गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
४२ | गौतमधर्मसूत्राणि
प्रातिलोम्येन जातानाह—
प्रतिलोमास्तु सूतमागधायोगवकृतवैदेहकचण्डालाः ॥ १५ ॥
अनन्तरैकान्तरद्वयन्तरासु जाता इत्यनुवर्तते । क्षत्रियस्यारनन्तरा ब्राह्मणी तस्यां तस्मात्सूतः । वैश्यस्यानन्तरा क्षत्रिया तस्यां तस्मान्मागधः । शूद्रस्यानन्तरा वैश्या तस्यां तस्मादायोगवः । वैश्यस्यैकान्तरा ब्राह्मणी तस्यां तस्मात्कृतः । शूद्रस्यैकान्तरा क्षत्रिया तस्यां तस्माद्वैदेहकः । शूद्रस्य द्वयन्तरा ब्राह्मणी तस्यां तस्माच्चण्डाल इति ॥ १५ ॥
इसी प्रकार प्रतिलोम (पुरुष का अपने से उच्चवर्ण की स्त्री से) विवाह में अनन्तर (क्षत्रिय और ब्राह्मणी, वैश्य और क्षत्रिया, शूद्र और वैश्या के विवाहों द्वारा), एकान्तर (वैश्य और ब्राह्मणी, शूद्र और क्षत्रिया के विवाहों द्वारा) तथा द्वयन्तर (शूद्र और ब्राह्मणी के) विवाहों द्वारा उत्पन्न पुत्र क्रमशः सूत, मागध, आयोगव, कृत, वैदेहक और चण्डाल कहलाते हैं ॥ १५ ॥
अन्येषां मतेन तेषामेव प्रतिवर्णं संगृह्य संज्ञाभेदानाह—
ब्राह्मण्यजीजनत्पुत्रान्वर्णेभ्य आनुपूर्व्याद् ब्राह्मणसूतमागधचण्डालान् ॥ १६ ॥
स्पष्टोऽर्थः । अत्राऽऽनुपूर्व्यग्रहणं वर्णक्रमविवक्षापरम् । नत्वनुलोमपरम् ॥ १६ ॥
ब्राह्मणी ने वर्णक्रमानुसार पुरुषों द्वारा (अर्थात् क्रमशः ब्राह्मण, क्षत्रिय, वैश्य और शूद्रवर्ण के पुरुष से) क्रमशः ब्राह्मण, सूत, मागध और चण्डाल पुत्र उत्पन्न किये ॥ १६ ॥
तेभ्य एव क्षत्रिया मूर्धावसिक्तक्षत्रियधीवरपुल्कसांस्तेभ्य एव वैश्या भूर्जकण्ठमाहिष्यवैश्यवैदेहान्पारशवयवनकरणशूद्रान्छूद्रेत्येके ॥ १७ ॥
एके स्मर्तार इत्युक्तक्रमेण ब्राह्मण्यजीजनदित्यारभ्य ब्राह्मणीक्षत्रियावैश्याशूद्रासु ब्राह्मणादिवर्णेभ्यः क्रमेण जातानां संज्ञाभेदान्मन्यन्ते ॥ १७ ॥
कुछ स्मृतिकारों के मतानुसार उन्हीं (ब्राह्मण, क्षत्रिय, वैश्य और शूद्र पुरुषों) द्वारा क्षत्रिय वर्ण की स्त्री क्रमशः मूर्धावसिक्त, क्षत्रिय, धीवर, पुल्कस कहे जाने वाले पुत्रों को और उन्हीं (ब्राह्मण, क्षत्रिय, वैश्य और शूद्र पुरुषों) से वैश्य वर्ण की स्त्री क्रमशः भूर्जकण्ठ, माहिष्य, वैश्य और वैदेहक कहलानेवाले पुत्रों को तथा शूद्र वर्ण की स्त्री क्रमशः पारशव, यवन, करण और शूद्र पुत्रों को उत्पन्न करती है ॥ १७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४३
वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽऽचार्याः ॥ १८ ॥
मन्यन्त इति वाक्यशेषः । तेषामेव सवर्णादीनामनुलोमजातानामुत्कर्षेण पितृद्वारा सप्तमपुरुषादुत्कृष्टवर्णान्तरप्राप्तिर्भवति । अपकर्षेण मातृद्वारा पञ्चमपुरुषादपकृष्टवर्णान्तरप्राप्तिर्भवति । तद्यथा—ब्राह्मणेनोढायां क्षत्रियायामुत्पादिता सवर्णा साऽपि ब्राह्मणेनोढा तस्यामुत्पादिता चेत्येवमा सप्तम्याः सप्तमी तु ब्राह्मणेनोढा यदपत्यं सूते तद्ब्राह्मणजातीयमेव भवति । एवं ब्राह्मणेन क्षत्रियायामुत्पादितः पुत्रः सवर्णः सोऽपि क्षत्रियामुद्वाह्य पुत्रमुत्पादयति सोऽपि क्षत्रियामित्येवमापञ्चमात्पञ्चमस्तु क्षत्रियायां यदपत्यमुत्पादयति तत्क्षत्रियजातीयमेव भवति । विकल्पस्यैवं चार्थः । तत्रापि वर्णान्तरगमने वृत्तस्वाध्यायबाहुल्ये सति पञ्चमेनोत्कृष्टं भवति । हीनवृत्त्या पञ्चमेनापकृष्टं च भवतीति । एवं क्षत्रियस्य वैश्यायां वैश्यस्य शूद्रायामपि द्रष्टव्यम् ॥ १८ ॥
आचार्यों का मत है कि सवर्ण आदि अनुलोम विवाह (उच्चवर्ण के पुरुष एवं निम्न वर्ण की स्त्री के विवाह) से उत्पन्न वर्णसंकरों का पिता की सातवीं पीढ़ी में वर्ण का उत्कर्ष और (हीन वर्ण की) माता की पाँचवी पीढ़ी में वर्ण का अपकर्ष हो जाता है ।
(अर्थात् ब्राह्मण और क्षत्रिया के विवाह से उत्पन्न कन्या सवर्णा कहलाती है; उस सवर्णा कन्या का विवाह ब्राह्मण से हो, उनसे भी उत्पन्न कन्या का विवाह ब्राह्मण से हो; इसी प्रकार सातवीं पीढ़ी में जो सन्तान उत्पन्न होगी वह ब्राह्मण वर्ण की होगी; इस प्रकार वर्ण का उत्कर्ष होता है । इसके विपरीत ब्राह्मण और क्षत्रिया के विवाह से उत्पन्न पुत्र सवर्ण होता है; वह यदि क्षत्रिया से विवाह करके पुत्र उत्पन्न करे और वह पुत्र भी क्षत्रिया से विवाह करे, इस प्रकार पाँचवीं पीढ़ी में जो सन्तान उत्पन्न होगी वह क्षत्रिय वर्ण की होगी और इस प्रकार वर्ण का अपकर्ष हो जायगा । इसी प्रकार क्षत्रिय और वैश्या आदि के विवाहों से उत्पन्न सन्तान के विषय में भी समझना चाहिए ॥ १८ ॥
सृष्ट्यन्तरजातानां च ॥ १९ ॥
चातुर्वर्ण्यमनन्तरेण चानुलोमजातानां सवर्णाम्बष्ठादीनामप्युत्कर्षोपकर्षाभ्यामन्योन्यवर्णान्तरगमनं भवति । तद्यथा—सवर्णेनोढायामम्बष्ठायामुत्पादिता दुहिता पुनः सवर्णेनोह्यते । तस्यामप्युत्पादिता सवर्णेनेत्यासप्तमात्सप्तमी तु सवर्णेनोढा यदपत्यं स एव भवति । एवं सैवाम्बष्ठेनोढायां दुहितरं सूते साऽप्यम्बष्ठेनेति सप्तमी त्वम्बष्ठेनोढा यदपत्य-
