भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

षष्ठोऽङ्कः

२८९

सूचकः—एशे णाम अणुग्गहे जे शूलादो अवदालिअ हत्थिक्वंधे पडिठ्ठाविदे । [ एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । ]

जानुकः—आवुत्त पलिदोशं कहेहि । तेण अंगुलीअएण भट्टिणो शम्मदेण होदव्वं । [ आवुत्त परितोषं कथय । तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यम् । ]

श्यालः—ण तस्सिं महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दंसणेण भट्टिणो अभिमदो जणो सुमराविदो । मुहुत्तं पकिदिगंभीरो वि पज्जुस्सुअणअणो आसि । [ न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् । ]

सूचकः—शेविदं णाम आवुत्तेण । [ सेवितं नामावुत्तेन । ]


सूचकः—एष अयम् नाम निश्चयेन अनुग्रहः=कृपा यत, शूलात् अवतार्य-शूलाख्यमारण-साधनात् लोहदण्डात् वधकीलकात् अवतार्य = नीचैः आनीय हस्तिस्कन्धे = गजपीठे प्रतिष्ठापितः = स्थापितः शूलेन वध्यो राजसंमितं सत्कारं प्रापित इति भावः । अस्य मरणं ध्रुवमासीत् किन्तु राजानुग्रहेण न केवलं प्राणैरवियुक्तः, अपितु अर्थेनापि पूजितः, शूलाग्रं गन्ता जनः हस्तिस्कन्धे समारोपित इत्यर्थः ।

जानुकः—परितोषं = प्रसादं कथय = ब्रूहि तेन = पूर्वोक्तेन अङ्गुलीयकेन मुद्रिकया सम्मतेन अभीष्टेन प्रियेण भवितव्यम् = भूयात् ।

श्यालः—तस्मिन् = अङ्गुलीयके स्थितं महार्हं = बहुमूल्यं रत्नं = मणिः भर्तुः = स्वामिनः बहुमतम्-समादरपात्रम् न = न केवलमिति तर्कयामि संभावयामि आशङ्के तस्य = अङ्गुलीयकस्य दर्शनेन = अवलोकनेन भर्तुः = स्वामिनः अभिमतः = प्रियः जनः = व्यक्तिः स्मारितः = स्मृतिपथमानीतः मुहूर्तं = क्षणं यावत् प्रकृत्या = स्वभावतः गम्भीरः = धीरः सन्न् अपि पर्युत्सुके = उत्कण्ठिते नयने = लोचने यस्य स पर्युत्सुकनयनः उत्कण्ठाव्यञ्जित-नेत्रव्यापार आसीत् अभवत् । चेतसोत्कण्ठितेन क्षणं प्रणयपेशलं कञ्चित् जनं स्मरन्निव राजा खिन्नो बभूवेति भावः ।

सूचकः—आवुत्तेन = भगिनीपतिना नाम = निश्चयेन सेवितं = नृपस्य सेवा दर्शिता । मान्येन भवता यथार्थमेव राजसेवा कृतेत्यर्थः ।


सूचक—इसे कहते हैं कृपा, कि शूली से उतारकर हाथी के कन्धेपर बैठा दिया । अर्थात् फाँसी से तख्ते से उतार कर इसे हाथी के हौदे में बैठा दिया गया, कहाँ तो चोरी के अपराध में शूली से वध होने वाला था और कहाँ उलटे इसे रत्नजटित बहुमूल्य सुवर्ण का कड़ा इनाम मिल रहा है ।

जानुक—सरकार ! इसको महाराज ने जो इनाम दिया है, इससे मैं तो यही समझता हूँ कि बहुमूल्य रत्न से जड़ी हुई यह अंगूठी महाराज को अधिक प्यारी है ।

श्याल—उस अंगूठी में बहुमूल्य रत्न जड़े हुए हैं । इसलिए वह अंगूठी महाराज को अधिक प्यारी है, यह बात नहीं है, पर मैं तो ऐसा समझता हूँ कि उस अंगूठी को देखकर महाराज को किसी भूले हुए अपने प्यारे बन्धु का स्मरण हो आया है क्योंकि उस अंगूठी को देखते ही महाराज स्वभाव से ही गम्भीर प्रकृति वाले होने पर भी क्षणभर के लिए अत्यन्त उत्कण्ठित हो गये थे ।

सूचक—जीजा जी ने सच्ची सेवा की ।

१९ शाकु०

२९० || अभिज्ञानशाकुन्तलम्


जानुकः—णं भणाहि । इमश्श कार मच्छिआभत्तुणोत्ति । [ ननु भण । अस्य कृते मात्स्यिकभर्तुरिति । ] ( इति पुरुषमसूयया पश्यति )
पुरुषः—भट्टालक । इदो अद्धं तुम्हाणं सुमणोमुलं होदु । [ भट्टारक इतोऽर्धं युष्माकं सुमनो मूल्यं भवतु । ]
जानुकः—एत्तके जुज्जइ । [ एतावद् युज्यते । ]
श्यालः—धीवर महत्तरो तुमं पिअवस्सओ दाणिं मे संवुत्तो । कादंबरी सक्खिअं अम्हाणं पढमसोहिदमं इच्छीअदि । ता सांडिआपणं एव्व गच्छामो ।


जानुकःननु = अथवा भण = वद मत्स्यिकमर्तुः मत्स्येन जीवन्तीति मात्स्यिकाः धीवराः तेषां भर्तुः=स्वामिनः अस्य = एतस्य धीवरस्य कृते = लाभाय सेवा दर्शिता अनेनाङ्गुलीयकनिवेदनेन धीवरस्यैव लाभो जातः नास्माकमिति वृथैव महाराजः सेवितः इति एवमुक्त्वा पुरुषं = धीवरम् असूयया = ईर्ष्याया पश्यति = अवलोकयति । उत्कोचसूचकस्य तस्य सासूयं निरीक्षणमर्थकामुकत्वात् ।

पुरुषः—इत्थं राजपुरुषाणां नावमवगम्य धीवरोऽर्द्धभागं तस्मात् पारितोषिकात् दातुं प्रवर्तते—धीवरो वदति—हे भट्टारक ! हे स्वामिन् इतः = अस्मात् पारितोषिकात् कटकात् अद्धं = द्वितीयो भागः युष्माकं = भवतः सुमनोमूल्यम् = पुष्पमूल्यम् पूर्वोक्तवध्यचिह्नभूतमालापमूल्यं भवतु = अस्तु ।

जानुकःएतावत्=एतन्मात्रं धनम् युज्यते = उचितमस्ति । इत्युत्कोचप्रियस्य जानुकस्याभिप्रायः ।

श्यालःधीवर ! हे कैवर्त ! त्वमिदानीं = अधुना मे = मम अतिशयेन महान् महत्तरः=इतरापेक्षयातिशयः प्रियः=हृद्यः प्रियवयस्यकः सखा च संवृत्तः=जातः । कादम्बरी=


जानुक—यों कहो कि इन मल्लाहों के मालिक = मछुओं के मुखिया धीवर के लाभ के लिए जीजा जी ने राज सेवा की। ( यह कहकर उसे, डाह से देखता है। )

विशेष—जीजा जी को राजा के पास जाने से ही इसे पुरस्कार मिला। इसलिए यह कहना होगा इस मछुये के लिए ही इन्होंने राजा की सेवा की है।

तात्पर्य यह है कि लाभ तो मछली मारने वाले इस धीवर को हुआ, जो इसे इनाम के रूप में राजा का रत्नाभरण मिला, और कष्ट हम लोगों ने उठाया।

पुरुष—मालिक ! इसमें से आधा हिस्सा आप लोगों का भी फूल-माला, ( पान-पत्ती, चाय-पानी, शराब आदि ) के खर्च के लिए रहेगा।

विशेष—पुरस्कार का आधा देने का प्रस्ताव करते हुए मछुओं का मुखिया धीवर कह रहा है कि यह आप लोगों के लिए पुष्प का मूल्य है। आज कल भी अफसरों को घूस देने वाले यही कहते हैं कि यह तुच्छ भेंट आपको पान-खाने के लिए प्रस्तुत है। अतः कृपया इसे स्वीकार करें। आपने मुझे छोड़ देने की कृपा की इसके अभिनन्दन में से फूल माला से स्वागत करता पर तत्काल वे चीजें उपलब्ध नहीं हैं। अतः उनके बदले इसमें आधा हिस्सा ही देता हूँ आप लोग अपने मन से चीजें ले लें। या सिपाही ने पहले ही से शूली के लिए फूल माला की चर्चा की थी उसका व्यंग पूर्ण उत्तर भी हो सकता है।

जानुक—यह बात तो तुमने बहुत ही उचित कही, इतना ही ठीक है।

श्याल—अरे धीवर ! अब तो तू हमारा बड़ा मित्र हो गया। हम लोगों की नई मित्रता तो

षष्ठोऽङ्कः
२९१

[ धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः। कादम्बरीसाक्षिकमस्माकं प्रथमशोऽ-
भिमतमिष्यते। तच्छौण्डिकापणमेव गच्छामः। ]
( इति निष्क्रान्ताः सर्वे )
प्रवेशकः।


कुत्सितमम्बरं यस्य स कादम्बरो बलरामः तस्येयं कादम्बरी मदिरा साक्षिणी साक्षिद-
र्शिका यस्मिन् तत् कादम्बरी साक्षिकं = सुरासाक्षिकम् अस्माकं = आवयोः प्रथमशः =
प्रथमवारम् अभिमतं = प्रियम् इष्यते = अपेक्ष्यते। पद्यमाना एकत्रपानेन जातं सौहृदं
भवति सुरासाक्षिकं तथापि चास्माभिः सह तथैव सुरासाक्षिका मद्यमैत्री भवतु इति भावः
तत् = अतः शौण्डिकस्य मद्यविक्रेतुः आपणमेव पण्यशालामेव गच्छामः = व्रजामः।
( इति = एवं निश्चित्य ततो निष्क्रान्ताः = रङ्गमञ्चाद् बहिर्गताः )
॥ इति प्रवेशकः ॥

प्रवेशयतीति प्रवेशकः = नीचपात्रप्रयुक्तो भाविभूतार्थसूचकः अङ्कसन्धिविशेषः।
प्रवेशकलक्षणं यथा—

यन्नीचैः केवलं पात्रैः भाविभूतार्थसूचनम्। अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥

एवं विष्कम्भक समान एव प्रवेशकोऽपि भूताया भाविन्याश्च घटनायाः सूचको
भवति। पात्रं चास्य निम्नश्रेणिकं भवति। अस्य भाषा प्राकृतं प्रयुज्यते। विश्वनाथेन
साहित्यदर्पणेऽस्य लक्षणमेवं कृतमस्ति—

प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ ६।५७

केचन प्राचीना आचार्या इमं पुनः प्रवेशकमङ्कावतारनामकं षष्ठाङ्कभागमेव मत्वा
षष्ठाङ्के एवान्तर्भावयन्ति। तदनुसारिभिरस्माभिरपि तथैवोद्धृत्य प्रस्तूयते।

