मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
८६ मेघदूतम्
व्याख्या—जालोद्गीर्णैः=वातायननिर्गतैः, केशसंस्कारधूपैः=कामिनीवेणीसंस्कृतधूपैः, उपचितवपुः=परपुष्टदेहः, बन्धुप्रीत्या=बान्धवस्नेहेन, भवनशिखिभिः=सदनमयूरैः, दत्तनृत्योपहारः=प्रदत्तनर्तन उपहारः, कुसुम सुरभिषु=पुष्प सौरभेषु, ललितवनितापादरागाङ्कितेषु=सुन्दराङ्गनाचरणलाक्षारुचि-चिह्नितेषु, हर्म्येषु=अट्टालिकासु, अस्याः=उज्जयिन्याः, लक्ष्मीम्=शोभाम्, पश्यन्=बिलोकयन्, अध्वखेदम्=मार्गपरिश्रमम्, नयेथाः=दुरीकुरु।
शब्दार्थः—जालोद्गीर्णैः=जालियों से (खिड़की से) निकलते हुए, केशसंस्कारधूपैः=(कामिनियों के) केशों को सुगन्धित करने वाले धूप से, उपचितवपु=परिपुष्ट देह वाला, बन्धुप्रीत्या=बान्धव स्नेह से, भवनशिखिभिः=घर के (पालतू) मोरों द्वारा, दत्तनृत्योपहारः=जिसे नृत्य का उपहार दिया गया है, कुसुम-सुरभिषु=फूलों के सुगन्ध से सुगन्धित, ललितवनितापादरागाऽङ्कितेषु=सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्न से चिह्नित, हर्म्येषु=महलों में, अस्याः=इस उज्जयिनी की, लक्ष्मीं=शोभा को, पश्यन्=देखता हुआ, अध्वखेदम्=रास्ते के परिश्रम को, नयेथाः=दूर करना।
भावार्थः—हे मेघ ! तत्रोज्जयिन्यां वातायनमार्गेनिर्गतैः कामिनीकचवासनार्थैः गन्धद्रव्यधूपैः परिपुष्टशरीरः भ्रातृस्नेहेन सदनमयूरेण नृत्यद्वारा कृतातिथ्यः (त्वम्) पुष्पपरिमलेषु सुन्दरललनाचरणालक्तकचिह्नितेषु भवनेषु उज्जयिन्याः शोभामवलोकयन् मार्गगमनजन्यपरिश्रममपनय ।
हिन्दी—हे मेघ ! वहाँ उज्जयिनी में खिड़की की जालियों से स्त्रियों के केशों को सुगन्धित करनेवाले धूप से परिपुष्ट देहवाले भ्रातृस्नेह से घर के पालतू मयूरों के द्वारा सत्कृत तुम पुष्प के सुगन्ध से सुगन्धित, सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्नों से युक्त महलों में उज्जयिनी की शोभा को देखते हुए मार्ग में चलने के कारण उत्पन्न परिश्रम को दूर करना ।
समासः—जालेभ्यः उद्गीर्णाः तैः (ष० तत्०)। केशानां संस्कारः केशसंस्कारः (ष० तत्०) तस्य धूपस्तैः (ष० तत्०)। बन्धोः प्रीतिः तया बन्धुप्रीत्या (ष० तत्०)। उपचितं वपुर्यस्य स उपचितवपुः (बहु०)। भवनेषु
पूर्वमेघः | ८७
शिखिनः भवनशिखिनः तैः (स० तत्०) । नृत्यमेवोपहारः नृत्योपहारः (रूपक-समासः) दत्तः नृत्योपहारः यस्मै सः (बहुव्रीहिः) । कुसुमैः सुरभिषु = कुसुम-सुरभिषु (तृ० तत्०) । ललिताश्च ताः वनिताः = ललितवनिताः (कर्म०धा०), पादयोः रागः = पादरागः (स० तत्०) ललितवनितानां पादरागः = ललित-वनितापादरागः (ष० तत्०) तेन अङ्कितेषु (तृ० तत्०) = ललितवनिता-पादरागाङ्कितेषु ।
कोशः—जालं गवाक्ष आनाये जालके कपटे गणे, इति यादवः । निदिग्धो-पचिते, इत्यमरः । उपायनमुपग्राह्यमुपहारस्तथोपदा, इत्यमरः । ललितं त्रिषु सुन्दरम्, इति शब्दार्णवः । अयनं वर्त्म मार्गाऽध्वः, इत्यमरः । हर्म्यादि धनिनां वासः, इत्यमरः ।
टिप्पणी—उद्गीर्णः—"उद्" उपसर्गपूर्वक निगरणार्थक "गॄ" धातु से "क्त" प्रत्यय करके णत्व करके "उद्गीर्णः" ऐसा रूप बनता है । संस्कारः—"सम्" उपसर्गपूर्वक करणार्थक (डु) "कृ" धातु से घञ् प्रत्यय करके ञित्त्वात् आदि वृद्धि करके "सम्पूरिभ्यां करोतौ भूषणे" इस सूत्र से सुडागम करके अनुस्वारादि करके "संस्कार" ऐसा रूप बना है । (सम् + सकार + अ = संस्कार) शिखिनः—"शिखा" शब्द व्रीह्यादिगण में पढ़ा गया है । अतः व्रीह्यादिभ्यश्च" इस सूत्र से 'इनि' प्रत्यय करके 'शिखिन्' ऐसा रूप बनता है । उक्त रूप उसी शब्द के बहुवचन का है । नृत्यम्—गात्र विक्षेपार्थक "नृती" धातु से "ऋदुपध-चाऽकॢपिचृतेः" इस सूत्र से "क्यप्" प्रत्यय करके "नृत्य" ऐसा रूप बनता है । उपहारः—"उपसर्गपूर्वक "हृ" धातु से "घञ्" प्रत्यय करके "उपहार" ऐसा रूप बनता है । कुछ टीकाकार "अध्वखेदं नयेथाः" के स्थान पर "अध्व-खिन्नान्तरात्मा" ऐसा पाठ मानते हैं और इसका सम्बन्ध आगे वाले श्लोक के साथ कर इन दोनों को "युग्मक" मानते हैं ॥ ३२ ॥
भर्तुः कण्ठच्छविरितिगणैः सादरं वीक्ष्यमाणः
पुष्पं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
८८ मेघदूतम्
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥
अन्वयः—भर्तुः कण्ठच्छविः इति गणैः सादरं वीक्ष्यमाणः कुवलयरजोगन्धिभिः तोयक्रीडानिरतयुवतिस्नानतिक्तैः गन्धवत्याः मरुद्भिः धूतोद्यानं त्रिभुवनगुरोः चण्डीश्वरस्य पुण्यं धाम यायाः ।
व्याख्या—भर्तुः = स्वामिनो नीलकण्ठस्य, कण्ठच्छविः = गलशोभा, इति = अस्माद्धेतोः, गणैः = दूतैः, सादरम् = सम्मानपूर्वकम्, वीक्ष्यमाणः = अवलोक्यमानः ( सन् ), कुवलयरजोगन्धिभिः = पद्मपरागसुगन्धितैः, तोयक्रीडानिरतयुवतिस्नानतिक्तैः = जलक्रीडातत्परवनिताऽवगाहनसुगन्धितैः, गन्धवत्याः = एतन्नामिकायाः सरितः, मरुद्भिः = वायुभिः, धूतोद्यानम् = प्रकम्पिताऽऽरामम्, त्रिभुवनगुरोः = त्रैलोक्यनाथस्य, चण्डीश्वरस्य = भवानीपतेः, पुण्यम् = पवित्रम्, धाम = स्थानम्, महाकालमिति भावः, यायाः = गच्छेः ।
