अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
३५८ अभिज्ञानशाकुन्तलम्
राजा—( जनान्तिकम् ) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । $^१$तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥ ३२ ॥
विपर्यस्तकाष्ठः प्राप्तेन्धनः ज्वलति = निजस्वरूपं प्रकाशयति भृशं दीप्यते । पन्नगः = फणी विप्रकृतः = कोपितः तिरस्कृतो वा उद्वेजितो वा फणां कुरुते = फटाटोपं कुरुते फटा-मूर्ध्वं नयति ‘फटायां तु फणा द्वयोः’ इत्यमरः । हि = निश्चितम् जनः = सर्वोऽपि लोकः प्रायः = बाहुल्येन क्षोभात् = संक्षोभात् चित्तक्रौर्यात् अभिघातात् एव स्वं = निजं महि-मानं = प्रभावं प्रतिपद्यते = गृह्णाति प्राप्नोति वा । वयस्यमाधव्यस्य निग्रहात् मया क्षोभितो भवान् प्रकृतिमापन्नः । इदमस्य तात्पर्यम्—दुष्यन्तस्य क्रोधोत्पादनकरणमुपक्रमते इन्द्रसारथिः—राजन् ! केनापि हेतुना परं सन्तापमनुभवन्तं भवन्तमालोक्याहं विचारितवान् यत्क्रोधोत्पादनमन्तरा न भवान् पूर्ववत् प्रकृतिस्थमापादयितुं शक्य इति भवतः क्रोधोत्पादनार्थं भवन्मित्रं माधव्यमहमाक्रान्तवान् । तत्रैव **दृष्टान्तः—**यथा हुताशनः प्राप्तेन्धनः सन्नैव भृशं देदीप्यते, विलेशयोऽपि फणी केनापि अन्यादाहतः सन्नैव स्वां फणामूर्ध्वं कुरुते । एवमेव लोकोऽपि कथञ्चित्क्षोभमापादित एव स्वीयां प्रकृतिं प्रतिपद्यते । अत्रदृष्टान्ताप्रस्तुतप्रशंसाऽर्थान्तरन्यासा अलङ्काराः आर्या छन्दश्च ।
**राजा—**इन्द्रसारथेर्मातलेर्वचनं निशम्य राजा दुष्यन्तः जनान्तिकं माधव्यं वदति—वयस्य = माधव्य ! दिवस्पतेः = स्वर्गाधिपतेः महेन्द्रस्य आज्ञा = आदेशः अनतिक्रमणीया = अलङ्घनीया साम्प्रतमेव मया तत्सम्पादनाय तत्र गम्यते । तत् = तस्मात् कारणात् अत्र-विषये अमात्यपिशुनं = पिशुनाख्यममात्यं परिगतार्थं = विदितसंवृत्तं विधाय मद्वचनात् = मम वचनमालम्ब्य ब्रूहि = कथय सत्वरं जिगमिषुरहं स्वयं वक्तुमसमर्थोऽस्मि त्वं मदीयगमनकारणमभिधाय वक्ष्यमाणं वचो ब्रूहि—
**अन्वयः—**केवला त्वन्मतिः तावत् प्रजाः परिपालयतु, अधिज्यं इदं धनुः अन्यस्मिन् कर्मणि व्यापृतम् ।
देवराजस्यादेशेन दुर्जयं दानवगणं निहन्तुं तत्कालमेव प्रस्थास्यन् नृपतिः दुष्यन्तो विदूषकद्वारा मन्त्रिणमार्यपिशुनं संदिशति—त्वन्मतिरिति । केवला = एकाकिनी, असहाया, त्वन्मतिः = सर्वदर्शिनी त्वदीया बुद्धिरेव तावत् = अद्यावधि मत्प्रत्यागमनपर्यन्तम्, प्रजाः = प्रकृतीः सर्वजनान् परिपालयतु= सुष्ठु रक्षतु अधिज्यं = आरोपितमोर्वीकम्, इदं = मदद्धस्तवर्ति धनुः = चापम् अन्यस्मिन् कर्मणि दानवहनने दानवमारण-
राजा—( हाथ से आड़कर विदूषक के प्रति ) हे मित्र ! स्वर्ग के अधिपति देवराज इन्द्र की आज्ञा अनुलंघनीय है । अतः इस बात को पूरी तरह बतला कर मेरी ओर से मन्त्री पिशुन से कहना कि—
कुछ दिन तक तो तुम्हारी बुद्धि ही अब प्रजा की रक्षा करे, और हमारा चढ़ा हुआ यह धनुष अब दूसरे काम में = दानवों के मारने में लगने जा रहा है ॥ ३२ ॥
**विशेष—**राजा का धनुष और मन्त्री की बुद्धि दोनों मिलकर राज्य का सञ्चालन करते थे,
पाठा०—१. तद्गच्छ ।
षष्ठोऽङ्कः ३५९
विदूषकः— जं भवं आणवेदि [ यद्भवानाज्ञापयति । ] ( इति निष्क्रान्तः। )
**मातलिः—**आयुष्मान् रथमारोहतु । ( राजा रथाधिरोहणं नाटयति । )
( इति निष्क्रान्ताः सर्वे )
( इति षष्ठोऽङ्कः )
पर्यन्तं व्यापृतं = नियुक्तम् योजितम् । अहं दानववधाय गच्छामि, प्रजारक्षाभारः साम्प्रतं केवलं त्वयि एव निवेशितोऽस्माभिः । मम प्रत्यागमनपर्यन्तं त्वं स्वबुद्ध्यनुसारं प्रजाः परिपालनीया तव बुद्धेः सहायभूतमधिज्यं मे धनुः महेन्द्रस्याज्ञया दानवविजयाय संलग्न-मितिभावः अत्र काव्यलिङ्गमलङ्कारः अनुष्टुप्च्छन्दश्च ॥ ३२ ॥
**विदूषकः—**भवान् यदाज्ञापयति = तत् करिष्यामि ( इति = एवमुक्त्वा निष्क्रान्तः = रङ्गमञ्चाद् बहिर्गतः । )
**मातलिः—**आयुष्मान् = चिरञ्जीवी रथं = स्यन्दनम् आरोहतु = उपविशतु ( राजा = नृपः रथाधिरोहणं = स्यन्दनोपवेशनं नाटयति = ऊर्ध्वजानुचर्यया अभिनयति । )
तल्लक्षणं यथा संगीतरत्नाकरे—
कुञ्चितोत्क्षिप्तपादः स्याज्जानुस्तनसमं यदा ।
न्यस्तस्याधः कृतोन्योऽङ्घ्रिरूर्ध्वजानुस्तदामवेत् ॥
( इति = ततः सर्वे सकलाः = अभिनेतारः निष्क्रान्ता = रङ्गमञ्चाद् बहिर्गताः )
( इति = एवं षष्ठः = षट्संख्याकः अङ्कः = प्रकरणं समाप्तः )
इति कविवर कालिदासप्रणीतस्याभिज्ञानशाकुन्तलनामकस्य नाटकस्य
षष्ठेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता
विमलाख्या व्याख्या समाप्ता ।
अब राजा का धनुष दानवों के विध्वंस के लिए जा रहा है। अतः मन्त्री की अकेली बुद्धि राज्य को देखभाल करे। इसी बात को भारवि ने भी कहा है :—
सदानुकूलेषु हि कुर्वतेरतिं नृपेष्वमात्येषु च सर्वसम्पदः ।
यजुर्वेद में भी यही भाव व्यक्त किया गया है—‘इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम्’।
**विदूषक—**जो आप आज्ञा दे रहे हैं, वही करूँगा। ( बाहर निकल जाता है। )
**मातलि—**चिरञ्जीविन् ! आप रथ पर सवार हों।
( राजा रथ पर सवार होने का अभिनय करते हैं )
( इस प्रकार सभी बाहर चले जाते हैं )
॥ षष्ठ अङ्क समाप्त ॥
सप्तमोऽङ्कः (मारीच आश्रम व पुनर्मिलन)
सप्तमोऽङ्कः
( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )
राजा—मातले, अनुष्ठितनिदेशोऽपि मघवता सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये।
अस्मिन् सप्तमेऽङ्केऽङ्कसमाप्तिपर्यन्तं निर्वहणसन्धिः बोद्धव्यः। तल्लक्षणं यथा सुधाकरे—
मुख्यसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः।
महाप्रयोजनं यान्ति तन्निर्वहणमुच्यते॥
साहित्यदर्पणे तु—
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्।
एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत्॥
केचित्तु अत्राभिज्ञानात् परं निर्वहणसन्धिः, ततः पूर्वं तु सप्तमेऽङ्के विमर्शसन्धिरेव कथयन्ति। युद्धस्य नाटके साक्षाददर्शनीयतया कृतकार्यस्य स्वर्गात् प्रतिनिवर्तमानस्य राज्ञो दुष्यन्तस्य वाक्यैरेवासुरयुद्धसूचनमत्र बोध्यम्। अत्राङ्कस्य नाम अङ्कोपक्षेपकम्। तदुक्तं—'अङ्कान्तपात्रैरङ्कस्यमुत्तरायाङ्कसूचना'। प्रकृते हि द्वाभ्यां षष्ठाङ्कान्तपात्राभ्यां मातलिदुष्यन्ताभ्यां सप्तमाङ्के प्रवेशः कृतः। षष्ठाङ्कान्ते च 'आयुष्मन्! श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः' इत्यनेन सप्तमाङ्कार्थः सूचितः।
अथ राज्ञो दुष्यन्तस्य इन्द्रसारथिना मातलिना सह प्रवेशमाह—तत इत्यादिना।
( ततः = तत्पश्चात् प्रविशति = रङ्गमञ्चे दृश्यते आकाशयानेन = नभोमार्गेण गच्छन् रथाधिरूढः = इन्द्रस्यन्दनोपविष्टः राजा = दुष्यन्तः मातलिः = इन्द्रसारथिश्च। )
राजा—विजितदुर्जयदानववर्गः, महेन्द्रेण सबहुमानं विसृष्टः, इन्द्ररथेन भूलोकमवतरन् राजा दुष्यन्तः स्वर्गानुभूतं देवराजस्य सत्कारातिशयं विमृशन् मातलिं कथयति—मातले=हे देवेन्द्रसारथे! अनुष्ठितः = पालितः निदेशः = शासनमादेशो महासुखरूपः येन स अनुष्ठितनिदेशः = पालितेन्द्रशासनोऽपि अहम् त्रिभुवनमहनीयस्य मघवतः = इन्द्रस्य सत्क्रियाविशेषात् सत्क्रियायाः विशेषात् = सत्कारगौरवात् संमानाधिक्यात् सत्काररातिशयं सम्पादनं विलोक्येत्यर्थः आत्मानं = स्वम् अनुपयुक्तं = अकृतोपकारम् इव = यथा समर्थये = सम्भावयामि। मन्ये न मया महेन्द्रस्य किञ्चिदपिकार्यमनुष्ठितमिति असन्तुष्टमिवात्मानं तर्कयामि मत्कार्यादप्यधिको महेन्द्रकृतः मत्सत्कारः। इन्द्रं प्रति यन्मया कार्यं कृतं तदिन्द्रसत्कारस्य सहस्त्रांशेनापि तुलीतुं न क्षममिति भावः। तदित्थं-मया युद्धे दानवा निपातिताः, तुष्टेनेन्द्रेण च महती मे सत्कृतिः कृतेति राज्ञा सूचितम्।
( तदनन्तर रथ पर सवार राजा दुष्यन्त और मातलि आकाश-मार्ग से प्रवेश करते हैं )