कतिपये विद्वांसश्च षष्ठाङ्कावतारार्थम् अङ्कावतारनामानं पञ्चमाङ्गावयवभूतमर्थोपक्षेप-
कमिमं प्रवेशकं स्वीकुर्वन्ति तन्मतेऽङ्कावतार द्वारा प्रारब्धस्याङ्कस्यान्ते तदङ्कपात्रद्वाराऽ-
ग्रिमाङ्कस्य सूचना प्रदीयते। तथाहि साहित्यदर्पणस्य षष्ठे परिच्छेदे विश्वनाथः—

अङ्कान्ते सूचितः पात्रैः तदङ्कस्याविभागतः।
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः॥ ६।५८

वस्तुतः प्रवेशके विष्कम्भके च भाषा भेद एव दृश्यते प्रवेशकस्य भाषा भवति प्राकृतं
विष्कम्भकस्य च संस्कृतप्राकृतचोभयम्। प्रवेशकस्य कार्यमस्ति सामाजिकानां हृदयेषु
अप्रत्यक्षाणामर्थानां प्रवेश एव–अप्रत्यक्षान् अर्थान् सामाजिकहृदयेषु प्रवेशयतीति प्रवे-
शकः। अत्र राज्ञा दुष्यन्तस्य अङ्गुलीयकदर्शनम्, तेन तत्कालमेव दुर्वाससः शापं निवृत्त्या
कण्वाश्रमे गान्धर्वविवाहं विना परिणीतायाः शकुन्तलाया स्मरणं प्रतिपादितम्। तस्या-
नन्तरावस्था अङ्कमुखपात्रैः प्रदर्शयिष्यते।


मदिरा के साक्षी में ही हुआ करती है। अतः आओ, मद्य पीने के लिए मद्य बनाने वाले कलवार
की दूकान पर ही चलें। ( इसके बाद सब बाहर जाते हैं )

प्रवेशक—यह प्रवेशक ( भूत और भावी बात को नीच पात्रों द्वारा सूचना ) समाप्त हुआ।
सुधाकर में नीच पात्रों के द्वारा दो अङ्कों के मध्य भूतभावी समाचार देना प्रवेशक कहा गया है।

२१२ || अभिज्ञानशाकुन्तलम्

( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः )

सानुमती—णिव्वट्टिदं मए पज्जाअणिव्वत्तणिज्जं अच्छरातिथ्थसण्णिज्झं जाव साहुजणस्स अभिसेअकालो त्ति । संपदं इमस्स राएसिणो उदंतं पच्चक्खीकरिस्सं । मेणआसम्बन्धेण सरोरभूदा मे सउंदला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वम्हि । ( समन्तादवलोक्य ) किं णु खु उदुच्छवे वि णिरुच्छवारंभं विअ राउउलं दीसई । अत्थि मे विहवो पणिधाणेण सव्वं परिण्णादुं । किं दु सहीए आदरो मए माण-इदव्वो । होदु इमाणं एव्व उज्जाणपालिआणं तिरक्खरिणीपडिच्छण्णा पस्स-वत्तिणी भविअ उवलहिस्सं । [ निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति । सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनका-संबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूत्सवेऽपि निरुत्सवसम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं


अथ शकुन्तलायाः वृत्तान्तस्य विच्छेदाभावाय अप्सरः पदेन पूर्वं सूचितायाः सानु-मत्याः प्रवेशमाह कविकुलकलाधरः कालिदासः—तत इति ।

( ततः = तदनन्तरम् सानुमतीनामाप्सराः = एतन्नामिका स्वगंस्त्रीः आकाश-यानेन व्योममार्गेण प्रविशति रङ्गमञ्चे दृश्यते )

सानुमती—अथ मारीचाश्रमे मात्रा मेनकया सह निवसन्त्याः शकुन्तलायाः प्रेयो-वृत्तान्तसाक्षात्कारणाय अप्सरस्तीर्थगमनकाले सन्दिष्टा सखी सानुमतो स्वकार्यं सम्पाद्य सुहृत्कार्यं कर्तुमभिलषन्ती स्वमनसि विचारयति यावत्—यावत्कालम् साधुजनस्य = सज्जनस्य अभिषेककालः = स्नानसमयः तावत्कालपर्यन्तम् पर्यायेण = क्रमेण अप्सरोभिः वारक्रमेण निवर्तनीयं = अनुष्ठेयम् = पर्यायनिर्वर्तनीयं कर्म मया = सानुमत्यां निर्वर्तितं = सम्पादितम् । धार्मिकाणां सज्जनानां स्नानसमये एकैकस्मिन् दिने प्रभातकाले एकैकयाऽ-प्सरसाऽप्सरस्तीर्थे सन्निधातव्यमिति नियमः । तत्राद्य मम पर्याय आसीत् स मयाऽनुष्ठितः । इदानीं ततो लब्धावकाशः ।

साम्प्रतं = इदानीम् अस्य राजर्षेः = दुष्यन्तस्य उदन्तं = वृतान्तं प्रत्यक्षीकरिष्यामि = अनुभविष्यामि । मेनका सम्बन्धेन = मेनकापत्यतया मे = मम शकुन्तला शरीरभूता = शरीरवत् प्रेमास्पदभुता नितरां प्रिया तया = मेनकया च दुहितृनिमित्तं दुहिता = पुत्री शकुन्तलानिमिन्तं = प्रयोजनं यस्मिन्कर्मणि ततः स्वतनयार्थं, शकुन्तलार्थं पूर्वं सन्दिष्टा सन्दिष्टपूर्वा = दत्तसन्देशाऽस्मि । शकुन्तला मनोविनोदार्थं राज्ञो दुष्यन्तस्य वृत्तान्तः त्वया विलोक्य तस्मै कथनीयमिति मेनकया निजपुत्रीप्रेम्णा निवेदितास्मीतिभावः ।


( इसके बाद आकाशमार्ग से आई हुई सानुमती नामक अप्सरा का प्रवेश )

सानुमती—जब तक सज्जनों के स्नान करने का समय है तब तक के लिए बारी-बारी से की जानेवाली अप्सरातीर्थ की देखभाल मैंने कर ली, अब मैं उससे खाली हो गई । अब इस राजर्षि दुष्यन्त का समाचार अपनी आँखों से देखूँगी, क्योंकि मेनका के सम्बन्ध से मेनका की पुत्री शकुन्तला मुझे प्राणों से भी बढ़कर प्यारी है । मेनका ने भी बेटी के निमित्त मुझे पहले ही सहेज रखा है । इसलिए तो मेनका यहाँ से दुःखी शकुन्तला को उठाकर ले गई थी । ( चारों ओर देखकर ) इस समय वसन्तोत्सव के उपस्थित होने पर भी यह राजकुल उत्सव के आरम्भ से

षष्ठोऽङ्कः

परिज्ञातुम्। किं तु सख्या आदरो मया मानयितव्यः। भवतु अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये। ] ( इति नाट्येनावतीर्य स्थिता ) ( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी अपरा च पृष्ठतस्तस्याः )

प्रथमा—

आतम्महरिअपंडुर जीअसव्वस्स वसंतमासस्स । दिट्ठो सि चूदकोरअ उदुमंगल तुमं पसाएमि ॥ २ ॥

( समन्तात् = सर्वतः अवलोक्य = दृष्ट्वा ) किन्नु खलु = कथं हि ऋतूत्सवेऽपि = ऋतूत्सवोचितकालेऽपि सन्निहितवसन्तमहोत्सवेऽपि उत्सवान्निर्गतः निरुत्सवः निरुत्सव आरम्भो यस्य तत् निरुत्सवारम्भं = उत्सवारम्भशून्यम्, निर्व्यापारं राजकुलं = राजगृहम्, दृश्यते = अवलोक्यते । यद्यपि प्रणिधानेन = समाधिना देव्या योगशक्त्या सर्वं = सकलं ज्ञातुं = परिज्ञातुं मे = मम, विभवः = सामर्थ्यम् अस्ति = विद्यते । दिविवर्तमानयैव मया दिव्यदृष्ट्या सर्वमपि ज्ञातुं शक्यते । किन्तु = तथापि सख्याः = मेनकायाः शकुन्तलाया वा आदरः = आग्रहः = स्वचक्षुषैव सर्वं राजकुलवृत्तं विलोक्य प्रत्यहमत्रागत्य तत्रत्यो वृत्तान्तस्त्वया वर्णनीय इति तन्निबन्धो, मया मानयितव्यः = पालयितव्यः । अतो न दिव्यदृष्ट्या विभावयामि किन्तु लोचनाभ्यामेव सर्वं पश्यामीति भावः । भवतु = अस्तु अनयोः = एतयोः पुरः स्थितयोः उद्यानपालिकयोः = उपवनरक्षिकयोः तिरस्करिणी नाम = अदृश्यकारिणी कापि विद्या तया = अन्तर्धानविद्यया प्रतिच्छन्ना = अलक्षिता गूढविग्रहा सती पार्श्ववर्तिनी = समीपचारिणी भूत्वा उपलप्स्ये = ज्ञास्यामि । इति = एवं निश्चित्य नाट्येन = अभिनयेन अवतीर्य गगनतलादवतीर्य स्थिता = भूतलावतरणं नाटयित्वा उद्यानपालिकयोः निकटे निगूढं स्थितेत्यर्थः । भूतलावतरणं तु गङ्गावतरणेन । तल्लक्षणं यथा—

अङ्गेरूक्षेपविक्षेपावनुप्रोन्नतसन्नतौ ।
मजेतां विपताकौ चेदेवमेव शिरस्तथा ।
गङ्गावतरणम्...................................ः।

( ततः = तदनन्तरम् चूताङ्कुरम् = आम्राङ्कुरमवलोकयन्ती = नवोद्गतत्वात् सप्रेमं पश्यन्ती चेटी = परिचारिका, तस्याः पृष्ठतः अपरा = द्वितीया च चेटी प्रविशति )

अन्वयः— हे आताम्र हरितपाण्डुर ! वसन्तमासस्य जीवितसर्वस्व ! ऋतुमङ्गल ! चूतकोरक ! दृष्टोऽसि त्वां प्रसादयामि ।


विमुख है । मुझमें योगध्यान के द्वारा सब जान लेने की सामर्थ्य है, परन्तु मेरी प्रियसखी मेनका का 'सब हाल अपनी आँखों से देखकर तुम यहां आकर मुझसे कहना' यह आग्रह भी मुझे मानना आवश्यक है । अच्छा, इन दोनों उद्यान पालिकाओं के बीच में ही तिरस्करिणी विद्या के बल से छिपी रहकर मैं गुप्त रूप से इनकी बातें सुनूंगी । ( आकाश से उतरने का अभिनय करती हुई दोनों उद्यान पालिकाओं के बीच उपस्थित हो छिपकर खड़ी हो जाती है ) ।

( इसके बाद आम की बौर देखती हुई दासी और उसके पीछे दूसरी दासी दिखाई पड़ती है )