४४ गौतमधर्मसूत्राणि
मुत्पादयति सोऽम्बष्ठ एव भवति । ( ? ) एवमम्बष्ठयोरपि द्रष्टव्यम् ॥१९॥
चारों वर्णों के अनन्तर क्रम से अनुलोम विवाहों द्वारा उत्पन्न सवर्ण, अम्बष्ठ, उग्र के वर्ण का भी उत्कर्ष और अपकर्ष उपर्युक्त विधि से क्रमशः सातवीं और पाँचवीं पीढ़ी में परस्पर विवाह द्वारा होता है । (उदाहरण—सवर्ण से अम्बष्ठ वर्ण की स्त्री का विवाह हो; उनसे उत्पन्न कन्या का सवर्ण से विवाह हो इसी प्रकार सातवीं पीढ़ी में जो सन्तान होगी वह सवर्ण होगी और उसके वर्ण का उत्कर्ष हो जायगा । इसके विपरीत यदि सवर्णा कन्या का अम्बष्ठ के साथ विवाह हो; उनसे उत्पन्न कन्या का भी अम्बष्ठ से विवाह हो तो इस प्रकार पाँचवीं पीढ़ी में उत्पन्न सन्तान अम्बष्ठ होगी ) ॥ १९ ॥
प्रतिलोमास्तु धर्महीनाः ॥ २० ॥
प्रतिलोमजाताः सूतादयो धर्महीना उपनयनादिधर्महीना । तत्र सूतस्यैकस्योपनयनमात्रं शाखान्तरेऽङ्गीकृतम् ॥ २० ॥
प्रतिलोम विवाहों से उत्पन्न सन्तानों ( सूत, मागध, आयोगव, क्षत, वैदेहक और चण्डाल ) के उपनयन आदि धर्म नहीं होते ॥ २० ॥
शूद्रायां च ॥ २१ ॥
आनुलोम्येनापि शूद्रायामुत्पन्नः पारशवादिर्धर्महीनः । एवं च सवर्णादीनामनुलोमानां सिद्धो धर्माङ्गीकारः । तथा च मनुः—
स्वजातिजात्यन्तरजाः षट् सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥ २१ ॥
अनुलोम विवाहों द्वारा शूद्रा स्त्री से उत्पन्न ( पारशव, यवन करण, शूद्र ) सन्तान भी धर्महीन होती है ॥ २१ ॥
असमानायां तु शूद्रात्पतितवृत्तिः ॥ २२ ॥
शूद्रादसमानायां वैश्यादिस्त्रियामुत्पादित आयोगवादिः पतितवृत्तिः पतितवद्दर्शनस्पर्शनप्रतिग्रहादौ वर्जनीयः । एवं च वैश्यात्क्षत्रियायां क्षत्रियाद् ब्राह्मण्यां जातो न पतितवृत्तिः ॥ २२ ॥
शूद्र पुरुष द्वारा वैश्य आदि असमान वर्ण की स्त्रियों से उत्पन्न आयोगव आदि पुत्र पतित होते हैं ( पतित के समान उनका दर्शन, स्पर्श और प्रतिग्रह वर्जित है ) ॥ २२ ॥
अन्त्यः पापिष्ठः ॥ २३ ॥
शूद्रादसमानाज्जनितेषु तेषु योऽन्त्यो ब्राह्मण्यां जातश्चण्डालः पापिष्ठोऽत्यन्तं वर्जनीयः । तथा च स्मृत्यन्तरम्—
सानुवाद-मिताक्षरावृत्तिसहितानि ४५
चण्डालमाजगोचालव्यजनान्परिहरेदिति ॥ २३ ॥
शूद्र पुरुष द्वारा असमान वर्ण की स्त्रियों से उत्पन्न पुत्रों में भी अन्तिम अर्थात् ब्राह्मणी से उत्पन्न पुत्र चण्डाल पापी होता है ( और उसका दर्शन, स्पर्श और प्रतिग्रह अत्यन्त वर्जित है ) ॥ २३ ॥
अथ प्रकृतान्विवाहान् स्तौति—
पुनन्ति साधवः पुत्राः ॥ २४ ॥
अच्छा ( अस्मा ) सु जाताः साधवः साधुवृत्तयः पुत्रा जनयितुः कुलं पुनन्ति ॥ २४ ॥
( उत्तम विवाह से उत्पन्न ) सदाचारी पुत्र पिता के कुल को पवित्र करते हैं ॥ २४ ॥
तत्र विशेषः—
त्रिपुरुषमार्षात् ॥ २५ ॥
आर्षविवाहोढायां जातः पुत्रस्त्रीन्पुरुषान्पुनाति नरकादुद्धरति ॥ २५ ॥
आर्ष विवाह की विधि से परिणीता स्त्री से उत्पन्न पुत्र तीन पीढ़ी के पुरुषों को पवित्र करते हैं ( अर्थात् उनका नरक से उद्धार करते हैं ॥ २५ ॥
दश दैवादशैव प्राजापत्यात् ॥ २६ ॥
उपसमस्तमपि पुरुषपदमत्र दशशब्देन संबध्यते । एवकारो निर्धार-णपरः ॥ २६ ॥
दैवविवाह से उत्पन्न पुत्र दस पीढ़ियों को और प्राजापत्य विवाह से उत्पन्न पुत्र भी दस पीढ़ियों को पवित्र करते हैं ॥ २६ ॥
दश पूर्वान्दश परानात्मानं च ब्राह्मीपुत्रो ब्राह्मीपुत्रः ॥ २७ ॥
ब्राह्मविवाहेनोढा ब्राह्मी तस्यां जातः पुत्रः पित्रादीन्दश पूर्वान्दश परान्भविष्यतः पुत्रादींश्च दशाऽऽत्मानं चैकविंशं पुनाति । तस्माद् ब्राह्मो विवाहः प्रशस्ततमः ॥ २७ ॥
इति श्रीगौतमयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्ने चतुर्थोऽध्यायः ॥ ४ ॥
ब्राह्मविवाह से उत्पन्न पुत्र अपने से पहले की दस पीढ़ियों, अपने आगे की दस पीढ़ियों के पुरुषों को तथा स्वयं अपने को ( इस प्रकार इक्कीस पीढ़ियों को ) पवित्र करता है । (इसलिए ब्राह्मविवाह सभी विवाहों में श्रेष्ठ है) ।
अथ प्रथमप्रश्ने पञ्चमोऽध्यायः
गर्भाधानकालं प्रस्तौति—
ऋतावुपेयात् ॥ १ ॥
रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः स्त्रीणां गर्भग्रहणकालस्तत्रोपगच्छेद्भार्याम् । तत्राऽऽपस्तम्बीये विशेषः—
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमनमित्युपदिशन्ति ।
मानवं तु—
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सद्भिर्गर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्द्या एकादशी तु या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ॥
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ इति ।
याज्ञवल्क्यस्तु —
एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥ इति च ।
