भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

प्रयोजनवाक्यार्थः 51

नोपादेयं नैव हेयं न कार्यं नापि कारणम् । को विधिः को निषेधोऽत्र प्रख्योपाख्याविवर्जिते न कलञ्जं भक्षयेदित्येवमादिरपार्थकः । नियोग इति हि प्राहुरभावावस्तुवादिनः ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ इत्यादिस्मृतिवाक्यार्थभङ्गो भाष्यकृतामपि । अभावावस्तुसिद्धान्तमूलदोषनिबन्धनाः ॥ अभावः कारणं कार्यं वस्तु येषां विपश्चिताम् । तेषां पुनः नवीनानां प्रयासो नैव कश्चन ॥ यस्याभावोऽधिकरणं यस्य भावान्तरं च वा । सर्वं तद्विषयं ज्ञेयं न विचारोऽत्र कश्चन ॥ अत्र राणककारेण प्रोक्तं भङ्ग्यन्तरं त्विदम् । स्वकाले यदकुर्वन् तत् करोत्यन्यदचेतनः ॥ प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते । इत्युक्तं तदपि प्रोक्ताभावतत्त्वविकल्पना ॥

(105) प्रयोजनवाक्यार्थः 1 अथ नैयायिकमते फलमेव प्रवर्तकम् । सम्मतं तत्र सारांशसंग्रहोऽप्यवधार्यताम् ॥

ऽदेव प्रवृत्तिश्चेज्जन्मान्तरविनिश्चयः । णानामेव जन्मेति वीतरागेति सूत्रितम् ॥ रागान्न प्रवृत्तिः स्वभावः कुशली भवेत् । त्रं निरधिकारि स्यात् इति नैयायिकाशयः ॥ दुःखनिवृत्तौ वा पुंसां भवति कामना । नुः व्योमपुष्पादि कश्चित्कामयते नरः ॥ नाशङ्कते यस्मात्फलं वापि समीहितम् । ऽविधेयस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥ मानापदेशेऽपि फलं यत्रावगम्यते । प्रवर्तते लोकः लिङादिष्वश्रुतेष्वपि ॥ र्यं पुनरेत्रेयं मीमांसकहृदि स्थितम् । साधनताबुद्ध्या प्रवर्तेत नरो यदि ॥ त्साङ्गे प्रवृत्तिः स्यात् निषिद्ध्येत तदा वधः । धेनैव प्रवृत्तिश्चेत् वधो वैधो भवेदिति ॥ वमूला प्रवृत्तिश्चेददोषाऽभ्युपगम्यते । श्रोत्थरागमूलाऽपि तादृक्स्यादिति तार्किकाः ॥ त्यारोग्यसंपत्तिर्भुञ्जानस्य हरीतकीम् । कामो भक्षयेच्चेति को विशेषः प्रवर्तने ॥ वयव्यतिरेकाभ्यां यदेवमनुमन्यते । कत्वं फलस्यैव न नियोगात्मनः पुनः ॥

प्रयोजनवाक्यार्थः 513 4 नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते । फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत् ॥ प्रेरणावगमादेव प्रवृत्तिर्यदि सिद्धयति । स्वर्गकामपदं तत्स्यादधिकारिविशेषणम् ॥ यो हि येन विना लोके न सिद्धयेत्स तमाक्षिपेत् । नियोज्यमात्राक्षेपे स्यान्नियोगो न फलात्मकः ॥ ननुच स्वर्गकामोऽत्र नियोज्यः नान्यथा भवेत् । यदि स्वर्गस्य संपत्तिं नाधिगच्छेत्स्वकर्मणः ॥ नरेच्छामात्रमेवेदं, न शब्दस्त्वियति क्षमः । नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ॥ विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे । भाट्टैः किमपराद्धं ते नित्येऽपि फलवादिभिः ॥ अधिकार्यनुपादेयविशेषणविशेषितः । जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययोः ॥ विधिवीर्यस्वभावस्तु क्रिमेरपि तथाविधः । सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः ॥ प्रत्यवायपरीहारो वोपात्तदुरितक्षयः । फलं नित्ये, प्यन्यथा स्यादर्थानर्थाविवेकिता ॥ 5 प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया । एवं नरकपातादिफलयोगो न दुर्वचः ॥ M.R. 65

