भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

२२० आयुर्वेदीयग्रन्थमाला । [परिशिष्टे एतानि समभागानि चूर्णीकृत्य प्रयोजयेत् । रक्तवातारुचिप्लीहोदररोगापनुत्तये ॥ १४ ॥ मन्दाग्नावजमोदाद्यं चूर्णम् । साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली । मद्येन तक्रेण तथोष्णवारिणा चूर्णपानमुदराग्निदीपनम् ॥१५॥ दन्तरोगे जातीपत्राद्यं चूर्णम् । जातीपत्रपुनर्नवातिलकणाकोरण्टपुष्पं वचा । शुण्ठीदीप्यकपध्यकाः समधृतं चूर्णं मुखे धारयेत् ॥ वातघ्नं कफनाशनं कृमिहरं दुर्गन्धिनिर्नाशनं शूलं शोफहरं च रक्तशमनं दतांश्च वज्रायते ॥ १६ ॥ कासे जातीफलाद्यं चूर्णम् । जातीफलं विडङ्गं च चित्रकस्तगरस्तिलाः । तालीसं चन्दनं शुण्ठी लवङ्गं चोपकुञ्चिका ॥ १७ ॥ कर्पूरं चाभया धात्री मरिचं पिप्पली शुभा । एषामक्षसमान् भागान् चातुर्जातकसंयुतान् ॥ १८ ॥ पलानि त्रीणि भृङ्गायाः शर्करा समयोजिता । एतच्चूर्णं तु मधुना कर्षार्धं लेहयेत्तथा ॥ १९ ॥ जयेत्कासं क्षयं श्वासं ग्रहणीमग्निमार्दवम् । वातश्लेष्मोद्भवांश्चान्यान् प्रतिश्यायमरोचकम् ॥ २० ॥ एताः सर्वा रुजो हन्ति वृक्षमिन्द्राशनिर्यथा । दाडिमाद्यं चूर्णम् । दाडिमस्य पलान्यष्टौ शृङ्गवेरपलत्रयम् ॥ २१ ॥ पलद्वयं पिप्पली च कोलचूर्णं पलद्वयम् । यवानी चाजमोदा च मिशिश्चैवाम्लवेतसम् ॥ २२ ॥ वृक्षाम्लं चविका चात्र अभया च पलोन्मिता । सौवर्चलं धान्यकं च सूक्ष्मैला त्वक्तथैव च ॥ २३ ॥

चूर्णाधिकारः ३.] गदनिग्रहः । २२१ ग्रन्थिकं मरिचं चात्र पत्रकं सतुगाह्वयम् । एषामर्धपलान् भागान् सर्वैस्तुल्या सिता भवेत् ॥ २४ ॥ एतन्माकू भोजनाच्चूर्णं दीपनं गुल्मनाशनम् । अर्शांसि ग्रहणीदोषमतीसारं प्रवाहिकाम् । पार्श्वशूलमथानाहं प्रमेहांश्च प्रणाशयेत् ॥ २५ ॥ मन्दाग्नावामलक्यादिचूर्णम् । आमलकवह्निपथ्यामागधिकांसैन्धवैः कृतं चूर्णम् । विनिहन्ति कण्ठरोगं मन्दाग्निं रक्तपित्तमपि ॥ २६ ॥ स्त्रीरोगे मेथिकाद्यं चूर्णम् । मेथिका शतपुष्पा च यवानी मधुयष्टिका । त्रिकटु त्रिफला मुस्ता त्रिजातं च पुनर्नवा ॥ २७ ॥ ऋष्यप्रोक्ता समङ्गा च चन्दनं रक्तचन्दनम् । द्राक्षापुष्करमञ्जिष्ठाः समं चूर्णं प्रकल्पयेत् ॥ २८ ॥ घृतखण्डेन पक्तव्यं काले स्त्रीणां च दापयेत् । वन्ध्यानां गर्भजननं स्त्रीणां बलविवर्धनम् ॥ २९ ॥ रक्तवातप्रशमनं पित्तोपद्रवनाशनम् । त्रिदोषे रुद्धगर्भे च परमं सुखकारकम् ॥ ३० ॥ कामवृद्धौ राजयोगः । अहिफेनं वत्सनागः केशरं चव्यचित्रकम् । धत्तूरभृङ्गशिग्रूणां बीजानि सितजीरकम् ॥ ३१ ॥ कपिकच्छुश्चाश्वगन्धा कलिङ्गकलवङ्गकम् । अजमोदार्ककरभो मुशली च शतावरी ॥ ३२ ॥ पिप्पली पिप्पलीमूलं चातुर्जातकसंयुक्तम् । कटाहे मधुना पक्त्वा कुर्यात्पूगोपमा वटीः ॥ ३३ ॥ भोजनानन्तरं वक्त्रे गुटी धार्या घटीद्वयम् । जातीपत्री विशेषेण धारणीया मुखे सदा ॥ ३४ ॥