तदिह षोडशसु रात्रिष्वादितस्तिस्रः सर्वथा वर्ज्याः । इतरासु गच्छेदिति सर्वस्मृतिचोदितनिषेधान्परित्यज्य गच्छन्नुत्कृष्टं पुत्रं जनयति । द्वेषादिना ऋतावनुपयन्प्रत्यवेयादिति । तथा च देवलः—
यः स्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति ।
भ्रूणहत्यामवाप्नोति गर्भं प्राप्तं विनाशय सः ॥ इति ।
स्मृत्यन्तरं च—
ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥ इति ।
अयं तु रागतः प्राप्तत्वे सत्यप्यकरणे प्रत्यवायश्रवणाद्विधिश्च भवति । ऋतावेवोपेयादेवेति कस्यचिन्मतेन नियमश्च भवति ॥ १ ॥
ऋतुकाल में पत्नी के समीप ( सम्भोग के लिए ) गमन करे ॥ १ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४७
आचार्यस्तु परिसंख्यानं च प्रतिपादयति-- सर्वत्र वा प्रतिषिद्धवर्जम् ॥ २ ॥
सर्वेषु वा कालेषूपेयादृतावृतौ च प्रतिषिद्धदिवसान्वर्जयित्वा। यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन्। इति॥ वरश्च-काममा विजनितोः संभवामेति। यद्यप्यात्मनो जितेन्द्रियत्वे सत्यपि धर्मदाराः सर्वदा रक्षणीया इति स्मर्यते। अप्रमत्ता रक्षत तन्तुमेनं मा वः क्षेत्रे परबीजानि वाप्सुरिति ॥ २ ॥
अथवा निषिद्ध दिनों को छोड़कर किसी भी समय में संभोग कर सकता है ॥ २ ॥
अथ पञ्च महायज्ञाः-- देवपितृमनुष्यभूतर्षिपूजकः ॥ ३ ॥
अत्र पूजकशब्दो देवादिषु प्रत्येकं संबध्यते। द्वंद्वान्त्यं श्रूयमाणं प्रत्येकमभिसंबध्यते। गृहस्थो नित्यं देवादिपूजकः स्यात्। तत्र देवपूजा वैश्वदेवसकलहोमाद्यग्निकार्यं च। पितृपूजां मनुराह-- एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके। न चैवात्राऽशयेत्कंचिद्वैश्वदेवं प्रति द्विजम् ॥ इति। दद्यादहरहः श्राद्धमन्नाद्येनोदकेन च। पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ इति च। मनुष्यपूजाऽतिथिपूजा। भूतपूजा बलिहरणम्। ऋषिपूजा ब्रह्मयज्ञः। ऋषियज्ञो ब्रह्मयज्ञ इति पर्यायः ॥ ३ ॥
देव, पितरों, मनुष्य, भूत तथा ऋषियों की नित्य पूजा करे ॥ ३ ॥
ते च प्रतिपाद्यन्ते। अत्र क्रमो न विवक्षितः। ब्रह्मयज्ञस्तु-- नित्यस्वाध्यायः ॥ ४ ॥
बहुव्रीहिरयम्। तत्प्रकारश्च ब्रह्मयज्ञेन यक्ष्यमाण इत्यारभ्य तैत्तिरीयकेऽभिहितः। अत्र नित्यशब्दाद् ब्रह्मयज्ञव्यतिरिक्तकालेऽपि यथावसरमधीयीतेति दर्शितम् ॥ ४ ॥
प्रतिदिन (अवसर के अनुसार) वेदों का अध्ययन करे। (इसे ऋषियज्ञ या ब्रह्मयज्ञ कहते हैं।) ॥ ४ ॥
पितृयज्ञस्तु-- पितृभ्यश्चोदकदानं यथोत्साहमन्यत् ॥ ५ ॥
पितृभ्यो नित्यमुदकं दद्यात्। अन्यद्भोजनफलमूलादि यथोत्साहं
४८ गौतमधर्मसूत्राणि
यथाशक्ति दद्यात्। अत्र चकारान्नित्यं देवर्षीणामपि तर्पणं कर्तव्यमिति दर्शितम्। तत्र मनुर्ब्रह्मचारिणं प्रकृत्याऽऽह—
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ॥ इति ।
कात्यायनः—
देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम् । असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् ॥ इति ।
भृगुः—
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । नोपतिष्ठति तन्तोयं यद् भूम्यां न प्रदीयते ॥
उशना—
आपो देवगणाः सर्व आपः पितृगणाः स्मृताः । तस्मादप्सु जलं देयं पितॄणां दत्तमक्षयम् ॥ इति ।
भृगुः प्रकारान्तरमाह—
नाभिमात्रे जले स्थित्वा चिन्तयन्नूर्ध्वमानसः । आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम् ॥ त्रिभिरञ्जलिमाकाशमुच्चैरुच्चतरं बुधः । उक्त्वा चोक्त्वा क्षिपन् वारि वाग्यतो दक्षिणामुखः ॥इति ॥५॥
पितरों के लिए जल दे और अपनी शक्ति के अनुसार अन्य पदार्थ (भोजन, फल आदि) प्रदान करे । (इसे पितृयज्ञ कहते हैं) ॥ ५ ॥
देवयज्ञस्याग्निकार्यमूलत्वादग्निपरिग्रहकालं तावदाह—
भार्यादिरग्निर्दायादिर्वा ॥ ६ ॥
भार्याशब्देन विवाहो लक्ष्यते । यस्मिन्नग्नौ भार्योह्यते तमग्निमारभ्य वा यस्मिन्नहनि पितृभ्रात्रादिभिर्दायविभागः क्रियते तदहरारभ्य वा सायमुपक्रममग्निं परिचरेत् । दायविभागात्पूर्वं पितुर्ब्येष्ठभ्रातुर्वा कर्मण्युपजीवतो न प्रत्यवायः ॥ ६ ॥
जिस अग्नि में विवाह के समय कर्म किये जाते हैं उससे प्रारम्भ करके अथवा पिता या भाइयों से बँटवारे के समय से प्रारम्भ करके सायं एवं प्रातः काल अग्नि कर्म करे ॥ ६ ॥
तस्मिन्गृह्याणि कर्माणि ॥ ७ ॥
तस्मिन्नेवंपरिगृहीतेऽग्नौ गृह्ये मनुष्यभूतानि पुंसवनादीनि कर्माणि कर्तव्यानीति ॥ ७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ४९
उस (विवाह अथवा दायकाल की) अग्नि में सभी गृह्य कर्म (मनुष्य- यज्ञ, भूतयज्ञ, पुंसवन आदि) करे ॥ ७ ॥
देवपितृमनुष्ययज्ञाः स्वाध्यायश्च बलिकर्म ॥ ८ ॥ तस्मिन्नित्यनुवर्तते । तत्र देवयज्ञस्याग्निसंबन्धः प्रसिद्धः । पितृमनुष्य- भूतयज्ञानां तु तदर्थमन्नमस्मिन्गृह्याग्नौ पच्यत इति । ब्रह्मयज्ञस्याग्नि- संबन्ध उशनसा पक्षे दर्शितः—अग्निसमीप इत्येकेषामिति । अपरिगृही- ताग्नेरपि पञ्चमहायज्ञविधानादेते लौकिकेऽग्नौ कर्तव्याः ॥ ८ ॥ उसी अग्नि में देवयज्ञ, पितृयज्ञ, मनुष्ययज्ञ के कर्म और स्वाध्याय तथा बलिकर्म करे ॥ ८ ॥