**राजा—**मातले! इन्द्र के आदेश का परिपालन कर देने पर भी मैं उनके विशिष्ट सत्कार की तुलना में अपने को अनुपयुक्त-सा समझ रहा हूँ।
**विशेष—**राजा दुष्यन्त के कहने का तात्पर्य है कि मैंने कार्य तो राई जैसा छोटा किया, किन्तु उसके लिए इन्द्र ने मेरा सम्मान हिमालय जैसा बड़ा किया। अतः मैं अपने को उनके सम्मान के अनुकूल नहीं समझता। इस प्रकार राजा ने इन्द्र के प्रति विनय, गुणग्राहकता तथा कृतज्ञता दिखाई है।
सप्तमोऽङ्कः
३६१
मातलिः—( सस्मितम् ) आयुष्मन् उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥ १ ॥
मातलिः—( सस्मितं = सहासमाह )—आयुष्मन् = चिरञ्जीविन् उभयं = द्वयम्, भवदुपकृतम्, इन्द्रसत्कृतं च न विद्यते परितोषो यत्र तत् अपरतोषम् = असन्तोषम्, समर्थये = मन्ये । इन्द्रः त्वत्कर्म अधिकं मन्यते, त्वं तु इन्द्रकृतां सत्कृतिमधिकां मन्यसे इति भावः । भवतामिव न मया राज्ञोऽनुरूपा सक्रिया खलु अकारीति हेतोरिन्द्रस्यापि असन्तोषं विद्धीति यावत् तदेव । विशदयति—प्रथमोपकृतमिति ।
**अन्वयः—**भवान् मरुत्वतः प्रतिपत्त्या प्रथमोपकृतं लघु मन्यते, सोऽपि भवतः अवदान-विस्मितः सत्क्रियागुणान् न गणयति ॥ १ ॥
अथ शक्रस्य सत्कारातिशयादात्मानमनुपयुक्तमिव मन्यमानं नृपति दुष्यन्तं मातलिर्ब्रूते उभयोरुपकार्योपकारकभावं प्रदर्शयति—भवान् = त्वं मरुतः = देवा। सन्त्यस्येति मरुत्वान् तस्य मरुत्वतः = देवराजस्य इन्द्रस्य प्रतिपत्त्या = बहुमानेन, गौरवेण, सत्कारेण, प्रथमं = सत्कारात् पूर्वं उपकृतं = त्वया दानववधेन कृतः उपकारः प्रथमं च तत् उपकृतं प्रथमोपकृतं तत् प्रथमोपकृतम् लघु = स्वल्पं, तुच्छं **मन्यते=**सम्भावयति, जानाति, अहं तु बहुमन्ये इति भावः । **सोऽपि—**इन्द्रोऽपि भवतः = तव दुष्यन्तस्य अवदानेन = भवत्कृतेन दानववधात्मकशुद्धकर्मणा विस्मितः = साश्चर्यः इत्यवदानविस्मितः 'अवदानं कर्मवृत्तम्' इत्यमरः । 'अवदानं खण्डनेस्यादितिवृत्ते च कर्मणि' इति च मेदिनी । सती क्रिया सक्रिया तस्या सत्क्रियायाः गुणाः सत्क्रियागुणाः तान् सत्क्रियागुणान् = स्वकृत-समानस्यानदरातिशयान् न गणयति = कथनयोग्यां न मन्यते = तृणवत् जनातीत्यर्थः ।
**अयं भावः—**यथा इन्द्रकृतां सत्क्रियामवेक्ष्य भवान् स्वस्य श्रमं लघु मन्यते तथैव भवत्पराक्रमादिकमवेक्ष्य महेन्द्रोऽपीमां स्वकृतां सत्क्रियामल्पीयसीमेव चिन्तयतीत्यु-भयोरपि तुल्यैवाकृतार्थता । तस्माद् युवामन्योन्यस्य कृतज्ञौ स्थ इति भावः । आयुष्मन् महेन्द्रश्चोभावापि उपकारे सत्कारे च न परितुष्यत इत्यहो द्वयोर्युवयोरपि सौजन्यमिति मातलेर्विस्मयो-मातलिना किञ्चित् स्मितपूर्वकहर्षकारणम् । अत एव तेनाभिधातु-मारब्धम् ।
अत्र पद्ये विभावना-विशेषोक्ति सन्देहसङ्करालङ्काराः वृत्तं च वैतालीकम् ॥ १ ॥
मातलि—( मुस्कराकर ) आयुष्मन् ! मैं समझता हूँ कि दोनों का ही असन्तोष है, क्योंकि- आप इन्द्र का शत्रुसंहार रूप इतना बड़ा उपकार करके भी इन्द्र द्वारा किए गए सत्कार की अपेक्षा अपने किये हुए उपकार को छोटा समझ रहे हैं ओर इन्द्र भी अपने द्वारा किये गये आपके सत्कार को आप द्वारा किये गये असुरविनाशरूप उपकार के सामने कुछ भी नहीं समझ रहे हैं । अतः आप दोनों को अपने कार्यों में समान ही सन्तोष है ॥ १ ॥
**विशेष—**मातलि से कहने का तात्पर्य यह है कि जैसा आप इन्द्र के सम्मान को महान् और अपने द्वारा किये गये दानवगण के वधकार्य को लघु समझ रहे हैं, वैसे ही इन्द्र भी आपके कार्य को गुरुतर तथा अपने द्वारा किये गये सम्मान को हल्का समझ रहे हैं । इस प्रकार आप इन्द्र के द्वारा किए गये सत्कार के कारण अपने किये हुए दानवगणवध रूप उपकार को तुच्छ मानते हैं । तथा महेन्द्र आपके सराहनीय कार्य से उपकृत हो अपने सम्मान वैभव को तृणतुल्य समझते हैं ।
३६२ | अभिज्ञानशाकुन्तलम्
राजा— मातले, मा मैवम् स खलु मनोरथानामप्यभूमिर्विसर्जनावरसत्कारः। मम हि दिवौकसां समक्षमधरासनोपवेशितस्य—
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन।
^१आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ २ ॥
राजा— इन्द्रकृतमात्मसत्कारातिशयं वर्णयन् नृपो दुष्यन्तो वदति—मातले ! = हे इन्द्रसारथे। मा मैवं = इत्थं मा वद, मा वद, मम विसर्जनावसरे = राजधानीं प्रति-प्रेषणस्य समये महामहिमशालिना महेन्द्रेण यः सत्कारः = संभावना कृतः स खलु मनोरथा-नामपि = मनसोऽपि अभूमिः = अविषयः मनसाप्यचिन्तमीयः। सत्कारस्य मनोरथा-तिभूमित्वमाह—मम हीति। पश्य, दिवौकसां = देवानाम् समक्षं = पुरः अर्द्धं च तदा-सनमिति अर्द्धासनं तत्रोपवेशितस्य = स्थापितस्य इन्द्रसिंहासनस्यार्द्धभागे समासीनस्य मम = दुष्यन्तस्य, गले हरिणा मन्दारमाला पिनद्धेत्यग्रिमेण सम्बन्धः।
अन्वयः— अन्तिकस्थम् अन्तर्गतप्रार्थनं जयन्तम् उद्वीक्ष्य कृतस्मितेन हरिणा आमृष्ट-वक्षोहरिचन्दनाङ्का मन्दारमाला पिनद्धा ॥ २ ॥
महेन्द्रस्य सत्कारातिशयं विमृशन् राजा दुष्यन्तो मातलिमभिधत्ते—अन्तर्गतमिति। अन्तिकस्थं = समीपवर्तिनं, अन्तर्गतः = हृदयगता प्रार्थना = मन्दारमालाविषयकोऽभिलाषः यस्य स तम् अन्तर्गतप्रार्थनम्, जयन्तं = जयन्तनामकं पुत्रम् उद्वीक्ष्य = निपुणं निरीक्ष्य कृतस्मितेन = विहितमन्दहास्येन ईषद्वसता जयन्तम्रनोगतं मालाविरषयकमभिलाषं ज्ञात्वा-इदानीमयं त्वत्तोऽप्यस्याः विशेषाधिकारीति बोधयितुं स्मितं कृतवता हरिणा = इन्द्रेण आमृष्टवक्षो हरिन्दनाङ्का आमृष्टं वक्षसि = हृदये यद् हरिचन्दनस्य आलेपः सोऽङ्कः = चिह्नं यस्याः सा तादृशी = विलुप्तमहेन्द्रवक्षःस्थलचन्दनाङ्गिता मन्दार-माला = मन्दारारव्यसुरद्रुमपुष्पमालिका पिनद्धा = स्वयं परिधापिता समस्तमहीमण्डलसम्राजोऽस्य दुष्यन्त किमन्त्येद्यमिति विमृश्य हरिणा स्ववक्षस उन्मुच्य स्वकीया मालैव तद्गले समर्पितेत्यर्थः।
अयं भावः— दुर्जयान् दानवान् निहत्य स्वराजधानीं प्रति प्रस्थानवेलायां महा-महिमशालिना देवाधिपतिना महेन्द्रेण सविस्मय पश्यत्स्वपि देवसमूहेषु यं बलात् स्व-सिंहासनस्यार्द्धभागे समुपवेश्य समयस्थितेन प्रियपुत्रेण जयन्तेन प्रार्थ्यमानाऽपि मन्दार-
अतः आप दोनों ही समान असन्तुष्ट हैं। आप दोनों की कृतज्ञता एवं गुणग्राहकता व्यक्त होती है! इस पद्य के द्वारा राजा दुष्यन्त तथा इन्द्र के मानवोचित महान् गुण निरहङ्कार का दिग्दर्शन कराया गया है।
राजा— हे मातले! नहीं, ऐसा मत कहो, इन्द्र ने मुझे विदा करते समय जो मेरा सत्कार किया, वह कल्पना से भी परे की चीज है, क्योंकि उन्होंने देवताओं के समक्ष मुझे अपने सिंहासन के आधे भाग पर बैठाकर और—
मन ही मन उस माला को लेने की इच्छा रखने वाले पास में ही बैठे अपने प्रिय पुत्र जयन्त की भी उपेक्षा करके हंसते हुए अपने वक्षस्थल पर लगे हुए दिव्यचन्दन से चर्चित मन्दार पुष्पों की माला मेरे गले में पहना दी ॥ ३ ॥
विशेष— अर्धासन पर उपवेशित पद से यह ध्वनित होता है कि मैं मनुष्य हूँ, फिर भी
पाठा०—१. प्रमृज्य वक्षो°।
सप्तमोऽङ्कः । ३६३
**मातलिः—**किमिव नामायुष्मानमरेश्वरात्रार्हति । पश्य—
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥ ३ ॥
माला स्ववक्षःस्थलादुन्मुच्य मम वक्षसि सप्रेम पिनद्धा । इत्थं निजाद्धासनोपवेशनेन, प्रार्थ्यमानं प्रियमपि पुत्रमुपेक्ष्य स्ववक्षस उन्मुच्य मम कण्ठे मन्दारमाला समर्पणेन भगवता वाढमहं सत्कृतोऽस्मीतिभावः अत्रोदात्तानुप्रासपरिकरालङ्कारा उपजातिवृत्तञ्च ॥ २ ॥
**मातलिः—**किमिव नाम = कि तत् अमरेश्वरात् = देवेन्द्रात् आयुष्मान् = भवान् नार्हति = न प्राप्तुमर्हति ? सर्वं ततः प्राप्तुमर्हति भवानित्याशयः । पश्य = विलोकय । स्फुटयति—सुखपरस्येति ।
**अन्वयः—**अधुना नतपर्वभिः तव शरैः पुरा च पुरुषकेसरिणः नखैः उभयैः सुखपरस्य हरेः त्रिदिवम् उद्धृतदानवकण्टकं कृतम् ॥ ३ ॥
महेन्द्र द्वारा जातमातः सत्कारं बहुमन्यानं दुष्यन्तमिन्द्रसारथिर्मातलिरभिधत्ते—सुखपरस्येति । अधुना = साम्प्रतम् नतपर्वभिः नतानि = अनुन्नतानि पर्वाणि = ग्रन्थयो येषां ते तैः। नतपर्वभिः = नतग्रन्थिभिः तव = भवतः शरैः = बाणैः पुरा च पूर्वं च कृतयुगे पुरुषकेसरिणः नरसिंहस्य भगवतो नारायणस्य नखैः = नखरैः उभयैः = पूर्वोक्तैः द्विप्रकारकैः उपायैः सुखपरस्य–सुखं = आनन्दः परं = सर्वोत्कृष्टं वस्तु यस्य सः