शब्दार्थः—भर्तुः = स्वामी नीलकण्ठ के, कण्ठच्छविः = गले की शोभा के समान (तुम हो), इति = इस कारण, गणैः = शिवजी के गणों द्वारा, सादरम् = ससम्मान, वीक्ष्यमाणः = देखा जाता हुआ, कुवलयरजोगन्धिभिः = कमल के पराग से सुगन्धित, तोयक्रीडानिरतयुवतिस्नानतिक्तैः = जलक्रीडा में आसक्त युवतियों के स्नान से सुगन्धित, गन्धवत्याः = गन्धवती नाम की नदी के, मरुद्भिः = वायु के द्वारा, धूतोद्यानम् = जहाँ का बगीचा कँपाया गया है, त्रिभुवनगुरोः = त्रैलोक्यनाथ, चण्डीश्वरस्य = पार्वतीपति ( शिवजी के उस ) पुण्यम् = पवित्र, धाम = स्थान को ( महाकाल को ), यायाः = जाना ।
भावार्थः—हे मेघ ! शिवस्य गलशोभामिव त्वां प्रमथाः सादरमवलोकयिष्यन्ति त्वञ्चोज्जयिन्यां पद्मपरिमलसुगन्धितैः जलक्रीडाऽऽसक्तकामिनीस्नान-( चन्दनादिभिः ) सुरभितैः गन्धवत्याः नद्याः वायुभिः कम्पिताऽऽरामं भवानीभर्तुः महाकालेश्वरस्य पवित्रं धाम गच्छ ।
हिन्दी—हे मेघ ! शिवजी के गले की शोभा के समान तुम्हें शिवजी के गण सादर देखेंगे । तुम भी वहाँ कमल के पराग से सुगन्धित जलक्रीड़ा में लगी
पूर्वमेघः ८९
कामिनियों के स्नान से (देह में लगे चन्दनादि से) सुवासित गन्धवती के वायु के द्वारा जहाँ का बगीचा कँपा दिया गया है, महाकालेश्वर के उस पवित्र स्थान में जाना ।
समासः- कण्ठस्येव छविर्यस्य स कण्ठच्छविः (बहु०) । कुवलयानां रजः = कुवलयरजः ( ष० तत्० ) तेषां गन्धः = कुवलयरजोगन्धः ( ष० तत्० ) सः, येषामस्तीति तैः = कुवलयरजोगन्धिभिः ( बहुव्री० ) । तोये क्रीडा = तोयक्रीडा ( स० तत्० ) तस्यां निरताः = तोयक्रीडानिरताः, ताश्च युवतयः = तोयक्रीडा-निरतयुवतयः ( कर्मधा० ) तासां स्नानं ( ष० तत्० ) तेन तिक्तास्तैः ( तृ० तत्० ) । कम्पितानि उद्यानानि यस्मिन् तत् कम्पितोद्यानम् ( बहुव्री० ) । त्रयाणां भुवनानां समाहारः = त्रिभुवनम् ( समाहारद्विगुः ) तस्य गुरुः, तस्य ( ष० तत्० ) ।
कोशः- कण्ठो गलः, इत्यमरः । गणस्तु गणनायां स्याद् गणेशे प्रमथे चये, इति शब्दार्णवः । प्रमथाः स्युः पारिषदाः, इत्यमरः । स्नानीयेऽभिषये स्नानम्, इति यादवः । कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः, इति हलायुधः । गृहदेह-त्विट् प्रभावाद्यामान्यथ इत्यमरः ।
**टिप्पणी—कण्ठच्छविः—**यहाँ “सप्तमीविशेषणे बहुव्रीहौ” इस सूत्र के “सप्तमी” पद से ज्ञापित “व्यधिकरण बहुव्रीहि” समास हुआ है । समुद्र-मन्थन के समय निकले विष को शिवजी ने संसार की रक्षा के लिए पी लिया था, उसके ताप से उनका गला मेघ की तरह “नीला” हो गया था इसलिए शिवजी को नीलकण्ठ कहा गया है । वीक्षमाणः—“वि” उपसर्गपूर्वक “ईक्ष” धातु से “शानच्” प्रत्यय करके “वीक्षमाणः” ऐसा रूप बना है ।
**अलङ्कार—**यहाँ “उदात्तालङ्कार” है ॥ ३३ ॥
अप्यन्यस्मिञ्जलधर ! महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
९० मेघदूतम्
कुर्वन् सन्ध्याबलिपठहतां शूलिनः श्लाघनीया मामन्द्राणां फलमविकलं लप्स्यते गर्जितानाम् ॥ ३४ ॥
**अन्वयः—**हे जलधर ! महाकालम् अन्यस्मिन् अपि काले आसाद्य ते स्थातव्यम्, यावत् भानुः नयनविषयम् अत्येति । श्लाघनीयाम् शूलिनः सन्ध्या-बलिपठहतां कुर्वन् आमन्द्राणाम् गर्जितानाम् अविकलम् फलम् लप्स्यसे ।
**व्याख्या—**हे जलधर ! = हे मेघ ! महाकालम् = एतन्नामकज्योतिर्लिङ्ग-स्थानम्, अन्यस्मिन्नपि = अपरस्मिन्नपि, काले = समये, आसाद्य = प्राप्य, ते = त्वया, स्थातव्यम् = निवसितव्यम्, यावत् = यावत् कालम्, भानु = दिनकरः, नयनविषयम् = दृष्टिगोचरताम्, अत्येति = अतिक्रामति, सूर्यास्तसमयपर्यन्तं त्वया तत्र स्थातव्यम् इति भावः । श्लाघनीयाम् = प्रशंसनीयाम्, शूलिनः = महाकाले-श्वरस्य, शिवस्येत्यर्थः, सन्ध्याबलिपटरहताम् = सायङ्कालिकपूजापटहभावम्, कुर्वन् = विदधत्, आमन्द्राणाम् = ईषदगम्भीराणाम्, गर्जितानाम् = स्तनितानाम्, अविकलम् = सम्पूर्णम्, फलम् = पुण्यम्, लप्स्यसे = प्राप्स्यसि ।
**शब्दार्थः—**हे जलधर ! = हे मेघ ! महाकालम् = चण्डीश्वर के स्थान में, अन्यस्मिन्नपि = सन्ध्या के अतिरिक्त, काले = समय में भी, आसाद्य = जाकर, ते = तुम्हें, स्थातव्यम् = ( वहाँ ) ठहरना चाहिए, यावत् = जब तक, भानुः = सूर्य, नयनविषयम् = दृष्टिगोचरता को, अत्येति = अतिक्रमण करता है, अर्थात् जब तक सूर्य डूब नहीं जाते हैं, तब तक । श्लाघनीयाम् = प्रशंसनीय, शूलिनः = शिवजी की, सन्ध्याबलिपठहताम् = सन्ध्या की पूजा ( आरती ) में नगाड़े का काम, विदधतः = करता हुआ ( तुम ), आमन्द्राणाम् = किञ्चिद् गम्भीर, गर्जि-तानाम् = गर्जन का, अविकलम् = सम्पूर्ण, फलम् = फल को, लप्स्यसे = प्राप्त करेगा ।
**भावार्थः—**हे मेघ ! सन्ध्याऽतिरिक्तसमयेऽपि महाकालेश्वरस्य पुण्यं धाम गत्वा त्वं सूर्यो यावत्कालपर्यन्तमस्ताचलं न गच्छेत् तावत्कालपर्यन्तं स्थास्यसि । ( यतो हि ) सायन्तनपूजापटहतां विदधत् ईषदगम्भीरनादस्त्वं गर्जितानां सम्पूर्ण फलं प्राप्स्यसि ।
पूर्वमेघः ९४
