भारतकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७१

येऽपि पर्याये 'य एष स्वप्ने महीयमानश्चरति' इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद् द्रष्टुरन्यो निर्दिष्टः, एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इत्युपक्रमात्। किञ्चाहमद्य स्वप्ने हस्तिनमद्राक्षं, नेदानीं तं पश्यामीति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे, द्रष्टारं तु तमेव प्रत्यभिजानाति 'य एवाहं स्वप्नमद्राक्षं स एवाहं जागरितं पश्यामि' इति। तथा तृतीयेऽपि पर्याये 'नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, न विज्ञातारं प्रतिषेधति।

भामती

न छायात्मा। तस्मादसिद्धो दृष्टान्त इत्यर्थः। किञ्च द्वितीयादिष्वपि पर्यायेष्वेतं त्वेव ते भूयोऽनुव्याख्या- स्यामीत्युपक्रमात् प्रथमपर्यायनिर्दिष्टो न छायापुरुषोऽपि तु ततोऽन्यो द्रष्टाऽस्त्विति दर्शयत्यन्यथा प्रजापतेः प्रतारकत्वप्रसङ्गादित्यत आह ॐ तथा द्वितीयेऽपि इति ॐ। अथ छायापुरुष एव जीवः कस्मान्न भवति ? तथा च छायापुरुष एवैतमिति परामृश्यत इत्यत आह ॐ किञ्चाहमद्य स्वप्ने हस्तिनम् इति ॐ। ॐ किञ्च इति ॐ। समुच्चयाभिधानं पूर्वोपपत्तिसाहित्यं ब्रूते, तच्च शङ्कानिराकरणद्वारेण। छायापुरुषोऽस्थायी स्थायी चायमात्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः। ॐ नाह खल्वयमेव इति ॐ। अयं सुषुप्तः। ॐसम्प्रतिॐ सुषुप्तावस्थायाम्। अहमात्मानमहंकारास्पद्मात्मानम्। न जानाति। केन प्रकारेण न जाना- तीत्यत आह ॐ अयमहमस्मीमानि भूतानि च इति ॐ। ॐ यथा जागृति स्वप्ने च इति ॐ। न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते, अविनाशित्वादित्यनेनाविनाशित्वं सिद्धवद्धेतुं कुर्वता सुषुप्तोत्थितस्यात्म-

भामती-व्याख्या

समाधान—उक्त शङ्का का निराकरण करते हुए भाष्यकार कहते हैं—"नापि प्रतिच्छायात्माऽयमभिलक्षितो निर्दिश्यते"। आशय यह है कि अक्षिपुरुष के रूप में आत्मा का ही निर्देश किया गया है, छाया (प्रतिबिम्ब) का नहीं, अतः छाया में दृष्टान्तता सिद्ध नहीं होती। दूसरी बात यह भी है कि द्वितीयादि पर्यायों में पूर्व-निर्दिष्ट वस्तु के निर्देश की प्रतिज्ञा की गई है—"एतं त्वेव ते भूयोऽनुव्याख्यास्यामि"। द्वितीयादि पर्यायों में आत्मा का पुनः निर्देश तभी उपपन्न होगा, जब कि प्रथम पर्याय में भी अक्षिपुरुष के रूप में आत्मा का ही निर्देश माना जाय, छाया का नहीं। छाया से भिन्न आत्मा का निर्देश यदि अक्षि में नहीं माना जाता, अपितु प्रजापति के द्वारा छाया को ही आत्मा बताया जाता है, तब प्रजापति में वञ्चकत्व प्रसक्त होता है, क्योंकि आत्मा के जिज्ञासुओं को छायारूप अनात्म पदार्थ में आत्मत्व का उपदेश निरी वञ्चना है, भाष्यकार कहते हैं—"अन्यथा प्रजापतेर्मृषावादित्व- प्रसङ्गात्"। 'छायापुरुष को जीव और उसी का 'एतम्' पद के द्वारा परामर्श क्यों न मान लिया जाय ? इस प्रश्न का उत्तर है—किञ्चाहमद्य स्वप्ने हस्तिनमद्राक्षं नेदानीं तं पश्यामीति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे द्रष्टारं तु तमेव प्रत्यभिजानीते"। 'किञ्च' पद का वहीं प्रयोग किया जाता है, जहाँ पूर्व-दर्शित उपपत्ति के साथ उपपत्त्यन्तर का समुच्चयाभिधान किया जाय। प्रथम उपपत्ति है—शङ्कापूर्वक छाया-निर्देश का निरास और दूसरी उपपत्ति है—प्रत्यभिज्ञा। छाया-पुरुष अस्थायी है, किन्तु यह आत्मा प्रत्यभिज्ञा प्रमाण के द्वारा स्थायी सिद्ध होता है। "नाह खल्वयमेवं सम्प्रत्यात्मानं जानाति—अयमहमस्मीति नो एवेमानि भूतानि"—इस श्रुति का अर्थ यह है कि 'अयं सुषुप्तः, सम्प्रति सुषुप्तावस्थायाम्, अहमात्मानमहंकारास्पद्मात्मानं न जानाति' अर्थात् यह सुषुप्त पुरुष सुषुप्ति अवस्था में अहङ्कारास्पद आत्मा को नहीं जानता। आत्मा को कैसा नहीं जानते ? इस प्रश्न का उत्तर है—"अयमहमस्मि इमानि भूतानि च" अर्थात् जागरण और स्वप्न की अवस्थाओं में जैसा ज्ञान आत्मा और अनात्मा का होता है, सुषुप्ति में वैसा ज्ञान नहीं होता। "न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्"—

३७२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. १९

यत्तु तत्र ‘विनाशमेवापीतो भवति’ इति तदपि विशेषविज्ञानविनाशाभिप्रायमेव न विज्ञातृविनाशाभिप्रायम्, ‘नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ० ४।३।३०) इति श्रुत्यन्तरात् । तथा चतुर्थेऽपि पर्याये ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इत्युपक्रम्य ‘मघवन् मर्त्यं वा इदं शरीरम्’ इत्यादिना प्रपञ्चेन शरीराद्युपाधिसंबन्धप्रत्याख्यानेन संप्रसादशब्दोदितं जीवं ‘स्वेन रूपेणाभिनिष्पद्यते’ इति ब्रह्मस्वरूपापन्नं दर्शयन्न परस्माद् ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयति ।

केचित्तु – परमात्मविवक्षायां ‘एतं त्वेव ते’ इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति – कल्पयन्ति । तेषामेतमिति संनिहितालम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत । भूयःश्रुतिश्चोपरोध्येत, पर्यायान्तराभिहितस्य पर्यायान्तरेऽह्यभिधीयमानत्वात् । ‘एतं त्वेव ते’ इति प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत । तस्माद्यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृभोक्तृरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणं परमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन् । अपरे तु वादिनः पारमार्थि-

भामती

प्रत्यभिज्ञानमुक्तम् । य एवाहं जागरित्वा सुप्तः स एवैतर्हि जागर्मीति । आचार्यदेशीयमतमाह ॐ केचित्तु इति ॐ । यदि ह्येतमित्येनेनानन्तरोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्यात्मत्वमुच्येत ततो न भवेच्छायापुरुषः, न त्वेतदस्ति । वाक्योपक्रमसूचितस्य परमात्मनः परामर्शात् , न खलु जीवात्मनोऽपहतपाप्मत्वादिगुणसम्भव इत्यर्थः । तदेतद् दूषयति ॐ तेषामेतम् इति ॐ । सुबोधम् । मतान्तरमाह ॐ अपरे तु वादिनः इति ॐ । यदि न जीवः कर्त्ता भोक्ता च वस्तुतो भवेत् , ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । सूत्रकारवचनं च नासम्भवादिति कुप्येत । तत् खलु ब्रह्मणो गुणानां जीवेऽसम्भवमाह । न चाभेदं

भामती-व्याख्या

इस श्रुति के द्वारा अविनाशित्व हेतु को सिद्धवत् मानकर सुषुप्ति से उठे व्यक्ति की यह प्रत्यभिज्ञा प्रस्तुत की गई है कि ‘जो मैं जागते-जागते सुषुप्ति में चला गया था, वही मैं फिर जाग गया हूँ’।

वेदान्त के किसी एकदेशी आचार्य का मत दिखाया जाता है – “केचित् तु”। अक्षिपुरुष-निर्देश के अनन्तर पठित “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” – इस श्रुति में ‘एतं’ पद के द्वारा उपक्रमस्थ और बुभुत्सित परमात्मा का ही परामर्श करना चाहिए, अक्षिपुरुषरूप जीव का नहीं, क्योंकि यदि अव्यवहित पूर्व-कथित चक्षुराधिष्ठानक पुरुष का परामर्श करके उसमें आत्मत्व का अभिधान करते, तब छायापुरुष का अभिधान न होता, किन्तु व्यवहितरूपेण वाक्य के उपक्रम में ही निर्दिष्ट परमात्मा का ‘एतं’ पद से परामर्श किया गया है, जीवात्मा का नहीं, क्योंकि जीवात्मा में अपहतपाप्मत्वादि गुण सम्भव नहीं। कथित एकदेशी आचार्य के मत में दोषाभिधान किया जाता है – “तेषामेतमिति सन्निहितालम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत ।” ‘एतत्’ पद समीपतर पदार्थ का परामर्शक होता है, व्यवहित या विप्रकृष्ट पदार्थ का ‘एतं’ पद से परामर्श सर्वथा अनुचित है।

मतान्तर का प्रदर्शन किया जाता है – “अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्ते”। इन आचार्यों का आशय यह है कि यदि जीव वस्तुतः कर्त्ता और भोक्ता नहीं होता, तब जीवात्मा के लिए समस्त कर्म-विधान निरर्थक हो जायगा और वेदान्त-सूत्र में जो

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७३

कमेव चैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित् । तेषां सर्वेषामात्मैकत्वसम्यग्दर्श- नप्रतिपक्षभूतानां प्रतिबोधायेदं शारीरकमारब्धम् । एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति । यच्चेदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारः - नासंभवात् ( ब्र० १।३।१८) इत्यादिना । तत्रायमभिप्रायः - नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम् । तदात्मैकत्व- प्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति परमात्मनो जीवादन्यत्वं द्रढयति । जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किं त्वनुवदत्येवाविद्या- कल्पितं लोकप्रसिद्धं जीवभेदम् । एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते । प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति- 'शास्त्रदृष्ट्या तूपदेशो वामदेववत्' ( ब्र० १।१।३०) इत्यादिना । वर्णितश्चास्माभिर्वि- द्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥

अन्यार्थश्च परामर्शः ॥ २० ॥

अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शितः - 'अथ य एष संप्रसादः' ( छा० ८।३।४ ) इत्यादिः, स दहरे परमेश्वरे व्याख्यायमाने न जीवोपासनोपदेशो न प्रकृत-