पहली दासी— कुछ-कुछ लाल रंग लिए हरे और पीले रंग से सुशोभित बसन्त मास के

१९४ अभिज्ञानशाकुन्तलम्

[ आताम्रहरितपाण्डुर जीवितसर्वस्व वसन्तमासस्य । दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ ]

**द्वितीया—**परहुदिए किं एआइणी मंतेसि ? । [ परभृतिके किमेकाकिनी मन्त्रयसे ? । ]

**प्रथमा—**महुअरिए चूदकलिअं देखिअ उम्मत्तिआ परिहुदिआ होदि । [ मधुकरिके ! चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति । ]

नवोद्गतताम्रकोरकमवलोक्य प्रथमा चेटी = तयोरेका दृष्टमना चेटी तमवलोकयन्ती वदति—आताम्रेति । ईषत्ताम्रः आताम्रः आताम्रश्च हरितश्च पाण्डुरश्चेति आताम्रहरितपाण्डुरः तत्सम्बुद्धौ हे आताम्रहरितपाण्डुर ! ताम्र श्यामल-शुभ्रेति-वर्णत्रयमिश्रित ! वसन्तमासस्य = मधुमासस्य चैत्रस्य जीवितसर्वस्व = जीवनसारतमः ! ऋतुमङ्गल ! = ऋतोः वसन्तस्य मङ्गल ! प्रशंसा ! वसन्तश्रेयस्कर । चूतकोरक ! = आम्रमुकुल ! दृष्टोऽसि त्वमद्य दैवात् अवलोकितोऽस्ति त्वां भवन्तं प्रसादयामि = स्वागतं व्याहरामि त्वं तथा प्रसन्नो भव यथाऽस्मिन् वसन्तेऽहं सुखं वसेयमित्यर्थः ।

अत्र स्वभावोक्तिरलङ्कार आर्याच्छन्दश्च ॥ २ ॥

**द्वितीया—**हे परभृतिके ! एकाकिनी = स्वयमेव, केवला किमेतन् मन्त्रयसे = किमदमालपसि ? उन्मत्तेव एकाकिनी किमिति जल्पसीत्यर्थः ।

**प्रथमा—**अथ सा परभृतिकानाम्नी प्रथमाचेटी मधुकरिका नामधेयां द्वितीयां चेटीं श्लेषवक्रोक्त्या प्रतिवदति—**मधुकरिके ! चूतकलिकां=**आम्रकोरकं, रसालमञ्जरीं **दृष्ट्वा=**विलोक्य **उन्मत्ता=**वातुला **परभृतिकां=**कोकिला भवति । अहम् परभृतिका नाम चेटी च यथा कोकिला चूताङ्कुरं दृष्ट्वा हृष्यति तथाहमपि परभृतिका नाम चेटी नामसाम्यात्

सच्चे जीवन स्वरूप वसन्त ऋतु के मङ्गलमय आगमन की सूचना देने वाले हे आम्रकोरक = आम्रमञ्जरी ? आपका दर्शन कर आपका अभिनन्दन करती हूँ ॥ २ ॥

**विशेष—**आकाशं याति अनेनेति आकाशयानं तेन आकाशयानेन इसका अर्थ वायुयान भी हो सकता है, या आकाशमार्ग से भी हो सकता है । इन्द्रलोक की अप्सराओं में आकाशमार्ग से आने जाने की अद्भुत शक्ति होती है । अप्सरातीर्थ में दिव्य अप्सराओं की बारी-बारी से यह देखने की ड्यूटी होती थी कि स्नान के समय कहीं कोई दुर्घटना न हो जाय ।

तिरस्करिणी विद्या के द्वारा दैवी शक्ति प्राप्त व्यक्ति मन्त्र पढ़कर अदृश्य हो जाता है । दूसरे लोग उसे नहीं देख सकते हैं, किन्तु वह दूसरों को भली-भाँति देख सकता है । देवयोनि में तिरस्करिणी विद्या का प्रभाव रहता है । अतः सानुमती अप्सरा ने तिरस्करिणी विद्या के प्रभाव से छिपकर दोनों उद्यानपालिकाओं के अगल-बगल रहकर राजा दुष्यन्त का कृत्य देखने का प्रयास किया था ।

**दूसरी दासी—**अरी परभृतिके ! तू अकेली, अकेली क्या बड़बड़ा रही है ?

**पहली दासी—**मधुकरिके ! चूतकलिका = आम्रमञ्जरी को देखकर परभृतिका उन्मत्त-सी हो रही है ( परभृतिका कोयल को कहते हैं तथा पहली चेटी का भी यही नाम हैं ) अर्थात् मैं आम की कली को देखकर कोयल की तरह मस्त होकर स्वयं ही चहचहा रही हूँ ।

**विशेष—**दूसरी दासी का नाम मधुकरिका है जिसका अर्थ नन्हीं भ्रमरी है, परभृतिका का अर्थ कोयल होने से पहली चेटी अपने नाम का कौशल पूर्ण प्रयोग कर रही है ।

षष्ठोऽङ्कः । २९५

द्वितीया—( सहर्षं सत्वरयोपगम्य ) कहं उवट्ठिदो मधुमासो । [ कथमुपस्थितो मधुमासः । ]

प्रथमा—महुअरिए । तव दाणिं कालो एसो मदविब्भमगीदाणं । [ मधुकरिके ! तवेदानीं काल एष मदविभ्रमगीतानाम् । ]

द्वितीया—सहि अवलंबस्स मं जाव अग्गपादट्ठिआ भविअ चूदकलिअं गेण्हिअ कामदेवच्चणं करेमि । [ सखि, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकाम गृहीत्वा कामदेवार्चनं करोमि । ]

कोकिलेव आम्रमञ्जरीं दृष्ट्वा हृष्यति । अहं किल परभृतिका = कोकिला, त्वञ्च मधुकरिका = भृङ्गी ।

द्वितीया— चूतकलिकोद्गमं निशम्य मधुमासावतारसंभावनया प्रहृष्टा द्वितीया चेटी त्वरया प्रथमायाः चेट्याः समीपमुपगम्य सहर्षं ब्रवीति—कथं = किं मधुमासः = वसन्तः उपस्थितः = प्राप्तः, वसन्तकालः समुपस्थितः किमिति प्रश्नः ।

प्रथमा— मधुकरिके = भ्रमरि ! तव कृते, इदानीं = अधुना मदः = उन्मादः, विभ्रमः = विलासश्च गीतानि = गानानि चेति तानि तेषां मदविभ्रमगीतानां = उन्मद-सविलासविभ्रम-तारतम्यगीतानाम्, एषः = अयं कालः = उचितः समयः आगतः । वसन्तसमये कुसुमितासु वनराजीसु भ्रमरकामिन्यास्तव गायनं स्वाभाविकं भवति इदानीं स समयस्ते प्राप्तः । अर्थात्-भ्रमरी किल वसन्ते सहकारकोरकेषु मञ्जरीषु च भ्राम्यन्ती सविभ्रमं कलं गायति त्वमपि च गीतविनोदप्रिया भ्रमरीव गीतं प्रारप्स्वेति तात्पर्यम् ।

द्वितीया— सखि ! हे आलि ! मां = मधुकरिकाम्, अवलम्बस्व = करेण आलम्बनं मह्यं देहि यावत् = यावत्कालं पादयोः = चरणयोः अग्रमित्यग्रपादं तत्र स्थितेति अग्रपाद-स्थिता पादाङ्गुलिसमाश्रयणेन स्थिता सती चूतमञ्जरीं-चूतस्य = आम्रस्य, मञ्जरीं = कलिकां गृहीत्वा = आदाय कामदेवार्चनं = मदनपूजनम् करोमि = विदधामि । प्रांशु-लभ्यां चूतकलिकाम् गृहीत्वा यावत् कामार्चनं करोमि तावत् मामवलम्बस्व । प्रांशुलभ्य-त्वाद्दालायास्तल्लाभायाग्रपादावस्थितिरुचितेवेति भावः । अभिनवचूतमञ्जरीभिः समर्चनं मदनोत्सवे भवतीति लोकसमयः ।


दूसरी—( सहर्ष, जल्दी से पास में जाकर ) क्या कहा—मधुमास = वसन्त ऋतु का महीना चैत्रमास आ गया ?

विशेष— वस्तुतः चैत्र और वैशाख को वसन्तमास अथवा वसन्त ऋतु कहते हैं, परन्तु यहां वसन्तमास का अर्थ है चैत्रमास, क्योंकि वही वसन्तऋतु का प्रथम मास है—मधुश्च माधवश्चैव वासन्तिकावृतू (य० वे० १३।२५ ) ।

पहली— हे मधुकरिके ! = भ्रमरिके तेरे मदभरे गीतों का भी तो यही समय है । भ्रमरी भी वसन्त में मस्त होकर आमकी मञ्जरियों पर एवं फूलों पर गूंजती फिरती रहती है और तेरा भी नाम मधुकरिका = भ्रमरी है ही । अतः तू भी आनन्द विभोर हो मस्ती से गाना गा ।

दूसरी— हे सखी, मुझे जरा-सा सहारा दो तो मैं अपने पैरों के अग्रभाग पर पञ्जे के सहारे खड़ी होकर आम्र की कली को तोड़कर उससे भगवान् कामदेव की पूजा करूँ ।

२९६ अभिज्ञानशाकुन्तलम्

प्रथमा—जइ मम वि खु अद्धं अच्चणफलस्स । [ यदि ममापि खल्वर्धमर्चन-फलस्य । ]

द्वितीया—अकहिदे वि एदं संपज्जइ । जदो एक्कं एव्व णो जीविवं दुधा ठिदं सरीरं ( सखीमवलम्ब्य स्थिता चूतांकुरं गृह्णाति ) । अए अप्पडिबुद्धो वि चूदप्पसवो ऐत्थ बंधणभंगसुरभी होदि । [ अकथितेऽप्येतत्संपद्यते । यत एकमेव नो जीवितं द्विधा स्थितं शरीरम् । अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति । ]

( इति कपोतहस्तकं कृत्वा ) नमो भगवते मकरध्वजाय—


प्रथमा—यदि = चेत् खलु = निश्चितं ममापि अर्चनफलस्य = कामदेवपूजाफलस्य अर्द्धं = द्वितीयो भागः स्यात्तदावलम्बनं दास्यामि नान्यथा ।

अर्थ भावः—मधुकरिके ! त्वं यदि चूतप्रसवं कामाचनायावचिनोषि तर्हि तदर्चन-फलस्याद्धं फलं त्वं मह्यं देहि, तदा तव साहाय्यं विधास्यामीति भावः ।