हिन्दी—हे मेघ ! सन्ध्या के अतिरिक्त दूसरे समय में भी महाकाल के पवित्र स्थान में जाकर जबतक सूर्य डूब नहीं जाते तब तक ठहरना। (क्योंकि) महाकालेश्वर की सायंकाल की पूजा ( आरती ) में नगाड़े के काम को करते हुए तुम थोड़े गम्भीर गर्जन का सम्पूर्ण फल प्राप्त करोगे।
समासः—धरतीति धरः जलानां धरः=जलधरः (ष० तत्०)। नयनयोः विषयः = नयनविषयः ( ष० तत् ० ) तम् । सन्ध्यायाः बलिः = सन्ध्याबलिः ( ष० तत् ० ) तस्य पटहः=सन्ध्याबलिपटहः ( ष० तत् ० ) तस्य भावस्तम्=सन्ध्याबलिपटहताम् । विगताः कलाः यस्मात् तत् विकलम् (बहु०) न विकलम् =अविकलम् ( नञ् ) ।
कोशः—यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे, इत्यमरः । शिवः शूली महेश्वरः, इत्यमरः । बलिः पूजापहारे च, इति वैजयन्ती । कलो मन्द्रस्तु गम्भीरे, इत्यमरः । आनकः पटहोऽस्त्री स्यात्, इत्यमरः । स्तनितं गर्जितं मेघनिर्घोषे-रसितादि च, इत्यमरः ।
टिप्पणी—धरतीति धरः = यहाँ धारण अर्थ में विद्यमान ‘धृञ्’ धातु से ‘‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’’ इस सूत्र से पचादित्वात् ‘अच्’ प्रत्यय किया गया है। आसाद्य—‘आङ्’ उपसर्गपूर्वक ( ष ) ‘‘सद्’’ धातु से क्त्वा प्रत्यय करके एवं उसके स्थान पर ल्यबादेश करके ‘‘आसाद्य’’ ऐसा रूप बनता है। अत्येति—‘‘अति’’ उपसर्गपूर्वक गत्यर्थक ‘इण्’ धातु के लट् लकार के प्रथमपुरुष के एकवचन का ‘अत्येति’ यह रूप है। स्थातव्यं ते—तव्यत् प्रत्यय के कृत्य होने के कारण ‘स्थातव्यम्’ के योग में ‘कृत्यानां कर्तरि वा’ इस सूत्र से विकल्प से षष्ठी यहाँ हुई है, जिसका अर्थ ‘त्वया’ है । यहाँ इस बात का ध्यान रखना चाहिए कि युष्मद् अस्मद् शब्द को ते, मे, आदेश वाक्य के आदि में नहीं होता है, जैसा कि ‘गन्तव्या ते वसतिः’ यहाँ पर भी ‘ते’ प्रयोग वाक्य के आदि में नहीं किया गया है। सन्ध्या—‘सम्’ उपसर्गपूर्वक चिन्ता अर्थ में विद्यमान् ‘ध्यै’ धातु से आत्व करके ‘आतश्चोपसर्गे’ इस सूत्र से ‘अङ्’ प्रत्यय करके स्त्रीत्व विवक्षा में टाप् करके ‘संध्या’ ऐसा रूप निष्पन्न होता है।
५२ | मेघदूतम्
अलंकार—यहाँ पूर्वार्ध कथित वाक्यों का उत्तरार्ध कथित वाक्य हेतु है, अतः यहाँ 'काव्यलिङ्ग' नामक अलङ्कार है ॥ ३४ ॥
पादन्यासैः क्वणित-रशनास्तत्र लीलावधूतैः
रत्नच्छायाखचित-वलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपद-सुखान् प्राप्यवर्षाग्रबिन्दू-
नामोक्ष्यन्ते त्वयि मधुकर-श्रेणि-दीर्घान् कटाक्षान् ॥ ३५ ॥
अन्वयः—तत्र पादन्यासैः क्वणितरशनाः लीलावधूतैः रत्नच्छायाखचित-वलिभिः चामरैः क्लान्तहस्ताः वेश्याः त्वत्तः नखपदसुखान् वर्षाग्रबिन्दून् प्राप्य त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् आमोक्ष्यन्ते ।
व्याख्या—तत्र = सन्ध्यासमये, पादन्यासैः = चरणप्रक्षेपैः, क्वणितरशनाः = मुखरितमेखलाः, लीलावधूतैः = विलाससञ्चलितैः, रत्नच्छायाखचितवलिभिः = कङ्कणमणिप्रभाव्याप्तदण्डैः, चामरैः = बालव्यजनैः, क्लान्तहस्ताः = खिन्नहस्ताः, वेश्याः = वाराङ्गनाः, त्वत्तः = भवतः मेघादिति भावः, नखपदसुखान् = नखक्षत-सुखदान्, वर्षाग्रबिन्दून् = वृष्टिप्रथमकणान्, प्राप्य = लब्ध्वा, त्वयि = मेघे, मधु-करश्रेणिदीर्घान् = भ्रमरपंक्तीवायतान्, कटाक्षान् = अपाङ्गान्, आमोक्ष्यन्ते = परित्यक्ष्यन्ति ।
शब्दार्थः—तत्र = संध्या समय में, पादन्यासैः = पैरों के सञ्चालन से, क्वणितरशनाः = जिनकी करधनियाँ बजती रहती हैं, लीलावधूतैः = विलासपूर्वक डुलाये गये, रत्नच्छायाखचितवलिभिः = मणियों की प्रभा से व्याप्तदण्डवाले, चामरैः = चँवरों से, क्लान्तहस्ताः = थके हुए हाथों वाली, वेश्याः = नर्तकियां = त्वत्तः = तुमसे, नखपदसुखान् = नखक्षत को सुख देनेवाली, वर्षाग्रबिन्दून् = वर्षा की पहली बूंदों को, प्राप्य = पाकर, त्वयि = तुम्हारे ऊपर, मधुकरश्रेणि-दीर्घान् = भ्रमरों की पंक्ति की तरह लम्बी, कटाक्षान् = कटाक्ष, आमोक्ष्यन्ते = फेकेंगी ।
पूर्वमेघः ९३
भावार्थः—हे मेघ ! सायंकाले चरणविक्षेपैः मुखरितमेखलाः सविलासं मणिमयदण्डयुक्तचामरसञ्चालनेन खिन्नहस्ताः गणिकाः त्वत्तः नखक्षतशान्ति-प्रदान् वृष्टेः प्रथमबिन्दून् लब्ध्वा त्वयि भ्रमरपंक्तीवायतान् कटाक्षान् परित्य-क्ष्यन्ति । कामिनीकटाक्षरूपं शिवस्तुतिफलं सद्यः लप्स्यसे इति भावः ।
हिन्दी—हे मेघ ! सायंकाल वहाँ, चरणसंचालन से जिनकी करधनियां बजती रहती हैं, विलासपूर्वक मणिमयदण्डवाले चँवरों को डुलाने के कारण थके हुए हाथों वाली, (ऐसी) नतंर्कियां, तुमसे नखक्षत को सुख देने वाली वर्षा की प्रथम बिन्दुओं को पाकर, तुम्हारे ऊपर भौरों की पंक्ति के समान लम्बी कटाक्षें फेंकेंगी । इस तरह शिवजी की स्तुति का कामिनी के कटाक्षरूप फल तुरन्त पा जाओगे ।