भामती

ब्रह्मणो जीवानां ब्रह्मगुणानामसम्भवो जीवेष्विति तेषामभिप्रायः । तेषां वादिनां शारीरकेणैवोत्तरं दत्तम्, तथाहि—पौर्वापर्यपर्यालोचनया वेदान्तानामेकमद्वयमात्मतत्त्वं, जीवास्त्वविद्योपाधानकल्पिता इत्यत्र तात्पर्यमवगम्यते । न च वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु सम्भवन्ति । नो खलु वस्तुसत्या रज्ज्वा धर्माः सेद्ध्व्यादयः समारोपिते भुजङ्गे सम्भविनः । न च समारोपितो भुजङ्गो रज्ज्वा भिन्नः । तस्मान्न सूत्रव्याकोपः । अविद्याकल्पितञ्च कर्तृत्वभोक्तृत्वं यथा लोकसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः श्येनादिविधय इव निषिद्धेऽपि 'न हिंस्यात्सर्वा भूतानि' इति साध्यांशेऽभिचारेऽतिक्रान्तनिषेधं पुरुषमधिकृत्याविद्यावत्पुरुषाश्रयत्वाच्छास्त्रस्येत्युक्तम् । तदिदमाह ॐ तेषां सर्वेषाम् इति ॐ ॥१९॥ ननु ब्रह्म चेदत्र

भामती-व्याख्या

कहा गया है—"नासम्भवात्" ( ब्रा. सू. १।३।१८ )। वह भी असंगत हो जायगा, क्योंकि इस सूत्र-खण्ड के द्वारा ब्रह्म के अकर्तृत्वादि धर्मों का जीव में असम्भव प्रतिपादित है । ब्रह्म से जीवों का अभेद मानने पर ब्रह्म के गुणों का जीव में असंभव नहीं हो सकता । इस मत का निराकरण करते हुए कहा गया है—"तेषां प्रतिबोधाय शारीरकमारब्धम्" । सारांश यह है कि वेदान्त-वाक्यों के पौर्वापर्य की आलोचन करने पर उनका तात्पर्य एक, अद्वय आत्मतत्त्व में स्थिर होता है और अविद्यारूप उपाधि के द्वारा उसी में जीवभाव की कल्पना हो जाती है। ब्रह्म के वास्तविक गुणों का समन्वय काल्पनिक जीव में सम्भव नहीं हो सकता, क्योंकि रज्जु के वास्तविक ग्राह्यत्वादि गुण आरोपित सर्प में सम्भव नहीं होते । अनारोपित रज्जु से भिन्न भी नहीं होता, अतः 'नासम्भवात्'—इस सूत्रांश का विरोध उपस्थित नहीं होता । अविद्या-कल्पित कर्तृत्व-भोक्तृत्व को लेकर लोक-प्रसिद्ध आत्मा के लिए कर्म-विधानों का वैसे ही औचित्य हो जाता है, जैसे "न हिंस्यात् सर्वा भूतानि" ( कूर्मपु. उत्तर. १६। ) इत्यादि वाक्यों के द्वारा निषिद्ध साध्यरूप हिंसा के साधन-विधान—"श्येनेनाभिचरन् यजेत" ( षड्विंश. १।८ ) इत्यादि । विधि-शास्त्रों की प्रवृत्ति तो अज्ञानी पुरुषों को लेकर मानी गई है—"अविद्यावद्विषयाणि शास्त्राणि च" ( शां. भा. १।१।१ ) ॥ १९॥

यदि ब्रह्म ही दहराकाश है, तब 'सम्प्रसाद' पद के द्वारा जीव का परामर्श किस

३७४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. २२

विशेषोपदेश इत्यनर्थकत्वं प्राप्नोतीति, अत आह—अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी । किं तर्हि ? परमेश्वरस्वरूपपर्यवसायी । कथम् ? संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपद्य विशेषविज्ञानत्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते । यदस्योपसंपत्तव्यं परं ज्योतिर्येन स्वेन रूपेणायमभिनिष्पद्यते स एष आत्माऽपहतपाप्मत्वादिगुण उपास्य इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते ॥ २० ॥

अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥

यदप्युक्तम् 'दहरोऽस्मिन्नन्तराकाशः' इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य त्वराग्रोपमितस्याल्पत्वमवकल्पत इति, तस्य परिहारो वक्तव्यः । उक्तो ह्यस्य परिहारः परमेश्वरस्यापेक्षिकमल्पत्वमवकल्पत इति 'अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च' ( ब्र० १।२।७ ) इत्यत्र । स एवेह परिहारोऽनुसंधातव्य इति सूचयति । श्रुत्यैव चेदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया 'यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः' इति ॥ २१ ॥


( ६ अनुकृत्यधिकरणम् । सू० २२–२३ )

अनुकृतेस्तस्य च ॥ २२ ॥

'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ( मु० २।२।१० ) इति समामनन्ति । यत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति, स किं तेजोधातुः कश्चि-

भामती वक्तव्यं कृतं जीवपरामर्शनेत्युक्तमित्यत आह—अन्यार्थश्च परामर्शः जीवस्योपाधिकल्पितस्य ब्रह्मभाव उपदेष्टव्यः, न चासौ जीवमपरामृश्य शक्य उपदेष्टुमिति तिसृष्ववस्थासु जीवः परामृष्टस्तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्शयितुमित्यर्थः ॥ २० ॥ निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ २१ ॥

भामती-व्याख्या लिए ? इस प्रश्न का उत्तर है—"अन्यार्थश्च परामर्शः"। उपाधि-कल्पित जीव में ब्रह्मरूपता का उपदेश तब तक नहीं किया जा सकता, जब तक कि जीव का परामर्श न किया जाय, अतः जाग्रदादि तीनों अवस्थाओं में जीव का परामर्श किया गया है कि जीवभाव का प्रविलयन और पारमार्थिक ब्रह्मभाव का सामञ्जस्य किया जा सके ॥ २० ॥

यह जो कहा गया है कि "दहरोऽस्मिन्नन्तराकाशः'—इस वाक्य के द्वारा प्रतिपादित दहरत्व (अल्पत्व) का समन्वय ब्रह्म में क्योंकर होगा ? इस प्रश्न का उत्तर पहले ही दिया जा चुका है—"अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न, निचाय्यत्वादेवं व्योमवच्च" (ब्र. सू. १।२।७) अर्थात् व्यापकीभूत ब्रह्म का उपलब्धि हृदय अल्प है ॥ २१ ॥

विषय—"न तत्र सूर्यो भाति न चन्द्रतारकम्, नेमा विद्युतो भान्ति, कुतोऽयमग्नि । तमेव भान्तमनुभाति सर्वम्" (मुण्ड. २।२।१०) ।

सन्देह—उक्त श्रुति से प्रतिपादित भासक पदार्थ क्या सूर्यादि से भिन्न कोई तेजोधातु है ? अथवा ब्रह्मज्योति ?

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७५

द्रुत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुतः ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात् । तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमानेऽहनि न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते । अनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात्, गच्छन्तमनुगच्छतीतिवत् । तस्मात्तेजोधातुः कश्चित् ।

भामती

अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः ।
तेजो धात्वन्तरं तस्मादनुकाराच्च गम्यते ॥

वलीयसा हि सौर्येण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभिभूयमानं दृष्टं, न तु तेजसोऽन्येन । येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते । श्रूयते च 'तस्य भासा सर्वमिदं विभाति' इति । सर्वशब्दः प्रकृतसूर्याद्यपेक्षः । न चातुल्यरूपेणानुभानमित्यनुकारः सम्भवति । नहि गावो वराहानुधावन्तीति कृष्णविहङ्गानुधावनमुपपद्यते गवाम्, अपि तु तादृशशूकरानुधावनम् । तस्माद्यद्यपि 'यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्' इति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजो धातुरवगम्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः । तत्र तं तस्येति च सर्वनामपदानि प्रदर्शनीयमेवावचक्षयन्ति । न च तच्छब्दः पूर्वोक्तपरामर्शीति नियमः समस्ति । न हि 'तेन रक्तं रागात्' 'तस्यापत्यम्' इत्यादौ पूर्वोक्तं किञ्चिदस्ति । तस्मात्प्रमाणान्तराप्रतीतमपि तेजोऽन्तरमलौकिकं शब्दादुपास्यत्वेन गम्यते ।


भामती-व्याख्या

पूर्वपक्ष—

अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः ।
तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते ॥

चन्द्र, नक्षत्रादि का अभिभव तज्जातीय सूर्यरूप तेज से ही देखा जाता है, अन्यजातीय धातु से नहीं। प्रदीपादि प्रकाश के आवरक जो गृह, घटादि पदार्थ देखे जाते हैं, वे अपने प्रकाश से प्रदीपादि का प्रकाश नहीं करते, किन्तु प्रकृत में “तस्य भासा सर्वमिदं विभाति”—ऐसा कहा गया है। यहाँ 'सर्व' पद के द्वारा लोक-प्रसिद्ध सूर्यादि समस्त भासक पदार्थों का संग्रह किया गया है। “तमेव भान्तमनुभाति सर्वम्”—यहाँ जिस मूल भासक ज्योति का अनुभान या अनुकरण सूर्यादि में प्रतिपादित है, वह भास्यभूत सूर्यादि का समानरूप (सजातीय) ही होना चाहिए, विरूप (विजातीय) नहीं, जैसे कि एक गौ दूसरी गौ या वराहादि का ही अनुगम कर सकती है, काले पक्षियों का नहीं। अतः यद्यपि “यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्” (मुण्ड. २।२।५) इस वाक्य से प्रतिपादित ब्रह्म प्रक्रान्त है, तथापि अभिभव और अनुभानात्मक सामर्थ्यरूप लिङ्ग प्रमाण के द्वारा प्रकरण का बाध करके सजातीय भासक तेजो धातु की ही अवगति होती है, ब्रह्म की नहीं। अन्यथा लिङ्ग प्रमाण की अनुपपत्ति हो जायगी। 'तत्र', 'तं' और 'तस्य'—ये सर्वनाम पद भी प्रदर्शनीय तेजो धातु के ही परामर्शक हो जाएँगे। 'तत्' शब्द पूर्वोक्त का ही परामर्शी होता है—ऐसा कोई नियम नहीं, क्योंकि “तेन रक्तं रागात्” (पा. सू. ४।२।१) और “तस्यापत्यम्” (पा. सू. ४।१।९२) इत्यादि सूत्रों में प्रयुक्त 'तत्' पद के द्वारा किसी पूर्व-चर्चित पदार्थ का ग्रहण नहीं किया जाता। अतः किसी प्रमाणान्तर से अप्रतीत भी अलौकिक तेजोऽन्तर उपास्यत्वेन तदादि शब्दों के द्वारा अवगमित है।

३७६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. २२

इत्येवं प्राप्ते ब्रूमः—प्राज्ञ एवात्मा भवितुमर्हति। कस्मात्? अनुकृतेः। अनुकरणमनुकृतिः। यदेतत् 'तमेव भान्तमनुभाति सर्वम्' इत्यनुभानं, तत्प्राज्ञपरिग्रहेऽवकल्पते। 'भारूपः सत्यसंकल्पः' (छा० ३।१४।२) इति हि प्राज्ञमात्मानमामनन्ति। न तु तेजोधातुं कांचत्सूर्यादयोऽनुभान्तीति प्रसिद्धम्। समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमम्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः। नहि प्रदीपः प्रदीपान्तरमनुभाति।

यदप्युक्तं—समानस्वभावकेष्वनुकारो दृश्यत इति। नायमेकान्तो नियमः,


भामती

इति प्राप्ते। उच्यते — ब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके। तस्माच्च तदुपास्यत्वं ब्रह्म ज्ञेयं तु गम्यते ॥