द्वितीया—अकथितेऽपि = अनाख्यातेऽपि, त्वदनुक्तावपि एतत् = इदं कामपूजायाः फलार्द्धम् संपद्यते = प्रतिपद्यते । यतः = यस्मात् कारणात् एकमेव स्नेहेन एकीभूतं नौः = आवयोः जीवितं = जीवनम्, प्राणाः, शरीरं = देहः तु द्विधा = द्विप्रकारकं स्थितं = अस्ति, आवयोः स्नेहातिशयादेवाभेदो जायते इति भावः । ( सखीं = आलिम् अवलम्ब्य = आलम्बनं गृहीत्वा स्थिता = उत्थिता सती चूताङ्कुरं = आम्रमञ्जरीं गृह्णाति = उत्पाटयति ) कपोतहस्तकं कृत्वा अये !=भोः ! अप्रतिबुद्धः = अविकसितोऽपि चूत-प्रसवः = आम्रमञ्जरी अत्र = इह उपवने बन्धनभङ्गसुरभिः बन्धनात् = वृन्तात् भङ्गेन उत्पाटनेन सुरभिः = सुगन्धिः भवति = जायते प्रसवबन्धनभङ्गस्थानम् सौरभमुद्गमन्निव शोभते अविकसितस्यापि चूतप्रसवस्य ईदृक् सौरमं विकासे पुनः कीदृक् स्यादिति भावः ।,

इति कपोतहस्तकं—कपोतः = कपोताकारः हस्तः करः कपोतहस्त स एव कपोत-


पहली—अगर कामदेव की पूजा के फल में से आधा फल मेरा भी हिस्सा रहे, तभी मैं तेरी सहायता कर सकूँगी ।

दूसरी—हे सखी ! यह बात तो तेरे कहे बिना भी हो ही जायेगी, क्योंकि हम दोनों का जीवन तो एक ही है, किन्तु शरीर दो रूपों में स्थित है, विधाता ने भूल से ही इसके दो भाग बना दिये हैं ( सखी का सहारा लेकर आम्रमंजरी को तोड़कर ) यहां यह आम की कलि का अभी खिली नहीं है, तो भी इसके तोड़ने से इसके वृन्त भाग से सुगन्धि निकल रही है ।

विशेष—परभृतिका और मधुकरिका ये दोनों दो सखियों के नाम हैं कवि ने किसी खास अभिप्राय से इन दोनों नामों का प्रयोग किया है । इन दोनों के दो-दो अर्थ हैं । पहले तो ये दोनों दो सखियों के नाम हैं दूसरा परभृतिका अर्थ है कोयल तथा मधुरिका अर्थ है भ्रमरी । वसन्त = चैत्रमास में कोयल तथा भ्रमरियाँ मतवाली होकर फुदकती फिरती हैं। यहाँ दोनों नामों का प्रयोग श्लिष्ट अर्थ में किया गया है अर्थात् द्वयर्थक हैं । द्विधा स्थितं शरीरं का तात्पर्य यह है कि परभृतिका और मधुकरिका दोनों घनिष्ठ सखियाँ हैं। एक के बिना दूसरी न तो प्रसन्न रह सकती है, न जीवित ही रह सकती है । वस्तुतः उनके पारस्परिक व्यवहार को देखकर यह कहा जा सकता है कि केवल उनके शरीर मात्र दो हैं, प्राण तो एक ही है ।

( कपोतहस्तक अञ्जलि बनाकर कामदेव को आम्रमञ्जरी चढ़ाती हुई ) भगवान् कामदेव को हमारा नमस्कार है ।

षष्ठोऽङ्कः । २९७

तुमं सि मए चूदंकुर दिण्णो कामस्स गहीदधणुअस्स ।
पहिअजणजुवइलक्खो पंचब्भहिओ सरो होहि ॥ ३ ॥
[ त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ ]
( इति चूताङ्कुरं क्षिपति )

हस्तकः तं कपोतहस्तकम् कपोतहस्तकशब्दः पारिभाषिकशब्दः करतलयोः सर्वाङ्गश्लेषे वर्तते कपोतहस्तकं यथासङ्गीतरत्नाकरे—

कपोतोऽसौ करो यत्र श्लिष्टमूलाग्रपार्श्वकः ।
प्रणामे गुरुसंभाषे……………… ॥

नाट्यशास्त्रे च भरतमुनिः—

उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसङ्ग्रहात् ।
हस्तः कपोतको नाम……………… ॥

एष विनयाभ्युपगमे, प्रणामकरणे, गुरोश्च सम्भाषे प्रयुज्यते । कपोतहस्तकं कृत्वा = प्रणामाञ्जलिं बद्ध्वा नमो भगवते मकरध्वजाय इत्युक्त्वा च—त्वमसीति ।

अन्वयः—हे चूताङ्कुर गृहीतधनुषे कामाय त्वं मया दत्तः असि । पथिकजनयुवति-लक्ष्यः पञ्चाभ्यधिकः शरो भव ।

अभिनवे वसन्तावतारसमये परभृतिका नाम चेटी मदनमुद्दिश्य आम्रमञ्जरीं समर्पयन्ती कामदेवार्चनमन्त्रगाथां पठति —त्वमसि मयेति । हे चूताङ्कुर ! = हे सहकारप्रसव ! आम्रमञ्जरि ! गृहीतं = आत्तं धनुः = शरासनं येनासौ तस्मै गृहीतधनुषे = धनुर्धराय मानिनीमानभञ्जनसन्नाहशालिने कामाय = मदनाय त्वं मया = चेट्या दत्तः = समर्पितः असि । पथिकजनानां = विरहिणां या युवतयः = तरुण्यो भार्याः ता एव लक्ष्यं = शरव्यम् यस्य सः पथिकजनयुवतिलक्ष्यः=पान्थस्त्रीहृदयकर्तनः पञ्चभ्यः अरविन्दादिभ्यः पञ्चभ्यः


कपोतहस्तक = कबूतर की तरह बनाया गया हाथ । हाथ जोड़ने की यह कला है । दोनों हाथों की पांचों अंगुलियों के छोर एक दूसरे से मिले हों, हथेली का मध्य भाग दूर रखकर मूल मिला दिया जाता है, यह है हाथों का कपोताकार बनाना । संगीतरत्नाकर के अनुसार करकपोत तत्र होता है जब आगे और पीछे के करभाग जुड़े हों, यह प्रणाम और गुरु-संभाषण के समय करना चाहिए ।

हे आम्रमञ्जरी ! मैंने तुम्हें धनुर्धारी कामदेव को अर्पित कर दिया है । पथिक परदेश गये हुए व्यक्तियों की युवती स्त्रियों के हृदयों को तथा कुपित मानिनी नायिकाओं के हृदयों को बेधने वाले काम के पांचों बाणों में सब से श्रेष्ठ बाण बन जाओ ॥ ३ ॥

( इसके बाद आम्र की बौर फेंक देती है । )

विशेषगृहीतधनुषे इस विशेषण से प्रतीत होता है कि वसन्त ऋतु में कामदेव धनुष धारण किये रहता है । वनिता से वियोगी व्यक्ति को वसन्त ऋतु में अपनी प्रियतमा का स्मरण विशेषरूप से होत रहता है और काम के बाण उसे पीडित करते रहते हैं उनका लक्ष्य उस समय केवल बिरहणी स्त्रियाँ रहती हैं । आम का अंकुर देखकर कामिनियों का मान भंग हो जाता है । कवियों ने कामदेव को पञ्चसायक कहा है, क्योंकि उसके पांच ही बाण हैं वे सभी बाण पुष्प के हैं ।

२९८ अभिज्ञानशाकुन्तलम्

( प्रविश्यापटीक्षेपेण कुपितः )

कञ्चुकी—मा तावत् अनात्मज्ञे, देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं किमारभसे ? ।

शरेभ्यः अभ्यधिकः = अतिरिक्तो विशिष्टः इति पञ्चाभ्यधिक। = षष्ठः शरः = वाणो भव = एधि ।

अयं भावः— अरविन्दमशोकं च शिरीषं चूतमुत्पलम् ।
पञ्चैतानि प्रकीर्त्यन्ते पञ्चबाणस्य सायकाः ॥

इत्यनुसारमिमेडऽरविन्दादयः पञ्च कामस्य शराः सन्त्येव । हे सहकारप्रसव ! त्वं तु सदा सज्जधनुषे मनोभवाय मदनाय मया समर्पितः पथिकजनान् तद्भार्याश्च विदध्वा चूताङ्कुरो हि सर्वेषामुद्दीपकानामग्रणीति प्रसिद्ध्या पञ्चभ्यः शरेभ्यः सारवत्तया श्रेष्ठः षष्ठः शरो भवेति ।

कामस्य सर्वेषां शराणां मानिनीमानभङ्गकर्मणि कुण्ठिततया अमोघं वाणं त्वां प्रतीक्षमाणः स्मरस्तिष्ठति । तस्मात् कुरु मानिनीमानभङ्गाय स्मरस्य साहाय्यम् । आम्रमञ्जरीमालोक्य मानिन्यो मानं रक्षितुं न प्रभवन्तीति वसन्तसमयस्य कामोद्दीपकमतिशयम् इति भावः । अत्र स्वभावोक्तिरलङ्कार आर्या छन्दश्च ।

( इति = एवमुक्त्वा ततः चूतस्य = आम्रस्य अङ्कुरं = मञ्जरीं क्षिपति = पूजार्थम् अस्यति )

( तेन कुपितः = क्रुद्धः कञ्चुकी अपटीक्षेपेण = तिरस्करिणीतिरस्कारेण यवनिकामपसार्य प्रविश्य = रङ्गे आगत्य च ब्रवीति ‘नासूरचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च ।' इत्युक्तेः कञ्चुकिनः सूचनाभावादेव अपटीक्षेपेण = यवनिकामपसार्य प्रवेशः । )

कञ्चुकी-- ( प्रविश्य क्रुद्धः ) अनात्मज्ञे ! आत्मानं = स्वं न जानाति = नावगच्छतीति अनात्मज्ञा तत्सम्बुद्धौ हे स्वभावानभिज्ञे ! अविमृश्यकारिणि ! मा तावत् सांप्रतमेवं मा कुरुत = चूताङ्कुरं न गृहाण देवेन = महाराजेन वसन्तोत्सवे = मधुमास पर्वणि त्वम् आम्रकलिकाभङ्गम् आम्रस्य सहकारस्य कलिकायाः = मञ्जर्या भङ्गं = त्रोटनं किं = किमर्थम् आरभसे = कर्तुं प्रवर्तसे ।


इसलिए काम को पुष्पसायक भी कहते हैं । इन पुष्पों का नाम इस प्रकार ( १ ) अरविन्द = लाल कमल ( २ ) अशोक ( ३ ) आम्रमंजरी ( ४ ) नवमल्लिका = नेवारी ( ५ ) नीला कमल—

अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥

( पर्दा न हटाकर सहसा प्रवेश कर क्रोध से )

कञ्चुकी—अरी नासमझ ? यह क्या कर रही हो, महाराज द्वारा वसन्तोत्सव को रोक दिये जाने पर भी तुम आम की कली को क्यों तोड़ रही हो ।

विशेष—नाट्यशास्त्र का नियम है कि सूचना के बिना किसी पात्र का प्रवेश नहीं होता । जब सूचना के बाद पर्दा उठता है तब स्टेज पर पूर्वसूचित पात्र प्रवेश करता है । किन्तु कभी-कभी कोई पात्र पूर्वसूचना के बिना ही अपने ही हाथ से बगल में पर्दा हटाकर स्टेज पर आ जाता है । इसी को नाटकों में अपटोक्षेप कहते हैं ।