समासः—पादयोः न्यासः=पादन्यासः ( ष० तत्० ) तैः क्वणिता रशना यासां ताः पादन्यासक्वशणितरशनाः (बहुव्री०) । लीलया अवधूतैः=लीलावधूतैः (तृ० तत्०) । रत्नानां छाया=रत्नच्छाया ( ष० तत्० ) तया खचिता वलयो येषां तैः=रत्नच्छायाखचितवलिभिः ( बहुव्री० ) । क्लान्तो हस्तो यासां ताः क्लान्तहस्ताः ( बहुव्री० ) । नखानां पदानि=नखपदानि (ष० तत्०) तेषु सुखाः तान् नखपदसुखान् ( स० तत्० ) । अग्राश्च ते विन्दवः=अग्रबिन्दवः (कर्मधा०) वर्षस्य अग्रबिन्दवः=वर्षाग्रबिन्दवः (ष० तत्०) । मधुकराणां श्रेणी मधुकर श्रेणी तद्वद्दीर्घान् मधुकरश्रेणिदीर्घान् ( उपमानानि सामान्यवचनैरिति समासः ) ।
कोशः—पदं व्यवसितत्राणस्थानलक्ष्मांध्रिवस्तुषु, इत्यमरः । वलिश्चामरदण्डे च जरा विश्लथचर्मणि, इति विश्वः । करोपहारयोः पुंसि वलिः, इत्यमरः । सुखहेतौ सुखे सुखम्, इति शब्दार्णवः । दीर्घमायतम्, इत्यमरः । कटाक्षोऽपाङ्गदर्शने, इत्यमरः । पृषन्ति बिन्दुवृषतः पुमांसो विप्रुषः स्त्रियाम्, इत्यमरः ।
टिप्पणी—न्यास—"नि" उपसर्गपूर्वक "अस्" धातु से भाव में "घञ्" प्रत्यय करके आदिवृद्धि करके "न्यास" शब्द निष्पन्न होता है । क्वणित—यहाँ शब्दार्थक "क्वण्" धातु से कर्ता में "क्त" प्रत्यय हुआ है, क्योंकि यह धातु,
| ९४ | मेघदूतम् |
|---|
अकर्मक है, इसलिए "गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च" इस सूत्र से कर्ता में "क्त" प्रत्यय का विधान किया जाता है । त्वत्तः—यहाँ "युष्मद्" शब्द से "पञ्चम्यास्तसिल्" इस सूत्र से तसिल् प्रत्यय करके उसके परे रहते "प्रत्ययोत्तरपदयोश्च" इस सूत्र से "युष्मद्" शब्द के स्थान पर "त्वत्" आदेश का विधान करके "त्वत्तः" ऐसा रूप बना है । मधुकरः—मधु करोतीति = मधुकरः, यहाँ करोति तच्छीलः इस अर्थ में "कृ" धातु से "कृञो हेतुताच्छील्याऽनुलोम्येषु" इस सूत्र से "ट" प्रत्यय करके गुण करके मधुकर ऐसा रूप बनता है ।
अलंकार—यहाँ "मधुकरश्रेणिदीर्घान्" इस स्थल पर "इव" आदि उपमानवाची सामान्य शब्द का लोप होने के कारण "लुप्तोपमा" नामक अलङ्कार है ॥ ३५ ॥
पश्चादुच्चैर्भुज--तरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥३६॥
अन्वयः—पश्चात् नृत्यारम्भे प्रतिनवजपापुष्परक्तम् सान्ध्यम्, तेजः दधानः उच्चैः भुजतरुवनम् मण्डलेन अभिलीनः भवान्या शान्तोद्वेगस्तिमितनयनम् दृष्टभक्तिः पशुपतेः आर्द्रनागाजिनेच्छाम् हर ।
व्याख्या—पश्चात् सायन्तनपूजावसाने, नृत्यारम्भे = ताण्डवोपक्रमे शिवस्येति शेषः; प्रतिनवजपापुष्परक्तम् = नूतनजपाकुसुमारुणम्, सान्ध्यम् = सन्ध्याकालिकम्, तेजः = कान्तिम्, दधानः = धारयन्, उच्चैः = उन्नतम्, भुजतरुवनम् = बाहुवृक्षकाननम्, मण्डलेन = वृत्ताकारतया, अभिलीनः = अभिव्याप्तः, (सन्) भवान्या = पार्वत्या, शान्तोद्वेगस्तिमितनयनम् = विगतभयस्थिरनेत्रम् यथास्यात्तथा, (त्वम्) दृष्टभक्तिः = अवलोकितानुरागः, पशुपतेः = महाकालेश्वरस्य आर्द्रनागाजिनेच्छाम् = क्लिन्नगजचर्माऽऽकांक्षाम्, हर = दूरी कुरु, त्वमेव गजचर्मास्थानी कृष्णवर्णत्वेन भवेति भावः ।
पूर्वमेघः ९५
शब्दार्थः—पश्चात् = सायंकाल की पूजा के बाद, नृत्यारम्भे = ताण्डव के प्रारम्भ में, प्रतिनवजपापुष्परक्तम् = नवीन जपा (अड़हुल) पुष्प के समान लाल, सान्ध्यम् = सायंकालिक, तेजः = प्रकाश को, दधानः = धारण करते हुए, उच्चैर्भुजतरुवनम् = ऊँचे बाहुरूपी वृक्षों के वन पर, मण्डलेन = वृत्ताकारतया, अभिलोनः = व्याप्त होकर, भवान्या = पार्वती के द्वारा, शान्तोद्वेगस्तिमितनयनम् = निर्भय होकर निश्चल आँखों से, दृष्टभक्तिः = देखी गयी है भक्ति जिनकी (ऐसे तुम) पशुपतेः = शिवजी की, आर्द्रनागाजिनेच्छाम् = (शोणित से) गीले हाथी के चमड़े की इच्छा को, हर = दूर करना।
भावार्थः—सायङ्कालिक-पूजावसाने ताण्डवारम्भे नवीन-जपापुष्पाऽऽरुण्यमिव सायङ्कालिकं प्रकाशं धारयन् उच्छ्रितबाहुरूपे वृक्षवने मण्डलाकारेणाच्छन्नः सन् पार्वत्या विगतभयस्थिरलोचनेनावलोक्यमानः, अवलोकितपूज्यानुरागस्त्वं शिवस्य आर्द्रगजचर्माऽऽभिलापमपनय।
हिन्दी—सायं समय की पूजा के बाद ताण्डव (नृत्य) के प्रारम्भ में नवीन जपाकुसुम के समान सायङ्कालिक तेज को धारण करते हुए, ऊँचे बाहुरूपी वृक्षों के वनों पर वृत्ताकार रूप से व्याप्त होकर, पार्वती के द्वारा निर्भयपूर्वक निश्चल आँखों से देखे जाते हुए तुम शिवजी के ताजे हाथी के चमड़े की (ओढ़ने की) इच्छा को दूर करना।
समासः—पशूनां पतिः=पशुपतिः (ष० तत्०) तस्य। नृत्यस्य, आरम्भे=नृत्यारम्भे (ष० तत्०), नवं प्रतिगतं = प्रतिनवं च तत् जपापुष्पम् = प्रतिनवजपापुष्पम् (कर्म० धा०) तद्वत् रक्तम्=(उपमानकर्म०)। उच्चैर्भुजा एव तरवः (रूपक०) भुजतरूणां वनम् = उच्चैर्भुजतरुवनम् (ष० तत्०)। शान्त उद्वेगो ययोस्ते शान्तोद्वेगे (बहुव्री०) अतएव स्तिमिते नयने यस्मिंस्तत् यथा तथा (बहुव्री०) क्रियाविशेषणम्। (दृष्टं वस्तु) भक्तिरेव यस्य सः दृष्टभक्तिः (बहुव्री०)।