६३२ आयुर्वेदौयग्रन्थमाला । क्षाराम्लदधिवर्जं च कार्यं भोजनमुत्तमम् । कुष्ठत्वं स्वल्पवीर्यत्वं हन्याच्छीतमिवानलः ॥ ३५ ॥ अतिसारे प्रमेहे च मन्दाग्नौ राजयक्ष्मणि । आमवाते पाण्डुरोगे महावाते शिरोगदे ॥ ३६ ॥ प्लीह्नि पानीयजे रोगे सर्वाङ्गवात इष्यते । ईश्वरेण भगवता कार्तिकेयाय सुन्दरः ॥ ३७ ॥ एष द्वात्रिंशको नाम योगराजः प्रकीर्तितः । क्षये आभाद्यं चूर्णम् । आभा च धातुमाक्षीकं गिरिजं च त्रिजातकम् ॥ ३८ ॥ जीवर्षभकौ मेदा काकोली पुण्डरीयकम् । व्योषं च वालकं चैव पृथ्वी कालेयकं बिडम् ॥ ३९ ॥ एतानि समभागानि आयसं द्विगुणं क्षिपेत् । शर्करा च समा देया मधुना सह लेहयेत् ॥ ४० ॥ क्षयमेकादशाकारं श्वासं कासं तथैव च । स्वरभेदं पार्श्वशूलं ज्वरं कम्पं च दारुणम् ॥ ४१ ॥ रक्तनिष्ठीवनं तृष्णां पीनसं च हनुग्रहम् । हिध्मां च कण्ठरोगांश्च नाशयेन्नात्र संशयः ॥ ४२ ॥ पिप्पल्याद्यं चूर्णम् । चत्वारि पिप्पलीनां तु पञ्च सौवर्चलोद्भवाः । जीरकस्य त्रयो भागाः शुण्ठ्या भागत्रयं तथा ॥ ४३ ॥ सप्त सप्त स्मृता भागास्तीक्ष्णदाडिमसारयोः । द्वौ भागौ तिन्तिडीकस्य चत्वारश्चाम्लवेतसात् ॥ ४४ ॥ पञ्चागाः सैन्धवस्योक्तास्तथाऽर्धो हिङ्गुतः स्मृतः । निस्तुषानां विडङ्गानामेको भागः प्रकीर्तितः ॥ ४५ ॥ तत्सर्वमेकतः कृत्वा सूक्ष्मचूर्णं तु कारयेत् । लवणं दीपनमिदं वातश्लेष्मविकारनुत् । रुच्यमम्लेन संयुक्तं केवलं वा हितं तथा ॥ ४६

चूर्णाधिकारः ३.] गदनिग्रहः । २२३ मन्दाग्नौ रुचकाद्यं चूर्णम् । रुचकमरिचशुण्ठीजीरकैर्भागवृद्धै- र्बिडलवणविभागः सैन्धवं चापि सार्धम् । कफपवनविकारे शस्यते वातगुल्मे जनयति जठराग्निं भोजने चेत्सतक्रम् ॥ ४७ ॥ मन्दाग्नौ सिंहचूर्णम् । अर्धं हिङ्गुपलं पलं सुविमलं सौवर्चलं द्वे पले प्रत्येकं मरिचाम्लदीप्यलवणाम्भोराशिजातान् क्षिपेत् । शुण्ठ्याश्च त्रिपलं चतुष्पलमपि स्याद्दाडिमं जीरकं श्रीमत्सिंहणभूमिपालकथितं सेव्यं सदेदं बुधैः ॥ ४८ ॥ अर्शसि सूरणाद्यं चूर्णम् । सूरणं दहनं क्षारो मरिचं नागरं क्रमात् । अर्धार्धकमिदं चूर्ण क्षाराम्लार्द्रकभावितम् ॥ ४९ ॥ हन्यादर्शांसि शूलं च गुल्मप्लीहोदरकृमीन् । भुक्तं भुक्तं पचत्याशु शान्तमग्निं च दीपयेत् ॥ ५० ॥ वातरोगे हरीतकीयोगः । धान्यकाञ्जिकयुता हरीतकी हिङ्गुसैन्धवकणासुपूरिता । भक्षिता भवति वातरोगहा हन्त्यजीर्णमथ च क्षुधाकरी ॥ ५१ ॥ विद्रधौ भूनिम्बाद्यं चूर्णम् । भूनिम्बार्धपलं निशापलयुतं दार्व्याः पले द्वे तथा दार्व्यर्धेन पुनर्नवां कुरु समां दार्वीसमः प्रग्रहः । सार्धे दुःस्पर्शया तु कटुका योज्या तदर्धेन वै अश्माहं निशया समानममृता पादाधिकं खात्यलम्॥५२॥ एतद्वत्सकसप्तपर्णसहितं सुश्लक्ष्णचूर्णीकृतं वासायाः स्वरसेन भावितमिदं त्रीन् सप्त वा वासरान् । भूयस्तण्डुलवारिणा प्रमुदितं पेयं पुरःस्थे रवौ एतद्विद्रधिरोगिणां विजयकृत् चूर्णं तु गुह्योत्तमम् ॥ ५३ ॥

२२४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे ज्वरे किराततिक्ताद्यं चूर्णम् । किराततिक्तं त्रिफलापटोलं तिक्तेन्द्रबीजं सुरदारु दार्वीं । व्योषं शठीचन्दनयुग्मनिम्बं दुरालभाचन्दनपद्मकं च ॥ ५४॥ पुनर्नवोशीरविषागुडूचीत्रायन्तिकापिप्पलिमूलतुल्यम् । चूर्णं विलिह्यान्मधुनाऽथ वारिणा तथाऽनुपानं त्वमृतारसेन ५५ ज्वरं पुराणं विनिहन्ति शीघ्रं तृतीयकं वा वमिदाहयुक्तम् । चातुर्थकं चाक्षगतांश्च रोगान् सपीनसं कामलमाशु हन्ति ५६ कासे दुरालभाद्यं चूर्णम्। दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् । लिह्यात्कर्कटशृङ्गीं च कासे तैलेन वातजे ॥ ५७ ॥ ग्रहण्यां पिप्पलीमूलाद्यं चूर्णम् । समूला पिप्पली क्षारौ द्वौ पञ्चलवणानि च । मातुलुङ्गाभयारास्नाशठीमरिचनागरम् ॥ ५८ ॥ कृत्वा समांशं तच्चूर्णं पिबेत्यातः सुखाम्बुना । श्लेष्मके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥ ५९ ॥ ग्रहण्यां कुठेरकाद्यं चूर्णम्। कुठेरकश्चामलकी यवानी फलत्रिकं चैव कटुत्रिकं च । वृन्ताकगण्डीरवृषं सनिम्बं कुष्ठं तथा चेन्द्रयवा विडङ्गम् ६० बीजानि दद्यान्निचुलस्य दार्वी दुरालभा तिक्तकरोहिणी च । दुर्वाग्रगन्धाऽतिविषा गुडूची किराततिक्तं गजपिप्पली च ६१ सर्वाण्युपाहृत्य तु चूर्णमेषां भागांशयुक्तं लवणं द्विरंशम् । अयोरजः स्यात्त्रिगुणं च युक्तं फलत्रिकं स्याच्चतुरंशयुक्तम् ६२ चूर्णीकृतं तद्धृतभाजनस्थं पिबेच्च मद्येन सुखोदकेन । चूर्णं यथासात्म्यबलानुरूपं प्लीहाग्निसादारुचिपार्श्वशूलम्॥६३॥ प्रमेहकुष्ठानथ पाण्डुरोगं हृद्रोगगुल्मं विषमज्वरं च । भगन्दरं श्वासगदांश्च हन्यात् सुदुस्तरान् वातकफोद्भवांस्तु । एतद्धि चूर्णं बलमांसकारि ओजस्करं रोगगणापहारि ॥ ६४॥