अथ देवयज्ञवैश्वदेवप्रयोगमाह— अग्नावग्निर्धन्वन्तरिर्विश्वे देवाः प्रजापतिः स्विष्टकृदिति होमः ॥ ९ ॥ अत्र "जुहोतिचोदनाः स्वाहाकारप्रदानाः” इत्यापस्तम्बस्मरणाद्धोम- शब्देन स्वाहाकार उक्तः । अग्न्यादिभिः स्वाहाकारान्तैरग्नौ जुहुयात् । स्विष्टकृच्चाग्न्युपपदो द्रष्टव्यः । होमत्वादेवाग्निसिद्धावग्नाविति वचनं बलिहरणवद् भूमौ न कर्तव्यमिति वचनार्थम् । तस्माद्धोमधर्मः स्वाहा- कारो बलिहरणेष्वपि भवति । तथा चाऽऽश्वलायनः— स्वाहेत्यथ बलिहरणमिति । आपस्तम्बीयानां स्वाहाकारान्ता एव मन्त्राः पठिताः ॥ ९ ॥
अग्नि में अग्नि, धन्वन्तरि, विश्वे देवा, प्रजापति और स्विष्टकृत् के लिये (प्रत्येक के साथ 'स्वाहा' जोड़कर) होम करे ॥ ९ ॥
अथ भूतयज्ञबलिहरणमाह— दिग्देवताभ्यश्च यथास्वम् ॥ १० ॥ यस्या देवताया या दिक्तस्यां दिशि तस्यै देवतायै बलिर्हर्तव्यः । इन्द्राय स्वाहेतीशानपर्यन्तं प्रागादि प्रदक्षिणं कर्तव्यम् ॥ १० ॥ जिस देवता की जो दिशा हो उस दिशा में उस देवता के लिए बलिहरण करना चाहिए ॥ १० ॥
द्वारुषु महद्भ्यः ॥ ११ ॥ गृहस्य यावत्यो द्वारस्तासु महद्भ्यः स्वाहेति बलिहरणम् ॥ ११ ॥ घर के सभी द्वारों पर ('महद्भ्यः स्वाहा' कहते हुए) पूज्यों को बलि दे ॥ ११ ॥ ४ गौ० ध०
५७ गौतमधर्मसूत्राणि
गृहदेवताभ्यः प्रविश्य ॥ १२ ॥
अन्तः प्रविश्य गृहदेवताभ्यः स्वाहेति बलिहरणम् । प्रविश्येति वचनाद् द्वारबहिष्ठेन न कर्तव्यम् ॥ १२ ॥
घर के भीतर प्रवेश करके ( 'गृहदेवताभ्यः स्वाहा' कहते हुए ) गृहदेवताओं के लिए बलिहरण करे ॥ १२ ॥
ब्रह्मणे मध्ये ॥ १३ ॥
गृहस्य मध्ये ब्रह्मणे स्वाहेति बलिर्हर्तव्यः । दिग्देवताभ्यश्चेति चकारात्पृथिवी वायुः प्रजापतिर्विश्वे देवा इति सूत्रकारोक्तदेवताभ्यश्च ब्रह्मणोऽनन्तरं बलिर्हर्तव्यः ॥ १३ ॥
घर के मध्य में ( 'ब्रह्मणे स्वाहा' कहकर ) ब्रह्मा के लिए बलि प्रदान करे ॥ १३ ॥
आकाशायेत्यन्तरिक्षे बलिरुत्क्षेप्यः ॥ १४ ॥
विश्वेभ्यश्चैव देवेभ्यो बलिराकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ इति मनुः ॥ १४ ॥
( आकाशाय स्वाहा कहते हुए ) आकाश के लिए अन्तरिक्ष में बलि फेंक दे ॥ १४ ॥
नक्तंचरेभ्यश्च सायम् ॥ १५ ॥
सायं बलिहरणेऽयं विशेषः । नक्तंचरेभ्यः स्वाहेति बलिर्हर्तव्यः । चकारात्पूर्वोक्ताभ्यश्च भवति ॥ १५ ॥
सायंकाल के बलिहरण में ( 'नक्तंचरेभ्यः स्वाहा' कहकर ) रात्रि में विचरण करने वाले प्रणियों के लिए बलि दे ॥ १५ ॥
स्वस्ति वाच्य भिक्षादानमप्पूर्वम् ॥ १६ ॥
बलिहरणानन्तरं भिक्षादानं कर्तव्यम् । स्वस्त्यस्त्विति स्वस्तिवचनमुक्त्वा भिक्षोर्हस्ते पूर्वमपो दत्त्वा चेति । परिव्राजके विशेषः—
यतिहस्ते जलं दत्त्वा भैक्षं दत्त्वा पुनर्जलंम् ।
भैक्षं पर्वतमात्रं स्यात्तज्जलं सागरोपमम् ॥ इति ।
एतद्भिक्षादानमतिथिपूजाभावे मनुष्ययज्ञः स्यात् । एते पञ्च महायज्ञा ब्रह्मयज्ञवर्ज्याः कर्तव्याः सायं प्रातश्च । कस्मात् ।
अथ सायं प्रातः सिद्धस्य हविष्कस्य जुहुयादित्याश्वलायनस्मरणात् । सायं प्रातर्भूतमित्युक्त इत्यादिकात्यायनसूत्रवचनाच्च ॥ १६ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ५१
बलिहरण के बाद भिक्षुक के हाथ में पहले जल देकर फिर ( 'स्वस्त्यस्तु' कहते हुए ) स्वस्ति वाचन करके भिक्षा देनी चाहिए ॥ १६ ॥
ददातिषु चैवं धर्म्येषु ॥ १७ ॥
ददातयो दानानि यानि दानानि धर्म्याणि न भयादिनिमित्तानि तेषु चैवमप्पूर्वदानमिति ॥ १७ ॥
धर्मानुसार दिये जाने वाले दानों में भी इसी प्रकार ( पहले हाथ पर जल देकर ) दान किया जाता है ॥ १७ ॥
दानप्रसङ्गात्फलविशेषमाह—
समद्विगुणसाहस्रामन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रिय-वेदपारगेभ्यः ॥ १८ ॥
अब्राह्मणः क्षत्रियादिः । ब्राह्मणो जातिमात्रम् । श्रोत्रियोऽधीतवेदः । साङ्गं सकल्पं सरहस्यं चाधीतवेदो वेदपारगः । एभ्यो दत्तं यथाक्रमं समद्विगुणसाहस्रमानन्त्यं च फलं ददाति ।
तथा च मनुः—
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
श्रोत्रिये शतसाहस्रमन्तं वेदपारगे ॥ इति ॥ १८ ॥
अब्राह्मण ( ब्राह्मणेतर क्षत्रिय आदि ), ब्राह्मण, श्रोत्रिय ( जिसने वेद का अध्ययन किया है ) और वेद विद्या में पारंगत व्यक्ति को दान देने पर क्रमशः समान, दुगुना, सौगुना और अनन्त फल की प्राप्ति होती है ॥ १८ ॥
दानप्रसङ्गाद्यत्रावश्यदेयमदाने च प्रत्यवायस्तं विषयमाह—
गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोग-वैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ॥ १९ ॥