14 मानमेयरहस्यश्लोकवार्तिके करणांशोऽपि लिप्सातः प्रवृत्तिर्यद्युपेयते । इतिकर्तव्यतांशे तु शास्त्रादिति न युक्तिमत् ॥ नहि तत्करणं शुद्धं स्वफलायोपकल्पते । सेतिकर्तव्यताकं हि करणं करणं विदुः ॥ उभयत्रापि लिप्सातः सतिचैवं प्रवर्तने । अग्नीषोमीयहिंसादेः स्यादेव श्येनतुल्यता ॥ तदुत्सर्गापवादाख्यन्यायस्यैव विमर्शनात् । न हिंस्यादिति सामान्यागोचरत्वावधारणा ॥ 6 यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः । प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते ॥ स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता । यद्रिक्तमर्थं मूढोऽपि न कश्चिदनुतिष्ठति ॥ फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः । यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥ 7 गुणप्रधानानियमात् मिथस्संसृष्टलक्षणः । पदार्थ एव वाक्यार्थः स्यात्प्रयोक्तृविवक्षया ॥ क्वचित्साक्षात्पदोपात्तं क्वचित्प्रकरणागतम् । क्वचिदालोचनागम्यं फलं सर्वत्र गम्यते ॥ तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् । क्रियादीनां च तादर्थ्यात् तस्य वाक्यार्थतेष्यते

आप्ताभिप्रायवाक्यार्थः 51 ४ प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते । नतु शब्दस्य विषयः रूपधीरिव चक्षुषः ॥ ५ सुखं हि जगतामेव काम्यं धर्मेण जायते । अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ॥ चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥ बलवद्विष्टहेतुत्वमतिस्स्यात्प्रतिबंधिका । तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥ चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ एवं प्रवृत्तिजननात् विधेरपि तदर्थता । नित्येऽपि ब्रह्मलोकादेस्संप्राप्तिरवधार्यते ॥ आप्ताभिप्रायमाचार्याः विध्यर्थं लाघवाद्विदुः । वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः ॥ इति नैयायिकमतसारांशो विशदीकृतः । अथ वेदान्तसिद्धान्ते विशेषः प्रतिपाद्यते ॥ (106) आप्ताभिप्रायवाक्यार्थः. 1 इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता । लिङर्थ इति वेदार्थसंग्रहे भाष्यकृद्वचः ॥

16 मानमेयरहस्यश्लोकवार्तिके प्राभाकरा ये विख्यातास्ते वाच्यापूर्ववादिनः । कौमारिलाः पुनः कल्प्यापूर्ववादिन ईरिताः ॥ अतिरिक्तार्थवाच्यत्वकल्पनायामपीष्यते । श्रुतैव देवताप्रीतिः नापूर्वं क्वचिदश्रुतम् ॥ इष्टसाधनतां प्राहुर्लिङर्थं मण्डनादयः । अयं त्विष्टाभ्युपायोऽतः कार्यमित्यध्यवस्यति ॥ कार्यत्वमिष्टोपायत्वादन्तरङ्गमितीतरे । लघीयसी साध्यताऽतः देवताप्रीत्यपेक्षया ॥ तत्रैव शब्दशक्तिः स्यादिति श्रीभाष्यकृन्मतम् । आप्तस्य हितकामस्य नियोगोऽपि तदाहृतः ॥ श्रीपूर्णप्रज्ञसिद्धान्तोऽप्येवमेव प्रतीयते । अनुव्याख्यानवाक्यं तु तदीयमवधार्यताम् ॥ कार्यता च न काचित्स्यादिष्टसाधनतां विना । कार्यं साधनमिष्टस्य भगवानिष्टदेवता ॥ इति तस्माद्देवता तु येषां स्यान्निरनुग्रहा । क्लिश्यन्ति ते वै प्रायेण नान्य इत्यत्र निर्णयः । 2 अत्र श्रीभाष्यकारीयापूर्वसिद्धान्तखण्डनम् । संगृह्यतेऽथ विशदबोधाय विदुषामपि ॥ आचार्यकाधिकारार्थाऽधीतिस्स्यादिति संशये । अर्थज्ञानाधिकारार्थाऽथातो धर्मेत्यसूत्रयत ॥

