ]
**प्रथमा—**महुअरिए चूदकलिअं देखिअ उम्मत्तिआ परिहुदिआ होदि । [ मधुकरिके ! चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति । ]
नवोद्गतताम्रकोरकमवलोक्य प्रथमा चेटी = तयोरेका दृष्टमना चेटी तमवलोकयन्ती वदति—आताम्रेति । ईषत्ताम्रः आताम्रः आताम्रश्च हरितश्च पाण्डुरश्चेति आताम्रहरितपाण्डुरः तत्सम्बुद्धौ हे आताम्रहरितपाण्डुर ! ताम्र श्यामल-शुभ्रेति-वर्णत्रयमिश्रित ! वसन्तमासस्य = मधुमासस्य चैत्रस्य जीवितसर्वस्व = जीवनसारतमः ! ऋतुमङ्गल ! = ऋतोः वसन्तस्य मङ्गल ! प्रशंसा ! वसन्तश्रेयस्कर । चूतकोरक ! = आम्रमुकुल ! दृष्टोऽसि त्वमद्य दैवात् अवलोकितोऽस्ति त्वां भवन्तं प्रसादयामि = स्वागतं व्याहरामि त्वं तथा प्रसन्नो भव यथाऽस्मिन् वसन्तेऽहं सुखं वसेयमित्यर्थः ।
अत्र स्वभावोक्तिरलङ्कार आर्याच्छन्दश्च ॥ २ ॥
**द्वितीया—**हे परभृतिके ! एकाकिनी = स्वयमेव, केवला किमेतन् मन्त्रयसे = किमदमालपसि ? उन्मत्तेव एकाकिनी किमिति जल्पसीत्यर्थः ।
**प्रथमा—**अथ सा परभृतिकानाम्नी प्रथमाचेटी मधुकरिका नामधेयां द्वितीयां चेटीं श्लेषवक्रोक्त्या प्रतिवदति—**मधुकरिके ! चूतकलिकां=**आम्रकोरकं, रसालमञ्जरीं **दृष्ट्वा=**विलोक्य **उन्मत्ता=**वातुला **परभृतिकां=**कोकिला भवति । अहम् परभृतिका नाम चेटी च यथा कोकिला चूताङ्कुरं दृष्ट्वा हृष्यति तथाहमपि परभृतिका नाम चेटी नामसाम्यात्
सच्चे जीवन स्वरूप वसन्त ऋतु के मङ्गलमय आगमन की सूचना देने वाले हे आम्रकोरक = आम्रमञ्जरी ? आपका दर्शन कर आपका अभिनन्दन करती हूँ ॥ २ ॥
**विशेष—**आकाशं याति अनेनेति आकाशयानं तेन आकाशयानेन इसका अर्थ वायुयान भी हो सकता है, या आकाशमार्ग से भी हो सकता है । इन्द्रलोक की अप्सराओं में आकाशमार्ग से आने जाने की अद्भुत शक्ति होती है । अप्सरातीर्थ में दिव्य अप्सराओं की बारी-बारी से यह देखने की ड्यूटी होती थी कि स्नान के समय कहीं कोई दुर्घटना न हो जाय ।
तिरस्करिणी विद्या के द्वारा दैवी शक्ति प्राप्त व्यक्ति मन्त्र पढ़कर अदृश्य हो जाता है । दूसरे लोग उसे नहीं देख सकते हैं, किन्तु वह दूसरों को भली-भाँति देख सकता है । देवयोनि में तिरस्करिणी विद्या का प्रभाव रहता है । अतः सानुमती अप्सरा ने तिरस्करिणी विद्या के प्रभाव से छिपकर दोनों उद्यानपालिकाओं के अगल-बगल रहकर राजा दुष्यन्त का कृत्य देखने का प्रयास किया था ।