मेरा देवता सा सत्कार हुआ । आसपास में आसन न देकर अपनी गद्दी का आधा भाग देकर मेरे प्रति विशेष सम्मान दिखाया गया । फिर भी मैं बैठ नहीं रहा था, किन्तु जबदस्ती बैठाकर मेरा अभूतपूर्व सम्मान हुआ । पास में ही बैठा हुआ इन्द्र का परम प्यारा पुत्र जयन्त चाह रहा था कि यह दिव्य मन्दार की माला मुझे पहना दी जाय, पर इन्द्र ने उसे न पहनाकर मुझे पहना दिया ।
स्वर्ग में जो चन्दन है, उसे हरिचन्दन कहते हैं, क्योंकि वह हरि = इन्द्र को अधिक प्रिय है गद्मपुराण के अनुसार हरिचन्दन एक विशेष प्रकार का लेप है, इसके बनाने की विधि इस प्रकार है—
धृष्टं च तुलसी काष्ठं कर्पूरागुरुयोगतः । अथवा केसरैर्योज्यं हरिचन्दनमुच्यते ॥ १२।७
स्वर्ग के पाँच वृक्षों में मन्दार एक है, इन पांच वृक्षों के नाम हैं—मन्दार, पारिजात, सन्तान, कल्पवृक्ष और हरिचन्दन, जैसे-'पञ्चैते देवतरवः मन्दार परिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।'
इस प्रकार इन्द्र के वक्षस्थल पर हरिचन्दन का लेप और मन्दारमाला, सर्वदा बनी रहती है । वे उनके सौभाग्य के सूचक हैं ।
**मातलि—**ऐसा कौन सा सत्कार है जिसे आप अमरेश्वर इन्द्र से पाने के अधिकारी नहीं हैं ! क्योंकि देखिए—
दिव्य सुखों के उपभोग में संलग्न इन्द्र के स्वर्ग को दानव रूप कण्टकों से विहीन इन दोनों ने ही तो किया है, एक तो इस समय आपके नतपर्व गाँठ पर झूले हुए इन बाणों ने और दूसरे पूर्वकाल में पुरुषोत्तम भगवान् नृसिंह के तीखे-तीखे नखों ने ॥ ३ ॥
**विशेष—**देवराज इन्द्र हमेशा सुखोपभोगी हैं । अतः वे अपना कार्य अपने लघुभ्राता उपेन्द्र विष्णु या राजा दुष्यन्त से सिद्ध कराते रहते हैं । यहाँ मातलि ने राजा दुष्यन्त को विष्णु के समान
३६४ || अभिज्ञानशाकुन्तलम्
राजा—अत्र खलु शतक्रतोरेव महिमा स्तुत्यः।
सिद्ध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम्।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ४ ॥
तादृशस्य हरेः = इन्द्रस्य त्रिदिवं = स्वर्गं उद्धृताः = उदगताः दानवाः = दनुजा एव कण्टकाः = शत्रवः यस्मात् तत् उद्धृतदानवकण्टकं = समूलोन्मूलित राक्षसरूपकण्टकम् कृतं = विहितम्। पुरा युगे भगवतो नृसिंहस्य नखैः, इदानीं तु त्वदीयशरैः स्वर्गस्य कण्टकरूपा इन्द्रशत्रवो दूरी कृताः। अत एवेन्द्रो निरन्तरं सुखमनुभवति। अत एवा-मरेन्द्रो भवत। साहाय्येनेव निष्कण्टकं राज्यमुपभुङ्क्ते। अथाप्यद्यत्वे प्रत्यग्रमुपकृतवते भवते न किमप्यदेयमस्ति मघोन इति भावः।
अत्र तुल्ययोगितोपमानुप्रासा अलङ्कारा। द्रुतविलम्बितं च वृत्तम्।
राजा—अत्र = अस्मिन् विषये मम बाणैः कण्टकोद्धारे खलु = निश्चयेन नूनं शतक्रतोः इन्द्रस्य एव महिमा = महत्ता प्रभावः स्तुत्यः = प्रशंसनीयः मम विजयोऽपीन्द्रस्यैव प्रसादा-दित्यत्र मम का स्तुतिरितिभावः।
अन्वयः—महत्स्वपि कर्मसु नियोज्याः सिद्ध्यन्ति (इति) यत् तम् ईश्वराणां संमवनागुणम् अवेहि। अरुणः तमसां विभेत्ता किं वाऽभविष्यत् चेत् सहस्रकिरणः तं धूरि न अकरिष्यत्।
आत्मना कृते दुर्जयदानवानामुद्धरणे न किञ्चिदात्मीयं गौरवमपितु तस्यैवेन्द्रस्यायं प्रभाव इति सविनयं कथयन् राजा दुष्यन्तो मातलिं ब्रवीति — सिद्ध्यन्तीति। महत्स्वपि
तथा उनके बाण को नाखून के समान बताया, जिसका अभिप्राय है कि जिस प्रकार गड़ा काँटा नाखून से निकाल दिया जाता है, उसी प्रकार राजा के बाणों और नृसिंह के नखों से दानव उखाड़ फेंक दिये गये। इस प्रकार दानव तथा कण्टक, बाण एवं नखों के साथ समता दिखाई गयी है। सत्युग की बात है कि दिति के पुत्र हिरण्यकशिपु ने इन्द्र को सिंहासनच्युत करके स्वयं स्वर्ग का राजा बन त्रिलोकी में त्राहि, त्राहि मचा दी थी। परिणाम स्वरूप भगवान् विष्णु ने नृसिंह का रूप धारण कर अपने नखों से उसके वक्षःस्थल को विदीर्ण कर उसका वध हो जानेपर स्वर्ग को निष्कण्टक कर दिया था। जिस प्रकार नृसिंह ने इन्द्रपर कृपा की थी, उसी प्रकार दुष्यन्त ने भी की है। दोनों समान रूप इन्द्र के उपकारी हैं।
राजा—मैंने जो दुर्जय दुर्दान्त उन असुरों का वध किया है, इसमें तो इन्द्र की ही महिमा है, क्योंकि देखिए—
बड़े-बड़े कार्यों में जो सेवक सफल हो जाते हैं, ऐसे मालिकों के प्रभाव का ही फल समझना चाहिए, क्या सूर्य के सारथी अरुण अन्धकार को दूर करने में कभी समर्थ हो सकते थे, यदि सूर्य उन्हें अपने रथ पर न आगे बैठाते ॥ ४ ॥
विशेष—तात्पर्य यह है कि सूर्य की कृपा के बिना अरुण कभी अन्धकार दूर करने में सफलता नहीं प्राप्त कर सकते हैं। इसलिए मैंने जो असुर का वध किया है, वह इन्द्र की कृपा और प्रभाव का ही फल है। सूर्य के सारथी का नाम अरुण है, वे विनता के पुत्र और गरुड़जी के भ्राता हैं, वे पंगु=पैर रहित हैं। उनमें स्वतः अन्धकार दूर करने की क्षमता नहीं है, पर उनके पीछे अनन्त
सप्तमोऽङ्कः । १६५
मातलिः—सदृशमेवैतत् । ( स्तोकमन्तरमतीत्य ) आयुष्मन्, इतः पश्य नाकपृष्ठ-प्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥ ५ ॥
कर्मसु = कष्टसाध्येष्वपि गुरुषु कार्येषु नियोज्याः = सेवकाः भृत्या सिद्ध्यन्तिः = सिद्धिमन्तो भवन्ति कार्यनिष्पादका जायन्ते इति यत् भृत्याना या कृतार्थता ताम ईश्वराणां = शक्तिमतां स्वामिनां संभावनानुगुणं — संभावना = नियोज्यविषयको बहुमानः तस्य गुणम् उत्कर्षम्, महिमानं वा अवेहि जानीहि । प्रभुमहत्त्वेनैव तत्कार्यसिद्धिः सेवकगुणो न कोऽपि वर्तत इति भावः । अरुणः = विनतासुतः सूर्यसारथिः तमसां = ध्वान्तानाम् अन्धकाराणां विभेत्ता = नाशकः किं वा अभविष्यत् = कथमभविष्यत् चेत् = यदि तं = अरुणं सहस्रकिरणः = सहस्रांशुः सूर्यः धुरि = अग्रे यानमुखे न अकरिष्यत् = नास्थापयिष्यत् ।
अयं भावः— हे देवराजसारथे ! नाहं प्रशंसाहंम् किन्तु महेन्द्रस्यैवायं महिमा यत्तेन मद्ध्वारा तत् कार्यं सम्पादितम् । पश्य महत्सु कार्येषु नियुक्ताः सेवकाः यदि कार्याणि सम्यक् सम्पादयन्ति तत् स्वामिनामेव महिमा न तु भृत्यानाम्, चलितुमक्षमोऽपि वनितातनयोजनूररुणो यदि भगवता सूर्येण स्वरथाग्रभागे न स्थापितोऽभविष्यत् तर्हि स कथं तमसां विभेत्ताऽभविष्यत् । तस्माद्दुर्जयदानवगणो महेन्द्रमहिम्नैव विनष्टो न स्वकीयात् प्रभावादित्याशयः । अत्र-दृष्टान्तानुप्रासाऽप्रस्तुतप्रशंसाऽलङ्काराः वसन्ततिलका वृत्तञ्च ॥ ४ ॥
मातलिः—एतत् = विनयवचनम् सदृशमेव = भवदनुरूपमेव योग्यमेव शूरा अविकत्थना भवन्तीतिभावः । ( स्तोकमन्तरमतीत्य = स्वल्पमवकाशमतिक्रम्य ) आयुष्मन् = चिरञ्जीविन् । नाकपृष्ठप्रतिष्ठितस्य–नाकेपृष्ठे = स्वर्गंतले प्रतिष्ठां प्राप्तस्य स्थिरीकृतस्य आत्मयशसः = निजकीर्तेः सौभाग्यं = अहोभाग्यं, लालनीयत्वम् लोकप्रियत्वं इतः = अत्र प्रदेशे पश्य = अवलोकय सौभाग्यमेवोपपादयति-विच्छित्तिरिति ।
अन्वयः— अमी दिवौकसः गीतक्षमम् अर्थजातम् विचिन्त्य सुरसुन्दरीणां कल्पलतांशुकेषु विच्छित्तिविशेषैः वर्णैः त्वच्चरितं लिखन्ति ॥ ५ ॥
राज्ञो दुष्यन्तस्य सुयशसः सौभाग्यं कथयन् मातलिर्वदति—विच्छित्तिरिति । अमी= दूरे दृश्यमानाः दिवौकसः = स्वर्गवासिनो देवाः गीतक्षमम् = गातुं योग्यं सुरसुन्दरीभिर्गा-
किरणवाले भगवान् सूर्य विराजमान रहते हैं, जिससे अन्धकार भागता है । इस प्रकार मुझमें दानवों को मारने की योग्यता नहीं है, प्रतापी इन्द्र का प्रताप मेरा पृष्ठपोषक है, जिससे भयभीत हो दानव-गण भग गये, मुझे यश मिल गया । इस प्रकार दुष्यन्त ने अपनी नम्रता की पराकाष्ठा कर दी है ।