चूर्णाधिकारः ३.] गदनिग्रहः । २२५ शोफे अयोरजश्चूर्णम् त्रिफलायास्तु कुडवं पिप्पलीकुडवं तथा । विडङ्गमरिचाभ्यां तु द्वे पले च समावपेत् ॥ ६५ ॥ पलं पलं तु कुर्वीत दन्तीचित्रकयोरपि । गुडूचीपिप्पलीमूलकुष्ठानां च पलं पलम् ॥ ६६ ॥ शृङ्गवेरपले द्वे तु पञ्च चव्यात्पलानि च । शेषाण्यर्धपलीकानि यानि वक्ष्यामि तत्वतः ॥ ६७ ॥ रास्ना स्थिरा गोक्षुरकं मधुकं देवदारु च । वचा चातिविषा चैव मुस्तकं कटुरोहिणी ॥ ६८ ॥ कट्फलं सारिवे द्वे च श्यामा भल्लातकानि च । पुनर्नवा तेजवती त्वचं पत्रं शतावरी ॥ ६९ ॥ निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कूटशाल्मली । निचुलं त्रिवृता भार्गी कुटजस्य फलं त्वचम् ॥ ७० ॥ एतदौषधसंभारं सूक्ष्मचूर्णं तु कारयेत् । यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ॥ ७१ ॥ तदेकत्र कृतं शोफी लेहयेन्मधुसर्पिषा । क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेवनः ॥ ७२ ॥ अयोरजसमित्येतत्ख्यातं सिद्धं रसायनम् । संवत्सरप्रयोगेण शतवर्षं च जीवति ॥ ७३ ॥ निहन्ति श्वयथुं चोग्रं वृक्षमिन्द्राशनिर्यथा । अर्शांसि पाण्डुरोगं च मन्दाग्निं कृमिकोष्ठताम् ॥ ७४ ॥ भगन्दरं च पामां च कुष्ठानि किटिभानि च । यस्मिन् यस्मिन् विकारे हि युज्यते त्वयसो रजः । तं तं निहन्ति वै रोगं देवारीन् केशवो यथा ॥ ७५ ॥ पाण्डुरोगे नवायसं चूर्णम् । किराततिक्तं सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम् । दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकं च ॥ ७६ ।

२२६ आयुर्वेदियग्रन्थमाला । [परिशिष्टे विडङ्गकं चैव समांशकानि सर्वैः समं चूर्णमथापि लौहम् । सर्पिर्मधुभ्यां गुटिका विधेयाः सेव्या सदा वै बदरप्रमाणाः॥७७ निहन्ति पाण्डुं श्वयथुं प्रमेहं हलीमकं संग्रहणीप्रदोषम् । श्वासं च कासं च सरक्तपित्तमर्शांसि चोर्ध्वग्रहमामवातम् ॥७८ प्रवाहिकायां कुटजाद्यं चूर्णम् । कुटजत्वगिन्द्रयवान् पाठां मुस्तं रसाञ्जनं शुण्ठीम् । बालं बिल्वमतिविषां कटुकं वै धातकीं समाहृत्य ॥ ७९ ॥ मधुनाऽऽलोड्य निपीतं तण्डुलपयसा प्रवाहिकां हरति । अर्शांसि गुदे शूलं पित्तरक्तातिसारं च ॥ ८० ॥ गुल्मे समशर्करं चूर्णम् । त्रिवृत्तुल्यार्धकर्षाणि हिङ्गुसौवर्चलत्वचः । श्रेष्ठाऽम्लवेतसव्योषं सर्वैस्तुल्या तु शर्करा ॥ ८१ ॥ समकं नाम तच्चूर्णं पिबेदुष्णेन वारिणा । गुल्मान् पञ्च सहृद्रोगान् कुक्षिशूलं च नाशयेत् ॥ ८२ ॥ शोषे तिलाद्यं चूर्णम् । तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यसंयुतम् । क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ८३ ॥ मन्दाग्नौ आमलकादिचूर्णम् । धात्री भागैकमुक्तं च पथ्या भागत्रयं तथा । कृष्णाभागत्रयं चैव द्वौ भागौ चित्रकस्य च ॥ ८४ ॥ भागैकं सैन्धवस्यैतच्चूर्णमामलकादिकम् । क्षुधाकरमिदं चूर्णं मन्दाग्निं विनिवारयेत् ॥ ८५ ॥ मन्दाग्नौ सौवर्चलाद्यं चूर्णम् । सौवर्चलं कणा शुण्ठी रामठं जीरकद्वयम् । अम्लसोदा च मरिचमम्लवेतसमेव च ॥ ८६ ॥ समभागमिदं चूर्णं मन्दाग्निविनिवारणम् ।