**दूसरी दासी—**अरी परभृतिके ! तू अकेली, अकेली क्या बड़बड़ा रही है ?
**पहली दासी—**मधुकरिके ! चूतकलिका = आम्रमञ्जरी को देखकर परभृतिका उन्मत्त-सी हो रही है ( परभृतिका कोयल को कहते हैं तथा पहली चेटी का भी यही नाम हैं ) अर्थात् मैं आम की कली को देखकर कोयल की तरह मस्त होकर स्वयं ही चहचहा रही हूँ ।
**विशेष—**दूसरी दासी का नाम मधुकरिका है जिसका अर्थ नन्हीं भ्रमरी है, परभृतिका का अर्थ कोयल होने से पहली चेटी अपने नाम का कौशल पूर्ण प्रयोग कर रही है ।
षष्ठोऽङ्कः । २९५
द्वितीया—( सहर्षं सत्वरयोपगम्य ) कहं उवट्ठिदो मधुमासो । [ कथमुपस्थितो मधुमासः । ]
प्रथमा—महुअरिए । तव दाणिं कालो एसो मदविब्भमगीदाणं । [ मधुकरिके ! तवेदानीं काल एष मदविभ्रमगीतानाम् । ]
द्वितीया—सहि अवलंबस्स मं जाव अग्गपादट्ठिआ भविअ चूदकलिअं गेण्हिअ कामदेवच्चणं करेमि । [ सखि, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकाम गृहीत्वा कामदेवार्चनं करोमि । ]
कोकिलेव आम्रमञ्जरीं दृष्ट्वा हृष्यति । अहं किल परभृतिका = कोकिला, त्वञ्च मधुकरिका = भृङ्गी ।
द्वितीया— चूतकलिकोद्गमं निशम्य मधुमासावतारसंभावनया प्रहृष्टा द्वितीया चेटी त्वरया प्रथमायाः चेट्याः समीपमुपगम्य सहर्षं ब्रवीति—कथं = किं मधुमासः = वसन्तः उपस्थितः = प्राप्तः, वसन्तकालः समुपस्थितः किमिति प्रश्नः ।
प्रथमा— मधुकरिके = भ्रमरि ! तव कृते, इदानीं = अधुना मदः = उन्मादः, विभ्रमः = विलासश्च गीतानि = गानानि चेति तानि तेषां मदविभ्रमगीतानां = उन्मद-सविलासविभ्रम-तारतम्यगीतानाम्, एषः = अयं कालः = उचितः समयः आगतः । वसन्तसमये कुसुमितासु वनराजीसु भ्रमरकामिन्यास्तव गायनं स्वाभाविकं भवति इदानीं स समयस्ते प्राप्तः । अर्थात्-भ्रमरी किल वसन्ते सहकारकोरकेषु मञ्जरीषु च भ्राम्यन्ती सविभ्रमं कलं गायति त्वमपि च गीतविनोदप्रिया भ्रमरीव गीतं प्रारप्स्वेति तात्पर्यम् ।
द्वितीया— सखि ! हे आलि ! मां = मधुकरिकाम्, अवलम्बस्व = करेण आलम्बनं मह्यं देहि यावत् = यावत्कालं पादयोः = चरणयोः अग्रमित्यग्रपादं तत्र स्थितेति अग्रपाद-स्थिता पादाङ्गुलिसमाश्रयणेन स्थिता सती चूतमञ्जरीं-चूतस्य = आम्रस्य, मञ्जरीं = कलिकां गृहीत्वा = आदाय कामदेवार्चनं = मदनपूजनम् करोमि = विदधामि । प्रांशु-लभ्यां चूतकलिकाम् गृहीत्वा यावत् कामार्चनं करोमि तावत् मामवलम्बस्व । प्रांशुलभ्य-त्वाद्दालायास्तल्लाभायाग्रपादावस्थितिरुचितेवेति भावः । अभिनवचूतमञ्जरीभिः समर्चनं मदनोत्सवे भवतीति लोकसमयः ।
दूसरी—( सहर्ष, जल्दी से पास में जाकर ) क्या कहा—मधुमास = वसन्त ऋतु का महीना चैत्रमास आ गया ?