मातलि— यह कथन आपके लिए उचित ही है ( थोड़ी दूर जाकर ) चिरजीविन् ! इधर स्वर्गंतल पर प्रतिष्ठित अपने सुयश के सौभाग्य को देखिए—
ये स्वर्गवासी देवता लोग गाने के योग्य अर्थसमूह को सोचकर देवाङ्गनाओं के अंगराग के बचे हुए रंग से कल्पवृक्ष से निर्मित रेशमी वस्त्रों पर आपके चरित्र को लिख रहे हैं ॥ ५ ॥
विशेष— यहाँ अङ्गराग से अवशिष्ट रंग लिखने का साधन है, कल्पवृक्ष द्वारा दिया गया रेशम् वस्त्र लिखने का आधार है और देवता लिखने वाले हैं । साधन, आधार तथा लेखक ये तीनों विशिष्ट हैं । समस्त जीवन गाथा लिखना संभव नहीं । अतः विशेष गेय अंश ही लिखे जा रहे हैं । अब देवता लोग कल्पवृक्ष द्वारा दिये गये वस्त्र पर देवाङ्गनाओं के अङ्गराग से आपका सुयश लिखन।
३६६ || अभिज्ञानशाकुन्तलम्
राजा—मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः तत् कतमस्मिन् मरुतां पथि वर्तामहे ।
नाहंम् अर्थजातं = पदार्थसमूहं, पदावलीम् विचिन्त्यं = विचार्यं काव्यं विरच्य सुर-सुन्दरीणां=देवाङ्गनानां अप्सरसाम् कल्पलतांशुकेषु कल्पलतानामंशुकानि कल्पलतांशुकानि तेषु कल्पलतांशुकेषु = कल्पवृक्षसमुत्थितेषु निजवनिता वसनेषु विच्छित्तेः शेषा विच्छित्ति-शेषाः तैः विच्छित्तिशेषैः = अङ्गरागावशिष्टैः वर्णैः = कुङ्कुमकस्तूरीहरिचन्दनादिनिर्मितैः वर्णकैः सितपीतादिभिर्वर्णैः वा त्वच्चरितं = दानवविजयानुरूपं तवावदानं जीवनगाथां लिखन्ति = अङ्कयति । लिपिबद्धं कुर्वन्तीत्यर्थः ।
अयं भावः—भूपते ! अवलोकय भवद्यशः सौभाग्यं स्वर्गमधिरोहति समुद्धृतासुर-कण्टका निश्चिन्ता अमी देवा निजकरकमलैः स्वप्रियतमानामङ्गेषु हरिचन्दनादिलेपैः तिलकालङ्कारान् परिकल्प्य तदवशिष्टैर्वर्णकैः तासां वसनेषु ताभिर्गेयं-त्वदीयं चरितं सम्यग् विचार्यं लिखित्वा भवदुपकृतं त्रिदशलोकोत्तरं भवदीयं चरितमेव स्वसुन्दरीभिः साकं सहर्षं गायन्ति । अत्रोदात्तपरिणामानुप्रासालङ्कारा उपजातिच्छन्दश्च ।
राजा—महापुरुषत्वात् राजर्षे दुष्यन्तस्यात्मप्रशंसाश्रवणं लज्जाकरमिति मातलि विषयान्तरे संचारयन्नाह—मातले ! असुराणां = दानवानां संप्रहारे = युद्धे समुत्सुकेन = उत्कण्ठितेन दिवं = स्वर्गम् अधिरोहता = आरोहता मया = दुष्यन्तेन पूर्वेद्युः पूर्वस्मिन् दिने न लक्षितं = न दृष्टः सम्यग् न निरूपितः स्वर्गमार्गः = स्वर्गारोहणपदवी तत् तस्मात् कथय मम परिचयार्थं प्रबोधय मरुतां वायूनां कतमस्मिन् पथि = सप्तसु वायुमार्गेषु कस्मिन् वायुमार्गे वयं संप्रति वर्तामहे = गच्छामः। कस्मिन् वायुमार्गे तिष्ठाम इति न ज्ञायते इति भावः । सप्तवायुमार्गा महाभारते प्रसिद्धाः । तथाहि—
आवहः प्रवहश्चैव ततश्चानुवहस्तथा । संवहो विवहश्चैव ततश्चोर्ध्वंपरवहः ॥ द्विजा परिवहश्चैव वायोर्वे सप्त नेमयः ॥
सिद्धान्तशिरोमणौ भास्कराचार्यस्तु—
भूवायुरवह इति प्रवहस्तदूर्ध्वं स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः प्रतिपूर्वकोऽस्मात् वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥
अपना आवश्यक कर्तव्य समझते हैं । इसमें साधारण पत्र और स्याही की आवश्यकता नहीं चरित्र और चरित्र में अन्तर है आचरण को चरित्र एवं जीवन की घटनाओं को भी चरित कहते हैं ।
सुगन्धित द्रव्यों से मुख-मस्तक आदि के सजाने को विच्छित्ति कहते हैं । कल्पवृक्ष स्वर्गनिवासियों के धारण करने के योग्य सूक्ष्म रेशमवस्त्र प्रदान करते हैं ।
राजा—मातले ! दुर्जय असुरों के साथ युद्ध करने की उत्कण्ठा में मैंने जाते समय स्वर्गमार्ग को विशेष रूप से नहीं देखा, तो बताओ सात वायुमण्डलों में से इस समय हमलोग वायु के किस मार्ग में चल रहे हैं ?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सप्तमोऽङ्कः ३६७
**मातलिः—**त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतिंषि वर्तयति ^१च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ६ ॥
**अन्वयः—**यः गगनप्रतिष्ठा त्रिस्रोतसं बहति, ज्योतींषि प्रविभक्तरश्मि वर्तयति च तस्य परिवहस्य वायोः द्वितीय हरिविक्रमनिस्तमस्कम् इमं मार्ग वदन्ति ॥ ६ ॥
इन्द्रसारथे ! कतमस्मिन् स्वर्गमार्गे आवां वर्तावहे इति नृपतेः दुष्यन्तस्य प्रश्नमुत्तरयन् मातलिः कथयति—त्रिस्रोतसमिति । यः = यो मार्गः गगनप्रतिष्ठां गगने = आकाशमार्गे प्रतिष्ठा = स्थितिर्यस्याः सा तां गगनप्रतिष्ठाम् = गगनस्य प्रतिष्ठा = समृद्धिर्यथा सा तादृशीं त्रिस्रोतसम् त्रीणि स्रोतांसि यस्याः सा तां त्रिस्रोतसम् = त्रिमार्गगाम् स्वर्गङ्गां मन्दाकिनीम् वहति = धारयति नयति वा गगनगामिनीम्, ज्योतींषि ध्रुवादि नक्षत्राणि, सप्तर्षिमण्डलानि च प्रविभक्ता = यथामागं व्यवस्थपिताः चतुर्षु दिक्षु विस्तृता रश्मयः रज्ज्वाकाराः किरणा यस्मिन् कर्मणि तत् प्रविभक्तरश्मि = असंकीर्णकिरणं यथा स्यात्तथा वर्तयति = प्रवर्तयति मण्डलशः संचारयति, इमं मार्गं = पन्थानं वदन्ति = कथयन्ति ।
तथा च विष्णुपुराणे—
सूर्यंचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयैर्बन्धै ध्रुवैर्वद्धानि तानि वै ॥ ग्रहर्क्षताराधिपानि ध्रुवे बद्धान्यशेषतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥
तस्य = परिवहस्य परिवहनायकस्य वायोः भूगतविक्रमापेक्षया अन्यः हरे = वामनरूपिणो विष्णोः विक्रमः = पादनिक्षेपः तेन निस्तमस्कं = निर्मलं निष्पापं शोकरहितं चेति द्वितीयहरिविक्रमनिस्तमस्कम् ।
उक्तं च वामनपुराणे—
क्रमत्रये तोयमवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी । चक्रे ततो लंघयितुं त्रिलोकं त्रिविक्रमं रूपमनन्तशक्तिः ॥ कृत्वानुरूपं दितिजांश्च हत्वा प्रणम्य चर्षीन् प्रथमक्रमेण । महीं महीध्रैः सहितां महार्णवाञ्जदार रत्नाकरपत्तनेर्युताम् ॥ भुवं सनाकां त्रिदशाधिवासं सोमाकंऋक्षैरभिनन्दितं नमः । दिवो द्वितीयेन जहार वेगात् क्रमेण देवप्रियमिप्सुरीश्वरः ॥
**मातलि—**जो आकाश में स्थित गंगा को धारण करता है तथा अपनी किरणों को फैलाकर ग्रहनक्षत्रों को ठीक-ठीक चलाता है, उस परिवह नामक वायु का विष्णु=वामन के द्वितीय चरण के विन्यास से पावन यह मार्ग कहा जाता है ॥ ६ ॥
**विशेष—**विद्वानों ने आकाश को सात भागों में विभक्त किया है । प्रत्येक भाग में एक-एक वायु मण्डल का प्राधान्य है । इन सात वायुओं के नाम ब्रह्माण्ड पुराण में इस प्रकार
पाठा०—१. चक्रविभक्तरश्मिः ।
३६८ | अभिज्ञानशाकुन्तलम्
राजा—मातले ! अतः खलु सबाह्यकरणो ममान्तरात्मा प्रसीदति ( रथाङ्गमवलोक्य ) मेघपदवीमवतीर्णौ स्वः । मातलिः—कथमवगम्यते । राजा—
^१अयमरविवरेभ्यश्चातकैर्निष्पतद्भि- र्हरिभिरचिरभासां तेजसा चानुलिप्तैः । गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते शीकरक्लिन्ननेमिः ॥ ७ ॥
**अयं भावः—**अत्र हि आवहप्रवाहादिषु वायुषु षष्ठस्य परिवहस्य वायोरेवाधिकारः । स्वयं ज्योतिर्विभागकर्तृत्वात् अत्र तमसोऽवकाश एव नास्ति, मन्दाकिनी धारणत्वाच्च रजोऽपि निरस्तमेवाम् । इत्थं वामनद्वितीय पादपातेन पूतो रजस्तमोरहितः सत्त्वैकाश्रयः परिवहाख्यस्य वायोरयं मार्गः, यत्रावां वर्ताविहे । देवकार्यसम्पादनानन्तरमिदानीं निश्चिन्तो भूत्वा भवान् स्यन्दनेनावतरन् निपुणं निरीक्षताम् ।
अत्र महापुरुष चरित्रवर्णनादुदात्तालङ्कारो वसन्ततिलका वृत्तञ्च ॥ ६ ॥
राजा—मातले = महेन्द्रसारथे ! अतः = उक्तगुणविशिष्टपरिवहवायुमण्डलसञ्चारात् बहिर्भावानि बाह्यानि, बाह्यानि च तानि करणानीति बाह्यकरणानि तै। सह वर्तमानः स बाह्यकरणः = बाह्येन्द्रियवर्गसहितः अन्तरात्मा = आन्तरःकरणं मनः प्रसीदति = मोदते ताम् ( रथाङ्गं = रथचक्रम् अवलोक्य = दृष्ट्वा ) मेघपदवीं = जलधरमार्गम् अवतीर्णौ स्वः = उपरिमार्गादधोमार्गमागतौ ।
मातलिः—कथमवगम्यते ? केनप्रकारेण ज्ञायते मेघमण्डलावतरणमनुमीयते भवता ?