तमेव भान्तमित्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्यादीनामनुभानमुपपाद्यताम् , किंवा भारूपः सत्यसङ्कल्प इति श्रुत्यन्तरसिद्धेन ब्रह्मणो भानेन सूर्यादीनां भानमुपपाद्यतामिति विशये न श्रुतसम्भवेऽश्रुतस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति, तदेतदाह ॐ प्राज्ञ एवात्मा भवितुमर्हति ॐ। विरोधमाह ॐ समत्वाच्च इति ॐ। ननु स्वप्रतिभाने सूर्यादयश्चक्षुषं तेजोपेक्षन्ते, नह्यन्धैनेते दृश्यन्ते। तथा तदेव चाक्षुषं तेजो बाह्यसौर्यादितेजआप्यायितं रूपादि प्रकाशयति नानाप्यायितम्, अन्धकारेऽपि रूपदर्शनप्रसङ्गादित्यत आह ॐयं भान्तमनुभायुरिति ॐ। न हि तेजोऽन्तरस्य तेजोऽन्तरापेक्षां व्यासेधामः, किन्तु तद्द्वानमनुभानम्। न च लोचनभानमनुभान्ति सूर्यादयस्तद्विदुमुक्तम् ॐ नहि प्रदीप इति ॐ। पूर्वपक्षमनुभाष्य व्यभिचारमाह ॐ यदप्युक्तम् इति ॐ।


भामती-व्याख्या

सिद्धान्त— ब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके। तस्मान्न तदुपास्यत्वं ब्रह्म ज्ञेयं तु गम्यते ॥

"तमेव भान्तम्"—यहाँ क्या अलौकिक तेज की कल्पना करके सूर्यादिगत अनुभाव का उपपादन किया जाय ? अथवा "भारूपः सत्यसङ्कल्पः" (छां. ३।१४।२) इत्यादि अन्य श्रुतियों में प्रसिद्ध ब्रह्म के भान का ही सूर्यादि में अनुभान सम्पन्न किया जाय ? इस प्रकार का सन्देह उपस्थित होने पर श्रुत (श्रुति-प्रतिपादित) पदार्थ की उपलब्धि सम्भव होते हुए अश्रुत पदार्थ की कल्पना उचित नहीं मानी जाती, अतः यहाँ अत्यन्त अप्रसिद्ध अलौकिक तेजो धातु को उपास्य मानना उचित नहीं, अपितु श्रुति-प्रसिद्ध ब्रह्म-ज्योति ही ज्ञेय है, यही भाष्यकार ने कहा है—"प्राज्ञ एवात्मा भवितुमर्हति"। अर्थात् जगत् की मौलिक भासक ब्रह्म ज्योति ही है, क्योंकि "तमेव भान्तमनुभाति सर्वम्"—इत्यादि श्रुतियों से प्रतिपादित अनुकरणीय भान की उपपत्ति उसी में ही सम्भव है। ब्रह्म ज्योति से ही अनुप्राणित होकर सूर्यादि जगत् के अनुभासक माने जाते हैं। अलौकि तेजोऽन्तर के द्वारा सूर्यादि अनुप्राणित नहीं हो सकते, क्योंकि दोनों समान तैजस पदार्थ हैं, अतः कौन किसकी अपेक्षा करेगा—इसमें विनिगमना सम्भव नहीं, भाष्यकार कहते हैं—"समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमम्यं प्रत्यपेक्षाऽस्ति"।

यह जो शङ्का होती है कि सूर्यादि को अपना प्रतिभान कराने में चक्षुरादिरूप तेजोऽन्तर की अपेक्षा देखी जाती है, क्योंकि अन्धे व्यक्ति सूर्यादि को नहीं देख सकते। उसी प्रकार चाक्षुष तेज भी बाह्य सूर्यादि प्रकाशों की सहायता से ही रूपादि का प्रकाशक होता

सर्वभासकस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७७

भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते । यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्त- मनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । 'अनुकृतेः' इत्यनुभानमसूसूचत् । 'तस्य च' इति चतुर्थं पादमस्य श्लोकस्य सूचयति । 'तस्य भासा सर्वमिदं विभाति' इति, तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति । 'तद्देवा ज्योतिषां ज्योति- रायुर्होपासतेऽमृतम्' (बृ० ४।४।१६) इति हि प्राज्ञमात्मानमामनन्ति, तेजोऽन्तरेण सूर्यादितेजो विभातीत्यप्रसिद्धं विरुद्धं च, तेजोऽन्तरेण तेजोऽन्तरस्य प्रतिघातात् । अथवा—न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते । किं तर्हि ? 'सर्वमिदम्' इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य याऽभिव्यक्तिः सा ब्रह्मज्योतिःसत्तानिमित्ता । यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्या- भिव्यक्तिस्तद्वत् । 'न तत्र सूर्यो भाति' इति च 'तत्र' शब्दमाहरन्प्रकृतग्रहणं दर्शयति ।

भामती

एतदुक्तं भवति — यदि स्वरूपसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभिचारः । अथ क्रियासा- म्याभावं, सोऽसिद्धः । अस्ति हि वायुरजसोः स्वरूपविसदृशयोरपि नियतदिग्देशवहनक्रियासाम्यम् । वह्न्ययःपिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् । तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजते ॐ तस्य च इति ॐ । ॐ चतुर्थं इति ॐ । ॐ ज्योतिषाम् ॐ सूर्यादीनाम् । ॐ ब्रह्म ज्योतिः ॐ प्रकाशकमित्यर्थः । तेजोऽन्तरेणानिन्द्रिय- भावमापन्नेन सूर्यादितेजो विभातीत्यप्रसिद्धम् । सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः । सा तेजोधातावलोकिके रूपमात्रप्रकाशके सङ्कुचेत् । ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः सङ्कुचतीति । ॐ तत्र शब्दमाहरन् इति ॐ । सर्वत्र खल्वयं तच्छब्दः पूर्वोक्तपरामर्शी । 'तेन रक्तं रागात्'

भामती-व्याख्या

है, अन्यथा अन्धकार में भी चक्षु के द्वारा रूप-दर्शन क्यों नहीं होता ? उस शङ्का का निरास किया जाता है—"यं भान्तमनुभायुः"। यहाँ तेजोऽन्तर को तेजोऽन्तर की अपेक्षा का निरास नहीं किया जाता, अपितु उसके भान और अनुभान का । आँखों के भासकत्व का अनुकरण (अनुभासकत्व) सूर्यादि में उपलब्ध नहीं होता, यही भाष्यकार कहते हैं—"न हि प्रदीपः प्रदीपान्तरमनुभाति"। पूर्वपक्षी के द्वारा कथित नियम में व्यभिचार प्रदर्शित करते हैं— "यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यते इति, नायमेकान्तो नियमः"। आशय यह है कि स्वरूप-साम्य न होने के कारण अनुकरण का निराकरण किया जाता है, तब व्यभिचार है और यदि क्रिया का साम्याभाव होने के कारण विश्व के पदार्थों में अनुकार का निरास किया जाता है, तब असिद्धि है, क्योकि वायु और धूलिकणों में वैसा सादृश्य न रहने पर भी क्रिया- साम्य उपलब्ध होता है। अग्नि और अयःपिण्ड में यद्यपि दहन क्रिया भिन्न नहीं, तथापि द्रव्य के भेद से क्रियाभेद की कल्पना करके क्रिया-साम्य की व्याख्या की जा सकती है।

'अनुकृतेः'—इस सूत्र-खण्ड की व्याख्या करके 'तस्य च'— इस सूत्रांश की व्याख्या की जाती है—"तस्य चेति चतुर्थं पादमस्य श्लोकस्य सूचयति।" "ज्योतिषां ज्योति।"—इस श्रुति-वाक्य का अर्थ है—सूर्यादि ज्योतियों की प्रकाशक ब्रह्मज्योति है। भाष्यकार ने जो कहा है—"तेजोऽन्तरेण सूर्यादितेजो विभातीत्यप्रसिद्धम्"। वहाँ तेजोऽन्तरेण का 'इन्द्रियत्वमना- पन्नेन'—ऐसा विशेषण लगाना आवश्यक है, क्योंकि इन्द्रियभावापन्न चक्षुरूप तेजोन्तर से सूर्यादि तेजोन्तर का विभान लोक-प्रसिद्ध है। अलौकिक तेजोधातु का ग्रहण करने पर निःशेषाभिधायक 'सर्व' शब्द का रूपमात्र-प्रकाशक अर्थ में सङ्कोच करना पड़ता है, किन्तु ब्रह्म का उपादान करने पर 'सर्व' शब्द की वृत्ति में किसी प्रकार का सङ्कोच नहीं करना

४८

३७८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. २ सू. २२

प्रकृतं च ब्रह्म 'यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्' (मु० २।२।५) इत्यादिना । अनन्तरं च 'हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्य- दात्मविदो विदुः' इति । कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम्- 'न तत्र सूर्यो भाति' इति । यदप्युक्तं - सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नव- कल्पते सूर्ये इवेतरेषामिति । तन्न तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम् । ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पते । यतः यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषो-

भामती

इत्यादावपि प्रकृते परस्मिन् प्रत्ययेऽर्थभेदेऽन्वाख्यायमाने प्रातिपदिकप्रकृत्यर्थस्य पूर्ववृत्तत्वमस्तीति । तेनेति तत्परामर्शान्न व्यभिचारः । तथा च सर्वनामश्रुतिरेव ब्रह्मोपस्थापयति । तेन भवतु नाम प्रकरणालिङ्गं बलीयः, श्रुतिस्तु लिङ्गाद् बलीयसीति । श्रौतमिह ब्रह्मैव गम्यत इति । अपि चापेक्षितानपेक्षिताभिधानयोर- पेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याह ॐ अनन्तरं च हिरण्मये परे कोशे इति ॐ । अस्मिन् वाक्ये ज्योतिषां ज्योतिरित्युक्तं, तत्र कथं तज्ज्योतिषां ज्योतिरित्यपेक्षायामिदमुपतिष्ठते ॐ न तत्र सूर्य इति ॐ । स्वातन्त्र्येण तूच्यमानेऽनपेक्षितं स्याददृष्टार्थमिति ॐ ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पत इति ॐ । अयमभिप्रायः-

भामती-व्याख्या

पड़ता ऐसा भाष्यकार कह रहे हैं- "तत्र शब्दमाहरन् प्रकृतग्रहणं दर्शयति, प्राकृतं च ब्रह्म" । यह 'तत्' शब्द सर्वत्र पूर्वोक्त का ही परामर्शक होता है, "तेन रक्तं रागात्" (पा० स० ४।२।१) इत्यादि स्थलों पर भी प्रकृति से पर-प्रयुक्त प्रत्यय के अर्थ-विशेष का अन्वाख्यान करते समय प्रातिपदिक रूप प्रकृति का अर्थ पूर्वोक्त है, अतः 'तेन' पद के द्वारा उसो रागादि का ग्रहण किया जाता है, अतः उक्त नियम में किसो प्रकार का व्यभिचार सम्भव नहीं। फलतः तदादि सर्वनाम शब्द ही ब्रह्म के उपस्थापक है। निरपेक्ष शब्द को ही श्रुति प्रमाण कहा जाता है। पहले यह समझा जाता था कि ब्रह्म का प्रकरण होने के कारण प्रकरण प्रमाण ब्रह्म का उपस्थापक है, किन्तु भान-अनुभानरूप शब्द-सामर्थ्यात्मक लिङ्ग प्रमाण से अलौकिक तेजोधातु की कल्पना की जाती है। प्रकरण प्रमाण से पूर्वभावी होने के कारण लिङ्ग प्रमाण प्रकरण का बाधक होता है, अतः अलौकिक तेजोऽन्तर धातु को ही जगत् का भासक मानना होगा । अब यह निष्कर्ष निकाला जा सका है कि प्रकृत में परमेश्वर का प्रापक प्रकरण प्रमाण नहीं, अपितु श्रुति प्रमाण है अर्थात् "तमेव भान्तमनुभाति सर्वम्", "तस्य भासा सर्वमिदं विभाति"-इत्यादि वाक्यों में प्रयुक्त 'तम्' और 'तस्य' इत्यादि सर्वनाम शब्द ही परमेश्वर के बोधक हैं, निरपेक्ष शब्द ही श्रुतिप्रमाण कहे जाते हैं। अतः लिङ्ग प्रमाण प्रकरण से प्रबल होने पर भी श्रुति से दुर्बल है, अतः श्रुति प्रमाण-प्रापित ब्रह्म ही वह तेज है, जिसके प्रकाश से समस्त जगत् प्रकाशित है।