षष्ठोऽङ्कः

उभे—( भीते ) पसीददु अज्जो। अग्गहीदत्थाअ वअं [ प्रसीदत्वार्यः। अगृहीतार्थे आवाम्। ]

कञ्चुकी—न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पतत्रिभिश्च। तथा हि—

चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया। कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणीर्धकृष्टं शरम् ॥ ४ ॥

उभे—( भीते = भयतरले भूत्वा ) न गृहीतो न ज्ञातः अर्थः राजशासनं याभ्यां ते अगृहीतार्थे = अज्ञातराजशासने आवां = द्वौ चेट्यो स्वः। अवाभ्यामज्ञानादेवाम्रमञ्जरी त्रोटनं कृतम्, अर्थात् देवेन कृतो वसन्तोत्सवप्रतिषेधोऽस्वाभ्यां न ज्ञातः, तदज्ञानात् कृतमपराधं भवान् मर्षयतु—इति भावः।

कञ्चुकी—राजकृतवसन्तोत्सवप्रतिषेधाज्ञानस्य संभाव्यत्वमाकलयन् कञ्चुकी प्राह—युवाभ्यां देवस्य शासनं न श्रुतमित्येतदसंभाव्यमेव। वासन्तिकैः–वसन्तकाले पुष्यद्भिः तरुभिः=अचेतनैः वृक्षैः तदाश्रयिभिः=वृक्षाश्रयिभिः पतत्रिभिः=पक्षिभिः कोकिलादिभिरपि देवस्य = महाराजस्य शासनं = आज्ञामृत्सवप्रतिषेधरूपां प्रमाणीकृतम् = स्वीकृतं, पालितम्। तथाहि = तरुभिः यथा राज्ञः शासनं स्वीकृतं तथा उदाह्रियते—चूतानामपि।

अन्वयः—चूतानां कलिका चिरनिर्गताऽपि स्वं रजः न बध्नाति, कुरबकं यदपि सन्नद्धं तत् कोरकावस्थया स्थितम्, पुंस्कोकिलानां रुतं शिशिरे गतेऽपि कण्ठेषु स्खलितम्, स्मरोऽपि चकितः सन् तूणाद्धंकृष्टं शर संहरति ( इति ) शङ्के ॥ ४ ॥

राज्ञो दुष्पन्तस्योद्याने चेटीभ्यां मन्मथमुद्दिश्य चूताङ्कुरक्षेपं वीक्ष्य क्रुद्धः कञ्चुकी ब्रूते—चूतानामपि। चूतानां = आम्रवृक्षाणाम् कलिका = मञ्जरी चिरनिर्गताऽपि = बहोः कालात् निष्क्रान्ता, प्रकटिता शिशिरान्तोद्भिन्ना अपि स्वं = आत्मीयम् रजः = परागं न बध्नाति = न धत्ते न विकसति, यथा काचन बाला प्रौढावस्थां गतापि रजोदर्शनं न धत्ते तद्वदाम्रमञ्जरीयं बहोः कालादपि स्वं रजः न प्रकटयतीत्यर्थः। कुरबकं = कुरबककुसुमं यदपि = यद्यपि सन्नद्धं = वृन्ताद्बहिर्गतम्, तत् = तदपि कोरकवल्लयः स्थितम् = कलिकावस्थयैव स्थितम्। पुंस्कोकिलानां = पिकानाम् यूनां


दोनों दासियाँ—( भयभीत होकर ) श्रीमान् क्षमा करें। हमदोनों को उक्त बातों का पता न था।

कञ्चुकी—क्या, यह बात तुम दोनों ने नहीं सुनी है कि महाराज की इस उत्सव निषेध की आज्ञा को वसन्त ऋतु में फलने-फूलने वाले वृक्षों ने तथा इन वृक्षों पर बैठनेवाले पक्षियों तक ने भी मान लिया है। देखो तो—

बहुत पहले से ही निकली हुई आम की कलियां अपने पराग को धारण नहीं कर रही हैं। कुरबक पुष्प भी अपने वृन्त से निकलकर अभी तक कली की अवस्था में ही है। पर फूल नहीं रहा है। शिशिर ऋतु के बीत जाने पर भी कोयलों की आवाज अभी गले में ही रुकी है। प्रतीत होता है कि कामदेव भी भयभीत होकर तरकस से आधे निकाले हुए बाण को रोक ले रहा है।

३०० | अभिज्ञानशाकुन्तलम्

उभे—णत्थि एत्थ संदेहो। महाप्पहाओ राएसी। [ नास्ति अत्र संदेहो महा-प्रभावो राजर्षिः। ]

प्रथमा—अज्ज कदि दिअहाईं अम्हाणं मित्तावसुणा रट्ठिएण भट्टिणीपाअमूलं पेसिदाणं। इत्थं अ णो पमदवणस्स पालणकम्मं समप्पिदं। ता आअंतुअदाए असुदपुव्वो अम्हेहि सो वुत्तंतो। [ आर्य ! कति दिवसान्यावयौर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः। इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितं। तदागन्तुकतया-ऽश्रुतपूर्वं आवाभ्यामेष वृत्तान्तः। ]


रुतं = शब्दितम् शिशिरे = शिशिरतौ गतेऽपि = हिमावसाने जातेऽपि, वसन्ताविर्भावे सत्यपि, कण्ठेषु स्खलितं = गलेषु अवरुद्धम् । रुद्धप्रसरं स तिष्ठति अत एव स्मरोपि = कामोऽपि सर्वविजयी मन्मथोऽपि चकितः = राजाज्ञया भीतः सन् तूणार्द्धं = तूणीरादद्धं-निष्कासितं निष्षङ्गादद्धंमाकृष्टम् शरं = बाणं संहरति = निवर्तयति पुनस्तूणीरे एव प्रवेशयतीत्यर्थः । इति = एवं शङ्के = मन्ये ।

अर्थात् शिशिरकालापगते समुपस्थिते च वसन्तसमये चिरकालोद्गता अपि आम्रमञ्जर्यं आवश्यकपि परागयोगं न दधते, कुरबकः कलिकावस्थयैव तिष्ठति, अनुरक्ता अपि कोकिलयुवानः कण्ठाद्वहिः स्वकाकलीं न प्रकटय॑न्ति, एवमेव जगद्विजयी मदनोऽपि तूणीरादद्धर्न्निष्कासितं स्वकीयं शरं पुनः तूणीरे एव स्थापयति ।

इत्थमचेतनैः सचेतनैरपि यदि महाराजस्यानुशासनं स्वीकृतं तर्हि कथं युवाभ्यामुपेक्ष्यते । एवम् अनेन श्लोकेन राजशासनस्य सार्वत्रिकी व्याप्तिरुक्ता । अत्रोत्प्रेक्षा, काव्यलिङ्ग, विशेषोक्तिश्चालङ्काराः शार्दूलविक्रीडितं छन्दश्च ।। ४ ।।

अथ उभे कञ्चुकीवचो निशम्य वदतः--अत्राचेतनैरपि राजाज्ञायाः परिपालने खलु = निश्चयेन सन्देहः संशयो न, महान् प्रभावो यस्यासौ महाप्रभावः = दिव्यशक्तिः राजर्षिः = महाराजो दुष्यन्तः अस्ति = विद्यते । क्वचन उभे स्थाने सानुमतीति पाठभेदः तदनुसारं सानुमत्या इयमुक्तिरस्ति । नात्र विस्मयस्यावकाशः, अस्य राजर्षे महाप्रभाव-त्वात्सर्वमुपपद्यते इत्यर्थः ।

प्रथमा—उभयोश्चेट्योरन्यतरा उत्सवप्रतिषेधस्याश्रवणे संगतिं योजयति—आर्य। कति = कतिपयानि दिवसानि = दिनानि कियन्त्येवाहानि आवयोः दास्योः मित्रावसुना राष्ट्रियेन = नृपश्यालकेन भट्टिनीपादमूले = राज्ञीचरणतले, महाराजजीवसुमती समीपे प्रेषितयोः = प्रहितयोः ( आवयोः ) इत्थं = एवं च नौ = आवाभ्याम् प्रमदवनस्य =


तात्पर्य यह है कि जब, महाराज की आज्ञा शिरोधार्य कर वृक्षों ने, पक्षियों ने तथा कामदेव ने भी वसन्तोत्सव मनाना रोक दिया है तब मनुष्यों की क्या बात है ? फिर तुम इस प्रकार वसन्तोत्सव मना रही हो यह तो बड़ा ही अनुचित है ॥ ४ ॥

दोनों दासियाँ—इसमें कुछ भी सन्देह नहीं कि ये राजर्षि दुष्यन्त बड़े ही प्रतापी एवं प्रभावशाली राजा है।

पहली दासी—महोदय, कई दिन हुए हम दोनों को महाराज के साले मित्रावसु ने महारानी के चरणों के पास भेजा था। इस प्रकार यहाँ हमें इस प्रमदवन की सुरक्षा का कार्य सौंपा गया है। इसलिए अजनबी होने के कारण हमलोगों को यह समाचार पहले नहीं सुनाई दिया था।


CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

षष्ठोऽङ्कः । ३०१

कञ्चुकी—भवतु। न पुनरेवं प्रवर्तितव्यम्।
उभे—अज्ज कोदूहलं णो। जदि इमिणा जणेण सोदव्वं कहेदु अअं किंणिमित्तं भट्ठिणा। वसंतुस्सवो पडिसिद्धो। [ आर्य कौतूहलं नौ। यद्यनेन जनेन श्रोतव्यं कथयत्वयं किंनिमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः। ]
सानुमती—उस्सवप्पिआ खु मणुस्सा। गुरुणा कारणेण होदव्वं। [ उत्सवप्रियाः खलु मनुष्याः। गुरुणा कारणेन भवितव्यम्। ]
कञ्चुकी—बहुलीभूतमेतत्किं न कथ्यते। किमत्रभवत्योः कर्णपथं नायातं शकुन्तलाप्रत्यादेशकौलीनम्।


अन्तःपुरोद्यानस्य पालनकर्म = तरूणां रक्षणकार्यम्, समर्पितं = दत्तम् । तत् = तस्मात् आगन्तुकतया = सद्य एव इह संप्राप्ततया अचिरागमनेन न श्रुतपूर्वमिति अश्रुतपूर्वः = इतः पूर्वमश्रुतः, आवाभ्यां = दासीभ्याम् एषः = महोत्सवनिषेधानुबन्धो वृत्तान्तः=कथाप्रसङ्गः।

कञ्चुकी—तदुक्तमभ्युपगच्छन् वदति-भवतु=यद् जातं तद् जातं, न पुनः= न भूयः एवं = इत्थम् आज्ञाविपरीतं प्रवर्तितव्यं = करणीयम् । चूतकलिकाभङ्गादिभिरुत्सवारम्भो न कर्तव्य इति भावः।