आप्ताभिप्रायवाक्यार्थः 517 विधिस्स्वाध्याय इत्यादिः यावत्स्वाध्यायगोचरः अथेत्यानन्तर्यमपि यावत्तत्प्रतियोगिकम् ॥ अत इत्यर्थपरता यावद्वेदावलम्बिनी । जिज्ञास्यताऽपि कृत्स्नस्य वेदार्थस्येति गम्यते ॥ अभिधा चोदना चेति श्रुतिरेषा द्विधा मता । आद्या सिद्धपरा ज्ञेया द्वितीया कार्यतत्परा ॥ अव्युत्पत्त्यनपूर्वत्वाप्रयोजननिबन्धनम् । अप्रामाण्यं विदुस्सिद्धे विबुधा ह्यभिधाश्रुतेः ॥ चोदनाश्रुतिरेवैषा व्युत्पत्त्यादिपरिष्कृता । प्रमाणं स्यात्ततश्चाद्या लिङ्गेऽन्तर्भावमर्हति ॥ चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः । वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता ॥ ततश्चोपनिषद्व्याख्याशास्त्रं नारम्भमर्हति । यस्मादुपनिषच्छब्दः सिद्धवस्त्वेकगोचरः ॥ अत्रोच्यते ब्रह्मविद्भिः ब्रह्माप्यानन्दलक्षणम् । शास्त्रेणैवावसेयं च व्युत्पन्नं चाप्तवाक्यतः ॥ तस्मात्साध्यपरा यद्वत्तथा सिद्धपराऽपिच । श्रुतिः प्रमाणं तेनार्धजरतीयं न युक्तिमत् ॥ इति सिद्धान्तानुरोधात्कार्यतत्त्वमनूद्यते । प्राक्श्लोकैस्सप्तभिः पश्चात् सप्तभिस्तन्निरस्यते

518 मानमेयरहस्यश्लोकवार्तिके

लोके हि सिद्धवस्तूनां ये शब्दाः प्रतिपादकाः । पश्चात्तनास्ते संदृष्टाः प्रतिपाद्यात् तथा यदा ॥ श्रुतिः सिद्धपराचेत्स्यात् प्रतिपाद्यादनन्तरा । ततश्चांपौरुषेयत्वं नित्यत्वं च न निर्वहेत् ॥ कृतिसाध्यं प्रधानं यत्तत्कार्यमिति गीयते । प्रामाण्यमपि वेदस्य तत्र व्युत्पत्तिसंभवात् ॥ आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥ कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमेवच । कार्यस्य त्रय आकारा इत्याहुः कार्यवादिनः ॥ साधारणौ द्वावाकारौ भावार्थफलयोरिति । तृतीयोऽसौ नियोगस्य त्वसाधारण इष्यते ॥ कार्यं हि तच्च प्रथममनन्यार्थं प्रतीयते । ततश्चान्यार्थता युक्ता भृत्येष्टप्रदभूपवत् ॥ ३ स च किं कृतिकर्मत्वं किंवा प्रेरकता मता । अनुकूलत्वमथवा शेषित्वमथवा मतम् ॥ प्रयोजनत्वमथवा प्राधान्यमथवा कृतेः । अथवा सुखरूपत्वं पुरुषार्थत्वमेववा ॥ नाद्यत्रयं कृत्यधीनसिद्धता वेष्टताऽपिवा । फलभावार्थयोरेव तदेतत्पर्यवस्यति ॥

आत्मभिप्रायवाक्यार्थः 51 शेषित्वं दुर्निरूपं स्यात् पञ्चमं पूर्ववद्भवेत् । षष्ठं त्वसंभवग्रस्तं सप्तमं लोकदूषितम् ॥ अष्टमं निष्प्रमाणं स्यात् अपूर्वं दुर्वचं ततः । कर्तृव्यापारसाध्यत्वमात्रं धात्वर्थसंगतम् ॥ लिङादेवाच्यमित्याहुरनुशासनवेदिनः । एवं वाच्यापूर्ववादो यथाऽन्येषां न संमतः ॥ तथा कल्प्यापूर्ववादः सेश्वरैरधरीकृतः । इति श्रीभाष्यकारीयापूर्ववादार्थसंग्रहः ॥ 4 अथान्विताभिधानाभिहितान्वयविवादयोः । आद्यः प्राभाकराभीष्टः ह्यन्त्यः कौमारिलादृतः आदौ पदानि श्रूयन्ते ततो व्युत्पत्तिमार्गतः । परस्परानन्विता ये पदार्थाः स्मारयन्ति तान् ॥ आकाङ्क्षादिपरामर्शः स्मृतेष्वर्थेषु जायते । न्यायप्रवृत्तिस्तत्रैव स्वात्मानं लब्धुमर्हति ॥ वचनव्यक्तिभेदाभिव्यक्तिस्संपाद्यते तया । सम्यङ्न्यायानुग्रहेण तैर्वाक्यार्थोऽभिधीयते ॥ नानापदार्थसहितप्रधानेकार्थलक्षणः । पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ॥ न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् । अन्वितार्थाभिधायित्वे पदानां शिक्षिते सति ॥