अन्वयः—अयं ते शीकरक्लिन्ननेमिः रथः अरविवरेभ्यः निष्पतद्भिः चातकैः अचिरभासां तेजसां अनुलिप्तैः हरिभिः वारिगर्भोदराणां घनानाम् उपरि पिशुनयति ।
आवां मेघमार्गमवतीर्णौ स्व इत्युक्तिं समर्थयन् राजा दुष्यन्तो मातलिं कथयन्ति—
अङ्कित है ( १ ) आवह ( २ ) प्रवह ( ३ ) उद्वह ( ४ ) संवह ( ५ ) सुवह ( ६ ) परिवह और ( ७ ) परावह । भास्कराचार्य ने भी इनकी चर्चा अपने सिद्धान्तशिरोमणि में की है । ब्रह्माण्ड पुराण के अनुसार छठा परिवह वायु का यह मण्डल है । असुरराज बलिके यज्ञमण्डल में उपस्थित हो बलि से तीन पैर जमीन दान लेकर भगवान् वामन ने दूसरे पग से आकाश को नापा तो उनका पग आकाशवर्ती परिवह वायु के क्षेत्र में जा पड़ा था । इस प्रकार वामन रूपधारी भगवान् विष्णु के द्वितीय चरण विन्यास से यह परम पवित्र है ।
गंगाजी की तीन धाराएँ गायी गई हैं ( १ ) आकाश में स्थित गंगा को आकाश गंगा या मन्दाकिनी कहते हैं, पृथ्वीतल पर प्रवाहित होनेवाली गंगा को भागीरथी कहते हैं तथा पातालस्थ गंगा को भोगवती कहते हैं । परिवह वायु के क्षेत्र में ही आकाशगंगा तथा सप्तर्षिमण्डल है ।
राजा—मातले ! यही कारण है कि नेत्र आदि बाह्य तथा मन बुद्धि आदि आन्तर इन्द्रियों के साथ मेरी अन्तरात्मा प्रसन्न हो रही है । ( रथ के पहिए को देखकर ) अब हमलोग बादलों के मार्ग पर उतर आये हैं ।
मातलि—कैसे मालूम हो रहा है ?
राजा—आपका यह रथ ही जिसके पहियों के बीच लगे अरों=दण्डों के मध्यभाग से चातक
पाठ०—१. अयमगविवरेभ्य ।
सप्तमोऽङ्कः । ३६९
मातलिः—क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते ।
राजा—( अधोऽवलोक्य ) वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि—
अयमिति । अयं = एषः पुरोदृश्यमानः शीकरक्लिन्ननेमिभिः शीकरैः = जलकणैः क्लिन्नाः अराः नेमयः = प्रान्तभागाः चक्रधारा यस्य स शीकरक्लिन्ननेमिः = चक्रप्रान्तभागः रथः = स्यन्दनः अरविवरेभ्यः—अराणां = चक्राङ्गविशेषाणां विवरेभ्यः = अन्तरालेभ्यः ‘अरं शीघ्रे च चक्राङ्गे’ इति विश्वः । निष्पतद्भिः = निर्गच्छद्भिः, उड्डीय बहिर्गच्छद्भिः चातकैः = तन्नामकैः मेघप्रियैः पक्षिभिः अचिरभासां-अचिरा = क्षणिका भाः = दीप्तिर्यासां तासां विद्युताम् तेजसा = प्रकाशेन दीप्त्या अनुलिप्तैः = रञ्जितैः हरिद्भिः = त्वदीयैरश्वै। वारिगर्भोदराणां—वारिगर्भं = जलपूर्णम् उदरं = अभ्यन्तरं मध्यभागं येषां ते तेषां घनानां = मेघानाम् उपरि = ऊर्ध्वं पृष्ठे गतं = गमनं पिशुनयति = सूत्रयति । तस्मात् मन्ये सुरमार्गमतिक्रम्य साम्प्रतमावां मेघमण्डलस्योपरिष्टाद् वर्तावहे ।
अत्र समुच्चय-काव्यलिङ्ग-अनुमानालङ्काराः मालिनी वृत्तञ्च ॥ ७ ॥
मातलिः—आसन्नभूलोकं निर्दिशन्नाह-आयुष्मान् = भवान् क्षणात् = क्षणमतिक्रम्य स्वाधिकारभूमौ-स्वस्य = आत्मनः अधिकारः = नियोगः यस्यां सा स्वाधिकारा स्वाधिका-रा चासौ भूमिश्चेति स्वाधिकारभूमिः तस्यां स्वाधिकारभूमौ = भूपृष्ठे वर्तिष्यते = स्थास्यति निजशासनं भूभागं प्राप्स्यसि ।
राजा—( अधोऽवलोक्य = नीचेर्दृष्ट्वा ) वेगावतरणात्=तीव्रगत्याऽधोगमनात्, आश्चर्य-दर्शनः—आश्चर्यं = विचित्रं दर्शनं यस्य स आश्चर्यदर्शनः = अद्भुतदर्शनः, मनुष्यलोकः मानवं जगत् पृथ्वीलोकः संलक्ष्यते = भाति । तथाहि = उदाह्रियते--
निकल निकल कर उड़ रहे हैं, जिसके घोड़े भी चमकती हुई बिजलियों की चमक से चमक रहे हैं तथा जिसके पहियों की परिधि = पुट्ठी भी जल से गीली हो रही है, जल से भरे हुए मेघों के ऊपर अपने चलने की सूचना दे रहा है।
अर्थात् आपके रथ के पहियों की परिधि भीगी हुई है, रथ के पहियों के बीच लगे काष्ठदण्ड के मध्य से निकल-निकलकर चातक उड़ रहे हैं, रथ के घोड़े भी बिजली की चमक से प्रकाशित हो रहे हैं। इन सब बातों से स्पष्ट प्रतीत हो रहा है कि अब आपका यह रथ मेघमण्डल के ऊपर से जा रहा है॥ ७ ॥
विशेष—श्लोक के पूर्वार्द्ध में इन्द्ररथ के मेघपथ पर चलने के दो कारण दिये गये हैं ( १ ) रथचक्र का भीगना और ( २ ) चातकों का रथमध्य से उड़ना। लोकभाषा में चातक को पपीहा भी कहते हैं। पपीहों की प्रसिद्धि है कि वे भूमिस्थ जल को नहीं पीते, वे आकाश जल को ही पीते हैं। इसीलिए वे मेघों के आस-पास उड़ते रहते हैं और वे मेघ से बरसते हुए पानी को आकाश में ही पी लेते हैं इसलिये कहा गया है—सर्वंसहापतितमम्बु न चातकस्य ।
मातलि— क्षणभर के बाद अपने अधिकार क्षेत्र पृथ्वीमण्डल पर पहुँच जायेंगे।
राजा—( नीचे की ओर देखकर ) वेग से नीचे उतरने के कारण यह मनुष्यलोक (भूमण्डल) आश्चर्यजनक (अद्भुत) सा प्रतीत हो रहा है। जैसे कि—
24 २४ शाकु०
३७० | अभिज्ञानशाकुन्तलम्
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी पर्णस्वान्तरलीनतां विजहति स्कन्धोदयात्पादपाः । संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ ८ ॥
अन्वयः—पश्य मेदिनी उन्मज्जतां शैलानां शिखरात् अवरोहतीव, पादपाः स्कन्धोदयात् पर्णस्वान्तर्लीनतां विजहति, तनुभावनष्टसलिला अपगाः सन्तानैः व्यक्तिं भजन्ति, भुवनमुत्क्षिपता केनापि मत्पार्श्वमानीयते ।
अधोऽवलोकयन् भूलोकस्याश्चर्यदर्शनत्वं समर्थयन् राजा देवराजसारथि मातलिं ब्रवीति—शैलानामिति । पश्य = साश्चर्यमवलोकय मेदिनी = पृथिवी उन्मज्जतां = सहसोत्प्लुत्य प्रकटी भवताम् क्रमशः स्पष्टं दृश्यमानानां शैलानां = महागिरीणां शिखरात् = अग्रभागात् शृङ्गात् अवरोहतीव = अवतरतीव, अधो गच्छतीव, नहि शैला उन्मज्जन्ति, नापि पृथ्वी अवरोहति, किन्तु वेगात् शैलानामुन्मज्जनं, मेदिन्याश्चावरोहणं द्वयमेतत् आश्चर्यं दृश्यते पूर्वं तु दूरतया पर्वतशिखरलग्नेव भूरलक्षिता, इदानीं तु सान्निध्यात् पर्वतमेदिन्योः शनैः शनैः दूरीभावो ज्ञायते इति भावः । पादपाः = वृक्षाः स्कन्धोदयात् — स्कन्धानां = प्रकाण्डानाम् उदयात् = प्राकट्यात्, आविर्भावात् पर्णस्वान्तर्लीनतां-पर्णानाम् = पत्राणां सु = अतिशयेन यदन्तरं = मध्यं तत्र लीनतां = तदाकारताम् पृथगनुपलब्धिम् विजहति = त्यजति प्रकटी भवन्तीत्यर्थः, पूर्वं पत्रपुञ्जमात्ररूपेण दृष्टास्तरवः साम्प्रतं काण्डादिमन्तो दृश्यन्ते इति तात्पर्यम् एतच्चाश्चर्यं वेगात् जातम् । तनुभावनष्टसलिलाः—तनुभावेन = क्षीणतया नष्टानि = अलक्षितानि सलिलानि = जलानि यासां ताः तनुभावनष्टसलिलाः = तनुभावेन नष्टसलिलेन च प्रतीयमाना इत्यर्थः । अपगाः = नद्यः सन्तानैः = विस्तारैः ‘सन्तानो विस्तृत्तौ देववृक्षे चापत्तिगोत्रयोः’ इति धरणिः । व्यक्ति = प्रकटतां भजन्ति =
यह पृथ्वीमण्डल हिमालय आदि पर्वतों के शिखरों से नीचे उतरता हुआ सा प्रतीत हो रहा है । वृक्ष भी जो पहले पत्तों से छिपे हुए से मालूम पड़ते थे, वे अब धीरे-धीरे दिखाई देने से पत्तों से निकलते हुए से प्रतीत हो रहे हैं । ये नदियाँ भी जो पहले, जहाँ-जहाँ उनके प्रवाह में जल कुछ कम था, वहाँ बीच-बीच में खण्डित सी मालूम होती थीं, वे ही अब धीरे-धीरे कम जलवाले प्रवाह भाग के स्पष्ट हो जाने से अखण्डित एवं जुड़ी-सी मालूम हो रही हैं । देखिए यह भूलोक भी मानो किसी के द्वारा नीचे से ऊपर की ओर जोर से उछाला जाकर गेंद की तरह हमारे पास दौड़ा चला आ रहा है ॥ ८ ॥