दूसरी बात यह भी है कि "न तत्र सूर्यो भाति" (मुण्ड० २।२।१०) इस वाक्य से पूर्व "हिरण्मये परे कोशे विरजं ब्रह्म निष्कल, तच्छुभ्रं ज्योतिषां ज्योतिः" (मुण्ड० २।२।९) इस वाक्य में जो ब्रह्म को ज्योतियों की ज्योति कहा गया है, उसमें आकाङ्क्षा होती है कि 'कथं ज्योतिषां ज्योतिर्ब्रह्म?' इस आकाङ्क्षा को शान्त करने के लिए "न तत्र सूर्यो भाति"- यह कहा गया है। अब यदि इस वाक्य के द्वारा अलौकिक तेजोधातु का अभिधान किया जाता है, तब वह पूर्व वाक्य में अपेक्षित या आकांक्षित नहीं और यदि ब्रह्म का प्रतिपादन किया जाता है, तब वह आकांक्षिताभिधान है। अपेक्षित (आकांक्षित) और अनपेक्षित (अनाकां- क्षित) में अपेक्षित का अभिधान न्यायोचित और दृष्टार्थक होने के कारण ग्राह्य है किन्तु अलौकिक तेजोधातु का अभिधान अदृष्टार्थक होने के कारण अग्राह्य है । "ब्रह्मण्यपि तेषां भान-

सर्वभासकस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७९

पलभ्यते, ब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वाद् ; येन सूर्यादय- स्तस्मिन्भायुः। ब्रह्म ह्यन्यद्व्यनक्ति, नतु ब्रह्मान्येन व्यज्यते, 'आत्मनैवायं ज्योतिषाऽऽस्ते' (बृ० ४।३।६), 'अगृह्यो नहि गृह्यते' (बृ० ४।२।४) इत्यादि- श्रुतिभ्यः ॥ २२ ॥

अपि च स्मर्यते ॥ २३ ॥

अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु - "न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥" (गी० १५।६) इति, 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि माम कम्' (गी० १५।१२) इति च ॥ २३ ॥

( ७ प्रमिताधिकरणम्। सू० २४-२५ ) शब्दादेव प्रमितः ॥ २४ ॥

भामती न तत्र सूर्यो भातीति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत। अपि तु विषय- सप्तमी। तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति, तच्च स्वयंप्रकाशम् ॐ अगृह्यो नहि गृह्यत इत्यादिश्रुतिभ्यः इति ॐ ॥ २२ ॥

ॐ न तद्भासयते इति ॐ । ब्रह्मणोऽग्राह्यत्वमुक्तं, ॐ यदादित्यगतम् ॐ इत्यनेन तस्यैव ग्राह- कत्वमुक्तमिति ॥ २३ ॥


नाञ्जसा मानभेदोऽस्ति परस्मिन् मानवर्जिते। भूतभव्येशिता जीवे नाञ्जसी तेन संशयः ॥

भामती-व्याख्या प्रतिषेधोऽवकल्पते"-इस भाष्य का अभिप्राय यह है कि- "न तत्र सूर्यो भाति"। इस श्रुति के 'तत्र' पद में "सप्तम्याः त्रल्" (पा० सू० ५।३।१०) इस सूत्र के द्वारा सप्तमी विभक्ति के स्थान में 'त्रल्' प्रत्यय विहित है। यहाँ सप्तमी विभक्ति यदि सति सप्तमी होती, तब 'तस्मिन् अलौ- किके भौतिके तेजसि) 'सति सूर्यो न भाति' अर्थात् उस पूर्वपक्षोक्त अलौकिक तेज के रहने पर सूर्यादि प्रकाशित नहीं होते, अपितु दिन में तारों के समान अभिभूत हो जाते हैं- ऐसा अर्थ करके अलौकिक तेजोन्तर की कल्पना की जा सकती थी। किन्तु वहाँ सति सप्तमी प्रकरण के अनुकूल नहीं, अतः विषयसप्तमी मानने पर तत्र ( ब्रह्मणि) अर्थात् ब्रह्मरूप विषय का प्रकाशक सूर्य नहीं हो सकता, ब्रह्मप्रकाशकत्वेन सूर्यादि का भान सम्भव नहीं, प्रत्युत सूर्यादि ज्योतियों का ब्रह्म ही प्रकाशक है और वह (ब्रह्म) स्वयंप्रकाश है, किसी अन्य प्रकाश के द्वारा प्रकाशित नहीं, श्रुति कहती है- "अगृह्यो न हि गृह्यते" (बृ० उ० ४।२।४) ॥२२॥

भाष्यकार ने इस तेईसवें सूत्र में भगवद्गीता के जो दो वाक्य उद्धृत किए हैं, उनमें "न तद्भासयते सूर्यो न शशाङ्को न पावकः"-इस वाक्य के द्वारा ब्रह्म में अग्राह्यत्व (अप्रकाशकत्व) और 'यदादित्यगतं तेजो जगद् भासयते'-इस वाक्य के द्वारा ब्रह्म में ग्राहकत्व (प्रकाशकत्व) प्रतिपादित है ॥ २३ ॥


विषय- "अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति" (कठो० ४।२), अङ्गुष्ठमात्रः

३८० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. २४

'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इति श्रूयते। तथा 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत्' (का० २।४।१३) इति च। तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, स किं विज्ञानात्मा, किंवा परमात्मेति संशयः। तत्र परिमाणोपदेशात्तावद्विज्ञानात्मेति प्राप्तम्। न ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणमुपपद्यते। विज्ञानात्मनस्तूपाधिमत्त्वात्संभवति कयाचित्क-


भामती

किमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्व्याख्यायताम्, आहोस्वदीशामश्रुत्यनुग्रहाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नींयताम्, तत्रान्यतरस्यान्यतरानुरोधविषये प्रथमानुरोधो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशानश्रुतिर्ने॑तव्या। अपि च युक्तं हृत्पुण्डरीकदहरस्थानस्वं परमात्मनः, स्थानभेदनिवेशात्। तद्धि तस्योपलब्धिस्थानं शालग्राम इव कमलनाभस्य भगवतः। न च तथेहाङ्गुष्ठमात्रश्रुत्या स्थानभेदो निर्दिष्टः, परिमाणमात्रनिर्देशात्। न च मध्य आत्मनीत्यत्र स्थानभेदोऽवगम्यते। आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात्। तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्य इति। न च जीवपरयोरस्ति मध्यमंक्षसेति नैव स्थाननिर्देशो विस्पष्टः, स्पष्टस्तु परिमाणनिर्देशः। परिमाणभेदश्च परस्मिन्न


भामती-व्याख्या

पुरुषो ज्योतिरिवाधूमकः' (कठो० २।४।१३) इत्यादि श्रुतियों में 'अङ्गुष्ठमात्र' शब्द का अर्थ विचारणीय है।

संशय— उक्त श्रुतियों में जीवात्मा और परमात्मा का संशय इसलिए हो गया कि—

नाञ्जसा मानभेदोऽस्ति परस्मिन् मानवर्जिते।
भूतभव्येशिता जीवे नाञ्जसी तेन संशयः ॥

अर्थात् यदि यहाँ परमात्मा (ब्रह्म) का ग्रहण किया जाता है, तब उसमें श्रुति-प्रतिपादित अङ्गुष्ठमात्रता रूप परिमाण विशेष का सामंजस्य नहीं होता, क्योंकि ब्रह्म को परिमाणातीत माना जाता है और यदि जीव का ग्रहण किया जाता है, तब उसमें 'ईशानो भूतभव्यस्य'—इस प्रकार कथित भूत-भावी सकल प्रपञ्च की ईशिता (शासकता) नहीं घटती। अतः यहाँ सन्देह हो जाता है कि क्या उक्त श्रुति-वाक्यों में कथित अङ्गुष्ठमात्र परिमाण के बल पर जीव का उपास्यत्वेन प्रतिपादन मानकर जीव में भूत-भावी जगत् की ईशिता का कथञ्चित् समन्वय किया जाय ? अथवा मुख्य ईशितृत्व के अनुरोध पर ब्रह्म का प्रतिपादन मानकर ब्रह्म में औपाधिक रूप से अङ्गुष्ठमात्रता का समन्वय किया जाय ?

पूर्वपक्ष—जहाँ दो वाक्यों में परस्पर अनुरोध की अपेक्षा होती है, वहाँ प्रथम वाक्य का अनुरोध पहले न्यायोचित माना जाता है, अतः अङ्गुष्ठमात्रता का मुख्यरूप से सामञ्जस्य करने के लिए जीव का प्रतिपादन मान कर भूत-भावी प्रपञ्च की ईशिता का जीव में ही समन्वय किया जाना उचिततर है। इतना ही नहीं, यहाँ परमात्मा का प्रतिपादन मानने पर विगत दहराधिकरण से पुनरुक्ति भी हो जाती है, क्योंकि जैसे दहर (स्वल्प) परिमाण के हृदय में उपलब्ध होने के कारण ब्रह्म को दहराकाश कहा जा सकता है, वैसे ही अङ्गुष्ठमात्र परिमाण के हृदय में उपास्य होने के कारण ब्रह्म को 'अङ्गुष्ठमात्रः पुरुषः' कहा जा सकता है, उपलब्धि-स्थान में उपलभ्यमान का व्यवहार शालग्राम में विष्णु-व्यवहार के समान लोकप्रसिद्ध है।

प्रकृत में 'अंगुष्ठमात्र' शब्द के द्वारा किसी उपलब्धि-स्थान का निर्देश नहीं, अपितु परिमाण-विशेष का उल्लेख किया गया है। 'मध्य आत्मनि'—इस वाक्य के द्वारा भी किसी

[ अङ्गुष्ठमात्रपुरुषस्य ब्रह्मत्वम् ]हिन्दीसहितभामतीसंवलितम्३८१

ल्पनायाऽङ्गुष्ठमात्रत्वम्। स्मृतेश्च—'अथ सत्यवतः कायात्पाशबद्धं वशं गतम्। अङ्गुष्ठ- मात्रं पुरुषं निष्ककर्ष यमो बलात्॥' (म० भा० ३।२९७।१७) इति। नहि परमेश्वरो बलाद्यमेन निष्क्रष्टुं शक्यः। तेन तत्र संसार्यङ्गुष्ठमात्रो निश्चितः, स एवेहापीत्येवं