उभे—आर्य ! नौ = आवयोः कौतूहलमस्ति, यदि = चेत् अनेन जनेन = नीचेन चेटीजनेन मया श्रोतव्यं = श्रवणार्हम् । न गोपनीयं स्यात्तर्हि । कथयतु = वदतु-अयं = एषः उत्सवः किंनिमित्तम् = किं हेतुकम्, केन कारणेन भर्त्रा = स्वामिना = दुष्ष्यन्तेन वसन्तोत्सवः = मधुमासपवं प्रतिषिद्धः = निषिद्धः ।

सानुमती—मनुष्याः = मानवाः खलु = निश्चयेन उत्सवप्रियाः-प्रिया उत्सवा येषां ते उत्सवप्रियाः प्रियोत्सवाः आमोदप्रियाः भवन्ति तथाप्युत्सवः प्रतिषिद्धः तन्मन्ये गुरुणा महता कारणेन = हेतुना भवितव्यम् = भूयात् ।

कञ्चुकी—न बहुलमबहुलमबहुलं बहुलं भूतमिति बहुलीभूतम् = सर्वजनविदितं, नेदानीं गोपनीयमस्ति, एतत् = वृत्तम् किन्न कथ्यते = कथं न कथ्येत, कथने दोषं न पश्यामीति भावः। किमत्रभवत्योः = भवत्योः कर्णपथं = श्रुतिगोचरं न आयातं = नागतम् भवतीभ्यां न श्रुतम् किमित्यर्थः शकुन्तला प्रत्यादेशकौलीनम् = शकुन्तलायाः = कण्वदुहितुः प्रत्यादेशात् = निराकरणात् अस्वीकारात् कौलीनं निन्दा, शकुन्तलाप्रत्याख्यानादुत्थितो राज्ञो लोकापवादः। स्यात् कौलीनं लोकवादे इत्यमरः।


कञ्चुकी—ठीक है। पुनः ऐसा मत करना।
दोनों दासियाँ—महोदय, हमें एक उत्सुकता है, यदि मेरे सुनने लायक हो, गोपनीय न हो तो बताएँ कि किसलिए महाराज ने वसन्तोत्सव की मनाही कर दी है ?
सानुमती—मनुष्य लोग तो उत्सवप्रिय हुआ करते हैं। इस राजा ने वसन्तोत्सव रोक रखा है। अतः इसमें कोई बड़ा कारण अवश्य होना चाहिए।
कञ्चुकी—( मन ही मन ) यह शकुन्तला वाली बात तो बहुत लोगों को मालूम हो जाने से अब प्रसिद्ध हो चुकी है। अतः अब इससे इस बात को कहने में कोई हानि नहीं मालूम होती। ( प्रकट में ) तुम दोनों ने महाराज के द्वारा शकुन्तला के परित्याग का निन्दनीय प्रसंग तो सुना ही होगा ?

३०२ अभिज्ञानशाकुन्तलम्

उभे—सुदं रट्टिअमुहादो जाव अंगुलीअदंसणं। [ श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् । ]

कञ्चुकी—( आत्मगतम् ) तेन ह्यल्पं कथयितव्यम् । ( प्रकाशम् ) यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात्प्रत्यादिष्टेति तदाप्रभृत्य्येव पश्चात्तापमुपगतो देवः । तथा हि—

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्गमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ५॥


उभेअङ्गुलीयकदर्शनं यावत् = मुद्रिकाप्राप्तिपर्यन्तम्, सर्वं राष्ट्रियमुखात् = राजश्यालकमुखात् श्रुतम् = आकणितम् ।

कञ्चुकी—( आत्मगतं वदति ) तेन = अतः हि = निश्चयेन अल्पम् = अल्पमात्रं कथयितव्यम् = कथनीयं वक्तव्यं स्यात् पुनः प्रकाशं ब्रूतेयदैव = यस्मिन् क्षणे एव खलु = निश्चयेन स्वाङ्गुलीयकदर्शनात् = निजमुद्रिकावलोकनात् देवेन = महाराजेन अनुस्मृतम् = सत्यम् । वस्तुतः रहसि = एकान्ते ऊढपूर्वा-पूर्वमूढा इत्यूढपूर्वा = पूर्वं विवाहिता तत्रभवती = माननीया या मोहात् = अज्ञानात् मतिभ्रमात् । न मे त्वं पत्नीति मया प्रत्यादिष्टा = प्रत्याख्याता, अनङ्गीकृता इति तदाप्रभृत्य्येव = तत् आरम्यैव देवः = महाराजः पश्चात्ताप = अनुशयं परितापम् उपगतः = प्राप्तः ।

अन्वयः—रम्यं द्वेष्टि यथा पुरा प्रकृतिभिः प्रत्यहं न सेव्यते, उद्विघ्न एव शय्याप्रान्तविवर्तनैः क्षपा विगमयति, यदा दाक्षिण्येन अन्तःपुरेभ्यः उचितां वाचं ददाति तदा गोत्रेषु स्खलितः ( सन् ) चिरं व्रीडाविलक्षो भवति ॥ ५ ॥

अङ्गुलीयकदर्शनात् शकुन्तला गान्धर्वविवाहं स्मृत्वा अनुतप्यमानस्य नृपतेः दुष्यन्तस्य तात्कालिकीमवस्थां वर्णयति कञ्चुकी—रम्यमिति । स राजा रम्यं = स्रक् चन्दनचन्द्रचन्द्रिकागीतवाद्यादिकं लोके यद्यदाह्लादकरं भोग्यं वस्तु तत्तत् द्वेष्टि =


दोनों दासियाँ—हाँ, राजश्यालक मित्रावसु के मुख से ही अंगूठी के मिलने तक की बात तो हमलोग सुन चुकी हैं।

कञ्चुकी—( मन ही मन ) तब तो थोड़ा ही कहना होगा । ( प्रकट में ) जब से उस अंगूठी को देखकर महाराज को यह बात याद आई कि मैंने आश्रम में गुप्तरूप से संभावनीया शकुन्तला के साथ सचमुच ही गान्धर्व विवाह किया था और अज्ञानवश उसका परित्याग कर दिया तब से ही शकुन्तला के परित्याग के लिये महाराज बहुत ही पश्चात्ताप कर रहे हैं।

वे मनोहर वस्तुओं को देखना भी पसन्द नहीं करते । पहले की तरह अब प्रजाजनों को प्रतिदिन दर्शन नहीं देते । जागते हुए भी पलंग के किनारों पर करवटें बदल कर रातों को बिताते हैं । जब शिष्टता के कारण अन्तःपुर की स्त्रियों को उचित उत्तर देते हैं तब नामोच्चारण में गलती कर देने पर बहुत देर तक लज्जावश व्याकुल हो जाते हैं ॥ ५ ॥

विशेष—प्राचीन समय में कुछ समय तक राजा लोग सभा में बैठते थे, साहित्यिक परिचर्चाएँ, विद्वानों का शास्त्रार्थ आदि चलते रहते थे, प्रजावर्ग राजा का दर्शन करता था। अपनी

षष्ठोऽङ्कः ३०३

सानुमती—पिअं मे। [ प्रियं मे। ]

उद्वेजकत्वात् चक्षुषापि न पश्यति यथा पुरा = पूर्ववत् प्रकृत्यादिभिः = अमात्य-पुरोहितादिभिः प्रत्यहं = प्रतिदिनम् न सेव्यते = नान्वास्यते, चित्तस्य पारवश्यात् प्रकृति-भिर्मन्त्रणादिकं राजकार्यं राजा न यथावदनुतिष्ठतीति भावः।

किञ्च अनिद्रः = उत्क्रान्ता निद्रा यस्य स अनिद्रः = गतनिद्रः, जाग्रदेव शय्याप्रान्त-विवर्तनैः शय्यायाः तल्पस्य प्रान्तेषु विवर्तनैः = परिलुठनैः = शयनीयपर्यन्तभागपरि-वर्तनादिभिः क्षपाः = रात्रीः विगमयति = अतिवाहयति, न तु अन्तःपुरविदग्धकामिनी सुरतसेवनं कुरुते इत्यर्थः। एवं विवर्तनपरो मट्टिभिः यदा = यस्मिन् काले दाक्षिण्येन = उदारतया अत्यन्तानुरोधेन न तु रागाभिनिवेशेन अन्तःपुरेभ्यः = अन्तःपुरस्थललनाभ्यः उचितां = तत्कालोपयोश्याम्, अभ्यस्तां, प्रार्थनानुरूपां वा वाचं ददाति = प्रश्नानुरूपं प्रत्युत्तरं ददाति शकुन्तलासक्तमना अपि दाक्षिण्येन स्वाकारं निह्नुवानोऽन्तःपुर-कान्ताभ्यो वाचं उच्चारयतीत्यर्थः परं यदा गोत्रेषु = नामसु—'गोत्रं च नाम्नि च' इत्यमरः स्खलितः = विपर्यस्तः अन्यनामग्रहणावसरे अन्यनामग्रहणं कुर्वन् सन् यदा वसुमती नामोच्चारणावसरे शकुन्तलानामोच्चारयति तदा चिरं = चिरकालाय व्रीडाविलक्षः = व्रीडया = लज्जया विलक्षः = विस्मयान्वितो भवति—'विलक्षो विस्मयान्वितः' इत्यमरः। गूढस्य स्वाशयस्य शकुन्तलागतस्य प्रकाशनादपत्रपान्वितो भवतीत्याशयः। .चित्तव्याक्षेप-निमित्तको मुखभावभेदो वैलक्ष्यम्। तथा चोक्तम्—

आत्मनः स्खलिते सम्यग्ज्ञातेऽन्यैर्यस्य जायते।
अपत्रपाति महति स विलक्ष इति स्मृतः॥

अयं भावः—अङ्गुलीयकदर्शनात् शकुन्तला परिणयं स्मृतवतः प्राङ्मतिभ्रमात् कृतं तन्निराकरणं विचिन्त्य वाढमनुतप्यमानस्य परित्यक्तसर्वसुखोपभोगस्य राज्ञो दुष्यन्तस्य दुरवस्थां वर्णयितुं न शक्यते। इति भावः। अत्र पर्यायोक्ति-काव्यलिङ्ग-समुच्चया-लङ्काराः शार्दूलविक्रीडितं च वृत्तम्॥ ५॥

सानुमती—राज्ञो दुष्यन्तस्य तादृशीमवस्थामवधार्य सानुमती सहर्षं स्वगतं विमृशति—प्रियं मे = अत्यन्तं अभीष्टं मम सम्पन्नम्। एतावता दृढं शकुन्तलायामनु-रागवानित्याशयः।


फरियाद सुनाता था, पर राजा का मानसिक धरातल उलझा हुआ था उसे कुछ अच्छा नहीं लगता था। अतः सभा में बैठना, प्रजा को दर्शन देना अच्छा नहीं लगता था। उस समय शकुन्तला राजा के सिर पर नाच रही थी। दिलदिमाग सब कुल शकुन्तलामय हो गया था। रानियों के साथ बातचीत के प्रसंग में उनके नामों को ले लेकर उत्तर देते समय शकुन्तला का नाम ले लेनेपर रानियां अवाक् होकर उसके मुख को देखने लगती थी तब अपनी गलतियों का भान हो जानेपर वह लज्जित हो जाता था और अन्त में कुछ देर के लिए झेंप जाता था। इस प्रकार उस समय उसकी अवस्था प्रमादभरी-सी हो जाती थी।