कोशः—नाट्यं नृत्यञ्च नर्तने, इत्यमरः। प्रत्यग्रोऽभिनवो नव्यः, इत्यमरः उद्वेगरत्तवदिते क्लेशे भये मन्थरगामिनि, इति शब्दार्णवः। मण्डलं परिधौ कोष्ठे
७ मे० दू०
| ९६ | मेघदूतम् |
|---|
देशे द्वादशराशिषु, इति मेदिनी। स्तिमितोऽञ्च्चलाद्रेयः, इति मेदिनी। आर्द्रं क्लिन्नं निमित्तं स्तिमितं सम्मुन्नतं मुक्तञ्च, इत्यमरः। अजिनं चर्म कृत्तिः स्त्री, इत्यमरः।
टिप्पणी— पश्चात् यह अव्यय है। "अपरस्मिन्" ऐसा विग्रह करके "अपर" के स्थान में "पश्चात्" इस सूत्र से "पश्चात्" आदेश किया गया है। दधानः— धारणार्थक "धा" धातु से लट्लकार में तिप् के स्थान पर "लटः शतृशानचावप्रथमासमानाधिकरणे" इस सूत्र से "शानच्" आदेश किया गया है। उच्चैः— यह अव्यय है; इस शब्द से आयी विभक्ति का "अव्ययादाप्सुपः' इस सूत्र से 'लुक्' हो गया है।
इसका सभी वचनों एवं सभी विभक्तियों में और तीनों लिङ्गों में एक-सा ही रूप रहता है। क्योंकि अव्यय का सामान्य लक्षण है—
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
सान्ध्यम्— सन्ध्यायां भवः = सान्ध्यम् यहाँ सन्ध्या शब्द से "तत्र भव" इस सूत्र से अण् प्रत्यय लाकर "सान्ध्यम्" ऐसा रूप बनता है।
भवानी— भवस्य स्त्री इस विग्रह में "भव" शब्द से स्त्रीत्व विवक्षा में ‘इन्द्रवरुणभवशर्वरुद्रमृडहिमाऽरण्ययवयवनमातुलाऽऽचार्याणामानुक्’ इस सूत्र से "ङीप्" प्रत्यय एवं "आनुक्" का आगम हुआ है।
दृष्टभक्तिः— महाकवि का यह प्रयोग पाणिनीय व्याकरण के विरुद्ध प्रयोगों में अन्यतम है। "दृष्टा भक्तिर्यस्य" इस विग्रह में समास हो जाने के पश्चात् "स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु" इस सूत्र से "दृष्टा" इस पद को पुंवद्भाव नहीं हो सकता, क्योंकि उक्त सूत्र "प्रियादि" गणपठित शब्द से भिन्न शब्दों के परे रहते ही पुंवद्भाव करता है, जब कि "भक्ति" शब्द का पाठ "प्रियादि" गण में आता है। अतः पाणिनीय व्याकरण-सम्मत तो "दृष्टा भक्तिः' ऐसा ही प्रयोग होगा। कुछ विद्वानों ने इसको व्याकरण-सम्मत बनाने का परिश्रम किया है। उनका विग्रह "दृष्टं"
पूर्वमेघः ९७
( वस्तु ) भक्तिः यस्य" इस प्रकार है। उनका अभिप्राय है "दृष्ट" शब्द "भक्ति" का विशेषण न होकर स्वतन्त्र विशेष्य है और "प्रमाणम्—वेदः" की तरह शुद्ध है। परन्तु यह केवल खींचा-तानी ही प्रतीत होता है क्योंकि महाकवि का अभिप्राय वही है जो "दृष्टा भक्ति" से ध्वनित हो रहा है।
अलङ्कार—इस श्लोक में "भुजतरुवनम्" यहाँ भुजाओं में रूपक का आरोप होने से "रूपक" अलंकार है। "प्रतिनवजपापुष्परक्तम्" यहाँ उपमानवाची सामान्य शब्द इवादि के लोप होने से लुप्तोपमा है, एवं सान्ध्यतेज को मेघ के धारण करने से असंभव वस्तु सम्बन्ध बिम्बप्रतिबिम्बभाव व्यक्त हो रहे हैं। अतः यहाँ "निदर्शना" नामक अलंकार है। इस प्रकार तीनों की संसृष्टि होने से "संकर" नामक अलंकार है ॥ ३६ ॥
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मास्मभूर्विक्लवास्ताः ॥३७॥
अन्वयः—तत्र नक्तं रमणवसतिं गच्छन्तीनां योषितां सूचिभेद्यैः तमोभिः रुद्धालोके नरपतिपथे कनकनिकषस्निग्धया सौदामन्या उर्वीम् दर्शय तोयोत्सर्गस्तनितमुखरः मास्मभूः ताः विक्लवाः ।
व्याख्या—तत्र =उज्जयिन्याम्, नक्तम् =निशायाम्, रमणवसतिम् =प्रेमीसदनम्, गच्छन्तीनाम् =यान्तीनाम्, योषिताम् =स्त्रीणाम्, अभिसारिकाणामित्यभिप्रायः । सूचिभेद्यैः =निविडैः (कविप्रसिद्धोऽयं शब्दः), तमोभिः =अन्धकारैः, रुद्धालोके =आवृत्तप्रकाशे, नरपतिपथे =राजमार्गे, कनकनिकषस्निग्धया =हैमशाणरेखातेजसा, सौदामन्या =तडिता, उर्वीम् =पृथ्वीम् मार्गमितिभावः, दर्शय =आलोकय, तोयोत्सर्गस्तनितमुखरः =वृष्टिगर्जनवाचालः, मास्मभूः =नो भव, ( यतो हि ) ताः =प्रियसदनगन्तुमुत्सुकाः अभिसारिकाः, विक्लवाः =भीरुका भवन्ति अतः ताः त्वया न भेतव्याः ।
९८ मेघदूतम्
शब्दार्थः— तत्र = उज्जयिनी में, नक्तम् = रात्रि में, रमणवसतिम् = प्रिय के घर, गच्छन्तीनाम् = जाती हुई, योषिताम् = अभिसारिकाओं का, सूचिभेद्यैः = गहन, तमोभिः = अन्धकार से, रुद्धालोके = आवृत्त-प्रकाशवाले, नरपतिपथे = राजमार्ग पर, कनक-निकषस्निग्धया = सोने की कसौटी की रेखा की तरह तेज वाली, सौदामन्या = बिजली के द्वारा, उर्वीम् = पृथ्वी को अर्थात् मार्ग को, दर्शय = प्रदर्शन करो ( अर्थात् उन्हें रास्ता दिखलाओ ) तोयोत्सर्ग-स्तनितमुखरः = वृष्टि से तथा गर्जन से शब्दायमान, मास्मभूः = मत होना, क्योंकि, ताः = वे अभिसारिकायें, विक्लवाः = डरपोक ( भवन्ति = होती हैं )।
भावार्थः— हे मेघ ! उज्जयिन्यां रात्रौ प्रियसदनं यान्तीनां अभिसारिकाणां निविडैस्तमोभिः प्रकाशरहिते राजमार्गे स्वर्णशलाकातेजसेव विद्युता मार्गेनिदर्शनं कुरु। वृष्टिगर्जनेन ताः न भेतव्याः स्वभावेन ताः विक्लवाः भवन्ति ।
हिन्दी— हे मेघ ! उज्जयिनी में रात्रि में प्रेमी के घर जाती हुई अभिसारिकाओं का घोर अन्धकार के कारण प्रकाशहीन राजमार्ग पर कसौटी पर स्वर्ण-रेखा के तेज के समान तेजवाली बिजली के द्वारा पथ-प्रदर्शन करना। वृष्टि से तथा गर्जन से शब्दायमान मत होना क्योंकि वे अभिसारिकायें डरपोक होती हैं ।