यज्ञे दक्षिणाकाले सदस्येभ्यो यद्दानं तदन्तर्वेदि । ततोऽन्यत्र बहिर्वेदि । द्रव्यसंविभागो हिरण्यादेर्दानम् । तद्गुर्वादिकविषयेऽवश्यं दानं कर्तव्यम् । अधीतवेदस्य दक्षिणार्थं गुर्वर्थम् । निवेशौषधार्थं निवेशो विवाहः । स च प्रथमस्तदर्थम् । औषधार्थं रुग्णस्य भेषजार्थम् । वृत्त्या तदहर्जीवनेन हीनो वृत्तिक्षीणः । यक्ष्यमाणो यज्ञं करिष्यन् । अध्ययनाध्वसंयोगः । अध्ययनेन संयोगो यस्य सोऽध्ययनसंयोगः । अध्वना संयोगो यस्य सोऽध्वसंयोगः । बहुव्रीहिः । वैश्वजितो विश्वजिद्यागः । सर्वस्वदानेन निर्द्रव्यः । एतैर्याचितोऽवश्यं यथाशक्ति हिरण्यादि दद्यात् ।
५२ गौतमधर्मसूत्राणि
अददत्प्रत्यवेयादिति । बहिर्वेदिग्रहणेन सदीक्षितविषयमिदमन्तर्वेद्यन्ये- भ्योऽपि देयम् ॥ १९ ॥
( वेद के अध्ययन के उपरान्त ) गुरु के लिए, विवाह के लिए, रोगी की औषध के लिए, हीन वृत्ति वाले के लिए, यज्ञ करने वाले के लिए, अध्ययन करने वाले के लिए, मार्ग में चलने वाले के लिए, और विश्वजित् यज्ञ करने वाले के लिए इनके माँगने पर अवश्य ही बहिर्वेदि ( यज्ञ की दक्षिणा के समय दिये जाने वाले दान से भिन्न प्रकार का ) दान देना चाहिए ॥ १६ ॥
भिक्षमाणेषु कृतान्नमितरेषु ॥ २० ॥
इतरेषूक्तव्यतिरिक्तेषु भिक्षमाणेषु कृतान्नं पक्वान्नमवश्यं देयम् । द्रव्यादेरदाने न दोषः । कृतान्नविषयेऽपि वसिष्ठः— अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरदण्डव्रतो हि सः ॥ इति ॥ २० ॥ उपर्युक्त व्यक्तियों के अतिरिक्त भी माँगने वाले व्यक्तियों को पकाया हुआ अन्न देना चाहिए ॥ २० ॥
अथ दानापवादः— प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् ॥ २१ ॥
दास्यामीति प्रतिश्रुत्याप्यधर्मसंयुक्तविषये न दद्यात् । यदि तेन द्रव्येणाधर्मसंयुक्तं वेश्यागमनाद्यसौ करिष्यतीति विजानीयात् । अधर्म- संयुक्त इति वचनादन्यत्र प्रतिश्रुतमददत्प्रत्यवेयादिति दर्शयति ॥ २१ ॥
पहले देने का वचन देकर भी अधार्मिक कार्य के लिए दान नहीं देना चाहिए ॥ २१ ॥
प्रतिश्रवणविषये विशेषमाह— क्रुद्धहृष्टभीतातंलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृता- न्यपातकानि ॥ २२ ॥
क्रुद्धादिवाक्यान्यनृतान्ययथार्थान्यप्यपातकानि न पापं जनयन्ति । क्रुद्धः क्रोधाविष्टः । हृष्टो हर्षाविष्टः । भीतो भयाविष्टः । एतेषां गुणान्तरै- राविष्टत्वाद्वाक्यमप्रमाणम् । तस्मात्प्रतिश्रुत्यादानेऽपि तेषामदोषः ॥ २२ ॥
क्रोधी, अत्यन्त प्रसन्न, भयाकुल, रोगी, लोभी, बालक, अत्यन्त वृद्ध, मूढ, मत्त और उन्मत्त व्यक्ति के बचन झूठे होने पर भी पाप नहीं उत्पन्न करते । ( अतः उनके वचन देने के बाद दान न देने पर भी वे पापी नहीं होते हैं । )
सानुवाद-मिताक्षरावृत्तिसहितानि ५३
अथ गृहस्थपूर्वभोज्यानाह—
भोजयेत्पूर्वमतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविरा-
ञ्जघन्यांश्च ॥ २३ ॥
अतिथिर्वक्ष्यमाणः। कुमारा बालाः । व्याधितः संजातव्याधिः । गर्भिण्यः प्रसिद्धाः । स्ववासिन्यो दुहितरो भगिन्यश्च । स्थविरा वृद्धाः । जघन्याः परिचारकादयः । एतानात्मनः पूर्वं भोजयेत्पश्चात्स्वयं भुञ्जीत । जघन्यानां पृथक्पदत्वं तेषामानन्तर्यसूचनार्थम् ॥ २३ ॥
अतिथि, बालक, रोगी, गर्भवती स्त्री, घर में रहने वाली पुत्रियों और बहनों, वृद्धों और सेवकों को गृहस्थ अपने से पहले भोजन करावे ॥ २३ ॥
आचार्यपितृसखीनां च निवेद्य वचनक्रिया ॥ २४ ॥
यदि भोजनकाल आचार्यादय आगच्छेयुस्तदा सिद्धमन्नं तेभ्यो निवेद्य तदन्नक्रिया तदिच्छात्तः कर्तव्या । न तेषु संनिहितेषु स्वतन्त्रो भवेदित्यर्थः ॥ २४ ॥
( भोजन के समय ) आचार्य, पिता और मित्र के आ जाने पर उन्हें पका हुआ अन्न निवेदित करके उनके आदेश के अनुसार कार्य करे ॥ २४ ॥
ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः ॥२५॥
ऋत्विगादिषु गृहमागतेषु मधुपर्को देयः ॥ २५ ॥
ऋत्विज, आचार्य, श्वशुर, चाचा और मामा के आने पर उनको मधुपर्क देना चाहिए ॥ २५ ॥
संवत्सरे पुनः ॥ २६ ॥
पूजितास्ते यदि संवत्सरात्पुनरागच्छेयुः पुनरपि मधुपर्को देयो नार्वागिति ॥ २६ ॥
यदि वे एक वर्ष के बाद पुनः आवें तो उनको पुनः मधुपर्क देना चाहिए । ( वर्ष के भीतर आने पर नहीं ) ॥ २६ ॥
यज्ञविवाहयोरर्वाक् ॥ २७ ॥
संवत्सरादर्वागपि यज्ञविवाहयोरागतेभ्यस्तेभ्यो मधुपर्को देयः । मधुपर्कविधिर्गृह्योक्तो द्रष्टव्यः ॥ २७ ॥
यज्ञ और विवाह के समय वर्ष के भीतर आने पर भी उन्हें मधुपर्क देना चाहिए ॥ २७ ॥
५४ | गौतमधर्मसूत्राणि
राज्ञश्च श्रोत्रियस्य ॥ २८ ॥
श्रोत्रियस्य सतो राज्ञश्चैव मधुपर्को देयः ॥ २८ ॥
श्रोत्रिय राजा को भी मधुपर्क दे ॥ २८ ॥
अश्रोत्रियस्याऽऽसनोदके ॥ २९ ॥
अश्रोत्रियस्य राज्ञ आसनोदकमात्रेण पूजनं मधुपर्कः ॥ २९ ॥
अश्रोत्रिय (जो वेदज्ञानी न हो) राजा को आसन और जल देकर सत्कार करे ॥ २९ ॥
श्रोत्रियस्य तु पाद्यमर्घ्यमन्नविशेषांश्च प्रकारयेत् ॥ ३० ॥
तुशब्दो न ब्राह्मणं व्यावर्तयति। श्रोत्रियस्य ब्राह्मणस्यातिथेः पाद्यं पादोदकम्। अर्घ्यं फलोपहारताम्बूलादि। अन्नविशेषाः पायसापूपाद्यस्तांश्च प्रकर्षेण कारयेत्समर्थः ॥ ३० ॥
श्रोत्रिय ब्राह्मण को पैर धोने के लिए जल, अर्घ्य (फल, ताम्बूल आदि) और विशेष अन्न (खीर, पुआ आदि) देकर विशेष रूप से सत्कार करे ॥ ३० ॥