गुटिकाधिकारः ४.] गदनिग्रहः । २२७ मन्दामौ अग्निचूर्णम् । सौवर्चलं सैन्धवं च विडं क्षारः समांशकम् ॥ ८७ ॥ द्विगुणा च कणा शुण्ठी जीरकं षड्गुणं तथा । अग्निचूर्णकमेतच्च वातमन्दाग्निवारणम् ॥ ८८ ॥ मन्दामौ सिंहणचूर्णम् । सौवर्चलं सैन्धवं च सामुद्रं मरिचं तथा । दाडिमसारकं चाम्लवेतसं समभागकम् ॥ ८९ ॥ नागरं त्रिगुणं चैव जीरकं च चतुर्गुणम् । सिंहणं चूर्णमेतच्च मन्दाग्निविनिवारणम् ॥ ९० ॥ इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे चूर्णाधिकारस्तृतीयः । अथातो परिशिष्टो गुटिकाधिकारश्चतुर्थः । क्षतक्षीणे सर्पिर्गुटिका । त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः । वीरर्द्धिक्षीरकाकोलीवृहतीकपिकच्छुभिः ॥ १ ॥ खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः । धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतातपचेत् ॥ २ ॥ शर्कराऽष्टपलं शीते क्षौद्रार्धप्रस्थमेव च । 'दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान् ॥ ३ ॥ यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् । शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम् ॥ ४ ॥ क्षतक्षीणे क्षीरादिलेहगुटिका । नीत्वा विदारिख़रसं चतुःपलमिदं भिषक् । प्रस्थं तित्तिरिमांसस्य रसात् प्रस्थं घृतस्य च ॥ ५ ॥ प्रस्थद्वयं गवां क्षीरं रसादिक्षोस्तथाऽऽढकम् । पाकार्थं प्रक्षिपेद्भाण्डे तत्र कल्कमिमं क्षिपेत् ॥ ६ ॥

२२८ आयुर्वेदियग्रन्थमाला । जीवन्ती चैव काकोल्यौ द्वे मेदे मधुकं तथा । जीवकर्षभकौ मुद्गमाषपर्ण्यौ प्रमाणतः ॥ ७ ॥ प्रत्येकं तत्पलार्धं स्यात्पियालस्य चतुःपलम् । चतुःपलं मधूकानां द्विपला वंशलोचना ॥ ८ ॥ मधुयष्ट्या भवेत् कर्षो अक्षमज्जापलं तथा । कणापलं च खर्जूरं पलानां विंशतिः स्मृतम् ॥ ९ ॥ कल्कं संपेषयेदिक्षो रसैः पूर्वद्रवे क्षिपेत् । मन्दाग्निपाचनाल्लेहीभूते शीते क्षिपेत्सिताम् ॥ १० ॥ विंशत्पलप्रमाणां तु मधुनोऽष्टपलं तथा । अजाजीमरिचानां तु पलमेकं नियोजयेत् ॥ ११ ॥ क्षीरादिलेहगुटिका कासहिक्काज्वरापहा । यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ॥ १२ ॥ शुक्रनिद्राक्षयं तृष्णां हन्यात्कार्श्यं सकामलम् । प्रभावतीवटिका । हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १३ ॥ भद्रमुस्ता विडङ्गानि सप्तमं विश्वभेषजम् । सैन्धवं चित्रकं चैव कुष्ठं पाठा हरीतकी ॥ १४ ॥ एतानि समभागानि छागमूत्रेण पेषयेत् । कोलास्थिका गुटी छायाशुष्का नाम्ना प्रभावती ॥ १५ ॥ अग्निमुखवटी । हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत् । त्रयो भागा विडङ्गानां सैन्धवं च चतुर्गुणम् ॥ १६ ॥ अजाज्याः पञ्चभागाश्च षड्भागाश्चैव नागरात् । मरिचस्य सप्त भागाः पिप्पली चाष्टभागिका ॥ १७ ॥ कुष्ठं नवगुणं प्रोक्तं दशभागा हरीतकी । एकादश तथा वह्नेर्भागा द्वादश दीप्यकात् ॥ १८ ॥

गुटिकाधिकारः ४.] गदनिग्रहः । २२९ गुडेन द्विगुणेनैव गुटिकां कारयेद्बुधः । ततो वातरुजार्तानां नित्यमेव प्रयोजयेत् ॥ १९ ॥ श्वासादौ सूर्यचन्द्रप्रभागुटिका । त्रिकत्रयं हरिद्रे द्वे तिक्ता तिक्तं शठी वचा । वेल्लचित्रकतालीसभार्गीपद्मकजीरकम् ॥ २० ॥ द्वौ क्षारौ पिप्पलीमूलं पटूनि त्रीणि तुम्बरु । देवदारु वचा चव्यं धान्यकं गजपिप्पली । वत्सकातिविषादन्तीश्यामापुष्करकामृताः ॥ २१ ॥ भागोऽमीषां सूक्ष्मचूर्णीकृतानां भागश्चार्धस्तापितरोज्द्भवस्य । तदर्द्धश्या, भागवृद्ध्या परे स्यु- रभ्रं लोहं शैलजं कौशिकश्च ॥ २२ ॥ संमर्द्य गुटिका कार्या सूर्यचन्द्रप्रभाभिधा । पूर्वाह्ने तां प्रयुञ्जीत माक्षिकेण परिप्लुताम् ॥ २३ ॥ अनुपाने प्रयुञ्जीत तक्रं मधु रसोत्तमम् । क्षीरं बदरतोयं वा शर्करामिश्रितं जलम् ॥ २४ ॥ घृतं मूत्रं तथा चाम्लस्वादुदाडिमजं रसम् । कासं श्वासं तथा शोषमरुचिं पार्श्ववेदनाम् ॥ २५ ॥ अर्शांसि कामलां मेहं पाण्डुरोगं हलीमकम् । हृद्रोगं मूत्रकृच्छ्रं च श्वयथुं ग्रहणीगदम् ॥ २६ ॥ यकृत्प्लीहाभिवृद्धिं च कमिं ग्रन्थि भगन्दरम् । श्लीपदं गण्डमालां च व्रणानाडीव्रणानपि ॥ २७ ॥ अतिस्थौल्यातिकार्श्वं च विद्रधीन्पिटिकाश्चपि । नासानेत्राश्रितान्रोगान् शिरोरोगान् सुदारुणान् ॥ २८ मुखरोगानशेषांश्च रक्तपित्तं खरक्षयम् । ज्वरं च सन्निपातोत्थं विषमं चापि पैत्तिकम् ॥ २९ ॥ ३०