समासः— रमणानां वसतिः ताम् = रमणवसतिम् ( ष० तत्० )। रुद्धः आलोकः यस्मिंस्तस्मिन् रुद्धालोके ( बहुव्री० )। नराणां पतिः नरपतिः ( ष० तत्० ) तस्य पथे नरपतिपथे (ष० तत्०)। सूचिभिः भेद्याः (तृ० तत्०) तैः। कनकस्य निकषः कनकनिकषः ( ष० तत्० )। तद्वत् स्निग्धं यस्याः तथा ( व्यधिकरण बहु० ), तोयोत्सर्गश्च स्तनितञ्च = तोयोत्सर्गस्तनितम् ( द्वन्द्व ) ताभ्यां मुखरः ( तृ० तत्० )।
कोशः— दोषा च नक्तञ्च रजनाविति, इत्यमरः। आलोको दर्शनोद्योतौ, इत्यमरः। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि, इत्यमरः। वसुधोर्वी वसुन्धरा, इत्यमरः।
पूर्वमेघः ९९
टिप्पणी—नक्तम्=यह अव्यय है। रमणः—रमायतीति विग्रह में क्रीडार्थक "रम्" धातु से णिच् प्रत्यय करके कर्ता में "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" इस सूत्र से ल्यु प्रत्यय करके ह्रस्वादि करके "रमण" ऐसा रूप बनता है। सूचिभेद्यैः—सूई से छेदने योग्य, यह इस शब्द का अर्थ है। परन्तु यह गाढ़े अन्धकार के लिए प्रयुक्त होता है, ऐसी कविप्रसिद्धि है। नरपतिपथेः—यहाँ नरपति शब्द का "पथिन्" शब्द के साथ समास हो जाने पर 'ऋक्पूरब्धूःपथामानक्षे' इस सूत्र से समासान्त "अ" प्रत्यय करके उपधालोपादि करके "नरपतिपथ" ऐसा रूप बनता है ! उक्तरूप उसी शब्द के सप्तमी विभक्ति का है। मुखरः—मुखमस्यास्ती विग्रह में मुख शब्द से "रप्रकरणे खमुखकुञ्जेभ्यः रः" इससे रप्रत्यय करके "मुखर" ऐसा रूप बनाया जाता है।
अलङ्कारः—यहाँ "कनक-निकषस्निग्धया" इसमें लुप्तोपमा नामक अलङ्कार है। एवं "तोयोत्सर्गस्तनितमुखरः" इसका हेतु "विक्लवास्ताः" यह पद है इसलिए वाक्यार्थहेतुक-"काव्यलिङ्ग" नामक अलङ्कार है। अतः यहाँ दोनों का "संसृष्टि" नामक अलङ्कार है ॥ ३७ ॥
तां कस्यांचिद्भवन-वलभौ सुप्तपारावतायां नीत्वा रात्रिं चिर-विलसनात्खिन्नविद्युत्कलत्रः। दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८ ॥
अन्वयः—चिरविलसनात् खिन्न-विद्युत्कलत्रः भवान् सुप्तपारावतायाम् कस्यांचित् भवनवलभौ ताम् रात्रिम् नीत्वा सूर्ये दृष्टे पुनरपि अध्वशेषम् वाहयेत्, सुहृदाम् अभ्युपेताऽर्थकृत्याः न मन्दायन्ते खलु।
व्याख्या—(हे मेघ) चिरविलसनात्=बहुकालं यावत्-स्फुरणात्, खिन्नविद्युत्कलत्रः=श्रान्तचञ्चलभार्यः, भवान्=मेघः, सुप्तपारावतायाम्=निद्रितकपोतानाम्, कस्यांचिद्=अन्यतमायाम्, भवन-वलभौ=हर्म्याच्छादनोपरि-भागे, तां रात्रिम्=तां रजनीम्, नीत्वा=व्यतीत्य सूर्ये=भानौ, दृष्टे=उदिते, पुनरपि=भूयोऽपि, अध्व-
१०० मेघदूतम्
शेषम् = मार्गावशेषम्, वाहयेत् = प्राप्नुयात्, सुहृदाम् = मित्राणाम्, अभ्युपेतार्थ- कृत्याः = अङ्गीकृत-क्रियाः, (जनाः), न खलु मन्दायन्ते = नैव मन्दाः भवन्ति ।
शब्दार्थः—चिरविलसनात् = बहुत समय तक चमकने के कारण, खिन्न- विद्युत्कलत्रः = थक गयी है बिजलीरूपी स्त्री जिसकी (ऐसे), भवान् = आप, सुप्तपारावतायाम् = जहाँ कबूतर सो गये हैं ऐसे, कस्यांचित् = किसी, भवन- वलभौ = महल के ऊपरी भाग पर, तां रात्रिम् = उस रात्रि को, नीत्वा = बिता- कर, सूर्ये = सूरज के, दृष्टे = दीखने पर अर्थात् उग जाने पर, अध्वशेषम् = अवशिष्ट मार्ग को, वाहयेत् = पार करना (क्योंकि), सुहृदाम् = मित्रों के, अभ्युपेतार्थ-कृत्याः = कार्य को (करने के लिए) अङ्गीकार कर लिया है, जिन्होंने ऐसे पुरुष, न खलु मन्दायन्ते = कभी आलस्य नहीं करते हैं ।
भावार्थः—बहु-कालं यावत् स्फुरणात् खिन्न-चञ्चलभार्यः त्वं सुप्तपारावते कस्मिश्चित् भवनस्योपरिभागे तां रात्रिमतिवाह्य सूर्योदये सति पुनः मार्गावशेषं वाहयेः । यतो हि मित्राणामङ्गी-कृतकर्तव्याः जनाः न मन्दायन्ते ।
हिन्दी—हे मेघ ! बहुत समय तक चमकने के कारण थकी हुई बिजली- रूपी पत्नीवाले तुम जहाँ कबूतर सो गये हैं ऐसे किसी भवन के ऊपरी भाग पर उस रात्रि को बिताकर सूर्योदय हो जाने पर जो मार्ग बच गया हो उसे भी पार करना, क्योंकि जिन्होंने मित्रों के कार्यों को करना स्वीकार कर लिया है, वे पुरुष कभी आलस्य नहीं करते ।
समासः—चिरं विलसनं तस्मात् (सुप्सुपेति समासः) । खिन्नं विद्युदेव कलत्रं यस्य सः = खिन्नविद्युत्कलत्रः (बहुव्री०) । सुप्ताः पारावताः यस्यां सा सुप्तपारावता (बहुव्री०) तस्याम् । भवनस्य वलभी = भवनवलभी (ष० तत्०) तस्याम् । अध्वनः शेषम् = अध्वशेषम् (ष० तत्०) । अभ्युपेता अर्थस्य कृत्या यैस्ते अभ्युपेतार्थंकृत्याः (बहु०) ।
कोशः—कलत्रं श्रोणिभार्ययोः, इत्यमरः । पारावतः कलरवः कपोतोऽथ, इत्यमरः । आच्छादन्तु वलभी छादने वक्रदारुणि, इत्यमरः । आच्छादनं स्याद्वल-
पूर्वमेघः १०१
भी गृहाणाम्, इति हलायुधः । कृत्याः क्रिया देवतयोः कार्ये स्त्री कुपिते त्रिषु, इति यादवः ।