विशेष—इसका तात्पर्य यह है कि आकाश से नीचे उतरते समय पहले पर्वतों के शिखर ही दिखाई देते हैं पीछे धीरे-धीरे पृथ्वी दिखाई देती है । अतः ऐसा प्रतीत होता है कि मानो पृथ्वी पर्वत के शिखरों से ही धीरे धीरे नीचे उतर रही है । इसी प्रकार पहले वृक्षों की पत्तियाँ दिखाई पड़ती हैं, पुनः पेड़, शाखा-प्रशाखा आदि दिखाई देते हैं । नदियाँ भी पहले खण्डित-सी मालूम पड़ती हैं, क्योंकि जहाँ नदियों का पाट चौड़ा है, वहाँ जल ज्यादा है । अत वही भाग पहले दिखाई पड़ता है और कम जलवाला भाग पहले नहीं दीख पड़ता है । इसलिए नदियां पहले टूटी सी मालूम पड़ती हैं और पीछे पास आने से जुड़ी हुई सी मालूम होने लगती हैं । ज्यों-ज्यों रथ नीचे उतरता है त्यों त्यों भूमण्डल भी मानो ऊपर की ओर गेंद के समान उछलता हुआ पास आ रहा प्रतीत होता है ।
सप्तमोऽङ्कः ३७१
मातलिः—साधु दृष्टम् (सबहुमानमवलोक्य) अहो ^१उदाररमणीया पृथिवी ।
राजा—मातले ! कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिष्यन्दः सान्ध्य इव ^२मेघपरिघः सानुमानालोक्यते ।
मातलिः—आयुष्मन् ! एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् ।
पश्य—
यान्ति । यत्र यत्र दूरात् सूक्ष्मताया जलं न दृष्टं, सहसा सजला नद्यस्तत्र दृश्यन्ते । इदमप्याश्चर्यं वेगादेव भुवनं = मनुष्यलोकः उत्क्षिपता = ऊर्ध्वं प्रेरयता केनापि = अतिसुरासुरत्वेन सत्वेन मत्पार्श्वं = मम समीपम् आनीयते इव उपस्थाप्यत इव, वस्तुतस्तु अहमेवाधः पतामि, वेगात्पुनर्भुवनमुत्पततीव भाति । यद् दूरादेकपृष्ठमेकवर्णं च भाति स्म तदेव भुवनं सहसा गिरितरुसरसादिरूपेण विभक्तपृष्ठभागमुत्पततीवेत्यहो आश्चर्यम् । तस्मादाश्चर्यदर्शनोऽयं मनुष्यलोक इति सत्यमिति भावः ।
अत्रोत्प्रेक्षाकाव्यलिङ्गस्वभावोक्तिसंसृष्टालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ ८ ॥
मातलिः—राजोक्तिमनुमोदमानो मातलिर्वदति—साधु दृष्टम्=सम्यगवलोकितं भवता शोभनमुत्प्रेक्षितम् सबहुमानं = सादरमवलोक्य = दृष्ट्वा । अहो = आश्चर्यम्, उदाररमणीया उदारा = विशाला च रमणीया = सुन्दरी चेति उदाररमणीया = अतिदर्शनीया पृथिवी = मेदिनी ।
राजा—मातले ! = इन्द्रसारथे ! पूर्वापरसमुद्रावगाढः—पूर्वापरसमुद्रयोः=पूर्वपश्चिमसागरयोः अवगाढः = प्रविष्टः, सम्बद्धः पूर्वपश्चिमसमुद्रद्वयविनिविष्ट प्रान्तभागः कनकरसनिष्यन्दः कनकरसस्य = सुवर्णद्रवस्य निष्यन्दः = स्रव इति कनकरसनिष्यन्दः = द्रवसुवर्णोद्गारी, कनकमयधातुरसनिस्यन्दी सान्ध्यः सन्ध्यायां भवः सान्ध्यः = सन्ध्याकालोद्भवः मेघपरिघः = परिघाकारो मेघः कतमः = कः सानुमान् = पर्वतः ? आलोक्यते दृश्यते ?
मातलिः—आयुष्मन् = चिरजीविन् ! एषः = पुरो दृश्यमानः समीपवर्ती खलु हेमकूटो नाम = हेमकूट इति प्रसिद्धः किंपुरुषपर्वतः = किम्पुरुषवर्षस्य मर्यादापर्वतः तपःसंसिद्धिक्षेत्रम् तपसः = तपस्यायाः संसिद्धेः = सफलतायाः क्षेत्रं = स्थानमिति तपः संसिद्धिक्षेत्रम् हेमकूटः = कैलासः । तथाहि महाभारतस्य भीष्मपर्वणि—
हेमकूटस्तु महान् कैलासो नाम पर्वतः ।
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥—६।४।१
किम्पुरुषवर्षस्य मर्यादापर्वतत्वमुक्तं श्रीमद्भागवतस्य पञ्चमे स्कन्धे—
मातलि—आयुष्मन् ! आपने बहुत ठीक देखा, ऐसी ही बात है (अत्यन्त आदर के साथ देखकर) वह यह पृथिवी कितनी चित्ताकर्षक और विशाल है ।
राजा—पूर्व और पश्चिम सागर में घुसा हुआ सुवर्ण के रस को बहाने वाला सायंकालीन बादलों की तरह पीला या लाल यह कौन सा पर्वत है ?
मातलि—आयुष्मन् ! यह किंपुरुष वर्ष का हेमकूट नामक पर्वत है, जो तपस्वियों की तपस्या का सर्वश्रेष्ठ स्थान है । देखिए—
पाठा०—१. उदग्ररमणीया पृथिवी । २. मेघः सानुमानवलोक्यते ।
३७२ | अभिज्ञानशाकुन्तलम्
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः । सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ ९ ॥
दक्षिणेनेलावृत्तं निषधो हेमकूटो हिमालय इति त्रयो हरिवर्षकिम्पुरुषवर्षभारतवर्षाणां मर्यादा गिरयः । विष्णुपुराणे च—
हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरेवर्षपर्वताः ॥
प्रथमं भारतं वर्षं ततः किं पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यत् मेरोर्दक्षिणतो द्विज ॥
अन्वयः—स्वायम्भुवात् मरीचेः यः प्रजापतिः प्रबभूव सुरासुरगुरुः स सपत्नीकः अत्र तपस्यति ।
हेमकूटपर्वतस्य माहात्म्यातिशयं वर्णयन् देवराजसारथिः मातलिर्नृपतिं दुष्यन्त-मभिधत्ते--स्वायम्भुवादिति । स्वयं भवतीति स्वयम्भू्रब्रह्मा तस्य स्वयम्भुवोऽपत्यं स्वायम्भुवः ब्रह्मणोमानसपुत्रः तस्मात् स्वायम्भुवात् मरीचेः मरीचिनाम्नो ब्रह्मणो मानसपुत्रात् यः प्रजापतिः = लोकस्रष्टा कश्यपः इति प्रबभूव जज्ञे सुरासुरगुरुः सुराणां = देवानाम् असुराणां = दानवानां च गुरुः=पिता सः = मारीचः सपत्नीकः, पत्न्या = अदित्या सह अत्र = अस्मिन् हेमकूटो तपस्यति = तपश्चरति, तपस्यां कुरुते ।
अर्थ भावः—हे राजन् ! पश्य पुरो दृश्यमानं एष खलु हेमकूटो नाम किंपुरुषवर्षवर्ती मर्यादापर्वतः तपसः सिद्धिभूमिश्च स्वयंभुवो यत्र ब्रह्मणो मानसपुत्रात् स्वायंभुवात् मरीचिः तस्मात् मारीचेः समुत्पन्नः सुरासुरजनकः सर्वलोकनमस्यो भगवान् महर्षिकश्यपः स्वभार्यया आदित्या सह तपश्चरन् सुखेन निवसति तस्मात् सकललोकातिक्रान्तो हेमकूटपर्वतस्य महिमा वर्तते । अत्र छेकवृत्यनुप्रासो अलङ्कारो अनुष्टुप्छन्दश्च ॥ ९ ॥
स्वयम्भू ब्रह्माजी के मानस पुत्र महर्षि मरीचि से जो प्रजापति उत्पन्न हुए हैं, वे ही सुर और असुरोंके पिता कश्यप जी इस हेमकूट पर्वत पर अपनी पत्नी अदिति के साथ तपस्या करते हैं ॥९॥
विशेष—पौराणिक भूगोल के अनुसार दृश्यमान संसार सात द्वीपों में विभक्त माना गया है । जैसे ( १ ) जम्बूद्वीप ( २ ) प्लक्षद्वीप ( ३ ) शाल्मलिद्वीप ( ४ ) कुशद्वीप, ( ५ ) क्रौञ्चद्वीप ( ६ ) शाकद्वीप तथा ( ७ ) पुष्करद्वीप । इनमें प्रथम जम्बूद्वीप के अन्तर्गत नव वर्ष हैं, जिनके नाम हैं ( १ ) कुरु वर्ष ( २ ) हिरण्मय वर्ष ( ३ ) रम्यक वर्ष ( ४ ) इलावृत्त वर्ष ( ५ ) हरिवर्ष ( ६ ) केतुमालवर्ष ( ७ ) भद्राश्व वर्ष ( ८ ) किंपुरुषवर्ष और ( ९ ) भारतवर्ष । इन वर्षों के विभाजक हैं वर्षपर्वत, जिनके नाम हैं—हिमवान, हेमकूट, निषध, नील, श्वेत और शृङ्गी । इन्हीं वर्षपर्वतों के द्वारा तत्तव देशों के विभाजन होने के कारण उन देशों के नाम तत्तत् वर्ष हो गये हैं ।
इन नव वर्षों में चतुर्थ इलावृत्त वर्ष सबके बीच में है । इलावृत्त के दक्षिण क्रमशः तीन वर्ष हैं ( १ ) हरिवर्ष ( २ ) किंपुरुषवर्ष एवं ( ३ ) भारतवर्ष । इलावृत्त से उत्तर में हैं ( १ ) रम्यक वर्ष ( २ ) हिरण्मय वर्ष तथा ( ३ ) कुरुवर्ष । इलावृत्त के पूर्व केवल केतुमाल वर्ष है तथा पश्चिम में भद्राश्व वर्ष है । इस प्रकार सभी वर्षों से उत्तर में कुरु वर्ष है और दक्षिण में भारतवर्ष । भारत-वर्ष के उत्तर में स्थित किंपुरुष वर्ष है । इन दोनों वर्षों का विभाजक हिमवान् ( हिमालय ) पर्वत है । हिमालय के उत्तर किंपुरुष वर्ष है । किंपुरुष वर्ष तथा हरिवर्ष का विभाजक हेमकूट पर्वत है, जो सुवर्णमय शिखर होने के कारण यह पर्वत पीला दिखाई पड़ता है । यहीं महर्षि कश्यप की तपोभूमि है ।
सप्तमोऽङ्कः ३७३
**राजा—**तेन ह्यनतिक्रमणीयानि श्रेयांसि। प्रदक्षिणीकृत्य भगवन्तं गन्तु-
मिच्छामि।
**मातलिः—**प्रथमः कल्पः। (नाट्येनावतीर्णौ)
**राजा—**तेन हि निमित्तेन यतोऽत्र प्रजापतिस्तपश्चरन्नास्ते ततः अनतिक्रमणीयानि = अनुल्लङ्घनीयानि, अतिक्रम्य गन्तुमनर्हाणि श्रेयांसि शुभानि श्रीमन्तं भगवन्तं कश्यपम्। प्रदक्षिणीकृत्य = प्रदक्षिणक्रियया प्रपूज्य गन्तुमिच्छामि गृहं यातुं कामये। उक्तञ्च—
मृदङ्गं दैवतं विप्रं घृतं मधु चतुष्पथम्।
प्रदक्षिणानि कुर्वीत प्रख्यातं च तपस्विनम्॥