२३० आयुर्वेदौयग्रन्थमाला । [परिशिष्टे विंशतिं श्लैष्मिकांश्चैव संसृष्टान् सन्निपातिकान् । निजानृतुभवांश्चैव ये चान्ये नात्र कीर्तिताः । तान् तान् प्रशमयत्येषा वृक्षमन्द्राशनिर्यथा ॥ ३० ॥ मेधां स्मृतिं कान्तिमनामयत्व- मायूःप्रकर्षं पवनानुलोम्यम् । स्त्रीषु प्रहर्षं बलमिन्द्रियाणा- मग्नेश्च कुर्याद्विधिनोपयुक्ता ॥ ३१ ॥ अतीसारे विशल्या गुटिका । फलत्रयं त्र्यूषणजीरकं च कुबेरसंज्ञं पलमात्रमेतत् । पलद्वयं नूतनधूर्तपत्न्याः कर्षैककं चैव विषस्य योज्यम् ॥ ३२ ॥ पलार्धमात्रं करभस्य चूर्ण ततः समेनैव गुडेन योज्यम् । गुटी निबद्धा चणकप्रमाणा नियोजनीया हि सदातिसारे ॥ ३३ ॥ चतुर्विधाजीर्णभयापहर्त्री इयं विशल्या गुटिकेति नाम्ना ॥ ३४ ॥ त्रोटहरी गुटिका । शुण्ठीसक्तुपुनर्नवात्रिफलिकासैरेयशेफालिका- मुस्तावासकनिम्बपत्रकटुकाबोलाश्वगन्धावचाः । व्योषच्छिन्नरुहाविडङ्गसहिताः सर्वाः समांशा बुधै- विंशांशा च महौषधी परिमिता, खण्डस्य विंशांशकाः॥३५॥ तत्तुल्येन च गोघृतेन मधुना सर्वं च संमर्दितं बद्धा तेन शिवाप्रमाणगुटिका श्लेष्माणमुग्रं जयेत् ।

गुटिकाधिकारः ४.] गदनिग्रहः । २३१ क्षीणस्यानिलजानि हन्ति सहसा सर्वप्रमेहांस्तथा नाम्ना त्रोटहरी गुटी च विजया लोके च या विश्रुता ॥३६॥ कासे चन्द्रप्रिया गुटिका । चन्द्रप्रिया लोमशगन्धवत्यौ कटुत्रिकं तिक्तकरोहिणी च । भूनिम्बभार्ग्यौ गिरिमल्लिका च समानभागं खलु सर्वद्रव्यम् । वासारसेनाथ गुटी विधेया सुदुस्तरं चाशु निहन्ति कासम् ॥३७ मुखरोगे खदिरगुटी । जातीफलैलादलकुङ्कुमानि लवङ्गकङ्कोलकपष्कराणि । वराङ्गकर्पूरयुतान्यमूनि समानि भागानि निशाकरस्य ॥ ३८ ॥ भागद्वयं स्यान्मृगनाभिजायाः सपूतिकायः खलु तुर्यभागः । षष्टिर्विभागाः खदिरस्य सारात् भागत्रयं तत्र वरस्य दद्यात् ॥ ३९ ॥ एकीकृतं घृष्टसुचन्दनेन सुकामिनीहस्ततलैः प्रमर्द्य । सुवासितं पुष्पचयैः सुगन्धै- र्वटी कृता स्यान्मुखरोगहन्त्री ॥ ४० ॥ स्त्रीणां प्रमोदं विपुलं ददाति मुखं सुगन्धं विशदं करोति । युवातिरेतः सुभगो जनानां घ्राणप्रियः स्याद्वतिकामिनीनाम् ॥ ४१ ॥ कण्ठं विपञ्चीनिनदेन तुल्यं करोत्यसौ खादिरसंज्ञका वटी ॥ ४२ ॥

२३२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे मुखरोगे द्वितीया खदिरगुटिका । पद्माह्ववक्रागुरुकुङ्कुमैश्च तुल्यांशकैः श्लक्ष्णशिलाविपिष्टैः । सर्वैः समः स्यात्खदिरस्य सारः सारङ्गदर्पस्फटिकाधिवासिताः ॥ ४३ ॥ वल्लप्रमाणा गुटिका विधेया- स्ताः सेविता घ्नन्ति कफप्रमेहम् । हिकाग्निसादारुचिपीनसांश्च रोगानशेषान् खलु चास्य जातान् ॥ ४४ ॥ सूताभ्रहेमसहितां पूर्वोक्तां भक्षयेत्प्रातः । नाम्ना खादिरवटिका कथितेयं सिंहगुप्तेन ॥ ४५ ॥ वातरोगे त्वगाद्या गुटिका । त्वगेला गन्धकश्चैव गुग्गुलुः समभागतः । कुर्याद्वातारितैलेन गुटिका वातरोगिणाम् ॥ ४६ ॥ रसायनार्थे विजयागुटिका । पलत्रयं हरीतक्याश्चित्रकस्य तथैव तु । एलात्वक्पत्रमुस्तानां भागोऽर्धपलिकः स्मृतः ॥ ४७ ॥ व्योषं पिप्पलिमूलं च विषं च पलमात्रकम् । नागकेसरचूर्णं तु कर्षं दद्याद्विचक्षणः ॥ ४८ ॥ रेणुकार्धपलं चात्र रसस्य कर्षमेव च । एतत्संभृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् ॥ ४९ ॥ गुडस्यार्धतुलां दत्त्वादर्व्या सम्यग्विघट्टयेत् । ततस्तु गुटिकाः कृत्वा तस्मात्षष्टिशतत्रयम् ॥ ५० ॥ एकैकां भक्षयेत्प्रातः कृताहारो यथाबलम् । मासेन पलितं हन्ति करोत्यग्निं द्वितीयके ॥ ५१ ॥