विशेष— वस्तुतः चैत्र और वैशाख को वसन्तमास अथवा वसन्त ऋतु कहते हैं, परन्तु यहां वसन्तमास का अर्थ है चैत्रमास, क्योंकि वही वसन्तऋतु का प्रथम मास है—मधुश्च माधवश्चैव वासन्तिकावृतू (य० वे० १३।२५ ) ।
पहली— हे मधुकरिके ! = भ्रमरिके तेरे मदभरे गीतों का भी तो यही समय है । भ्रमरी भी वसन्त में मस्त होकर आमकी मञ्जरियों पर एवं फूलों पर गूंजती फिरती रहती है और तेरा भी नाम मधुकरिका = भ्रमरी है ही । अतः तू भी आनन्द विभोर हो मस्ती से गाना गा ।
दूसरी— हे सखी, मुझे जरा-सा सहारा दो तो मैं अपने पैरों के अग्रभाग पर पञ्जे के सहारे खड़ी होकर आम्र की कली को तोड़कर उससे भगवान् कामदेव की पूजा करूँ ।
२९६ अभिज्ञानशाकुन्तलम्
प्रथमा—जइ मम वि खु अद्धं अच्चणफलस्स । [ यदि ममापि खल्वर्धमर्चन-फलस्य । ]
द्वितीया—अकहिदे वि एदं संपज्जइ । जदो एक्कं एव्व णो जीविवं दुधा ठिदं सरीरं ( सखीमवलम्ब्य स्थिता चूतांकुरं गृह्णाति ) । अए अप्पडिबुद्धो वि चूदप्पसवो ऐत्थ बंधणभंगसुरभी होदि । [ अकथितेऽप्येतत्संपद्यते । यत एकमेव नो जीवितं द्विधा स्थितं शरीरम् । अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति । ]
( इति कपोतहस्तकं कृत्वा ) नमो भगवते मकरध्वजाय—
प्रथमा—यदि = चेत् खलु = निश्चितं ममापि अर्चनफलस्य = कामदेवपूजाफलस्य अर्द्धं = द्वितीयो भागः स्यात्तदावलम्बनं दास्यामि नान्यथा ।
अर्थ भावः—मधुकरिके ! त्वं यदि चूतप्रसवं कामाचनायावचिनोषि तर्हि तदर्चन-फलस्याद्धं फलं त्वं मह्यं देहि, तदा तव साहाय्यं विधास्यामीति भावः ।
द्वितीया—अकथितेऽपि = अनाख्यातेऽपि, त्वदनुक्तावपि एतत् = इदं कामपूजायाः फलार्द्धम् संपद्यते = प्रतिपद्यते । यतः = यस्मात् कारणात् एकमेव स्नेहेन एकीभूतं नौः = आवयोः जीवितं = जीवनम्, प्राणाः, शरीरं = देहः तु द्विधा = द्विप्रकारकं स्थितं = अस्ति, आवयोः स्नेहातिशयादेवाभेदो जायते इति भावः । ( सखीं = आलिम् अवलम्ब्य = आलम्बनं गृहीत्वा स्थिता = उत्थिता सती चूताङ्कुरं = आम्रमञ्जरीं गृह्णाति = उत्पाटयति ) कपोतहस्तकं कृत्वा अये !=भोः ! अप्रतिबुद्धः = अविकसितोऽपि चूत-प्रसवः = आम्रमञ्जरी अत्र = इह उपवने बन्धनभङ्गसुरभिः बन्धनात् = वृन्तात् भङ्गेन उत्पाटनेन सुरभिः = सुगन्धिः भवति = जायते प्रसवबन्धनभङ्गस्थानम् सौरभमुद्गमन्निव शोभते अविकसितस्यापि चूतप्रसवस्य ईदृक् सौरमं विकासे पुनः कीदृक् स्यादिति भावः ।,
इति कपोतहस्तकं—कपोतः = कपोताकारः हस्तः करः कपोतहस्त स एव कपोत-
पहली—अगर कामदेव की पूजा के फल में से आधा फल मेरा भी हिस्सा रहे, तभी मैं तेरी सहायता कर सकूँगी ।
दूसरी—हे सखी ! यह बात तो तेरे कहे बिना भी हो ही जायेगी, क्योंकि हम दोनों का जीवन तो एक ही है, किन्तु शरीर दो रूपों में स्थित है, विधाता ने भूल से ही इसके दो भाग बना दिये हैं ( सखी का सहारा लेकर आम्रमंजरी को तोड़कर ) यहां यह आम की कलि का अभी खिली नहीं है, तो भी इसके तोड़ने से इसके वृन्त भाग से सुगन्धि निकल रही है ।