भामती सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः, स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः अन्तःकरणञ्च प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठ- मात्रो नभ इव वंशपर्वावच्छिन्नमरत्निमात्रम्। अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं स्मर्यते—'अङ्गुष्ठ- मात्रं पुरुषं निष्ककर्ष यमो बलात्।' इति। नहि सर्वेशस्य ब्रह्मणो यमेन बलात्निष्कर्षः कल्पते। यमो हि जगौ—'हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः' इति। तेनाङ्गुष्ठमात्रत्वस्य जीवे निश्चयाद् आपेक्षिकं किञ्चिद् भूतभव्यं प्रति जीवस्येशानत्वं व्याख्येयम्। एतद्वै तदिति च प्रत्यक्षजीवरूपं परामृशतीति। तस्माज्जीवात्मैवात्रोपास्य इति प्राप्तेऽभिधीयते —

भामती-व्याख्या स्थान विशेष की अवगति नहीं होती, क्योंकि वहाँ 'आत्म' शब्द या तो स्वभावार्थक होगा, या जीवार्थक. अथवा ब्रह्माभिधायी। उनमें स्वस्य भाव, स्वभावः'—इस व्युत्पत्ति के अनुसार स्वभाव एक ऐसा धर्म है, जो कि 'स्व' शब्द से अभिमत धर्मी ( भविता ) की अपेक्षा करता है, किन्तु किसी धर्मी का निर्देश न होने के कारण यह नहीं जाना जा सकता कि 'मध्ये स्वभावे' - यहाँ किसके भाव का मध्य विवक्षित है ? जीवात्मा और परमात्मा दोनों निरंश हैं. अतः उनमें मध्यता ( मध्यभागता ) का सामञ्जस्य नहीं हो सकता। फलतः 'मध्ये आत्मनि' - इस वाक्य के द्वारा किसी स्थान ( उपलब्धि-केन्द्र) का निर्देश नहीं हो सकता। हाँ, 'अंगुष्ठमात्रः' पद के द्वारा परिमाणविशेष का उल्लेख अत्यन्त स्पष्ट है। अंगुष्ठमात्रतारूप परिमाणविशेष परमात्मा का सम्भव नहीं, अतः जीवात्मा ही 'अंगुष्ठमात्रः पुरुषः' कहा गया है, क्योंकि वह (जीव) ब्रह्म का अन्तःकरणरूप उपाधि से कल्पित (अवच्छिन्न) एक भाग है। अन्तःकरणरूप आन्तर इन्द्रिय का हृदय गोलक है और मनुष्यों का हृदय प्रायः उनके अंगूठे के परिमाण का होता है, अतः उस (हृदय-कमलस्थ अन्तःकरण) से अवच्छिन्न जीव भी अंगुष्ठमात्र वैसे ही कहा जाता है, जैसे अरत्नि मात्र ( कनिष्ठिका को सीधा रखते हुए मुष्टि-बन्धे हाथ के परिमाणवाली) बाँस की पोरी से अवच्छिन्न आकाश को अरत्निमात्र।

इतना ही नहीं महाभारतगत सत्यवान् के उपाख्यान में जीवात्मा को स्पष्टरूप से अंगुष्ठमात्र कहा गया है—

ततः सत्यवतः कायात् पाशबद्धं वशंगत:। अंगुष्ठमात्रं पुरुषं निष्ककर्ष यमो बलात्॥ (म. भार. ३।१९७।१७)

अर्थात् यमराज ने पाश में बन्धे हुए सत्यवान् के शरीर से अंगूठे मात्र के जीवात्मा को बलपूर्वक खींच कर निकाल लिया। ब्रह्म का किसी शरीर से खींच कर निकालना सम्भव नहीं, क्योंकि वहाँ यमराज ने ही कहा है — "प्रभवति संयमने ममापि विष्णुः" ( ) अर्थात् परमेश्वर तो हमारा ( यम का ) भी नियमन करता है, वह किसी के भी नियन्त्रण में नहीं, सर्वथा स्वतन्त्र है। फलतः अंगुष्ठमात्रता जीव में ही पर्यवसित होती है, उसके अनुरोध पर यत्किञ्चित् भूतादि पदार्थों की ईशानता ( शासकता) जीव में घटाई जा सकती है या ध्यान के लिए सर्वेशिता का निर्देश माना जा सकता है। दूसरी बात यह भी है कि "एतद्वै तत्" (कठो. २।४।१३) इस वाक्य के द्वारा प्रत्यक्षतः जीव का परामर्श किया गया है, क्योंकि उसके पूर्व "येयं प्रेते विचिकित्सा"—इस प्रकार जीव के विषय में ही सन्देह प्रस्तुत किया गया है।

३८२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २५

प्राप्ते ब्रूमः—परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति। कस्मात्? शब्दात्, ‘ईशानो भूतभव्यस्य’ इति। नह्यन्यः परमेश्वराद् भूतभव्यस्य निरङ्कुशमीशिता। ‘एतद्वै तत्’ इति च प्रकृतं पृष्टमिहानुसंदधाति। एतद्वै तद्यत्पृष्टं ब्रह्मेत्यर्थः। पृष्टं चेह ब्रह्म ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (का० १।२।१४) इति। शब्दादेवेति, अभिधानश्रुतेरेवेशान इति परमेश्वरोऽयं गम्यत इत्यर्थः ॥ २४ ॥

कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः—

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥

सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते।


भामती

प्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥

इह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते। प्राक् पृष्टं चात्र ब्रह्म, अन्यत्र धर्मादन्यत्राधर्मादित्यादिना। तदनन्तरस्य सन्दर्भस्य तत्प्रतिवचनतोचितेति एतद्वै तदिति ब्रह्माभिधानं युक्तम्। तथा चाङ्गुष्ठमात्रतया यद्यपि जीवोऽवगम्यते, तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम्। एवं निरङ्कुशमीशानत्वं न सङ्कोचयितव्यम्। न च ब्रह्मप्रश्नोत्तरता हातव्या, तेन यथा तत्त्वमसीति विज्ञानात्मनस्त्वम्पदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्यत इति युक्तम् ॥ २४ ॥

सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्य इति ❖। जीवाभिप्रायम्। न चान्यः परमात्मन


भामती-व्याख्या

सिद्धान्त—'अंगुष्ठमात्र' शब्द के द्वारा ब्रह्म का ही निर्देश मानना चाहिए, क्योंकि—

प्रश्नोत्तरत्वाद् ईशानश्रवणस्याविशेषतः।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः॥

“अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृताद्। अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद् वद” (कठो० १।२।१४) इस प्रश्न के उत्तर में कहा गया है—“अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत्॥” (कठो० २।४।१३)। अर्थात् जिस अतीतानादि समस्त प्रपञ्च के नियन्ता परमेश्वर के विषय में प्रश्न किया गया है, वह निर्धूम ज्योति के समान देदीप्यमान अंगुष्ठमात्र हृदय में उपलब्ध होनेवाला यह पर ब्रह्म ही है—इस प्रकार प्रश्नोत्तररूप में प्रतिपादित ब्रह्म ही अंगुष्ठमात्र पुरुष है, क्योंकि उसमें ही निखिल प्रपञ्च का निरंकुश शासकत्व है और ब्रह्मविषयक प्रश्न के उत्तर वाक्य के द्वारा प्रतिपादित है। ब्रह्मविषयक प्रश्न के उत्तर में ब्रह्म का ही प्रतिपादन उचिततर है। यद्यपि 'अंगुष्ठमात्र' शब्द के द्वारा सहजत: जीव प्रतीत होता है, तथापि यहाँ 'अंगुष्ठमात्र' शब्द जीवपरक नहीं, किन्तु अंगुष्ठमात्रक जीव की ब्रह्मरूपता के प्रतिपादन में उसका तात्पर्य निश्चित होता है। इस प्रकार न तो निरंकुश ईशानता का संकोच करने की आवश्यकता रह जाती है और न प्रश्न और उत्तर वाक्यों की ब्रह्मपरता का परित्याग करना पड़ता है। अतः जैसे 'तत्त्वमसि'—इस वाक्य के द्वारा त्वं पदार्थभूत जीव और तत्पदार्थरूप ब्रह्म की एकता का प्रतिपादन किया जाता है, वैसे ही यहाँ भी अंगुष्ठ परिमाण के जीव की ब्रह्मरूपता का प्रतिपादन “ईशानो भूतभव्यस्य”—इस वाक्य के द्वारा किया जाना युक्ति-युक्त है॥ २४॥

“सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्य”—इस भाष्य में सर्वगत ब्रह्म का

अङ्गुष्ठमात्रपुरुषस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३८३

आकाशस्येव 'वंशपर्वापेक्षमरत्निमात्रत्वम्। नह्यञ्जसाऽतिमात्रस्य परमात्मनोऽङ्गुष्ठ- मात्रत्वमुपपद्यते। न चान्यः परमात्मन इह ग्रहणमर्हतीशानशब्दादिभ्य इत्युक्तम्। ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तर- मुच्यते—मनुष्याधिकारत्वादिति। शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति, शक्तत्वादर्थित्वादपर्युदस्तत्वादुपनयनादिशास्त्राच्चेति वर्णितमेतदधिकारलक्षणे (जै० ६।१)। मनुष्याणां च नियतपरिमाणः कायः। औचित्येन नियतपरिमाणमेव चैषा- मङ्गुष्ठमात्रं हृदयम्। अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठ- मात्रत्वमुपपन्नं परमात्मनः। यदप्युक्तं—परिमाणोपदेशात्स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति, तत्प्रत्युच्यते—'स आत्मा तत्त्वमसि' इत्यादिवत्संसारिण एव सतोऽ-


भामती

इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः। ॐ मनुष्यानेव इति ॐ त्रैवर्णिकानेवेति। ॐ अर्थित्वाद् इति ॐ अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति। ॐ शक्तत्वाद् इति ॐ तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्त्तयति ॐ उपनयनादिशास्त्राच्च इति ॐ शूद्राणामनधिकारितां दर्शयति ॐ यदप्युक्तं परिमाणोपदेशात् स्मृतेश्च इति ॐ । यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते। ननु परमात्मैवोच्यताम् , उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः। परिहरति ॐ तत्प्रत्युच्यते


भामती-व्याख्या

जो हृदय में अवस्थान कहा है, वह जीवभावापन्न ब्रह्म के अभिप्राय से कहा है, अन्यथा 'सर्वगतस्य हृदयेऽवस्थानम्'—ऐसा कहना परस्पर विरुद्ध पड़ जाता है, अतः यहाँ 'सर्वगतं यद् ब्रह्म जीवभावापन्नस्य तस्य हृदयेऽवस्थानम्'—ऐसी योजना विवक्षित है। “न चान्यः परमात्मन इह ग्रहणमर्हति”—इस भाष्य का अर्थ है—“अंगुष्ठमात्रः पुरुषः' एतद्वाक्यं जीवपरं न भवति", अर्थात् उक्त वाक्य के घटकीभूत 'अंगुष्ठमात्र' पद के द्वारा जीव का निर्देश होने पर भी पूरा वाक्य जीवपरक नहीं हो सकता, क्योंकि 'सर्वेशानत्व का जीव में सामञ्जस्य नहीं होता। “शास्त्रं मनुष्यानेवाधिकरोति”—इस भाष्य में 'मनुष्य' पद केवल त्रैवर्णिकपरक है, क्योंकि अपशूद्राधिकरण (जै. सू. ६।१।२५) में निश्चय किया गया है कि “स्वाध्यायोऽ- ध्येतव्यः”—इत्यादि विधि वाक्यों का ब्राह्मण, क्षत्रिय और वैश्य'—इन तीन वर्णों को ही अधिकारी माना गया है। श्रौत कर्म के अधिकारी व्यक्ति के (१) अर्थित्व (कामनारूप) (२) शक्तत्व, (३) अनिषिद्धत्व, (४) उपनयनादि संस्कार-युक्तत्व—ये चार विशेषण माने गए हैं। उनमें अर्थित्व विशेषण के द्वारा अन्तःसंज्ञक (स्थावरादि एवं निष्काम मुमुक्षु पुरुषों का काम्य कर्मों में अधिकार निवृत्त (निषिद्ध) किया गया है, शक्तत्व विशेषण के द्वारा तिर्यक् (पशु-पक्ष्यादि), देवगण एवं ऋषिगणों का कर्म में अधिकार वर्जित किया गया है, क्योंकि जैसे मनुष्य इन्द्रादि देवों के उद्देश्य से हविरादिगत स्वत्व का त्याग (याग) कर सकते हैं, वैसे इन्द्रादि देवगण अपने उद्देश्य से स्वत्व का त्याग और परस्वत्वा-पादन नहीं कर सकते। वसिष्ठादि ऋषिगण भी आर्षेयवरण के अवसर पर अपने से भिन्न वसिष्ठादि का वरण नहीं कर सकते। उपनयनादि संस्कारों द्वारा शूद्रादि असंस्कृत मनुष्यों का कर्म में अधिकार समाप्त किया गया है। जैमिनि-सूत्रों के छठे अध्याय में अधिकार की विस्तृत चर्चा की गई है।