गुटिकाधिकारः ४.] गदनिग्रहः । २३३ शुक्रवृद्धिं तृतीये तु बलवर्णप्रसादनम् । हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ५२ ॥ प्लीहानं श्वासकासौ च अन्त्रवृद्धिमरोचकम् । अशीतिं वातजान्रोगान्मूत्रकृच्छ्रं भगन्दरम् ॥ ५३ ॥ प्रमेहान्विंशतिं चैव तथाऽर्शांसि गलग्रहम् । सर्पलूताविषं हन्ति सर्वं स्थावरजङ्गमम् ॥ ५४ ॥ योनिदोषमपस्मारमुन्मादं विषमज्वरम् । बलेन गजतुल्योऽसौ वेगेन तुरगोपमः ॥ ५५ ॥ मायूरस्तु भवेद्गिर्वावाराहश्रोत्र एव च । चटकः स्त्रीविलासेन गृध्रदृष्टिश्च जायते ॥ ५६ ॥ उपयोगात्परं जीवेन्नरो वर्षशतत्रयम् । न चान्ने परिहारोऽस्ति न चाध्वनि न मैथुने ॥ ५७ ॥ ग्राम्यधर्मं च कुर्वाणो भोजनं च यथेच्छया । विजया नाम गुटिका विख्याता रुद्रभाषिता । भक्षयन्ति नरा ये तु तेषां सिद्धिर्न संशयः ॥ ५८ ॥ वातरोगे योगोत्तमा गुटिका । त्र्यूषणं त्रिफला क्षारौ लवणान्यथ चित्रकम् । तालीसं चविकं शृङ्गी निशे द्वे गजपिप्पली ॥ ५९ ॥ एला त्वचं विडङ्गानि पौष्करं नागकेसरम् । ताप्यकं दीप्यको मुस्ता समभागानि कारयेत् ॥ ६० ॥ यावन्त्येतानि द्रव्याणि तावन्मात्रमयोरजः । तावच्छिलाजतुर्देयः सर्वैस्तुल्यस्तु गुग्गुलुः ॥ ६१ ॥ संक्षुद्य गुटिकां कुर्यादक्षमात्रप्रमाणतः । खादेच्चा मधुना युक्त्या तोयक्षीररसाशनः ॥ ६२ ॥ नियन्त्रितं सदा भोज्यं सर्वर्तुषु निरत्ययम् । अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥

२३४ आयुर्वेदियग्रन्थमाला । [परिशिष्टे विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् । उदराणि तथा चाष्टौ श्वयथुं पवनात्मकम् ॥ ६४ ॥ विंशतिं मूत्रकृच्छ्राणि दुष्टनाडीव्रणानि च । हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ६५ ॥ कासं श्वासं तथा हिक्कां हृच्छूलं छर्द्यरोचकम् । गुल्मांश्च पाण्डुरोगं च जयेत्पञ्च प्रकारजम् ॥ ६६ ॥ चत्वारो ग्रहणीदोषाः षडर्शांसि तथैव च । सर्वांस्तान्नाशयत्याशु तमः सूर्योदयो यथा ॥ ६७ ॥ तथाऽर्बुदं गण्डमालां विद्रधिं सभगन्दरम् । हरते सर्वरोगांश्च वृक्षमिन्द्राशनिर्यथा । योगोत्तमेति विख्याता गुटिका वैद्यपूजिता ॥ ६८ ॥ प्रमेहे कर्पूरादिगुटिका । कर्पूरशृङ्गीमनुमत्तबीजं जातीफलं लोहमृताभ्रकं च । रसोऽथ गन्धं त्रपु नागशुल्बे एला विषं धान्यकटुत्रिकं च ॥६९॥ तालीसपत्रं त्वथ नागपुष्पं तमालपत्रं कपिकच्छुबीजम् । सत्त्वंगुडूच्याः क्षुरकस्य बीजं वटी विधेया सितया समेता ॥७०॥ वातप्रमेहं सकफं सपित्तं श्वासं च कासं बहुसन्निपातान् बलं च हीनं खरमङ्कजाख्यं निहन्ति कामं खलु दीपयत्यपि ॥७१ गुल्मे गुडवटकाः । गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः । विनिहन्ति भक्ष्यमाणा गुल्मार्शोवह्निसादगदान् ॥ ७२ ॥ पाण्डुरोगे क्षारवटकाः । शृङ्गवेरविडङ्गानि पिप्पली मरिचानि च । नीलीपत्रं पृथकपर्णी हरिद्राद्वयमेव च ॥ ७३ ॥ मञ्जिष्ठा भद्रमुस्तं च शिग्रुबीजानि चित्रकम् । देवदारुं वचा दन्ती त्रिफला हस्तिपिप्पली ॥ ७४ ॥