**मातलिः—**राजोक्तं मातलिंरनुमोदते—आयुष्मन्! प्रथमः कल्प = मुख्यः पक्षः श्रेष्ठो विधिः अयमुत्तमो विधिः 'मुख्यः स्यात् प्रथमः कल्पः' इत्यमरः। नाटयेन = अभिनयेन अवतीर्णौ = अवतरणमभिनीय स्थितौ।
विष्णु पुराण में मेरु दक्षिण भारतवर्ष से आरम्भ कर उत्तरोत्तर किंपुरुष वर्ष तथा हरिवर्ष कहा गया है—
प्रथमं भारतं वर्षं ततः किंपुरुषं स्मृतम्।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः॥
इसी प्रकार विष्णुपुराण में जहाँ भारतवर्ष के बाद किंपुरुष वर्ष की चर्चा की गई है, वहीं हिमालय के बाद हेमकूट तथा निषध पर्वत को भी चर्चा है—
हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे।
स्वयम्भू शब्द का अर्थ है—अपने आप उत्पन्न। यह ब्रह्माजी का पर्यायवाची है। सृष्टिरचना के आदि में ब्रह्माजी ने जिन्हें अपने मन की इच्छा से उत्पन्न किया, उन्हें मानसपुत्र कहते हैं। वे मानसपुत्र भी प्रजा (सन्तान) के आदि कारण होने से प्रजापति कहे जाते हैं। ब्रह्माजी के मानस- पुत्रों में महर्षि मरीचि एक हैं, उनके पुत्र का नाम कश्यप हैं। ये सभी अग्रिम प्रजाओं की उत्पत्ति या कारण होने से प्रजापति कहलाते हैं—
अपरं प्रजानां पतयस्तान् शृणुध्वमतन्द्रिताः॥
कर्दमः कश्यपः शेषो विक्रान्तः सुश्रवास्तथा।
इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः॥
**राजा—**तो कल्याणकारक वस्तुओं का उल्लंघन नहीं करना चाहिए। अतः पूज्य महर्षि कश्यप की प्रदक्षिणा करके ही यहाँ से आगे बढ़ना चाहता हूँ।
**विशेष—**महर्षि कश्यप इन्द्र सूर्य, विष्णु आदि देवताओं के पिता होने के कारण देवतः माने जाते हैं। मनुस्मृति में भगवान् मनु ने आदेश दिया है कि मृदङ्ग, देवता, ब्राह्मण, घी, मधु, चौराहे तथा वृक्षों की परिक्रमा करके ही आगे बढ़ना चाहिए—
मृदङ्गं दैवतं विप्रं घृतं मधु चतुष्पथम्।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्॥
इस प्रकार कल्याणकारक मङ्गलप्रद व्यक्ति या वस्तुओं के मिलने पर, प्रणाम, प्रदक्षिणा आदि करके ही आगे बढ़ने का विधान है। इसका उल्लंघन करने वाले व्यक्ति को सुख का भागी होना सम्भव नहीं है। इसीलिए धर्मात्मा राजा दुष्यन्त महर्षि कश्यप को प्रणाम करके ही आगे बढ़ना चाहते हैं।
**मातलि—**आपका यह उत्तम विचार है (अभिनयपूर्वक दोनों उतरते हैं।)
३७४ || अभिज्ञानशाकुन्तलम्
राजा—( सविस्मयम् )
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । अभूतलस्पर्शतया निरुद्धस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥ १० ॥
अन्वयः—अभूतलस्पर्शतया रथाङ्गनेमयः उपोढशब्दा न, रजश्च प्रवर्तमानं न दृश्यते, निरुद्धः तव रथः अवतीर्णोऽपि न लक्ष्यते ।
अवतरणे विस्मयमनुभवन् राजा दुष्यन्त मातलि वदति—उपोढशब्दा इति । भुवः तलं भूतं भूतलस्य = पृथिव्याः स्पर्शः = संसर्गः इति भूतलस्पर्शः अविद्यमानः भूतल-स्पर्शः = भूमिसम्पर्कः यस्य स अभूतलस्पर्शः तस्य भावः तत्ता तया अभूतलस्पर्शतया = भूमिसम्पर्कविरहात् रथाङ्गानां = चक्राणां नेमयः = प्रधयः इति रथाङ्गनेमयः उपोढ-शब्दाः = प्रारब्धाः शब्दाः स्वना यैस्ते उपोढशब्दाः न भवन्ति येनाहं शब्दविरामात् क्रान्तः पन्था इति वक्तुं शक्नुयाम् । रजश्च रथोद्भूतो धुलिश्च प्रवर्तमानं चक्रैरश्वखुरै-श्चोत्क्षिप्तं सत् प्रसर्पन् न दृश्यते = नावलोक्यते येन रजसां प्रवृत्तिं दृष्ट्वा गगननिवृत्तिं जानीयाम् निरुन्धतः = रथवेगं स्तम्भयतः भूतलस्पर्शं विना स्तम्भितत्वात् तव = मातलेः रथः = स्यन्दनः, अवतीर्णोऽपि = स्वर्गमार्गात् हेमकूटशिखरमुपगतोऽपि न लक्ष्यते, अवतीर्ण इति न ज्ञायते ।
अर्थ भावः—राज्ञा दुष्यन्तोऽब्रवीत् मातले ! लोकोत्तरमाश्चर्यजनकं ते रथसञ्चाल-नस्य चातुर्यं भूतलस्पर्शाभावात् रथसंचालनचातुर्याच्च सर्वमेव विलक्षणं प्रतीयते अहो आश्चर्यम् । अत्र विशेषोक्ति-काव्यलिङ्गावलङ्कारौ वंशस्थं वृत्तञ्च ॥ १० ॥
राजा—( आश्चर्यपूर्वक ) हे मातले !
आपके रथ पहियों के नीचे का हिस्सा तो बिलकुल ही शब्द नहीं करता, भूमि से धूल भी उड़ती नहीं दिखाई पड़ती है, और उबड़-खाबड़ जमीन पर हचक न लगने से आपका रथ भूतल पर उतरा हुआ भी नहीं प्रतीत होता है ॥ १० ॥
**विशेष—**तात्पर्य यह है कि जितने भी रथ हैं वे सभी जब भूमि पर चलते हैं तब उसमें खड़-खड़ाहट होती है, धूलि उड़ती है ऊँची नीची जगहों में धक्के भी लगते हैं, किन्तु आपका यह दिव्य रथ इन बातों से रहित है । अतः पृथ्वी पर उतरने पर भी यह पृथ्वी में उतरा हुआ-सा प्रतीत नहीं होता । देवताओं के पैर और रथों के पहिए भूमि से स्पर्श नहीं करते, किन्तु वे सदा भूमि से ऊँचे उठे रहते हैं । इस प्रकार देवराज का रथ हमेशा भूमि से एक दो फुट ऊपर ही रहता है । अतः भूतल से उसके स्पर्श का प्रश्न ही नहीं उठता । भूतल का स्पर्श न होना, रथ की नेमि की खड़-खड़ाहट न होना और धूलि का न उड़ना ये तीनों इन्द्र के रथ की विशेषताएँ हैं ।
महाभारत के वनपर्व नलोपाख्यान के प्रसंग में दमयन्ती स्वयम्बर के अवसर पर बताया गया है कि देवताओं का स्पर्श पृथ्वी से नहीं होता । दमयन्ती ने देखा कि नल का रूप धारण कर बैठे हुए पाँचों देवता स्वेद-रहित हैं, उनके अङ्ग में पसीने की बूँदें नहीं हैं, उनकी आँखों की पलकें नहीं गिरतीं न तो उनकी माला मुरझाती है, न उन पर धूलिकण पड़ते हैं । वे सिंहासनों पर बैठे हैं, किन्तु उनके पैरों से पृथ्वी का स्पर्श नहीं है—
सापश्यत विबुधान् सर्वानस्वेदानस्तब्धलोचनान । हृषितस्रग्रजोहीनान स्थितानस्पृशतः क्षितिम् ॥ ५७।२७
सप्तमोऽङ्कः ३७५
मातलिः—एतावानेव शतक्रतोरायुष्मतश्च विशेषः।
राजा--मातले ? कतमस्मिन्प्रदेशे मारीचाश्रमः।
मातलिः—(हस्तेन् दर्शयन्)—
वल्मीकाग्रनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनोत्यर्थसंपीडितः।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ११ ॥
मातलिः—स्तुतिगर्भमनुवदति—एतावानेव = रथस्य भूतलस्पर्शाभाव एव शतक्रतोः= शतमखस्य आयुष्मतः=चिरजीविनो भवतः विशेषः=अन्तरम्—भुवि संचरणे शतक्रतो रथः अस्पृष्टो गच्छति, तव तु स्पृष्टो व्रजति। अन्यथा स इव भवान् अनाकवर्त्मतिभावः।
राजा—मारीचदर्शनस्यौत्सुक्यात् पुनः पृच्छति-मातले ! कतमस्मिन् प्रदेशे = कस्मिन् स्थाने मारीचाश्रमः मारीचस्य = काश्यपस्याश्रमः = तपोवनम्।
मातलिः—(हस्ते = उत्तानितेन पताकेन दर्शयन् वदति— ) वाल्मीकाग्रेति।
अन्वयः—यत्र असौ वल्मीकाग्रनिमग्नमूर्तिः सन्दष्टसर्पत्वचा उरसा जीर्णलताप्रतान-वलयेन कण्ठे अत्यर्थं संपीडितः अंसव्यापि शकुन्तनीडनिचितं जटामण्डलं बिभ्रत् स्थाणु-रिव अचलो मुनिः अभ्यर्कबिम्बं स्थितः।
कतमस्मिन् प्रदेशे मारीचाश्रम इति राज्ञा पृष्टो मातलिः हस्तेन तं दर्शयन् ब्रवीति—बल्मीकाग्रेति। यत्र = यस्मिन् प्रदेशे असौ = दूरे दृश्यमानः वल्मीकाग्रनिमग्नमूर्तिः वल्मीकस्य = पिपीलिकाकृतमृत्पुञ्जस्तूपविशेषस्य अग्रे यथा स्यात्तथा निमग्ना = निहिता मूर्तिः शरीरं यस्य सः यद्वा वल्मीकाग्रे निमग्ना मूर्तिर्यस्यासौ बल्मीकाग्रनिमग्नमूर्तिः वामलूरामृत्कूटसन्निविष्टः शरीराग्रः—'वामलूरश्च नाकुश्च बल्मीकं पुन्नपुंसकम्' इत्यमरः। सन्दष्टाः = संलग्ना सर्पस्य = अहेः त्वचः = निर्मोका यस्मिन् स सन्दष्टसर्पत्वचः = संसक्त-सर्पकञ्चुकेन उरसा = उरःस्थलेनोपलक्षितः जीर्णलताप्रतानवलयेन जीर्णानां शुष्कानां लताप्रतानानां=वलयाकाराणां बल्लोतन्तूनां वलयेन=वेष्टनेन पुराणलतामण्डलेन वलयित-लतातन्तुभिः कण्ठे = ग्रीवायाम् अत्यर्थंसम्पीडितः—अत्यर्थम् = अत्यन्तं संपीडितः =
मातलि—इतना ही इन्द्र के और आपके रथ में अन्तर (विशेषता) है।
राजा—मातले ! भगवान् मारीच = कश्यप जी का आश्रम किस जगह है?