“यदप्युक्तं परिमाणोपदेशात्”—इस भाष्य के द्वारा जो इस शङ्का का अनुवाद किया गया है कि 'यदि उक्त वाक्य ब्रह्मपरक है, तब उसमें जीव का निर्देश क्यों किया गया? ब्रह्म का ही निर्देश करना चाहिए था, किन्तु जीव का निर्देश अंगुष्ठमात्र' शब्द के द्वारा किया

३८४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २६

ङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति । द्विरूपं हि वेदान्तवाक्यानां प्रवृत्तिः, क्वचित्पर- मात्मस्वरूपनिरूपणपरा, क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा । तदत्र विज्ञाना- त्मनः परमात्मनैकत्वमुपदिश्यते, नाङ्गुष्ठमात्रत्वं कस्यचित् । एवमेवार्थं परेण स्फुटी- करिष्यति—'अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः। तं स्वाच्छ- रीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्' ( का० २।६।१७ ) इति ॥२५॥


( ८ देवताधिकरणम् । सू० २६-३३ )

तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥

अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तं, तत्प्रसङ्गेनेद- मुच्यते । बाढम्, मनुष्यानधिकरोति शास्त्रम्, नतु मनुष्यानेवेतीह ब्रह्मज्ञाने नियमो- ऽस्ति । तेषां मनुष्याणामुपरिष्ठान्थे देवादयस्तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यते । कस्मात् ? संभवात् । संभवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् । तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालोच- नादिनिमित्तम् । तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो


भामती

इति ॐ । जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , न च तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥


देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वय लक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह ॐ अङ्गुष्ठमात्रश्रुतिः इति ॐ । स्यादेतद् — देवादीनां विविधविचित्रानन्दभोगभागिनां वैराग्याभावान्नाथित्वं ब्रह्मविद्यायामित्यत आह ॐ तत्रार्थित्वं तावन्मोक्षविषयम् इति ॐ । क्षयातिशय- योगस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः । ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसन्निकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्यतया सामर्थ्याभावेन नाधिकार इत्यत आह ॐ तथा सामर्थ्यमपि तेषाम्


भामती-व्याख्या

जाता है, अतः उक्त वाक्य जीवपरक ही है, ब्रह्मपरक नहीं।' उस शङ्का का परिहार किया जाता है—"तत्प्रत्युच्यते" । आशय यह है कि जीव के ब्रह्मत्वरूप वास्तविक स्वरूप का उपदेश विवक्षित है, वह जीव के स्वरूप का अभिधान न करके नहीं किया जा सकता, अतः 'अङ्गुष्ठमात्र' शब्द के द्वारा जीव का अभिधान किया गया है ॥ २५ ॥


'इन्द्रादि देवताओं को भी ब्रह्मज्ञान में अधिकार है'—यह विचार यद्यपि इस समन्व- याध्याय में संगत नहीं, तथापि प्रासङ्गिक संगति को लेकर वह विचार किया गया है-ऐसा भाष्यकार कह रहे हैं—"अंगुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया, मनुष्याधिकारत्वाच्छास्त्रस्येत्यु- क्तम्, तत्प्रसङ्गेनेदमुच्यते।" 'देवगण स्वर्ग के विविध आनन्दप्रद भोगों में लिप्त हैं, उन्हें उससे वैराग्य न होने के कारण ब्रह्मविद्या में प्रवृत्ति क्योंकर होगी ?' इस शङ्का का समाधान है—"तत्रार्थित्वं तावत् मोक्षविषयं देवादीनामपि सम्भवति"। अर्थात् स्वर्ग-सुखादि में भी क्षयित्व और उत्कर्षापकर्षभाव (न्यूनाधिकरूपता) आदि दोषों के कारण वैराग्य हो जाता है, वैराग्य हो जाने पर मोक्षार्थिता सम्भव हो जाती है। 'देवगणों का शरीरादि न होने के कारण इन्द्रियार्थ-सन्निकर्ष-सापेक्ष प्रमाणादि व्यवहार क्योंकर होगा ? एवं वेदाध्ययनादि सामर्थ्य का अभाव होने के कारण ज्ञान में भी अधिकार कैसे होगा ? इस प्रश्न का उत्तर है—"तथा

देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ३८५

विग्रहवत्त्वाद्यवगमात् । न च तेषां कश्चित्प्रतिषेधोऽस्ति । नचोपनयनशास्त्रेणैषामधि- कारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् । तेषां च स्वयं प्रतिभातवेदत्वात् । अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति - 'एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास' ( छा० ८।११।३ ), 'भृगुर्वे वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म' ( तै० ३।१ ) इत्यादि । यदपि कर्मस्वनधिकारकारणमुक्तम् - 'न देवानां देवतान्तराभावात्' ( जै० ६।१।६ ) इति, 'न ऋषीणामार्षेयान्तराभावात्' ( जै० ६।१।७ ) इति । न तद्विद्यास्वस्ति । न हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किंचि- त्कृत्यमस्ति । न च भृग्वादीनां भृग्वादिसगोत्रतया । तस्माद्देवादीनामपि विद्यास्वधि- कारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुद्धयते ॥ २६ ॥

भामती

इति ॐ । यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते । ननु शूद्रवदुपनयनासम्भवेनाध्ययना- भावात्तेषामनधिकार इत्यत आह ॐन चोपनयनशास्त्रेण इतिॐ । न खलु विधिवद् गुरुमुखादवगृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं निगमनिरुक्त-व्याकरणादिविदितपदतदर्थसङ्गतेरधिगत- शाब्दन्यायतत्त्वस्य पुंसः स्मर्य्यमाणः स च मनुष्याणामिह जन्मनीव देवादीनां प्राचि भवे विधिवदधीतीनाम् आम्नाय इह जन्मनि स्मर्य्यमाणोऽत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः । न च कर्मानधिकारे ब्रह्मविद्यानानधिकारो भवतीत्याह ॐ तदपि कर्मस्वनधिकारकारणमुक्तम् इति ॐ । वस्वादीनां हि न वस्वा- द्यन्तरमस्ति, नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥ २६ ॥

भामती-व्याख्या

सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वावगमात्" । मन्त्रादि के द्वारा देवों के विग्रहादि का प्रतिपादन विस्तारपूर्वक आगे किया जा रहा है । उपनयनादि संस्कारों की आवश्यकता देवताओं को नहीं, क्योंकि वेदाध्ययन के लिए ब्राह्मणादि का उप- नयन किया जाता है किन्तु वेदाध्ययन के बिना ही देवताओं को स्वभावतः वेदार्थ-ज्ञान होता है--'तेषां च स्वयं प्रतिभातवेदत्वात्' । आशय यह है कि सविधि गुरु-मुख से वेद का अध्ययन कर लेनेमात्र से वेदार्थ का पूर्ण ज्ञान नहीं होता, अपितु अध्ययन के पश्चात् निघण्टु, निरुक्त, व्याकरणादि की सहायता से जिस व्यक्ति ने पद-पदार्थ-संगति का सम्यक् ज्ञान प्राप्त कर लिया है, उस पुरुष के द्वारा स्मर्यमाण वेद अभिलषित वेदार्थरूप कार्य का यथावत् ज्ञान उत्पन्न करता है । वह स्मर्यमाण वेद-मनुष्यों का तो इसी जन्म में अधीत होता है, किन्तु देवताओं का पूर्वजन्म में अधीत वेद इस जन्म में स्मर्यमाण होकर कर्मावबोधक होता है । इसीलिए देवताओं का वेद स्वयं प्रतिभात कहा जाता है । कर्म में अधिकार न होने के कारण ज्ञान में भी अधिकार नहीं होता—ऐसा नहीं कह सकते, क्योंकि भाष्यकार कहते हैं- "यदपि कर्मस्वनधिकारकारणमुक्तम्-'न देवानां देवतान्तराभावात्" (जै० सू० ६।१।६) । इति न तद्विद्यास्वस्ति" । अर्थात् जैसे कर्म में इन्द्रादि देवताओं के लिए ऐन्द्रादि कर्मों में अपने से भिन्न इन्द्रादि देवताओं की अपेक्षा होती है, वैसे ज्ञान में किसी प्रकार की वैसी अपेक्षा नहीं होती । वस्वादि देवों को वसुदेवताक कर्म में अधिकार इसलिए नहीं कि उनसे भिन्न वस्वादि देवताओं की सत्ता नहीं मानी जाती, किन्तु ज्ञान में सभी देवताओं को अधिकार निराबाध है ॥ २६ ॥
४९

३८६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २७

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥

स्यादेतत्, यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत । विग्रहवत्त्वादित्त्वागादिवदिन्द्रादीनामपि स्वरूपसंनिधानेन कर्माङ्गभावोऽभ्युपगम्येत । तदा च विरोधः कर्मणि स्यात् । नहीन्द्रादीनां स्वरूपसंनिधानेन यागेऽङ्गभावो दृश्यते । नच संभवति; बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसंनिधानानुपपत्तेरिति चेत्, नायमस्ति विरोधः, कस्मात् ? अनेकप्रतिपत्तेः । एकस्यापि देवतात्मनो युगपदनेक-


भामती

मन्त्रादिपदसमन्वयात्प्रतीयमानोऽर्थः प्रमाणान्तराविरोधे सत्युपेयः, न तु विरोधे। प्रमाणान्तर- विरुद्धं चेदं विग्रहवत्त्वादिकंदेवतायाः, तस्माद्यजमानः प्रस्तर इत्यादिवदुपचरितार्थो मन्त्रादिर्व्याख्येयः । तथा च विग्रहाद्यभावाच्छब्दोपहितार्थोऽर्थोपहितो वा शब्दो देवतेत्यचेतनत्वान्नैतस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।

निराकरोति ❖न, कस्माद् ? अनेकरूपप्रतिपत्तेः । सैव कुत इत्यत आह ❖दर्शनात् । श्रुतिषु स्मृतिषु च । तथा ह्येकस्यानेककायनिर्माणमदर्शनाद्वा न युज्यते, बाधदर्शनाद्वा ? तत्रादर्शनमसिद्धं, श्रुति- स्मृतिभ्यां दर्शनात् । न हि लौकिकेन प्रमाणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति । मा भूद्यागादीनामपि स्व- र्गादिसाधनत्वमदृष्टमिति । मनुष्यशरीरस्य मातापितृसंयोगजत्वनियमात् असति पित्रोः संयोगे कुतः संभवः ?