विशेष—परभृतिका और मधुकरिका ये दोनों दो सखियों के नाम हैं कवि ने किसी खास अभिप्राय से इन दोनों नामों का प्रयोग किया है । इन दोनों के दो-दो अर्थ हैं । पहले तो ये दोनों दो सखियों के नाम हैं दूसरा परभृतिका अर्थ है कोयल तथा मधुरिका अर्थ है भ्रमरी । वसन्त = चैत्रमास में कोयल तथा भ्रमरियाँ मतवाली होकर फुदकती फिरती हैं। यहाँ दोनों नामों का प्रयोग श्लिष्ट अर्थ में किया गया है अर्थात् द्वयर्थक हैं । द्विधा स्थितं शरीरं का तात्पर्य यह है कि परभृतिका और मधुकरिका दोनों घनिष्ठ सखियाँ हैं। एक के बिना दूसरी न तो प्रसन्न रह सकती है, न जीवित ही रह सकती है । वस्तुतः उनके पारस्परिक व्यवहार को देखकर यह कहा जा सकता है कि केवल उनके शरीर मात्र दो हैं, प्राण तो एक ही है ।
( कपोतहस्तक अञ्जलि बनाकर कामदेव को आम्रमञ्जरी चढ़ाती हुई ) भगवान् कामदेव को हमारा नमस्कार है ।
षष्ठोऽङ्कः । २९७
तुमं सि मए चूदंकुर दिण्णो कामस्स गहीदधणुअस्स ।
पहिअजणजुवइलक्खो पंचब्भहिओ सरो होहि ॥ ३ ॥
[ त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ ]
( इति चूताङ्कुरं क्षिपति )
हस्तकः तं कपोतहस्तकम् कपोतहस्तकशब्दः पारिभाषिकशब्दः करतलयोः सर्वाङ्गश्लेषे वर्तते कपोतहस्तकं यथासङ्गीतरत्नाकरे—
कपोतोऽसौ करो यत्र श्लिष्टमूलाग्रपार्श्वकः ।
प्रणामे गुरुसंभाषे……………… ॥
नाट्यशास्त्रे च भरतमुनिः—
उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसङ्ग्रहात् ।
हस्तः कपोतको नाम……………… ॥
एष विनयाभ्युपगमे, प्रणामकरणे, गुरोश्च सम्भाषे प्रयुज्यते । कपोतहस्तकं कृत्वा = प्रणामाञ्जलिं बद्ध्वा नमो भगवते मकरध्वजाय इत्युक्त्वा च—त्वमसीति ।
अन्वयः—हे चूताङ्कुर गृहीतधनुषे कामाय त्वं मया दत्तः असि । पथिकजनयुवति-लक्ष्यः पञ्चाभ्यधिकः शरो भव ।
अभिनवे वसन्तावतारसमये परभृतिका नाम चेटी मदनमुद्दिश्य आम्रमञ्जरीं समर्पयन्ती कामदेवार्चनमन्त्रगाथां पठति —त्वमसि मयेति । हे चूताङ्कुर ! = हे सहकारप्रसव ! आम्रमञ्जरि ! गृहीतं = आत्तं धनुः = शरासनं येनासौ तस्मै गृहीतधनुषे = धनुर्धराय मानिनीमानभञ्जनसन्नाहशालिने कामाय = मदनाय त्वं मया = चेट्या दत्तः = समर्पितः असि । पथिकजनानां = विरहिणां या युवतयः = तरुण्यो भार्याः ता एव लक्ष्यं = शरव्यम् यस्य सः पथिकजनयुवतिलक्ष्यः=पान्थस्त्रीहृदयकर्तनः पञ्चभ्यः अरविन्दादिभ्यः पञ्चभ्यः
कपोतहस्तक = कबूतर की तरह बनाया गया हाथ । हाथ जोड़ने की यह कला है । दोनों हाथों की पांचों अंगुलियों के छोर एक दूसरे से मिले हों, हथेली का मध्य भाग दूर रखकर मूल मिला दिया जाता है, यह है हाथों का कपोताकार बनाना । संगीतरत्नाकर के अनुसार करकपोत तत्र होता है जब आगे और पीछे के करभाग जुड़े हों, यह प्रणाम और गुरु-संभाषण के समय करना चाहिए ।
हे आम्रमञ्जरी ! मैंने तुम्हें धनुर्धारी कामदेव को अर्पित कर दिया है । पथिक परदेश गये हुए व्यक्तियों की युवती स्त्रियों के हृदयों को तथा कुपित मानिनी नायिकाओं के हृदयों को बेधने वाले काम के पांचों बाणों में सब से श्रेष्ठ बाण बन जाओ ॥ ३ ॥
( इसके बाद आम्र की बौर फेंक देती है । )
विशेष—गृहीतधनुषे इस विशेषण से प्रतीत होता है कि वसन्त ऋतु में कामदेव धनुष धारण किये रहता है । वनिता से वियोगी व्यक्ति को वसन्त ऋतु में अपनी प्रियतमा का स्मरण विशेषरूप से होत रहता है और काम के बाण उसे पीडित करते रहते हैं उनका लक्ष्य उस समय केवल बिरहणी स्त्रियाँ रहती हैं । आम का अंकुर देखकर कामिनियों का मान भंग हो जाता है । कवियों ने कामदेव को पञ्चसायक कहा है, क्योंकि उसके पांच ही बाण हैं वे सभी बाण पुष्प के हैं ।