सानुमती—मेरी प्रिय बातें हुई। अर्थात् शकुन्तला के प्रति उत्कट अनुराग के सूचक ये बातें मुझे बहुत ही प्रिय लग रही हैं।

३०४अभिज्ञानशाकुन्तलम्

**कञ्चुकी—**अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः।
**उभे—**जुज्जइ। [ युज्यते। ]
( नेपथ्ये ) एदु एदु भवं। [ एतु एतु भवान् ]
कञ्चुकी—( कर्णं दत्त्वा ) अये इत एवाभिवर्तते देवः। स्वकर्मानुष्ठीयताम्।
**उभे—**तह। ( इति निष्क्रान्ते ) [ तथा। ]
( ततः प्रविशति पश्चात्तापसदृशवेषो राजा, विदूषकः प्रतीहारी च )
कंचुकी—( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषा-
णाम्। एवमुत्सुकोऽपि प्रिय-दर्शनो देवः। तथा हि—


**कञ्चुकी—**स्ववचनक्रमे दासीद्वयमाह—अस्मात् = शकुन्तलाविरहकारणात्—प्रभवतः = प्रबलात् प्रवर्द्धमानात् वैमनस्यात् = मनस्तापात्, विषादात् उत्सवः = वसन्तोत्सवः प्रत्याख्यातः = राज्ञा निराकृतः, निषिद्धः।
उभे—युज्यते = ईदृशे मनस्तापे देवस्य वसन्तोत्सव प्रत्याख्यानं समुचितमित्यर्थः।
( नेपथ्ये = जवनिकामभ्यन्तरे ) एतु एतु भवान् = आगच्छतु आगच्छतु महाराजः।
**कञ्चुकी—**नेपथ्ये राजागमनं सम्भावयन् कर्णं दत्त्वा = श्रुत्वा सज्जीकृत्याह—अये = अहो, देवः = महाराजः इत एव = अस्यां दिशि, अमुमेव वनोद्देशम् अभिवर्तते = आगच्छति स्वकर्म = आत्मकार्यम् उद्यानरक्षाकर्म अनुष्ठीयताम् = क्रियताम् स्वस्वोचित-कार्यं सम्पाद्यताम्।
उभे—तथा = आम्, इति उक्त्वा ततो निष्क्रान्ते = निर्गच्छतः।
( ततः = तत्पश्चात् पश्चात्तापस्य = परितापस्य सदृशः = अनुकूलः वेषः = रूपं यस्य स पश्चात्तापसदृशवेशः = पश्चात्तापानुरूपवेषधारी राजा = नृपतिर्दुष्यन्तः, विदूषकः = माधव्यः, प्रतिहारी = द्वारपालिका च प्रविशति = रङ्गमञ्चे दृश्यते )
कञ्चुकी—राजानमुपस्थितमवलोक्य कञ्चुकी स्वगतं विमृशति—अहो, सर्वासु = सकलासु अवस्थासु सुखदुःखादिशालिषु अवस्थान्तरेष्वपि विशेषतो दुःखावस्थायम्


**कञ्चुकी—**इस प्रकार शकुन्तला के विरह से बढ़ते हुए उद्वेग और दुःख से ही महाराज ने वसन्तोत्सव मनाने की मनाही कर दी है।
**दोनों दासियाँ—**ठीक बात है। ऐसे दुःख तथा उद्वेग के समय में भला वसन्तोत्सव कैसे संभव हो सकता है।
( नेपथ्य में ) महाराज ! इधर से पधारिए, इधर से।
कञ्चुकी—( कान देकर ) महाराज इधर ही आ रहे हैं। तुमलोग अपना-अपना काम करो अर्थात् यहाँ से जल्दी हटो।
**दोनों दासियाँ—**ठीक है ( दोनों रंगमंच से निकल जाती हैं )
( तदनन्तर पश्चात्ताप के योग्य वेष धारण किये हुए राजा, विदूषक तथा प्रतिहारी प्रवेश करते हैं )
कञ्चुकी—( राजा को देखकर ) वाह, सुन्दर आकृति वालों की सभी अवस्थाओं में मनोहरता विद्यमान रहती है। इस तरह उत्कण्ठित होते हुए भी महाराज देखने में सुन्दर प्रतीत हो रहे हैं। जैसा कि—

षष्ठोऽङ्कः ३०५

प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ ६ ॥

आकृतिविशेषाणाम् = आकृतिविशेषशालिनाम् विशिष्ठाकृतीनाम् महात्मनाम्, सुन्दराणाम् रामणीयकं सुन्दरत्वम् भवति। एवं = इत्थम्, उत्सुकः = विरहोत्कण्ठितोऽपि उद्वेगाकुलः खिन्नोऽपि प्रियदर्शनं: प्रियं = आकर्षकम् दर्शनं = रूपं यस्यासौ प्रियदर्शनः = नयनलोभनीयाकृतिः, मनोहराकृतिः दर्शनीयो देवः = महाराजः। तथाहि-उदाह्रियते-प्रत्यादिष्टेति।

**अन्वयः--**प्रत्यादिष्टविशेषमण्डनविधिः वामप्रकोष्ठार्पितम् एकमेव काञ्चनं वलयं बिभ्रत् श्वासोपरक्ताधरः चिन्ताजागरणप्रतान्तनयनः (देवः) क्षीणोऽपि संस्कारोल्लिखितः महामणिरिव आत्मनः तेजो गुणात् न आलक्ष्यते ॥ ६ ॥

पूर्वोक्तमेवार्थमुपपादयति—प्रत्यादिष्टेरिति। प्रत्यादिष्टः = कृशतया निराकृतः **विशेषमण्डनानां-**हार-केयूर-कुण्डलादीनामलङ्काराणां विधिः = धारणविधिर्येन स प्रत्यादिष्टविशेषमण्डनविधिः = निरस्तविशेषप्रसाधनविधिः, त्यक्तालङ्कारविशेषो वा। राजरूपलक्षणं यथा—

अङ्गान्यभूषितान्येव प्रक्षेपार्थैर्विभूषणैः । येन भूषितवद्भात्ति तद्रूपमिति कथ्यते ॥

**वामप्रकोष्ठार्पितम्-**वामश्चासौ प्रकोष्ठः वामप्रकोष्ठः वामप्रकोष्ठे = सव्यकपूर्रमणिबन्धमध्ये अर्पितं = दत्तम् कार्श्यात् श्लथं एकमेव केवलं काञ्चनं = कनकमयं वलयं = हस्तकटकम् बिभ्रत् = धारयन् **श्वासोपरक्ताधरः—**श्वासेन उपरक्तः अधरो यस्य स श्वासोपरक्ताधरः = उष्णदीर्घश्वासपाटलिताधरोष्ठः चिन्तया = शकुन्तलागतया यज्जागरर्णं रात्रौ अनिद्रा तेन प्रतान्ते = म्लाने नयने = नेत्रे यस्य स चिन्ताजागरणप्रतान्तनयनः शकुन्तलाविषयकचिन्ताकृतजागरणरक्तलोचनः, देवः = महाराजो दुष्यन्तः क्षीणोऽपि = रात्रिजागरणादिना कृशोऽपि संस्कारोल्लिखितः, संस्कारार्थमुल्लिखितः = उद्घृष्टः = शाणकर्षणकृशः महामणिरिव = मणिराज इव आत्मनः स्वस्य तेजो गुणात् = तेजोबाहुल्यात् नालक्ष्यते = क्षीणो न परिज्ञायते। यथा शाणोल्लिखितो महामणिः पूर्वापेक्षया कृशोऽपि दीप्तिबाहुल्यात् कृश इति न प्रतीयते तथैव महाराजः क्षीणोऽपि स्वतेजो विशेषात् क्षोणो न प्रतीयते।

**अयं भावः—**प्रभावविद्योतितदिगन्तरालस्य महामणेरिव कृशाङ्गयष्टेः महाराजस्य वपुः कार्श्यं तेजोमण्डलाच्छादितं सहसा न केनापि लक्ष्यते। मण्डनविशेषरहितो निशा-


विशिष्ट अलंकारों से अपने को सजाने के विधि का परित्याग किए हुए बाईं कलाई में पहने जाने वाले एक ही सुवर्णनिर्मित कंकण को धारण किए हुए उच्छ्वासों से अधिक लाल पड़ गये ओठ चिन्ता के कारण रातभर जागते रहने से अत्यन्त लाल नेत्रोंवाले महाराज शाण पर खरादे गये बहुमूल्य रत्न की तरह कृश होने पर भी अपने तेज की महत्ता से दुर्बल नहीं दिखलाई पड़ रहे हैं ॥ ६ ॥


**पाठा०—**१. ॰र्वामप्रकोष्ठे श्लथं ।
२. ॰प्रताम्रनयनस्तेजोगुणैरात्मनः ।
२० शाकु०

३०६अभिज्ञानशाकुन्तलम्

सानुमती—( राजानं दृष्ट्वा ) ठाणे खु पच्चादेसविमाणिदा वि इमस्स किदे सउंदला किलम्मदि त्ति । [ स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति । ]

राजा—( ध्यानमन्दं परिक्रम्य )

प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥ ७ ॥


जागरणकृशोऽपि देवः पूर्वापेक्षयाऽस्माकं प्रियदर्शन एवं प्रतिभातीति तात्पर्यम् । अत्रो-पमा स्वभावोक्ति-परिकरालङ्काराः शार्दूलविक्रीडितं वृत्तं च ॥ ६ ॥

**सानुमती—**प्रच्छन्नविग्रहा दुष्यन्तं पश्यन्ती सानुमती तदाकृते लोकोत्तरत्व-मवेक्ष्य तं श्लाघते—प्रत्यादेशविमानितापि = प्रत्याख्यानेनापमानितापि शकुन्तला अस्य = राजर्षेः दुष्यन्तस्य कृते, -दुष्यन्तार्थं क्लाम्यति = विषादमनुभवति तप्यंत इति स्थाने खलु = अतिसुन्दरत्वात्, अस्यापि तद्विरहे विधुरत्वाच्च युक्ततरमेवेतदिति भावः। 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः ।

राजा—( ध्यानमन्दं = ध्यानेन मन्दं ध्यानमन्दम्, शकुन्तला चिन्तया मन्दं मन्दम्, शनैः शनैः परिक्रम्य = किञ्चिच्चलित्वा ) प्रतिबुद्धप्रियावृत्तान्तो राजा दुष्यन्तः तन्निरा-करणपश्चात्तापेन तप्यमानः निजहृदयमधिक्षिपति—प्रथममिति ।

अन्वयः—प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तमिदं हतहृदयं—सम्प्रति अनुशयदुःखाय विबुद्धम् ॥ ७ ॥

अङ्गुलीयकदर्शनेन व्यपगतशापप्रभावः प्रबुद्धशकुन्तलावृत्तान्तो राजा तदानीं स्वं हृदयमधिक्षिपति—प्रथममिति । सारङ्गस्य ईक्षणे इवेक्षणे यस्याः सा तया सारङ्गेक्ष्या