भामती-व्याख्या

शङ्का—मन्त्र, अर्थवाद, इतिहास और पुराणादि के घटकीभूत पदों के द्वारा प्रतीयमान वस्तु-तत्त्व को तभी स्वीकृत किया जा सकता है, जब कि किसी अन्य प्रमाण का विरोध न होता हो, किन्तु देवताओं के शरीरादि का प्रतिपादन प्रमाणान्तर से विरुद्ध है, अतः देव-विग्रहादि के प्रतिपादक वाक्यों को वैसे ही अर्थवादमात्र मानना होगा, जैसे—"यजमानः प्रस्तरः" (तै. सं. २।६।५।३) यह वाक्य । [ भाष्यकार ने स्पष्ट कहा है—"यच्चोक्तं स्मृत्युपचाराभ्यामर्थदर्शनैर्विग्रहवती भुङ्क्ते चेति । तन्न, स्मृतेर्मन्त्रार्थवादमूलत्वात्" (शाबरभाष्य पृ. १६५३ ) ] शरीरादि से रहित देवता का स्वरूप केवल इन्द्रादि शब्द अथवा उसका यौगिक अर्थ ही माना जा सकता है, जो कि चेतन नहीं, जड़मात्र है, अतः कर्म या ज्ञान में कहीं भी उसको अधिकार नहीं।

समाधान—उक्त शङ्का निराकरण करने के लिए भाष्यकार कहते हैं—"नायमस्ति विरोधः, कस्मात् ? अनेकप्रतिपत्तेः"। एक देवता का समानकालिक अनेक कर्मों में उपस्थित हो जाना प्रमाण-विरुद्ध नहीं, क्योंकि एक देवता अनेक रूप धारण कर सकता है, वैसा ही श्रुतियों और स्मृतियों में देखा जाता है। आशय यह है कि एक देवता की अनेकरूपापत्ति क्या योगिजनों के अनेक काय-निर्माण का अदर्शन होने के कारण नहीं मानी जा सकती ? अथवा अनेकरूपापत्ति में कोई प्रबल बाधक उपलब्ध होता है ? प्रथम हेतु योगियों के अनेक-शरीर-निर्माण का अदर्शन असिद्ध है, क्योंकि श्रुतियों से लेकर स्मृतियों तक योगियों के अनेक शरीर-निर्माण की गाथाएँ प्रसिद्ध हैं। जो पदार्थ आगम प्रमाण से सिद्ध है, वह केवल लौकिक प्रत्यक्षादि प्रमाणों से अनुमोदित न होने के कारण असिद्ध नहीं हो जाता, जैसे कि आगमप्रमाण से प्रमाणित यागादिगत स्वर्ग-साधनता प्रत्यक्षतः अदृष्ट होनेमात्र से निवृत्त नहीं होती।

शङ्का—एक देवता की अनेकरूपापत्ति में बाधक उपलब्ध होने के कारण वह सम्भव नहीं। अनेकरूपापत्ति की बाधक युक्ति यह है कि जो शरीर माता-पिता के संयोग से उत्पन्न होता है, वह शरीर माता-पिता के संयोग के बिना कैसे बन जायगा ? यदि वह अपनी

देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ३८७

स्वरूपप्रतिपत्तिः संभवति । कथमेतदवगम्यते ? दर्शनात् । तथा हि—‘कति देवाः’ इत्युपक्रम्य 'त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा' इति निरुच्य 'कतमे ते' इत्यस्यां

भामती

सम्भवे वाऽनग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् , हन्त किं शरीरत्वेन हेतुना देवाविशरीरमपि मातापितृसंयोगजं सिषाधयिषसि । तथा चानेकान्तो हेत्वाभासः। स्वेदजोद्भिज्जानां शरीराणामतद्धेतु- त्वात् । इच्छामात्रनिर्माणत्वं देहादीनामदृष्टचरमिति चेत् , न, भूतोपादानत्वेनेच्छामात्रनिर्माणत्वासिद्धेः । भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाद्भूतक्रियोत्पत्तौ भूतानां परस्परसंयोगेन नाना- कायसमुत्पादात् । दृष्टा च वशिनं इच्छावशाददृश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकल- प्रेरणम् । न च विषविद्याविदो दर्शनेनाधिष्ठानदर्शनान्नदृष्टव्यवहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठान- मिति वाच्यम् । काचाभ्रपटलपिहितस्य विप्रकृष्टस्य च भौमशनैश्चरादेर्दर्शनेन व्यभिचारात् । असक्ताश्च दृष्टयो देवादीनां काचाभ्रपटलादिभिर्महीमहीधरादिभिर्न व्यवधीयन्ते। न चास्मदादिवत्तेषां शरीरत्वेन व्यवहितविप्रकृष्टार्थादर्शनासम्भवोऽनुमीयत इति वाच्यम् । आगमविरोघिनोऽनुमानस्योत्पादाद्योगात् । अन्त- र्धानं चाञ्जनादिना मनुजादीनामिव तेषां प्रभवतामुपपद्यते, तेन सन्निहितानामपि न क्रतुदेशे दर्शनं भविष्यति । तस्मात् सूक्तमनेकप्रतिपत्तेरिति । ॐ तथा हि कति देवा इत्युपक्रम्य इति ॐ । वैश्वदेवशस्त्रस्य

भामती-व्याख्या

कारण-सम्पत्ति के बिना ही बन सकता है, तब बिना अग्नि के धूम और शब्दादि के बिना ही शाब्दबोधादि कार्य होना चाहिए, किन्तु नहीं होता । इसी प्रकार अपनी सामग्री के बिना अनेक शरीरों की रचना नहीं हो सकती ।

समाधान—देवता के शरीर में यदि शरीरत्वरूप हेतु के द्वारा माता-पितृसंयोग- जन्यत्व सिद्ध किया जाता है, तो वैसा सम्भव नहीं, क्योंकि "यत्र यत्र शरीरत्वम्, तत्र तत्र मातापितृजन्यत्वम्"—यह नियम व्यभिचरित है, जैसे कि जुआँ आदि स्वेदज और वृक्षादि उद्भिज्ज शरीरों में शरीरत्व रहने पर भी मातापितृसंयोगजन्यत्व नहीं होता । फिर भी उपादानकारणीभूत पृथिव्यादि भूतों के विना इच्छामात्र के द्वारा भौतिक शरीर का निर्माण क्योंकर होगा ? इस प्रश्न का उत्तर यह है कि योगिजनों की इच्छा 'भूतजातमन्तरा शरीरं जायताम्'—ऐसी नहीं होती अपितु भूतवर्ग उनके वश में होते हैं, अतः उनका भूतों को सीधा आदेश होता है कि 'भूतानि शरीरमारभन्ताम्', फलतः परस्पर संयुक्त पाँच भूतों के द्वारा अभीष्ट शरीरों की रचना वैसे ही हो जाती है, जैसे सर्पादि के विष को उतारनेवाले मान्त्रिक की इच्छा से विष के परमाणु सक्रिय होकर नीचे उतरने लग जाते हैं । मान्त्रिक को जैसे रोगी के शरीर में विष की तरङ्ग दिखाई देती है, अतः वह उसका अधिष्ठाता ( सञ्चालक ) हो जाता है, वैसे ही योगियों और देवताओं के द्वारा सभी भूत सञ्चालित हो जाते हैं । जैसे शीशा, अभ्रक और मेघादि पारदर्शक-पदार्थों को मानवीय दृष्टि पार कर जाती है, वैसे ही योगियों और देवताओं की दृष्टि पर्वतादि को भी पार कर दूर-दूर तक फैल जाती है। उनकी दृष्टि किसी भी पदार्थ से अवरुद्ध नहीं होती । जब कि साधारण दृष्टि मंगल, बुध और शनैश्चरादि ग्रहों तक पहुँच जाती है, तब योगिजनों की दृष्टि व्यवहित और विप्रकृष्ट पदार्थों को क्यों न ग्रहण कर लेगी ? 'देवादीनां शरीरं न व्यवहितं गृह्णाति, शरीरत्वाद्, अस्मदादिशरीरवत्'—यह अनुमान देवशरीर-प्रतिपादक आगम प्रमाण से बाधित है, अतः इसके द्वारा व्यवहितादि पदार्थों के अदर्शन का अनुमान नहीं किया जा सकता । यागादि-स्थल पर देवता दिखाई इस लिए नहीं देते कि उनमें अन्तर्धान हो जाने की शक्ति वैसे ही होती है, जैसे नेत्र में अभिमन्त्रित अञ्जनादि के प्रयोग से मनुष्यों में अन्तर्धान की शक्ति आ जाती है ।

३८८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २७

पृच्छायाम् ‘महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः’ (बृ० ३।९।१,२) इति निर्ब्रुवतं श्रुतिरेकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति । तथा त्रयस्त्रिंशतोऽपि षडन्तर्भावक्रमेण ‘कतम एको देव इति प्राणः’ इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यै-

भामती

हि निविदि कति देवा इत्युपक्रम्य निविद्वैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येन ॐ त्रयश्च त्री च शता त्रयश्च त्री च सहस्र इति ॐ । निविन्नाम शस्यमानदेवतासंख्यावाचकानि मन्त्रपदानि । एतदुक्तं भवति—वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रशंस्याता इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरं त्रयश्च त्री च शतेत्यादि । यावत्संख्याका वैश्वदेवनिविदि संख्याता देवास्त एतावन्त इति । पुनश्च शाकल्येन कतमे त इति संख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरं महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः । तत्राग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते हि प्राणिनां कर्मफलाश्रयेण कार्यकारणसङ्घात-रूपेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः । कतमे रुद्रा इति दशमे पुरुषे प्राणाः । बुद्धि-कर्मेन्द्रियाणि दश, एकादशं च मन इति । तदेतानि प्राणाः, तद्वृत्तित्वात् । ते हि प्रयाणकाल उत्क्रा-मन्तः पुरुषं रोदयन्तीति रुद्राः । कतम आदित्या इति द्वादशमासाः संवत्सरस्यावयवाः पुनःपुनः परिवर्त-मानाः प्राणभृतामायूंषि च कर्मफलोपभोगं चादाय यन्तीत्यादित्याः । अशनिरिन्द्रः स हि बलं सा हीन्द्रस्य परमा ईशता तया हि सर्वान् प्राणिनः प्रमापयति तेन स्तनयित्नुरशनिरिन्द्रः । यज्ञः प्रजापतिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः । एत एव त्रयस्त्रिंशद्देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्य-दिवां महिमानो न ततो भिद्यन्ते । षडेव तु देवाः । ते तु षडग्निं पृथिवीं चेकीकृत्यान्तरिक्षं वायुं चेकीकृत्य दिवं चादित्यं चेकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति । एत एव च त्रयोऽन्नप्राणयोरन्तर्भवन्तोऽन्न-प्राणौ द्वौ देवौ भवतः । तावप्यध्यर्द्धो देव एकः । कतमोऽध्यर्द्धः । योऽयं वायुः पवते । कथमयमेक