गुटिकाधिकारः ४.] गदनिग्रहः । २३५ शालिपर्णी मधुरसा द्राक्षा कटुकरोहिणी । भल्लातकानीन्द्रयवा बृहत्यौ द्वे दुरालभा ॥ ७५ ॥ शतावरी विशल्या च पाठा भार्गी हरेणुका । एतानि समभागानि सर्वाण्येकत कारयेत् ॥ ७६ ॥ यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः । क्षारं च यावशूकानां ततो द्विगुणमावपेत् ॥ ७७ ॥ गोमूत्रयुक्तांस्तान्कुर्याद्वटकानक्षसंमितान् । खादेदेकं ततो द्वौ वा सुखं चानु पिबेज्जलम् ॥ ७८ ॥ अर्शांसि ग्रहणीदोषं पाण्डुरोगं भगन्दरम् । श्वयथुं श्वासकासौ च कृमिदोषांश्च नाशयेत् ॥ ७९ ॥ व्याधितस्य बलं ज्ञात्वा गवां मूत्रेण दापयेत् । पाण्डुरोगं निहन्त्याशु ब्रह्मदण्ड इवोद्धतम् ॥ ८० ॥ विश्रुताः क्षारवटकाः प्रयोज्याः सिद्धिमिच्छता । एष शङ्करणो योगो वैद्यानामर्थकृत्तथा ॥ ८१ ॥ कुष्ठे पथ्यावटकाः । पथ्यां सेन्द्रयवां सर्किंशुकफलां सार्की तथाऽऽवर्त्तकीं व्याधिघ्नेन तु योजितां हुतभुजा सारुष्करां बाकुचीम् । तद्वच्च क्रिमिशत्रुणाप्युपगतामेकैकवृद्धानिमान् गोमूत्रेण विमृद्य तुल्यतुवरान्कुष्ठी वटान्भक्षयेत् ॥ ८२ ॥ निहन्ति हतनासिकाकरजकर्णपादाङ्गुलि- क्षरद्रुधिरपूतिपूयपरिजग्धजन्तुव्रणान् । प्रभिन्नचिरलक्षितखरमशेषकुष्ठं मह- न्निहन्ति कुरुतेऽरुणावर्कवपुषं नरं योगतः ॥ ८३ ॥ ज्वरे फलत्रिकाद्यो मोदकः । फलत्रिकगुडव्योषशर्करात्रिवृतादिकम् । मोदकं भक्षयित्वाऽनुपिबेत्कोष्णं जलं पुनः । पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ ८४ ॥

२३६ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे रसायने त्रिफलाद्या वटकाः । त्रैफलस्य तु चूर्णस्य पलानि दश संहरेत् । सप्त चैव विडङ्गानां लोहचूर्णं पलत्रयम् ॥ ८५ ॥ शतं भल्लातकानां च पलानि दश बाकुची । शिलाजतु पले द्वे च गुग्गुलोस्तु पलद्वयम् ॥ ८६ ॥ पलं पुष्करमूलस्य पलार्धं फलमेव च । ग्रन्थिकाग्नि समरिचं पिप्पल्यो विश्वभेषजम् ॥ ८७ ॥ त्वक्पत्रं कुङ्कुमं मुस्ता नागकेसरमेव च । यष्टीमधुकरोध्रं च कार्षिकान्युपकल्पयेत् ॥ ८८ ॥ यावन्त्येतानि सर्वाणि तावत्खण्डं प्रदापयेत् । पलिकान्वटकान्कुर्यात्सर्वव्याधिविनाशनन् ॥ ८९ ॥ एकैकं भक्षयेत्प्रातर्यथेष्टं चात्र भोजनम् । प्लीहमर्शास्यतीसारं वातगुल्मं भगन्दरम् ॥ ९० ॥ कुष्ठानि चैव सर्वाणि सप्तरात्रान्न्यपोहति । एतत्सर्वं प्रयुञ्जानो जीवेद्वर्षशतत्रयम् ॥ ९१ ॥ अरुचौ लाजाद्यो मोदकः । द्वादशाष्टचतुस्त्रिंशत्येकार्धार्धसमायुतैः । लाजैस्तुगातिन्तिडीककोलव्योषत्रिजातकैः । सचन्द्रा मोदका रुच्याः क्रमाद्विगुणशर्कराः ॥ ९२ ॥ त्रिफलाया गुटिका । त्रिफलाबदराणां स्याद्व्योषस्य च पलद्वयम् । कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ ९३ ॥ 'एलात्वक्पत्रकानां तु पलं स्याद्वंशरोचना । पलाष्टिका, वेतसश्च चतुष्पल उदाहृतः ॥ ९४ ॥ चूर्णाद्द्विगुणखण्डं स्याद्गुद्या वमिहरा परम् । यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ ९५ ॥

गुटिकाधिकारः ४.] गदनिग्रहः । २३७ अर्शसि चित्रकगुटिकाः । चित्रकस्य पलं दत्त्वा पलं चार्धं त्रिवृत्तथा । कणाकर्षो गुडस्याष्टौ पलानि समुपाहरेत् ॥ ९६ ॥ विंशतिश्च हरीतक्‍यो गुटिका दश कारयेत् । दशमे दशमे चाह्नि त्वेकैकां भक्षयेत् सुधीः । मण्डलानि च कण्डूंश्च अर्शांसि ग्रहणीं जयेत् ॥ ९७ ॥ प्रमेहे वामदेवेन कथिता गुटिका । कटुत्रिकं वचा मुस्ता विडङ्गं चित्रकं विषम् । एतानि समभागानि पथ्या च द्विगुणा विषात् ॥ ९८ ॥ पञ्चत्रिंशद्गुडाद्भागाः क्वाथयेन्मृदुनाग्निना । बदरसमाश्च गुटिका कार्या, एषा गुटिका प्रमेहं, आमवातं, गुल्मं, मन्दाग्निं, हन्ति; विशेषतश्च लालामेहम् ॥ गुग्गुलुगुटिका । गुग्गुलु कुडवादद्धं ककुभत्वगयोरजोविडङ्गानि । भल्लातकगोक्षुरकौ त्रिवृता त्रिफला द्वितीयार्धम् ॥ ९९ ॥ भुक्त्वैनां गुटिकां यथेष्टचरितः षण्मासयोगात्पुमान् सव्याधीन्सभगन्दरान्सपिटिकानर्शांसि दुष्टव्रणान् । खालित्यं पलितं जरामपि तनोर्जित्वा प्रदीप्तानलः सौभाग्याप्तसुखो निरामयतनुर्जीवेत्समानां शतम् ॥ १०० ॥ शोफे लघुत्रिफलागुग्गुलुगुटिका । गुग्गुलुस्त्रिफला कृष्णा पञ्चनेत्रत्रिभागिकाः । गुटिकाः शोषगुल्मार्शो भगन्दरवतां हिताः ॥ १०१ ॥ वातव्याधौ पृथुत्रिफलाद्या गुग्गुलुगुटिका । त्रिफला हपुषा मुस्तं चविका चित्रकः शठी । यवानीग्रन्थिकव्योषसौवर्चलदुरालभाः ॥ १०२ ॥ अजमोदा विडङ्गं च दाडिमं साम्लवेतसम् । बाष्पिका पौष्करं दारु त्वगेलापत्रकेसरम् ॥ १०३ ॥