520 मानमेयरहस्यश्लोकवार्तिके विशिष्टा वक्तृधीर्ज्ञातुं शक्यते नान्यथा पुनः । एषोऽन्विताभिधानस्य प्रकारः गुरुसम्मतः ॥ 5 अथ भट्टस्याभिमतः प्रोच्यतेऽभिहितान्वयः । पदैरेवाभिधीयन्ते पदार्थाः ते पृथक्पृथक् ॥ विशेषव्यक्त्यभावात्स्मारकान्न विशिष्यते । योग्यत्वेन परामृष्टाः तेऽर्था अभिहिताः पुनः ॥ विशेषसंसर्गरूपं वाक्यार्थं बोधयन्ति तम् । पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ॥ यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः । न पदव्यावृतिस्तत्र चार्थैरेवार्थसिद्धितः ॥ यथा कविभिरालोच्यमाना अर्थाः परस्परम् । अन्विताः केवलं लोकोत्तरवाक्यस्य हेतवः ॥ अत एव हि वाक्यार्थमेते लाक्षणिकं विदुः । यस्मादभिहितैरर्थैः संबन्धात्सोऽवगम्यते ॥ नाकृतिः प्रथमं ज्ञाता व्यक्तिः पश्चात्प्रतीयते । किं तु प्रतीयते जातिः व्यक्त्यैव सहिता यथा तथाऽन्वयोऽप्यधिगतस्त्वन्वितस्यावबोधकः । इत्यन्विताभिधायेष शब्द इत्युच्यते परैः ॥ कॢप्तमन्वितसामर्थ्यं पदार्थानां स्वभावतः । एकवाक्यतया तत्र कल्प्यं नियममात्रकम् ॥

आप्ताभिप्रायवाक्यार्थः पदार्थेष्वभिधावृत्तिः पदानां पर्यवस्यति । तात्पर्यवृत्तिर्वाक्यार्थे स तस्माच्चोदनाश्रयः ॥ 6 शब्दैकलभ्यतारागादेवान्येऽन्वितवादिनः । तात्पर्येणान्यथासिद्ध्या परेऽभिहितवादिनः ॥ वाक्यं प्रमाणान्तरं स्यात्पदसन्निधिलक्षणम् । तल्लक्षणसामर्थ्यं मतमिन्द्रियलिङ्गवत् ॥ तथा कार्यार्थसिद्धार्थव्युत्पत्त्येकान्तभेदतः । अन्विताभिहितेत्यादिमतभेदः व्यवस्थितः ॥ पदज्ञानं तु करणं द्वारमर्थस्मृतिस्ततः । फलं संसर्गबोधस्स्यात् इति नैयायिका विदुः तत्रान्वयोऽनधिगतः वाक्यवेद्यो यतस्ततः । ते त्वन्वयाभिधानस्य वादिनः परमार्थतः ॥ निर्विशेषब्रह्मवादे ह्यन्वितस्यान्वयस्य वा । भेदगर्भत्वतः शब्दः न तादृग्ब्रह्मबोधकः ॥ सविशेषब्रह्मवादे प्रधानार्थाविरोधतः । नैकत्र निर्भरस्तस्माद्व्यवहारो यथायथम् ॥ अन्वीयमानवस्तूनामभिधानं परेऽब्रुवन् । अन्येऽभिधीयमानानामर्थानामन्वयं जगुः ॥ अत्रापि केचिन्मन्यन्ते सामान्येनान्विताभिधा विशेषतश्चाभिहितान्वय इत्यपि कल्पनाम् ॥ M.R. 66

अतस्सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषविज्ञातः तेन स्यादन्वितोक्तिता ॥ इत्यप्याहुर्बुधाः केचित् सर्वथाऽन्वयबोधनम् । फलं सर्वत्राविशिष्टमित्याहुश्चिन्तनालसाः ॥ मीमांसकस्य सिद्धान्तः तथा नैयायिकस्य वा । प्रदर्शितः परिष्कृत्य प्रायो वेदान्तवादिभिः ॥ एष वाक्यार्थवादोऽत्र देवताप्रीतये कृतः । सर्वत्र देवताप्रीतिः कर्तव्येति हि निर्णयः ॥ लक्ष्मीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना । एवं प्रमाणभागोऽयं द्वितीयस्समगृह्यत ॥ श्रीः. प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महाविद्वत्पण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रमाणकाण्डः द्वितीयः समाप्तः.