भामती-व्याख्या

श्रुतियों के द्वारा देवताओं का अनेकरूप धारण करना प्रतिपादित है—“अनेकप्रतिपत्तेः”। वैश्वदेवदेवताक शस्त्र (अप्रगीत स्तोत्र) के निवित्संज्ञक मन्त्र में “कति देवाः”—ऐसा प्रश्न उठा कर उत्तर दिया गया है कि “त्रयश्च त्री च शता त्रयश्च सहस्रा” अर्थात् तीन हजार तीन सौ छः। शाकल्य ने फिर प्रश्न उठाया—“कतमे ते?” याज्ञवल्क्य ने उत्तर दिया—“महिमानः एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः” (बृह उ. ३।६।२)। अर्थात् यह तो देवशरीरों का विस्तार है, वस्तुतः देवता तैंतीस ही है—आठ वसु [(१) अग्नि, (२) पृथिवी, (३) वायु, (४) अन्तरिक्ष, (५) आदित्य, (६) द्यु, (७) चन्द्रमा और (८) नक्षत्र], ग्याहर रुद्र (पाँच कर्मेन्द्रिय, पाँच ज्ञानेन्द्रिय और एक मन), बारह आदित्य (१२ मास), इन्द्र और प्रजापति । अग्नि आदि आठों तत्त्व प्राणों को अपने में बसाते या वास के योग्य बनाते हैं, अतः उन्हें वसु कहते हैं। कथित एकादश इन्द्रिय महाप्रयाण के समय जीव को रुलाते (रोदन कराते) हैं, अतः वे रुद्र शब्द से अभिहित किए गए हैं। बारह मास पुरुष की आयु का आदान (क्षय) करने के कारण आदित्य कहे जाते हैं। अशनि (वज्र) ही यहाँ इन्द्र है, क्योंकि वह इन्द्र का वह महान् ऐश्वर्य (बल) है, जिसके द्वारा इन्द्र सभी प्राणियों की मृत्यु कर देता है। यज्ञ एवं यज्ञ के साधनीभूत पशु ही प्रजापति हैं।

ऊपर चर्चित तैंतीस देवता जिन छहः देवताओं के अन्तर्गत होते हैं, वे आठ वसुओं में से अग्नि और पृथिवी एवं अन्तरिक्ष और वायु को एक में मिला देने से छहः सम्पन्न होते हैं। उन छहों में से भी अग्नि और पृथिवी, अन्तरिक्ष और वायु, द्यु और आदित्य का एकीकरण कर देने से तीन ही देवता रह जाते हैं। ये तीनों भी अन्न और प्राण—इन दोनों में

देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ३८९

वैकस्य प्राणस्य युगपदनेकरूपतां दर्शयति । तथा स्मृतिरपि—'आत्मनो वै शरीराणि बहूनि भरतर्षभ ।। योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ।। प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रं तपश्चरेत् ।। संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव ।।' इत्येवंजा- तीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति, किमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेकरूपप्रतिपत्तिसंभवाच्चैकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छतीति । परैश्च न दृश्यतेऽ- न्तर्धानादिक्रियायोगादित्युपपद्यते । अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या— विग्रहवतामपि कर्माङ्गभावचोदनास्वनेका प्रतिपत्तिर्दृश्यते । क्वचिदेकोऽपि विग्रहवान- नेकत्र युगपदङ्गभावं न गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद् भोज्यते । क्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको

भामती

एताध्यर्द्धः, यदस्मिन् सति सर्वमिदमध्यर्द्धाद्वृद्धिं प्राप्नोतीति । तेनाध्यर्द्धं इति । कतम एक इति, स एवाध्यर्द्धः प्राण एको ब्रह्म । सर्वदेवात्मत्वेन बृहत्त्वाद्ब्रह्म तदेव त्यदित्याचक्षते परोक्षाभिधायकेन शब्देन, तस्मादेकस्यैव देवस्य महिमावशाद्युगपदनेकदेवरूपतामाह श्रुतिः । स्मृतिश्च निगदव्याख्याता । अपि च पृथग्जनानामप्युपायानुष्ठानवशात्प्राप्ताणिमाद्यैश्वर्याणां युगपन्नानाकायनिर्माणं श्रूयते, तत्र केव कथा देवानां स्वभावसिद्धानामित्याह ॐ प्राप्ताणिमाद्यैश्वर्याणां योगिनाम् इति ॐ । अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायितेत्यैश्वर्याणि । ॐ अपरा व्याख्या इति ॐ । अनेकत्र कर्मणि युगपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् । तदेव परिस्र्फुटं दर्शयितुं व्यतिरेकं तावदाह ॐ क्वचिदेकः इति ॐ । न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति । एकस्यानेकत्र

भामती-व्याख्या

अन्तर्भुक्त हो जाने पर दो देवता और उन दोनों का एकीकरण करने पर एक ही प्राणरूप देवता रहता है, जिसे अध्यर्ध (वृद्धिगत, बृहत् अथवा बृहंयिता) हो जाने के कारण ब्रह्म है एवं परोक्षार्थक 'त्यत्' पद के द्वारा अभिहित होता है। इस प्रकार श्रुति एक देवता की अनेकरूपता का प्रतिपादन करती है। स्मृतिकारों ने तो अत्यन्त स्पष्ट शब्दों में कहा है कि योगिगण अपने योग बल के द्वारा अपने अनेक शरीर धारण कर सम्पूर्ण पृथिवी पर विचरने लगते हैं। कतिपय शरीरों के माध्यम से विषयोपभोग और कतिपय शरीरों से उग्र तपश्चरण करते हैं। अन्त में योगी अपने उन सभी शरीरों का वैसे ही उपसंहार कर लेता है, जैसे सायं काल में सूर्य अपनी समस्त रश्मियों को समेट लेता है।

(१) अणिमा (अपने शरीर को अत्यन्त सूक्ष्म कर लेना), (२) महिमा (शरीर को विशाल बना लेना), (३) लघिमा (शरीर को रुई से भी हल्का बना लेना), (४) प्राप्ति (पृथिवी पर बैठे-बैठे हाथ को इतना लम्बा कर देना कि चन्द्रादि को भी छू ले), (५) ईशिता (सृष्टि और प्रलय की शक्ति का लाभ), (६) वशिता (समस्त जगत् के नियमन का सामर्थ्य), (७) प्राकाम्य (इच्छा का अनभिघात) और (८) यत्र कामावसायिता (संकल्पित वस्तु का तुरन्त लाभ) इत्यादि सिद्धियाँ जब कि एक साधारण मनुष्य को भी योगबल से मिल जाती हैं, तब आजान-सिद्ध देवताओं के लिए कहना ही क्या ?

"अनेकप्रतिपत्तेर्दर्शनात्"—इस सूत्रांश की अन्य व्याख्या प्रस्तुत की जाती है— "अपरा व्याख्या"। शरीरधारी प्राणियों में भी विविधता पाई जाती है कि कोई व्यक्ति एक ही समय अनेक कर्मों का अङ्ग नहीं बनता, जैसे विभिन्न स्थानों में अनेक यजमानों के द्वारा दिए जानेवाले ब्रह्म-भोजों में एक ब्राह्मण सर्वत्र भाग नहीं ले सकता और कहीं एक ही

३९०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २८

ब्राह्मणो युगपन्नमस्क्रियते। तद्द्विहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवतानां न किञ्चित्कर्मणि विरुध्यते ॥ २७ ॥

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥

मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि। शब्दे तु विरोधः प्रसज्येत। कथम् ? औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य 'अनपेक्षत्वात्' इति वेदस्य प्रामाण्यं स्थापितम्। इदानीं तु विग्रहवती देवताऽभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेकर्मसंबन्धीनि हवींषि भुञ्जीत, तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धे प्रतीय-

भामती

युगपदङ्गभावमाह ॐ क्वचिच्चैक इति ॐ । यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तत्रासन्निहिताया अप्यङ्गभावो भवति। अस्ति हि तस्या युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युपपादितम् ॥२७॥

गोत्वादिष्वत्पूर्वविमर्शाभावादुपाधेरप्येकस्याप्रतीतेः पाचकादिवद् आकाशादिशब्दवद् व्यक्तिवचना एव वस्वाविशब्दाः तस्याश्च नित्यत्वात्तया सह सम्बन्धो नित्यो भवेत्। विग्रहादियोगे तु सावयवत्वेन वस्वादीनाम नित्यत्वात्तः पूर्वं वस्वाविशब्दो न स्वार्थेन सम्बद्ध आसीत् स्वार्थस्यैवाभावात्। ततश्चोत्पन्ने वस्वादौ वस्वाविशब्दसम्बन्धः प्रादुर्भवन् देवदत्ताविशब्दसम्बन्धवत्पुरुषबुद्धिप्रभव इति तत्पूर्वको वाक्यार्थप्रत्ययोऽपि पुरुषबुद्ध्याधीनः स्यात्। पुरुषबुद्धिश्च मानान्तराधीनजन्मेति मानान्तरापेक्षया प्रामाण्यं

भामती-व्याख्या

ब्राह्मण अनेक देश-काल में किए जानेवाले कर्मों का अङ्ग बन जाता है, जैसे विभिन्न देशों में एक ही समय किये जानेवाले नमस्कार कर्मों का एक ही ब्राह्मण अङ्ग ( उद्देश्य ) बन जाता है। ठीक उसी प्रकार अपने नियत स्थान में अवस्थित एक ही देवता के उद्देश्य से विभिन्न यजमानों के द्वारा विविध देशों में अनेक यागों का अनुष्ठान किया जा सकता है, क्योंकि देवता के उद्देश्य से द्रव्य ( हवि ) का त्याग ही याग कहलाता है, उसके लिए देवता का यजमान के सन्निहित होना आवश्यक नहीं, “असन्निहित देवता भी उस त्यागात्मक याग का अङ्ग ( उद्देश्य या सम्प्रदान कारक ) बन जाता है। देवता में यह सामर्थ्य स्वतः सिद्ध है कि वह अपने एक ही स्थान में अवस्थित होकर भी अनेक विप्रकृष्ट ( दूर-दूर ) देशों में किए जानेवाले यागों का साक्षात्कार कर त्यज्यमान हवि को स्वीकार कर ले—ऐसा ऊपर कहा जा चुका है ॥ २७ ॥

इस सूत्र में शङ्कावादी का आशय यह है कि इन्द्रादि देवगण एक-एक व्यक्तात्मक होने के कारण उनमें 'अयं गौः-अयं गौः'—इस प्रकार गोत्व जाति के समान न कोई इन्द्रत्वादि जाति का परामर्श होता है और न आकाशत्वादि के समान किसी अखण्ड उपाधि का भान होता है कि 'आकृत्यधिकरण (जै. सू. १।३।३३) के अनुसार इन्द्रत्वादिजातिरूप नित्य अर्थ के साथ इन्द्रादि शब्दों का नित्य सम्बन्ध उपपन्न होकर अनपेक्षत्वहेतुक प्रामाण्य व्यवस्थित हो जाता, जैसा कि महर्षि जैमिनि ने कहा है—“औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः, तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् (जै. सू. १।१।५)। अर्थात् शब्द का अपने वाच्यार्थ के साथ औत्पत्तिक ( नित्य ) सम्बन्ध होता है, इसीलिए उपदेशात्मक वेद धर्म का ज्ञापक है, क्योंकि वैदिक वाक्यों को धर्म का बोध कराने में अन्य किसी भी प्रमाण की अपेक्षा नहीं होती, किन्तु यदि मनुष्य के समान