टिप्पणी—सूर्यः—सरति आकाश इति सूर्यः । यहां “सृ” धातु से “राज-सूयसूर्य–मृषोद्यरुच्यकुप्यकृष्टपच्याऽव्यव्यथ्याः” इस सूत्र से “क्यप्” प्रत्यय एवं उत्व निपातन किया जाता है। कृत्याः—"कृ" धातु से “कृञः च” इस सूत्र से चकार बलात् “क्यप्” प्रत्यय का विधान करके “ह्रस्वस्य पिति कृति” इस सूत्र से तुक् का आगम करके स्त्रीत्व विवक्षा में टाप् करके “कृत्या” ऐसा रूप बनता है । अभ्युपेत शब्द “सुहृदाम्” पद के साथ सापेक्ष है परन्तु यहाँ गमक-त्वात् समास विधान हुआ है। मन्दायन्ते—यहाँ मन्द शब्द से “लोहितादि-डाज्भ्यः क्यष्” इस सूत्र से “क्यष्” प्रत्यय करके विकल्प से “वा यषः” इस सूत्र से आत्मनेपद हुआ है ।
अलङ्कारः—यहाँ विद्युत् में कलत्र का आरोप शाब्द एवं मेघ में पतित्व का आरोप अर्थतः होने से “एकदेशविवर्ति-रूपक” नामक अलंकार है, एवं सामान्य के द्वारा विशेष का समर्थन होने से “अर्थान्तरन्यास” नामक अलंकार है और दोनों का अङ्गाङ्गिभाव होने से “संकर” नामक अलंकार है ॥ ३८ ॥
तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलबदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥३९॥
अन्वयः—तस्मिन् काले प्रणयिभिः खण्डितानाम् योषिताम् नयनसलिलम् शान्तिम् नेयम् । भानोः वर्त्म आशु त्यज । सः अपि नलिन्याः कमलवदनात् प्रालेयास्त्रम् हर्तुम् प्रत्यावृत्तः त्वयि कररुधि अनल्पाभ्यसूयः स्यात् ।
व्याख्या—तस्मिन् = उपर्युक्ते, काले = समये, सूर्योदय-समय इत्यर्थः । प्रणयिभिः = रमणैः, खण्डितानाम् = नायिकाविशेषाणाम्, नयनसलिलम् = नेत्राम्बु अश्रुरित्यर्थः, शान्तिम् = प्रशमनम्, नेयम् = नेतव्यम् । रात्र्यन्ते प्रेमिणः अन्यथा
| १०२ | मेघदूतम् |
|---|
रमणं कृत्वा स्वकीयां खण्डितां नायिकामनुनयेन प्रार्थयन्ति, अतः भानोः=दिनकरस्य, वर्त्म = पन्थानम्, आशु=शीघ्रम्, त्यज = मुञ्च । सः = सूर्यः अपि, नलिन्याः = पद्मिन्याः, कमलवदनात् = पद्म-मुखात्, प्रालेयास्रम् = नीहारविन्दुम् हर्तुम् = दूरीकर्तुम्, प्रत्यावृत्तः, ( सन् ) त्वयि = मेघे, कररुधि = किरणावरोधे सति, अनल्पाभ्यसूयः = प्रकामेर्ष्युः, स्यात् = भवेत् ।
शब्दार्थः—तस्मिन् = पहले कहे गये, काले=समय में (सूर्योदय काल में) प्रणयिभिः=प्रेमियों के द्वारा, खण्डितानाम् = जिनके पति दूसरी स्त्री के साथ रमण करते हैं ऐसी, योषिताम् = स्त्रियों के, नयनसलिलम् = आँसुओं को, शान्तिम्=शान्त, नेयम् = करना ( होता है ), रात्रि के बीत जाने पर, जो पुरुष दूसरी स्त्रियों के साथ संभोग करते हैं वे अपनी खण्डिता पत्नी को मनाने के लिए उसकी प्रार्थना करते हैं, अतः भानोः=सूर्य के, वर्त्म=मार्ग को, आशु=शीघ्रता से, त्यज = छोड़ देना, क्योंकि, सः = सूर्य, अपि = भी, नलिन्याः = कमलिनी के, कमल-वदनात् = कमलरूपी मुँह से, प्रालेयास्रम्=ओस-कणरूपी आँसुओं को, हर्तुम् = दूर करने के लिए, प्रत्यावृत्तः = लौटा हुआ रहता है, त्वयि = तुम्हारे ( द्वारा ), कररुधि=किरण के रोके जाने पर, अनल्पाभ्यसूयः=अत्यधिक द्वेष वाले, स्यात् = हो जायेंगे ।
भावार्थः—हे मेघ ! सूर्योदय-काले, वल्लभैः खण्डितानां कामिनीनां नेत्राश्रु शमनीयं भवत्यतः भानुपथं त्वरितं मुञ्च । यतो हि सूर्योऽपि नलिन्याः पद्मरूपान्मुखान्मिहिकारूपमश्रु निवारयितुं प्रत्यागतः ( भवति ) तस्मिन् काले त्वयि तदीयकरावरोधके सति सः त्वां प्रत्यधिकेष्र्यं भवेत् ।
हिन्दी—हे मेघ ! सूर्योदय-काल में प्रेमियों को अपनी खण्डिता पत्नियों के आँसुओं को दूर करना रहता है अर्थात् तुम सूर्य के मार्ग को शीघ्र छोड़ देना । क्योंकि वे भी अपनी प्रिया कमलिनी के कमलरूपी मुख से ओसरूपी आँसू को हटाने के लिए, वापस आते हैं, उस समय यदि तुम (उनके) हाथों (किरणों) के बाधक बनोगे तो वे (तुम्हारे प्रति) अधिक क्रुद्ध हो जायेंगे ।
समासः—नयनयोः सलिलं=नयनसलिलम् ( ष० तत्० )। कमलमेक
पूर्वमेघः | १०३
वदनम् = कमलवदनम् ( रूपककर्मधा० ) तस्मात् । न अल्पा = अनल्पा (नञ्) अनल्पा अभ्यसूया यस्य स = अनल्पाभ्यसूयः ( बहुव्री० ) ।
कोषः—अयनं वर्त्म मार्गाऽध्व, इत्यमरः । सलिलं कमलं जलम्, इत्यमरः, तृणेऽम्बुजे नलं वा तु राज्ञि नाले तु न स्त्रियाम्, इति शब्दार्णवः । प्रालेयं मिहिकाचार्था, इत्यमरः । अस्रकोणे कचे पुंसि क्लीबमश्रुणि शोणिते, इति मेदिनी । बलिहस्तांशवः, कराः, इत्यमरः ।
टिप्पणी—खण्डितानाम्—वैसे तो नायिका के बहुत भेदोपभेद हैं पर मुख्य आठ भेदों में “खण्डिता” भी एक नायिका का विशेष भेद होता है । “खण्डिता नायिका” उसे कहते हैं जिनके पति रात्रि में किसी दूसरी स्त्री के साथ विहार करते हैं और वह यह जान जाती है कि मेरे पति अमुक स्त्री के साथ रात्रि व्यतीत करते हैं । यहाँ सूर्य अस्ताचल पर जाकर उधर की कमलिनियों के साथ विहार करते हैं अतः इधर की कमलिनियाँ खण्डिता हुईं । मैंने हिन्दी एवं संस्कृत दोनों व्याख्याओं में इस बात का संकेत किया है ।