अथ तृतीयः प्रयोजनकाण्डः. (107) त्रिवर्गवादः. 1 प्रयोजनविचारोऽथ तृतीयोऽयं विलिख्यते । व्यापारस्य हि सर्वस्य विश्रमोऽस्ति प्रयोजने ॥ धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एवच । अर्थ एवेह वा श्रेयः त्रिवर्ग इति तु स्थितिः ॥ इति प्राह मनुस्तस्य वचनस्यायमाशयः ॥ श्रेयःपदं पुमर्थस्य वाचकं सर्वसम्मतम् ॥ अर्थ एव पुमर्थस्स्यादित्येकेषामिहाशयः । अर्थ एवहि धर्मस्य कामस्यास्तीह साधनम् ॥ काम एव पुमर्थस्स्यादिति केषांचिदाशयः । धर्म एव श्रेय इति रौति वै बादरायणः ॥ ऊर्ध्वबाहुर्विरौम्येष नच कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ अर्थकामौ श्रेय इति चापरेषामिहाशयः । अर्थकामौ हि जगति प्रथितं सुखसाधनम् ॥ अर्थधर्मौ श्रेय इति चाचार्या मन्वतेऽपरे । कामो हि धर्मार्थाभ्यां स्यादिति तेषामिहाशयः॥ 523

24 मानमेयरहस्यश्लोकवार्तिके परस्पराविरुद्धस्तु त्रिवर्गश्श्रेय इष्यते । पुरुषार्थतयेत्यत्र मनोः स्मर्तुः विनिर्णयः ॥ मुमुक्षूणां पुनः श्रेयः मोक्ष एवेतिचेरितम् । षष्ठाध्याये, ततः पक्षाः विबुधैस्सप्त निश्चिताः ॥ तमसो लक्षणं कामः रजसस्त्वर्थ उच्यते । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ एवं प्राचां विवादेऽपिचाधुना ते चतुर्विधाः । पुरुषार्थाः चतुर्वर्गः इति पीठप्रकल्पना ॥ २ धर्मश्चार्थश्च कामश्च मोक्षश्चेति चतुर्विधः । पुरुषार्थो विभक्तोऽस्ति यथा स्मृतिपुराणयोः ॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदत्रास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ अत्रायेऽर्थे चतुर्भिश्चैरधर्माद्यास्समुच्चिताः । मिथस्समुच्चयश्चेति व्याख्यातं तन्त्रवार्तिके ॥ अर्थं प्रोवाच चाणक्यः कामं वात्स्यायनोऽब्रवीत् । धर्मं तु जैमिनिः प्राह मोक्षं वै बादरायणः ॥ एतेऽधुना तीर्थकराः पुमर्थानामिति श्रुताः । समुच्चयविदस्सर्वेऽप्यधिकारिविभेदतः ॥ पुरुषैरर्थ्यमानत्वात्पुरुषार्थ इतीर्यते । स तु स्यात्सुखमेवात्र तच्चतुर्धा विभज्यते ॥