२३८ आयुर्वेदियग्रन्थमाला । [परिशिष्टे एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः । संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ १०४ ॥ भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् । वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ १०५ ॥ श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् । जठरे योनिशूलेषु त्वन्तर्भूतं च विद्रधिम् ॥ १०६ ॥ पार्श्वशूलं कृमीन् गुल्मान्प्रमेहान् छर्द्यरोचकौ । केवलानिलजात्रोगानशीतिं श्लैष्मिकानपि । विंशतिं नाशयत्याशु रसायनमनुत्तमम् ॥ १०७ ॥ गुल्मे त्रिवृताद्या गुटिका । त्रिवृत्पलं हिङ्गुकर्षस्त्रिक्षारस्य पलत्रयम् । यवान्यजाजीमरिचं धान्यकं शितिवारकम् ॥ १०८ ॥ उपकुञ्चीविडङ्गाजमोदाश्चार्धपलोन्मिताः । पृथक्पलद्वयं दद्यादम्लवेतसजं रजः ॥ १०९ ॥ मातुलुङ्गरसैनेषां गुटिकां कारयेद्भिषक् । सुखाम्बुनाम्लैर्मन्थैर्वा पिबेत्क्षीरेण सर्पिषा ॥ ११० ॥ काङ्कायनोक्तगुटिका वातगुल्मविनाशिनी । गोमूत्रयुक्ता कफजं पयसा पित्तसंभवम् ॥ १११ ॥ त्रिफलारसमूत्रैस्तु निहन्यात्सान्निपातिकम् । रक्तगुल्मे तु नारीणामुष्ट्रीदुग्धेन वा पिबेत् ॥ ११२ ॥ कृष्णाद्या गुटिका । कृष्णाशताह्वाशुण्ठीनां साभयानां पलं पलम् । गुडस्य षट्पलान्येषा गुटिका भ्रमनाशिनी ॥ ११३ ॥ इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे गुटिकाधिकारश्चतुर्थः समाप्तः ।

अवलेहाधिकारः ५.] गदनिग्रहः । २३९ अथ परिशिष्टे पञ्चमोऽवलेहाधिकारः। शोषे पिप्पल्याद्योऽवलेहः । कृष्णाचूर्णं क्षिपेत्प्रस्थं सिताप्रस्थद्वयं तथा । प्रस्थार्धं गोघृतं चैव कुडवं माक्षिकं तथा ॥ १ ॥ दुग्धाढकोनसंयुक्तं यथोक्तं विपचेद्भिषक् । चातुर्जातपलं चैकं चूर्णमेतद्विनिक्षिपेत् ॥ २ ॥ प्रत्युषे भक्षयेन्नित्यं ततः कार्यं समाचरेत् । हन्त्यष्टादश कुष्ठानि क्षयमेकादशात्मकम् ॥ ३ ॥ पञ्चकासान् तथा श्वासान् पाण्डुं प्लीहमपंस्मृतिम् । मूत्रकृच्छ्रं तथा रक्तं शुक्रदोषं तथा जराम् ॥ ४ ॥ धातुक्षयं च मन्दाग्निं व्याधिं परमदुस्तरम् । सर्वांस्तानाश्यत्याशु तमः सूर्योदयो यथा ॥ ५ ॥ सुभगो दर्शनीयश्च स गच्छेदप्रमदाशतम् । रसायनमिदं श्रेष्ठमश्विभ्यां परिकीर्तितम् ॥ ६ ॥ शोषे द्वितीयो पिप्पल्याद्यवलेहः । प्रस्थं पिप्पलीमादाय क्षीरं चैव चतुर्गुणम् । अर्धाढकं घृतं गव्यं शुद्धखण्डात्तथाऽऽढकम् ॥ ७ ॥ पचेन्मृद्वग्निना तावद्यावत्पाकमुपागतम् । शीतीभूते क्षिपेत्तस्मिंश्चातुर्जातपलत्रयम् ॥ ८ ॥ योजयेन्मात्रया दोषधात्वग्निबलसात्म्यतः । बल्यो वृष्यस्तथा हृद्यो धातुपुष्टिकरः परः ॥ ९ ॥ जीर्णज्वरहरश्चैव स्त्रियं चैव तु बृंहयेत् । छर्दितृणारुचिश्वासशोषहिक्काः सकामलाः ॥ १० ॥ हृद्रोगं पाण्डुगुल्मं च प्रदरं च त्रिदोषजम् । शोणितानिलकार्श्यं च रक्तपित्तं नियच्छति ॥ ११ ॥ सक्ताभ्यासयोगेन वलीपलितवर्जितः ।