असमर्थस्तु—
नित्यं वा संस्कारविशिष्टम् ॥ ३१ ॥
यदस्य गृहे नित्यं विद्यमानं तदेव मरीचजीरकादिसंस्कारविशिष्टं साधयेत् ॥ ३१ ॥
अथवा (विशेष भोजन न करा सकें तो) घर में नित्य जो भोजन बनता हो उसे (मरीच, जीरा आदि से छौंक बघारकर) विशेष स्वादयुक्त बनाकर ब्राह्मण को खिलावे ॥ ३१ ॥
मध्यतोऽन्नदानमवैद्ये साधुवृत्ते ॥ ३२ ॥
यस्त्वतिथिर्विद्यारहितोऽपि साधुवृत्तो भवति तस्मिन्नुपस्थिते मध्यमेन संस्कारेणान्नं देयम् ॥ ३२ ॥
जो अतिथि विद्याहीन होने पर भी सदाचारी हो उसे मध्यम कोटि का भोजन कराये ॥ ३२ ॥
विपरीतेषु तृणोदकभूमिस्वागतमन्ततः पूजाऽनत्याशश्च ॥ ३३ ॥
विपरीतो विद्यायुक्तोऽपि न साधुवृत्तः। तस्मिन्निहाऽऽस्यतामिति भूमिं तृणमासनमुदकं च दद्यात्। स्वागतमन्ततोऽनन्तरं स्वागतं च प्रयुञ्जीत। संभाषणेन पूजा कर्तव्या। अनत्याशश्च। अत्याशः पायसापूपादिविशिष्टमंस्तदन्यो मध्यमरीत्या कर्तव्यः। आशोऽशनमिति यावत् ॥ ३३ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ५५
इसके विपरीत प्रकार के (विद्या से युक्त होते हुए भी दुराचारी) अतिथि को तृण, जल, स्थान देकर स्वागत के वचनों से उसका सत्कार करे; संभाषण से पूजा करे और मध्यम कोटि का भोजन करावे ॥ ३३ ॥
शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोः समानानि ॥ ३४ ॥
योऽतिथिर्विद्यावृत्तादिनाऽऽत्मना सदृशो यश्च श्रेयांस्तयोर्द्वयोरप्यात्मना तुल्यानि शय्यासनादीनि देयानि । आवसथो गृहे स्थानविशेषः । अनुव्रज्योपासनयोरात्मन्यसंभवात्तुल्यत्वं न सम्भवति ते अपि कार्ये इत्यर्थः ॥ ३४ ॥
जो अतिथि विद्या, वृत्ति आदि में अपने समान हो और जो अपने से श्रेष्ठ हो उन दोनों प्रकार के अतिथियों को अपने समान शय्या, आसन और घर में निवास स्थान दे; उसके पीछे-पीछे चले और समीप में उपस्थित रहे ॥ ३४ ॥
अल्पशोऽपि हीने ॥ ३५ ॥
आत्मना किंचिदूनेऽप्यतिथावागते समान्येव शय्यादीनि देयानीत्येके । वयं तु ब्रूमः । हीनेऽतिथावागतेऽल्पशोऽपि शय्यादीनि देयानि न तु हीन इति कृत्वाऽत्यन्तलोपः कर्तव्यः ॥ ३५ ॥
अपने से कुछ ही हीन अतिथि के आने पर भी समान ही शय्या आदि दे ॥ ३५ ॥
अतिथिलक्षणमाह —
असमानग्रामोऽतिथिरेकरात्रिकोऽधिवृक्षसूर्योपस्थायी ॥३६॥
असमानग्रामोऽन्यग्रामवासी । एकरात्रिक एकां रात्रिं वसतीत्येकरात्रिकः । वृक्षाणामुपरि यदा सूर्यः सोऽधिवृक्षसूर्यः कालः मध्याह्नः । अथ वा वृक्षाणामुपरि सूर्यरश्मयो यदा भवन्ति स कालः सायं वा । तस्मिन्काले उपस्थितोऽतिथिः सर्वथा मान्यतमः ॥ ३६ ॥
दूसरे ग्राम में रहनेवाले, केवल एक रात्रि निवास करनेवाले और वृक्षों के ऊपर सूर्य के अधिष्ठित रहने के समय (मध्याह्न या सायंकाल के समय) आने वाले को अतिथि कहते हैं ॥ ३६ ॥
कुशलानामयारोग्याणामनुप्रश्नः ॥ ३७ ॥
ब्राह्मणादिषु त्रिषु वर्णेषु पथ्यादिसङ्गतेषु कुशलादीनामानुपूर्व्येण प्रश्नः कर्तव्यः । अपि कुशलमायुष्मन्निति ब्राह्मणः प्रष्टव्यः । अप्यनामयं तत्रभवत इति क्षत्रियः । अप्यरोगो भवानिति वैश्यः ॥ ३७ ॥
५६ गौतमधर्मसूत्राणि
ब्राह्मण, क्षत्रिय और वैश्य वर्ण के अतिथियों से क्रमशः कुशल, अनामय और आरोग्य का प्रश्न करे (अर्थात् ब्राह्मण से 'कुशलमायुष्मन्', क्षत्रिय से 'अपि अनामय तत्रभवतः' तथा वैश्य से 'अप्यरोगो भवान्' पूछे) ॥ ३७ ॥
अन्त्यं शूद्रस्य ॥ ३८ ॥
कुशलादिषु यदन्त्यं तच्छूद्रस्य प्रयोक्तव्यमप्यरोगोऽसीति ॥ ३८ ॥
उपर्युक्त प्रश्नों में अन्तिम (आरोग्य का) कुशल प्रश्न शूद्र से भी पूछे (जैसे—'अप्यरोगोऽसि' ।) ॥ ३८ ॥
ब्राह्मणस्यानतिथिर्ब्राह्मणः ॥ ३९ ॥
अब्राह्मणः क्षत्रियादिर्ब्राह्मणस्यातिथिर्न भवति । पूर्वोक्ता अतिथिधर्मास्तत्र न प्र योज्याः । केवलमुदकान्नदानादिनाऽङ्गीकार्यः ॥ ३९ ॥
अब्राह्मण (क्षत्रिय आदि) ब्राह्मण के अतिथि नहीं होते हैं । (अर्थात् ब्राह्मण अब्राह्मण के आने पर उनके लिये पूर्वोक्त अतिथिपूजा न करके उन्हें केवल जल और भोजन दे) ॥ ३९ ॥
यज्ञे संवृतश्चेत् ॥ ४० ॥
यज्ञकाल आहु(हू)तश्चेदतिथिवत्पूज्यः ॥ ४० ॥
अब्राह्मण (क्षत्रिय आदि) यज्ञ के समय बुलाये गये हों तो उनकी पूजा अतिथि के समान करनी चाहिए ॥ ४० ॥
तत्रापि—
भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः ॥ ४१ ॥
तस्यातिथिपक्षेऽपि ब्राह्मणेपु भुक्तवत्सु पश्चाद्भोजनं देयम् ॥ ४१ ॥
ब्राह्मणों को भोजन कराने के उपरान्त ही क्षत्रिय अतिथि को भोजन देना चाहिए ॥ ४१ ॥
अन्यान्भृत्यैः सहाऽऽनृशंस्यार्थमानृशंस्यार्थम् ॥ ४२ ॥
अन्यान्शूद्रादीनातिथ्यकाल आगतान्भृत्यैः कर्मकरादिभिः सह सति विभवे भोजयेत् । यद्यपि तेषामतिथित्वं न भवति तथाऽप्यानृशंस्यार्थम् । नृशंसता प्रत्यक्षक्रौर्यं तद्राहित्याय । आनृशंस्यं परो धर्म इत्यानृशंस्यमपि परो धर्म एवेति [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ ४२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्ने पञ्चमोऽध्यायः ॥ ५ ॥