शान्ति नेयम्—‘‘नी’’ धातु द्विकर्मक है, अतः “नयनसलिलम्” यह पद यहाँ मुख्य कर्म है एवं “सलिलम्” यह गौणकर्मवाची पद है । प्रत्यावृत्तः—प्रति उपसर्गपूर्वक ‘वृत्’ धातु से “क्त” प्रत्यय करके “प्रत्यावृत्तः” ऐसा रूप बनता है । कररुधि—‘कर’ उपपदपूर्वक “रुध्” धातु से क्विप् प्रत्यय करके उसका सर्वापहारी लोप करके “कररुध्” ऐसा शब्द बनता है । यह रूप उसी शब्द के सप्तमी विभक्ति का है ।
अलङ्कारः—यहाँ “भानोः वर्त्म त्यज” इस पूर्वार्द्धकथित वाक्य का उत्तरार्द्ध का वाक्यार्थ हेतु है, अतः “काव्यलिङ्ग” अलङ्कार है । और लिङ्ग-समानता से नलिनी में नायिका और सूर्य में नायक का आरोप होने से “समासोक्ति” अलङ्कार है, एवं “कररुधि” इस शब्द के “कर” में “श्लेष” अलङ्कार है । एवं तीनों का अङ्गाङ्गिभाव होने से “संकर” नामक अलङ्कार है ॥३९॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
१०४ मेघदूतम्
तस्मादस्याः कुमुदविशदान्यर्हंसि त्वं न धैर्यान्-
मोघीकर्तुं चदुलशफरोद्वर्तन—प्रेक्षितानि ॥ ४० ॥
अन्वयः—गम्भीरायाः सरितः चेतसि इव प्रसन्ने पयसि प्रकृतिसुभगः ते याऽऽत्मा अपि प्रवेशम् लप्स्यते । तस्मात् अस्याः कुमुद-विशदानि चदुलशफ-रोद्वर्तन-प्रेक्षितानि त्वम् धैर्यात् मोघीकर्तुम् न अर्हसि ।
व्याख्या—हे मेघ ! गम्भीरायाः एतन्नामिकायाः, सरितः=नद्याः, चेतसि मानसे, इव=यथा, प्रसन्ने=स्वच्छे, पयसि=जले, प्रकृतिसुभगः=शाश्वतिकमनोहरः, ते=तव मेघस्येति यावत्; छायात्माऽपि=प्रतिबिम्बस्वरूपआत्माऽपि; प्रवेशम्=निवेशम्, लप्स्यते=प्राप्स्यति । तस्मात्=तत्कारणात्, तस्याः=गम्भीरायाः, कुमुदविशदानि=कैरवोज्ज्वलानि, चदुलशफरोद्वर्तनप्रेक्षितानि=चञ्चलमत्स्योल्लुण्ठनानि, त्वम्=मेघः, धैर्यात्=धीरत्वात्, मोघीकर्तुम्=विफलीकर्तुम्, न अर्हसि=न योग्योऽसि ।
शब्दार्थः—(हे मेघ !) गम्भीरायाः=गम्भीरा नाम की, सरितः=नदी के, चेतसि=हृदय, इव=की तरह, प्रसन्ने=निर्मल, पयसि=जल में, प्रकृतिसुभगः=स्वभाव से सुन्दर, ते=तुम्हारा, छायात्माऽपि=छायारूपी शरीर भी, प्रवेशम्=प्रवेश को, लप्स्यते=प्राप्त करेगा । तस्मात्=इस कारण से, अस्याः=इस गम्भीरा नदी के, कुमुदविशदानि=कुमुद के समान धवल, चदुलशफरोद्वर्तनप्रेक्षितानि=चञ्चल मछलियों के उच्छलन रूप चितवनों को, त्वम्=तुम, धैर्यात्=धीरता से, मोघीकर्तुम्=निष्फल करने मे, न अर्हसि=समर्थ नहीं हो ।
भावार्थः—हे मेघ ! गम्भीरायाः प्रसन्नहृदय इव स्वच्छे जले प्रतिबिम्बरूपेण प्रविष्टो हि त्वं गम्भीरया नद्या कयाचिदुदात्तनायिकयेव चञ्चलमत्स्योल्लुण्ठन-रूपैरवलोकनै रवलोकयिष्यसे । त्वमपि धैर्यमाश्रित्य तदवलोकनं निष्फली कर्तुं न समर्थोऽसि ।
हिन्दी—हे मेघ ! गम्भीरा नदी के प्रसन्न हृदय के समान निर्मल जल में छायारूप से प्रविष्ट तुम्हें गम्भीरा नदी किसी उदात्त नायिका की तरह चञ्चल-
पूर्वमेघ १०५
मछलियों के उद्वर्त्तन ( उछलन ) रूपी चितवनों से देखेगी । तुम भी, धीरता का अवलम्बन कर उसके अवलोकन को व्यर्थ मत होने देगा ।
समासः—प्रकृत्या सुभगः = प्रकृति-सुभगः ( तृ० तत्० ) । छाया चासौ आत्मा च छायात्मा ( कर्म० धा० ) । कुमुदानीव विशदानि = कुमुदविशदानि ( उपमानकर्म० ) । चटुलानि च तानि शफरोद्वर्त्तनानि चटुलशफरोद्वर्त्तनानि ( कर्मधा० ), तान्येव प्रेक्षितानि = चटुल-शफरोद्वर्तनप्रेक्षितानि ( रूपक० ) ।
कोशः—चित्तन्तु-चेतो हृदयम्, इत्यमरः । सुन्दरेऽधिकभाग्ये च दुर्दिनेतर-वासरे । तुरीयांशे श्रीमत्ति च सुभगः, इति शब्दार्णवः । सिते कुमुदे कैरवे, इत्यमरः । त्रिषु स्याच्चटुलं शीघ्रम् इति विश्वः ।
टिप्पणी—प्रकृतिसुभगः—यहाँ 'प्रकृति' शब्द से प्रकृत्यादिभ्यः उपसंख्यानम्' इस सूत्र से तृतीया विभक्ति आती है तब तृतीया समास होता है । प्रवेशः—'प्र' उपसर्गपूर्वक प्रवेशार्थक 'विश' धातु से घञ् प्रत्यय करके 'प्रवेश' ऐसा रूप बनता है । कुमुदविशदानि = इस पद का विग्रह तो समास के समय प्रदर्शित किया गया है । यहाँ महोपाध्याय पं० मल्लिनाथजी ने 'कुमुदवत् विशदानि' ऐसा विग्रह किया है । यहाँ कुमुद' शब्द से 'तत्र तस्येव' इस सूत्र से 'वति' प्रत्यय किया गया है, न कि 'तेन तुल्यं क्रिया चेद्वतिः' इस सूत्र से, और इस सूत्र से 'क्रिया' पद की अनुवृत्ति भी 'तत्र तस्येव' इस सूत्र में नहीं जाती है । अतः 'वति', प्रत्यय होने में कोई अनुपपत्ति नहीं है । कुछ टीकाकार जैसे कि विद्याविनोद, शारदारञ्जन राय और संसारचन्द्र जी एवं मोहनदेव पन्त जी इत्यादि विद्वानों ने महोपाध्याय के उपर्युक्त विग्रह का खण्डन किया है, सम्भव है उन्हें 'तत्र तस्येव' यह सूत्र ध्यान में न रहा हो—धैर्यात्—'धीर' शब्द से 'ष्यञ्' प्रत्यय करके धैर्यं यह रूप बनता है । उक्त रूप पञ्चमी विभक्ति का है । यहां पञ्चमी विभक्ति 'ल्यब्लोपे कर्मण्यधिकरणे च' इस सूत्र से हुई है । यहाँ 'आश्रित्य' इस ल्यबन्त पद का लोप हुआ है ।
अलङ्कारः—यहाँ 'संकर' नामक अलङ्कार है । क्योंकि यहाँ पयः का चेतः से, प्रेक्षितों का कुमुदों के साथ समानता ( सादृश्य ) होने से शाब्दी उपमा