सानुमती—( राजा को देखकर ) तिरस्कार के द्वारा अपमानित की गई भी शकुन्तला जो इस राजा के लिए दुःखित रहती है, वह उचित ही है ।

**विशेष—**विशेष मण्डनों का तात्पर्य उन प्रसाधनों से है, जिन्हें मंगल के लिए धारण करना आवश्यक नहीं है । राजा के लिए बाँयी कलाई में कंगन पहनना अनिवार्य है । अतः उसे पहन कर अन्य आभूषणों का परित्याग कर दिया है । विशेष मण्डन के बिना भी जिसको शोभा नहीं घटती वह गुण रूप कहलाता है—

अङ्गान्यभूषितान्येव प्रक्षेपार्थैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥

विरही होने पर साँसें गर्म हो जाता हैं जिससे निचले होठ की ललाई कम हो जाती है, फिर भी उसमे शोभा कम नही होती । जागने से आँखे थक जाती हैं जिससे किनारे में वह लाल हो जाती हैं उससे भी शोभा बढ़ जाती है ।

हीरा आदि रत्न सान पर घिस जाने पर छोटे हो जाते हैं, पर उनकी सुन्दरता तथा मूल्यवत्ता बढ़ जाती है, क्षीणता छिप जाती है । अतः राजा के क्षीण होनेपर भी उनकी सुन्दरता बढ़ गई है । शरीर से निकले हुए तेज के कारण शारीरिक दुर्बलता प्रतीत नहीं होती ।

यहाँ चिन्ता, जागरण, क्षीण तथा प्रत्यादिष्ट आदि शब्दों से काम की दशाएँ सूचित होती हैं । माधुर्यगुण के कारण आकर्षण रहता है—'तन्माधुर्यं यत्र गात्रदृष्ट्यादेः स्पृहणीयता ।'

राजा—( ध्यान में मग्न शनैः शनैः चारों ओर घूमकर ) पहले मृगलोचनी प्रिया के द्वारा जगाया जाता हुआ भी सुप्त यह अभागा हृदय अब पश्चात्ताप के दुःख के लिए जागा है ॥ ७ ॥

**विशेष—**पहले बहुत कहने पर भी महर्षि दुर्वासा के शाप के वशीभूत राजा दुष्यन्त ने

षष्ठोऽङ्कः । ३०७

सानुमती— णं ईदिसाणि तवस्सिणीए भाअहेआणि । [ नन्वीदृशानि तपस्विन्या भागधेयानि । ]

विदूषकः—( अपवार्य ) लंघिदो एसो भूओ वि 'सउंदलावाहिणा । ण आणे कहं चिकिच्छिदव्वो भविस्सदि त्ति । [ लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति । ]

कञ्चुकी—( उपगम्य ) जयतु जयतु देवः । महाराज ! प्रत्यवेक्षिताः प्रमदवन-भूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।


मृगलोचनया अत्यन्तहृद्यया प्रियया = शकुन्तलया प्रतिबोध्यमानमपि = बहुशो ज्ञाप्य-मानमपि प्रथमं सुप्तमिव = मोहमुपगतमिव, जडमिव, इदं = मदीयं हतहृदयं = दग्धहृदयम् अस्पृष्टसुखगन्धं दुष्टहृदयम् सम्प्रति = अधुना प्रियायामसुलभदर्शनायामपि प्रियावियोगे जाते तु अनुशयादुःखाय = पश्चात्तापमनुभवितुं मह्यं क्लेशदातुमेव विबुद्धं = जागरित इव ।

अयं भावः— हे हृदयहतक ! यदा मुनिकुमारकाभ्यां तापस्या च सह मे प्राण-प्रिया शकुन्तला स्वयमुपस्थिताऽऽसीत् तदा मोहान्धेन त्वया तां मिथ्यावादिनीं निश्चित्य प्रत्यादेशपारुष्यं निराकरणं कृतम् प्रदर्शितम् । तदानीं त्वया सुप्तं संप्रति केवलं मह्यं दुःखमेव दातुं जागर्षीति भावः । अत्र विभावना-विशेषोक्ति-अनुप्रासोपमा अलङ्कारा, आर्या वृत्तञ्च ।। ७ ।।

सानुमती— राजोक्तिमाकर्ण्य सानुमती स्वगतं विचारयति—ननु = निश्चयेन ईदृशानि = अलौकिकानि तपस्विन्याः = वराकायाः, अनुकम्पार्हायाः, शकुन्तलायाः भागधेयानि = भाग्यानि 'तपस्वी चानुकम्पार्हः' इत्यमरः । तस्याः भाग्यविपर्ययादेवांस्य राज्ञः स्मृतिभ्रंशः तदानीं जात इत्याशयः ।

विदूषकः— शकुन्तलाविषयेऽनुतप्यमानं राजानं दृष्ट्वा माधव्यो ब्रवीति—एषः = अयं दुष्यन्तः पुनः = भूयः अपि शाकुन्तलव्याधिना = शाकुन्तला एव व्याधिः उद्वेजकत्वात् स्मृतिभ्रंशकत्वाच्च रोगः तेन लङ्घितः = आक्रान्तः ग्रस्तः कथं = केन प्रकारेण चिकित्सि-तव्यः = उपचारणीय, प्रतिकार्यः, साध्यरोगः नीरोगः भविष्यति इति न जाने शकुन्तलाया अलभ्यत्वात् ।

कञ्चुकी—उपसृत्य = समीपमागत्य जयतु जयतु देवः = सर्वोत्कर्षेण वर्ततां महाराजः हे महाराज ! प्रत्यवेक्षिताः = सम्यगवलोकिताः संशोधिताः प्रमदवनस्य भूमयः = अन्तः-


शकुन्तला की एक भी बात न मानी, उसे वापस कर दिया। किन्तु अंगूठी देखकर स्मरण होने पर मोह भंग हो जाने से अब दुष्यन्त का कलेजा शकुन्तला के निमित्त तड़प रहा है। याद आने से अपने किये हुए अपकर्म पर पछतावा होता है।

सानुमती— सचमुच बेचारी शकुन्तला का भाग्य ही ऐसा है।

विदूषक—( हाथ की आँड़ में मुँह करके ) यह पुनः शकुन्तला के ज्वर से आक्रान्त हो गये, न जाने अब इनकी दवा कैसे होगी।

कञ्चुकी—( पास में जाकर ) महाराज विजयी बनें, विजयी बनें, महाराज ! प्रमदवन की भूमियाँ सावधानी से देख ली गयी हैं। अब महाराज अपनी इच्छा के अनुसार आमोद-प्रमोद के स्थानों पर चल सकते हैं।

३०८ | अभिज्ञानशाकुन्तलम्

राजा—वेत्रवति ! मद्वचनादमात्यमार्यपिशुनं ब्रूहि । $^१$चिरप्रबोधनान्न संभावित- मस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य $^३$दीयतामिति । प्रतिहारी—जं देवो आणवेदि । [ यद्देव आज्ञापयति । ] ( इति निष्क्रान्ता । ) राजा—$^४$वातायन त्वमपि स्वं नियोगमशून्यं कुरु ।


पुरविहारारामभूमयः ते ते प्रदेशाः तदेव ‘प्रमदवनमन्तःपुरोचितम्’ इत्यमरः । देवः = महाराजः यथाकामं—यथेच्छम् विनोदस्थानानि = क्रीडास्थलीः अध्यास्ताम् = अधि- तिष्ठतु । ‘विज्ञेयं प्रमदवनं नृपस्तु यस्मिन् शुद्धान्तैः सह रमते पुरोपकण्ठम्’ इति हला- युधः । कारयेद वनशोधनमादौ ।

राजा—नृपः कथयति—वेत्रवति ! = द्वारपालिके ! मम वचनात् = मद्वाक्यात् अमात्यं = मन्त्रिणम् आर्यपिशुनं पिशुनाख्यं महामन्त्रिणं ब्रूहि = कथय चिरप्रबोधात् = चिरेण जागरणात् धर्मासनं = सिंहासनं विचारासनम्, अध्यासितुं = अधिष्ठातुं न सम्भावित- मस्माभिः = न सम्भाव्यतेऽलङ्कर्तुमस्माभिः यत् = यत्तु पौराणां नागरिकाणां कार्यं आर्येण भवता प्रत्यवेक्षितं = दृष्टम् तत् सर्वं कार्यं, पत्रमारोप्य = पत्रारूढं कृत्वा पत्रे लिखित्वा दीयताम् = प्रेष्यताम् ।

प्रतिहारी—यद्देवः = यथा महाराजः आज्ञापयति तथा क्रियते । इति = एवम् उक्त्वा ततः निष्क्रान्ता = रङ्गाद्विर्गता ।

राजा—नृपो वदति—वातायन ! त्वमपि स्वं = स्वकीयं नियोगं = कृत्यम्, कार्यम्, अशून्यं = पूर्णं कुरु = विधेहि ।


विशेष— प्राचीनकाल में भी आज के ही समान जब राजा किसी स्थान पर पधारने की अभिलाषा करते थे तो पहले सावधानी से उस स्थान की निगरानी कर ली जाती थी। इस पूर्व निरीक्षण के कारण किसी प्रकार शत्रुओं को अवसर न मिल पाता था।

प्रमदवन— यह उद्यान रनिवास के पास ही हुआ करता था। इसमें सर्वसाधारण को जाने की अनुमति न थी। केवल अन्तःपुर की सुन्दरियाँ इसमें विहार किया करती थीं। राजा भी जब कभी भी इसमें आकर आनन्द लेता रहता था। यह सर्वथा सुरक्षित स्थान था।

राजा— हे द्वारपालिके ! मेरी तरफ से अमात्य पिशुन से कहो—अर्थात् यह मेरा सन्देश कहना कि रात में देरतक जागते रहने के कारण आज धर्मासन पर बैठना मेरे लिए संभव नहीं है। आपने जो पुरवासियों का कार्य देख लिया हो, उसे पत्र पर चढ़ाकर मेरे पास भेज दें।

विशेष— राजा की अनुपस्थिति में मन्त्री राजकार्य देखते थे और उसकी रिपोर्ट सूचनार्थ राजा के पास भेज देते थे, पर देखने के पहले राजा की आज्ञा आवश्यक थी। रात में देर तक जागते रहने के कारण कोई भी दिमागी कार्य करना संभव नहीं होता। अतः राजा ने यह सन्देश भेजा था। मन्त्री प्रजाजनों के विवाद को सुनकर लिखता था और उस पर राजा की सहायता से निर्णय देता था। कभी-कभी राजा अकेले भी यह निर्णय-कार्य करता था।

प्रतिहारी—महाराज की जैसी आज्ञा ( ऐसा कहकर बाहर जाता है ) राजा—वातायन ! तुम भी जाकर अपना कार्य करो ।


पाठ०—१. 'दमात्यपिशुनं । २. अद्य चिरप्रबोधनान्न । ३. प्रस्थाप्यतामिति । ४. पार्वतायनू ।