आतिथ्य के समय आये हुए अन्य शूद्रों आदि को सेवकों के साथ दया के कारण भोजन कराना चाहिए ॥ ४२ ॥
अथ प्रथमप्रश्ने षष्ठोऽध्यायः ।
उक्ताऽतिथिपूजा । अन्येषामपि पूजाप्रकारमाह—
पादोपसंग्रहणं समवायेऽन्वहम् ॥ १ ॥
वक्ष्यमाणानां मात्रादीनां समवाये संगमे प्रतिदिनं पादोपसंग्रहणं कार्यम् । व्यत्यस्तपाणिना कार्यमिति पूर्वोक्तप्रकारेण ॥ १ ॥
प्रतिदिन माता पिता आदि से मिलने पर (व्यत्यस्तपाणि विधि से) उनका चरण छूना चाहिए ॥ १ ॥
अभिगम्य तु विप्रोष्य ॥ २ ॥
तुशब्दः प्रकृतव्यावृत्तौ । विप्रोष्य स्वयं विप्रवासं कृत्वा तेषां विप्रवासे वा ते मातृपित्रादयो यत्राऽऽस्थितास्तत्राभिगम्य पादोपसंग्रहणं कार्यमिति ॥ २ ॥
अपने या उनके प्रवास से वापस आने पर माता-पिता आदि श्रेष्ठ जन जहाँ भी हों वहाँ जाकर उनके चरण छूने चाहिए ॥ २ ॥
तन्मातृपित्रादीनाह—
मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणां तद्गुरूणां च ॥ ३ ॥
मातापितरौ प्रसिद्धौ । तद्बन्धवो मातुलमातृष्वसृपितृव्यपितृष्वस्रादयः । पूर्वजा ज्येष्ठभ्रातरः । विद्यागुरव आचार्योपाध्यायादयः । तद्गुरव आचार्यादयः । तद्विषयं पूर्वसूत्रद्वयमिति ॥ ३ ॥
माता, पिता, उनके बन्धुओं (मामा, मौसी, चाचा, चाची, बुआ), ज्येष्ठ भाइयों, गुरुओं और उनके गुरुजनों के चरण छूने चाहिए ॥ ३ ॥
संनिपाते परस्य ॥ ४ ॥
मात्रादीनां युगपत्संनिपाते समागमे परस्योत्कृष्टस्य प्रथममुपसंग्रहणं कार्यम् । आचार्यः श्रेष्ठो गुरूणां मातेत्येक इत्युत्कर्षः पूर्वोक्तः । आपस्तम्बेन तु—
आचार्यप्राचार्यसंनिपाते प्राचार्यायोपसंगृह्योपसंजिघृक्षेदचार्यमित्यादिनोपसंग्रहणमुक्तम् ॥ ४ ॥
५८ गौतमधर्मसूत्राणि
माता आदि इन सभी श्रेष्ठ जनों से एक साथ भेंट होने पर इनमें सबसे श्रेष्ठ व्यक्ति का चरण सर्वप्रथम छूना चाहिए ॥ ४ ॥
अभिवादनविधिमाह— स्वनाम प्रोच्याहमयमित्यभिवादो ज्ञसमवाये ॥ ५ ॥
यः प्रत्यभिवादनाभिज्ञस्तेन संगमे स्वनाम प्रोच्य व्यावहारिकं प्रसिद्धं नाम प्रोच्याहमयमिति प्रकर्षेणोच्चैरुक्त्वाऽभिवादः कार्यः । अभिवादोऽभिवादनं ण्यन्तादेरच् । एवं चार्थज्ञानां ज्ञातवरसमवायेऽभिवादनक्रमेणायमहमिति स्वनाम गुह्यं प्रोच्याभिवादनं कार्यम् । हीनव्यतिरिक्ताभिवाद्यविषयम् । तद्यथा—अभिवादये हरदत्तशर्मा नामाहमस्मि भो इति । तत्र प्रत्यभिवादनविधिर्मनुना दर्शितः—
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥
अस्यार्थः । विप्रशब्देन ब्राह्मणविषयमिदम् । अभिवादयिता विप्र आयुष्मान्भव सौम्येति वाच्यः । अस्य नाम्नोऽन्ते पूर्वाक्षरप्लुतोऽकारश्च वाच्यः । पूर्वाक्षरप्लुतः इत्यकारस्य विशेषणम् । यस्मात्पूर्वमक्षरं प्लुतरूपं स तथोक्तः । अक्षरमित्यचोऽभिधानम् । अकारात्पूर्वो योऽच् स प्लुतो वाच्यः । तेन व्यञ्जनव्यवधानेऽपि भवति । आयुष्मान्भव सौम्य हरदत्त ३ अ । व्यञ्जनव्यवधानेन यथाऽऽयुष्मान्भव सौम्याग्निचि ३ द॑ । इति प्रयोगः ।
वसिष्ठस्तु संध्यक्षरे विशेषमाह—आमन्त्रिते योऽन्त्यः स्वरः स प्लवते संध्यक्षरमप्रगृह्यामाहुः [ इ ] आउभावं चाऽऽपद्यत इति ।
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुताविति वैयाकरणः । तत्रान्तेऽकारे प्रयुक्ते तयोर्वावांच संहितायामिति यकारवकारौ । आयुष्मान्भव सौम्य पिनाकपाणा३येति विष्णा३वेति च प्रयोगः । अज्ञसमवाय इति पक्षे नायमभिवादनप्रकारः । तत्र स्मृत्यन्तरम्—
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥ इति ।
यथा स्त्रीषूक्तप्रकारं विना तादात्मिकेन देशभाषादिना येन केनापि शब्देनाभिवादनं तद्वत्तेष्वपि भवति । अभिवादनमिति सामान्योपलक्षणम् । प्रकारवर्जितस्य ख्यादिप्रयुक्तस्याप्यभिधानात् । अभिवादनप्रकारे त्वापस्तम्बः—दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्राञ्जलिरिति ॥ ५ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ५९
अभिवादन को जानने वाले श्रेष्ठ व्यक्ति से मिलने पर अपने नाम का उच्चारण करते हुए 'यह मैं अमुक हूँ' ऐसा कहकर अभिवादन किया जाता है ॥ ५ ॥
स्त्रीपुंयोगेऽभिवादतोऽनियममेके ॥ ६ ॥
स्त्रीपुंयोगे जायापतिसमवायेऽभिवादतः सार्वविभक्तिकस्तसिः । अभिवादने प्राप्तेऽनियममेके मन्यन्ते । यद्यपि भर्ता प्रत्यभिवादज्ञस्तथाऽपि तदभिवादने भार्याया नियमं नेच्छन्ति । अभिवादयेऽहमियमित्यादिक्रमो नियमस्तं नेच्छन्ति । सामान्याभिवादनमात्रमेव । एवं च भार्यया भर्तुरहरहर्नमस्कारः कार्यः । एक इति वचनाद्गोतमस्य पक्षे नियम एव ॥ ६ ॥
कुछ आचार्यों का मत है कि पति और पत्नी के परस्पर मिलने पर उनके लिए अभिवादन का कोई नियम नहीं होता ॥ ६ ॥
नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनाम् ॥ ७ ॥
समवायेऽन्वहमित्यस्यापवादोऽयम् । मातृपितृव्यभार्याभगिनीव्यतिरिक्तानां स्त्रीणामविप्रोष्योपसंग्रहणमभिवादनं च न कार्यम् । किंतु विप्रोष्य प्रत्यागमन एव कार्यम् । मात्रादीनां त्वविप्रोष्यापि प्रत्यहम् । तथा च स्मृत्यन्तरम्—