मातलि—(हाथ से दिखाता हुआ) आयुष्मान् ! इधर देखिए—
चींटी और दीमकों से निकली हुई मिट्टी के बीच में जिनका आधा शरीर दब गया है, सर्पों की केंचुलियाँ जिनके शरीर पर दूसरे जनेऊ की तरह मालूम हो रही हैं। लटकी हुई लताओं के तन्तुओं से जिनका गला कस गया है। ऐसे ये महर्षि जिनमें पक्षियों ने घोसले बना लिए हैं ऐसे जटामण्डल को धारण किये हुए स्थाणु की तरह निश्चल हो सूर्य की ओर मुख करके खड़े हो तपस्या कर रहे हैं। यही मारीच ऋषि का आश्रम है॥ ११॥
विशेष—तपस्या करते हुए महर्षि कश्यप के बहुत दिन बीत गये थे, इसीलिए दीमकों द्वारा लाई गई मिट्टी से उनके शरीर का अधिकांश भाग ढँक गया था, इसी कारण पक्षियों ने भी उनके शरीर
पाठ०—१. नात्यन्तसंपीडितः।
३७६ | अभिज्ञानशाकुन्तलम्
**राजा—**नमस्ते कष्टतपसे।
मातलिः—(संयतप्रग्रहं रथं कृत्वा)—महाराज! एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः।
**राजा—**स्वर्गादधिकतरं निर्वृत्तिस्थानम्। अमृतह्रदमिवावगाढोऽस्मि !
मातलिः—(रथं स्थापयित्वा) अवतरत्वायुष्मान्।
निबन्धनेन क्लेशितः, अंसव्यापि अंसौ = स्कन्धौ व्याप्नोति तच्छीलिभिः अंसव्यापि = स्कन्धप्रसृतम् शकुन्तनोडनिचयं–शकुन्तानां = पक्षिणां नीडैः = कुलायैः निचितं व्याप्तमिति शकुन्तनोडनिचितं = पक्षिकुलव्याप्तम् जटामण्डलं = जटानां मण्डलं = समूहं जटाजूटं विभ्रत् = धारयन् अत एव स्थाणुरिव = काण्डशेषो वृक्ष इव अचलः = निष्पन्दः स्थिर। मुनिः = मरीचिपुत्रः कश्यपः अर्कबिम्बं = सूर्यमण्डलं अभिलक्ष्यीकृत्य यत्र स्थितोऽसौ मारीचाश्रमः।
अर्थात् राजन्? यत्र वल्मीकनिमग्नशरीरः स्कन्धोपरि लम्बमानं जटाजूटं विभ्राणः कश्यपमुनिः स्थाणुरिव सूर्यबिम्बं लक्ष्यीकृत्य तिष्ठति स एव मारीचाश्रमो भवतावगन्तव्यः। अत्र श्लेषोपमापरिकरालङ्काराः शार्दूलविक्रीडितवृत्तञ्च ॥ ११ ॥
**राजा—**तादृशं कश्यपं विलोक्य तं नमस्कुर्वन् राजा ब्रवीति—नमोऽस्मै कष्टतपसे कष्टं = कष्टकरं कृच्छ्रं तपो यस्य स तस्मै कष्टतपसे = उग्रतपसे ते = तुभ्य नमः = नमस्कारः।
मातलिः—(संयमितप्रग्रहं संयमिताः = नियमिताः प्रग्रहाः = रश्मिरज्जवः यस्य स तम् संयमितप्रग्रहं–नियमितरश्मिरज्जुम् रथं = स्यन्दनम् कृत्वा = विधाय) महाराज। एतो = इमो आवाम् अदितिपरिवर्धितमन्दारवृक्षम् अदित्या = कश्यपपत्न्या परिवर्धितः पालितः मन्दारवृक्षः = कल्पवृक्षो यत्र स तमदितिपरिवर्धितमन्दारवृक्षम् प्रजापते = कश्यपस्य आश्रमं = तपोवनं प्रविष्टौ स्वः।
**राजा—**अथ स्वभावतः सात्त्विको राजा सत्वोद्दीपकपुण्याश्रमसंसर्गेण प्रवृद्धसत्वगुणः प्रहृष्यन्नाह—स्वर्गादधिकतरं = स्वर्गापेक्षयाप्यधिकसौभाग्यास्पदं निर्वृत्तिस्थानं = निर्वृत्तेः = प्रसन्नतायाः स्थानम् = आस्पदम् अमृतह्रदमिव = सुधाकुण्डमिव अवगाढः = प्रविष्टः इवास्मि। नेदृशं स्वर्गेऽपि लभ्यं सुखं मयेति भावः।
मातलिः—(रथं = स्यन्दनं स्थापयित्वा = सुसंयतं कृत्वा) आयुष्मान् = भवान् अवतरतु।
को सूखा समझकर उनके जटाजूट में घोंसले लगा लिये थे। वल्मीक उसे कहते हैं, जिसमें दीमक मिट्टी लगाकर ढेर कर देते हैं। स्थाणु उस वृक्ष को कहते हैं, जिसमें पत्ते, पुष्प और फल लगते हों। प्रायः दीमक सूखे वृक्ष के ठूँठ पर मिट्टी चढ़ाकर ढेर कर देते हैं। इस प्रकार दीमकों ने ऋषि को निश्चल ठूँठ समझ लिया था।
**राजा—**इस प्रकार कठिन तपस्या करने वाले मुनि को मेरा प्रणाम है।
मातलि—(रथ की बागडोर खींचकर) अदिति द्वारा बढ़ाये गये मन्दार वृक्षवाले प्रजापति कश्यप के आश्रम में हमलोग आ गये हैं।
**राजा—**यह स्वर्ग से भी अधिक सुन्दर सुखप्रद स्थान है। यहाँ पर मैं मानो अमृत के तालाब में डूबा हुआ हूँ।
मातलि—(रथ को रोककर) चिरंजीवी! आप उतरें।
सप्तमोऽङ्कः
३७७
राजा—( अवतीर्य ) मातले ! भवान् कथमिदानीम् ।
मातलिः—संयन्त्रितो मया रथः । वयमप्यवतरामः । ( तथा कृत्वा ) इत आयुष्मान् ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा—ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्म्याभिषेकक्रिया ।
राजा—( रथादवतीर्य मातलिं ब्रूते ) मातले ! भवान् कथमिदानीं = सम्प्रति किं करिष्यति भवान् ?
मातलिः—संयन्त्रितः = सम्यगवस्थापितः, समवस्थापितो मया रथः = स्यन्दनः वयम् = अहमपि अवतरामः = अवतरामि ( तथा कृत्वा = पूर्वोक्तप्रकारं विधाय, अवतीर्य ) इत आयुष्मान् = अनेन मार्गेण आगच्छतु भवान् ( परिक्रम्य = मण्डलाकृति चलित्वा ) दृश्यन्ताम् = अवलोक्यन्ताम्, अत्रभवताम् = पूज्यानाम् ऋषीणां = मुनीनाम् तपोवनभूमयः तपोवनसम्बन्धिनो भूभागाः अस्मदागमनपर्यन्तं त्वं समयबन्धनपूर्वकपालनमात्रेण तिष्ठेति भावः ।
मातल्युक्तमनुमोदमानो राजा आह—विस्मयात् = विस्मयमवलम्ब्य अवलोकयामि = पश्यामि ।
अन्वयः—सत्कल्पवृक्षे वने उचिता प्राणानां वृत्तिः अनिलेन ( भवति ) काञ्चनपद्मरेणुकपिशे तोये धर्म्याभिषेकक्रिया ( भवति ) रत्नशिलातलेषु ध्यानं ( भवति ) विबुधस्त्रीसन्निधौ संयमः ( भवति ) अन्यमुनयः तपोभिः यत् काङ्क्षन्ति तस्मिन् अमी तपस्यन्ति ॥ १२ ॥
महर्षेः कश्यपस्याश्रमावलोकने सर्वतो विस्मयमनुभवन् राजा दुष्यन्तो मातलिं ब्रूते—प्राणानामिति । सत्कल्पवृक्षे-सत् = विद्यमानाः कल्पवृक्षाः = वाञ्छापूरका सुरद्रुमा यस्मिन् स तस्मिन् सत्कल्पवृक्षे वने = कल्पतरुकानने उचिता तपश्चरणयोग्या अवश्यकर्त्तव्या च वृत्तिः = जीवनधारणम् अनिलेन = वायुना भवति । काञ्चनपद्मरेणुकपिशे काञ्चनपद्मानां = सुवर्णकमलानां रेणुभिः परागैः कपिशे = पिङ्गलवर्णे स्वर्गकमलकिञ्जल्कपिङ्गलवर्णे तोये = जले धर्म्याभिषेकक्रिया धर्माय = पुण्याय अभिषेकस्य = स्नानस्य क्रिया = विधिः निर्वर्त्यते रत्नशिलातलेषु रत्नानां = मणीनां शिलातलेषु प्रस्तर-
राजा—( उतर कर ) मातले ! अब आप क्या करेंगे ?
मातलि—मैंने रथ में लाग ( ओट ) लगाकर इसे निश्चल बना दिया है, अब हम भी उतरते हैं ( स्वयम् भी उतरकर ) आयुष्मान् इधर चलें ( चारों ओर घूमकर ) पूज्य ऋषियों के स्थानों को देखिए ।
राजा—वस्तुतः मैं आश्चर्य से देख रहा हूँ—
जहाँ समस्त मनोरथों को पूर्ण करने वाले कल्प वृक्ष विराजमान हैं, वहाँ भी ये ऋषि गण केवल वायु का पानकर प्राणों को धारण कर रहे हैं । स्वर्ण कमलों के पराग से पीले रङ्ग के पानी में पुण्य-
पाठा०—१. पुण्याभिषेकक्रिया ।