त्रिवर्गवादः 5 शारीरं मानसं चेति द्विधा तत्सुखमिष्यते । अर्थकामौ तु शारीरं धर्ममोक्षौ तु मानसम् ॥ 3 पुमवस्थाक्रमेणैव पुरुषार्थक्रमोऽप्यसौ । निर्देशव्युत्क्रमे चापि हेतुरग्रेऽवगम्यते ॥ . उत्पत्तितस्त्विन्द्रियार्थसन्निकर्षनिबन्धनम् । यत्तदर्थसुखं ज्ञेयमथ कामो निरुच्यते ॥ वयोऽवस्थाविशेषेण सहवासादिनाऽपिवा । पुंस्त्वाद्यभिव्यक्तिभवं अवस्थैकनिबन्धनम् ॥ तथा विद्यासंस्कृतेन मनसा धर्मलक्षणम् । सुखं ह्यनुबुभूषन्ति नियोगसुखवादिनः ॥ फलान्तराहेतुरपि स्वरूपे कार्यबुद्धितः । स्वयंप्रयोजनं नित्यमित्यप्यत्रेतेरे विदुः ॥ प्रत्यवायपरीहारबुद्ध्या कर्तव्यमेव तत् । इत्याहुरपरे प्राज्ञाः स धर्मस्सुखमर्थ्यते ॥ अतएवहि यज्ञस्य त्रैविध्यपरिशोधने । अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ॥ यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः । इत्यस्य पुरुषार्थत्वं गीतं भगवता स्वयम् ॥ ख्यातेर्लाभस्य पूजायाः मानसी सुखता यथा । तथा धर्मस्य सुखता शास्त्रदृष्टिभिरीक्ष्यते ॥

526 मानमेयरहस्यश्लोकवार्तिके मोक्षस्य पुरुषार्थत्वे विक्रान्तं सर्वसूरिभिः । तत्सर्वमुत्तरत्रैव सम्यक्स्पष्टीभविष्यति ॥ एवं चतुर्विधसुखावस्थाप्राधान्यलिप्सया । चातुराश्रम्यसंस्थाऽपि प्रायेणात्रानुरुध्यते ॥ मोक्षाश्रमस्स्यात्संन्यासः धर्मो वैखानसाश्रमः । कामो गृहस्थाश्रमस्स्यात् अर्थार्थी ब्रह्मचार्यसौ । एतद्दृष्ट्यैव वर्णानां विभागोऽपि समञ्जसः । ब्राह्मणस्त्विह संन्यासी ऋषिः क्षत्रिय उच्यते ॥ गृहस्थोऽपि भवेद्वैश्यः शूद्रश्शुश्रूषुरुच्यते । तथा कालविभागोऽपि कृतं ब्राह्मण्यलक्षणम् ॥ क्षात्रं त्रेता समाख्याता द्वापरः वैश्यता मता । शूद्रः कलिरितिप्रोक्तः स्पष्टं रामायणोत्तरे ॥ अपराजितपृच्छाया वचश्चाप्यवधार्यताम् । ऋग्वेदादिविभागेन कृतादियुगभेदतः ॥ विप्रादिवर्णभेदेन चतुर्वक्त्रः चतुर्भुजः । हेमाद्रीये कालखण्डे परिशिष्टे ह्युदाहृतम् ॥ चतुर्णामपि चैतेषां परस्परसमागमः । विशिष्टेनानुकूल्येन प्रपञ्चस्थितये मतः ॥ 4 चातुराश्रम्यसिद्धान्ते त्वैकाश्रम्यं समाश्रिताः । जैमिनीयास्ततस्सोऽयं बाधपक्ष इतीर्यते ॥

त्रिवर्गवादः 527 अधिकारानुरोधेन बादरायणयोगिनः । विकल्पमिच्छया प्राहुः पक्षो वैकल्पिकस्तु सः ॥ समुच्चयं ह्याश्रमाणां मन्वाद्यास्स्मृतिकारिणः । प्राहुस्समुच्चयस्तेषां पक्ष इत्यवधार्यते ॥ तद्वद्धर्मार्थकामादिपुरुषार्थचतुष्टये । अर्थो लौकायतैः प्रोक्तः कामश्शाक्तस्त्वनन्तरः ॥ जरन्मीमांसकाभीष्टः मोक्षस्सौगतसम्मतः । अधिकारानुरोधेन विकल्पं केचिदूचिरे ॥ समुच्चयस्स्वीकृतोऽस्ति स्पष्टं स्मृतिपुराणयोः । परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ॥ धर्मं चाप्यसुखोदर्कं लोकविक्रुष्टमेवच । असाधुभ्योऽर्थमादाय साधुभ्यस्संप्रयच्छति ॥ धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । इति मन्वादिवचनात्कलितावर्थकामयोः ॥ आद्यन्तयोः धर्ममोक्षाविति शास्त्ररहःस्थितिः । अर्थशास्त्रे स्तेयशास्त्रे चार्थतत्त्वं प्रपञ्चितम् ॥ 5 अथ कामरहस्यं तु किंचिदत्र प्रकाश्यते । रागो द्वेषो मोह एते यान्तिचेदुत्कटां स्थितिम् ॥ कामः क्रोधो लोभ इति व्याह्रियन्ते क्रमादमी । कामस्येच्छासंज्ञकस्यावस्थाभेदा इमे मताः ॥