उपसंग्रहणं कुर्याद्भगिभ्यां मातुरेव च ।
तथा पितृव्यभार्याणां समवायेऽन्वहं द्विजः ॥ इति ॥ ७ ॥
कहीं प्रवास से लौटकर न आया हो तो माता, चाची और बड़ी बहनों के अतिरिक्त दूसरी स्त्रियों के निकट जाकर चरणस्पर्श अभिवादन न करे ॥ ७ ॥
नोपसंग्रहणं भ्रातृभार्याणां स्वसॄणाम् ॥ ८ ॥
विप्रोष्य प्रत्यागतेनाऽऽसामुपसंग्रहणं न कार्यम् । अभिवादनं तु भवत्येव । तत्रात्यन्तगुरुस्थानीयानां मातुलान्यादीनामुपसंग्रहणमन्यासामभिवादनमिति ॥ ८ ॥
यात्रा से लौटकर आने पर भी भाभियों और छोटी बहनों के निकट जाकर उनका चरणस्पर्श न करे (केवल अभिवादन करे) ॥ ८ ॥
ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसां प्रत्युत्थानमभिवाद्याः ॥ ९ ॥
६० गौतमधर्मसूत्राणि
ऋत्विगादीनामात्मनो यवीयसां प्रत्युत्थानमात्रेण पूजा कार्या न पुनस्तेऽभिवाद्याः ॥ ९ ॥
अपने से छोटी आयु के ऋत्विज्, श्वशुर, चाचा और मामा के आगमन पर अपने आसन से उठने पर ही अभिवादन हो जाता है ॥ ६ ॥
तथाऽन्यः पूर्वः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेन ॥ १० ॥
ऋत्विगादयो यथा प्रत्युत्थेया नाभिवाद्यास्तथाऽयमपि । अन्यस्तेभ्योऽन्यः । पूर्वो वयसाऽधिकः । पौरः पुरवासी । वयसाऽधिक्येऽपि पुरवासादपकर्ष उक्तः । अशोतिरेवाशोतिका तयाऽवरोऽशीतिकावरः । न्यूनाशीतिक इत्यर्थः । एवंविधः शूद्रोऽप्यपत्यसमेन प्रत्युत्थेयो नाभिवाद्यः । अपत्यसमेनेत्यत्यन्तयवीयस्ता दर्शिता । शूद्रग्रहणमवरवर्णोपलक्षणम् । ततश्च शूद्रस्त्रिभिरपि वर्णैर्वैश्यो द्वाभ्यां क्षत्रियस्तु ब्राह्मणेनेति सिध्यति ॥ १० ॥
(अपने से अल्प आयु वाले ऋत्विज् आदि के समान ही) अधिक आयु वाले पुरवासी, अस्सी वर्ष से कम आयु के शूद्र के आने पर उनके पुत्र के समान आयु वाले व्यक्ति को अपने स्थान से उठकर स्वागत करना चाहिए (अभिवादन नहीं करना चाहिए) ॥ १० ॥
अवरोऽप्यार्यः शूद्रेण ॥ ११ ॥
न्यूनाशीतिकेन शूद्रेणावरोऽप्यार्यो यवीयानप्यार्यस्त्रैवर्णिकः प्रत्युत्थेयो नाभिवाद्यः । अत्रापि शूद्रग्रहणमवरवर्णोपलक्षणम् । ततश्च शूद्रेण त्रयो वर्णाः । वैश्येन द्वौ । क्षत्रियेण ब्राह्मण इत्यवरवयसः प्रत्युत्थेया नाभिवाद्या इति सिध्यति ॥ ११ ॥
(अस्सी वर्ष से कम आयु वाले) शूद्र को अल्प आयु वाले द्विज के आने पर उठ जाना चाहिए (अभिवादन नहीं करना चाहिए) ॥ ११ ॥
नाम वाऽस्य वर्जयेत् ॥ १२ ॥
अस्येत्यत्र वीप्सालोपः । अस्यास्योत्कृष्टोत्कृष्टस्यापकृष्टो न नाम गृह्णीयात् । किं त्वौपचारिकं नाम गृह्णीयात् ॥ १२ ॥
अपने से श्रेष्ठ व्यक्ति के नाम का उच्चारण नहीं करना चाहिए ॥ १२ ॥
राज्ञश्चाजपः प्रेष्यः ॥ १३ ॥
अजपोऽश्रोत्रियः । प्रेष्यः प्रेषकरः । स उत्कृष्टवर्णो ब्राह्मणोऽपि राज्ञोऽभिषिक्तस्य नाम वर्जयेत् ॥ १३ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ६१
उत्कृष्ट वर्ण का अथवा ब्राह्मण होते हुए भी अश्रोत्रिय दूत राजा का नाम न ले ॥ १३ ॥
भो भवन्निति वयस्यः समानेऽहनि जातः ॥ १४ ॥
वयसा तुल्यो वयस्यः । समानेऽहनि जातः । अत्राहःशब्दः संवत्सरवाचकः । एकस्मिन्संवत्सरे जातः स भो भवन्नित्यनयोरन्यतरेण शब्देन संभाष्यः ॥ १४ ॥
एक ही दिन अथवा एक ही वर्ष में उत्पन्न हुए समवयस्क व्यक्ति को 'भो' अथवा 'भवन्' शब्द से बुलाया जाता है ॥ १४ ॥
दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः श्रोत्रियश्चारणस्त्रिभिः ॥ १५ ॥
पुरे वसन्गुणहीनो दशवर्षवृद्धश्च तत्रापि कलाभरश्चतुःषष्टिकलास्वन्यतमया जीवन्पञ्चभिर्वर्षैर्वृद्धश्च । 'श्रोत्रियोऽधीतवेदः । चारणः सहाध्यायी । एते सर्वेऽपि भो भवन्निति संभाष्यः । आपस्तम्बस्तु सर्वत्राभिवादनमिच्छति—
दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् ।
त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमर्हति ॥ इति ॥ १५ ॥
अपने से दस वर्ष बड़े पुरवासी, किसी कला द्वारा जीविका निर्वाह करने वाले अपने से पाँच वर्ष तक बड़े व्यक्ति को, तीन वर्ष बड़े श्रोत्रिय और चारण (समान वेदशाखा का अध्ययन करने वाले) को भी 'भो' या 'भवन्' कहकर सम्बोधित किया जाता है ॥ १५ ॥
राजन्यवैश्यकर्मा विद्याहीनाः ॥ १६ ॥
कर्मशब्दः प्रत्येकमभिसंबध्यते । राजन्यकर्मा वैश्यकर्मा । ब्राह्मणोऽपि राजन्यकर्मणा वैश्यकर्मणा वा जीवन्नत्यन्तवृद्धोऽपि भो भवन्निति संभाष्यः । विद्याहीनश्च वृद्धोऽपि विद्याधिकेन तथा भाष्यः ॥ १६ ॥
क्षत्रिय और वैश्य के कर्मों से जीविका चलाने वाले अत्यन्त वृद्ध होते हुए भी विद्याहीन ब्राह्मण को 'भो' या 'भवन्' कहकर संबोधित करे ॥ १६ ॥
दीक्षितश्च प्राक्क्रयात् ॥ १७ ॥
वयस्यविषयमिदम् । दीक्षितश्च वयस्यः सोमक्रयात्पूर्वं तथा भाष्यः । ततः परं वृद्धवन्मान्यः । उत्तमाश्रमविषय उशना—श्रोत्रियवत्प्रशितः सर्वेषां गुरुर्भवतीति ॥ १७ ॥