देवासुरमनुष्याणां रूपमेतद्विभाजकम् । त्रिविधं नरकस्यैतद्वारं नाशनमात्मनः ॥ कामः क्रोधस्तथा लोभः तस्मादेतत्तत्रयं त्यजेत् । इत्येवं गीतया सैषा श्रुतिस्स्यादुपबृंहिता ॥ बृहदारण्यकान्तस्स्था प्राजापत्यास्त्रया इति । असुरांश्च मनुष्यांश्च देवांश्चापि प्रजापतिः ॥ उपादिशद्धि ददद्-दयध्वं दत्त दाम्यत । श्रुतिस्मृत्योरयं भावः तस्मिन् सर्वं प्रतिष्ठितम् ॥ (108) मोक्षोपोद्घातः. 1 अथ मोक्षपदार्थस्य तत्त्वं संगृह्यतेऽधुना । यदर्थं सकलं शास्त्रं जगत्यां संप्रवर्तते ॥ दुःखाभावस्सुखमिति व्यवहारस्य गोचरः । किंचित्सुखं नाम वस्तु नास्तीत्येव हि सौगताः॥ न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् । अनिषेधादुपात्तं चेत् अन्येन्द्रियमतं वृथा ॥ दुःखाभावस्सुखमिति जरत्तार्किकसम्मतः । इत्यानन्दगिरिः प्राह स्पष्टं संबन्धवार्तिके ॥ 2 सुखाभावो दुःखमिति व्यवहारस्य गोचरः । दुःखं वस्त्वन्तरं नास्तीत्याहुर्लोकायताः पुनः ॥

मोक्षोपोद्घातः 529 यावज्जीवं सुखं जीवेत् सुखभाजः प्रजास्स्मृताः । आत्मा सुखे नियोक्तव्य इत्यादिबचसां चयात् ॥ 3 सुषुप्त्याद्युपलम्भेन सर्वे दार्शनिकाः परे । तृतीयामसुखादुःखावस्थामभ्युपयन्ति ते ॥ रागद्वेषविहीना या दशोपेक्षात्मिका यथा । यथाऽनुष्णाशीतता वा यथाऽनिर्वचनीयता ॥ प्रत्यक्षाच्च परोक्षाच्चापरोक्षोऽन्यो यथेष्यते । कृतिज्ञप्त्योरन्तराळे व्यक्तिरन्या यथोच्यते ॥ तादात्म्यं च यथा भेदाभेदयोर्मध्यलक्षणम् । पतितात्पतितव्याच्च वर्तमानाध्वता यथा ॥ संचितागामिनोर्मध्ये प्रारब्धं वा यथेष्यते । तथाऽन्तरालावस्थानं प्राय इच्छन्ति सूरयः ॥ मिथस्संश्रयधीबाधमध्यावस्थोपलम्भनैः । न स्यात्परस्पराभावमात्रता सुखदुःखयोः ॥ 4 अभ्यास एव सर्वत्र सुखादीनां नियामकः । कालदेशदशाभिन्नस्वभावात्स व्यवस्थितः ॥ नहि वस्तु स्वभावेन पुरुषार्थत्वमश्नुते । तथात्वे सर्वदा सर्वं सर्वेषां स्याद्व्यवस्थया ॥ सुखाय वा स्याद्दुःखाय नचैवं त्वव्यवस्थया । सुखदुःखव्यवस्थेयं दुर्निरूपा हि धीमताम् ॥ M.R. 67.

30 मानमेयरहस्यश्लोकवार्तिके तथाचोक्तं पुराणेऽपि पराशरमहर्षिणा । मनःप्रीतिकरः स्वर्गः नरकस्तद्विपर्ययः ॥ वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च ततस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय ततः प्रसादाय च जायते ॥ तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् । संस्कारात्मा वासनैव सुखदुःखव्यवस्थितिः ॥ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तत्तस्मात्तस्य रोचते ॥ पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः । तेभ्य एव हि यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः॥ अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ क्षुत्तृष्णोपशमं तद्वत् शीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वात् दुःखमेव हि तत्पुनः ॥ अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥ तथा सौगतगाथाऽपि गीयते सार्वलौकिकी । परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ॥